वेदान्तपरिभाषा
विषयः
एवं निरूपितानां प्रमाणानां प्रामाण्यं द्विविधम् - व्यावहारिकतत्त्वावेदकत्वं पारमार्थिकतत्त्वावेदकत्वं चेति । तत्र ब्रह्मस्वरूपावगाहिप्रमाणव्यतिरिक्तानां सर्वप्रमाणानामाद्यं प्रामाण्यम् , तद्विषयाणां व्यवहारदशायां बाधाभावात् । द्वितीयन्तु जीवब्रह्मैक्यपराणां " सदेव सोम्येदमग्र आसीत्"(छा.उ. ६.२.१.) इत्यादीनां " तत्त्वमसि"(छा.उ. ६.८.७.) इत्यन्तानाम् , तद्विषयस्य जीवपरैक्यस्य कालत्रयाबाध्यत्वात् । तच्चैक्यं तत्त्वम्पदार्थज्ञानाधीनज्ञानमिति प्रथमं तत्-पदार्थो लक्षणप्रमाणाभ्यां निरूप्यते ।
तत्र लक्षणं द्विविधम् , स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम् । यथा सत्यादिकं ब्रह्मस्वरूपलक्षणम् , " सत्यं ज्ञानमनन्तं ब्रह्म"(तै.उ. २.१.१.) , आनन्दो ब्रह्मेति व्यजानात्(तै.उ. ३.६.१.) इत्यादिश्रुतेः । ननु स्वस्य स्ववृत्तित्वाभावे कथं लक्षणत्वमिति चेत् न । स्वस्यैव स्वापेक्षया धर्मिधर्मभावकल्पनया लक्ष्यलक्षणत्वसम्भवात् । तदुक्तम्- " आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः, अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते" इति ।
तटस्थलक्षणं नाम यावल्लक्ष्यकालमनवस्थितत्वे सति यद्व्यावर्तकं तदेव । यथा गन्धवत्वं पृथिवीलक्षणम् । महाप्रलये परमाणुषु, उत्पत्तिकाले घटादिषु च गन्धाभावात् । प्रकृते च जगज्जन्मादिकारणत्वम् । अत्र जगत्पदेन कार्यजातं विवक्षितम् । कारणत्वं च कर्तृत्वम् , अतोऽविद्यादौ नातिव्याप्तिः । कर्तृत्वं च तत्तदुपादानगोचरापरोक्षज्ञानचिकिर्षाकृतिमत्वम् । ईश्वरस्य तावदुपादानगोचरापरोक्षज्ञानसद्भावे- " यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥"(मु.उ. १.१.९.) इत्यादिश्रुतिर्मानम् । तादृशचिकीर्षासद्भावे च " सोऽकामयत, बहु स्यां प्रजायेय"(तै.उ. २.६.१.) इत्यादिश्रुतिर्मानम् । तादृशकृतौ च " तन्मनोऽकुरुत"(बृ.उ. १.२.१.) इत्यादिवाक्यम् ।
ज्ञानेच्छाद्यन्यतमगर्भं लक्षणत्रितयं विवक्षितम् , अन्यथा व्यर्थविशेषणापत्तेः । अत एव जन्मस्थितिध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः । एवं च लक्षणानि नव सम्पद्यन्ते । ब्रह्मणो जगज्जन्मादिकरणत्वे च " यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्यभिसंविशन्ति"(तै.उ. ३.१.१.) इत्यादिश्रुतिर्मानम् ।
यद्वा निखिलजगदुपादानत्वं ब्रह्मणो लक्षणम् । उपादानत्वं च जगदध्यासाधिष्ठानत्वम् , जगदाकारेण परिणममानमायाधिष्ठानत्वं वा । एतादृशमेवोपादानत्वमभिप्रेत्य " इदं सर्वं यदयमात्मा"(बृ.उ. २.४.६.), सच्च त्यच्चाभवत्(तै.उ. २.६.१.), बहु स्यां प्रजायेय(तै.उ. २.६.१.) इत्यादिश्रुतिषु ब्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः । "घटः सन्" , "घटो भाति", "घट इष्टः" इत्यादिलौकिकव्यपदेशोऽपि सच्चिदानन्दरूपब्रह्मैक्याध्यासात् ।
