अद्वैतशारदा

वेदान्तपरिभाषा

आगमप्रमाणम्

अथागमो निरूप्यते । यस्य वाक्यस्य तात्प­र्य­वि­ष­यी­भू­त­सं­सर्गो मानान्तरेण न बाध्यते तद्वाक्यं प्रमाणम् । वाक्यजन्यज्ञाने च आकां­क्षा­यो­ग्य­ताऽऽ­स­त्त­य­स्ता­त्प­र्य­ज्ञानं च इति चत्वारि कारणानि ।

तत्र पदार्थानां पर­स्प­र­जि­ज्ञा­सा­वि­ष­य­त्व­यो­ग्य­त्व­मा­कांक्षा । क्रियाश्रवणे कारकस्य, कारकश्रवणे क्रियायाः, करणश्रवणे इति­क­र्त­व्य­ता­याश्च जिज्ञा­सा­वि­ष­य­त्वात् । अजिज्ञासोरपि वाक्यार्थबोधात् योग्य­त्व­मु­पा­त्तम् । तदवच्छेदकं च क्रिया­त्व­का­र­क­त्वा­दि­कम् (इति नातिव्याप्तिः गौरश्व इत्यादौ) । अभेदान्वये च समा­न­वि­भ­क्ति­क­प­द­प्र­ति­पा­द्यत्वं तदवच्छेदकमिति तत्त्व­म­स्या­दि­वा­क्येषु नाव्याप्तिः ।

एता­दृ­शा­कां­क्षा­भि­प्रा­ये­णैव बलाबलाधिकरणे " सा वैश्व­दे­व्या­मिक्षा वाजिभ्यो वाजिनम्" इत्यत्र वैश्व­दे­व­या­ग­स्या­मि­क्षा­न्वि­त­त्वेन न वाजिनाकांक्षा इत्यादिव्यवहारः । ननु तत्रापि वाजिनस्य जिज्ञा­साऽ­वि­ष­य­त्वेऽपि तद्यो­ग्य­त्व­म­स्त्येव, प्रदे­य­द्र­व्य­त्वस्य याग­नि­रू­पि­त­जि­ज्ञा­सा­वि­ष­य­ता­यो­ग्य­ता­व­च्छे­द­क­त्वा­दिति चेत् न । स्वस­मा­न­जा­ती­य­प­दा­र्था­न्व­य­बो­ध­वि­र­ह­स­ह­कृ­त­प्र­दे­य­द्र­व्य­त्व­स्यैव तदवच्छेदकत्वेन, वाजिनद्रव्यस्य स्वस­मा­न­जा­ती­या­मि­क्षा­द्र­व्या­न्व­य­बो­ध­स­ह­कृ­त­त्वेन, तादृ­शा­व­च्छे­द­क­व­त्वा­भा­वात् । आमिक्षायान्तु नैवम् वाजिनान्वयस्य तदा­नु­प­स्थि­त­त्वात् । उदा­ह­र­णा­न्त­रे­ष्वपि दुर्ब­ल­त्व­प्र­यो­जक आकांक्षाविरह एव द्रष्टव्यः ।

योग्यता तात्प­र्य­वि­ष­य­सं­स­र्गा­बाधः । "वह्निना सिञ्चति" इत्यादौ तादृ­श­सं­स­र्ग­बा­धान्न योग्यता । " स प्रजापतिरात्मनो वपा­मु­द­खि­दत्"(तै.सं. २.१.१.४) इत्यादावपि तात्प­र्य­वि­ष­यी­भू­त­प­शु­प्रा­श­स्त्या­बा­धात् योग्यता । तत्त्व­म­स्या­दि­वा­क्ये­ष्वपि वाच्या­भे­द­बा­धेऽपि लक्ष्य­स्व­रू­पा­भेदे बाधाभावात् योग्यता ।

आस­त्ति­श्चा­व्य­व­धा­नेन पद­ज­न्य­प­दा­र्थो­प­स्थितिः । माना­न्त­रो­प­स्था­पि­त­प­दा­र्थ­स्या­न्व­य­बो­धा­भा­वात् पदजन्येति । अत एवाश्रुतस्थले तत्त­त्प­दा­ध्या­हारः, 'द्वारम्' इत्यादौ 'पिधेहि' इति । अत एव 'इषे त्वा' इत्यादिमन्त्रे 'छिनद्मि' इति पदाध्याहारः । अत एव विकृतिषु 'सूर्याय जुष्टं निर्वपामि' इति पदप्रयोगः ।

