अद्वैतशारदा

वक्तव्यकाशिका (पञ्चपादिका व्याख्या)

८ परिच्छेदः

प्रदर्शितमिति ।
सूत्रेणेत्यर्थः । प्रदर्शितानि वाक्यानि यद्यपि प्रति­पा­द­य­न्ती­त्य­न्वयः ।

प्रमाणान्तरस्य विरोधित्वेनोदये विरो­धा­द­वि­रो­धे­नो­दये अनु­वा­दा­द­नु­द­येऽ­र्था­भा­वात् अप्रामाण्यं वाक्य­स्ये­त्य­भि­प्रे­त्याह -
परिनिष्ठित इति ।
असा­ध्य­स्व­भा­व­व­स्तु­नी­त्यर्थः ।

असंवादशब्देन प्रमा­णा­न्त­रा­णा­म­नु­दय उच्यते ।
सत्यमिति ।
अन­पे­क्ष­त्व­म­स्त्ये­वे­त्यर्थः ।

असंवादादिति ।

समतलमिति ।
विसंवादाच्चेति भावः ।

तथा इहापि स्यादिति ।
अहं मनुष्य इति प्रत्यक्षेण विसंवादाच्च ब्रह्मै­क­त्व­श्रुतिः अप्रमाणं स्यादित्यर्थः ।

पुरु­षा­र्थ­शू­न्य­त्वा­द­प्रा­मा­ण्य­मिति ।
अपुरुषार्थे तात्प­र्या­भा­वा­दिति भावः ।

हानो­पा­दा­न­वि­ष­या­विति ।
प्रवृ­त्ति­न्नि­वृ­त्ति­सा­ध्या­वि­त्यर्थः ।

न सिद्ध इति ।
सिद्धत्वात् क्रियात्वेन साध्य­त्व­म­क्रि­या­शे­ष­त्वात् क्रियाशेषतया साध्यत्वं च नास्तीत्यर्थः ।

उपपन्ना वेति ।
अतो वेदा­न्त­वा­क्या­ना­मपि विधि­सं­स्प­र्श­म­न्त­रेण अर्थ­व­त्ता­नु­प­पन्ना इत्यर्थः ।

अविषये
ब्रह्मणीत्यर्थः ।

शब्दमात्रस्येति ।
विधि­र­हि­त­वा­क्य­स्ये­त्यर्थः ।

शास्त्रस्येति ।
विधिपदयुक्तवाक्य­स्ये­त्यर्थः ।

नान­व­ग­ता­र्थ­प्र­का­शन इति ।
अतोऽवगतविषयत्वे वक्तव्ये प्रमा­णा­न्त­रे­णा­व­ग­त्य­भा­वात् विधि­स्प­र्शा­भा­वाच्च न ब्रह्मणि प्रामाण्यमिति भावः

संवादाभावादिति ।
जगत्कारणं सर्वज्ञं ब्रह्मैवेत्यत्र प्रमा­णा­न्त­र­सं­वा­दा­भा­वा­दि­त्यर्थः ।

सत्यमिति ।
न कारणे सर्व­ज्ञ­त्वा­दि­प्र­ति­पा­द­नेन विधिशेषत्वं वाक्यस्योच्यते भाष्यकारेण, किन्त्वा­रो­पि­त­रू­प­क­थ­ने­ने­त्यर्थः ।

उपा­स­ना­प्र­क­र­णा­दपि भिन्न­प्र­क­र­ण­त्वात् न वेदा­न्ता­ना­मु­पा­स­ना­वि­धि­शे­ष­त्व­मिति तत्राह -
एवं चाध्ययनविधीति ।

वेदान्तैर्ब्रह्म­सा­क्षा­त्का­रा­भावे तेषां निष्फलत्वमिति तत्राह -
फलं चेति ।

सूत्रं व्याचष्टे -
तत् ब्रह्म सर्व­ज्ञ­त्वा­दी­त्या­दिना ।

सूत्र­ग­त­स­मि­त्यंशं व्याचष्टे -
सम्यगन्वय इत्यादिना ।
पदानामनुगम इति सम्बन्धः ।

