वक्तव्यकाशिका (पञ्चपादिका व्याख्या)
९ परिच्छेदः
लोके पदानां योग्येतरसंसृष्टस्वार्थप्रतिपादनसामर्थ्यमङ्गीकृत्य भूतेऽप्यर्थे प्रामाण्योपगमेन लौकिकवचसां च भूतेऽर्थे प्रमाणान्तरानुसारेण प्रयोजनपर्यन्तप्रामाण्यमङ्गीकृत्य वेदवचसां तु प्रमाणान्तराभावात् विध्यनुसारेणैव प्रयोजनपर्यन्तं प्रामाण्यं वक्तव्यमित्याशङ्क्य नेति प्रतिपादितम् । इदानीं कार्यसंसृष्टस्वार्थे शब्दसामर्थ्यमिति मन्वाना कार्यशेषतयैव भूतेऽप्यर्थे प्रामाण्यमिति प्रत्यवतिष्ठन्ते इत्याह -
अत्रापर इति ।
विधिसंस्पर्शिना शास्त्रेणेत्यन्वयः ।
लोके पदानां योग्येतरसंसृष्टस्वार्थे सामर्थ्यग्रहणात् तदनुसारेण वेदेऽपि भूतार्थप्रतिपादकत्वसम्भवात् कुतो विधिसंस्पर्श इत्याक्षिपति -
कस्मादेवमिति ।
वेदान्तानां ज्ञानमात्रसाध्यप्रयोजनपर्यन्तत्वासम्भवात् प्रवृत्तिनिवृत्तिसाध्यप्रयोजनपर्यन्तत्वाय कार्यशेषतया ब्रह्मप्रतिपादनं स्यादित्यभिप्रेत्य लोकेऽपि कार्यपरतयैव शब्दप्रयोग इति दर्शयति -
अन्यथेति ।
कार्यपरत्वाभाव इत्यर्थः । श्रोतुः पुरुषार्थेन भवितव्यम् । तत्साधयितुं श्रोतुः प्रवृत्तिनिवृत्तिभ्यां भवितव्यमिति येयं प्रयोक्तुरिच्छा तया समुत्थापितः शब्दप्रयोगः । अतः कार्यपरतयैव शब्दप्रयोग इत्यर्थः ।
सा च इष्टानिष्टेति ।
श्रोतुरिष्टानिष्टेत्यर्थः ।
ननु प्रवृत्तिनिवृत्ती एव इष्टानिष्टप्राप्तिपरिहारौ, अतो न प्रवृत्तिनिवृत्त्यर्थं कार्यपरतया शब्दप्रयोग इत्याशङ्क्य परम्परया सुखदुःखप्राप्तिनिवृत्तिहेतुत्वात् प्रवृत्तिनिवृत्त्योः इष्टत्वम् अनिष्टपरिहारत्वं चेत्याह -
न च पारम्पर्येणेति ।
प्रवृत्तिनिवृत्तिसाध्यनियोगनिष्पाद्यं चेत् ब्रह्मज्ञानफलं तदा वेदान्तानां कार्यपरता स्यात् । न तथा ज्ञानमात्रायत्तत्वात् फलस्येति, नेत्याह -
न च विस्मृतेति ।
अपि च शाब्दज्ञानव्यतिरेकेण पुनर्ब्रह्मात्मनि ज्ञानसाधनान्तरविधानात् । प्रयत्नान्तरसाध्यं प्रयोजनं न ज्ञानमात्रसाध्यमित्याह -
प्रतीत्युत्तरकालं चेति ।
शाब्दप्रतीत्युत्तरकालमित्यर्थः ।
ननु लोके भूतार्थनिष्ठतया प्रयोजनपर्यन्तानि वाक्यानि दृश्यन्ते । तद्वदिहापि स्यादिति, नेत्याह -
तस्मात् सन्तु नाम लोके इति ।
ब्रह्मजिज्ञासेति सूत्रेण जिज्ञास्यब्रह्मणः सिद्धरूपतया धर्माद्विलक्षणस्य निर्देशात् न ब्रह्मप्रतिपादकं वाक्यं विधिपरमिति नेत्याह -
तस्माद्यद्यपीति ।
तथापि प्रतिपत्त्यादिविधिशेषतयैव ब्रह्म जिज्ञास्यमित्यर्थः ।
कथं ब्रह्मपराणां विधिशेषतया समन्वय इति तदाह -
सोऽन्वेष्टव्य इति ।
तत्र नियोगमुखेन ब्रह्मणोऽवगतिमिच्छतो नियोगब्रह्मणी उभे अपि न प्रमाणेन प्रमातुं शक्येते इत्येतद्दर्शयितुं प्रथमं विधेयाभावमाह -
अत्रोच्यत इति ।
अदृष्टफलत्वे मोक्षस्य स्वर्गादिवदनित्यत्वप्रसङ्गात् एव तदयोगात् । दृष्टफलाभावमाह -
न तस्येति ।
इष्टविषयस्य ज्ञानसन्तानस्येति ।
मर्दनज्ञानसन्तानस्येत्यर्थः ।
तर्हि अन्वयव्यतिरेकसिद्धसाधनत्वात् मर्दनादिवत् स्मृतिसन्तानो न विधेय इत्याह -
यद्येवमिति ।
ज्ञानसन्तानविधिरिति ।
शब्दजन्यस्यैव ज्ञानस्य सन्तानविधिरित्यर्थः ।
साक्षात्करणस्यादृष्टफलत्वायोगात् दृष्टफलत्वेऽप्यनुपलम्भादेवासम्भव इत्याह -
न हि दृष्टाधिकार इति ।
दृष्टप्रयोजन इत्यर्थः ।
शाब्दपरोक्षज्ञानाभ्यासात् आपरोक्ष्याभावे दृष्टान्तमाह -
न हि लैङ्गिक इति ।
मा भूत् साक्षात्करणाय शाब्दज्ञानसन्तानविधिः किन्तु साक्षात्करणहेतुज्ञानान्तरायशाब्दज्ञानसन्तानविधिः स्यादिति चोदयति -
मा भूत् शाब्दज्ञानादेवेति ।
इत्थम्भाव इति ।
शाब्दज्ञानाभ्यासस्य ज्ञानान्तरफलत्व इत्यर्थः । अत्र शाब्दज्ञानाभ्यास इति स्मृतिसन्तान उच्यते ।
स्मृतिसन्तानो नाम प्रमाणावगते वस्तुनि तत एव प्रमाणात् सजातीयप्रत्ययप्रवाहः वस्तुतत्त्व विषयः स विधेयो मा भूत् । ध्यानं नाम वस्तुतत्त्वमनपेक्ष्यारोपितविषयतया मनःसङ्कल्पप्रवाहः, स तु विधेयः स्यादित्याह -
अस्तु तर्हीति ।
अदृष्टफलस्यानित्यत्वप्रसङ्गात् , दृष्टफलत्वे वक्तव्ये तदपि न दृश्यत इत्याह -
किमर्थमिति ।
साक्षात्करणस्य प्रमाणजन्यत्वादेव अदृष्टसाध्यफलत्वासम्भवमभिप्रेत्य दृष्टफलत्वमसम्भवेन दूषयति -
न तस्य सम्भव इति ।
ध्यानाभ्यासप्रचयसामर्थ्यात् विनष्टपुत्राद्यापरोक्ष्यं दृश्यत इति चोदयति -
ननु दृष्टमिति ।
न तद्ध्यायमानमिति ।
न तद् ध्येयं मृतपुत्रादि, तस्येदानीमविद्यमानत्वादित्यर्थः ।
विध्युद्देशसामर्थ्यादेव ध्येयसाक्षात्करणं ध्यानफलं गम्यत इति चोदयति -
ननु द्रष्टव्य इति ।
दर्शनमनूद्य दर्शनाय निदिध्यासितव्य इति विधीयत इत्यर्थः ।
उक्तमेतदिति ।
ध्यानेनापगतदोषे चित्ते शब्दादेव साक्षात्करणमिति विधिवाक्यस्याभिप्राय इति भावः ।
विधेयसद्भावमङ्गीकृत्य शब्दानां ध्यानविधिपरत्वे ब्रह्मात्मैकत्वं न सिध्यतीत्याह -
