अद्वैतशारदा

वेदान्तपरिभाषा

प्रत्यक्षप्रमाणम्

यदविद्याविलासेन भूतभौतिकसृष्टयः ।
तं नौमि परमात्मानं सच्चि­दा­न­न्द­वि­ग्र­हम् ॥१॥

यद­न्ते­वा­सि­प­ञ्चा­स्यै­र्नि­रस्ता भेदिवारणाः ।
तं प्रणौमि नृसिंहाख्यं यतीन्द्रं परमं गुरुम् ॥२॥

श्रीम­द्वे­ङ्क­ट­ना­था­ख्यान् वेला­ङ्गु­डि­नि­वा­सिनः ।
जगद्गुरूनहं वन्दे सर्व­त­न्त्र­प्र­व­र्त­कान् ॥३॥

येन चिन्तामणौ टीका दशटीकाविभञ्जिनी ।
तर्क­चू­डा­म­णि­र्नाम कृता विद्वन्मनोरमा ॥४॥

तेन बोधाय मन्दानां वेदा­न्ता­र्था­व­ल­म्बिनी ।
धर्म­रा­जा­ध्व­री­न्द्रेण परिभाषा वितन्यते ॥५॥

इह खलु धर्मा­र्थ­का­म­मो­क्षा­ख्येषु चतु­र्वि­ध­पु­रु­षा­र्थेषु मोक्ष एव परमपुरुषार्थः । " न स पुन­रा­व­र्तते"(शरभोपनिषत्) इत्यादिश्रुत्या तस्यैव नित्यत्वावगमात् । इतरेषां त्रयाणां प्रत्यक्षेण, " तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते"(छा.उ. ८.१.६) इत्यादिश्रुत्या च अनि­त्य­त्वा­व­ग­माच्च । स च ब्रह्म­ज्ञा­ना­दिति, ब्रह्म, तज्ज्ञानं, तत्प्रमाणञ्च सप्रपञ्चं निरूप्यते ।

तत्र प्रमाकरणं प्रमाणम् । तत्र स्मृति­व्या­वृत्तं प्रमा­त्व­म­न­धि­ग­ता­बा­धि­ता­र्थ­वि­ष­य­क­ज्ञा­न­त्वम् । स्मृति­सा­धा­र­णन्तु अबा­धि­ता­र्थ­वि­ष­य­क­ज्ञा­न­त्वम् । नीरूपस्यापि काल­स्ये­न्द्रि­य­वे­द्य­त्वा­भ्यु­प­ग­मेन, धारा­वा­हि­क­बु­द्धे­रपि पूर्व­पू­र्व­ज्ञा­ना­वि­ष­य­त­त्त­त्क्ष­ण­वि­शे­ष­वि­ष­य­क­त्वेन न तत्राव्याप्तिः । किञ्च सिद्धान्ते धारा­वा­हि­क­बु­द्धि­स्थले न ज्ञानभेदः । किन्तु यावद्घटस्फुरणं ताव­द्घ­टा­का­रा­न्तः­क­र­ण­वृ­त्ति­रे­कैव, न तु नाना । वृत्तेः स्ववि­रो­धि­वृ­त्यु­त्प­त्ति­प­र्यन्तं स्थायि­त्वा­भ्यु­प­ग­मात् । तथा च तत्प्र­ति­फ­लि­त­चै­त­न्य­रूपं घटादिज्ञानमपि तत्र ताव­त्का­ली­न­मे­क­मेव इति नाव्या­प्ति­श­ङ्कापि ।

ननु सिद्धान्ते घटा­दे­र्मि­थ्या­त्वेन बाधितत्वात् कथं तज्ज्ञानं प्रमाणम् ? उच्यते । ब्रह्म­सा­क्षा­त्का­रा­न­न्तरं हि घटादीनां बाधः, "यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् तत् केन कं पश्येत्"(बृ.उ. २ । ४ । १४) इति श्रुतेः । न तु संसारदशायां बाधः, " यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति"(बृ.उ. २.४.१४) इति श्रुतेः । तथा च अबाधितपदेन संसा­र­द­शा­या­म­बा­धि­तत्वं विवक्षितम् । इति न घटा­दि­प्र­मा­य­म­व्याप्तिः । तदुक्तम् - " देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमा­ण­न्त्वाऽऽ­त्म­नि­श्च­यात् ॥" इति । 'आ आत्म­नि­श्च­यात्'- ब्रह्म­सा­क्षा­त्का­र­प­र्य­न्त­मि­त्यर्थः । 'लौकि­कम्' इति घटा­दि­ज्ञा­न­मि­त्यर्थः । तानि च प्रमाणानि षट् प्रत्य­क्षा­नु­मा­नो­प­मा­ना­ग­मा­र्था­प­त्त्य­नु­प­ल­ब्धि­भे­दात् ।

तत्र प्रत्य­क्ष­प्र­मायाः करणं प्रत्य­क्ष­प्र­मा­णम् । प्रत्यक्षप्रमा चात्र चैतन्यमेव, " यत् साक्षा­द­प­रो­क्षाद् ब्रह्म"(बृ.उ. ३.४.१) इति श्रुतेः । अप­रो­क्षा­दि­त्यस्य अप­रो­क्ष­मि­त्यर्थः ।

ननु चैतन्यमनादि । तत्कथं चक्षु­रा­दे­स्त­त्क­र­ण­त्वेन प्रमाणत्वमिति । उच्यते । चैत­न्य­स्या­ना­दि­त्वेऽपि तद­भि­व्य­ञ्ज­का­न्तः­क­र­ण­वृ­त्ति­रि­न्द्रि­य­स­न्नि­क­र्षा­दिना जायते इति वृत्तिविशिष्टं चैत­न्य­मा­दि­म­दि­त्यु­च्यते । ज्ञाना­व­च्छे­द­क­त्वाच्च वृत्तौ ज्ञानत्वोपचारः । तदुक्तं विवरणे " अन्तःकरणवृत्तौ ज्ञान­त्वो­प­चा­रात्" ।

ननु निर­व­य­व­स्या­न्तः­क­र­णस्य परिणामात्मिका वृत्तिः कथम्? इत्थम् । न तावदन्तःकरणं निरवयवम् । सादिद्रव्यत्वेन सावयवत्वात् । सादित्वञ्च " तन्म­नोऽ­सृ­जत" इत्यादिश्रुतेः । वृत्ति­रू­प­ज्ञा­नस्य मनोधर्मत्वे च " कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृति­र­धृ­ति­र्ह्री­र्धी­र्भी­रि­त्ये­तत् सर्वं मन एव"(बृ.उ. १.५.३) इति श्रुतिर्मानम् , धीशब्देन वृत्ति­रू­प­ज्ञा­ना­भि­धा­नात् । अत एव कामादेरपि मनोधर्मत्वम् ॥