नन्वानन्दात्मकचिदध्यासाद्घटादेरिष्टत्वव्यवहारे, दुःखस्यापि तत्राध्यासात् तस्यापीष्टत्वव्यवहारापत्तिरिति चेत् न । "आरोपे सति निमित्तानुसरणम् , न तु निमित्तमस्तीत्यारोपः" इत्यभ्युपगमेन, दुःखादौ सच्चिदंशाध्यासेऽपि आनन्दांशाध्यासाभावात् । जगति नामरूपांशद्वयव्यवहारस्तु अविद्यापरिणामात्मकनामरूपसम्बन्धात् । तदुक्तम्- " अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥" इति ॥
अथ जगतो जन्मक्रमो निरूप्यते । तत्र सर्गाद्यकाले परमेश्वरः सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्मसहकृतोऽपरिमितानिरूपितशक्तिविशेषविशिष्टमायासहितः सन् नामरूपात्मकनिखिलप्रपञ्चं प्रथमं बुद्धावाकलय्य, "इदं करिष्यामि" इति सङ्कल्पयति, " तदैक्षत बहु स्यां प्रजायेय"(छा.उ. ६.२.३.), " सोऽकामयत बहु स्यां प्रजायेय"(तै.उ. २.६.१.) इत्यादिश्रुतेः । तत आकाशादीनि पञ्चभूतान्यपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यान्युत्पद्यन्ते । तत्राकाशस्य शब्दो गुणः, वायोस्तु शब्दस्पर्शौ, तेजसस्तु शब्दस्पर्शरूपाणि, अपां तु शब्दस्पर्शरूपरसाः, पृथिव्यास्तु शब्दस्पर्शरूपरसगन्धाः । न तु शब्दस्याकाशमात्रगुणत्वम् , वाय्वादावपि तदुपलम्भात् । न चासौ भ्रमः बाधकाभावात् ।
इमानि भूतानि त्रिगुणमायाकार्याणि त्रिगुणानि । गुणाः सत्त्वरजस्तमांसि । एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैर्व्यस्तैर्यथाक्रमं श्रोत्रत्वक्चक्षूरसनघ्राणानि पञ्च ज्ञानेन्द्रियाणि जायन्ते । एतैरेव सत्त्वगुणोपेतैः पञ्चभूतैर्मिलितैर्मनोबुद्ध्यहङ्कारचित्तनि जायन्ते । श्रोत्रादीनां पञ्चानां क्रमेण दिग्वातार्कवरुणाश्विनोऽधिष्ठातृदेवताः । मन आदीनां चतुर्णां क्रमेण चन्द्रचतुर्मुखशङ्कराच्युता अधिष्ठातृदेवताः ।
एतैरेव रजोगुणोपेतैः पञ्चभूतैर्यथाक्रमं वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि जायन्ते । तेषां च क्रमेण वह्नीन्द्रोपेन्द्रमृत्युप्रजापतयोऽधिष्ठातृदेवताः । रजोगुणोपेतैः पञ्चभूतैरेव मिलितैः पञ्च वायवः प्राणापनव्यानोदानसमानाख्या जायन्ते । तत्र प्राग्गमनवान् वायुः प्राणो नासादिस्थानवर्ती । अर्वाग्गमनवानपानः पाय्वादिस्थानवर्ती । विष्वगमनवान् व्यानः अखिलशरीरवर्ती । ऊर्ध्वगमनवानुत्क्रमणवायुरुदानः कण्ठस्थानवर्ती । अशितपीतान्नादिसमीकरणकरः समानः नाभिस्थानवर्ती ।