गवा­न­य­न­वा­क्य­स्थ­प­दानां शुक्लो घट इति वाक्यस्थपदानां यथा भिन्न­प­दा­र्थ­सं­स­र्ग­वि­ष­य­त­या­न्वयः न तथेह पदानामन्वय इत्याह -
अन­व­च्छि­न्ना­र्था­ना­मिति ।
अभि­न्ना­र्था­ना­मि­त्यर्थः ।

अभि­न्ना­र्थ­नि­ष्ठ­त्वेऽ­प्यु­द्भि­द्या­ग­श­ब्द­यो­रिव न नियो­गा­पे­क्ष­या­न्वय इत्याह -
अन­न्या­का­ङ्क्षा­णा­मिति ।

पदार्थानामपि क्रिया­का­र­का­णा­मि­वा­न्वयं व्यावर्तयति -
अव्यतिरिक्तेति ।

शुक्ल­घ­टा­दी­ना­मि­वा­न्वयं व्यावर्तयति -
एकरसेति ।

विभ­क्त्य­भि­धे­य­का­र­क­त्वा­दि­भेदो न प्रमे­य­म­नु­प्र­वि­श­ती­त्याह -
प्रातिपदिकेति ।

प्रथ­मा­वि­भ­क्त्य­र्थ­भू­त­लि­ङ्ग­स­ङ्ख्या­प­रिमाणादी­ना­म­प्य­नु­प्र­वेशो नास्तीत्याह -
मात्रेति ।
अनुगमः अन्वय इत्यर्थः ।

अप­र्या­य­श­ब्द­वा­च्य­त्वात् भिन्नार्थत्वं स्यादि­त्या­शङ्क्य ब्रह्मा­त्मै­क­त्व­प­र­वा­क्य­जा­त­स्यै­क­र­सा­र्थ­वृ­त्ति­ता­या­मु­दा­ह­र­ण­माह -
सोऽयमित्यादीति ।

सत्य­ज्ञा­ना­दि­ब्र­ह्म­स्व­रू­प­प­र­वा­क्य­जा­त­स्यै­क­र­सा­र्थ­वृ­त्ति­ता­या­मु­दा­ह­र­ण­माह -
प्रकृ­ष्ट­प्र­का­श­श­ब्द­यो­रि­वेति ।

तयो­रे­का­र्थ­नि­ष्ठ­ता­मेव दर्शयति -
तथा च व्यक्तिविशेष इति ।

तदेवं प्रतिवचनं भवतीति ।
प्रका­श­सा­मा­न्यस्य प्रकर्षगुणस्य चन्द्र­प्रा­ति­प­दि­का­भि­धे­य­त्वा­भा­वात् । प्रका­श­प्र­क­र्ष­श­ब्दयोः स्वाभि­म­ता­भि­धे­यत्वाभावात् । प्रकाशसामान्यं प्रकर्षगुणं च परित्यज्य लक्षणया प्रकाशव्यक्तौ चन्द्र­प्रा­ति­प­दि­कार्थे वृत्ति­रि­त्य­भ्यु­प­गमे प्रतिवचनं भवतीत्यर्थः ।

गुणगुण्यन्वयः क्रिया­का­र­का­न्वयो वा किं न स्यादित्यत आह -
एवं च सतीति ।

पर­स्प­रा­व­च्छि­न्नेति ।
पर­स्प­रा­भि­न्ने­त्यर्थः । एक­मे­वा­द्वि­ती­य­मि­त्या­दि­भे­द­प्र­ति­षे­धा­दिति भावः ।

तथाविधानीति ।
एक­र­सा­र्थ­नि­ष्ठा­नी­त्यर्थः ।

उदाहरणेष्वेवेति ।
यतो वा इमा­नी­त्या­दि­वा­क्ये­ष्वे­वे­त्यर्थः ।

उदहरणान्तरेणेति ।
सदे­वे­त्या­दि­वा­क्ये­ने­त्यर्थः ।

तटस्थस्यैवेति ।
जीवात् पृथ­ग्भू­त­स्यै­वे­त्यर्थः ।

इह त्विति ।
समन्वयसूत्र इत्यर्थः ।

तथाभूतान्येवेति ।
जीवस्य ब्रह्मा­त्म­ता­व­ग­ति­प­र्य­न्ता­न्ये­वे­त्यर्थः ।

शब्दस्य प्रामाण्यं किं सम्बन्धग्रहणाय शब्दार्थं प्रमा­णा­न्त­र­वि­ष­य­म­पे­क्षते, किं वा शब्दस्य प्रमा­णा­न्त­र­स­म्भि­न्ना­र्थ­वि­ष­य­त्वा­द­पे­क्षत इति विकल्प्य प्रथ­म­प­क्षोऽ­ङ्गी­कृत इत्याह -
यद्यपि शब्दमात्रस्येति ।