अथापि भवत्विति ।
ध्येयस्य तथात्व इति ।
ब्रह्मात्मैकत्वस्य सत्यत्व इत्यर्थः ।
ध्यानविधिपरत्वेऽप्यवान्तरवाक्ये ब्रह्म प्रमीयत इत्याह -
सत्यं तथापीति ।
तत्र हि न तथात्व इति ।
वज्रहस्तः पुरन्दर इत्यस्मिन्नर्थे बाधकप्रमाणभावो नास्तीत्यर्थः ।
तस्माद्विधिपरत्वे नास्ति वस्तुसिद्धिरिति सर्वविधिभेदेष्वतिदिशति -
पूर्वोक्तेष्वपीति ।
शाब्दज्ञानादन्यदेवेति ।
शाब्दज्ञानतदभ्यासादन्यदेवेत्यर्थः ।
अन्यदिति ।
भिन्नमित्यर्थः ।
ज्ञानान्तरमिति ।
भिन्नजातीयमित्यर्थः ।
विधीयमानज्ञानस्यालौकिकत्वादेव प्रत्यक्षादिसाधनजन्यत्वायोगादलौकिककरणेतिकर्तव्यताविषयविधानैः सह दर्शनं विधेयं तन्न दृश्यत इत्याह -
तत्पुनः किं साधनमित्यादिना ।
तेन विनेति ।
किमर्थं, केन, कथं कुर्यादित्यपेक्षासु केनेत्यपेक्षनिवर्तकसाधनाभिधानाभावे साकाङ्क्षमित्यर्थः ।
साधनं वेदानुवचनादि विहितमेवेति चेदिति ।
वेदानुवचनादीतिकर्तव्यतानुगृहीतं श्रवणमनन निदिध्यासनाख्यसाधनं विहितमित्यर्थः ।
प्रमाणान्तरस्य तर्हीति ।
ब्रह्मण्यपरोक्षफलं विज्ञानं प्रमाणान्तरं तत्कर्तव्यतायाः शब्दः प्रमाणम् इतिचेन्न, ब्रह्मणि प्रमाणं न शब्दः किन्तु ब्रह्म प्रमाणे प्रमाणमित्युक्तं स्यात् , ततो वरं ब्रह्मण्येव प्रमाणमित्यङ्गीकरणमिति भावः ।
विधेयज्ञानविषयतया विधिविषयत्वमन्तरेण न ब्रह्ममात्रे प्रामाण्यं युक्तमिति, नेत्याह -
कार्यगम्यमिति ।
अर्थनिश्चयाख्यकार्यगम्यमित्यर्थः ।
ननु लौकिकं प्रामाण्यं कार्यगम्यमेव, शास्त्रगतं तु विषयस्य विधिगम्यमित्याशङ्क्य शास्त्रेऽपि लौकिकमेव प्रामाण्यं युक्तमलौकिककल्पनादित्याह -
तदुक्तं गुणाद्वेति ।
लौकिकानां शब्दानां मुख्यार्थाभिधानमुखेन वैदिकार्थप्रतिपादनासम्भवे किं वेदे पृथक् सम्बन्धं गृह्णीमः, किं वा वृत्त्यन्तदद्वारेणापि लौकिकादेव सम्बन्धादर्थं प्रतिपद्यामह इति विशये लौकिकमेव प्रतिपत्तुं युक्तमलौकिककल्पनादिति सूत्रार्थः ।
विधिसमन्वय इति ।
विधेयज्ञानविषयतया ब्रह्मणो विधिना समन्वय इत्यर्थः ।
जीवब्रह्मणोर्वास्तवैक्यविषयसम्यज्ज्ञानविधिनिष्ठत्वे ब्रह्मणि प्रामाण्यायोगात् ब्रह्मण्येव प्रमाणं शब्द इत्युक्तमिदानीं जीवब्रह्मणोर्भेदमङ्गीकृत्य अहं ब्रह्मास्मीत्यारोपितैक्यविषयोपासनं स्वर्गादिवत् साध्यरूपमोक्षफलं वेदान्तेषु विधीयत इति पक्षनिरासाय उत्तरं भाष्यमित्याह -
अथाप्यथ यदत इत्यादिना ।
`अथ यदतः पर’ इत्यपि श्रुतिरूपासनाविधिपरत्वात् न ब्रह्मणि प्रमाणमित्याशङ्क्य प्रपञ्चास्पृष्टब्रह्मणः प्रमाणान्तराविषयत्वादेव तद्विरोधाभावाद्देवताधिकरणस्थन्यायसम्भवात् प्रमाणमित्याह -
देवताविग्रहेति ।
प्रदेशान्तरापत्तिर्ब्रह्मप्राप्तिर्मोक्ष उपासनाफलमित्यत्र श्रुतिमाह -
तथा च श्रुतिरिति ।
तदारोहन्ति किं तत् ब्रह्मोद्दिश्य अर्चिरादिना मार्गेण आरोहन्तीत्यर्थः ।
श्रुतिः कृतकत्वादनित्यमित्यनित्यत्वानुमानविरुद्धा कथमनावृत्तिं साधयेदित्यत आह -
न ह्येष इति ।
मोक्ष इत्यर्थः ।
न त्वनुमानागमयोर्विरुद्धाव्यभिचारित्वात् संशयहेतुत्वमिति तत्राह -
शब्दगम्यस्येति ।
अनुमानादागमो बलवानित्यर्थः । श्रुतितो न्यायतश्चेत्यत्र ‘विद्ययाऽमृतमश्नुते’ इत्यादि श्रुतिर्विवक्षिता, पुनरावृत्तौ पुनर्बन्धः स्यादभ्युदयनिःश्रेयसयोर्भेदप्रसिद्धिविरोधश्च स्यादित्यादिन्यायो विवक्षितः ।
नित्यसिद्धस्यापि क्रियासाध्यत्वं किं न स्यादिति चोदयति -
कथमिति ।
मोक्षस्य विधेयक्रियासाध्यत्वे दोषमाह -
यदि सन्ध्योपासनवदित्यादिना ।
उपचयापचयात् क्षयिष्णुशरीरे ज्ञानमात्रलभ्यं मोक्षं प्रत्याख्यायेति योजना ।
लिङ्गदर्शनेति ।
तद्यथेति ।
लिङ्गप्रदर्शनेनोपबृंहितन्यायात्मकोऽयमागमः । तेन सिद्धानित्यत्वो मोक्षः प्रसज्येतेत्यर्थः । न्यायेनावगतमनित्यत्वं यस्य मोक्षस्यासौ न्यायावगतानित्यत्व इति बहुव्रीहिः ।
वर्तमानाऽपदेशत्वेनेति ।ऽपदेशत्वेनेति ।
वर्तमानापदेशस्यैवमनुभूयत इत्यर्थः । विषयत्वादनुभवहेतुप्रमाणान्तरापेक्षणादित्यर्थः ।
प्रक्रियेति ।
सङ्केत इत्यर्थः ।
तद्यथेहेति ।
सामान्यश्रुत्यनुमानाभ्यां साध्यमोक्षस्यानित्यता दर्शिता । इदानीमपुनरावृत्तिविशेषणश्रुतिसामर्थ्यादेवान्तवत्वमाह -
किं च तेषामिहेति ।
अपि चाभ्युपेत्येति ।
अस्यायमर्थः । शब्दादवगते ब्रह्मणि तज्ज्ञानस्य सुखसंवेदनत्वाद्विधिमन्तरेण तदभ्यासेन साक्षात्करणाख्यब्रह्मसंवेदनमपि स्वयमेव स्यात् , तस्मिन् ब्रह्मसंवेदने समुत्पन्नेऽनन्तरमेवाविद्यादिदोषनिवृत्तेर्युक्तम् ब्रह्मवेदनेन समानकालत्वं फलस्य, यदा तु पुनरुपासनैव अध्यारोपितात्मविषया विधीयमाना ब्रह्मसंवेदनमुच्यते, तदोपासनाजन्यनियोगफलस्य कालान्तरभावित्वात् न युक्तः समानकालतानिर्देशः, अतः शब्दाद्विदितस्य ब्रह्मणोऽपरोक्षज्ञानाय स्वयमेव प्रवृत्तेः, फलजननात् प्राक् न कार्यानुप्रवेशो ब्रह्मण इति ।
