वक्तव्यकाशिका (पञ्चपादिका व्याख्या)
८ परिच्छेदः
प्रदर्शितमिति ।
सूत्रेणेत्यर्थः । प्रदर्शितानि वाक्यानि यद्यपि प्रतिपादयन्तीत्यन्वयः ।
प्रमाणान्तरस्य विरोधित्वेनोदये विरोधादविरोधेनोदये अनुवादादनुदयेऽर्थाभावात् अप्रामाण्यं वाक्यस्येत्यभिप्रेत्याह -
परिनिष्ठित इति ।
असाध्यस्वभाववस्तुनीत्यर्थः ।
असंवादशब्देन प्रमाणान्तराणामनुदय उच्यते ।
सत्यमिति ।
अनपेक्षत्वमस्त्येवेत्यर्थः ।
असंवादादिति ।
समतलमिति ।
विसंवादाच्चेति भावः ।
तथा इहापि स्यादिति ।
अहं मनुष्य इति प्रत्यक्षेण विसंवादाच्च ब्रह्मैकत्वश्रुतिः अप्रमाणं स्यादित्यर्थः ।
पुरुषार्थशून्यत्वादप्रामाण्यमिति ।
अपुरुषार्थे तात्पर्याभावादिति भावः ।
हानोपादानविषयाविति ।
प्रवृत्तिन्निवृत्तिसाध्यावित्यर्थः ।
न सिद्ध इति ।
सिद्धत्वात् क्रियात्वेन साध्यत्वमक्रियाशेषत्वात् क्रियाशेषतया साध्यत्वं च नास्तीत्यर्थः ।
उपपन्ना वेति ।
अतो वेदान्तवाक्यानामपि विधिसंस्पर्शमन्तरेण अर्थवत्तानुपपन्ना इत्यर्थः ।
अविषये
ब्रह्मणीत्यर्थः ।
शब्दमात्रस्येति ।
विधिरहितवाक्यस्येत्यर्थः ।
शास्त्रस्येति ।
विधिपदयुक्तवाक्यस्येत्यर्थः ।
नानवगतार्थप्रकाशन इति ।
अतोऽवगतविषयत्वे वक्तव्ये प्रमाणान्तरेणावगत्यभावात् विधिस्पर्शाभावाच्च न ब्रह्मणि प्रामाण्यमिति भावः ।
संवादाभावादिति ।
जगत्कारणं सर्वज्ञं ब्रह्मैवेत्यत्र प्रमाणान्तरसंवादाभावादित्यर्थः ।
सत्यमिति ।
न कारणे सर्वज्ञत्वादिप्रतिपादनेन विधिशेषत्वं वाक्यस्योच्यते भाष्यकारेण, किन्त्वारोपितरूपकथनेनेत्यर्थः ।
उपासनाप्रकरणादपि भिन्नप्रकरणत्वात् न वेदान्तानामुपासनाविधिशेषत्वमिति तत्राह -
एवं चाध्ययनविधीति ।
वेदान्तैर्ब्रह्मसाक्षात्काराभावे तेषां निष्फलत्वमिति तत्राह -
फलं चेति ।
सूत्रं व्याचष्टे -
तत् ब्रह्म सर्वज्ञत्वादीत्यादिना ।
सूत्रगतसमित्यंशं व्याचष्टे -
सम्यगन्वय इत्यादिना ।
पदानामनुगम इति सम्बन्धः ।
गवानयनवाक्यस्थपदानां शुक्लो घट इति वाक्यस्थपदानां यथा भिन्नपदार्थसंसर्गविषयतयान्वयः न तथेह पदानामन्वय इत्याह -
अनवच्छिन्नार्थानामिति ।
अभिन्नार्थानामित्यर्थः ।
अभिन्नार्थनिष्ठत्वेऽप्युद्भिद्यागशब्दयोरिव न नियोगापेक्षयान्वय इत्याह -
अनन्याकाङ्क्षाणामिति ।
पदार्थानामपि क्रियाकारकाणामिवान्वयं व्यावर्तयति -
अव्यतिरिक्तेति ।
शुक्लघटादीनामिवान्वयं व्यावर्तयति -
एकरसेति ।
विभक्त्यभिधेयकारकत्वादिभेदो न प्रमेयमनुप्रविशतीत्याह -
प्रातिपदिकेति ।
प्रथमाविभक्त्यर्थभूतलिङ्गसङ्ख्यापरिमाणादीनामप्यनुप्रवेशो नास्तीत्याह -
मात्रेति ।
अनुगमः अन्वय इत्यर्थः ।