ननु कामा­दे­र­न्तः­क­र­ण­ध­र्मत्वे "अह­मि­च्छामि, अहं जानामि, अहं बिभेमि" इत्याद्यनुभव आत्म­ध­र्म­त्व­म­व­गा­ह­मानः कथमुपपद्यते ? उच्यते । अयःपिण्डस्य दग्धृ­त्वा­भा­वेऽपि दग्धृ­त्वा­श्र­य­व­ह्नि­ता­दा­त्म्या­ध्या­साद् यथा "अयो दहति" इति व्यवहारः, तथा सुखा­द्या­का­र­प­रि­णा­म्य­न्तः­क­र­णै­क्या­ध्या­सात् "अहं सुखी, अहं दुःखी" इत्यादिव्यवहारः । ननु अन्तः­क­र­ण­स्ये­न्द्रि­य­त­याऽ­ती­न्द्रि­य­त्वात् कथं प्रत्य­क्ष­वि­ष­य­तेति । उच्यते । न ताव­द­न्तः­क­र­ण­मि­न्द्रि­य­मि­त्यत्र मानमस्ति । " मनः­ष­ष्ठा­नी­न्द्रि­याणि"(भ.गी. १५.७) इति भगवद्गीतावचनं प्रमाणमिति चेत् न । अनिन्द्रियेणापि मनसा षट्त्व­सं­ख्या­पू­र­णा­वि­रो­धात् । नही­न्द्रि­य­ग­त­सं­ख्या­पू­र­ण­मि­न्द्रि­ये­णै­वेति नियमः । " यजमानपञ्चमा इडां भक्षयन्ति" इत्यत्र ऋत्वि­ग्ग­त­प­ञ्च­त्व­सं­ख्याया अनृत्विजाऽपि यजमानेन, " वेदानध्यापयामास महा­भा­र­त­प­ञ्च­मान्" इत्यादौ च वेद­ग­त­प­ञ्च­त्व­सं­ख्याया अवेदेनापि भारतेन पूरणदर्शनात् , "इन्द्रि­येभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः"(क.उ. १.३.१०) इत्यादिश्रुत्या मन­सोऽ­नि­न्द्रि­य­त्वा­व­ग­माच्च ।

न चैवं मन­सोऽ­नि­न्द्रि­यत्वे सुखा­दि­प्र­त्य­क्षस्य साक्षात्त्वं न स्यात् , इन्द्रि­या­ज­न्य­त्वा­दिति वाच्यम् । न हीन्द्रि­य­ज­न्य­त्वेन ज्ञानस्य साक्षात्त्वम् अनुमित्यादेरपि मनोजन्यतया साक्षा­त्त्वा­पत्तेः ईश्व­र­ज्ञा­न­स्या­नि­न्द्रि­य­ज­न्यस्य साक्षा­त्त्वा­ना­प­त्तेश्च ।

सिद्धान्ते प्रत्य­क्ष­त्व­प्र­यो­जकं किमिति चेत् , किं ज्ञानगतस्य प्रत्यक्षत्वस्य प्रयोजकं पृच्छसि ? किंवा विषयगतस्य ? आद्ये प्रमाणचैतन्यस्य विष­या­व­च्छि­न्न­चै­त­न्या­भेद इति ब्रूमः । तथाहि त्रिविधं चैतन्यम् - विषयचैतन्यं, प्रमाणचैतन्यं, प्रमातृचैतन्यं चेति । तत्र घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यम् , अन्तः­क­र­ण­वृ­त्त्य­व­च्छिन्नं चैतन्यं प्रमाणचैतन्यम् , अन्तः­क­र­णा­व­च्छिन्नं चैतन्यं प्रमातृचैतन्यम् ।

तत्र यथा तडागोदकं छिद्रा­न्नि­र्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतु­ष्को­णा­द्या­कारं भवति, तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा निर्गत्य घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते । स एव परिणामो वृत्ति­रि­त्यु­च्यते । अनु­मि­त्या­दि­स्थले तु अन्तःकरणस्य न वह्न्या­दि­दे­श­ग­म­नम् , वह्न्या­दे­श्च­क्षु­रा­द्य­स­न्नि­क­र्षात् । तथा च "अयं घटः" इत्या­दि­प्र­त्य­क्ष­स्थले घटा­दे­स्त­दा­का­र­वृ­त्तेश्च बहिरेकत्र देशे समवधानात् तदुभयावच्छिन्नं चैतन्यमेकमेव, विभा­ज­क­यो­र­प्य­न्तः­क­र­ण­वृ­त्ति­घ­टा­दि­वि­ष­ययोः एकदेशस्थत्वेन भेदाजनकत्वात् । अत एव मठा­न्त­र्व­र्ति­घ­टा­व­च्छि­न्ना­काशो न मठा­व­च्छि­न्ना­का­शा­द्भि­द्यते । तथा च "अयं घटः" इति घट­प्र­त्य­क्ष­स्थले घटा­का­र­वृ­त्ते­र्घ­ट­सं­यो­गि­तया घटा­व­च्छि­न्न­चै­त­न्यस्य तद्वृ­त्त्य­व­च्छि­न्न­चै­त­न्यस्य चाभिन्नतया तत्र घटज्ञानस्य घटांंशे प्रत्यक्षत्वम् । सुखा­द्य­व­च्छि­न्न­चै­त­न्यस्य तद्वृ­त्त्य­व­च्छि­न्न­चै­त­न्यस्य च निय­मे­नै­क­दे­श­स्थि­तो­पा­धि­द्व­या­व­च्छि­न्न­त्वात् नियमेन "अहं सुखी" इत्यादिज्ञानस्य प्रत्यक्षत्वम् ।

नन्वेवं स्ववृ­त्ति­सु­खा­दि­स्म­र­ण­स्यापि सुखाद्यंशे प्रत्य­क्ष­त्वा­प­त्ति­रिति चेत् न । तत्र स्मर्य­मा­ण­सु­ख­स्या­ती­त­त्वेन स्मृति­रू­पा­न्तः­क­र­ण­वृ­त्ते­र्व­र्त­मा­न­त्वेन तत्रो­पा­ध्यो­र्भि­न्न­का­ली­न­तया तत्त­द­व­च्छि­न्न­चै­त­न्य­यो­र्भे­दात् । उपा­ध्यो­रे­क­दे­श­स्थत्वे सति एक­का­ली­न­त्व­स्यै­वो­प­धे­या­भे­द­प्र­यो­ज­क­त्वात् । यदि चैक­दे­श­स्थ­त्व­मा­त्र­मु­प­धे­या­भे­द­प्र­यो­ज­कम् , तदा "अहं पूर्वं सुखी" इत्या­दि­स्मृ­ता­व­ति­व्या­प्ति­वा­र­णाय वर्तमानत्वं विषयविशेषणं देयम् ।