मध्ये कार्यान्तरमिति ।
ब्रह्मवेदनमोक्षफलयोर्मध्ये नियोगाख्यकार्यान्तरं वारयन्तीत्यर्थः ।
अतो न विदितस्येति ।
विदितस्य ब्रह्मणो विधेयक्रियायां कर्मत्वेन विनियोगो नास्तीत्यर्थः ।
प्रतिपेद इति ।
सर्वात्मभावं प्राप्त इत्यर्थः ।
क्रियान्तरं
तत् अपूर्वं च वारयतीत्यर्थः ।
क्रियाया लक्षणत्वे हेतुत्वे च विवक्षिते शतृप्रत्ययः स्मर्यते । अत्र तु ज्ञानक्रियाया हेतुत्वाविवक्षायां शतृप्रत्यय इत्याह -
क्रियाया हेतुभूतादिति ।
उत्तरक्रियाहेतुभूतपूर्वक्रियावाचकधातोरुपरि शतृप्रत्ययो भवतीत्यर्थः ।
भवतु, हेतुत्वविवक्षायां शतृप्रत्ययः हेतुहेतुमतोर्मध्ये क्रियान्तराभावः कथमिति तत्राह -
क्रियायाश्चेति ।
क्षणिकत्वात् क्रियायाः कालान्तरभाविफलहेतुत्वं स्वरूपेण नास्ति, ततोऽव्यवहितफलं प्रति हेतुत्वान्मध्ये क्रियान्तरं नास्तीत्यर्थः ।
तिष्ठन् गायतीत्यत्र शतुर्लक्षणार्थत्वात् क्रियायाः गानहेतुत्वाभावात् । तिष्ठतिगायत्योर्मध्ये प्रत्यक्षसिद्धक्रियान्तराभावाच्च वैषम्येऽपि शब्दतो मध्ये क्रियान्तराप्रतीतिर्दृष्टान्ते विवक्षितेत्याह -
अत्र न स्थितिक्रियासामर्थ्यादेवेति ।
वेदान्तवाक्यजन्यब्रह्मात्मज्ञानस्य अविद्यानिवृत्तिफलश्रवणात् जीवब्रह्मणोर्वास्तवैक्यविषयप्रमाणज्ञानमेव स्यादारोपितैक्यविषयतया विधेयोपासनारूपत्वे क्रियात्वादेवाविद्यानिवृत्तिफलत्वायोग इत्याह -
किं च तस्मै मृदितकषायायेति ।
इदानीं तर्कशास्त्रानुसारेणापि मिथ्याज्ञाननिवृत्तिरेव तत्वज्ञानफलमतो न विधेयतया क्रियारूपं तत्त्वज्ञानमित्याह -
इतश्चैतदेवमिति ।
‘दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग’ इत्यादिसूत्रेण दर्शयन्ति इत्यर्थः ।
तर्कशास्त्रेषु मिथ्याज्ञाननिवर्तकं तत्त्वज्ञानमन्यदन्यदेव कथयन्ति । तत्र तत्त्वज्ञानमिदमेवेति कथं निर्णयः स्यात् , तन्निर्णयेऽपि तेनैव निवृत्तिः न तु विधेयक्रिययेति वा कथं निर्णय इति तत्राह -
मिथ्याज्ञानापायश्चेति ।
इन्द्रो मायाभिरिति श्रुतेर्वाद्यङ्गीकृततत्त्वज्ञानानामपि भेदज्ञानत्वादेव मिथ्याज्ञानत्वेन अनिवर्तकत्वादिति भावः ।
यथावस्थितवस्तुविषयमिति ।
ब्रह्मात्मनोः पूर्वसिद्धसत्यैक्यविषयं न भवति शब्दस्य तत्र तात्पर्याभावादित्यर्थः । आलम्बनीकृत्येत्यत्रालम्बनशब्देन आरोपणस्याधिष्ठानं प्रतीतमुच्यते ।
दर्शनमात्रादिति ।
अर्थस्यारोपणं विहायेत्यर्थः । अनन्तविश्वेदेवसम्पादनं कृत्वा अनन्तलोकसम्पादनं वा कृत्वेति योजना ।
स्वगतेन बृहत्यर्थयोगेनेति ।
इन्द्रियादिभ्यः परत्वाख्यबृहत्यर्थयोगेनेत्यर्थः ।
गुणभूतस्य
वैदिककर्मसु कर्तृत्वेनान्वितत्वात् गुणभूतस्येत्यर्थः ।
किं प्रमाणान्तरविरोधात् सम्पदादिपरः पदसमन्वयः किं वार्थे तात्पर्याभावादिति । न तावत् प्रमाणान्तरविरोधः जीवब्रह्मणोस्तदगोचरत्वात् भेदावभासेऽपि तयोर्बिम्बप्रतिबिम्बन्यायावतारात् । न च सम्पदादिपरः तात्पर्याभावादित्याह -
अत्रोत्तरमिति ।
किं चाविद्यानिवृत्तिर्ब्रह्मात्मभावश्च विद्याफलं श्रूयते । न च सम्पदादिपरत्वे तदुपपद्यते । अन्यस्यान्यात्मताविरोधादप्रमाणत्वाच्च । अतः फलवचनसामर्थ्यादपि ब्रह्मात्मैकत्वपरः पदसमन्वय इत्याह -
तदवगमनिमित्तं चेति ।
विदिक्रियाकर्मत्वे विधेयक्रियाकर्मत्वस्य चावसरः स्यादित्याह -
भवति विधेरवसर इति ।
स्वयम्प्रकाशमानतया स्वविषयप्रकाशजननानपेक्षस्यापि ब्रह्मणः शास्त्रजन्यज्ञानाकारतया तद्व्यावर्तकस्याविद्यादिदोषनिवृत्तिफलवत्तया शास्त्रप्रमेयं ब्रह्मेति प्रतिपादयति -
अत्रोत्तरं नाविद्याकल्पितेत्यादीति ।
नन्वनधिगतार्थप्रकाशनमन्तरेण न प्रमाणव्यापारस्य फलवत्तेति, अत्राह -
शास्त्रं हीति ।
ननु तत्र वा विषयावगतिमन्तरेण कथं निवृत्तिमात्रेण प्रमाणव्यापार इति अत आह -
तथा हीति ।
उक्तमेतद्देवदत्तैक्यस्य अभिज्ञायामेव सिद्धत्वात् तदाकारेण प्रत्यभिज्ञासामग्रीवाक्याभ्यामुपजनितेन ज्ञानेनोपाधिपरिकल्पितभेदनिरासेन प्रत्यभिज्ञासामग्रीवाक्ययोः प्रामाण्यमिति ।
ननु ब्रह्मात्मनि विपर्ययाभावात् न तन्निरासेनापि प्रामाण्यमित्यत आह -
तथा च त्वम्पदार्थ इति ।
केन तर्हि प्रमाणाकारेण विपर्यासनिरास इति तदाह -
तत्पदार्थैकतामुपगच्छन्निति ।
तत्त्वम्पदाभ्यां लक्ष्यमाणं ब्रह्मात्मैकत्वं विज्ञानाकार इत्यर्थः ।
किं तर्हि तदाकारज्ञानेन निवर्त्यत इति तदाह -
अहमात्मकेदमंशोपाधिकृत इति ।
प्रमाणव्यापारे विषयाकारोदय एव, प्रमीयमाणवस्तुसामर्थ्यात् विपर्यासनिरास इत्याह -
अर्थादिति ।
ननु ज्ञातृसमवायिनी ज्ञेयाकारा संवित् प्रमाणफलम् , अनेन न विपर्यासो निरस्यते, प्रकाशस्यैवाप्रकाशविरोधित्वात् , नित्ये च चैतन्यप्रकाशे न प्रमाणफलमस्तीत्यत आह -
अविच्छिद्यमानानिदंप्रकाशः प्रमाणफलमिति ।