तैरेव तमोगुणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतभूतानि जायन्ते । " तासां त्रिवृतं त्रिवृतमेकैकामकरोत्"(छा.उ. ६.३.३.) इति श्रुतेः पञ्चीकरणोपलक्षणार्थत्वात् ।
पञ्चीकरणप्रकारश्चेत्थम् आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषां चतुर्णामंशानां वाय्वादिषु चतुर्षु भूतेषु संयोजनम् । एवं वायुं द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषां चतुर्णामांशानामाकाशादिषु संयोजनम् । एवं तेजआदीनामपि । तदेवमेकैकभूतस्यार्धं स्वांशात्मकम् अर्धान्तरं चतुर्विधभूतमयमिति पृथिव्यादिषु स्वांशाधिक्यात् पृथिव्यादिव्यवहारः । तदुक्तम्- " वैशेष्यात्तु तद्वादस्तद्वादः"(ब्र.सू. २.४.२२.) इति ।
पूर्वोक्तैरपञ्चीकृतभूतैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्यन्तस्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चक-कर्मेन्द्रियपञ्चक-प्राणदिपञ्चकसंयुक्तं जायते । तदुक्तम्- " पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥" इति । तच्च द्विविधम् परमपरं च । परं हिरण्यगर्भलिङ्गशरीरम् ,अपरमस्मदादिलिङ्गशरीरम् । तत्र हिरण्यगर्भलिङ्गशरीरम् महत्तत्त्वम् ,अस्मदादिलिङ्गशरीरं चाहङ्कार इत्याख्यायते ।
एवं तमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्यो भूम्यन्तरिक्षस्वर्महर्जनतपःसत्यात्मकस्योर्ध्वलोकसप्तकस्य अतलवितलसुतलतलातलरसातलमहातलपातालाख्यस्य अधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणां चोत्पत्तिः । तत्र जरायुजानि जरायुभ्यो जातानि मनुष्यपश्वादिशरीराणि । अण्डजान्यण्डेभ्यो जातानि पक्षिपन्नगादिशरीराणि । स्वेदजानि स्वेदाज्जातानि यूकमशकादिशरीराणि । उद्भिज्जानि भूमिमुद्भिद्य जातानि वृक्षादीनि । वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरत्वम् ।
तत्र परमेश्वरस्य पञ्चतन्मात्राद्युत्पत्तौ सप्तदशावयवोपेतलिङ्गशरीरोत्पत्तौ हिरण्यगर्भस्थूलशरीरोत्पत्तौ च साक्षात् कर्तृत्वम् इतरनिखिलप्रपञ्चोत्पत्तौ च हिरण्यगर्भादिद्वारा, " हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि"(छा.उ. ६.३.२.) इति श्रुतेः ।
हिरण्यगर्भो नाम मूर्तित्रयादन्यः प्रथमो जीवः । " स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥", " हिरण्यगर्भः समवर्तताग्रे"(ऋ.सं. १०.१२१.१.) इत्यादिश्रुतेः । एवं भूतभौतिकसृष्टिर्निरूपिता ।