नन्वेवमपि स्वकी­य­ध­र्मा­धर्मौ वर्तमानौ यदा शब्दादिना ज्ञायेते तदा तादृ­श­शा­ब्द­ज्ञा­ना­दा­व­ति­व्याप्तिः, तत्र धर्मा­द्य­व­च्छि­न्न­त­द्वृ­त्त्य­व­च्छि­न्न­चै­त­न्य­यो­रे­क­त्वा­दिति चेत् न । योग्यत्वस्यापि विष­य­वि­शे­ष­ण­त्वात् । अन्तः­क­र­ण­ध­र्म­त्वा­वि­शे­षेऽपि किञ्चिद्योग्यं किञ्चि­द­यो­ग्य­मि­त्यत्र फलबलकल्प्यः स्वभाव एव शरणम् । अन्यथा न्याय­म­तेऽ­प्या­त्म­ध­र्म­त्वा­वि­शे­षात् सुखादिवत् धर्मादेरपि प्रत्य­क्ष­त्वा­प­त्ति­र्दु­र्वारा ।

न चैवमपि सुखस्य वर्तमानतादशायां "त्वं सुखी" इत्या­दि­वा­क्य­ज­न्य­ज्ञा­नस्य प्रत्यक्षता स्यादिति वाच्यम् इष्टत्वात् । "दश­म­स्त्व­मसि" इत्यादौ सन्निकृष्टविषये शब्दा­द­प्य­प­रो­क्ष­ज्ञा­ना­भ्यु­प­ग­मात् । अत एव "पर्वतो वह्निमान्" इत्यादिज्ञानमपि वह्न्यंशे परोक्षम् , पर्व­तां­शेऽ­प­रो­क्षम् , पर्व­ता­द्य­व­च्छि­न्न­चै­त­न्यस्य बहि­र्निः­सृ­ता­न्तः­क­र­ण­वृ­त्त्य­व­च्छि­न्न­चै­त­न्या­भे­दात् । वह्न्यंशे तु अन्तः­क­र­ण­वृ­त्ति­नि­र्ग­म­ना­भा­वेन वह्न्य­व­च्छि­न्न­चै­त­न्यस्य प्रमाणचैतन्यस्य च परस्परं भेदात् । तथा चानुभवः "पर्वतं पश्यामि, वह्नि­म­नु­मि­नोमि" इति । न्यायमते तु "पर्व­त­म­नु­मि­नोमि" इत्य­नु­व्य­व­सा­या­पत्तिः ।

अस­न्नि­कृ­ष्ट­प­क्ष­का­नु­मितौ तु सर्वांशेऽपि ज्ञानं परोक्षम् । "सुरभि चन्दनम्" इत्यादिज्ञानमपि चन्द­न­ख­ण्डां­शेऽ­प­रो­क्षम् सौरभांशे च परोक्षम् सौरभस्य चक्षु­रि­न्द्रि­या­यो­ग्य­तया योग्यत्वघटितस्य निरु­क्त­ल­क्ष­ण­स्या­भा­वात् ।

न चैवमेकत्र ज्ञाने परो­क्ष­त्वा­प­रो­क्ष­त्व­यो­र­भ्यु­प­गमे तयोर्जातित्वं न स्यादिति वाच्यम् , इष्टत्वात् । जाति­त्वो­पा­धि­त्व­प­रि­भा­षायाः सक­ल­प्र­मा­णा­गो­च­र­त­याऽ­प्रा­मा­णि­क­त्वात् । "घटोऽ­यम्" इत्या­दि­प्र­त्यक्षं हि घटत्वादिसद्भावे मानम् , न तु तस्य जातित्वेऽपि । जाति­त्व­रू­प­सा­ध्या­प्र­सिद्धौ तत्सा­ध­का­नु­मा­न­स्या­प्य­न­व­का­शात् । समवायासिद्ध्या ब्रह्म­भि­न्न­नि­खि­ल­प्र­प­ञ्च­स्या­नि­त्य­तया च नित्य­त्व­स­म­वे­त­त्व­घ­टि­त­जा­ति­त्वस्य घट­त्वा­दा­व­सि­द्धेश्च । एवमेवोपाधित्वं निरसनीयम् । "पर्वतो वह्निमान्" इत्यादौ च पर्वतांशे वह्न्यंशे चान्तः­क­र­ण­वृ­त्ति­भे­दा­ङ्गी­का­रेण तत्त­द्वृ­त्त्य­व­च्छे­द­क­भे­देन परो­क्ष­त्वा­प­रो­क्ष­त्व­यो­रे­कत्र चैतन्ये वृत्तौ न कश्चित् विरोधः । तथा च " तत्त­दि­न्द्रि­य­यो­ग्य­व­र्त­मा­न­वि­ष­या­व­च्छि­न्न­चै­त­न्या­भि­न्नत्वं तत्त­दा­का­र­वृ­त्त्य­व­च्छि­न्न­ज्ञा­नस्य तत्तदंशे प्रत्य­क्ष­त्वम्" ।

घटादेर्विषयस्य प्रत्य­क्ष­त्वन्तु प्रमा­त्र­भि­न्न­त्वम् । ननु कथं घटा­दे­र­न्तः­क­र­णा­व­च्छि­न्न­चै­त­न्या­भेदः "अहमिदं पश्यामि" इति भेदा­नु­भ­व­वि­रो­धा­दिति चेत् उच्यते । प्रमात्रभेदो नाम न तावदैक्यम् किन्तु प्रमा­तृ­स­त्ता­ति­रि­क्त­स­त्ता­क­त्वा­भावः । तथा च घटादेः स्वाव­च्छि­न्न­चै­त­न्येऽ­ध्य­स्त­तया विष­य­चै­त­न्य­स­त्तैव घटादिसत्ता, अधि­ष्ठा­न­स­त्ता­ति­रि­क्ताया आरोपितसत्ताया अनङ्गीकारात् । विषयचैतन्यं च पूर्वो­क्त­प्र­का­रेण प्रमा­तृ­चै­त­न्य­मे­वेति प्रमा­तृ­चै­त­न्य­स्यैव घटा­द्य­धि­ष्ठा­न­तया प्रमातृसत्तैव घटादिसत्ता नान्येति सिद्धं घटा­दे­र­प­रो­क्ष­त्वम् । अनु­मि­त्या­दि­स्थले त्वन्तःकरणस्य वह्न्या­दि­दे­श­नि­र्ग­म­ना­भा­वेन वह्न्य­व­च्छि­न्न­चै­त­न्यस्य प्रमा­तृ­चै­त­न्या­ना­त्म­क­तया वह्न्यादिसत्ता प्रमातृसत्तातो भिन्ना इति नातिव्याप्तिः ।