पदार्थश्च द्विविधः शक्यो लक्ष्यश्चेति । तत्र शक्तिर्नाम पदानामर्थेषु मुख्या वृत्तिः । यथा घटपदस्य पृथु­बु­ध्नो­द­रा­द्या­कृ­ति­वि­शिष्टे वस्तुविशेषे वृत्तिः । सा च शक्तिः पदार्थान्तरम् , सिद्धान्ते कारणेषु कार्या­नु­कू­ल­श­क्ति­मा­त्रस्य पदा­र्था­न्त­र­त्वात् । सा च तत्त­त्प­द­ज­न्य­प­दा­र्थ­ज्ञा­न­रू­प­का­र्या­नु­मेया । तादृ­श­श­क्ति­वि­ष­यत्वं शक्यत्वम् ।

तच्च जातेरेव, न व्यक्तेः व्यक्ती­ना­मा­न­न्त्येन गुरुत्वात् । कथं तर्हि गवा­दि­प­दा­द्व्य­क्ति­भा­न­मिति चेत् , जाते­र्व्य­क्ति­स­मा­न­सं­वि­त्सं­वे­द्य­त्वा­दिति ब्रूमः । यद्वा गवादिपदानां व्यक्तौ शक्तिः स्वरूपसती, न तु ज्ञाता, हेतुः । जातौ तु सा ज्ञाता हेतुः । न च व्यक्त्यंशे शक्तिज्ञानमपि कारणं गौरवात् । जाति­श­क्ति­म­त्त्व­ज्ञाने सति, व्यक्ति­श­क्ति­म­त्त्व­ज्ञानं विना व्यक्ति­धी­वि­ल­म्बा­भा­वाच्च । अत एव न्याय­म­तेऽ­प्य­न्वये शक्तिः स्वरूपसतीति सिद्धान्तः ।

ज्ञाय­मा­न­श­क्ति­वि­ष­य­त्व­मेव वाच्यत्वमिति जातिरेव वाच्या । अथवा व्यक्ते­र्ल­क्ष­ण­याऽ­व­गमः । यथा "नीलो घटः" इत्यत्र नीलशब्दस्य नीलगुणविशिष्टे लक्षणा, तथा जातिवाचकस्य तद्विशिष्टे लक्षणा । तदुक्तम् " अनन्यलभ्यः शब्दार्थः" इति । एवं शक्यो निरूपितः ।

अथ लक्ष्यपदार्थो निरूप्यते । तत्र लक्षणाविषयो लक्ष्यः । लक्षणा च द्विविधा केवललक्षणा लक्षितलक्षणा चेति । तत्र शक्य­सा­क्षा­त्स­म्बन्धः केवललक्षणा । यथा "गङ्गायां घोषः" इत्यत्र प्रवा­ह­सा­क्षा­त्स­म्ब­न्धिनि तीरे गङ्गापदस्य केवललक्षणा । यत्र शक्य­प­र­म्प­रा­स­म्ब­न्धे­ना­र्था­न्त­र­प्र­ती­ति­स्तत्र लक्षितलक्षणा । यथा द्विरेफपदस्य रेफद्वये शक्तस्य भ्रम­र­प­द­घ­टि­त­प­र­म्प­रा­स­म्ब­न्धेन मधुकरे वृत्तिः । गौण्यपि लक्षितलक्षणैव । यथा "सिंहो माणवकः" इत्यत्र सिंह­श­ब्द­वा­च्य­स­म्ब­न्धि­क्रौ­र्या­दि­स­म्ब­न्धेन माणवकस्य प्रतीतिः ।