इदानीं प्रलयो निरूप्यते । प्रलयो नाम त्रैलोक्यविनाशः । स च चतुर्विधः नित्यः प्राकृतो नैमित्तिक आत्यन्तिकश्चेति । तत्र नित्यः प्रलयः सुषुप्तिः, तस्याः सकलकार्यप्रलयरूपत्वात् । धर्माधर्मपूर्वसंस्काराणां च तदा कारणात्मनाऽवस्थानम् । तेन सुप्तोत्थितस्य न सुखदुःखाद्यनुपपत्तिः, न वा स्मरणानुपपत्तिः । न च सुषुप्तौ अन्तःकरणस्य विनाशे तदधीनप्राणादिक्रियानुपपत्तिः, वस्तुतः श्वासाद्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् , सुप्तशरीरोपलम्भवत् । न च एवं सुप्तस्य परेतादविशेषः, सुप्तस्य हि लिङ्गशरीरं संस्कारात्मनाऽत्रैव वर्तते परेतस्य तु लोकान्तरे इति वैलक्षण्यात् ।
यद्वा अन्तःकरणस्य द्वे शक्ती ज्ञानशक्तिः क्रियाशक्तिश्चेति । तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः, न तु क्रियाशक्तिविशिष्टस्य इति प्राणद्यवस्थानमविरुद्धम् । " यदा सुप्तः स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति अथैनं वाक् सर्वैर्नामभिः सहाप्येति"(कौ.उ. ३.३.), " सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति"(छा.उ. ६.८.१.) इत्यादिश्रुतिरुक्तसुषुप्तौ मानम् ।
प्राकृतप्रलयस्तु कार्यब्रह्मविनाशनिमित्तकः सकलकार्यविनाशः । यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य कार्यब्रह्मणो ब्रह्माण्डाधिकारलक्षणप्रारब्धकर्मसमाप्तौ विदेहकैवल्यात्मिका परा मुक्तिः, तदा तल्लोकवासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह विदेहकैवल्यम् । " ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥" इति स्मृतेः । एवं तल्लोकवासिभिः सह कार्यब्रह्मणि मुच्यमाने, तदधिष्ठितब्रह्माण्ड -तदन्तर्वर्तिनिखिललोक-तदन्तर्वर्तिस्थावरादीनां भौतिकानां भूतानां च प्रकृतौ मायायां लयः, न तु ब्रह्मणि, बाधरूपविनाशस्यैव ब्रह्मनिष्ठत्वात् । अतः प्राकृत इत्युच्यते ।
कार्यब्रह्मणो दिवसावसाननिमित्तकः त्रैलोक्यमात्रप्रलयः नैमित्तिकप्रलयः । ब्रह्मदिवसश्चतुर्युगसहस्रपरिमितकालः, " चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते" इत्यादिवचनात् । प्रलयकालोऽपि दिवसकालपरिमितः, रात्रिकालस्य दिवसकालतुल्यत्वात् ।
प्राकृतप्रलये नैमित्तिकप्रलये च पुराणवचनानि प्रमाणानि । " द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्प्यन्ते प्रलयाय हि ॥ एष प्राकृतिको राजन् प्रलयो यत्र लीयते ।" इति वचनं प्राकृतप्रलये मानम् । " एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् । शेतेऽनन्तासने नित्यमात्मसात्कृत्य चाखिलम् ।" इति वचनं नैमित्तिके प्रलये मानम् ।
तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः । स चैकजीववादे युगपदेव, नानाजीववादे तु क्रमेण । " सर्व एकीभवन्ति"(मु.उ. ३.२.७.) इत्यादिश्रुतेः । तत्राद्यास्त्रयोऽपि लयाः कर्मोपरमनिमित्ताः तुरीयस्तु ज्ञानोदयनिमित्तो लयोऽज्ञानेन सहैवेति विशेषः ।