प्रयोगो दृष्टः इति
उत्तमवृद्धस्य प्रयोगो दृष्ट इत्यर्थः ।

द्विती­य­प­क्षोऽ­नु­प­पन्न इत्याह -
व्युत्पत्ता तु कथमिति ।
केवलार्थशब्दस्य शक्तिं गृह्णातीति भावः ।

तदेवोपपादयति -
श्रोतृव्यवहारो हीति ।

स च श्रोतुरिति ।
केव­ला­र्थ­ज्ञा­न­नि­मित्तः, श्रोतु­र्व्य­व­हारः, न तु वक्तु­र्ज्ञा­न­स­म्भि­न्ना­र्थ­वि­ष­य­ज्ञा­न­नि­मित्तः अतः परिशुद्ध इत्यर्थः ।

ज्ञाना­न्त­र­सि­द्धा­र्था­व­बो­ध­क­त्व­मिति ।
वक्तृ­ज्ञा­न­वि­शि­ष्टा­र्था­व­बो­ध­कत्वं शब्दस्य नावगतमित्यर्थः ।

तेनानवगम्यैवेति ।
अर्थ­वि­ष­य­व­क्तृ­ज्ञा­न­म­र्थ­वि­शे­ष­ण­त­याऽ­न­व­ग­म्यैव केवलार्थे न शब्दस्य सम्बन्धावगम इत्यर्थः ।

यथावगमं चेति ।
बालो यदा श्रोता भवति तदा तस्य केवलार्थे शब्दा­द्वि­ज्ञा­नो­त्प­त्ति­र्भ­वति न वक्तु­र्ज्ञा­न­वि­शि­ष्टार्थ इत्यर्थः । बालोऽ­व्यु­त्पन्नः पश्चा­दु­त्त­म­वृद्धो यदा भवति तदा ज्ञाना­न्त­रे­णा­र्थ­म­व­गम्य विवक्षित्वा परस्मै प्रयुङ्क्ते तत्र प्रमा­णा­न्त­र­वि­व­क्षयोः उपयोगमिति मध्यमवृद्धस्य शब्दात् ज्ञानो­त्प­त्ता­व­र्थ­वि­शे­ष­ण­तया शाब्दज्ञानं प्रति विषयत्वेन तयोरुपयोगं न प्रतिपद्यत इत्यर्थः ।

प्रमा­णा­न्त­र­गृ­ही­ता­र्थ­प्र­का­शन इति ।
प्रमा­णा­न्त­र­वि­शि­ष्टा­र्थ­प्र­का­शन इत्यर्थः ।

कथ­म­प्रा­मा­ण्य­मा­श­ङ्क्ये­तेति ।
अनपेक्षत्वात् प्रमा­णा­न्त­र­सं­वा­दा­दिना नाप्रा­मा­ण्य­मि­त्यर्थः ।

प्रमेयगतदोषादेव चित्र­नि­म्नो­न्न­ता­दि­ज्ञा­न­वत् ब्रह्मज्ञानमपि मिथ्येति नेत्याह -
प्रमे­य­स्ये­त्या­दिना ।

विषयस्य ज्ञान­हे­तु­त्वा­भावे कथं ज्ञानस्य विषयाकारतेति तत्राह -
शब्दस्यैवेति ।

तदे­क­नि­ष्ठ­त्वे­नेति ।
शब्द­सा­म­र्थ्य­स्या­र्थ­नि­ष्ठ­त्वात् ज्ञान­स्या­र्था­का­र­ते­त्यर्थः ।

तर्हि संवादार्थं ब्रह्मणि प्रमाणान्तरं वक्तव्यमिति नेत्याह -
न संवादलक्षणमिति ।

बोधलक्षणमिति ।
अज्ञा­ता­र्थ­बो­ध­गम्यं प्रामा­ण्य­मि­त्यर्थः ।

स्वरू­प­वा­क्या­ना­म­पीति ।
ब्रह्मा­त्मै­क्य­प्र­ति­पा­द­क­वा­क्या­ना­म­पी­त्यर्थः ।