प्रकारान्तरेण लक्षणा त्रिविधा जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा । तत्र शक्य­म­न­न्त­र्भाव्य यत्रा­र्था­न्त­र­प्र­ती­ति­स्तत्र जहल्लक्षणा । यथा "विषं भुंक्ष्व" इत्यत्र स्वार्थं विहाय शत्रुगृहे भोज­न­नि­वृ­त्ति­र्ल­क्ष्यते । यत्र शक्या­र्थ­म­न्त­र्भा­व्यै­वा­र्था­न्त­र­प्र­तीतिः तत्राजहल्लक्षणा यथा "शुक्लो घटः" इति । अत्र हि शुक्लशब्दः स्वार्थं शुक्ल­गु­ण­म­न्त­र्भा­व्यैव तद्वति द्रव्ये लक्षणया वर्तते । यत्र हि विशिष्टवाचकः शब्द एकदेशं विहाय एकदेशे वर्तते तत्र जहदजहल्लक्षणा । यथा "सोऽयम् देवदत्तः" इति । अत्र हि पद­द्व­य­वा­च्य­यो­र्वि­शि­ष्ट­यो­रै­क्या­नु­प­पत्या पदद्वयस्य विशे­ष्य­मा­त्र­प­र­त्वम् । यथा वा " तत्त्वमसि" इत्यादौ तत्पद्वाच्यस्य सर्व­ज्ञ­त्वा­दि­वि­शि­ष्टस्य त्वम्प­द­वा­च्ये­ना­न्तः­क­र­ण­वि­शि­ष्टे­नै­क्या­यो­गात् ऐक्यसिद्ध्यर्थं स्वरूपे लक्षणेति साम्प्रदायिकाः ।

वयन्तु ब्रूमः "सोऽयं देवदत्तः, तत्त्वमसि" इत्यादौ विशि­ष्ट­वा­च­क­प­दा­ना­मे­क­दे­श­प­र­त्वेऽपि न लक्षणा, शक्त्यु­प­स्थि­त­वि­शि­ष्टयोः अभे­दा­न्व­या­नु­प­पत्तौ विशेष्ययोः शक्त्यु­प­स्थि­त­यो­रेव अभे­दा­न्व­या­वि­रो­धात् । यथा "घटोऽ­नित्यः" इत्यत्र घट­प­द­वा­च्यै­क­दे­श­घ­ट­त्वस्य अयोग्यत्वेऽपि योग्य­घ­ट­व्यक्त्या सहा­नि­त्य­त्वा­न्वयः । यत्र पदार्थैकदेशस्य विशे­ष­ण­त­यो­प­स्थितिः तत्रैव स्वात­न्त्र्ये­णो­प­स्थि­तये लक्षणाभ्युपगमः । यथा "नित्यो घटः" इत्यत्र घटपदात् घटत्वस्य शक्त्या स्वात­न्त्र्ये­णा­नु­प­स्थित्या तादृ­शो­प­स्थि­त्यर्थं घटपदस्य घटत्वे लक्षणा । एवमेव " तत्त्वमसि" इत्या­दि­वा­क्येऽपि न लक्षणा, शक्त्या स्वात­न्त्र्ये­णो­प­स्थि­तयोः तत्त्व­म्प­दा­र्थ­यो­र­भे­दा­न्वये बाधकाभावात् । अन्यथा "गेहे घटः, घटे रूपम्, घटमानय" इत्यादौ घट­त्व­गे­ह­त्वा­दे­र­भि­म­ता­न्व­य­बो­धा­यो­ग्य­तया तत्रापि घटादिपदानां विशे­ष्य­मा­त्र­प­रत्वं लक्षणयैव स्यात् । तस्मात् " तत्त्वमसि" इत्यादिवाक्येषु आचार्याणां लक्ष­णो­क्ति­र­भ्यु­प­ग­म­वा­देन बोध्या ।

जह­द­ज­ह­ल्ल­क्ष­णो­दा­ह­र­णन्तु "काकेभ्यो दधि रक्ष्य­ताम्" इत्याद्येव तत्र शक्य­का­क­त्व­प­रि­त्या­गेन अश­क्य­द­ध्यु­प­घा­त­क­त्व­पु­र­स्का­रे­णा­का­केऽपि काक­श­ब्द­प्र­वृत्तेः ।

लक्षणाबीजन्तु तात्प­र्या­नु­प­प­त्ति­रेव न तु अन्वयानुपपत्तिः । "काकेभ्यो दधि रक्ष्य­ताम्" इत्यत्र अन्व­या­नु­प­प­त्त्य­भा­वात् । "गङ्गायां घोषः" इत्यादौ तात्प­र्या­नु­प­प­त्ते­रपि सम्भवात् ।

लक्षणा च न पदमात्रवृत्तिः, किन्तु वाक्यवृत्तिरपि । यथा "गम्भी­रायां नद्यां घोषः" इत्यत्र "गम्भी­रायां नद्याम्" इति पदद्वयसमुदायस्य तीरे लक्षणा । ननु वाक्य­स्या­श­क्त­तया कथं शक्यसम्बन्धरूपा लक्षणा ? उच्यते । शक्त्या यत् पदेन ज्ञाप्यते तत्सम्बन्धो लक्षणा । शक्तिज्ञाप्यश्च यथा पदार्थस्तथा वाक्यार्थोऽपीति न काचिदनुपपत्तिः ।