एवं चतुर्विधप्रलयो निरूपितः । तस्येदानीं क्रमो निरूप्यते । भूतानां भौतिकानां च न कारणलयक्रमेण लयः कारणलयसमये कार्याणामाश्रयमन्तरेणावस्थानानुपपत्तेः, किन्तु सृष्टिक्रमविपरीतक्रमेण । तत्तत्कार्यनाशे तत्तज्जनकादृष्टनाशस्यैव प्रयोजकतया उपादाननाशस्याप्रयोजकत्वात् । अन्यथा न्यायमतेऽपि महाप्रलये पृथिवीपरमाणुगतरूपरसादेरविनाशापत्तेः । तथा च पृथिव्या अप्सु, अपां तेजसि, तेजसो वायौ, वायोराकाशे, आकाशस्य जीवाहङ्कारे, तस्य हिरण्यगर्भाहङ्कारे, तस्य चाविद्यायाम् इत्येवंरूप एव प्रलयः । तदुक्तं विष्णुपुराणे " जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । तेजस्यापः प्रलीयन्ते तेजो वायौ प्रलीयते ॥ वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन्निष्कले सम्प्रलीयते" इति । एवंविधप्रलयकारणत्वं तत्-पदार्थस्य ब्रह्मणस्तटस्थलक्षणम् ।
ननु वेदान्तैर्ब्रह्मणि जगत्कारणत्वेन प्रतिपाद्यमाने सति सप्रपञ्चं स्यात् , अन्यथा सृष्टिवाक्यानामप्रामाण्यापत्तिरिति चेत् न । न हि सृष्टिवाक्यानां सृष्टौ तात्पर्यम् । किन्तु अद्वये ब्रह्मण्येव । तत्प्रतिपत्तौ कथं सृष्टेरुपयोगः ? इत्थम् - यदि सृष्टिमनुपन्यस्य प्रपञ्चस्य निषेधो ब्रह्मणि प्रतिपाद्येत, तदा ब्रह्मणि प्रतिषिद्धस्य प्रपञ्चस्य वायौ प्रतिषिद्धस्य रूपस्येव ब्रह्मणोऽन्यत्रावस्थानशङ्कायां न निर्विचिकित्समद्वितीयत्वं प्रतिपादितं स्यात् । ततः सृष्टिवाक्याद्ब्रह्मोपादेयत्वज्ञाने सति, उपादानं विना कार्यस्यान्यत्र सद्भावशङ्कायां निरस्तायां, " नेति नेति"(बृ.उ. २.३.६.) इत्यादिना ब्रह्मण्यपि तस्यासत्त्वोपपादनेन प्रपञ्चस्य तुच्छत्वावगमे, निरस्तनिखिलद्वैतविभ्रममखण्डं सच्चिदानन्दैकरसं ब्रह्म सिद्ध्यतीति परम्परया सृष्टिवाक्यानामपि अद्वितीये ब्रह्मण्येव तात्पर्यम् । उपासनाप्रकरणपठितसगुणब्रह्मवाक्यानां च उपासनाविध्यपेक्षितगुणारोपमात्रपरत्वम् , न गुणपरत्वम् । निर्गुणप्रकरणपठितानां सगुणवाक्यानान्तु निषेधवाक्यापेक्षितनिषेध्यसमर्पकत्वेन विनियोग इति न किञ्चिदपि वाक्यमद्वितीयब्रह्मप्रतिपादनेन विरुध्यते ।
तदेवं स्वरूपतटस्थलक्षणलक्षितं । तत्-पदवाच्यमीश्वरचैतन्यं मायाप्रतिबिम्बरूपमिति केचित् । तेषामयमाशयः- जीवपरमेश्वरसाधारणं चैतन्यमात्रं बिम्बम् , तस्यैव बिम्बस्याविद्यात्मिकायां मायायां प्रतिबिम्बमीश्वरचैतन्यम् , अन्तःकरणेषु प्रतिबिम्बं जीवचैतन्यम् " कार्योपाधिरयं जीवः कारणोपधिरीश्वरः" इति श्रुतेः । एतन्मते जलाशयगतशरावजलगतसूर्यप्रतिबिम्बयोरिव जीवपरमेश्वरयोर्भेदः । अविद्यात्मकोपाधेर्व्यापकतया तदुपाधिकेश्वरस्यापि व्यापकत्वम् । अन्तःकरणस्य परिच्छिन्नतया तदुपाधिकजीवस्यापि परिच्छिन्नत्वम् ।