प्रमाणेन विषयीकृतार्थगतं चैतन्यं प्रमाणफलमुच्यते, न प्रमाणजन्यं, लोकेऽप्यजन्यत्वात् । अतः प्रमातृप्रमाणप्रमेयावच्छिन्नचैतन्यं प्रमात्रादि निवर्तयति ।
अवच्छेदकनिवृत्त्योः पूर्वोत्तरक्षणतया विरोधाभावादिति ।
ननु फलं चेन्निवर्तकं निवर्त्यानन्तर्भूतत्वात् तर्हि फलं यावत्कालमेव स्थास्यतीति नेत्याह -
तदपीति ।
फलरूपमपीत्यर्थः ।
ननु शास्त्रजन्यज्ञानेन न प्रकाश्यते चेत् ब्रह्म न शास्त्रगम्यं स्यादित्यत आह -
तेन प्रमात्रादिचतुष्टयस्येति ।
ननु किमित्यविद्यानिवृत्तिरेव प्रमाणफलमुच्यते, विषयप्रकाशोऽपि प्रमाणफलमुच्यतामिति, तत्राह -
तथा चैवंविधस्येति ।
`अविज्ञातं विजानताम्’ ‘यतो वाचो निवर्तन्त' इत्यादि ।
ननु ‘मनसैवानुद्रष्टव्यम्' ‘तं त्वौपनिषदं पुरुषम्’ इति च ज्ञानक्रियाकर्मत्वमपि च श्रूयते । नैष दोषः, वेदान्तजनितापरोक्षज्ञानस्याकारसमर्पकतया व्यावर्तकत्वं शास्त्रप्रमेयत्वं नाम, ज्ञानजन्यप्रकाशातिशयशून्यत्वमविषयता नामेति व्यवस्थोपपत्तेः ।
न हि प्रकाशगुणे पुनः प्रकाशगुणोदय इति ।
नन्वविद्यानिवृत्तेरपि ज्ञानसाध्यत्वात् मोक्षस्यानित्यतेति, नेत्याह -
एवं च नित्यमुक्त इति ।
न तत्र तस्य सम्भव इति ।
ब्रह्मणि क्रियानुप्रवेशस्य न सम्भव इत्यर्थः ।
ब्रह्मणोऽपि कारकत्वसम्भवात् कथं न सम्भवति क्रियेत्याह -
कथमिति ।
यागादिवत् कर्तृसमवेतापूर्वसाध्यमोक्षाय ज्ञानं विधीयत इति पक्षो निरस्तः,
`न, कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादि'त्यादिना ।
कर्मकारकातिशयरूपमोक्षाय ज्ञानविधिरिति पक्षमिदानीं दूषयति -
यदि तावदुत्पाद्य इत्यादिना ।
कर्मकारकातिशयरूपमोक्षपक्षेऽपि उत्पाद्यत्वकार्यत्वपक्षयोः प्रागुक्तफलवैलक्षण्यदूषणं समानमित्यर्थः ।
तर्ह्याप्यत्वं क्रियासाध्यमिति शङ्कते -
अथानित्यत्वपरिहारायेति ।
ब्रह्म प्रत्यगात्मभूतं व्यतिरिक्तं वा व्यतिरेकेऽपि सर्वगतं प्रदेशान्तरगतं वेति विकल्प्य दूषयति -
तदपि नेति ।
विकारास्पृष्टस्यापि सर्वगतत्वसम्भवात् न प्रदेशवर्तित्वमित्याह -
न, विकारदेशेऽपीति ।
तादात्म्यापत्तिरैक्यापत्तिरित्यर्थः ।
स्वेनैव रूपेणेति ।
देहादिभ्यो विलक्षणस्वीयाणुरूपेणेत्यर्थः ।
स्वरूपनाश इति ।
अणुरूपे स्थिते ब्रह्मैक्यायोगादणुरूपस्य नाशः स्यादित्यर्थः ।
क्रियया वास्तवमूलरूपतिरोधाननिरासेन विद्यमानब्रह्मभावस्याभिव्यक्तिः संस्कार इति शङ्कते -
अथ विद्यमानस्येति ।
आदर्शस्येवेति ।
आदर्शस्य विद्यमानभास्वरत्वस्याभिव्यक्तिरिवेत्यर्थः ।
किमात्मगतक्रियया मलापनयनं किं वा अन्याश्रययेति विकल्प्य दूषयति -
आत्मनः क्रियारहितत्वादिति ।
निरवयवत्वेन परिस्पन्दपरिणामरहितत्वादित्यर्थः । अन्याश्रयायाः कर्मत्वमात्मनो नास्ति, प्रत्यग्रूपत्वादिति योजना ।
ननु शास्त्रीयकर्मभिः आत्मनो गुणाधानलक्षणो संस्कारः श्रूयत इति नेत्याह -
न च स्नानादिक्रिययेवेति ।
अहङ्कर्तुरिदमंशस्यैवेति ।
चैतन्ये ऐक्येन अध्यस्ताहङ्कारस्य संस्कार्यत्वं न तु शुद्धचिद्रूपात्मन इत्यर्थः ।
कर्मत्वमिति
ज्ञानाधीनप्रकाशातिशयवत्वं निषिद्धमित्यर्थः ।
जन्याजन्यफलत्वेन क्रियाज्ञानयोः वैलक्षण्यमुक्तम् । इदानीं चोदनाजन्यपुरुषेच्छाप्रयत्नसाध्या हि क्रिया तदनपेक्षमात्मज्ञानमनिच्छतोऽपि दुर्गन्धादिज्ञानदर्शनादिति कारणतो वैलक्षण्यमाह -
इदमपरं वैलक्षण्यमिति ।
शब्दजन्यस्य विषयजन्यत्वाभावात् न वस्तुतन्त्रता, ततश्चोदनाजन्यत्वमिति शङ्कते -
अथापि स्यादिति ।
लिङ्गादिपरतन्त्रमिति ।
विषयजन्यत्वाभावेऽपि शब्दलिङ्गादिजन्यमित्यर्थः ।
वस्तुपरिच्छेदकमिति ।
सम्यगर्थपरिच्छेदकमित्यर्थः ।
वस्तुविषयस्य ज्ञानस्य क्रियात्वेऽपि इति ।
मनःपरिणामत्वेऽपीत्यर्थः ।
एवमिति ।
प्रमाणवस्तुपरतन्त्रत्वे सतीत्यर्थः । सम्यग्ज्ञानेनैव भवितव्यम् । वेदान्तविज्ञानसुनिश्चितार्था इति तस्यैव मोक्षहेतुत्वाभिधानादिति भावः ।
यथाभूतवस्तुविषयत्वादिति ।
सम्यग्ज्ञानत्वादित्यर्थः ।
ननु द्रष्टव्य इत्यादिना ब्रह्मज्ञाने विधयः श्रूयन्त इति तत्राह -
अतः श्रूयमाणा अपीति ।
अनुष्ठेयाभावाद्विधेरभावे द्रष्टव्यः श्रोतव्य इत्यादिशब्दस्य वैयर्थ्यं स्यादिति, नेत्याह -
अतोऽर्थवादतयेति ।
अर्थवादान्तरवत् स्तावकत्वेऽपि विधिपदमर्थशून्यं स्यादित्याशङ्क्य विधिनिषेधयोः प्रवर्तकत्वनिवर्तकत्वाख्यकार्यलेशस्यात्रान्वयात् विधिवदवभास इत्याह -
तदुन्मुखीकरणादिति ।
यैः श्रवणादिभिरात्मा स्तूयते तान् विभज्य दर्शयति -
तथा च श्रवणं नामेति ।
शारीरकश्रवणमिति ।
सूत्रसन्दर्भाख्यशारीरकश्रवणमित्यर्थः ।
विधेयस्येति ।
विधेयत्वे उपासनापर्यायः स्यात् , ततो निष्फलता स्यादपरोक्षप्रमितिहेतुता न स्यात् । अतो निदिध्यासनं वाक्यार्थे ज्ञानस्थैर्यमेवेत्यर्थः ।
श्रवणादिभिः किं फलं क्रियते, येनोत्कर्षवदिभिरेतैर्विषयीकरणादात्मनस्तुतिः स्यादिति तदाह -
अतो वाक्यार्थे स्थैर्यादिति ।
