अद्वैतशारदा

वेदान्तपरिभाषा

अनुपलब्धिप्रमाणम्

इदानीं षष्ठं प्रमाणं निरूप्यते । ज्ञान­क­र­णा­ज­न्य-अ­भा­वा­नु­भ­व-अ­सा­धा­र­ण­का­र­णम् अनुपलब्धिरूपं प्रमाणम् । अनु­मा­ना­दि­ज­न्य-अ­ती­न्द्रि­या­भा­वा­नु­भ­व­हेतौ अनु­मा­ना­दा­व­ति­व्या­प्ति­वा­र­णाय अजन्यान्तं पदम् । अदृष्टादौ साधा­र­ण­का­र­णेऽ­ति­व्या­प्ति­वा­र­णा­या­सा­धा­र­णेति । अभा­व­स्मृ­त्य­सा­धा­र­ण­हे­तु­सं­स्का­रेऽ­ति­व्या­प्ति­वा­र­णा­या­नु­भ­वेति विशेषणम् । न चाती­न्द्रि­या­भा­वा­नु­मि­ति­स्थ­लेऽ­प्य­नु­प­ल­ब्ध्यै­वा­भावो गृह्यताम् , विशेषाभावादिति वाच्यम् । धर्मा­ध­र्मा­द्य­नु­प­ल­ब्धि­स­त्त्वेऽपि तदभावानिश्चयेन योग्या­नु­प­ल­ब्धे­रे­वा­भा­व­ग्रा­ह­क­त्वात् ।

ननु केयं योग्यानुपलब्धिः ? किं योग्यस्य प्रति­यो­गि­नोऽ­नु­प­लब्धिः ? उत योग्येऽधिकरणे प्रति­यो­गि­नोऽ­नु­प­लब्धिः ? नाद्यः, स्तम्भे पिशा­चा­दि­भे­द­स्या­प्र­त्य­क्ष­त्वा­पत्तेः । नान्त्यः, आत्मनि धर्मा­द्य­भा­व­स्यापि प्रत्य­क्ष­त्वा­प­त्ते­रिति चेत् न । "योग्या चासा­व­नु­प­ल­ब्धि­श्चेति" कर्म­धा­र­या­श्र­य­णात् । अनु­प­ल­ब्धे­र्यो­ग्यता च तर्कि­त­प्र­ति­यो­गि­स­त्त्व­प्र­स­ञ्जि­त­प्र­ति­यो­गि­क­त्वम् । यस्याभावो गृह्यते, तस्य यः प्रतियोगी, तस्य सत्त्वेन - अधिकरणे तर्कितेन, प्रसञ्जनयोग्यम् - अापादनयोग्यं प्रति­यो­ग्यु­प­ल­ब्धि­स्व­रूपं यस्य अनुपलम्भस्य तत्त्वं - तद­नु­प­ल­ब्धे­र्यो­ग्य­त्व­मि­त्यर्थः । तथाहि - स्फीतालोकवति भूतले यदि घटः स्यात् , तदा घटोपलम्भः स्यादि­त्या­पा­द­न­स­म्भ­वात् , तादृशभूतले घटा­भा­वोऽ­नु­प­ल­ब्धि­गम्यः । अन्धकारे तु तादृ­शा­पा­द­ना­स­म्भ­वा­न्ना­नु­प­ल­ब्धि­ग­म्यता । अत एव स्तम्भे तादात्म्येन पिशाचसत्त्वे स्तम्भवत् प्रत्य­क्ष­त्वा­पत्त्या तद­भा­वोऽ­नु­प­ल­ब्धि­गम्यः । आत्मनि धर्मा­दि­स­त्त्वेऽ­प्य­स्या­ती­न्द्रि­य­तया निरु­क्तो­प­ल­म्भा­पा­द­ना­स­म्भ­वात् न धर्मा­द्य­भा­व­स्या­नु­प­ल­ब्धि­ग­म्य­त्वम् ।

ननू­क्त­री­त्याऽ­धि­क­र­णे­न्द्रि­य­स­न्नि­क­र्ष­स्थले अभा­व­स्या­नु­प­ल­ब्धि­ग­म्यत्वं त्वदनुमतम् । तत्र क्लृप्ते­न्द्रि­य­मे­वा­भा­वा­का­र­वृ­त्ता­वपि करणम् , इन्द्रि­या­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­दिति चेत् न । तत्प्र­ति­यो­ग्य­नु­प­ल­ब्धे­र­प्य­भा­व­ग्रहे हेतुत्वेन क्लृप्तत्वेन करणत्वमात्रस्य कल्पनात् । इन्द्रियस्य चाभावेन समं सन्नि­क­र्षा­भा­वे­ना­भा­व­ग्र­हा­हे­तु­त्वात् इन्द्रि­या­न्व­य­व्य­ति­रे­कयोः अधि­क­र­ण­ज्ञा­ना­द्यु­प­क्षी­ण­त्वेन अन्यथासिद्धेः ।