सूत्रवचनविरोध इति चोदयति -
ननु विधि­वा­क्या­ना­मे­वेति ।

सूत्र­का­र­प्रा­मा­ण्या­दे­वा­म्ना­यस्य क्रिया­र्थ­त्व­मिति नेत्याह -
न ह्येकमपीति ।

प्रवर्तकं प्रमाणमिति लक्ष­णा­द्वि­धि­वा­क्य­मेव प्रमाणं न बोधकं प्रमाणमिति नेत्याह -
प्रत्य­क्षा­दि­ष्व­पीति ।

ननु भिन्नमेव प्रमाणलक्षणं प्रत्यक्षादिषु वस्तु­मा­त्रा­व­बोधः प्रमाणलक्षणं, प्रवृ­त्ति­नि­वृत्ती तु वस्तु­स्व­भा­वा­नु­रो­धिन्यौ, न प्रमाणफलं, शब्दे तु पुनः प्रवृ­त्ति­नि­वृ­त्ति­फ­ल­प­र्यन्त एव प्रमाणव्यापारः श्रोतुः पुरु­षा­र्थ­मु­द्दिश्य शब्दप्रयोगात् प्रवृ­त्ति­नि­वृ­त्ति­शून्ये भूते वस्तुनि न शब्द­प्रा­मा­ण्य­मि­त्याह -
आह युक्तमित्यादिना ।

तावतेति ।
अज्ञा­ता­र्थ­बो­ध­क­त्वा­दे­वे­त्यर्थः ।

अपे­क्षा­न्त­रा­भा­वा­दिति ।
विषयस्य पुरु­षा­र्थ­त्वा­पे­क्षा­भा­वा­दि­त्यर्थः ।

विध्या­न­र्थ­क्येति ।
अध्य­य­न­वि­ध्या­न­र्थ­क्य­प्र­स­ङ्गा­दि­त्यर्थः ।

न त्वित्थमन्यथा वेति ।
प्रवृ­त्ति­नि­वृ­त्ति­सा­ध्य­मेव स्यादसाध्यं मे स्यादिति वा नापेक्षत इत्यर्थः ।

पुरुषार्थश्चेत् साध्य एवेति निश्चिनुयादिति तत्राह -
न चास्येति ।

ननु सर्वः साध्य एव पुरुषार्थः, न तु सिद्धस्वभावः प्रेप्सा­गो­च­र­त्वा­भा­वा­दिति तत्राह -
द्विविधं चेष्टमिति
किञ्चि­त्प्रा­प्त­म­पी­त्यत्र भ्रान्त्या अप्राप्तं प्रेप्स­ती­त्य­न्वयः । भ्रान्त्या अपरिहृतं परि­जि­ही­र्ष­ती­त्य­न्वयः ।

प्राप्य­प­रि­हा­र्य­यो­रिति ।
ग्राम­ग­र्त­यो­रि­त्यर्थः ।

साध­न­ज्ञा­ना­य­त्त­त्वा­दिति ।
साध­न­ज्ञा­न­त­द­नु­ष्ठा­ना­य­त्त­त्वा­दि­त्यर्थः ।

इतरयोरिति ।
प्राप्त­सु­व­र्ण­प­रि­हृ­त­स­र्प­यो­रि­त्यर्थः ।

एवमपीति ।
ज्ञान­मा­त्रे­ण­ल­भ्य­मा­न­म­पी­त्यर्थः ।

साधनसाध्यात् ज्ञान­ल­भ्य­स्या­ति­श­येन पुरुषार्थतामा -
सुतरां चाभिनन्दतीति ।

ब्रह्मा­त्मै­कत्वे प्रतिपाद्यमाने ज्ञानमात्रलभ्यः पुरु­षा­र्थोऽ­स्ती­त्याह -
अने­का­न­र्थ­क­लु­षि­त­मि­वेति ।

न विध्या­न­र्थ­क्य­प्र­सङ्ग इति ।
नाध्य­य­न­वि­ध्या­न­र्थ­क्य­प्र­सङ्ग इत्यर्थः । इति परानन्द || इति अष्ट­म­व­र्ण­क­का­शिका ||