एतन्मतेऽविद्याकृतदोषा जीव इव परमेश्वरेऽपि स्युः, उपाधेः प्रतिबिम्बपक्षपातित्वात् , इत्यस्वरसात् बिम्बात्मकमीश्वरचैतन्यमित्यपरे । तेषामयमाशयः- एकमेव चैतन्यं बिम्बत्वाक्रान्तमीश्वरचैतन्यम् । प्रतिबिम्बत्वाक्रान्तं जीवचैतन्यम् । बिम्बप्रतिबिम्बकल्पनोपाधिश्चैकजीववादे अविद्या, अनेकजीववादे तु अन्तःकरणान्येव । अविद्यान्तःकरणरूपोपाधिप्रयुक्तो जीवपरभेदः । उपाधिकृतदोषाश्च प्रतिबिम्बे जीव एव वर्तन्ते, न तु बिम्बे परमेश्वरे, उपाधेः प्रतिबिम्बपक्षपातित्वात् । एतन्मते च गगनसूर्यस्य जलादौ भासमानप्रतिबिम्बसूर्यस्येव जीवपरयोर्भेदः ।
ननु ग्रीवास्थमुखस्य दर्पणप्रदेश इव बिम्बचैतन्यस्य परमेश्वरस्य जीवप्रदेशेऽभावात् तस्य सर्वान्तर्यामित्वं न स्यादिति चेत् न । साभ्रनक्षत्रस्याकाशस्य जलादौ प्रतिबिम्बितत्वे बिम्बभूतमहाकाशस्यापि जलादिप्रदेशसम्बन्धदर्शनेन परिच्छिन्नबिम्बस्य प्रतिबिम्बदेशासम्बन्धित्वेऽप्यपरिच्छिन्नब्रह्मबिम्बस्य प्रतिबिम्बदेशसम्बन्धाविरोधात् ।
न च रूपहीनस्य ब्रह्मणो न प्रतिबिम्बसम्भवः, रूपवत एव तथात्वदर्शनात् इति वाच्यम् । नीरूपस्यापि रूपस्य प्रतिबिम्बदर्शनात् । न च नीरूपस्य द्रव्यस्य प्रतिबिम्बाभावनियमः । आत्मनो द्रव्यत्वाभावस्य उक्तत्वात् । " एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।", " यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् ।" इत्यादिवाक्येन ब्रह्मप्रतिबिम्बाभावानुमानस्य बाधितत्वाच्च । तदेवं तत्-पदार्थो निरूपितः ।
इदानीं त्वम्-पदार्थो निरूप्यते । एकजीववादेऽविद्याप्रतिबिम्बो जीवः । अनेकजीववादे तु अन्तःकरणप्रतिबिम्बः । स च जाग्रत्स्वप्नसुषुप्तिरूपावस्थात्रयवान् । तत्र जाग्रद्दशा नाम इन्द्रियजन्यज्ञानावस्था । अवस्थान्तरे इन्द्रियाभावात् नातिव्याप्तिः । इन्द्रियजन्यज्ञानं च अन्तःकरणवृत्तिः, स्वरूपज्ञानस्यानादित्वात् ।
सा चान्तःकरणवृत्तिरावरणाभिभवार्था इत्येकं मतम् । तथा हि- अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठानचैतन्यस्य जीवरूपतया, जीवस्य सर्वदा घटादिभानप्रसक्तौ घटाद्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थापदवाच्यमभ्युपगन्तव्यम् । एवं सति न सर्वदा घटादेर्भानप्रसङ्गः । अनावृतचैतन्यसम्बन्धस्यैव भानप्रयोजकत्वात् । तस्य चावरणस्य सदातनत्वे कदाचिदपि घटभानं न स्यादिति तद्भङ्गे वक्तव्ये, तद्भङ्गजनकं न चैतन्यमात्रम् । तद्भासकस्य तदनिवर्तकत्वात् । नापि वृत्त्युपहितं चैतन्यम् । परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवृत्तिविशेषस्य, तदुपहितचैतन्यस्य वा आवरणभञ्जकत्वम् - इति आवरणाभिभवार्था वृत्तिरुच्यते ।