विधेयस्यैव अर्थवादाख्यस्तुतिसम्बन्धः श्रुतेः प्रवृत्तिफलत्वात् न सिद्धरूपस्यात्मन इत्याक्षिपति -
कः पुनरत्रेति ।
फलप्रशंसाया अपि प्रवृत्त्युपयोगित्वात् फलभूतात्मप्रशंसाया अपि श्रवणादिप्रवृत्त्युपयोगित्वमुपपद्यत इत्यभिप्रेत्याह -
इदमत्र प्रस्तुतमित्यादि ।
सम्यग्दर्शनस्य फलरूपत्वात् प्रमाणाधीनत्वाच्चाविधेयतेति युक्ता द्रष्टव्य इत्यस्यार्थवादता, श्रवणादयस्तु क्रियारूपत्वात् सम्यग्दर्शनस्य दृष्टादृष्टोपकारितया विधेया एवेत्याशङ्क्य मनननिदिध्यासनोपबृंहितस्य श्रवणस्य सम्यग्दर्शनाय विधेयत्वमङ्गीकृत्य प्रथमसूत्रं प्रवृत्तमित्यभिप्रेत्याह -
एतच्च सर्वमिति ।
विधीनामपि सतां स्तावकत्वमुक्तम् , इदानीं शब्दस्यार्थान्तरमाह -
अपि च नैवायमिति ।
मा भूवन् ज्ञानविधय उपासनाविधयस्तु श्रूयन्त इति नेत्याह -
ऐतेनात्मेत्येवोपासीतेत्यादि ।
सर्वत्रैव कारकविशेषणश्रवणादहमिति स्वभावप्राप्तप्रत्ययावृत्त्यनुवादेन आत्माख्यविषयविशेषः प्रतिपाद्यते । न तु प्रत्ययावृत्तिर्विधीयत इत्यर्थः ।
प्रमाणान्तरानपेक्षं ब्रह्मणि प्रामाण्यं वेदान्तानामुक्तं प्रथमेन वर्णकेन, द्वितीयेन वर्णकेन मोक्षफलविधेयज्ञानब्रह्मस्वरूपनिरूपणायां विधिनिरपेक्षमेव ब्रह्मणि प्रामाण्यमुक्तम् , इदानीं तदुभयवर्णकार्थमाक्षिप्य समाधत्ते -
यदपि केचिदाहुरित्यादिना ।
योऽयमहंप्रत्ययावसेयः क्रियासु कर्तृत्वेनान्वित आत्मा स एव किं वेदान्तैः प्रतिपाद्यते किं वा ततोऽन्य इति विकल्प्य प्रथमपक्षे विधिवाक्यैर्वेदान्तानामेकवाक्यता स्यादित्यभिप्रेत्य द्वितीयं पक्षं दूषयति -
यदि स्वरूपमात्रनिष्ठ इति ।
किञ्चिदुद्दिश्य किञ्चित्प्रतिपाद्यं स्यादत्यन्ताप्रसिद्धात्मनस्तदसम्भवान्न तत्प्रतिपादकवेदभागोऽस्ति, अतो न स वेदार्थः स्यादिति स नास्त्येवेत्यर्थः ।
योऽयमहंप्रत्ययविषयात् कर्तुरन्यः आत्मा, स एव वेदान्तैः प्रतिपाद्यत इत्याह -
योऽयमहंप्रत्ययविषयादिति ।
शरीरपरिमाणत्वशङ्कां व्यावर्त्य व्यापित्वमाह -
सम इति ।
प्रतिशरीरमात्मभेदशङ्कां व्यावर्तयति -
एकः सर्वभूतेष्विति ।
सत्तासामान्यं व्यावर्तयति -
अहङ्कर्तुरपि साक्षिभूत इति ।
स एव वेदान्तप्रमेय इत्यर्थः ।
नन्वसावपि चेतनश्चेदंप्रत्ययगम्यतया कर्मशेषः स्यादिति नेत्याह -
न स केनचिदिति ।
शास्त्रैकगम्यस्यापि कर्माङ्गता किं न स्यादित्यत आह -
न हि प्रमाणान्तरसिद्ध इति ।
अधिकारिणं कर्तारं च प्रमाणान्तरसिद्धावनूद्य विधिमात्रं प्रतिपाद्यते शास्त्रेण, अन्यथा वाक्यभेदादिति भावः ।
चेतनः प्रमाणान्तरागम्यत्वात् शास्त्रेणापि न गम्यत इति नेत्याह -
न च स न प्रतीयत इति ।
पदसमन्वयस्य
पदसंसर्गस्य वाक्यस्येत्यर्थः । अत एवेत्यस्य अनन्यविषयत्वादित्यनेन सम्बन्धः ।
पदसमन्वयात् ब्रह्मणि प्रतीयमानेऽपि प्रत्यक्षादिभिर्बाधात् मिथ्येति नेत्याह -
नैषः प्रतीयमानोऽपीति ।
आत्मनश्चानिराकार्यत्वादिति ।
स्वरूपं चिद्रूपं वा आत्मशब्दार्थः उभयस्याप्यात्मशब्दार्थस्यानिराकार्यत्वादित्यर्थः ।
तस्यैवात्मत्वप्रसङ्गादिति ।
निःस्वरूपत्वायोगादचिद्रूपत्वायोगाच्चेति भावः ।
पुरुषावधिरिति ।
स्वयं प्रकाशमाने पुरुषे कल्पिततया प्रतिपन्नस्य सर्वस्य पुरुषावशेषतया विनाश इत्यर्थः ।
काष्ठेति ।
बाधानर्हः सत्य इत्यर्थः ।
परा गतिः इति ।
पूर्णचिद्रूप इत्यर्थः ।
शास्त्रतात्पर्यविदः
वेदतात्पर्यविदः सूत्रकृत् इत्यर्थः ।
शब्दश्रवणान्तरं भूतेऽप्यर्थे प्रमितिरूपजायत इति नेत्याह -
ततो वस्त्ववगम इति ।
सामान्यतो दृष्टमिति ।
शब्दत्वात् अर्थोऽस्ति क्रियार्थशब्दवदिति सामान्यतो दृष्टमित्यर्थः ।
अत एवेति ।
शब्दसामर्थ्याभावात् संवादाभावाच्चेत्यर्थः ।
ज्ञानकार्योन्नेयमिति ।
मध्यमवृद्धस्य शब्दादुत्पन्नज्ञानाख्यकार्योन्नेयमित्यर्थः ।
विशिष्टार्थविषयमिति ।
प्रवर्तकविषयमित्यर्थः ।
तदभावे कुत इति ।
साध्येऽभिप्रवृत्तिर्न भूतार्थ इति भावः ।
लौकिको वा न्याय इति ।
शब्दस्यार्थज्ञानेनान्वयव्यतिरेकौ न क्रियासंसृष्टार्थज्ञानेनेति भवता नावगत इत्यर्थः ।
अनन्वितकेवलपदार्थे शक्तिग्रहणात् अक्रियार्थानामपि सालम्बनत्वान्निरालम्बनत्वमानर्थक्यशब्देन वक्तुं न शक्यमित्यभिहितान्वयपक्षाश्रयेण परिहरति -
पश्यतु भवानिति ।
भूतवस्तुविषयमपीति ।
अनन्वितदेवदत्तगवादिभूतवस्तुविषयमपीत्यर्थः ।
तर्ह्यानर्थक्यशब्देनाक्रियार्थानां प्रयोजनाभाव उच्यते इत्याशङ्क्य क्रियायाः प्रयोजनत्वाभावात् अक्रियार्थानां प्रयोजनाभावोऽपि न वक्तुं शक्य इत्याह -
प्रयोजनं चानन्तरमिति ।
क्रियायाः प्रयोजनत्वाभावेऽपि क्रियाद्वारमेव प्रयोजनं स्यात् , अतोऽक्रियार्थानां निष्प्रयोजनत्वमित्याशङ्क्य सत्यं, केषाञ्चित् शब्दानां क्रियाद्वारप्रयोजनानां क्रियानुपयोग्यर्थत्वे निष्प्रयोजनत्वं स्यादित्याह -
अतस्तदर्थं क्रियेति ।
