अद्वैतशारदा

वक्तव्यकाशिका (पञ्चपादिका व्याख्या)

९ परिच्छेदः

लोके पदानां योग्ये­त­र­सं­सृ­ष्ट­स्वा­र्थ­प्र­ति­पा­द­न­सा­म­र्थ्य­म­ङ्गी­कृत्य भूतेऽप्यर्थे प्रामाण्योपगमेन लौकिकवचसां च भूतेऽर्थे प्रमा­णा­न्त­रा­नु­सा­रेण प्रयो­ज­न­प­र्य­न्त­प्रा­मा­ण्य­म­ङ्गी­कृत्य वेदवचसां तु प्रमा­णा­न्त­रा­भा­वात् विध्यनुसारेणैव प्रयोजनपर्यन्तं प्रामाण्यं वक्त­व्य­मि­त्या­शङ्क्य नेति प्रतिपादितम् । इदानीं कार्य­सं­सृ­ष्ट­स्वार्थे शब्द­सा­म­र्थ्य­मिति मन्वाना कार्यशेषतयैव भूतेऽप्यर्थे प्रामाण्यमिति प्रत्य­व­ति­ष्ठन्ते इत्याह -
अत्रापर इति ।
विधिसंस्पर्शिना शास्त्रे­णे­त्य­न्वयः ।

लोके पदानां योग्ये­त­र­सं­सृ­ष्ट­स्वार्थे साम­र्थ्य­ग्र­ह­णात् तदनुसारेण वेदेऽपि भूता­र्थ­प्र­ति­पा­द­क­त्व­स­म्भ­वात् कुतो विधिसंस्पर्श इत्याक्षिपति -
कस्मादेवमिति ।

वेदान्तानां ज्ञान­मा­त्र­सा­ध्य­प्र­यो­ज­न­प­र्य­न्त­त्वा­स­म्भ­वात् प्रवृ­त्ति­नि­वृ­त्ति­सा­ध्य­प्र­यो­ज­न­प­र्य­न्त­त्वाय कार्यशेषतया ब्रह्म­प्र­ति­पा­दनं स्यादि­त्य­भि­प्रेत्य लोकेऽपि कार्यपरतयैव शब्दप्रयोग इति दर्शयति -
अन्यथेति ।
कार्यपरत्वाभाव इत्यर्थः । श्रोतुः पुरुषार्थेन भवितव्यम् । तत्साधयितुं श्रोतुः प्रवृ­त्ति­नि­वृ­त्तिभ्यां भवितव्यमिति येयं प्रयोक्तुरिच्छा तया समुत्थापितः शब्दप्रयोगः । अतः कार्यपरतयैव शब्दप्रयोग इत्यर्थः ।

सा च इष्टानिष्टेति ।
श्रोतु­रि­ष्टा­नि­ष्टे­त्यर्थः ।

ननु प्रवृ­त्ति­नि­वृत्ती एव इष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हारौ, अतो न प्रवृ­त्ति­नि­वृ­त्त्यर्थं कार्यपरतया शब्दप्रयोग इत्याशङ्क्य परम्परया सुख­दुः­ख­प्रा­प्ति­नि­वृ­त्ति­हे­तु­त्वात् प्रवृ­त्ति­नि­वृत्त्योः इष्टत्वम् अनि­ष्ट­प­रि­हा­रत्वं चेत्याह -
न च पारम्पर्येणेति ।

प्रवृ­त्ति­नि­वृ­त्ति­सा­ध्य­नि­यो­ग­नि­ष्पाद्यं चेत् ब्रह्मज्ञानफलं तदा वेदान्तानां कार्यपरता स्यात् । न तथा ज्ञान­मा­त्रा­य­त्त­त्वात् फलस्येति, नेत्याह -
न च विस्मृतेति ।

अपि च शाब्द­ज्ञा­न­व्य­ति­रे­केण पुन­र्ब्र­ह्मा­त्मनि ज्ञान­सा­ध­ना­न्त­र­वि­धा­नात् । प्रय­त्ना­न्त­र­साध्यं प्रयोजनं न ज्ञान­मा­त्र­सा­ध्य­मि­त्याह -
प्रती­त्यु­त्त­र­कालं चेति ।
शाब्द­प्र­ती­त्यु­त्त­र­का­ल­मि­त्यर्थः ।

ननु लोके भूतार्थनिष्ठतया प्रयो­ज­न­प­र्य­न्तानि वाक्यानि दृश्यन्ते । तद्वदिहापि स्यादिति, नेत्याह -
तस्मात् सन्तु नाम लोके इति ।

ब्रह्म­जि­ज्ञा­सेति सूत्रेण जिज्ञा­स्य­ब्र­ह्मणः सिद्धरूपतया धर्मा­द्वि­ल­क्ष­णस्य निर्देशात् न ब्रह्म­प्र­ति­पा­दकं वाक्यं विधिपरमिति नेत्याह -
तस्माद्यद्यपीति ।
तथापि प्रति­प­त्त्या­दि­वि­धि­शे­ष­त­यैव ब्रह्म जिज्ञा­स्य­मि­त्यर्थः ।

कथं ब्रह्मपराणां विधिशेषतया समन्वय इति तदाह -
सोऽन्वेष्टव्य इति ।

तत्र नियोगमुखेन ब्रह्मणोऽवगतिमिच्छतो नियोगब्रह्मणी उभे अपि न प्रमाणेन प्रमातुं शक्येते इत्ये­त­द्द­र्श­यितुं प्रथमं विधेयाभावमाह -
अत्रोच्यत इति ।

अदृष्टफलत्वे मोक्षस्य स्वर्गा­दि­व­द­नि­त्य­त्व­प्र­स­ङ्गात् एव तदयोगात् । दृष्टफलाभावमाह -
न तस्येति ।

इष्टविषयस्य ज्ञान­स­न्ता­न­स्येति ।
मर्द­न­ज्ञा­न­स­न्ता­न­स्ये­त्यर्थः ।

तर्हि अन्व­य­व्य­ति­रे­क­सि­द्ध­सा­ध­न­त्वात् मर्दनादिवत् स्मृतिसन्तानो न विधेय इत्याह -
यद्येवमिति ।

ज्ञान­स­न्ता­न­वि­धि­रिति ।
शब्दजन्यस्यैव ज्ञानस्य सन्ता­न­वि­धि­रि­त्यर्थः ।

साक्षा­त्क­र­ण­स्या­दृ­ष्ट­फ­ल­त्वा­यो­गात् दृष्ट­फ­ल­त्वेऽ­प्य­नु­प­ल­म्भा­दे­वा­स­म्भव इत्याह -
न हि दृष्टाधिकार इति ।
दृष्टप्रयोजन इत्यर्थः ।

शाब्द­प­रो­क्ष­ज्ञा­ना­भ्या­सात् आपरोक्ष्याभावे दृष्टान्तमाह -
न हि लैङ्गिक इति ।

मा भूत् साक्षात्करणाय शाब्द­ज्ञा­न­स­न्ता­न­विधिः किन्तु साक्षा­त्क­र­ण­हे­तु­ज्ञा­ना­न्त­रा­य­शा­ब्द­ज्ञा­न­स­न्ता­न­विधिः स्यादिति चोदयति -
मा भूत् शाब्द­ज्ञा­ना­दे­वेति ।

इत्थम्भाव इति ।
शाब्द­ज्ञा­ना­भ्या­सस्य ज्ञानान्तरफलत्व इत्यर्थः । अत्र शाब्द­ज्ञा­ना­भ्यास इति स्मृतिसन्तान उच्यते ।

स्मृतिसन्तानो नाम प्रमाणावगते वस्तुनि तत एव प्रमाणात् सजा­ती­य­प्र­त्य­य­प्र­वाहः वस्तुतत्त्व विषयः स विधेयो मा भूत् । ध्यानं नाम वस्तु­त­त्त्व­म­न­पे­क्ष्या­रो­पि­त­वि­ष­य­तया मनः­स­ङ्क­ल्प­प्र­वाहः, स तु विधेयः स्यादित्याह -
अस्तु तर्हीति ।

अदृ­ष्ट­फ­ल­स्या­नि­त्य­त्व­प्र­स­ङ्गात् , दृष्टफलत्वे वक्तव्ये तदपि न दृश्यत इत्याह -
किमर्थमिति ।

साक्षात्करणस्य प्रमा­ण­ज­न्य­त्वा­देव अदृ­ष्ट­सा­ध्य­फ­ल­त्वा­स­म्भ­व­म­भि­प्रेत्य दृष्ट­फ­ल­त्व­म­स­म्भ­वेन दूषयति -
न तस्य सम्भव इति ।

ध्याना­भ्या­स­प्र­च­य­सा­म­र्थ्यात् विन­ष्ट­पु­त्रा­द्या­प­रोक्ष्यं दृश्यत इति चोदयति -
ननु दृष्टमिति ।

न तद्ध्यायमानमिति ।
न तद् ध्येयं मृतपुत्रादि, तस्ये­दा­नी­म­वि­द्य­मा­न­त्वा­दि­त्यर्थः ।

विध्यु­द्दे­श­सा­म­र्थ्या­देव ध्येय­सा­क्षा­त्क­रणं ध्यानफलं गम्यत इति चोदयति -
ननु द्रष्टव्य इति ।
दर्शनमनूद्य दर्शनाय निदिध्यासितव्य इति विधीयत इत्यर्थः ।

उक्तमेतदिति ।
ध्यानेनापगतदोषे चित्ते शब्दादेव साक्षात्करणमिति विधि­वा­क्य­स्या­भि­प्राय इति भावः ।

विधे­य­स­द्भा­व­म­ङ्गी­कृत्य शब्दानां ध्यानविधिपरत्वे ब्रह्मा­त्मै­कत्वं न सिध्यतीत्याह -
अथापि भवत्विति ।

