अद्वैतशारदा

वेदान्तपरिभाषा

अनुमानप्रमाणम्

अथानुमानं निरूप्यते । अनु­मि­ति­क­र­ण­म­नु­मा­नम् । अनुमितिश्च व्याप्ति­ज्ञा­न­त्वेन व्याप्ति­ज्ञा­न­जन्या । व्याप्ति­ज्ञा­ना­नु­व्य­व­सा­या­दे­स्त­त्त्वेन तज्ज­न्य­त्वा­भा­वा­न्ना­नु­मि­ति­त्वम् ।

अनुमितिकरणं च व्याप्तिज्ञानम् । तत्सं­स्का­रोऽ­वा­न्त­र­व्या­पारः । न तु तृती­य­लि­ङ्ग­प­रा­म­र्शोऽ­नु­मितौ करणम् , तस्या­नु­मि­ति­हे­तु­त्वा­सिद्ध्या तत्करणत्वस्य दूरनिरस्तत्वात् । न च संस्का­र­ज­न्य­त्वे­ना­नु­मितेः स्मृति­त्वा­पत्तिः । स्मृति­प्रा­ग­भा­व­ज­न्य­त्वस्य संस्का­र­मा­त्र­ज­न्य­त्वस्य वा स्मृति­त्व­प्र­यो­ज­क­तया संस्का­र­ध्वं­स­सा­धा­र­ण­सं­स्का­र­ज­न्य­त्वस्य तदप्रयोजकत्वात् ।

न च यत्र व्याप्ति­स्म­र­णा­द­नु­मि­ति­स्तत्र कथं संस्कारो हेतुरिति वाच्यम् । व्याप्ति­स्मृ­ति­स्थ­लेऽपि तत्सं­स्का­र­स्यै­वा­नु­मि­ति­हे­तु­त्वात् । नहि स्मृतेः संस्का­र­ना­श­क­त्व­नि­यमः स्मृति­धा­रा­द­र्श­नात् । न चानु­द्बु­द्ध­सं­स्का­रा­द­प्य­नु­मि­त्या­पत्तिः, तदुद्बोधस्यापि सहकारित्वात् । एवं च "अयं धूमवान्" इति पक्ष­ध­र्म­ता­ज्ञा­नेन "धूमो वह्नि­व्याप्यः" इत्य­नु­भ­वा­हि­त­सं­स्का­रो­द्बोधे च सति "वह्नि­मान्" इत्य­नु­मि­ति­र्भ­वति । न तु मध्ये व्याप्तिस्मरणं, तज्जन्यं "वह्नि­व्या­प्य­धू­म­वा­न­यम्" इत्या­दि­वि­शि­ष्ट­ज्ञानं वा हेतुत्वेन कल्पनीयम् गौर­वा­न्मा­ना­भा­वाच्च । तच्च व्याप्तिज्ञानं वह्नि­वि­ष­य­क­ज्ञा­नांश एव करणम् , न तु पर्व­त­वि­ष­य­क­ज्ञा­नांश इति "पर्वतो वह्निमान्" इति ज्ञानस्य वह्न्यंश एव अनुमितित्वम् न पर्वतांशे, तदंशे प्रत्य­क्ष­त्व­स्यो­प­पा­दि­त­त्वात् ।

व्याप्ति­श्चा­शे­ष­सा­ध­ना­श्र­या­श्रि­त­सा­ध्य­सा­मा­ना­धि­क­र­ण्य­रूपा । सा च व्यभिचारादर्शने सति सहचारदर्शनेन गृह्यते । तच्च सहचारदर्शनं भूयोदर्शनं सकृद्दर्शनं वेति विशेषो नादरणीयः, सहचारदर्शनस्यैव प्रयोजकत्वात् ।

तच्चा­नु­मा­न­म­न्व­यि­रू­प­मे­क­मेव । न तु केवलान्वयि, सर्वस्यापि धर्म­स्या­स्म­न्मते ब्रह्म­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वेन अत्य­न्ता­भा­वा­प्र­ति­यो­गि­सा­ध्य­क­त्व­रू­प­के­व­ला­न्व­यि­त्व­स्या­सिद्धेः । नाप्यनुमानस्य व्यति­रे­कि­रू­प­त्वम् साध्याभावे साध­ना­भा­व­नि­रू­पि­त­व्या­प्ति­ज्ञा­नस्य साधनेन साध्या­नु­मि­ता­व­नु­प­यो­गात् । कथं तर्हि धूमा­दा­व­न्व­य­व्या­प्ति­म­वि­दु­षोऽपि व्यति­रे­क­व्या­प्ति­ज्ञा­ना­द­नु­मितिः । अर्था­प­त्ति­प्र­मा­णा­दिति वक्ष्यामः । अत एवानुमानस्य नान्व­य­व्य­ति­रे­कि­रू­प­त्वम् , व्यति­रे­क­व्या­प्ति­ज्ञा­नस्य अनु­मि­त्य­हे­तु­त्वात् ।