नन्वेवमपि धर्मा­ध­र्मा­दि­गो­च­रा­नु­मि­त्या­दि­स्थले धर्माधर्मयोः प्रत्य­क्ष­त्वा­पत्तिः । धर्मा­द्य­व­च्छि­न्न­चै­त­न्यस्य प्रमा­तृ­चै­त­न्या­भि­न्न­तया, धर्मादिसत्तायाः प्रमा­तृ­स­त्ता­न­ति­रे­का­दिति चेत् न, योग्यत्वस्यापि विष­य­वि­शे­ष­ण­त्वात् ।

नन्वेवमपि "रूपी घटः" इति प्रत्यक्षस्थले घटगतपरिमाणादेः प्रत्य­क्ष­त्वा­पत्तिः, रूपा­व­च्छि­न्न­चै­त­न्यस्य परि­मा­णा­द्य­व­च्छि­न्न­चै­त­न्यस्य चैकतया, रूपा­व­च्छि­न्न­चै­त­न्यस्य प्रमा­तृ­चै­त­न्या­भेदे परि­मा­णा­द्य­व­च्छि­न्न­चै­त­न्य­स्यापि प्रमा­त्र­भि­न्न­तया परि­मा­णा­दि­स­त्तायाः प्रमा­तृ­स­त्ता­ति­रि­क्त्त­त्वा­भा­वात् इति चेत् न । तत्त­दा­का­र­वृ­त्त्यु­प­हि­त­त्व­स्यापि प्रमा­तृ­वि­शे­ष­ण­त्वात् । रूपा­का­र­वृ­त्ति­द­शायां परि­मा­णा­द्या­का­र­वृ­त्त्य­भा­वेन अति­व्या­प्त्य­भा­वात् ।

नन्वेवं वृत्ता­व­व्याप्तिः । अनवस्थाभिया वृत्ति­गो­च­र­वृ­त्त्य­न­ङ्गी­का­रेण, तत्र स्वाका­र­वृ­त्त्यु­प­हि­त­त्व­घ­टि­तो­क्त­ल­क्ष­णा­भा­वात् इति चेत् न । अनवस्थाभिया वृत्ते­र्वृ­त्त्य­न्त­रा­वि­ष­य­त्वेऽपि स्ववि­ष­य­त्वा­भ्यु­प­ग­मेन स्ववि­ष­य­वृ­त्त्यु­प­हि­त­प्र­मा­तृ­चै­त­न्या­भि­न्न­स­त्ता­क­त्वस्य तत्रापि भावात् ।

एवा­ञ्चा­न्तः­क­र­ण­त­द्ध­र्मा­दीनां केव­ल­सा­क्षि­वि­ष­य­त्वेऽपि तत्त­दा­का­र­वृ­त्त्य­भ्यु­प­ग­मेन उक्तलक्षणस्य तत्रापि सत्त्वा­न्ना­व्याप्तिः । न चान्तः­क­र­ण­त­द्ध­र्मा­दीनां वृत्ति­वि­ष­य­त्वा­भ्यु­प­गमे केव­ल­सा­क्षि­वे­द्य­त्वा­भ्यु­प­ग­म­वि­रोध इति वाच्यम् । न हि वृत्तिं विना साक्षिविषयत्वं केव­ल­सा­क्षि­वे­द्य­त्वम् , किन्त्वि­न्द्रि­या­नु­मा­ना­दि­प्र­मा­ण­व्या­पा­र­म­न्त­रेण साक्षिविषयत्वम् । अत एवा­ह­ङ्का­र­टी­का­या­मा­चा­र्यै­र­ह­मा­का­रा­न्तः­क­र­ण­वृ­त्ति­र­ङ्गी­कृता । अत एव च प्राति­भा­सि­क­र­ज­त­स्थले रज­ता­का­रा­वि­द्या­वृत्तिः साम्प्र­दा­यि­कै­र­ङ्गी­कृता । तथा चान्तः­क­र­ण­त­द्ध­र्मा­दिषु केव­ल­सा­क्षि­वे­द्येषु वृत्त्यु­प­हि­त­त्व­घ­टि­त­ल­क्ष­णस्य सत्त्वा­न्ना­व्याप्तिः । तदयं निर्गलितार्थः " स्वाका­र­वृ­त्त्यु­प­हि­त­प्र­मा­तृ­चै­त­न्य­स­त्ता­ति­रि­क्त­स­त्ता­क­त्व­शू­न्यत्वे सति योग्यत्वं विषयस्य प्रत्यक्षत्वम् ।" तत्र संयो­ग­सं­यु­क्त­ता­दा­त्म्या­दीनां सन्निकार्षाणां चैत­न्या­भि­व्य­ञ्ज­क­वृ­त्ति­ज­नने विनियोगः ।

सा च वृत्ति­श्च­तु­र्विधा संशयो, निश्चयो, गर्वः, स्मरणमिति । एवं­वि­ध­वृ­त्ति­भे­देन एकमप्यन्तःकरणं मन इति, बुद्धिरिति, अहङ्कार इति, चित्तमिति चाख्यायते । तदुक्तम् - " मनो­बु­द्धि­र­ह­ङ्का­र­श्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे ॥"

तच्च प्रत्यक्षं द्विविधम् सवि­क­ल्प­क­नि­र्वि­क­ल्प­क­भे­दात् । तत्र सविकल्पकं वैशिष्ट्यावगाहि ज्ञानम् । यथा "घटमहं जानामि" इत्यादिज्ञानम् । निर्विकल्पकन्तु संसर्गानवगाहि ज्ञानम् । यथा "सोऽयं देवदत्तः", " तत्त्वमसि" इत्या­दि­वा­क्य­जन्यं ज्ञानम् ।

ननु शाब्दमिदं ज्ञानम् न प्रत्यक्षम् इन्द्रि­या­ज­न्य­त्वात् इति चेत् न । नहि इन्द्रि­य­ज­न्यत्वं प्रत्यक्षत्वे तन्त्रम् , दूषितत्वात् । किन्तु योग्य­व­र्त­मा­न­वि­ष­य­कत्वे सति प्रमाणचैतन्यस्य विष­य­चै­त­न्या­भि­न्न­त्व­मि­त्यु­क्तम् । तथाच "सोऽयं देवदत्तः" इति वाक्य­ज­न्य­ज्ञा­नस्य सन्नि­कृ­ष्ट­वि­ष­य­तया बहि­र्निः­सृ­ता­न्तः­क­र­ण­वृ­त्त्य­भ्यु­प­ग­मेन देव­द­त्ता­व­च्छि­न्न­चै­त­न्यस्य वृत्त्य­व­च्छि­न्न­चै­त­न्या­भि­न्न­तया "सोऽयं देवदत्तः" इति वाक्य­ज­न्य­ज्ञा­नस्य प्रत्यक्षत्वम् । एवं " तत्त्वमसि" इत्या­दि­वा­क्य­ज­न्य­ज्ञा­न­स्यापि । तत्र प्रमातुरेव विषयतया तदुभयाभेदस्य सत्त्वात् ।