ध्येयस्य तथात्व इति ।
ब्रह्मा­त्मै­क­त्वस्य सत्यत्व इत्यर्थः ।

ध्यान­वि­धि­प­र­त्वेऽ­प्य­वा­न्त­र­वाक्ये ब्रह्म प्रमीयत इत्याह -
सत्यं तथापीति ।

तत्र हि न तथात्व इति ।
वज्रहस्तः पुरन्दर इत्यस्मिन्नर्थे बाधकप्रमाणभावो नास्तीत्यर्थः ।

तस्मा­द्वि­धि­प­रत्वे नास्ति वस्तुसिद्धिरिति सर्व­वि­धि­भे­दे­ष्व­ति­दि­शति -
पूर्वो­क्ते­ष्व­पीति ।

शाब्द­ज्ञा­ना­द­न्य­दे­वेति ।
शाब्द­ज्ञा­न­त­द­भ्या­सा­द­न्य­दे­वे­त्यर्थः ।

अन्यदिति ।
भिन्नमित्यर्थः ।

ज्ञानान्तरमिति ।
भिन्न­जा­ती­य­मि­त्यर्थः ।

विधी­य­मा­न­ज्ञा­न­स्या­लौ­कि­क­त्वा­देव प्रत्य­क्षा­दि­सा­ध­न­ज­न्य­त्वा­यो­गा­द­लौ­कि­क­क­र­णे­ति­क­र्त­व्य­ता­वि­ष­य­वि­धानैः सह दर्शनं विधेयं तन्न दृश्यत इत्याह -
तत्पुनः किं साधनमित्यादिना ।

तेन विनेति ।
किमर्थं, केन, कथं कुर्या­दि­त्य­पे­क्षासु केने­त्य­पे­क्ष­नि­व­र्त­क­सा­ध­ना­भि­धा­ना­भावे साका­ङ्क्ष­मि­त्यर्थः ।

साधनं वेदानुवचनादि विहितमेवेति चेदिति ।
वेदा­नु­व­च­ना­दी­ति­क­र्त­व्य­ता­नु­गृ­हीतं श्रवणमनन निदि­ध्या­स­ना­ख्य­सा­धनं विहितमित्यर्थः ।

प्रमाणान्तरस्य तर्हीति ।
ब्रह्म­ण्य­प­रो­क्ष­फलं विज्ञानं प्रमाणान्तरं तत्कर्तव्यतायाः शब्दः प्रमाणम् इतिचेन्न, ब्रह्मणि प्रमाणं न शब्दः किन्तु ब्रह्म प्रमाणे प्रमा­ण­मि­त्युक्तं स्यात् , ततो वरं ब्रह्मण्येव प्रमा­ण­मि­त्य­ङ्गी­क­र­ण­मिति भावः ।

विधे­य­ज्ञा­न­वि­ष­य­तया विधि­वि­ष­य­त्व­म­न्त­रेण न ब्रह्ममात्रे प्रामाण्यं युक्तमिति, नेत्याह -
कार्यगम्यमिति ।
अर्थ­नि­श्च­या­ख्य­का­र्य­ग­म्य­मि­त्यर्थः ।

ननु लौकिकं प्रामाण्यं कार्यगम्यमेव, शास्त्रगतं तु विषयस्य विधिगम्य­मि­त्या­शङ्क्य शास्त्रेऽपि लौकिकमेव प्रामाण्यं युक्त­म­लौ­कि­क­क­ल्प­ना­दि­त्याह -
तदुक्तं गुणाद्वेति ।
लौकिकानां शब्दानां मुख्या­र्था­भि­धा­न­मु­खेन वैदि­का­र्थ­प्र­ति­पा­द­ना­स­म्भवे किं वेदे पृथक् सम्बन्धं गृह्णीमः, किं वा वृत्त्य­न्त­द­द्वा­रे­णापि लौकिकादेव सम्बन्धादर्थं प्रतिपद्यामह इति विशये लौकिकमेव प्रतिपत्तुं युक्त­म­लौ­कि­क­क­ल्प­ना­दिति सूत्रार्थः ।

विधिसमन्वय इति ।
विधे­य­ज्ञा­न­वि­ष­य­तया ब्रह्मणो विधिना समन्वय इत्यर्थः ।

जीव­ब्र­ह्म­णो­र्वा­स्त­वै­क्य­वि­ष­य­स­म्य­ज्ज्ञा­न­वि­धि­नि­ष्ठत्वे ब्रह्मणि प्रामा­ण्या­यो­गात् ब्रह्मण्येव प्रमाणं शब्द इत्युक्तमिदानीं जीव­ब्र­ह्म­णो­र्भे­द­म­ङ्गी­कृत्य अहं ब्रह्मा­स्मी­त्या­रो­पि­तै­क्य­वि­ष­यो­पा­सनं स्वर्गादिवत् साध्य­रू­प­मो­क्ष­फलं वेदान्तेषु विधीयत इति पक्षनिरासाय उत्तरं भाष्यमित्याह -
अथाप्यथ यदत इत्यादिना ।

`अथ यदतः पर’ इत्यपि श्रुति­रू­पा­स­ना­वि­धि­प­र­त्वात् न ब्रह्मणि प्रमा­ण­मि­त्या­शङ्क्य प्रप­ञ्चा­स्पृ­ष्ट­ब्र­ह्मणः प्रमा­णा­न्त­रा­वि­ष­य­त्वा­देव तद्वि­रो­धा­भा­वा­द्दे­व­ता­धि­क­र­ण­स्थ­न्या­य­स­म्भ­वात् प्रमाणमित्याह -
देवताविग्रहेति ।

प्रदे­शा­न्त­रा­प­त्ति­र्ब्र­ह्म­प्रा­प्ति­र्मोक्ष उपा­स­ना­फ­ल­मि­त्यत्र श्रुतिमाह -
तथा च श्रुतिरिति ।
तदारोहन्ति किं तत् ब्रह्मोद्दिश्य अर्चिरादिना मार्गेण आरोहन्तीत्यर्थः ।

श्रुतिः कृत­क­त्वा­द­नि­त्य­मि­त्य­नि­त्य­त्वा­नु­मा­न­वि­रुद्धा कथमनावृत्तिं साधयेदित्यत आह -
न ह्येष इति ।
मोक्ष इत्यर्थः ।

न त्वनु­मा­ना­ग­म­यो­र्वि­रु­द्धा­व्य­भि­चा­रि­त्वात् संशयहेतुत्वमिति तत्राह -
शब्दगम्यस्येति ।
अनुमानादागमो बलवानित्यर्थः । श्रुतितो न्याय­त­श्चे­त्यत्र ‘विद्य­याऽ­मृ­त­म­श्नुते’ इत्यादि श्रुति­र्वि­व­क्षिता, पुनरावृत्तौ पुनर्बन्धः स्याद­भ्यु­द­य­निः­श्रे­य­स­यो­र्भे­द­प्र­सि­द्धि­वि­रो­धश्च स्यादि­त्या­दि­न्यायो विवक्षितः ।

नित्य­सि­द्ध­स्यापि क्रियासाध्यत्वं किं न स्यादिति चोदयति -
कथमिति ।

मोक्षस्य विधे­य­क्रि­या­सा­ध्यत्वे दोषमाह -
यदि सन्ध्यो­पा­स­न­व­दि­त्या­दिना ।
उपचयापचयात् क्षयिष्णुशरीरे ज्ञानमात्रलभ्यं मोक्षं प्रत्याख्यायेति योजना ।

लिङ्गदर्शनेति ।

तद्यथेति ।
लिङ्ग­प्र­द­र्श­ने­नोपबृंहि­त­न्या­या­त्म­कोऽ­य­मा­गमः । तेन सिद्धानित्यत्वो मोक्षः प्रस­ज्ये­ते­त्यर्थः । न्याये­ना­व­ग­त­म­नि­त्यत्वं यस्य मोक्षस्यासौ न्याया­व­ग­ता­नि­त्यत्व इति बहुव्रीहिः ।

वर्त­मा­नाऽ­प­दे­श­त्वे­नेति ।ऽपदेशत्वेनेति ।
वर्त­मा­ना­प­दे­श­स्यै­व­म­नु­भू­यत इत्यर्थः । विष­य­त्वा­द­नु­भ­व­हे­तु­प्र­मा­णा­न्त­रा­पे­क्ष­णा­दि­त्यर्थः ।

प्रक्रियेति ।
सङ्केत इत्यर्थः ।

तद्यथेहेति ।

सामा­न्य­श्रु­त्य­नु­मा­नाभ्यां साध्य­मो­क्ष­स्या­नि­त्यता दर्शिता । इदा­नी­म­पु­न­रा­वृ­त्ति­वि­शे­ष­ण­श्रु­ति­सा­म­र्थ्या­दे­वा­न्त­व­त्व­माह -
किं च तेषामिहेति ।

अपि चाभ्युपेत्येति ।
अस्यायमर्थः । शब्दादवगते ब्रह्मणि तज्ज्ञानस्य सुख­सं­वे­द­न­त्वा­द्वि­धि­म­न्त­रेण तदभ्यासेन साक्षा­त्क­र­णा­ख्य­ब्र­ह्म­सं­वे­द­न­मपि स्वयमेव स्यात् , तस्मिन् ब्रह्मसंवेदने समु­त्प­न्नेऽ­न­न्त­र­मे­वा­वि­द्या­दि­दो­ष­नि­वृ­त्ते­र्यु­क्तम् ब्रह्मवेदनेन समानकालत्वं फलस्य, यदा तु पुनरुपासनैव अध्या­रो­पि­ता­त्म­वि­षया विधीयमाना ब्रह्म­सं­वे­द­न­मु­च्यते, तदो­पा­स­ना­ज­न्य­नि­यो­ग­फ­लस्य काला­न्त­र­भा­वि­त्वात् न युक्तः समा­न­का­ल­ता­नि­र्देशः, अतः शब्दाद्विदितस्य ब्रह्म­णोऽ­प­रो­क्ष­ज्ञा­नाय स्वयमेव प्रवृत्तेः, फलजननात् प्राक् न कार्यानुप्रवेशो ब्रह्मण इति ।

