अद्वैतशारदा

वेदान्तपरिभाषा

अर्थापत्तिप्रमाणम्

इदा­नी­म­र्था­प­त्ति­र्नि­रू­प्यते । तत्रो­प­पा­द्य­ज्ञा­ने­नो­प­पा­द­क­क­ल्प­न­म­र्था­पत्तिः । तत्रो­प­पा­द्य­ज्ञानं करणम् , उपपादकज्ञानं फलम् । येन विना यदनुपपन्नं तत् तत्रोपपाद्यम् । यस्याभावे यस्यानुपपत्तिः तत् तत्रोपपादकम् । यथा रात्रिभोजनेन विना दिवाऽभुञ्जानस्य पीन­त्व­म­नु­प­प­न्नम् इति तादृशं पीन­त्व­मु­प­पा­द्यम् । यथा वा रात्रि­भो­ज­न­स्या­भावे तादृ­श­पी­न­त्व­स्या­नु­प­पत्तिः इति रात्रि­भो­ज­न­मु­प­पा­द­कम् ।

रात्रि­भो­ज­न­क­ल्प­ना­रू­पायां प्रमितौ "अर्थस्य आपत्तिः - कल्पना" इति षष्ठीसमासेन अर्थापत्तिशब्दो वर्तते । कल्पनाकरणे पीनत्वादिज्ञाने तु "अर्थस्य आपत्तिः - कल्पना यस्मात्" इति बहुव्रीहिसमासेन वर्तते, इति फल­क­र­ण­यो­रु­भ­यो­स्त­त्प­द­प्र­योगः ।

सा चार्था­प­त्ति­र्द्वि­विधा, दृष्टा­र्था­पत्तिः श्रुता­र्था­प­त्ति­श्चेति । तत्र दृष्टा­र्था­प­त्ति­र्यथा "इदं रजतम्" इति पुरोवर्तिनि प्रतिपन्नस्य रजतस्य "नेदं रजतम्" इति तत्रैव निषिध्यमानत्वं सत्य­त्वेऽ­नु­प­प­न्नम् इति रजतस्य सद्भिन्नत्वं सत्य­त्वा­त्य­न्ता­भा­व­वत्त्वं वा मिथ्यात्वं कल्पयति । श्रुता­र्था­प­त्ति­र्यथा यत्र श्रूय­मा­ण­वा­क्यस्य स्वार्था­नु­प­प­त्ति­मु­खेन अर्था­न्त­र­क­ल्प­नम् । यथा " तरति शोक­मा­त्म­वित्"(छा.उ. ७.१.३) इत्यत्र श्रुतस्य शोक­श­ब्द­वा­च्य­ब­न्ध­जा­तस्य ज्ञान­नि­व­र्त्य­त्व­स्या­न्य­था­नु­प­पत्या बन्धस्य मिथ्यात्वं कल्प्यते । यथा वा "जीवी देवदत्तो गृहे न" इति वाक्य­श्र­व­णा­न­न्तरं जीविनो गृहासत्त्वं बहिःसत्त्वं कल्पयति ।

श्रुता­र्था­प­त्तिश्च द्विविधा, अभि­धा­ना­नु­प­पत्तिः अभि­हि­ता­नु­प­प­त्तिश्च । तत्र, यत्र वाक्यै­क­दे­श­श्र­व­णेऽ­न्व­या­भि­धा­ना­नु­प­पत्त्या अन्व­या­भि­धा­नो­प­योगि पदान्तरं कल्प्यते तत्रा­भि­धा­ना­नु­प­पत्तिः । यथा 'द्वारम्' इत्यत्र 'पिधेहि' इति पदाध्याहारः यथा वा " विश्वजिता यजेत" इत्यत्र स्वर्ग­का­म­प­दा­ध्या­हारः ।
ननु 'द्वारम्' इत्या­दा­व­न्व­या­भि­धा­ना­त्पू­र्वम् इदमन्वयाभिधानं पिधा­नो­प­स्था­प­क­पदं विनाऽ­नु­प­प­न्न­मिति कथं ज्ञानमिति चेत् न । अभिधानपदेन करणव्युत्पत्या तात्पर्यस्य विवक्षितत्वात् । तथा च द्वार­क­र्म­क­पि­धा­न­क्रि­या­सं­स­र्ग­प­रत्वं पिधा­नो­प­स्था­प­क­पदं विनाऽ­नु­प­प­न्न­मिति ज्ञानं तत्रापि सम्भाव्यते ।

अभि­हि­ता­नु­प­प­त्तिस्तु यत्र वाक्या­व­ग­तोऽ­र्थोऽ­नु­प­प­न्न­त्वेन ज्ञातः सन्नर्थान्तरं कल्पयति तत्र द्रष्टव्या । तथा " स्वर्गकामो ज्योतिष्टोमेन यजेत" इत्यत्र स्वर्ग­सा­ध­न­त्वस्य क्षणि­क­या­ग­ग­त­त­याऽ­व­ग­त­स्या­नु­प­पत्त्या मध्य­व­र्त्य­पूर्वं कल्प्यते ।
न चेय­म­र्था­प­त्ति­र­नु­मा­नेऽ­न्त­र्भ­वि­तु­म­र्हति अन्व­य­व्या­प्त्य­ज्ञा­ने­ना­न्व­यि­न्य­न­न्त­र्भा­वात् । व्यति­रे­कि­ण­श्चा­नु­मा­नत्वं प्रागेव निरस्तम् । अत एवा­र्था­प­त्ति­स्थले 'अनु­मि­नोमि' इति नानुव्यवसायः । किन्तु "अनेन इदं कल्पयामि" इति ।

ननु अर्थापत्तिस्थले "इदमनेन विनाऽ­नु­प­प­न्न­मिति ज्ञानं करणम्" इत्युक्तम् । तत्र किमिदं "तेन विनाऽ­नु­प­प­न्न­त्वम्"? तद­भा­व­व्य­प­का­भा­व­प्र­ति­यो­गि­त्व­मिति ब्रूमः । एव­म­र्था­प­त्ते­र्मा­ना­न्त­र­त्व­सिद्धौ व्यतिरेकि नानुमानान्तरम् , "पृथि­वी­त­रेभ्यो भिद्यते" इत्यादौ गन्ध­व­त्त्व­मि­त­र­भेदं विनाऽ­नु­प­प­न्न­मि­त्या­दि­ज्ञा­नस्य करणत्वात् । अत एवानुव्यवसायः "पृथि­व्या­मि­त­र­भेदं कल्पयामि" इति ।

इति वेदा­न्त­प­रि­भा­षा­या­म­र्था­प­त्ति­प­रि­च्छेदः ।