ननु वाक्य­ज­न्य­ज्ञा­नस्य पदा­र्थ­सं­स­र्गा­व­गा­हि­तया कथं निर्वि­क­ल्प­क­त्वम् ? उच्यते । वाक्य­ज­न्य­ज्ञा­न­वि­ष­यत्वे हि न पदा­र्थ­सं­स­र्गत्वं तन्त्रम् , अन­भि­म­त­सं­स­र्ग­स्यापि वाक्य­ज­न्य­ज्ञा­न­वि­ष­य­त्वा­पत्तेः । किन्तु तात्प­र्य­वि­ष­य­त्वम् । प्रकृते च " सदेव सोम्येदमग्र आसीत्"(छा.उ. ६.२.१) इत्युपक्रम्य "तत् सत्यम् , स आत्मा, तत्त्वमसि श्वेतकेतो"(छा.उ. ६.१४.३) इत्युपसंहारेण विशुद्धे ब्रह्मणि वेदान्तानां तात्पर्यमवसितम् इति कथं तात्पर्याविषयं संसर्गमवबोधयेत् ? इदमेव " तत्त्वमसि"(छा.उ. ६.८.७) इत्या­दि­वा­क्या­ना­म­ख­ण्डा­र्थत्वं यत् संस­र्गा­न­व­गा­हि­य­था­र्थ­ज्ञा­न­ज­न­क­त्व­मिति । तदुक्तम्- " संस­र्गा­स­ङ्गि­स­म्य­ग्धी­हे­तुता या गिरामियम् । उक्ताखण्डार्थता यद्वा तत्प्रा­ति­प­दि­का­र्थता ॥" प्राति­प­दि­का­र्थ­मा­त्र­प­रत्वं वाऽख­ण्डा­र्थ­त्वम् इति चतुर्थपादार्थः ।

तच्च प्रत्यक्षं पुनर्द्विविधम् , जीवसाक्षि ईश्वरसाक्षि चेति । तत्र जीवो नाम अन्तः­क­र­णा­व­च्छिन्नं चैतन्यम् तत्साक्षी तु अन्तःकरणोपहितं चैतन्यम् । अन्तःकरणस्य विशे­ष­ण­त्वो­पा­धि­त्वा­भ्या­म­न­यो­र्भेदः । विशेषणञ्च कार्यान्वयि वर्तमानं व्यावर्तकम् । उपाधिश्च कार्यानन्वयी व्यावर्तको वर्तमानश्च । "रूप­वि­शिष्टो घटोऽ­नित्यः" इत्यत्र रूपं विशेषणम् , "कर्ण­श­ष्कु­ल्य­व­च्छिन्नं नभः श्रोत्रम्" इत्यत्र कर्ण­श­ष्कु­ल्यु­पाधिः । अय­मे­वो­पा­धि­र्नै­या­यिकैः परिचायक इत्युच्यते । प्रकृते चान्तःकरणस्य जडतया विष­य­भा­स­क­त्वा­यो­गेन विष­य­भा­स­क­चै­त­न्यो­पा­धि­त्वम् । अयञ्च जीवसाक्षी प्रत्यात्मं नाना एकत्वे चैत्रावगते मैत्र­स्या­प्य­नु­स­न्धा­न­प्र­सङ्गः ।

ईश्वरसाक्षी तु मायोपहितं चैतन्यम् । तच्चैकम् तदु­पा­धि­भू­त­मा­याया एकत्वात् । " इन्द्रो मायाभिः पुरुरूप ईयते"(बृ.उ. २.५.१९) इत्यादिश्रुतौ मायाभिरिति बहुवचनस्य माया­ग­त­श­क्ति­वि­शे­षा­भि­प्रा­य­तया, माया­ग­त­स­त्त्व­र­ज­स्त­मो­रू­प­गु­णा­भि­प्रा­य­तया वोपपत्तिः । "मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।(श्वे.उ. ४.१०.) तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगी मायाममेयाय तस्मै विद्यात्मने नमः ॥ अजामेकां लोहि­त­शु­क्ल­कृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्त­भो­गा­म­जोऽन्यः ॥"(श्वे.उ. ४.५.) इत्यादि श्रुतिस्मृतिषु एकवचनेन लाघवानुगृहीतेन मायाया एकत्वं निश्चीयते । ततश्च तदुपहितं चैतन्यम् ईश्वरसाक्षी । तच्चानादि, तदुपाधेर्मायाया अनादित्वात् । मायावच्छिन्नं चैतन्यं च परमेश्वरः । मायाया विशेषणत्वे ईश्वरत्वम् , उपाधित्वे साक्षित्वं इती­श्व­र­त्व­सा­क्षि­त्व­यो­र्भेदः, न तु धर्मि­णो­री­श्व­र­त­त्सा­क्षिणोः । स च परमेश्वर एकोऽपि स्वोपा­धि­भू­त­मा­या­नि­ष्ठ­स­त्त्व­र­ज­स्त­मो­गु­ण­भे­देन ब्रह्म­वि­ष्णु­म­हे­श्व­रा­दि­श­ब्द­वा­च्यतां भजते ।

ननु ईश्व­र­सा­क्षि­णोऽ­ना­दित्वे " तदैक्षत, बहुस्यां प्रजायेय"(छा.उ. ६.२.३) इत्यादौ सृष्टिपूर्वसमये पर­मे­श्व­र­स्या­ग­न्तु­क­मी­क्ष­ण­मु­च्य­मानं कथमुपपद्यते ? उच्यते । यथा विष­ये­न्द्रि­य­स­न्नि­क­र्षा­दि­का­र­ण­व­शेन जीवो­पा­ध्य­न्तः­क­र­णस्य वृत्तिभेदा जायन्ते, तथा सृज्य­मा­न­प्रा­णि­क­र्म­व­शेन पर­मे­श्व­रो­पा­धि­भू­त­मा­याया वृत्तिविशेषाः "इदमिदानीं स्रष्ट­व्यम्", "इदमिदानीं पाल­यि­त­व्यम्" , "इदमिदानीं संह­र्त­व्यम्" इत्याद्याकारा जायन्ते । तासां च वृत्तीनां सादि­त्वा­त्त­त्प्र­ति­बि­म्बि­त­चै­त­न्य­मपि सादीत्युच्यते । एवं साक्षि­द्वै­वि­ध्येन प्रत्य­क्ष­ज्ञा­न­द्वै­वि­ध्यम् ।