मध्ये कार्यान्तरमिति ।
ब्रह्म­वे­द­न­मो­क्ष­फ­ल­यो­र्मध्ये नियो­गा­ख्य­का­र्या­न्तरं वारयन्तीत्यर्थः ।

अतो न विदितस्येति ।
विदितस्य ब्रह्मणो विधेयक्रियायां कर्मत्वेन विनियोगो नास्तीत्यर्थः ।

प्रतिपेद इति ।
सर्वात्मभावं प्राप्त इत्यर्थः ।

क्रियान्तरं
तत् अपूर्वं च वारयतीत्यर्थः ।

क्रियाया लक्षणत्वे हेतुत्वे च विवक्षिते शतृप्रत्ययः स्मर्यते । अत्र तु ज्ञानक्रियाया हेतु­त्वा­वि­व­क्षायां शतृप्रत्यय इत्याह -
क्रियाया हेतुभूतादिति ।
उत्त­र­क्रि­या­हे­तु­भू­त­पू­र्व­क्रि­या­वा­च­क­धा­तो­रु­परि शतृप्रत्ययो भवतीत्यर्थः ।

भवतु, हेतु­त्व­वि­व­क्षायां शतृप्रत्ययः हेतु­हे­तु­म­तो­र्मध्ये क्रियान्तराभावः कथमिति तत्राह -
क्रियायाश्चेति ।
क्षणिकत्वात् क्रियायाः काला­न्त­र­भा­वि­फ­ल­हे­तुत्वं स्वरूपेण नास्ति, ततोऽव्यवहितफलं प्रति हेतुत्वान्मध्ये क्रियान्तरं नास्तीत्यर्थः ।

तिष्ठन् गायतीत्यत्र शतु­र्ल­क्ष­णा­र्थ­त्वात् क्रियायाः गान­हे­तु­त्वा­भा­वात् । तिष्ठ­ति­गा­य­त्यो­र्मध्ये प्रत्यक्षसिद्धक्रिया­न्त­रा­भा­वाच्च वैषम्येऽपि शब्दतो मध्ये क्रिया­न्त­रा­प्र­ती­ति­र्दृ­ष्टान्ते विवक्षितेत्याह -
अत्र न स्थिति­क्रि­या­सा­म­र्थ्या­दे­वेति ।

वेदा­न्त­वा­क्य­ज­न्य­ब्र­ह्मा­त्म­ज्ञा­नस्य अवि­द्या­नि­वृ­त्ति­फ­ल­श्र­व­णात् जीव­ब्र­ह्म­णो­र्वा­स्त­वै­क्य­वि­ष­य­प्र­मा­ण­ज्ञा­न­मेव स्यादा­रो­पि­तै­क्य­वि­ष­य­तया विधे­यो­पा­स­ना­रू­पत्वे क्रिया­त्वा­दे­वा­वि­द्या­नि­वृ­त्ति­फ­ल­त्वा­योग इत्याह -
किं च तस्मै मृदितकषायायेति ।

इदानीं तर्क­शा­स्त्रा­नु­सा­रे­णापि मिथ्या­ज्ञा­न­नि­वृ­त्ति­रेव तत्वज्ञानफलमतो न विधेयतया क्रियारूपं तत्त्व­ज्ञा­न­मि­त्याह -
इतश्चैतदेवमिति ।
‘दुःख­ज­न्म­प्र­वृ­त्ति­दो­ष­मि­थ्या­ज्ञा­ना­ना­मु­त्त­रो­त्त­रा­पाये तदनन्तरापायादपवर्ग’ इत्यादिसूत्रेण दर्शयन्ति इत्यर्थः ।

तर्कशास्त्रेषु मिथ्या­ज्ञा­न­नि­व­र्तकं तत्त्व­ज्ञा­न­म­न्य­द­न्य­देव कथयन्ति । तत्र तत्त्व­ज्ञा­न­मि­द­मे­वेति कथं निर्णयः स्यात् , तन्निर्णयेऽपि तेनैव निवृत्तिः न तु विधेयक्रिययेति वा कथं निर्णय इति तत्राह -
मिथ्या­ज्ञा­ना­पा­य­श्चेति ।
इन्द्रो मायाभिरिति श्रुते­र्वा­द्य­ङ्गी­कृ­त­त­त्त्व­ज्ञा­नानामपि भेदज्ञानत्वादेव मिथ्या­ज्ञा­न­त्वेन अनि­व­र्त­क­त्वा­दिति भावः ।

यथावस्थितवस्तुविषयमिति ।
ब्रह्मात्मनोः पूर्व­सि­द्ध­स­त्यै­क्य­वि­षयं न भवति शब्दस्य तत्र तात्प­र्या­भा­वा­दि­त्यर्थः । आल­म्ब­नी­कृ­त्ये­त्य­त्रा­ल­म्ब­न­श­ब्देन आरो­प­ण­स्या­धि­ष्ठानं प्रतीतमुच्यते ।

दर्शनमात्रादिति ।
अर्थस्यारोपणं विहायेत्यर्थः । अनन्तविश्वेदेवसम्पादनं कृत्वा अन­न्त­लो­क­स­म्पा­दनं वा कृत्वेति योजना ।

स्वगतेन बृह­त्य­र्थ­यो­गे­नेति ।
इन्द्रियादिभ्यः पर­त्वा­ख्य­बृ­ह­त्य­र्थ­यो­गे­ने­त्यर्थः ।

गुणभूतस्य
वैदिककर्मसु कर्तृ­त्वे­ना­न्वि­त­त्वात् गुणभूतस्येत्यर्थः ।

किं प्रमा­णा­न्त­र­वि­रो­धात् सम्पदादिपरः पदसमन्वयः किं वार्थे तात्प­र्या­भा­वा­दिति । न तावत् प्रमा­णा­न्त­र­वि­रोधः जीव­ब्र­ह्म­णो­स्त­द­गो­च­र­त्वात् भेदावभासेऽपि तयो­र्बि­म्ब­प्र­ति­बि­म्ब­न्या­या­व­ता­रात् । न च सम्पदादिपरः तात्प­र्या­भा­वा­दि­त्याह -
अत्रोत्तरमिति ।

किं चावि­द्या­नि­वृ­त्ति­र्ब्र­ह्मा­त्म­भा­वश्च विद्याफलं श्रूयते । न च सम्पदादिपरत्वे तदुपपद्यते । अन्य­स्या­न्या­त्म­ता­वि­रो­धा­द­प्र­मा­ण­त्वाच्च । अतः फल­व­च­न­सा­म­र्थ्या­दपि ब्रह्मा­त्मै­क­त्व­परः पदसमन्वय इत्याह -
तदवगमनिमित्तं चेति ।

विदि­क्रि­या­क­र्मत्वे विधे­य­क्रि­या­क­र्म­त्वस्य चावसरः स्यादित्याह -
भवति विधेरवसर इति ।

स्वय­म्प्र­का­श­मा­न­तया स्ववि­ष­य­प्र­का­श­ज­न­ना­न­पे­क्ष­स्यापि ब्रह्मणः शास्त्र­ज­न्य­ज्ञा­ना­का­र­तया तद्व्या­व­र्त­क­स्या­विद्यादिदो­ष­नि­वृ­त्ति­फ­ल­व­त्तया शास्त्रप्रमेयं ब्रह्मेति प्रतिपादयति -
अत्रोत्तरं नावि­द्या­क­ल्पि­तेत्यादीति ।

नन्व­न­धि­ग­ता­र्थ­प्र­का­श­न­म­न्त­रेण न प्रमा­ण­व्या­पा­रस्य फलवत्तेति, अत्राह -
शास्त्रं हीति ।

ननु तत्र वा विष­या­व­ग­ति­म­न्त­रेण कथं निवृत्तिमात्रेण प्रमाणव्यापार इति अत आह -
तथा हीति ।
उक्त­मे­त­द्दे­व­द­त्तै­क्यस्य अभिज्ञायामेव सिद्धत्वात् तदाकारेण प्रत्य­भि­ज्ञा­सा­म­ग्री­वा­क्या­भ्या­मु­प­ज­नि­तेन ज्ञाने­नो­पा­धि­प­रि­क­ल्पि­त­भे­द­नि­रा­सेन प्रत्य­भि­ज्ञा­सा­म­ग्री­वा­क्ययोः प्रामाण्यमिति ।

ननु ब्रह्मात्मनि विपर्ययाभावात् न तन्निरासेनापि प्रामाण्यमित्यत आह -
तथा च त्वम्पदार्थ इति ।

केन तर्हि प्रमाणाकारेण विपर्यासनिरास इति तदाह -
तत्प­दा­र्थै­क­ता­मु­प­ग­च्छ­न्निति ।
तत्त्व­म्‌प­दाभ्यां लक्ष्यमाणं ब्रह्मात्मैकत्वं विज्ञानाकार इत्यर्थः ।

किं तर्हि तदाकारज्ञानेन निवर्त्यत इति तदाह -
अह­मा­त्म­के­द­मं­शो­पा­धि­कृत इति ।

प्रमाणव्यापारे विषयाकारोदय एव, प्रमी­य­मा­ण­व­स्तु­सा­म­र्थ्यात् विपर्यासनिरास इत्याह -
अर्थादिति ।

ननु ज्ञातृसमवायिनी ज्ञेयाकारा संवित् प्रमाणफलम् , अनेन न विपर्यासो निरस्यते, प्रका­श­स्यै­वा­प्र­का­श­वि­रो­धि­त्वात् , नित्ये च चैतन्यप्रकाशे न प्रमा­ण­फ­ल­म­स्ती­त्यत आह -
अवि­च्छि­द्य­मा­ना­निदंप्रकाशः प्रमाणफलमिति ।