ननु सर्वं प्रयोजनं क्रियाद्वारमेव अतः क्रियानुपयोग्यर्थानां वेदान्तानां निष्प्रयोजनत्वमिति नेत्याह -
ब्रह्मात्मत्वावगतीति ।
कथं निष्प्रयोजनत्वमिति ।
अक्रियार्थत्वे क्रियानुपयोग्यर्थत्वेऽपि कथं निष्प्रयोजनत्वमित्यर्थः ।
अन्विताभिधानपक्षमाश्रित्य कार्यान्विते पदसामर्थ्यात् कार्यानुपयोगिभूतार्थवादिनामानर्थक्यमिति प्राभाकरः प्रत्यवतिष्ठते -
स्यादेतत् - यद्यपीति ।
सामर्थ्यग्रहणसमये भूतार्थे सामर्थ्यं प्रतीयते चेत् गृहीतसम्बन्धात् शब्दात् संसृष्टभूतार्थोऽपि प्रतीयतामिति, नेत्याह -
तथापि नाप्रतिपन्न इति ।
सामर्थ्यग्रहणसमये शक्तिविषयतया अप्रतिपन्नस्य संसृष्टभूतार्थस्य बोधनकाले अवगतिर्न सम्भवति, तस्मादवगतिरस्ति चेत् संसृष्टभूतार्थे सामर्थ्यमित्यर्थः ।
संसृष्टस्वार्थे शब्दसामर्थ्यं चेत् भूतार्थेन संसृष्टेऽपि सामर्थ्यं गृह्यतामिति नेत्याह -
क्रियार्थतयैवेति ।
नियोगसंसृष्टतयैव स्वार्थे सामर्थ्यावगमादित्यर्थः ।
कार्यसंसृष्टस्वार्थे सामर्थ्यग्रहणेऽप्यन्वितस्यार्थस्य तत्रान्तर्भावात् तेनैव प्रयोजकेन पुनर्गृहीतसम्बन्धात् शब्दात् भूतार्थसंसर्गोऽपि प्रतीयतामिति, नेत्याह -
न हि गोपदात्तदर्थ इति ।
गोत्वजातिरित्यर्थः । स्वप्रतिष्ठः स्वतन्त्र इत्यर्थः । अतो गृहीतसामर्थ्यानुसारेण कार्यसंसृष्टतयैव भूतमर्थं बोधयतीति भावः ।
तदेतदन्यान्विते सामर्थ्यं वदन् सिद्धान्ती निराचष्टे -
विषम उपन्यास इति ।
अभिधेयसम्बन्धे गृह्यमाण इत्यर्थः ।
नानाविधं सामर्थ्यमिति ।
केसरादिमत्पिण्डधर्मगोत्वे स्वतन्त्रगोत्वे च सामर्थ्यं नोपलभ्यमित्यर्थः ।
एकरूपैव प्रतीतिरिति ।
सामर्थ्यग्रहणसमय इव बोधनकालेऽपि सास्नादिमत्पिण्डधर्मतयैव प्रतीतिर्युक्तेत्यर्थः । शब्दार्थान्तराद्यन्वये पुनर्गोशब्दस्य सामर्थ्ये गृह्यमाणे बन्धने प्रयोगभेदादावापोद्वापनिबन्धनः प्रतिविभक्ति प्रतिपदार्थान्तरं च अन्यथा चान्यथा च समन्वयः सम्बन्धग्रहणकाले एव दृश्यत इत्यन्वयः । गोशब्दार्थस्य शक्लादिगुणसंसृष्टतया विभक्त्यभिधेयकारकत्वसंसृष्टतया दण्डादिद्रव्यसंसृष्टतया आनयनादिक्रियासंसृष्टतया प्रतिपन्नस्य पश्चात् कार्येणान्वयात् पूर्वं केवलान्यान्वितस्वार्थे गोशब्दस्य सामर्थ्यं गृह्यत इत्यर्थः ।
सम्बन्धयोग्यताभिधायीति ।
कारकत्वाख्ययोग्यताभिधायीत्यर्थः ।
ऐदम्पर्यवशात्
तात्पर्यवशादित्यर्थः ।
वेदेऽपि कार्यमनपेक्ष्यैव संसर्गप्रमितिरङ्गीकृतेत्याह -
तथा च वषट्कर्तुरित्यादिना ।
भक्ष्यत इति व्युत्पत्त्या भक्ष इति पुरोडाशादिरुच्यते । कर्तव्य इति पदं तत्राप्यध्याहृत्य तेनैव वाक्यत्वोपगमेन संसर्गः प्रमीयत इति तत्राह -
यस्तु कर्तव्य इति ।
कालत्रयास्पृष्टसंसर्गप्रतीतिनिमित्तो नियोगाध्याहार इत्यर्थः ।
कार्यान्वितस्वार्थे शब्दसामर्थ्यप्रदर्शनपरत्वेनाभिमतं सूत्रमुदाहरति -
यत्तु तद्भूतानामिति ।
तदपीति ।
तदपि नेत्यर्थः ।
अस्य सूत्रस्य शाबरभाष्यकारेण कृतयोजनामाह -
सिद्धरूपादिष्वित्यादिना ।
सूत्रगततच्छब्दार्थमाह -
सिद्धरूपादिष्विति ।
भूतानामित्यस्यार्थमाह -
वर्तमानानामिति ।
समाम्नाय इत्यस्य किञ्चिदध्याहृत्यार्थमाह -
सामानाधिकरण्येति ।
इति यतो दर्शित इति ।
योजनया भाष्यकारेणैव गुणगुण्यादीनां विशेषणविशेष्यादिभावेन समन्वयो दर्शितो यत इत्यर्थः ।
क्रियार्थेनेति वचने कथं गुणगुण्यादि सामानाधिकरण्यसम्बन्ध इत्यत आह -
क्रियार्थेनेति ।
अर्थसद्भावमात्रे कथनीय इति ।
आम्नायस्यार्थज्ञानरूपप्रयोजनसद्भावमात्रे कथनीये सतीत्यर्थः ।
किमिति जैमिनीयसूत्रवचनात् वेदान्तानां कार्यनिष्ठत्वमिष्यते, कार्यनिष्ठत्वाभावमङ्गीकृत्य पूर्वेण तन्त्रेणागतार्थत्वाभिप्रायेण पृथगारभ्यमाणबादरायणसूत्रबलात् कार्यनिष्ठत्वाभावः किं नाभ्युपेयत इत्याह -
अत एव पूर्वेण तन्त्रेणेति ।
अर्थभेदाभावे कथं पृथगारम्भ इति शङ्कायामर्थविभागमाह -
तत्र हीत्यादिना ।
अधिकरण इति ।
विषय इत्यर्थः ।
ब्रह्मवाक्यगतसत्यादिप्रातिपदिकार्थानामेकरसब्रह्मपरतयान्वयेऽपि प्रथमाविभक्तेरव्यभिचारात् तदर्थास्तिक्रियाकर्तृत्वाख्यकारकत्वान्वयो वाक्यार्थे स्यादिति नेत्याह -
तथा च भगवानिति ।
तत्र लिङ्गसङ्ख्यादयस्त्वर्थात् प्रतीयमाना अपि विज्ञानघन एवाद्वितीयमित्यादिशब्दविरोधात् अनिर्वचनीया भविष्यन्तीत्यर्थः ।
नास्तिक्रियाकर्तर्येवातिरिक्तार्थ इति ।
अस्तिक्रियाकर्तृत्वादेव प्रातिपदिकार्थात् व्यतिरिक्तार्थे नानारसे प्रथमां न स्मरतीत्यर्थः ।
तेन च कात्यायनस्येति ।
घट इत्यत्र वर्तमानताभिधायिलट्परतयास्तिधातोरप्रयोगेऽपि प्रयुक्तवदर्थः स्वीकार्यः घटोऽस्तीत्येतन्मतं नानुमन्यत इत्यर्थः ।
वृक्षाः फलिता इति ज्ञात्वा ते सन्ति वा न सन्ति वा इति संशयानं प्रति तन्निरासाय न वाक्यप्रयोगः, अतोऽस्तिक्रियाया नाध्याहारः, किन्तु फलसम्बन्धमजानन्तं प्रति सम्बन्धमात्रमवबोधयति वाक्यमित्याह -
