अद्वैतशारदा

वेदान्तपरिभाषा

उपमानप्रमाणम्

अथोपमानं निरूप्यते । तत्र सादृ­श्य­प्र­मा­क­र­ण­मु­प­मा­नम् । तथा हि नगरेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य गव­ये­न्द्रि­य­स­न्नि­कर्षे सति भवति प्रतीतिः "अयं पिण्डो गोसदृशः" इति । तदनन्तरं च भवति निश्चयः "अनेन सदृशी मदीया गौः" इति । तत्रा­न्व­य­व्य­ति­रे­काभ्यां गव­य­नि­ष्ठ­गो­सा­दृ­श्य­ज्ञानं करणम् , गोनि­ष्ठ­ग­व­य­सा­दृ­श्य­ज्ञानं फलम् ।

न चेदं प्रत्यक्षेण सम्भवति गोपिण्डस्य तदे­न्द्रि­या­स­न्नि­क­र्षात् । नाप्यनुमानेन गव­य­नि­ष्ठ­गो­सा­दृ­श्यस्य अतल्लिङ्गत्वात् । नापि मदीया गौरे­त­द्ग­व­य­स­दृशी, एत­न्नि­ष्ठ­सा­दृ­श्य­प्र­ति­यो­गि­त्वात् , यो यद्ग­त­सा­दृ­श्य­प्र­ति­योगी स तत्सदृशः, यथा मैत्र­नि­ष्ठ­सा­दृ­श्य­प्र­ति­योगी चैत्रो मैत्रसदृशः इत्यनुमानात् तत्सम्भव इति वाच्यम् । एवं­वि­धा­नु­मा­ना­न­व­ता­रेऽपि "अनेन सदृशी मदीया गौः" इति प्रती­ते­र­नु­भ­व­सि­द्ध­त्वात् "उप­मि­नोमि" इत्य­नु­व्य­व­सा­याच्च । तस्मादुपमानं मानान्तरम् ।

इति वेदा­न्त­प­रि­भा­षा­या­मु­प­मा­न­प­रि­च्छेदः ।