प्रमाणेन विषयीकृतार्थगतं चैतन्यं प्रमा­ण­फ­ल­मु­च्यते, न प्रमाणजन्यं, लोकेऽ­प्य­ज­न्य­त्वात् । अतः प्रमा­तृ­प्र­मा­ण­प्र­मे­या­व­च्छि­न्न­चै­तन्यं प्रमात्रादि निवर्तयति ।
अवच्छेदकनिवृत्त्योः पूर्वो­त्त­र­क्ष­ण­तया विरोधाभावादिति ।

ननु फलं चेन्निवर्तकं निव­र्त्या­न­न्त­र्भू­त­त्वात् तर्हि फलं यावत्कालमेव स्थास्यतीति नेत्याह -
तदपीति ।
फलरूपमपीत्यर्थः ।

ननु शास्त्र­ज­न्य­ज्ञा­नेन न प्रकाश्यते चेत् ब्रह्म न शास्त्रगम्यं स्यादित्यत आह -
तेन प्रमा­त्रा­दि­च­तु­ष्ट­य­स्येति ।

ननु किमि­त्य­वि­द्या­नि­वृ­त्ति­रेव प्रमा­ण­फ­ल­मु­च्यते, विषयप्रकाशोऽपि प्रमा­ण­फ­ल­मु­च्य­ता­मिति, तत्राह -
तथा चैवंविधस्येति ।
`अविज्ञातं विजानताम्’ ‘यतो वाचो निवर्तन्त' इत्यादि ।

ननु ‘मन­सै­वा­नु­द्र­ष्ट­व्यम्' ‘तं त्वौपनिषदं पुरुषम्’ इति च ज्ञान­क्रि­या­क­र्म­त्व­मपि च श्रूयते । नैष दोषः, वेदा­न्त­ज­नि­ता­प­रो­क्ष­ज्ञा­न­स्या­का­र­स­म­र्प­क­तया व्यावर्तकत्वं शास्त्र­प्र­मे­यत्वं नाम, ज्ञान­ज­न्य­प्र­का­शा­ति­श­य­शू­न्य­त्व­म­वि­ष­यता नामेति व्यवस्थोपपत्तेः ।
न हि प्रकाशगुणे पुनः प्रकाशगुणोदय इति ।

नन्व­वि­द्या­नि­वृ­त्ते­रपि ज्ञान­सा­ध्य­त्वात् मोक्ष­स्या­नि­त्य­तेति, नेत्याह -
एवं च नित्यमुक्त इति ।

न तत्र तस्य सम्भव इति ।
ब्रह्मणि क्रिया­नु­प्र­वे­शस्य न सम्भव इत्यर्थः ।

ब्रह्मणोऽपि कारकत्वसम्भवात् कथं न सम्भवति क्रियेत्याह -
कथमिति ।

यागादिवत् कर्तृ­स­म­वे­ता­पू­र्व­सा­ध्य­मो­क्षाय ज्ञानं विधीयत इति पक्षो निरस्तः,
`न, कर्म­ब्र­ह्म­वि­द्या­फ­ल­यो­र्वै­ल­क्ष­ण्या­दि'त्या­दिना

कर्म­का­र­का­ति­श­य­रू­प­मो­क्षाय ज्ञानविधिरिति पक्षमिदानीं दूषयति -
यदि तावदुत्पाद्य इत्यादिना
कर्म­का­र­का­ति­श­य­रू­प­मो­क्ष­प­क्षेऽपि उत्पा­द्य­त्व­का­र्य­त्व­प­क्षयोः प्रागु­क्त­फ­ल­वै­ल­क्ष­ण्य­दू­षणं समानमित्यर्थः ।

तर्ह्याप्यत्वं क्रियासाध्यमिति शङ्कते -
अथा­नि­त्य­त्व­प­रि­हा­रा­येति ।

ब्रह्म प्रत्यगात्मभूतं व्यतिरिक्तं वा व्यतिरेकेऽपि सर्वगतं प्रदेशान्तरगतं वेति विकल्प्य दूषयति -
तदपि नेति ।

विका­रा­स्पृ­ष्ट­स्यापि सर्व­ग­त­त्व­स­म्भ­वात् न प्रदे­श­व­र्ति­त्व­मि­त्याह -
न, विकारदेशेऽपीति ।
तादा­त्म्या­प­त्ति­रै­क्या­प­त्ति­रि­त्यर्थः ।

स्वेनैव रूपेणेति ।
देहादिभ्यो विलक्षणस्वीया­णु­रू­पे­णे­त्यर्थः ।

स्वरूपनाश इति ।
अणुरूपे स्थिते ब्रह्मै­क्या­यो­गा­द­णु­रू­पस्य नाशः स्यादित्यर्थः ।

क्रियया वास्त­व­मू­ल­रू­प­ति­रो­धा­न­नि­रा­सेन विद्य­मा­न­ब्र­ह्म­भा­व­स्या­भि­व्यक्तिः संस्कार इति शङ्कते -
अथ विद्यमानस्येति ।

आदर्शस्येवेति ।
आदर्शस्य विद्य­मा­न­भा­स्व­र­त्व­स्या­भि­व्य­क्ति­रि­वे­त्यर्थः ।

किमा­त्म­ग­त­क्रि­यया मलापनयनं किं वा अन्याश्रययेति विकल्प्य दूषयति -
आत्मनः क्रिया­र­हि­त­त्वा­दिति ।
निरवयवत्वेन परि­स्प­न्द­प­रि­णा­म­र­हि­त­त्वा­दि­त्यर्थः । अन्याश्रयायाः कर्मत्वमात्मनो नास्ति, प्रत्य­ग्रू­प­त्वा­दिति योजना ।

ननु शास्त्री­य­क­र्मभिः आत्मनो गुणाधानलक्षणो संस्कारः श्रूयत इति नेत्याह -
न च स्नाना­दि­क्रि­य­ये­वेति ।

अह­ङ्क­र्तु­रि­द­मं­श­स्यै­वेति ।
चैतन्ये ऐक्येन अध्य­स्ता­ह­ङ्का­रस्य संस्कार्यत्वं न तु शुद्ध­चि­द्रू­पा­त्मन इत्यर्थः ।

कर्मत्वमिति
ज्ञाना­धी­न­प्र­का­शा­ति­श­य­वत्वं निषि­द्ध­मि­त्यर्थः ।

जन्या­ज­न्य­फ­ल­त्वेन क्रियाज्ञानयोः वैल­क्ष­ण्य­मु­क्तम् । इदानीं चोद­ना­ज­न्य­पु­रु­षे­च्छा­प्र­य­त्न­साध्या हि क्रिया तद­न­पे­क्ष­मा­त्म­ज्ञा­न­म­नि­च्छ­तोऽपि दुर्ग­न्धा­दि­ज्ञा­न­द­र्श­ना­दिति कारणतो वैलक्षण्यमाह -
इदमपरं वैलक्षण्यमिति ।

शब्दजन्यस्य विष­य­ज­न्य­त्वा­भा­वात् न वस्तुतन्त्रता, तत­श्चो­द­ना­ज­न्य­त्व­मिति शङ्कते -
अथापि स्यादिति ।

लिङ्गा­दि­प­र­त­न्त्र­मिति ।
विष­य­ज­न्य­त्वा­भा­वेऽपि शब्द­लि­ङ्गा­दि­ज­न्य­मि­त्यर्थः ।

वस्तु­प­रि­च्छे­द­क­मिति ।
सम्य­ग­र्थ­प­रि­च्छे­द­क­मि­त्यर्थः ।

वस्तुविषयस्य ज्ञानस्य क्रियात्वेऽपि इति ।
मनः­प­रि­णा­म­त्वेऽ­पी­त्यर्थः ।

एवमिति ।
प्रमा­ण­व­स्तु­प­र­त­न्त्रत्वे सतीत्यर्थः । सम्यग्ज्ञानेनैव भवितव्यम् । वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­तार्था इति तस्यैव मोक्ष­हे­तु­त्वा­भि­धा­ना­दिति भावः ।

यथा­भू­त­व­स्तु­वि­ष­य­त्वा­दिति ।
सम्य­ग्ज्ञा­न­त्वा­दि­त्यर्थः ।

ननु द्रष्टव्य इत्यादिना ब्रह्मज्ञाने विधयः श्रूयन्त इति तत्राह -
अतः श्रूयमाणा अपीति ।

अनुष्ठेयाभावाद्विधेरभावे द्रष्टव्यः श्रोतव्य इत्यादिशब्दस्य वैयर्थ्यं स्यादिति, नेत्याह -
अतोऽर्थवादतयेति ।

अर्थवादान्तरवत् स्तावकत्वेऽपि विधि­प­द­म­र्थ­शून्यं स्यादि­त्या­शङ्क्य विधिनिषेधयोः प्रव­र्त­क­त्व­नि­व­र्त­क­त्वा­ख्य­का­र्य­ले­श­स्या­त्रा­न्व­यात् विधिवदवभास इत्याह -
तदु­न्मु­खी­क­र­णा­दिति ।

यैः श्रव­णा­दि­भि­रात्मा स्तूयते तान् विभज्य दर्शयति -
तथा च श्रवणं नामेति ।

शारीरकश्रवणमिति ।
सूत्र­स­न्द­र्भा­ख्य­शा­री­रकश्रवणमित्यर्थः ।

विधेयस्येति ।
विधेयत्वे उपासनापर्यायः स्यात् , ततो निष्फलता स्याद­प­रो­क्ष­प्र­मि­ति­हे­तुता न स्यात् । अतो निदिध्यासनं वाक्यार्थे ज्ञान­स्थै­र्य­मे­वे­त्यर्थः ।

श्रवणादिभिः किं फलं क्रियते, येनो­त्क­र्ष­व­दि­भि­रे­तै­र्वि­ष­यी­क­र­णा­दा­त्म­न­स्तुतिः स्यादिति तदाह -
अतो वाक्यार्थे स्थैर्यादिति ।