नात्रापि ये फलितेत्यादिना ।
वस्तुस्वरूपान्तर्वर्तिन्या अपीति ।
षड्भावविकारेष्वस्तिक्रियाया एव वस्तुस्वरूपत्वं नेतरेषामिति भावः ।
पदानामन्यान्वितस्वार्थे सम्बन्धग्रहणात् क्रियामपहाय अतद्व्यतिरिक्तैकरसप्रातिपदिकार्थान्वयो युक्त इत्युक्तमिदानीं क्रियान्विताभिधानवादिनामपि भूतेऽर्थे निषेधवाक्यसमन्वयो वक्तव्य इत्याह -
किं च ब्राह्मणो न हन्तव्य इति ।
प्रतिषेधवाक्यसमन्वय इति ।
वाक्यगम्यसमन्वये वार्थ इत्यर्थः ।
क्रियानिवृत्तिरेवेति ।
हननक्रियाभाव एवेत्यर्थः ।
नेक्षेतोद्यन्तमादित्यमित्यत्र नेक्षेत इति अनीक्षणसङ्कल्पक्रियाविधानवन्न हन्यामिति सङ्कल्पयेदिति अह्नननसङ्कल्पक्रियाविधानं स्यादिति नेत्याह -
व्रत शब्दसमन्वयात्त्विति ।
तस्य व्रतमित्यनुष्ठेयवाचिव्रतशब्देनोपक्रमादित्यर्थः । संसृज्यमानाभाव एव नञ्शब्दस्य मुख्योऽर्थः ।
संसृज्यमानादन्यस्मिन् तद्विरोधिनि च स्वार्थाविनाभावसम्बन्धाल्लक्षणया वर्तते । अतो नात्र मुख्यवृत्त्या ईक्षणविरोधिसङ्कल्पक्रिया प्रतीयत इत्याह -
न समन्वयमात्रादिति ।
न नञः समन्वयमात्रादित्यर्थः ।
अर्थाभावकरत्वादिति ।
अर्थाभावबोधकत्वादित्यर्थः ।
रागादिना प्राप्तहननक्रियया सम्बध्य भावान्तरातिरिक्ताभावायोगात् हननविरोधिनीं न हन्यादिति सङ्कल्पक्रियां मुख्यवृत्त्याभिधाय नञ्शब्दो विधिप्रत्ययेन सम्बध्यते, अतो ह्ननविरोधिक्रियाविधायकमिदं वाक्यमिति प्राभाकरपक्षानुवादिभाष्यांशं व्याचष्टे -
स्वभावत एवेत्यादिना ।
स्वभावत एवेत्यस्य व्याख्या रागादिक्रियानिमित्तेति ।
अनुरज्यत
इत्यस्य व्याख्या विशेष्यत इति । सम्बध्यत इत्यर्थः ।
नञा विरोधिक्रियाभिधानेन हननसम्बन्धिरूपं दर्शयति -
हननमितीति ।
हननाभावाभिधानेन हननसम्बन्धरूपं दर्शयति -
हननं न कुर्यादिति ।
निवृत्त्यौदासीन्यमिति ।
निवृत्तिरूपमौदासीन्यं ह्ननप्रागभावो न वाक्यार्थः स्यादित्यर्थः ।
प्रदर्शितं प्राभाकरपक्षं भावान्तरातिरिक्ताभावं नञो मुख्यार्थमङ्गीकृत्य दूषयति -
न चैतद्युक्तमिति ।
उपमर्दरूपत्वादिति ।
अभावाभिधायिरूपत्वादित्यर्थः ।
तथा समन्वय इति ।
नञो धात्वर्थेन सम्बध्य तद्विरोधिक्रियान्तरविषयत्वमित्यर्थः ।
प्रतिषेधवाक्येषु नञर्थाख्याभावे नियोगो न, क्रियात्वात् , अतो नियोगपर्यवसितं प्रतिषेधवाक्यमिति प्राभाकरश्चोदयति -
ननु नञर्थ इति ।
नञर्थो हि नामेति ।
अनुष्ठेयम्भावार्थो दध्यादिगुणो वा नियोगविषयतया तन्निवृत्तिहेतुस्तदुभयं नञर्थो न भवति, अपि तु संसृज्यमानस्याभावो नञर्थस्तस्य प्रागभावतयाऽनादित्वादननुष्ठेयतया नियोगाविषयत्वेन नियोगनिष्पादकत्वं नास्तीत्यर्थः ।
येन संसृज्यत इति ।
येन धात्वर्थेन संसृज्यते नञ्शब्द इत्यर्थः ।
दूषणान्तरमाह -
एवं प्रतिषेधस्येति ।
अन्यथेति ।
नञर्थेऽपि नियोगश्चेदित्यर्थः ।
तस्मात् संसृज्यमानाभावमात्र इति
संसृज्यमानधात्वर्थभावमात्र न इत्यर्थः ।
ह्ननस्यैव नञ्शब्दान्वयमङ्गीकृत्य ह्ननाभावोऽर्थान्तरं वा न विधेयमित्यक्तम् । इदानीं प्रत्ययार्थ एव नञा सम्बध्यते प्रकृत्यर्थस्य प्रत्ययार्थोपसर्जनत्वात् , प्रधानेन च इतरेषामन्वयादित्याह -
तच्च संसृज्यमानमिति ।
विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नाभ्यनुज्ञानानामभावादिति ।
ब्राह्मणं प्रत्यक्षेण दृष्ट्वा तद्धननमिष्टसाधनमिति च बुद्ध्या स्वयमेव प्रवर्तते । विध्यादीनां तु पुरुषान्तरनिबन्धनानां ह्ननस्य पुरुषान्तरनिबन्धनप्रवृत्तित्वाभावात् विध्यादीनां प्रत्ययार्थत्वाभावादित्यर्थः ।
प्रतिपाद्य धर्म इति ।
अनुष्ठेयहननाख्यधात्वर्थधर्म इत्यर्थः ।
कोऽसौ धर्मः यः प्रत्ययार्थः स्यादिति तत्राह -
प्रतिषिध्यमानक्रियाफलप्रार्थनेति ।
निवर्त्यमानह्ननक्रियागतफलसाधनत्वमित्यर्थः । फलाय प्रार्थ्यत इति फलप्रार्थनेति फलसाधनत्वमुच्यते ।
तदभावः प्रतिषेधार्थ इति ।
हननस्य यदिष्टसाधनत्वं प्रवर्तकं तदेव हन्तव्य इत्यत्र प्रत्ययेनानूद्य ब्राह्मणहननमिष्टसाधनं न भवतीति प्रतिषिध्यत इत्यर्थः । ननु प्रत्यक्षमिष्टसाधनत्वं न अदृष्टाविरोधि दृष्टप्रयोजनस्य इष्टशब्दार्थत्वात् इदमदृष्टाविरोधिदृष्टसाधनं न भवतीत्यर्थः ।
सर्वत्र चार्थानर्थसंयोगादनर्थादधिकोऽर्थः पुरुषार्थ इत्युच्यते । अर्थाच्च अधिकोऽनर्थोऽपुरुषार्थ इति । तत्र पुरुषार्थसाधनं न भवति । ह्ननमित्युक्तेऽनर्थादधिकोऽर्थो नास्तीत्युक्तं भवति । ततश्चार्थादनर्थस्याधिक्यादर्थादनर्थं साधनमित्युक्तम् । ततश्च प्रत्ययार्थाभावोऽननुष्ठेय इत्याह -
स च प्रागभावः स्वभावसिद्ध इति ।
अनादिसिद्ध इत्यर्थः ।
किं तर्हि अनुष्ठेयमित्यत आह -
तत्संस्कारोद्बोध इति ।
ह्ननसंस्कारोद्बोधनिमित्तो ह्नने हितसाधनत्वभ्रमहेतुको रागस्तस्य सन्निधावपि प्राप्तावपि तत्र प्रतिबन्धे रागप्रध्वंसे प्रयत्न आस्थेयोऽनुष्ठेय इत्यर्थः ।