प्रत्यक्षत्वं च ज्ञेयगतं, ज्ञप्तिगतं च निरूपितम् । तत्र ज्ञप्ति­ग­त­प्र­त्य­क्ष­त्वस्य सामान्यलक्षणं चित्त्वमेव । "पर्वतो वह्निमान्" इत्यादावपि वह्न्या­द्या­का­र­वृ­त्त्यु­प­हि­त­चै­त­न्यस्य स्वात्मांशे स्वप्रकाशतया प्रत्यक्षत्वात् । तत्तद्विषयांशे प्रत्य­क्ष­त्वन्तु पूर्वोक्तमेव । तस्य च भ्रान्ति­रू­प­प्र­त्यक्षे नातिव्याप्तिः, भ्रम­प्र­मा­सा­धा­र­ण­प्र­त्य­क्ष­त्व­सा­मा­न्य­नि­र्व­च­नेन तस्यापि लक्ष्यत्वात् । यदा तु प्रत्य­क्ष­प्र­माया एव लक्षणं वक्तव्यं तदा पूर्वो­क्त­ल­क्ष­णेऽ­बा­धि­तत्वं विषयविशेषणं देयम् । शुक्ति­रू­प्या­दि­भ्र­मस्य संसा­र­का­ली­न­बा­ध­वि­ष­य­प्रा­ति­भा­सि­क­र­ज­ता­दि­वि­ष­य­क­त्वे­नो­क्त­ल­क्ष­णा­भा­वात् नातिव्याप्तिः ।

ननु विसं­वा­दि­प्र­वृत्त्या भ्रान्ति­ज्ञा­न­सि­द्धा­वपि तस्य प्राति­भा­सि­क­त­त्का­लो­त्प­न्न­र­ज­ता­दि­वि­ष­य­कत्वे न प्रमाणम् , देशा­न्त­री­य­र­ज­तस्य क्लृप्तस्यैव तद्वि­ष­य­त्व­स­म्भ­वा­दिति चेन्न । तस्या­स­न्नि­कृ­ष्ट­तया प्रत्य­क्ष­वि­ष­य­त्वा­यो­गात् । न च ज्ञानं तत्र प्रत्यासत्तिः, ज्ञानस्य प्रत्या­स­त्तित्वे, तत एव वह्न्यादेः प्रत्य­क्ष­त्वा­पत्तौ अनु­मा­ना­द्यु­च्छे­दा­पत्तेः ।

ननु रजतोत्पादकानां रज­ता­व­य­वा­दी­ना­म­भावे शुक्तौ कथं तवापि रजतमुत्पद्यते इति चेत् उच्यते । न हि लोकसिद्धसामग्री प्राति­भा­सि­क­र­ज­तो­त्पा­दिका किन्तु विलक्षणैव । तथा हि- काचा­दि­दो­ष­दू­षि­त­लो­च­नस्य पुरो­व­र्ति­द्र­व्य­सं­यो­गा­दि­द­मा­कारा, चाकचिक्याकारा च काचि­द­न्तः­क­र­ण­वृ­त्ति­रु­देति । तस्यां च वृत्तौ इद­म­व­च्छि­न्न­चै­तन्यं प्रतिबिम्बते । तत्र पूर्वोक्तरीत्या वृत्ते­र्नि­र्ग­म­नेन इद­म­व­च्छि­न्न­चै­तन्यं, वृत्त्य­व­च्छि­न्न­चै­तन्यं, प्रमातृचैतन्यं चाभिन्नं भवति । ततश्च प्रमा­तृ­चै­त­न्या­भि­न्न­वि­ष­य­चै­त­न्य­निष्ठा शुक्ति­त्व­प्र­का­रि­काऽ­विद्या, चाक­चि­क्या­दि­सा­दृ­श्य­स­न्द­र्श­न­स­मु­द्बो­धि­त­र­ज­त­सं­स्का­र­स­ध्री­चीना, काचा­दि­दो­ष­स­म­व­हिता रज­त­रू­पा­र्था­का­रेण रज­त­ज्ञा­ना­भा­सा­का­रेण च परिणमते ।

परिणामो नाम उपा­दा­न­स­म­स­त्ता­क­का­र्या­पत्तिः । विवर्तो नाम उपा­दा­न­वि­ष­म­स­त्ता­क­का­र्या­पत्तिः । प्राति­भा­सि­क­र­ज­त­ञ्चा­वि­द्या­पे­क्षया परिणाम इति चैतन्यापेक्षया विवर्त इति चोच्यते । अवि­द्या­प­रि­णा­म­रू­पञ्च तद्र­ज­त­म­वि­द्या­धि­ष्ठाने इद­म­व­च्छि­न्न­चै­तन्ये वर्तते । अस्मन्मते सर्वस्यापि कार्यस्य स्वोपा­दा­ना­वि­द्या­धि­ष्ठा­ना­श्रि­त­त्व­नि­य­मात् ।

ननु चैत­न्य­नि­ष्ठ­र­ज­तस्य कथमिदं रज­त­मि­ति­पु­रो­व­र्तिना तादात्म्यम् । उच्यते यथा न्यायमते आत्मनिष्ठस्य सुखादेः शरी­र­नि­ष्ठ­त्वे­नो­प­लम्भः, शरीरस्य सुखा­द्य­धि­क­र­ण­ता­व­च्छे­द­क­त्वात् , तथा चैतन्यमात्रस्य रजतं प्रत्य­न­धि­ष्ठा­न­तया इद­म­व­च्छि­न्न­चै­त­न्यस्य तदधिष्ठानत्वेन इदमोऽवच्छेदकतया रजतस्य पुरो­व­र्ति­सं­स­र्ग­प्र­त्यय उपपद्यते । तस्य च विषयचैतन्यस्य तद­न्तः­क­र­णो­प­हि­त­चै­त­न्या­भि­न्न­तया विष­य­चै­त­न्येऽ­ध्य­स्त­मपि रजतं साक्षि­ण्य­ध्यस्तं केव­ल­सा­क्षि­वेद्यं सुखा­दि­व­द­न­न्य­वे­द्य­मिति चोच्यते । ननु साक्षि­ण्य­ध्य­स्तत्वे "अहं रजतम्" इति "तद्वान्" इति वा प्रत्ययः स्यात् , "अहं सुखी" इतिवत् इति चेत् उच्यते । न हि सुखा­दी­ना­म­न्तः­क­र­णा­व­च्छि­न्न­चै­त­न्य­नि­ष्ठा­वि­द्या­का­र्य­त्व­प्र­यु­क्तम् "अहं सुखी" इति ज्ञानम् , सुखादीनां घटा­दि­व­च्छु­द्ध­चै­तन्य एवाध्यासात् । किन्तु यस्य यदा­का­रा­नु­भ­वा­हि­त­सं­स्का­र­स­ह­कृ­ता­वि­द्या­का­र्यत्वं तस्य तदा­का­रा­नु­भ­व­वि­ष­य­त्वम् इत्येवानुगतं नियामकम् । तथा च इद­मा­का­रा­नु­भ­वा­हि­त­सं­स्का­र­स­हि­ता­वि­द्या­का­र्य­त्वाद् घटा­दे­रि­द­मा­का­रा­नु­भ­व­वि­ष­य­त्वम् , अह­मा­का­रा­नु­भ­वा­हि­त­सं­स्का­र­स­ह­कृ­ता­वि­द्या­का­र्य­त्वा­द­न्तः­क­र­णा­दे­र­ह­मा­का­रा­नु­भ­व­वि­ष­य­त्वम् , शरी­रे­न्द्रि­या­दे­रु­भ­य­वि­धा­नु­भ­व­सं­स्का­र­स­हि­ता­वि­द्या­का­र्य­त्वा­दु­भ­य­वि­धा­नु­भ­व­वि­ष­य­त्वम् । तथा चोभयविधानुभवः इदं शरीरम् , अहं मनुष्यः, अहं ब्राह्मणः, इदं चक्षुः, अहं काणः, इदं श्रोत्रम्, अहं बधिर, इति । प्रकृते प्राति­भा­सि­क­र­ज­तस्य प्रमा­तृ­चै­त­न्या­भि­न्ने­द­म­व­च्छि­न्न­चै­त­न्य­नि­ष्ठा­वि­द्या­का­र्य­त्वेऽपि इदं रजतमिति सत्य­स्थ­ली­ये­द­मा­का­रा­नु­भ­वा­हि­त­सं­स्का­र­ज­न्य­त्वा­दि­द­मा­का­रा­नु­भ­व­वि­ष­यता न तु "अहं रजतम्" इत्य­ह­मा­का­रा­नु­भ­व­वि­ष­यता इत्यनुसन्धेयम् ।