विधेयस्यैव अर्थ­वा­दा­ख्य­स्तु­ति­स­म्बन्धः श्रुतेः प्रवृ­त्ति­फ­ल­त्वात् न सिद्धरूपस्यात्मन इत्याक्षिपति -
कः पुनरत्रेति ।

फलप्रशंसाया अपि प्रवृ­त्त्यु­प­यो­गि­त्वात् फल­भू­ता­त्म­प्र­शं­साया अपि श्रव­णा­दि­प्र­वृ­त्त्यु­प­यो­गि­त्व­मु­प­प­द्यत इत्यभिप्रेत्याह -
इदमत्र प्रस्तु­त­मि­त्यादि ।

सम्यग्दर्शनस्य फलरूपत्वात् प्रमा­णा­धी­न­त्वा­च्चा­वि­धे­य­तेति युक्ता द्रष्टव्य इत्य­स्या­र्थ­वा­दता, श्रवणादयस्तु क्रियारूपत्वात् सम्यग्दर्शनस्य दृष्टा­दृ­ष्टो­प­का­रि­तया विधेया एवेत्याशङ्क्य मन­न­नि­दि­ध्या­स­नो­प­बृं­हि­तस्य श्रवणस्य सम्यग्दर्शनाय विधे­य­त्व­म­ङ्गी­कृत्य प्रथमसूत्रं प्रवृ­त्त­मि­त्य­भि­प्रे­त्याह -
एतच्च सर्वमिति ।

विधीनामपि सतां स्ताव­क­त्व­मु­क्तम् , इदानीं शब्द­स्या­र्था­न्त­र­माह -
अपि च नैवायमिति ।

मा भूवन् ज्ञानविधय उपासनाविधयस्तु श्रूयन्त इति नेत्याह -
ऐते­ना­त्मे­त्ये­वो­पा­सी­ते­त्यादि ।
सर्वत्रैव कार­क­वि­शे­ष­ण­श्र­व­णा­द­ह­मिति स्वभा­व­प्रा­प्त­प्र­त्य­या­वृ­त्त्य­नु­वा­देन आत्मा­ख्य­वि­ष­य­वि­शेषः प्रतिपाद्यते । न तु प्रत्य­या­वृ­त्ति­र्वि­धी­यत इत्यर्थः ।

प्रमा­णा­न्त­रा­न­पेक्षं ब्रह्मणि प्रामाण्यं वेदा­न्ता­ना­मुक्तं प्रथमेन वर्णकेन, द्वितीयेन वर्णकेन मोक्ष­फ­ल­वि­धे­य­ज्ञा­न­ब्र­ह्म­स्व­रू­प­नि­रू­प­णायां विधिनिरपेक्षमेव ब्रह्मणि प्रामा­ण्य­मु­क्तम् , इदानीं तदु­भ­य­व­र्ण­का­र्थ­मा­क्षिप्य समाधत्ते -
यदपि केचि­दा­हु­रि­त्या­दिना ।

योऽय­म­हं­प्र­त्य­या­व­सेयः क्रियासु कर्तृत्वेनान्वित आत्मा स एव किं वेदान्तैः प्रतिपाद्यते किं वा ततोऽन्य इति विकल्प्य प्रथमपक्षे विधि­वा­क्यै­र्वे­दा­न्ता­ना­मे­क­वा­क्यता स्यादि­त्य­भि­प्रेत्य द्वितीयं पक्षं दूषयति -
यदि स्वरू­प­मा­त्र­निष्ठ इति ।
किञ्चिदुद्दिश्य किञ्चि­त्प्र­ति­पाद्यं स्याद­त्य­न्ता­प्र­सि­द्धा­त्म­न­स्त­द­स­म्भ­वान्न तत्प्र­ति­पा­द­क­वे­द­भा­गोऽस्ति, अतो न स वेदार्थः स्यादिति स नास्त्ये­वे­त्यर्थः ।

योऽय­म­हं­प्र­त्य­य­वि­ष­यात् कर्तुरन्यः आत्मा, स एव वेदान्तैः प्रतिपाद्यत इत्याह -
योऽय­म­हं­प्र­त्य­य­वि­ष­या­दिति ।

शरीरपरिमाणत्वशङ्कां व्यावर्त्य व्यापित्वमाह -
सम इति ।

प्रति­श­री­र­मा­त्म­भे­द­शङ्कां व्यावर्तयति -
एकः सर्वभूतेष्विति ।

सत्तासामान्यं व्यावर्तयति -
अहङ्कर्तुरपि साक्षिभूत इति ।
स एव वेदान्तप्रमेय इत्यर्थः ।

नन्वसावपि चेत­न­श्चे­दं­प्र­त्य­य­ग­म्य­तया कर्मशेषः स्यादिति नेत्याह -
न स केनचिदिति ।

शास्त्रै­क­ग­म्य­स्यापि कर्माङ्गता किं न स्यादित्यत आह -
न हि प्रमा­णा­न्त­र­सिद्ध इति ।
अधिकारिणं कर्तारं च प्रमा­णा­न्त­र­सि­द्धा­व­नूद्य विधिमात्रं प्रतिपाद्यते शास्त्रेण, अन्यथा वाक्यभेदादिति भावः ।

चेतनः प्रमा­णा­न्त­रा­ग­म्य­त्वात् शास्त्रेणापि न गम्यत इति नेत्याह -
न च स न प्रतीयत इति ।

पदसमन्वयस्य
पदसंसर्गस्य वाक्य­स्ये­त्यर्थः । अत एवेत्यस्य अन­न्य­वि­ष­य­त्वा­दि­त्य­नेन सम्बन्धः ।

पदसमन्वयात् ब्रह्मणि प्रतीयमानेऽपि प्रत्य­क्षा­दि­भि­र्बा­धात् मिथ्येति नेत्याह -
नैषः प्रतीयमानोऽपीति ।

आत्म­न­श्चा­नि­रा­का­र्य­त्वा­दिति ।
स्वरूपं चिद्रूपं वा आत्मशब्दार्थः उभ­य­स्या­प्या­त्म­श­ब्दा­र्थ­स्या­नि­रा­का­र्य­त्वा­दि­त्यर्थः ।

तस्यै­वा­त्म­त्व­प्र­स­ङ्गा­दिति ।
निःस्व­रू­प­त्वा­यो­गा­द­चि­द्रूपत्वायोगाच्चेति भावः ।

पुरुषावधिरिति ।
स्वयं प्रकाशमाने पुरुषे कल्पिततया प्रतिपन्नस्य सर्वस्य पुरुषावशेषतया विनाश इत्यर्थः ।

काष्ठेति ।
बाधानर्हः सत्य इत्यर्थः ।

परा गतिः इति ।
पूर्णचिद्रूप इत्यर्थः ।

शास्त्र­ता­त्प­र्य­विदः
वेदतात्पर्यविदः सूत्रकृत् इत्यर्थः ।

शब्दश्रवणान्तरं भूतेऽप्यर्थे प्रमितिरूपजायत इति नेत्याह -
ततो वस्त्ववगम इति ।

सामान्यतो दृष्टमिति ।
शब्दत्वात् अर्थोऽस्ति क्रिया­र्थ­श­ब्द­व­दिति सामान्यतो दृष्टमित्यर्थः ।

अत एवेति ।
शब्द­सा­म­र्थ्या­भा­वात् संवा­दा­भा­वा­च्चे­त्यर्थः ।

ज्ञान­का­र्यो­न्ने­य­मिति ।
मध्यमवृद्धस्य शब्दा­दु­त्प­न्न­ज्ञा­ना­ख्य­का­र्यो­न्ने­य­मि­त्यर्थः ।

विशि­ष्टा­र्थ­वि­ष­य­मिति ।
प्रव­र्त­क­वि­ष­य­मि­त्यर्थः ।

तदभावे कुत इति ।
साध्येऽ­भि­प्र­वृ­त्तिर्न भूतार्थ इति भावः ।

लौकिको वा न्याय इति ।
शब्द­स्या­र्थ­ज्ञा­ने­ना­न्व­य­व्य­ति­रेकौ न क्रिया­सं­सृ­ष्टा­र्थ­ज्ञा­ने­नेति भवता नावगत इत्यर्थः ।

अन­न्वि­त­के­व­ल­प­दार्थे शक्तिग्रहणात् अक्रि­या­र्था­ना­मपि साल­म्ब­न­त्वा­न्नि­रा­ल­म्ब­न­त्व­मा­न­र्थ­क्य­श­ब्देन वक्तुं न शक्य­मि­त्य­भि­हि­ता­न्व­य­प­क्षा­श्र­येण परिहरति -
पश्यतु भवानिति ।

भूत­व­स्तु­वि­ष­य­म­पीति ।
अन­न्वि­त­दे­व­द­त्त­ग­वा­दि­भू­त­व­स्तु­वि­ष­य­म­पी­त्यर्थः ।

तर्ह्या­न­र्थ­क्य­श­ब्दे­ना­क्रि­या­र्थानां प्रयोजनाभाव उच्यते इत्याशङ्क्य क्रियायाः प्रयो­ज­न­त्वा­भा­वात् अक्रियार्थानां प्रयोजनाभावोऽपि न वक्तुं शक्य इत्याह -
प्रयोजनं चानन्तरमिति ।

क्रियायाः प्रयो­ज­न­त्वा­भा­वेऽपि क्रियाद्वारमेव प्रयोजनं स्यात् , अतोऽ­क्रि­या­र्थानां निष्प्र­यो­ज­न­त्व­मि­त्या­शङ्क्य सत्यं, केषाञ्चित् शब्दानां क्रिया­द्वा­र­प्र­यो­ज­नानां क्रिया­नु­प­यो­ग्य­र्थत्वे निष्प्रयोजनत्वं स्यादित्याह -
अतस्तदर्थं क्रियेति ।

ननु सर्वं प्रयोजनं क्रियाद्वारमेव अतः क्रिया­नु­प­यो­ग्य­र्थानां वेदान्तानां निष्प्र­यो­ज­न­त्व­मिति नेत्याह -
ब्रह्मात्मत्वावगतीति ।