स एव रागप्रध्वंसः कर्तव्य इति विधीयतामिति नेत्याह -
स च यद्यपि साध्य इति ।
ह्ननमिष्टसाधनं न भवत्यधिकानर्थसाधनं चेत्यवगतौ ह्ननसंस्कारोद्बोधनिमित्तभूतरागनिरोधस्य अन्वयव्यतिरेकाभ्यामेव अनुष्ठेयत्वात् न तत्र साधने शब्दापेक्षेति निमित्तनिरोधकर्तव्यतायां वाक्यस्य असामर्थ्याच्चेत्याह -
तत्प्रतिपादकेति ।
अन्यत्रेति ।
अन्यस्येत्यर्थः ।
इष्टसाधनं न भवतीति बोधकशब्दसामर्थ्याच्चेन्निमित्तनिरोधः, सोऽपि तर्हि शब्दार्थ इति नेत्याह -
यश्चार्थादर्थ इति ।
प्रत्ययार्थाभावे नियोगमङ्गीकरोति -
अथ पुनरिति ।
नञर्थविषयो नियोग एवेति ।
नञर्थविषयो नियोग एवेत्यर्थः ।
प्रतिषिध्यमानक्रियानिवृत्त्येति ।
निवर्त्यमानक्रियाभावेन हितसाधनत्वाभावोऽपि स्यात्तेन नियोगोऽपि सिद्धः स्यादिति नानुष्ठानापेक्षेत्यर्थः ।
क्रियाया अनुपादानसम्भवात् निवर्त्यमानत्वमयुक्तमिति तत्राह -
क्रियोपादाने चेति ।
तत्फलप्रार्थनैव हेतुरिति ।
क्रियागतफलसाधनत्वभ्रान्तिरेव हेतुरित्यर्थः ।
तत्कारणप्रतिबन्धे प्रयत्नास्थानादिति ।
फलसाधनत्वभ्रान्तिकरणभूततद्भ्रमसंस्कारप्रतिबन्धे विनाशे प्रयत्नास्थानाद्विनाशानुष्ठानादित्यर्थः ।
तच्चान्वयव्यतिरेकावसेयमिति ।
हितसाधनं न भवतीति ज्ञानसंस्कारदाढ्ये सति विपरीतभ्रमसंस्कारो नश्यतीत्येतदन्वयव्यतिरेकावसेयमिति न शब्दापेक्षमनुष्ठानमित्यर्थः ।
वृद्धव्यवहारानुसारेणैवेति ।
शब्दस्यान्यान्वितस्वार्थे प्रयोगप्रत्ययानुसारेणैवेत्यर्थः ।
तन्मात्रे
ब्रह्मात्मत्वमात्र इत्यर्थः ।
अवगतब्रह्मात्मभावस्येति ।
विधिनिरपेक्षतयोत्पन्नशाब्दज्ञानतदभ्यासाभ्यामुत्पन्नापरोक्षज्ञानेन अवगतब्रह्मात्मभावस्येत्यर्थः ।
कथमपरोक्षज्ञानवतः संसाराभावः कर्माभिनिर्वृत्तशरीरनिमित्तत्वात् संसारस्याविद्यात्वाभावादिति तत्राह -
न कर्मनिमित्त इति ।
आत्मनो न शरीरसम्बन्धात् कर्म भवत्यपि तु स्वत एव, अतो नेतरेतराश्रयतेति तत्राह -
क्रियादिरहितत्वात् चैतन्यस्येति ।
अनादित्वेऽपि अद्यतनशरीरसम्बन्धः पूर्वकर्मणा, तच्चातीतशरीरसम्बन्धात् , सोऽपि पूर्वतनदेहसम्बन्धनिमित्त इति शरीरसम्बन्धस्य कर्मनिमित्तत्व इत्यर्थः ।
गौणत्वप्रसङ्गादिति ।
शरीरे अहंमानस्य पुत्रादिशरीरविषयाहंमानस्येव गौणत्वप्रसङ्गादित्यर्थः ।
तथा अनुभवाभावात् ,
गौणत्वेनानुभवाभावादित्यर्थः ।
प्रसिद्धगौणत्वप्रकारासम्भवात् ।
प्रसिद्धयोरभेदावभासस्य गौणत्वप्रसिद्धेरात्मनः स्वशरीरेणाहं मनुष्य इत्यभेदावभासस्य तथात्वाभावादित्यर्थः ।
अविद्यानिमित्तशरीरसम्बन्ध इति ।
अहं मनुष्य इति भ्रान्तिरविद्येत्युच्यते । तज्जन्यो मिथ्यारूपाभेदः शरीरसम्बन्ध इत्यर्थः । मूलाविद्याकार्यरूपशरीरसम्बन्ध इति वार्थः ।
अपरोक्षज्ञानान्मिथ्याज्ञाने निवृत्ते कुतो द्वैतदर्शनमिति तत्राह -
वैषयिकस्त्विति ।
ननु श्रवणजन्ये ज्ञाने सत्यपि पुनर्मनननिदिध्यासनविधानात् न ज्ञानमात्रलभ्यो मोक्ष इत्युक्तमिति नेत्याह -
मनननिदिध्यासनयोरिति ।
अवगत्युत्तरकालीनतेति ।
नापरोक्षावगत्युत्तरकालीनतेत्यर्थः ।
इदानीं वर्णकद्वयोक्तमनुवदति -
तदेवं सिद्धस्येत्यादिना ।
स्वरूपसत्तामात्रेणाप्रतिपन्नस्येति ।
रूपाद्यभावादेव सिद्धवस्तुनः सद्भावमात्रेण प्रमाणान्तरेणाप्रतिपन्नस्यैवावगमप्रमाणविषयतया प्रमेयत्वादित्यर्थः ।
वाक्यभेदप्रसङ्गादिति ।
विधेः कारकत्वस्य विधिवाक्यादेव सिद्धौ वाक्यभेदप्रसङ्गादित्यर्थः ।
कारकस्यावान्तरतात्पर्येणापि सिद्ध्यसम्भवमाह -
प्रत्यक्षादिविरोध इति ।
विधेरपेक्षितभूतवस्तुप्रतिपादनेन प्रवर्तकवाक्यत्वाभावे शास्त्रारम्भभेदसिद्धिः नान्यथा इत्याह -
एवं च सतीति ।
तद्विषयः,
समन्वयविषय इत्यर्थः ।
आरब्धत्वादिति ।
समन्वयविचारस्याप्यारब्धत्वादित्यर्थः ।
शरीरेन्द्रियनिर्वर्त्यविधिभेदाः कर्मकाण्डे निरूपिताः, इह तु केवलमनः साध्यो विधिर्निरूप्यत इति पृथगारम्भः स्यादिति चोदयति -
अथाप्यबहिः साधनत्वादिति ।
अपि चाहुरिति भाष्यांशमुपादाय तस्यार्थमाह -
अपि चाहुरिति ।
श्लोकत्रयस्य तात्पर्यमाह -
पूर्वोक्त न्यायमिति ।
प्रथमश्लोकमुपादाय व्याचष्टे -
गौणमिथ्यात्मन इति ।
पर्यन्तोहंमानः पर्यन्ते केवलदेहेऽहमित्यभिमानाभावाज्जात्यादिविशिष्टेऽभिमान इत्याह -
विशिष्टजातीय इति ।
यथावगतितत्त्वहेतुरिति ।
प्रामाण्यहेतुरतश्च देहादावहंमानः प्रमाणमित्यर्थः ।
अनुत्पत्तिसंशयविपर्यासलक्षणाप्रामाण्यहेतुश्च नास्तीत्याह -
निश्चितेत्यादिना ॥
इति परानन्दपरिज्ञानपरितृप्तपरमहंसपरिव्राजकाचार्य श्रीमज्ज्ञानोत्तमभगवत्पूज्यपादशिष्येण उत्तमज्ञयतिवरेण विरचितायां पञ्चपादिकावक्तव्यकाशिकायां चतुर्थं समन्वयसूत्रम् । श्री विद्यारण्यगुरवे नमः । श्री श्री नृसिंहभारतीगुरवे नमः । । ००००० । ॥ श्रीमद्विद्याशङ्करेश्वराय नमः । शुभं भवतु || इति नवमवर्णककारिका ||