अपर्यायशब्दवाच्यत्वात् भिन्नार्थत्वं स्यादित्याशङ्क्य ब्रह्मात्मैकत्वपरवाक्यजातस्यैकरसार्थवृत्तितायामुदाहरणमाह -
सोऽयमित्यादीति ।
सत्यज्ञानादिब्रह्मस्वरूपपरवाक्यजातस्यैकरसार्थवृत्तितायामुदाहरणमाह -
प्रकृष्टप्रकाशशब्दयोरिवेति ।
तयोरेकार्थनिष्ठतामेव दर्शयति -
तथा च व्यक्तिविशेष इति ।
तदेवं प्रतिवचनं भवतीति ।
प्रकाशसामान्यस्य प्रकर्षगुणस्य चन्द्रप्रातिपदिकाभिधेयत्वाभावात् । प्रकाशप्रकर्षशब्दयोः स्वाभिमताभिधेयत्वाभावात् । प्रकाशसामान्यं प्रकर्षगुणं च परित्यज्य लक्षणया प्रकाशव्यक्तौ चन्द्रप्रातिपदिकार्थे वृत्तिरित्यभ्युपगमे प्रतिवचनं भवतीत्यर्थः ।
गुणगुण्यन्वयः क्रियाकारकान्वयो वा किं न स्यादित्यत आह -
एवं च सतीति ।
परस्परावच्छिन्नेति ।
परस्पराभिन्नेत्यर्थः । एकमेवाद्वितीयमित्यादिभेदप्रतिषेधादिति भावः ।
तथाविधानीति ।
एकरसार्थनिष्ठानीत्यर्थः ।
उदाहरणेष्वेवेति ।
यतो वा इमानीत्यादिवाक्येष्वेवेत्यर्थः ।
उदहरणान्तरेणेति ।
सदेवेत्यादिवाक्येनेत्यर्थः ।
तटस्थस्यैवेति ।
जीवात् पृथग्भूतस्यैवेत्यर्थः ।
इह त्विति ।
समन्वयसूत्र इत्यर्थः ।
तथाभूतान्येवेति ।
जीवस्य ब्रह्मात्मतावगतिपर्यन्तान्येवेत्यर्थः ।
शब्दस्य प्रामाण्यं किं सम्बन्धग्रहणाय शब्दार्थं प्रमाणान्तरविषयमपेक्षते, किं वा शब्दस्य प्रमाणान्तरसम्भिन्नार्थविषयत्वादपेक्षत इति विकल्प्य प्रथमपक्षोऽङ्गीकृत इत्याह -
यद्यपि शब्दमात्रस्येति ।
प्रयोगो दृष्टः इति ।
उत्तमवृद्धस्य प्रयोगो दृष्ट इत्यर्थः ।
द्वितीयपक्षोऽनुपपन्न इत्याह -
व्युत्पत्ता तु कथमिति ।
केवलार्थशब्दस्य शक्तिं गृह्णातीति भावः ।
तदेवोपपादयति -
श्रोतृव्यवहारो हीति ।
स च श्रोतुरिति ।
केवलार्थज्ञाननिमित्तः, श्रोतुर्व्यवहारः, न तु वक्तुर्ज्ञानसम्भिन्नार्थविषयज्ञाननिमित्तः अतः परिशुद्ध इत्यर्थः ।
ज्ञानान्तरसिद्धार्थावबोधकत्वमिति ।
वक्तृज्ञानविशिष्टार्थावबोधकत्वं शब्दस्य नावगतमित्यर्थः ।
तेनानवगम्यैवेति ।
अर्थविषयवक्तृज्ञानमर्थविशेषणतयाऽनवगम्यैव केवलार्थे न शब्दस्य सम्बन्धावगम इत्यर्थः ।
यथावगमं चेति ।
बालो यदा श्रोता भवति तदा तस्य केवलार्थे शब्दाद्विज्ञानोत्पत्तिर्भवति न वक्तुर्ज्ञानविशिष्टार्थ इत्यर्थः । बालोऽव्युत्पन्नः पश्चादुत्तमवृद्धो यदा भवति तदा ज्ञानान्तरेणार्थमवगम्य विवक्षित्वा परस्मै प्रयुङ्क्ते तत्र प्रमाणान्तरविवक्षयोः उपयोगमिति मध्यमवृद्धस्य शब्दात् ज्ञानोत्पत्तावर्थविशेषणतया शाब्दज्ञानं प्रति विषयत्वेन तयोरुपयोगं न प्रतिपद्यत इत्यर्थः ।
प्रमाणान्तरगृहीतार्थप्रकाशन इति ।