कथं निष्प्र­यो­ज­न­त्व­मिति ।
अक्रियार्थत्वे क्रिया­नु­प­यो­ग्य­र्थ­त्वेऽपि कथं निष्प्र­यो­ज­न­त्व­मि­त्यर्थः ।

अन्वि­ता­भि­धा­न­प­क्ष­मा­श्रित्य कार्यान्विते पदसामर्थ्यात् कार्या­नु­प­यो­गि­भू­ता­र्थ­वा­दि­ना­मा­न­र्थ­क्य­मिति प्राभाकरः प्रत्यवतिष्ठते -
स्यादेतत् - यद्यपीति ।

साम­र्थ्य­ग्र­ह­ण­स­मये भूतार्थे सामर्थ्यं प्रतीयते चेत् गृहीतसम्बन्धात् शब्दात् संसृ­ष्ट­भू­ता­र्थोऽपि प्रतीयतामिति, नेत्याह -
तथापि नाप्रतिपन्न इति ।
साम­र्थ्य­ग्र­ह­ण­स­मये शक्तिविषयतया अप्रतिपन्नस्य संसृ­ष्ट­भू­ता­र्थस्य बोधनकाले अवगतिर्न सम्भवति, तस्मादवगतिरस्ति चेत् संसृष्टभूतार्थे साम­र्थ्य­मि­त्यर्थः ।

संसृष्टस्वार्थे शब्दसामर्थ्यं चेत् भूतार्थेन संसृष्टेऽपि सामर्थ्यं गृह्यतामिति नेत्याह -
क्रिया­र्थ­त­यै­वेति ।
नियो­ग­सं­सृ­ष्ट­त­यैव स्वार्थे साम­र्थ्या­व­ग­मा­दि­त्यर्थः ।

कार्य­सं­सृ­ष्ट­स्वार्थे साम­र्थ्य­ग्र­ह­णेऽ­प्य­न्वि­त­स्या­र्थस्य तत्रा­न्त­र्भा­वात् तेनैव प्रयोजकेन पुन­र्गृ­ही­त­स­म्ब­न्धात् शब्दात् भूता­र्थ­सं­स­र्गोऽपि प्रतीयतामिति, नेत्याह -
न हि गोपदात्तदर्थ इति ।
गोत्व­जा­ति­रि­त्यर्थः । स्वप्रतिष्ठः स्वतन्त्र इत्यर्थः । अतो गृही­त­सा­म­र्थ्या­नु­सा­रेण कार्य­सं­सृ­ष्ट­त­यैव भूतमर्थं बोधयतीति भावः ।

तदेतदन्यान्विते सामर्थ्यं वदन् सिद्धान्ती निराचष्टे -
विषम उपन्यास इति ।
अभिधेयसम्बन्धे गृह्यमाण इत्यर्थः ।

नानाविधं सामर्थ्यमिति ।
केस­रा­दि­म­त्पि­ण्ड­ध­र्म­गोत्वे स्वतन्त्रगोत्वे च सामर्थ्यं नोप­ल­भ्य­मि­त्यर्थः ।

एकरूपैव प्रतीतिरिति ।
साम­र्थ्य­ग्र­ह­ण­स­मय इव बोधनकालेऽपि सास्ना­दि­म­त्पि­ण्ड­ध­र्म­त­यैव प्रती­ति­र्यु­क्ते­त्यर्थः । शब्दा­र्था­न्त­रा­द्य­न्वये पुनर्गोशब्दस्य सामर्थ्ये गृह्यमाणे बन्धने प्रयो­ग­भे­दा­दा­वा­पो­द्वा­प­नि­ब­न्धनः प्रतिविभक्ति प्रति­प­दा­र्था­न्तरं च अन्यथा चान्यथा च समन्वयः सम्ब­न्ध­ग्र­ह­ण­काले एव दृश्यत इत्यन्वयः । गोशब्दार्थस्य शक्ला­दि­गु­ण­सं­सृ­ष्ट­तया विभ­क्त्य­भि­धे­य­का­र­क­त्व­सं­सृ­ष्ट­तया दण्डा­दि­द्र­व्य­सं­सृ­ष्ट­तया आन­य­ना­दि­क्रि­या­सं­सृ­ष्ट­तया प्रतिपन्नस्य पश्चात् कार्येणान्वयात् पूर्वं केव­ला­न्या­न्वि­त­स्वार्थे गोशब्दस्य सामर्थ्यं गृह्यत इत्यर्थः ।

सम्ब­न्ध­यो­ग्य­ता­भि­धा­यीति ।
कार­क­त्वा­ख्य­यो­ग्य­ता­भि­धा­यी­त्यर्थः ।

ऐदम्पर्यवशात्
तात्प­र्य­व­शा­दि­त्यर्थः ।

वेदेऽपि कार्य­म­न­पे­क्ष्यैव संस­र्ग­प्र­मि­ति­र­ङ्गी­कृ­ते­त्याह -
तथा च वष­ट्क­र्तु­रि­त्या­दिना ।

भक्ष्यत इति व्युत्पत्त्या भक्ष इति पुरो­डा­शा­दि­रु­च्यते । कर्तव्य इति पदं तत्रा­प्य­ध्या­हृत्य तेनैव वाक्यत्वोपगमेन संसर्गः प्रमीयत इति तत्राह -
यस्तु कर्तव्य इति ।
काल­त्र­या­स्पृ­ष्ट­सं­स­र्ग­प्र­ती­ति­नि­मित्तो नियोगाध्याहार इत्यर्थः ।

कार्या­न्वि­त­स्वार्थे शब्द­सा­म­र्थ्य­प्र­द­र्श­न­प­र­त्वे­ना­भि­मतं सूत्रमुदाहरति -
यत्तु तद्भूतानामिति ।

तदपीति ।
तदपि नेत्यर्थः ।

अस्य सूत्रस्य शाबरभाष्यकारेण कृतयोजनामाह -
सिद्ध­रू­पा­दि­ष्वि­त्या­दिना ।

सूत्र­ग­त­त­च्छ­ब्दा­र्थ­माह -
सिद्ध­रू­पा­दि­ष्विति ।

भूता­ना­मि­त्य­स्या­र्थ­माह -
वर्तमानानामिति ।

समाम्नाय इत्यस्य किञ्चि­द­ध्या­हृ­त्या­र्थ­माह -
सामा­ना­धि­क­र­ण्येति ।

इति यतो दर्शित इति ।
योजनया भाष्यकारेणैव गुणगुण्यादीनां विशे­ष­ण­वि­शे­ष्या­दि­भा­वेन समन्वयो दर्शितो यत इत्यर्थः ।

क्रियार्थेनेति वचने कथं गुणगुण्यादि सामा­ना­धि­क­र­ण्य­स­म्बन्ध इत्यत आह -
क्रियार्थेनेति ।

अर्थ­स­द्भा­व­मात्रे कथनीय इति ।
आम्ना­य­स्या­र्थ­ज्ञानरूप­प्र­यो­ज­न­स­द्भा­व­मात्रे कथनीये सतीत्यर्थः ।

किमिति जैमिनीयसूत्रवचनात् वेदान्तानां कार्य­नि­ष्ठ­त्व­मि­ष्यते, कार्य­नि­ष्ठ­त्वा­भा­व­म­ङ्गी­कृत्य पूर्वेण तन्त्रे­णा­ग­ता­र्थ­त्वा­भि­प्रा­येण पृथ­गा­र­भ्य­मा­ण­बा­द­रा­य­ण­सू­त्र­ब­लात् कार्य­नि­ष्ठ­त्वा­भावः किं नाभ्युपेयत इत्याह -
अत एव पूर्वेण तन्त्रेणेति ।

अर्थभेदाभावे कथं पृथगारम्भ इति शङ्का­या­म­र्थ­वि­भा­ग­माह -
तत्र हीत्यादिना ।

अधिकरण इति ।
विषय इत्यर्थः ।

ब्रह्म­वा­क्य­ग­त­स­त्या­दि­प्रा­ति­प­दि­का­र्था­ना­मे­क­र­स­ब्र­ह्म­प­र­त­या­न्व­येऽपि प्रथ­मा­वि­भ­क्ते­र­व्य­भि­चा­रात् तद­र्था­स्ति­क्रि­या­क­र्तृ­त्वा­ख्य­का­र­क­त्वा­न्वयो वाक्यार्थे स्यादिति नेत्याह -
तथा च भगवानिति ।
तत्र लिङ्ग­स­ङ्ख्या­द­य­स्त्व­र्थात् प्रतीयमाना अपि विज्ञानघन एवा­द्वि­ती­य­मि­त्या­दि­श­ब्द­वि­रो­धात् अनिर्वचनीया भवि­ष्य­न्ती­त्यर्थः ।

नास्ति­क्रि­या­क­र्तर्येवातिरिक्तार्थ इति ।
अस्ति­क्रि­या­क­र्तृ­त्वा­देव प्राति­प­दि­का­र्थात् व्यतिरिक्तार्थे नानारसे प्रथमां न स्मरतीत्यर्थः ।

तेन च कात्यायनस्येति ।
घट इत्यत्र वर्त­मा­न­ता­भि­धा­यि­ल­ट्‍प­र­त­या­स्ति­धा­तोरप्रयोगेऽपि प्रयुक्तवदर्थः स्वीकार्यः घटोऽ­स्ती­त्ये­त­न्मतं नानुमन्यत इत्यर्थः ।

वृक्षाः फलिता इति ज्ञात्वा ते सन्ति वा न सन्ति वा इति संशयानं प्रति तन्निरासाय न वाक्यप्रयोगः, अतोऽ­स्ति­क्रि­याया नाध्याहारः, किन्तु फल­स­म्ब­न्ध­म­जा­नन्तं प्रति सम्ब­न्ध­मा­त्र­म­व­बोधयति वाक्यमित्याह -
नात्रापि ये फलितेत्यादिना