ननु "भूतले घटो न" इत्या­द्य­भा­वा­नु­भ­व­स्थले भूतलांशे प्रत्य­क्ष­त्व­मु­भ­य­सि­द्ध­मिति तत्र वृत्ति­नि­र्ग­म­न­स्या­व­श्य­क­त्वेन भूत­ला­व­च्छि­न्न­चै­त­न्य­वत् तन्नि­ष्ठ­घ­टा­भा­वा­व­च्छि­न्न­चै­त­न्य­स्यापि प्रमा­त्र­भि­न्न­तया घटाभावस्य प्रत्यक्षतैव सिद्धान्तेऽपि इति चेत् , सत्यम् । अभावप्रतीतेः प्रत्य­क्ष­त्वेऽपि तत्का­र­ण­स्या­नु­प­ल­ब्धे­र्मा­ना­न्त­र­त्वात् । न हि फलीभूतज्ञानस्य प्रत्यक्षत्वे तत्करणस्य प्रत्य­क्ष­प्र­मा­ण­ता­नि­य­त­त्व­मस्ति । " दश­म­स्त्व­मसि" इत्या­दि­वा­क्य­ज­न्य­ज्ञा­नस्य प्रत्य­क्ष­त्वेऽपि तत्करणस्य वाक्यस्य प्रत्य­क्ष­प्र­मा­ण­भि­न्न­प्र­मा­ण­त्वा­भ्यु­प­ग­मात् ।

फलवैजात्यं विना कथं प्रमाणभेद इति चेत् न । वृत्ति­वै­जा­त्य­मा­त्रेण प्रमा­ण­वै­जा­त्यो­प­पत्तेः । तथा च घटा­द्य­भा­वा­का­र­वृ­त्ति­र्ने­न्द्रि­य­जन्या, इन्द्रियस्य विष­ये­णा­स­न्नि­क­र्षात् , किन्तु घटा­द्य­नु­प­ल­ब्धि­रू­प­मा­ना­न्त­र­ज­न्येति भव­त्य­नु­प­ल­ब्धे­र्मा­ना­न्त­र­त्वम् ।

ननु अनु­प­ल­ब्धि­रू­प­मा­ना­न्त­र­प­क्षेऽ­भा­व­प्र­तीतेः प्रत्यक्षत्वे घटवति घटा­भा­व­भ्र­म­स्यापि प्रत्य­क्ष­त्वा­पत्तौ तत्रा­प्य­नि­र्व­च­नी­य­घ­टा­भा­वोऽ­भ्यु­प­ग­म्येत । न चेष्टापत्तिः, तस्य मायो­पा­दा­न­क­त्वेऽ­भा­व­त्वा­नु­प­पत्तेः । मायो­पा­दा­न­क­त्वा­भावे मायायाः सफ­ल­का­र्यो­पा­दा­न­त्वा­नु­प­प­त्ति­रिति चेत् न । घटवति घटाभावभ्रमो न तत्का­लो­त्प­न्न­घ­टा­भा­व­वि­ष­यकः, किन्तु भूतलरूपादौ विद्यमानो लौकिको घटाभावो भूतले आरोप्यते इत्य­न्य­था­ख्या­ति­रेव, आरो­प्य­स­न्नि­क­र्ष­स्थले सर्व­त्रा­न्य­था­ख्या­ते­रेव व्यवस्थापनात् ।

अस्तु वा प्रतियोगिमति तदभावभ्रमस्थले तद­भा­व­स्या­नि­र्व­च­नी­य­त्वम् , तथापि तदुपादानं मायैव । न ह्युपा­दा­नो­पा­दे­य­यो­र­त्य­न्त­सा­जा­त्यम् , तन्तुपटयोरपि तन्तु­त्व­प­ट­त्वा­दिना वैजात्यात् । यत्कि­ञ्चि­त्सा­जा­त्यस्य मायाया अनि­र्व­च­नी­य­घ­टा­भा­वस्य च मिथ्या­त्व­ध­र्मस्य विद्यमानत्वात् । अन्यथा व्यावहारिकं घटाभावं प्रति कथं मायोपादानमिति कुतो नाशङ्केथाः । न च विजा­ती­य­यो­र­प्यु­पा­दा­नो­पा­दे­य­भावे ब्रह्मैव जगदुपादानं स्यादिति वाच्यम् प्रप­ञ्च­वि­भ्र­मा­धि­ष्ठा­न­त्व­रू­पस्य तस्येष्टत्वात् परि­णा­मि­त्व­रू­प­स्यो­पा­दा­न­त्वस्य निरवयवे ब्रह्म­ण्य­नु­प­पत्तेः । तथा च प्रपञ्चस्य परिणाम्युपादानं माया, न ब्रह्म इति सिद्धान्त इत्य­ल­म­ति­प्र­स­ङ्गेन ।