प्रमाणान्तरविशिष्टार्थप्रकाशन इत्यर्थः ।
कथमप्रामाण्यमाशङ्क्येतेति ।
अनपेक्षत्वात् प्रमाणान्तरसंवादादिना नाप्रामाण्यमित्यर्थः ।
प्रमेयगतदोषादेव चित्रनिम्नोन्नतादिज्ञानवत् ब्रह्मज्ञानमपि मिथ्येति नेत्याह -
प्रमेयस्येत्यादिना ।
विषयस्य ज्ञानहेतुत्वाभावे कथं ज्ञानस्य विषयाकारतेति तत्राह -
शब्दस्यैवेति ।
तदेकनिष्ठत्वेनेति ।
शब्दसामर्थ्यस्यार्थनिष्ठत्वात् ज्ञानस्यार्थाकारतेत्यर्थः ।
तर्हि संवादार्थं ब्रह्मणि प्रमाणान्तरं वक्तव्यमिति नेत्याह -
न संवादलक्षणमिति ।
बोधलक्षणमिति ।
अज्ञातार्थबोधगम्यं प्रामाण्यमित्यर्थः ।
स्वरूपवाक्यानामपीति ।
ब्रह्मात्मैक्यप्रतिपादकवाक्यानामपीत्यर्थः ।
सूत्रवचनविरोध इति चोदयति -
ननु विधिवाक्यानामेवेति ।
सूत्रकारप्रामाण्यादेवाम्नायस्य क्रियार्थत्वमिति नेत्याह -
न ह्येकमपीति ।
प्रवर्तकं प्रमाणमिति लक्षणाद्विधिवाक्यमेव प्रमाणं न बोधकं प्रमाणमिति नेत्याह -
प्रत्यक्षादिष्वपीति ।
ननु भिन्नमेव प्रमाणलक्षणं प्रत्यक्षादिषु वस्तुमात्रावबोधः प्रमाणलक्षणं, प्रवृत्तिनिवृत्ती तु वस्तुस्वभावानुरोधिन्यौ, न प्रमाणफलं, शब्दे तु पुनः प्रवृत्तिनिवृत्तिफलपर्यन्त एव प्रमाणव्यापारः श्रोतुः पुरुषार्थमुद्दिश्य शब्दप्रयोगात् प्रवृत्तिनिवृत्तिशून्ये भूते वस्तुनि न शब्दप्रामाण्यमित्याह -
आह युक्तमित्यादिना ।
तावतेति ।
अज्ञातार्थबोधकत्वादेवेत्यर्थः ।
अपेक्षान्तराभावादिति ।
विषयस्य पुरुषार्थत्वापेक्षाभावादित्यर्थः ।
विध्यानर्थक्येति ।
अध्ययनविध्यानर्थक्यप्रसङ्गादित्यर्थः ।
न त्वित्थमन्यथा वेति ।
प्रवृत्तिनिवृत्तिसाध्यमेव स्यादसाध्यं मे स्यादिति वा नापेक्षत इत्यर्थः ।
पुरुषार्थश्चेत् साध्य एवेति निश्चिनुयादिति तत्राह -
न चास्येति ।
ननु सर्वः साध्य एव पुरुषार्थः, न तु सिद्धस्वभावः प्रेप्सागोचरत्वाभावादिति तत्राह -
द्विविधं चेष्टमिति ।
किञ्चित्प्राप्तमपीत्यत्र भ्रान्त्या अप्राप्तं प्रेप्सतीत्यन्वयः । भ्रान्त्या अपरिहृतं परिजिहीर्षतीत्यन्वयः ।
प्राप्यपरिहार्ययोरिति ।
ग्रामगर्तयोरित्यर्थः ।
साधनज्ञानायत्तत्वादिति ।
साधनज्ञानतदनुष्ठानायत्तत्वादित्यर्थः ।
इतरयोरिति ।
प्राप्तसुवर्णपरिहृतसर्पयोरित्यर्थः ।
एवमपीति ।
ज्ञानमात्रेणलभ्यमानमपीत्यर्थः ।
साधनसाध्यात् ज्ञानलभ्यस्यातिशयेन पुरुषार्थतामा -
सुतरां चाभिनन्दतीति ।
ब्रह्मात्मैकत्वे प्रतिपाद्यमाने ज्ञानमात्रलभ्यः पुरुषार्थोऽस्तीत्याह -
अनेकानर्थकलुषितमिवेति ।
न विध्यानर्थक्यप्रसङ्ग इति ।
नाध्ययनविध्यानर्थक्यप्रसङ्ग इत्यर्थः । इति परानन्द || इति अष्टमवर्णककाशिका ||