वस्तु­स्व­रू­पा­न्त­र्व­र्तिन्या अपीति ।
षड्भा­व­वि­का­रे­ष्व­स्ति­क्रि­याया एव वस्तुस्वरूपत्वं नेतरेषामिति भावः ।

पदा­ना­म­न्या­न्वि­त­स्वार्थे सम्बन्धग्रहणात् क्रियामपहाय अत­द्व्य­ति­रि­क्तै­क­र­स­प्रा­ति­प­दि­का­र्था­न्वयो युक्त इत्युक्तमिदानीं क्रिया­न्वि­ता­भि­धा­न­वा­दि­ना­मपि भूतेऽर्थे निषे­ध­वा­क्य­स­म­न्वयो वक्तव्य इत्याह -
किं च ब्राह्मणो न हन्तव्य इति ।

प्रति­षे­ध­वा­क्य­स­म­न्वय इति ।
वाक्य­ग­म्य­स­म­न्वये वार्थ इत्यर्थः ।

क्रिया­नि­वृ­त्ति­रे­वेति ।
हननक्रियाभाव एवेत्यर्थः ।

नेक्षे­तो­द्य­न्त­मा­दि­त्य­मि­त्यत्र नेक्षेत इति अनीक्षणसङ्क­ल्प­क्रि­या­वि­धा­न­वन्न हन्यामिति सङ्कल्पयेदिति अह्नननस­ङ्क­ल्प­क्रि­या­वि­धानं स्यादिति नेत्याह -
व्रत शब्द­स­म­न्व­या­त्त्विति ।
तस्य व्रत­मि­त्य­नु­ष्ठे­य­वा­चि­व्र­त­श­ब्दे­नो­प­क्र­मा­दि­त्यर्थः । संसृज्यमानाभाव एव नञ्शब्दस्य मुख्योऽर्थः ।

संसृ­ज्य­मा­ना­द­न्य­स्मिन् तद्विरोधिनि च स्वार्थाविना­भा­व­स­म्ब­न्धा­ल्ल­क्ष­णया वर्तते । अतो नात्र मुख्यवृत्त्या ईक्ष­ण­वि­रो­धि­स­ङ्क­ल्प­क्रिया प्रतीयत इत्याह -
न सम­न्व­य­मा­त्रा­दिति ।
न नञः सम­न्व­य­मा­त्रा­दि­त्यर्थः ।

अर्था­भा­व­क­र­त्वा­दिति ।
अर्था­भा­व­बो­ध­क­त्वा­दि­त्यर्थः ।

रागादिना प्राप्त­ह­न­न­क्रि­यया सम्बध्य भावा­न्त­रा­ति­रि­क्ता­भा­वा­यो­गात् हननविरोधिनीं न हन्यादिति सङ्कल्पक्रियां मुख्य­वृ­त्त्या­भि­धाय नञ्शब्दो विधिप्रत्ययेन सम्बध्यते, अतो ह्नन­वि­रो­धि­क्रि­या­वि­धा­य­क­मिदं वाक्यमिति प्राभा­क­र­प­क्षा­नु­वा­दि­भा­ष्यांशं व्याचष्टे -
स्वभावत एवेत्यादिना ।
स्वभावत एवेत्यस्य व्याख्या रागा­दि­क्रि­या­नि­मि­त्तेति ।

अनुरज्यत
इत्यस्य व्याख्या विशेष्यत इति । सम्बध्यत इत्यर्थः ।

नञा विरो­धि­क्रि­या­भि­धा­नेन हननसम्बन्धिरूपं दर्शयति -
हननमितीति ।

हननाभावाभिधानेन हननसम्बन्धरूपं दर्शयति -
हननं न कुर्यादिति ।

निवृ­त्त्यौ­दा­सी­न्य­मिति ।
निवृ­त्ति­रू­प­मौ­दा­सीन्यं ह्ननप्रागभावो न वाक्यार्थः स्यादित्यर्थः ।

प्रदर्शितं प्राभाकरपक्षं भावा­न्त­रा­ति­रि­क्ता­भावं नञो मुख्या­र्थ­म­ङ्गी­कृत्य दूषयति -
न चैतद्युक्तमिति ।

उप­म­र्द­रू­प­त्वा­दिति ।
अभा­वा­भि­धा­यि­रू­प­त्वा­दि­त्यर्थः ।

तथा समन्वय इति ।
नञो धात्वर्थेन सम्बध्य तद्वि­रो­धि­क्रि­या­न्त­र­वि­ष­य­त्व­मि­त्यर्थः ।

प्रति­षे­ध­वा­क्येषु नञर्थाख्याभावे नियोगो न, क्रियात्वात् , अतो नियोगपर्यवसितं प्रति­षे­ध­वा­क्य­मिति प्राभा­क­र­श्चो­द­यति -
ननु नञर्थ इति ।

नञर्थो हि नामेति ।
अनु­ष्ठे­य­म्भा­वार्थो दध्यादिगुणो वा नियोगविषयतया तन्नि­वृ­त्ति­हे­तु­स्त­दु­भयं नञर्थो न भवति, अपि तु संसृ­ज्य­मा­न­स्या­भावो नञर्थस्तस्य प्राग­भा­व­त­याऽ­ना­दि­त्वा­द­न­नु­ष्ठे­य­तया नियोगाविषयत्वेन नियो­ग­नि­ष्पा­द­कत्वं नास्तीत्यर्थः ।

येन संसृज्यत इति ।
येन धात्वर्थेन संसृज्यते नञ्शब्द इत्यर्थः ।

दूषणान्तरमाह -
एवं प्रतिषेधस्येति ।

अन्यथेति ।
नञर्थेऽपि नियो­ग­श्चे­दि­त्यर्थः ।

तस्मात् संसृ­ज्य­मा­ना­भा­व­मात्र इति
संसृ­ज्य­मा­न­धा­त्व­र्थ­भा­व­मात्र न इत्यर्थः ।

ह्ननस्यैव नञ्श­ब्दा­न्व­य­म­ङ्गी­कृत्य ह्नना­भा­वोऽ­र्था­न्तरं वा न विधेयमित्यक्तम् । इदानीं प्रत्ययार्थ एव नञा सम्बध्यते प्रकृत्यर्थस्य प्रत्य­या­र्थो­प­स­र्ज­न­त्वात् , प्रधानेन च इत­रे­षा­म­न्व­या­दि­त्याह -
तच्च संसृज्यमानमिति ।

विधि­नि­म­न्त्र­णा­म­न्त्र­णा­धी­ष्ट­स­म्प्र­श्ना­भ्य­नु­ज्ञा­ना­ना­म­भा­वा­दिति ।
ब्राह्मणं प्रत्यक्षेण दृष्ट्वा तद्ध­न­न­मि­ष्ट­सा­ध­न­मिति च बुद्ध्या स्वयमेव प्रवर्तते । विध्यादीनां तु पुरु­षा­न्त­र­नि­ब­न्ध­नानां ह्ननस्य पुरु­षा­न्त­र­नि­ब­न्धनप्रवृ­त्ति­त्वा­भा­वात् विध्यादीनां प्रत्य­या­र्थ­त्वा­भा­वा­दि­त्यर्थः ।

प्रतिपाद्य धर्म इति ।
अनु­ष्ठे­य­ह­न­ना­ख्य­धा­त्व­र्थ­धर्म इत्यर्थः ।

कोऽसौ धर्मः यः प्रत्ययार्थः स्यादिति तत्राह -
प्रति­षि­ध्य­मा­न­क्रि­या­फलप्रार्थनेति ।
निव­र्त्य­मा­न­ह्न­न­क्रि­या­ग­त­फ­ल­सा­ध­न­त्व­मि­त्यर्थः । फलाय प्रार्थ्यत इति फलप्रार्थनेति फल­सा­ध­न­त्व­मु­च्यते ।

तदभावः प्रतिषेधार्थ इति ।
हननस्य यदिष्टसाधनत्वं प्रवर्तकं तदेव हन्तव्य इत्यत्र प्रत्ययेनानूद्य ब्राह्म­ण­ह­न­न­मि­ष्ट­सा­धनं न भवतीति प्रतिषिध्यत इत्यर्थः । ननु प्रत्य­क्ष­मि­ष्ट­सा­ध­नत्वं न अदृष्टाविरोधि दृष्टप्रयोजनस्य इष्ट­श­ब्दा­र्थ­त्वात् इद­म­दृ­ष्टा­वि­रो­धि­दृ­ष्ट­सा­धनं न भवतीत्यर्थः ।

सर्वत्र चार्था­न­र्थ­सं­यो­गा­द­न­र्था­द­धि­कोऽर्थः पुरुषार्थ इत्युच्यते । अर्थाच्च अधि­कोऽ­न­र्थोऽ­पु­रु­षार्थ इति । तत्र पुरुषार्थसाधनं न भवति । ह्नन­मि­त्यु­क्तेऽ­न­र्था­द­धि­कोऽर्थो नास्तीत्युक्तं भवति । तत­श्चा­र्था­द­न­र्थस्याधिक्या­द­र्था­द­नर्थं साधनमित्युक्तम् । ततश्च प्रत्य­या­र्था­भा­वोऽ­न­नु­ष्ठेय इत्याह -
स च प्रागभावः स्वभावसिद्ध इति ।
अनादिसिद्ध इत्यर्थः ।

किं तर्हि अनुष्ठेयमित्यत आह -
तत्सं­स्का­रो­द्बोध इति ।
ह्नन­सं­स्का­रो­द्बो­ध­नि­मित्तो ह्नने हित­सा­ध­न­त्व­भ्र­म­हे­तुको रागस्तस्य सन्निधावपि प्राप्तावपि तत्र प्रतिबन्धे रागप्रध्वंसे प्रयत्न आस्थेयोऽनुष्ठेय इत्यर्थः ।