स चाभा­व­श्च­तु­र्विधः प्रागभावः प्रध्वं­सा­भा­वोऽ­त्य­न्ता­भा­वोऽ­न्यो­न्या­भा­व­श्चेति । तत्र मृत्पिण्डादौ कारणे कार्यस्य घटादेरुत्पत्तेः पूर्वं योऽभावः स प्रागभावः । स च भविष्यतीति प्रतीतिविषयः । तत्रैव घटस्य मुद्ग­र­पा­ता­न­न्तरं योऽभावः स प्रध्वंसाभावः । ध्वंसस्यापि स्वाधि­क­र­ण­क­पा­ल­नाशे नाश एव । न च घटो­न्म­ज्ज­ना­पत्तिः, घट­ध्वं­स­ध्वं­स­स्यापि घट­प्र­ति­यो­गि­क­ध्वं­स­त्वात् । अन्यथा प्राग­भा­व­ध्वं­सा­त्म­क­घ­टस्य विनाशे प्राग­भा­वो­न्म­ज्ज­ना­पत्तिः । न चैवमपि यत्र ध्वंसाधिकरणं नित्यं तत्र कथं ध्वंसनाश इति वाच्यम् । तादृशमधिकरणं यदि चैत­न्य­व्य­ति­रिक्तं तदा तस्य नित्य­त्व­म­सि­द्धम् , ब्रह्म­व्य­ति­रि­क्तस्य सर्वस्य ब्रह्म­ज्ञा­न­नि­व­र्त्य­ताया वक्ष्यमाणत्वात् । यदि च ध्वंसाधिकरणं चैतन्यं, तदाऽसिद्धिः आरो­पि­त­प्र­ति­यो­गि­क­ध्वं­स­स्या­धि­ष्ठाने प्रती­य­मा­न­स्या­धि­ष्ठा­न­मा­त्र­त्वात् । तदुक्तम् " अधिष्ठानावशेषो हि नाशः कल्पि­त­व­स्तुनः" इति । एवं शुक्ति­रू­प्य­वि­ना­शोऽ­पी­द­म­व­च्छि­न्न­चै­त­न्य­मेव ।

यत्राधिकरणे यस्य काल­त्र­येऽ­प्य­भावः सोऽत्यन्ताभावः । यथा वायौ रूपात्यन्ताभावः । सोऽपि वियदादिवत् ध्वंस­प्र­ति­यो­ग्येव । 'इदमिदं न' इति प्रती­ति­वि­ष­योऽ­न्यो­न्या­भावः । अयमेव विभागो, भेदः, पृथक्त्वं चेति व्यवह्रियते, भेदा­ति­रि­क्त­पृ­थ­क्त्वादौ प्रमाणाभावात् । अयं चान्यो­न्या­भा­वोऽ­धि­क­र­णस्य सादित्वे सादिः, यथा घटे पटभेदः । अधि­क­र­ण­स्या­ना­दि­त्वेऽ­ना­दि­रेव, यथा जीवे ब्रह्मभेदः, ब्रह्मणि वा जीवभेदः । द्विविधोऽपि भेदो ध्वंस­प्र­ति­यो­ग्येव अविद्यानिवृत्तौ तत्परतन्त्राणां निवृ­त्त्य­व­श्य­म्भा­वात् ।

पुनरपि भेदो द्विविधः सोपाधिको निरुपाधिकश्चेति । तत्रो­पा­धि­स­त्ता­व्या­प्य­स­त्ता­कत्वं सोपाधिकत्वम् । तच्छून्यत्वं निरुपाधिकत्वम् । तत्राद्यो यथा एकस्यैवाकाशस्य घटा­द्यु­पा­धि­भे­देन भेदः । यथा वा एकस्य सूर्यस्य जलभाजनभेदेन भेदः । तथा च ब्रह्म­णोऽ­न्तः­क­र­ण­भे­दा­द्भेदः । निरुपाधिकभेदो यथा घटे पटभेदः । न च ब्रह्मण्यपि प्रप­ञ्च­भे­दा­भ्यु­प­ग­मेऽ­द्वै­त­वि­रोधः, तात्त्वि­क­भे­दा­न­भ्यु­प­ग­मेन विय­दा­दि­व­द­द्वै­ता­व्या­घा­त­क­त्वात् । प्रप­ञ्च­स्या­द्वैते ब्रह्मणि कल्पि­त­त्वा­ङ्गी­का­रात् । तदुक्तं सुरे­श्व­रा­चार्यैः- " अक्षमा भवतः केयं साध­क­त्व­प्र­क­ल्पने । किं न पश्यसि संसारं तत्रै­वा­ज्ञा­न­क­ल्पि­तम् ॥" इति । अत एव विव­र­णेऽ­वि­द्या­नु­माने प्राग­भा­व­व्य­ति­रि­क्त­त्व­वि­शे­ष­णम् , तत्त्व­प्र­दी­पि­का­या­म­वि­द्या­ल­क्षणे भावत्वविशेषणं च सङ्गच्छते । एवं चतु­र्वि­धा­ना­म­भा­वानां योग्या­नु­प­लब्ध्या प्रतीतिः । तत्रा­नु­प­ल­ब्धि­र्मा­ना­न्त­रम् ।