नन्वेवमपि मिथ्यारजतस्य साक्षात् साक्षि­स­म्ब­न्धि­तया भानसम्भवे रज­त­गो­च­र­ज्ञा­ना­भा­स­रू­पाया अवि­द्या­वृ­त्ते­र­भ्यु­प­गमः किमर्थमिति चेत् उच्यते । स्वगो­च­र­वृ­त्त्यु­प­हि­त­प्र­मा­तृ­चै­त­न्य­भि­न्न­स­त्ता­क­त्वा­भा­वस्य विष­या­प­रो­क्ष­त्व­रू­प­तया रज­त­स्या­प­रो­क्ष­त्व­सि­द्धये तदभ्युपगमात् । नन्विदंवृत्ते रज­ता­का­र­वृ­त्तेश्च प्रत्ये­क­मे­कै­क­वि­ष­यत्वे गुरु­म­त­व­द्वि­शि­ष्ट­ज्ञा­ना­न­भ्यु­प­गमे कुतो भ्रम­ज्ञा­न­सि­द्धि­रिति चेत् न । वृत्ति­द्व­य­प्र­ति­बि­म्बि­त­चै­त­न्य­स्यै­कस्य सत्य­मि­थ्या­व­स्तु­ता­दा­त्म्या­व­गा­हि­त्वेन भ्रम­त्व­स्वी­का­रात् । अत एव साक्षिज्ञानस्य सत्या­स­त्य­वि­ष­य­तया प्रामा­ण्या­नि­य­मा­द­प्रा­मा­ण्योक्तिः साम्प्र­दा­यि­का­नाम् ।

ननु सिद्धान्ते देशा­न्त­री­य­र­ज­त­म­प्य­वि­द्या­का­र्य­म­ध्य­स्त­ञ्चेति कथं शुक्तिरूप्यस्य ततो वैलक्षण्यम् इति चेत् न । त्वन्मते सत्य­त्वा­वि­शे­षेऽपि केषाञ्चित् क्षणिकत्वं केषाञ्चित् स्थायित्वम् इत्यत्र यदेव नियामकं तदेव स्वभा­व­वि­शे­षा­दिकं ममापि । यद्वा घटाद्यध्यासे अविद्यैव दोषत्वेन हेतुः । शुक्ति­रू­प्या­द्य­ध्यासे तु काचादयोऽपि दोषाः । तथा चाग­न्तु­क­दो­ष­ज­न्यत्वं प्रातिभासिकत्वे प्रयोजकम् । अत एव स्वप्नो­प­ल­ब्ध­र­था­दी­ना­मा­ग­न्तु­क­नि­द्रा­दो­ष­ज­न्य­त्वात् प्राति­भा­सि­क­त्वम् ।

ननु स्वप्नस्थले पूर्वा­नु­भू­त­र­थादेः स्मरणमात्रेणैव व्यवहारोपपत्तौ न रथा­दि­सृ­ष्टि­क­ल्प­नम् , गौरवात् इति चेत् न । रथादेः स्मृति­मा­त्रा­भ्यु­प­गमे "रथं पश्यामि", "स्वप्ने रथ­म­द्रा­क्षम्" इत्या­द्य­नु­भ­व­वि­रो­धा­पत्तेः । " अथ रथान् रथयोगान् पथः सृजते"(बृ.उ. ४.३.१०) इति रथा­दि­सृ­ष्टि­प्र­ति­पा­द­क­श्रु­ति­वि­रो­धा­प­त्तेश्च । तस्मात् शुक्तिरूप्यवत् स्वप्नो­प­ल­ब्ध­र­था­द­योऽपि प्रातिभासिका याव­त्प्र­ति­भा­स­म­व­ति­ष्ठन्ते । ननु स्वप्ने रथा­द्य­धि­ष्ठा­न­त­यो­प­ल­भ्य­मा­न­दे­श­वि­शे­ष­स्यापि तदाऽ­स­न्नि­कृ­ष्ट­तया अनि­र्व­च­नी­य­प्रा­ति­भा­सि­क­दे­शोऽ­भ्यु­प­ग­न्यव्यः । तथा च रथाद्यध्यासः कुत्र इति चेत् न । चैतन्यस्य स्वयंप्रकाशस्य रथा­द्य­धि­ष्ठा­न­त्वात् । प्रतीयमानं रथाद्यस्तीत्येव प्रतीयते इति सद्रूपेण प्रकाशमानं चैत­न्य­मे­वा­धि­ष्ठा­नम् । देशविशेषोऽपि चिदध्यस्तः प्रातिभासिकः, रथा­दा­वि­न्द्रि­य­ग्रा­ह्य­त्व­मपि प्रातिभासिकम् , तदा सर्वे­न्द्रि­या­णा­मु­प­र­मात् । "अहं रथः" इत्या­दि­प्र­ती­त्या­पा­द­नन्तु पूर्व­व­न्नि­र­स­नी­यम् । स्वप्नरथादयः साक्षा­न्मा­या­प­रि­णामा इति केचित् । अन्तःकरणद्वारा तत्परिणामा इत्यन्ये ।

ननु रथादेः शुद्ध­चै­त­न्या­ध्य­स्तत्वे इदानीं तत्सा­क्षा­त्का­रा­भा­वेन जागरणेऽपि स्वप्नो­प­ल­ब्ध­र­था­द­योऽ­नु­व­र्ते­रन् । उच्यते । कार्यविनाशो हि द्विविधः । कश्चिदुपादानेन सह, कश्चित्तु विद्यमान एवोपादाने । आद्यो बाधः, द्वितीयस्तु निवृत्तिः । आद्यस्य कार­ण­म­धि­ष्ठा­न­त­त्त्व­सा­क्षा­त्कारः । तेन विनोपादानभूताया अविद्याया अनिवृत्तेः । द्वितीयस्य कारणं विरो­धि­वृ­त्त्यु­त्प­त्ति­र्दो­ष­नि­वृ­त्तिर्वा । तदिह ब्रह्म­सा­क्षा­त्का­रा­भा­वात् स्वप्नप्रपञ्चो मा बाधिष्ट, मुसलप्रहारेण घटादेरिव विरो­धि­प्र­त्य­या­न्त­रो­द­येन स्वज­न­की­भू­त­नि­द्रा­दि­दो­ष­ना­शेन वा रथादिनिवृत्तौ को विरोधः ?