स एव रागप्रध्वंसः कर्तव्य इति विधीयतामिति नेत्याह -
स च यद्यपि साध्य इति ।

ह्ननमिष्टसाधनं न भव­त्य­धि­का­न­र्थ­सा­धनं चेत्यवगतौ ह्नन­सं­स्का­रो­द्बो­ध­नि­मि­त्त­भू­त­रा­ग­नि­रो­धस्य अन्व­य­व्य­ति­रे­का­भ्या­मेव अनुष्ठेयत्वात् न तत्र साधने शब्दापेक्षेति निमि­त्त­नि­रो­ध­क­र्त­व्य­तायां वाक्यस्य असा­म­र्थ्या­च्चे­त्याह -
तत्प्रतिपादकेति

अन्यत्रेति ।
अन्यस्येत्यर्थः ।

इष्टसाधनं न भवतीति बोध­क­श­ब्द­सा­म­र्थ्या­च्चे­न्नि­मि­त्त­नि­रोधः, सोऽपि तर्हि शब्दार्थ इति नेत्याह -
यश्चार्थादर्थ इति ।

प्रत्य­या­र्था­भावे नियोगमङ्गीकरोति -
अथ पुनरिति ।

नञर्थविषयो नियोग एवेति ।
नञर्थविषयो नियोग एवेत्यर्थः ।

प्रति­षि­ध्य­मा­न­क्रि­या­नि­वृ­त्त्येति ।
निव­र्त्य­मा­न­क्रि­या­भा­वेन हित­सा­ध­न­त्वा­भा­वोऽपि स्यात्तेन नियोगोऽपि सिद्धः स्यादिति नानु­ष्ठा­ना­पे­क्षे­त्यर्थः ।

क्रियाया अनु­पा­दा­न­स­म्भ­वात् निव­र्त्य­मा­न­त्व­म­यु­क्त­मिति तत्राह -
क्रियोपादाने चेति ।

तत्फलप्रार्थनैव हेतुरिति ।
क्रिया­ग­त­फ­ल­सा­ध­न­त्व­भ्रा­न्ति­रेव हेतुरित्यर्थः ।

तत्का­र­ण­प्र­ति­बन्धे प्रयत्नास्थानादिति ।
फल­सा­ध­न­त्व­भ्रा­न्ति­क­र­ण­भू­त­त­द्भ्र­म­सं­स्का­र­प्र­ति­बन्धे विनाशे प्रय­त्ना­स्था­ना­द्वि­ना­शा­नु­ष्ठा­ना­दि­त्यर्थः ।

तच्चान्वयव्यतिरेकावसेयमिति ।
हितसाधनं न भवतीति ज्ञान­सं­स्का­र­दाढ्ये सति विप­री­त­भ्र­म­सं­स्कारो नश्य­ती­त्ये­त­द­न्व­य­व्य­ति­रे­का­व­से­य­मिति न शब्दापेक्षमनु­ष्ठा­न­मि­त्यर्थः ।

वृद्ध­व्य­व­हा­रा­नु­सा­रे­णै­वेति ।
शब्द­स्या­न्या­न्वि­त­स्वार्थे प्रयो­ग­प्र­त्य­या­नु­सा­रे­णै­वे­त्यर्थः ।

तन्मात्रे
ब्रह्मा­त्म­त्व­मात्र इत्यर्थः ।

अव­ग­त­ब्र­ह्मा­त्म­भा­व­स्येति ।
विधि­नि­र­पे­क्ष­त­यो­त्प­न्न­शा­ब्द­ज्ञा­न­त­द­भ्या­सा­भ्या­मु­त्प­न्ना­प­रो­क्ष­ज्ञा­नेन अव­ग­त­ब्र­ह्मा­त्म­भा­व­स्ये­त्यर्थः ।

कथ­म­प­रो­क्ष­ज्ञा­न­वतः संसाराभावः कर्मा­भि­नि­र्वृत्तशरीरनिमित्तत्वात् संसा­र­स्या­वि­द्या­त्वा­भा­वा­दिति तत्राह -
न कर्मनिमित्त इति ।

आत्मनो न शरीरसम्बन्धात् कर्म भवत्यपि तु स्वत एव, अतो नेत­रे­त­रा­श्र­य­तेति तत्राह -
क्रिया­दि­र­हि­त­त्वात् चैतन्यस्येति ।
अनादित्वेऽपि अद्य­त­न­श­री­र­स­म्बन्धः पूर्वकर्मणा, तच्चा­ती­त­श­री­र­स­म्ब­न्धात् , सोऽपि पूर्व­त­न­दे­ह­स­म्ब­न्ध­नि­मित्त इति शरीरसम्बन्धस्य कर्मनिमित्तत्व इत्यर्थः ।

गौण­त्व­प्र­स­ङ्गा­दिति ।
शरीरे अहंमानस्य पुत्रा­दि­श­री­र­वि­ष­या­हं­मा­न­स्येव गौण­त्व­प्र­स­ङ्गा­दि­त्यर्थः ।

तथा अनुभवाभावात् ,
गौण­त्वे­ना­नु­भ­वा­भा­वा­दि­त्यर्थः ।

प्रसिद्धगौणत्वप्रकारासम्भवात् ।
प्रसि­द्ध­यो­र­भे­दा­व­भा­सस्य गौण­त्व­प्र­सि­द्धे­रा­त्मनः स्वशरीरेणाहं मनुष्य इत्यभेदावभासस्य तथा­त्वा­भा­वा­दि­त्यर्थः ।

अवि­द्या­नि­मि­त्त­श­री­र­स­म्बन्ध इति ।
अहं मनुष्य इति भ्रान्ति­र­वि­द्ये­त्यु­च्यते । तज्जन्यो मिथ्यारूपाभेदः शरीरसम्बन्ध इत्यर्थः । मूला­वि­द्या­का­र्य­रू­प­श­री­र­स­म्बन्ध इति वार्थः ।

अप­रो­क्ष­ज्ञा­ना­न्मि­थ्या­ज्ञाने निवृत्ते कुतो द्वैतदर्शनमिति तत्राह -
वैषयिकस्त्विति ।

ननु श्रवणजन्ये ज्ञाने सत्यपि पुन­र्म­न­न­नि­दि­ध्या­स­न­वि­धा­नात् न ज्ञानमात्रलभ्यो मोक्ष इत्युक्तमिति नेत्याह -
मन­न­नि­दि­ध्या­स­न­यो­रिति ।

अव­ग­त्यु­त्त­र­का­ली­न­तेति ।
नाप­रो­क्षा­व­ग­त्यु­त्त­र­का­ली­न­ते­त्यर्थः ।

इदानीं वर्ण­क­द्व­यो­क्त­म­नु­व­दति -
तदेवं सिद्ध­स्ये­त्या­दिना ।

स्वरू­प­स­त्ता­मा­त्रे­णा­प्र­ति­प­न्न­स्येति ।
रूपाद्यभावादेव सिद्धवस्तुनः सद्भावमात्रेण प्रमा­णा­न्त­रे­णा­प्र­ति­प­न्न­स्यै­वा­व­ग­म­प्र­मा­ण­वि­ष­य­तया प्रमे­य­त्वा­दि­त्यर्थः ।

वाक्य­भे­द­प्र­स­ङ्गा­दिति ।
विधेः कारकत्वस्य विधिवाक्यादेव सिद्धौ वाक्य­भे­द­प्र­स­ङ्गा­दि­त्यर्थः ।

कार­क­स्या­वा­न्त­र­ता­त्प­र्ये­णापि सिद्ध्यसम्भवमाह -
प्रत्य­क्षा­दि­वि­रोध इति ।

विधेरपे­क्षि­त­भू­त­व­स्तु­प्र­ति­पा­द­नेन प्रव­र्त­क­वा­क्य­त्वा­भावे शास्त्रा­र­म्भ­भे­द­सिद्धिः नान्यथा इत्याह -
एवं च सतीति

तद्विषयः,
समन्वयविषय इत्यर्थः ।

आरब्धत्वादिति ।
सम­न्व­य­वि­चा­र­स्या­प्या­र­ब्ध­त्वा­दि­त्यर्थः ।

शरी­रे­न्द्रि­य­नि­र्व­र्त्य­वि­धि­भेदाः कर्मकाण्डे निरूपिताः, इह तु केवलमनः साध्यो विधिर्निरूप्यत इति पृथगारम्भः स्यादिति चोदयति -
अथाप्यबहिः साधनत्वादिति

अपि चाहुरिति भाष्यांशमुपादाय तस्यार्थमाह -
अपि चाहुरिति ।

श्लोकत्रयस्य तात्पर्यमाह -
पूर्वोक्त न्यायमिति ।

प्रथ­म­श्लो­क­मु­पा­दाय व्याचष्टे -
गौणमिथ्यात्मन इति ।

पर्यन्तोहंमानः पर्यन्ते केवलदेहेऽह­मि­त्य­भि­मा­ना­भा­वा­ज्जा­त्या­दि­वि­शि­ष्टेऽ­भि­मान इत्याह -
विशिष्टजातीय इति ।

यथावगतितत्त्वहेतुरिति ।
प्रामा­ण्य­हे­तु­र­तश्च देहादावहंमानः प्रमाणमित्यर्थः ।

अनु­त्प­त्ति­सं­श­य­वि­प­र्या­स­ल­क्षणाप्रामा­ण्य­हे­तुश्च नास्तीत्याह -
निश्चि­ते­त्या­दिना ॥
इति परा­न­न्द­प­रि­ज्ञा­न­प­रि­तृ­प्त­प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीम­ज्ज्ञा­नो­त्त­म­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्येण उत्तमज्ञयतिवरेण विरचितायां पञ्च­पा­दि­का­व­क्त­व्य­का­शि­कायां चतुर्थं समन्वयसूत्रम् । श्री विद्यारण्यगुरवे नमः । श्री श्री नृसिं­ह­भा­र­ती­गु­रवे नमः । । ००००० । ॥ श्रीम­द्वि­द्या­श­ङ्क­रे­श्व­राय नमः । शुभं भवतु || इति नवमवर्णककारिका ||