एव­म­र्थ­वा­द­वा­क्यानां प्रशंसारूपाणां प्राशस्त्ये लक्षणा " सोऽरोदीत्" इत्या­दि­नि­न्दा­र्थ­वा­द­वा­क्यानां निन्दितत्वे लक्षणा । अर्थवादगतपदानां प्राश­स्त्या­दि­ल­क्ष­णा­भ्यु­प­गमे एकेन पदेन लक्षणया तदु­प­स्थि­ति­स­म्भवे पदा­न्त­र­वै­यर्थ्यं स्यात् । एवं च विध्य­पे­क्षि­त­प्रा­श­स्त्य­रू­प­प­दा­र्थ­प्र­त्या­य­क­तया अर्थ­वा­द­प­द­स­मु­दा­यस्य पदस्थानीयतया, पदं सत् अर्थवादवाक्यं विधि­वा­क्ये­नै­क­वाक्यं भवति, इत्य­र्थ­वा­द­वा­क्यानां पदैकवाक्यता । क्व तर्हि वाक्यैकवाक्यता ? यत्र प्रत्येकं भिन्न­भि­न्न­सं­स­र्ग­प्र­ति­पा­द­क­यो­र्वा­क्य­यो­रा­कां­क्षा­व­शेन महा­वा­क्या­र्थ­बो­ध­कत्वं, तत्र वाक्यैकवाक्यता । यथा " दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेत" इत्या­दि­वा­क्यानां " समिधो यजति" इत्या­दि­वा­क्यानां च पर­स्प­रा­पे­क्षि­ता­ङ्गा­ङ्गि­भा­व­बो­ध­क­तया एकवाक्यता । तदुक्तं भट्टपादैः- " स्वार्थबोधे समा­प्ता­ना­म­ङ्गा­ङ्गि­त्वा­द्य­पे­क्षया । वाक्या­ना­मे­क­वा­क्यत्वं पुनः संहत्य जायते ॥" इति ।

एवं द्विविधोऽपि पदार्थो निरूपितः । तदु­प­स्थि­ति­श्चा­सत्तिः । सा च शाब्दबोधे हेतुः तथै­वा­न्व­य­व्य­ति­रे­क­द­र्श­नात् । एवं महा­वा­क्या­र्थ­बो­धेऽ­वा­न्त­र­वा­क्या­र्थ­बोधो हेतुः तथै­वा­न्व­या­द्य­व­धा­र­णात् ।

क्रमप्राप्तं तात्पर्यं निरूप्यते । तत्र तत्प्र­ती­ती­च्छ­यो­च्च­रि­तत्वं न तात्पर्यम् , अर्थ­ज्ञा­न­शू­न्येन पुरु­षे­णो­च्च­रि­ता­द्वे­दा­द­र्थ­प्र­त्य­या­भा­व­प्र­स­ङ्गात् । "अय­म­ध्या­प­कोऽ­व्यु­त्पन्नः" इति विशेषदर्शनेन तात्प­र्य­भ्र­म­स्या­प्य­भा­वात् । न चेश्व­री­य­ता­त्प­र्य­ज्ञा­नात् तत्र शाब्दबोध इति वाच्यम् , ईश्व­रा­न­ङ्गी­क­र्तु­रपि तद्वा­क्या­र्थ­प्र­ति­प­त्ति­द­र्श­नात् । उच्यते । तत्प्र­ती­ति­ज­न­न­यो­ग्यत्वं तात्पर्यम् । "गेहे घटः" इति वाक्यं गेहे घट­सं­स­र्ग­प्र­ती­ति­ज­न­न­यो­ग्यम् , न तु पट­सं­स­र्ग­प्र­ती­ति­ज­न­न­यो­ग्य­मिति तद्वाक्यं घटसंसर्गपरम् , न तु पट­सं­स­र्ग­प­र­मि­त्यु­च्यते ।