एवं च शुक्तिरूप्यस्य शुक्त्य­व­च्छि­न्न­चै­त­न्य­नि­ष्ठ­तू­ला­वि­द्या­का­र्य­त्व­पक्षे शुक्ति­रि­ति­ज्ञा­नेन तदज्ञानेन सह रजतस्य बाधः । मूला­वि­द्या­का­र्य­त्व­पक्षे तु मूलाविद्याया ब्रह्म­सा­क्षा­त्का­र­मा­त्र­नि­व­र्त्य­तया शुक्ति­त­त्त्व­ज्ञा­ने­ना­नि­व­र्त्य­तया तत्र शुक्ति­ज्ञा­ना­न्नि­वृ­त्ति­मा­त्रम् मुसलप्रहारेण घटस्येव ।

ननु शुक्तौ रजतस्य प्रतिभाससमये सत्ताभ्युपगमे "नेदं रजतम्" इति त्रैका­लि­क­नि­षे­ध­ज्ञानं न स्यात् । किन्तु "इदानीमिदं न रजतम्" इति स्यात् , "इदानीं घटः श्यामो न" इतिवत् इति चेत् न । नहि तत्र रज­त­त्वा­व­च्छि­न्न­प्र­ति­यो­गि­ता­का­भावो निषेधधीविषयः । किन्तु लौकि­क­पा­र­मा­र्थि­क­त्वा­व­च्छि­न्न­प्रा­ति­भा­सि­क­र­ज­त­प्र­ति­यो­गि­ताकः व्यधि­क­र­ण­ध­र्मा­व­च्छि­न्न­प्र­ति­यो­गि­ता­का­भा­वा­भ्यु­प­ग­मात् ।

ननु प्रातिभासिके रजते पार­मा­र्थि­क­त्व­म­व­गतं न वा । अनवगमे प्रति­यो­गि­ता­व­च्छे­द­का­व­च्छि­न्न­र­ज­त­स­त्त्व­ज्ञा­ना­भा­वा­द­भा­व­प्र­त्य­क्षा­नु­प­पत्तिः । अव­ग­मेऽ­प­रो­क्षा­व­भा­सस्य तत्का­ली­न­वि­ष­य­स­त्ता­नि­य­त­त्वाद् रजते पार­मा­र्थि­क­त्व­म­प्य­नि­र्व­च­नीयं रज­त­व­दे­वो­त्प­न्न­मिति तद­व­च्छि­न्न­र­ज­त­सत्त्वे तद­व­च्छि­न्ना­भा­व­स्तत्र कथं वर्तत इति चेत् न । पार­मा­र्थि­क­त्व­स्या­धि­ष्ठा­न­नि­ष्ठस्य रजते प्रतिभाससम्भवेन रज­त­नि­ष्ठ­पा­र­मा­र्थि­क­त्वो­त्प­त्त्य­न­भ्यु­प­ग­मात् । यत्रा­रो­प्य­म­स­न्नि­कृष्टं तत्रैव प्राति­भा­सि­क­व­स्तू­त्प­त्ते­र­ङ्गी­का­रात् । अत एव इन्द्रि­य­स­न्नि­कृ­ष्ट­तया जपा­कु­सु­म­ग­त­लौ­हि­त्यस्य स्फटिके भानसम्भवात् न स्फटि­केऽ­नि­र्व­च­नी­य­लौ­हि­त्यो­त्पत्तिः । नन्वेवं यत्र जपाकुसुमं द्रव्या­न्त­र­व्य­व­धा­ना­द­स­न्नि­कृष्टं तत्र लौहि­त्य­प्र­तीत्या प्रातिभासिकं लौहित्यं स्वीक्रियतामिति चेत् न, इष्टत्वात् । एवं प्रत्य­क्ष­भ्र­मा­न्त­रे­ष्वपि प्रत्य­क्ष­सा­मा­न्य­ल­क्ष­णा­नु­गमो यथा­र्थ­प्र­त्य­क्ष­ल­क्ष­णा­स­द्भा­वश्च दर्शनीयः ।

उक्तं प्रत्यक्षं प्रकारान्तरेण द्विविधम् इन्द्रियजन्यं तदजन्यं चेति । तत्रे­न्द्रि­या­जन्यं सुखा­दि­प्र­त्य­क्षम् , मनस इन्द्रि­य­त्व­नि­रा­क­र­णात् । इन्द्रियाणि पञ्च घ्राण­र­स­न­च­क्षुः­श्रो­त्र­त्व­गा­त्म­कानि । सर्वाणि चेन्द्रियाणि स्वस्व­वि­ष­य­सं­यु­क्ता­न्येव प्रत्यक्षज्ञानं जनयन्ति । तत्र घ्राण­र­स­न­त्व­गि­न्द्रि­याणि स्वस्था­न­स्थि­ता­न्येव गन्ध­र­स­स्प­र्शो­प­ल­म्भान् जनयन्ति । चक्षुःश्रोत्रे तु स्वत एव विषयदेशं गत्वा स्वस्वविषयं गृह्णीतः, श्रोत्रस्यापि चक्षुरादिवत् परिच्छिन्नतया भेर्या­दि­दे­श­ग­म­न­स­म्भ­वात् । अत एवानुभवो "भेरीशब्दो मया श्रुतः" इति । वीचि­त­र­ङ्गा­दि­न्या­येन कर्ण­श­ष्कु­ली­प्र­दे­शेऽ­न­न्त­श­ब्दो­त्प­त्ति­क­ल्प­नायां गौरवम् । "भेरीशब्दो मया श्रुतः" इति प्रत्यक्षस्य भ्रम­त्व­क­ल्प­नायां गौरवं च स्यात् । तदेवं व्याख्यातं प्रत्यक्षम् ।

इति वेदा­न्त­प­रि­भ­षायां प्रत्य­क्ष­प­रि­च्छेदः ।