तच्चानुमानं स्वार्थ­प­रा­र्थ­भे­देन द्विविधम् । तत्र स्वार्थ­न्तू­क्त­मेव । परार्थन्तु न्यायसाध्यम् । न्यायो नामावयवसमुदायः । अवयवाश्च त्रय एव प्रति­ज्ञा­हे­तू­दा­ह­र­ण­रूपाः उदा­ह­र­णो­प­न­य­नि­ग­म­न­रूपा वा । न तु पञ्च अवयवत्रयेणैव व्याप्ति­प­क्ष­ध­र्म­त­यो­रु­प­द­र्श­न­स­म्भ­वे­ना­धि­का­व­य­व­द्व­यस्य व्यर्थत्वात् ।

एवमनुमाने निरूपिते तस्माद् ब्रह्म­भि­न्न­नि­खि­ल­प्र­प­ञ्चस्य मिथ्या­त्व­सिद्धिः । तथाहि - ब्रह्मभिन्नं सर्वं मिथ्या, ब्रह्म­भि­न्न­त्वात् , यदेवं तदेवम् , यथा शुक्तिरूप्यम् । न च दृष्टा­न्ता­सिद्धिः तस्य साधितत्वात् । न चाप्रयोजकत्वम् शुक्ति­रू­प्य­र­ज्जु­स­र्पा­दीनां मिथ्यात्वे ब्रह्म­भि­न्न­त्व­स्यैव लाघवेन प्रयोजकत्वात् । मिथ्यात्वं च स्वाश्र­य­त्वे­ना­भि­म­त­या­व­न्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्वम् । 'अभि­म­त'पदं वस्तुतः स्वाश्र­या­प्र­सि­द्ध्याऽ­स­म्भ­व­वा­र­णाय, 'याव­त्'-प­द­म­र्था­न्त­र­वा­र­णाय । तदुक्तम्- " सर्वेषामपि भावानां स्वाश्रयत्वेन सम्मते । प्रति­यो­गि­त्व­म­त्य­न्ता­भावं प्रति मृषात्मता ॥" इति ।

यद्वा अयं पट एत­त्त­न्तु­नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­योगी पटत्वात् , पटान्तरवत् इत्याद्यनुमानं मिथ्यात्वे प्रमाणम् । तदुक्तम्- " अंशिनः स्वांश­गा­त्य­न्ता­भा­वस्य प्रतियोगिनः । अंशि­त्वा­दि­त­रां­शीव दिगेषैव गुणादिषु ॥" इति ।

न च घटा­दे­र्मि­थ्यात्वे "सन् घटः" इति प्रत्यक्षेण बाधः, अधि­ष्ठा­न­ब्र­ह्म­स­त्ता­या­स्तत्र विषयतया, घटादेः सत्यत्वासिद्धेः ।

न च नीरूपस्य ब्रह्मणः कथं चाक्षु­षा­दि­ज्ञा­न­वि­ष­य­तेति वाच्यम् , नीरूपस्यापि रूपादेः प्रत्य­क्ष­वि­ष­य­त्वात् । न च नीरूपस्य द्रव्यस्य चक्षु­रा­द्य­यो­ग्य­त्व­मिति नियमः मन्मते ब्रह्मणो द्रव्य­त्वा­सिद्धेः । गुणाश्रयत्वं समवायिकारणत्वं वा द्रव्यत्वम् इति तेऽभिमतम् । न हि निर्गुणस्य ब्रह्मणो गुणाश्रयता नापि समवायिकारणता, समवायासिद्धेः । अस्तु वा द्रव्यत्वं ब्रह्मणः, तथापि नीरूपस्य कालस्येव चाक्षु­षा­दि­ज्ञा­न­वि­ष­यत्वे न विरोधः ।

यद्वा त्रिविधं सत्त्वम् पारमार्थिकं व्यावहारिकं प्रातिभासिकं चेति । पारमार्थिकं सत्त्वं ब्रह्मणः, व्यावहारिकं सत्त्व­मा­का­शादेः, प्रातिभासिकं सत्त्वं शुक्तिरजतादेः । तथा च "घटः सन्" इति प्रत्यक्षस्य व्याव­हा­रि­क­स­त्त्व­वि­ष­य­त्वेन प्रामाण्यम् । अस्मिन् पक्षे घटादेर्ब्रह्मणि निषेधो न स्वरूपेण, किन्तु पार­मा­र्थि­क­त्वे­नै­वेति न विरोधः । अस्मिन् पक्षे च मिथ्यात्वलक्षणे पार­मा­र्थि­क­त्वा­व­च्छि­न्न­प्र­ति­यो­गि­ता­क­त्व­म­त्य­न्ता­भा­व­वि­शे­षणं द्रष्टव्यम् । तस्मादुपपन्नं मिथ्या­त्वा­नु­मा­न­मिति ।

इति वेदा­न्त­प­रि­भा­षा­या­म­नु­मा­न­प­रि­च्छेदः ।