ननु "सैन्ध­व­मा­नय" इत्यादिवाक्यं यदा लव­णा­न­य­न­प्र­ती­ती­च्छया प्रयुक्तं, तदापि अश्व­सं­स­र्ग­प्र­ती­ति­ज­नने स्वरू­प­यो­ग्य­ता­स­त्त्वात् लव­ण­प­र­त्व­ज्ञा­न­द­शा­या­म­श्वा­दि­सं­स­र्ग­ज्ञा­ना­प­त्ति­रिति चेत् न । तदि­त­र­प्र­ती­ती­च्छ­या­नु­च्च­रि­त­त्व­स्यापि तात्पर्यं प्रति विशेषणत्वात् । तथा च यद्वाक्यं यत्प्र­ती­ति­ज­न­न­स्व­रू­प­यो­ग्यत्वे सति, यद­न्य­प्र­ती­ती­च्छया नोच्चरितं तद्वाक्यं तत्सं­स­र्ग­प­र­मि­त्यु­च्यते । शुकादिवाक्ये, अव्यु­त्प­न्नो­च्च­रि­त­वे­द­वा­क्यादौ च प्रतीतीच्छाया एवाभावेन तद­न्य­प्र­ती­ती­च्छ­यो­च्च­रि­त­त्वा­भा­वेन लक्ष­ण­स­त्त्वा­न्ना­व्याप्तिः । न चोभ­य­प्र­ती­ती­च्छ­यो­च्च­रि­तेऽ­व्याप्तिः तद­न्य­मा­त्र­प्र­ती­ती­च्छ­याऽ­नु­च्च­रि­त­त्वस्य विवक्षितत्वात् ।

उक्त­प्र­ती­ति­मा­त्र­ज­न­न­यो­ग्य­ता­या­श्चा­व­च्छे­दिका शक्तिः । अस्माकं मते सर्वत्र कारणतायाः शक्ते­रे­वा­व­च्छे­द­क­त्वान्न कोऽपि दोषः ।

एवं तात्पर्यस्य तत्प्र­ती­ति­ज­न­क­त्व­रू­पस्य शाब्द­ज्ञा­न­ज­न­कत्वे सिद्धे, चतुर्थवर्णके तात्पर्यस्य शाब्द­ज्ञा­न­हे­तु­त्व­नि­रा­क­र­ण­वाक्यं तत्प्र­ती­ती­च्छ­यो­च्च­रि­त­त्व­रू­प­ता­त्प­र्य­नि­रा­क­र­ण­प­रम् , अन्यथा तात्प­र्य­नि­श्च­य­फ­ल­क­वे­दा­न्त­वि­चा­र­वै­य­र्थ्य­प्र­स­ङ्गात् । केचित्तु शाब्द­ज्ञा­न­त्वा­व­च्छे­देन न तात्पर्यज्ञानं हेतुरित्येवंपरं चतु­र्थ­व­र्ण­क­वा­क्यम् । तात्प­र्य­सं­श­य­वि­प­र्य­यो­त्त­र­शा­ब्द­ज्ञा­न­वि­शेषे च तात्पर्यज्ञानं हेतुरेव । इदं वाक्य­मे­त­त्प­र­मु­ता­न्य­प­र­मिति संशये तद्विपर्यये च, तदु­त्त­र­वा­क्या­र्थ­वि­शे­ष­नि­श्च­यस्य तात्पर्यनिश्चयं विनाऽ­नु­प­प­त्ते­रि­त्याहुः ।

तच्च तात्पर्यं वेदे मीमां­सा­प­रि­शो­धि­त­न्या­या­दे­वा­व­ध­र्यते, लोके तु प्रकरणादिना । तत्र लौकिकवाक्यानां माना­न्त­रा­व­ग­ता­र्थ­त­याऽ­नु­वा­द­क­त्वम् । वेदे तु वाक्या­र्थ­स्या­पू­र्व­तया नानुवादकत्वम् । तत्र लोके वेदे च कार्यपराणामिव सिद्धर्थानामपि प्रामाण्यम् , "पुत्रस्ते जातः" इत्यादिषु सिद्धार्थेऽपि पदानां साम­र्थ्या­व­धा­र­णात् । अत एव वेदा­न्त­वा­क्यानां ब्रह्मणि प्रामाण्यम् । यथा चैतत् तथा विषयपरिच्छेदे वक्ष्यते ।