एवमुक्तानां प्रमाणानां प्रामाण्यं स्वत एवोत्पद्यते ज्ञायते च । तथा हि स्मृत्य­नु­भ­व­सा­धा­रणं संवा­दि­प्र­वृ­त्त्य­नु­कूलं तद्वति तत्प्र­का­र­क­ज्ञा­नत्वं प्रामाण्यम् । तच्च ज्ञान­सा­मा­न्य­सा­म­ग्री­प्र­योज्यं, न त्वधिकं गुणमपेक्षते प्रमा­मा­त्रेऽ­नु­ग­त­गु­णा­भा­वात् । नापि प्रत्य­क्ष­प्र­मायां भूयोऽ­व­य­वे­न्द्रि­य­स­न्नि­कर्षः, रूपा­दि­प्र­त्यक्षे आत्मप्रत्यक्षे च तदभावात् । सत्यपि तस्मिन् "पीतः शङ्खः" इति प्रत्यक्षस्य भ्रमत्वाच्च । अत एव न सल्लि­ङ्ग­प­रा­म­र्शा­दि­क­म­प्य­नु­मि­त्या­दि­प्र­मायां गुणः, अस­ल्लि­ङ्ग­प­रा­म­र्शा­दि­स्थ­लेऽपि विष­या­बा­धे­ना­नु­मि­त्यादेः प्रमात्वात् । न चैवमप्रमापि प्रमा स्यात् , ज्ञान­सा­मा­न्य­सा­मग्र्या अविशेषादिति वाच्यम् । दोषाभावस्यापि हेतु­त्वा­ङ्गी­का­रात् । न चैवं परतस्त्वम् , आग­न्तु­क­भा­व­का­र­णा­पे­क्षा­या­मेव परतस्त्वात् ।

ज्ञायते च प्रामाण्यं स्वतः । स्वतो ग्राह्यत्वं च दोषाभावे सति याव­त्स्वा­श्र­य­ग्रा­ह­क­सा­म­ग्री­ग्रा­ह्य­त्वम् । स्वाश्रयो वृत्तिज्ञानम् , तद्ग्राहकं साक्षिज्ञानम् । तेनापि वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्यमपि गृह्यते । न चैवं प्रामा­ण्य­सं­श­या­नु­प­पत्तिः तत्र संशयानुरोधेन दोषस्यापि सत्त्वेन दोषा­भा­व­घ­टि­त­स्वा­श्र­य­ग्रा­ह­का­भा­वेन तत्र प्रामा­ण्य­स्यै­वा­ग्र­हात् । यद्वा, याव­त्स्वा­श्र­य­ग्रा­ह­क­ग्रा­ह्य­त्व­यो­ग्यत्वं स्वतस्त्वम् । संशयस्थले प्रामा­ण्य­स्यो­क्त­यो­ग्य­ता­स­त्त्वेऽपि दोषवशेनाग्रहात् न संशयानुपपत्तिः । अप्रामाण्यन्तु न ज्ञान­सा­मा­न्य­सा­म­ग्री­प्र­यो­ज्यम् प्रमा­या­म­प्य­प्रा­मा­ण्या­पत्तेः, किन्तु दोषप्रयोज्यम् । नाप्यप्रामाण्यं याव­त्स्वा­श्र­य­ग्रा­ह­क­ग्रा­ह्यम् , अप्रा­मा­ण्य­घ­ट­क­त­द­भा­व­व­त्त्वा­दे­र्वृ­त्ति­ज्ञा­ना­नु­प­नी­त­त्वेन साक्षिणा ग्रही­तु­म­श­क्य­त्वात् । किन्तु विसं­वा­दि­प्र­वृ­त्त्या­दि­लि­ङ्ग­का­नु­मि­त्या­दि­वि­षय इति परत एवा­प्रा­मा­ण्य­मु­त्प­द्यते ज्ञायते च ।

इति वेदा­न्त­प­रि­भा­षा­या­म­नु­प­ल­ब्धि­प­रि­च्छेदः ।