तत्र वेदानां नित्य­स­र्व­ज्ञ­प­र­मे­श्व­र­प्र­णी­त­त्वेन प्रामाण्यमिति नैयायिकाः । वेदानां नित्यत्वेन निर­स्त­स­म­स्त­पुं­दू­ष­ण­तया प्रामा­ण्य­मि­त्य­ध्व­र­मी­मां­सकाः । अस्माकं तु मते वेदो न नित्यः, उत्प­त्ति­म­त्त्वात् । उत्पत्तिमत्त्वं च " अस्य महतो भूतस्य निःश्व­सि­त­मे­त­द्य­दृ­ग्वेदो यजुर्वेदः साम­वे­दोऽ­थ­र्व­वेदः" इत्यादिश्रुतेः ।

नापि वेदानां द्विक्ष­णा­व­स्था­यि­त्वम् , "य एव वेदो देवदत्तेनाधीतः, स एव मयापि" इत्या­दि­प्र­त्य­भि­ज्ञा­वि­रो­धात् । अत एव गका­रा­दि­व­र्णा­ना­मपि न क्षणिकत्वम् , "सोऽयं गकारः" इत्या­दि­प्र­त्य­भि­ज्ञा­वि­रो­धात् । तथा च वर्ण­प­द­वा­क्य­स­मु­दा­यस्य वेदस्य वियदादिवत् सृष्टि­का­ली­नो­त्प­त्ति­कत्वं, प्रल­य­का­ली­न­ध्वं­स­प्र­ति­यो­गित्वं च । न तु मध्ये वर्णा­ना­मु­त्प­त्ति­वि­नाशौ, अन­न्त­ग­का­रा­दि­क­ल्प­नायां गौरवात् । अनुच्चारणदशायां वर्णा­ना­म­न­भि­व्य­क्ति­स्त­दु­च्चा­र­ण­रू­प­व्य­ञ्ज­का­भा­वात् न विरुध्यते, अन्ध­का­र­स्थ­घ­टा­नु­प­ल­म्भ­वत् । "उत्पन्नो गकारः" इत्या­दि­प्र­त्य­यस्तु "सोऽयं गकारः" इत्या­दि­प्र­त्य­भि­ज्ञा­वि­रो­धा­द­प्र­मा­णम् । वर्णा­भि­व्य­ञ्ज­क­ध्व­नि­ग­तो­त्प­त्ति­नि­रू­पि­त­प­र­म्प­रा­स­म्ब­न्ध­वि­ष­य­त्वेन प्रमाणं वा । तस्मान्न वेदानां क्षणिकत्वम् ।

ननु क्षणि­क­त्वा­भा­वेऽपि विय­दा­दि­प्र­प­ञ्च­व­दु­त्प­त्ति­म­त्वेन पर­मे­श्व­र­क­र्तृ­क­तया पौरु­षे­य­त्वा­द­पौ­रु­षे­यत्वं वेदानामिति तव सिद्धान्तो भज्येत इति चेत् न । न हि तावत् पुरुषेण उच्चार्यमाणत्वं पौरुषेयत्वम् , गुरु­म­तेऽ­प्य­ध्या­प­क­प­र­म्प­रया पौरु­षे­य­त्वा­पत्तेः । नापि पुरु­षा­धी­नो­त्प­त्ति­कत्वं पौरुषेयत्वम् , नैया­यि­का­भि­म­त­पौ­रु­षे­य­त्वा­नु­मा­नेऽ­स्म­दा­दिना सिद्ध­सा­ध­ना­पत्तेः । किन्तु सजा­ती­यो­च्चा­र­णा­न­पे­क्षो­च्चा­र­ण­वि­ष­य­त्वम् । तथा च सर्गाद्यकाले परमेश्वरः पूर्व­स­र्ग­सि­द्ध­वे­दा­नु­पू­र्वी­स­मा­ना­नु­पू­र्वीकं वेदं विरचितवान् , न तु तद्विजातीयं वेदमिति न सजा­ती­यो­च्चा­र­णा­न­पे­क्षो­च्चा­र­ण­वि­ष­यत्वं पौरुषेयत्वं वेदस्य । भारतादीनान्तु सजा­ती­यो­च्चा­र­ण­म­न­पे­क्ष्यै­वो­च्चा­र­ण­मिति तेषां पौरुषेयत्वम् । एवं पौरु­षे­या­पौ­रु­षे­य­भे­देन द्विविध आगमो निरूपितः ।

इति वेदा­न्त­प­रि­भा­षा­या­मा­ग­म­प­रि­च्छेदः ।