सम्बन्धार्था वृत्तिरित्यपरं मतम् । तत्राविद्योपाधिकोऽपरिच्छिन्नो जीवः । स च घटादिप्रदेशे विद्यमानोऽपि घटाद्याकारापरोक्षवृत्तिविरहदशायां न घटादिकमवभासयति, घटादिना समं सम्बन्धाभावात् । तत्तदाकारवृत्तिदशायां तु भासयति, तदा सम्बन्धसत्त्वात् ।
ननु अविद्योपाधिकस्यापरिच्छिन्नस्य जीवस्य स्वत एव समस्तवस्तुसम्बद्धस्य वृत्तिविरहदशायां सम्बन्धाभावाभिधानमसङ्गतम् । असङ्गत्वदृष्ट्या सम्बन्धाभावाभिधाने च वृत्त्यनन्तरमपि सम्बन्धो न स्यात् , इति चेत् । उच्यते - न हि वृत्तिविरहदशायां जीवस्य घटादिना सह सम्बन्धसामान्यं निषेधामः । किन्तर्हि ? घटादिभानप्रयोजकं सम्बन्धविशेषम् । स च सम्बन्धविशेषो विषयस्य जीवचैतन्यस्य च व्यङ्ग्य-व्यञ्जकतालक्षणः कादाचित्कस्तत्तदाकारवृत्तिनिबन्धनः । तथा हि तैजसमन्तःकरणं स्वच्छद्रव्यत्वात् स्वत एव जीवचैतन्याभिव्यञ्जनसमर्थम् । घटादिकस्तु न तथा, अस्वच्छद्रव्यत्वात् । स्वाकारवृत्तिसंयोगदशायान्तु वृत्त्यभिभूतजाड्यधर्मकतया वृत्त्युत्पादितचैतन्याभिव्यञ्जनयोग्यताश्रयतया च वृत्त्युदयानन्तरं चैतन्यमभिव्यनक्ति । तदुक्तं विवरणे " अन्तःकरणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैतन्याभिव्यक्तियोग्यतामापादयति" इति । दृष्टं चास्वच्छद्रव्यस्यापि स्वच्छद्रव्यसम्बन्धदशायां प्रतिबिम्बग्राहित्वम् । तथा कुड्यादेर्जलादिसंयोगदशायां मुखादिप्रतिबिम्बग्राहिता । घटादेरभिव्यञ्जकत्वं च तत्प्रतिबिम्बग्राहित्वम् , चैतन्यस्याभिव्यक्तत्वं च तत्र प्रतिबिम्बितत्वम् ।
एवंविधाभिव्यञ्जकत्वसिद्ध्यर्थमेव वृत्तेरपरोक्षस्थले बहिर्निर्गमनाङ्गीकारः । परोक्षस्थले तु वह्न्यादेर्वृत्तिसंसर्गाभावेन चैतन्यानभिव्यञ्जकतया नापरोक्षत्वम् । एतन्मते च विषयाणामपरोक्षत्वं चैतन्याभिव्यञ्जकत्वमिति द्रष्टव्यम् । एवं जीवस्यापरिच्छिन्नत्वेऽपि वृत्तेः सम्बन्धार्थत्वं निरूपितम् ।
इदानीं परिच्छिन्नत्वपक्षे सम्बधार्थत्वं निरूप्यते । तथा हि अन्तःकरणोपाधिको जीवः । तस्य न घटाद्युपादानता, घटादिदेशासम्बन्धात् । किन्तु ब्रह्मैव घटाद्युपादानम् , तस्य मायोपहितस्य सकलघटाद्यन्वयित्वात् । अत एव ब्रह्मणः सर्वज्ञता । तथा च जीवस्य घटाद्यधिष्ठानब्रह्मचैतन्याभेदमन्तरेण घटाद्यवभासासम्भवे प्राप्ते, तदवभासाय घटाद्यधिष्ठानब्रह्मचैतन्याभेदसिद्ध्यर्थं घटाद्याकारवृत्तिरिष्यते ।
ननु वृत्त्यापि कथं प्रमातृचैतन्यविषयचैतन्ययोरभेदः सम्पाद्यते, घटान्तःकरणरूपोपाधिभेदेन तदवच्छिन्नचैतन्ययोरभेदासम्भवात् इति चेत् न । वृत्तेर्बहिर्देशनिर्गमनाङ्गीकारेण वृत्त्यन्तःकरणविषयाणामेकदेशस्थत्वेन तदुपधेयभेदाभावस्य उक्तत्वात् । एवमपरोक्षस्थले वृत्तेर्मतभेदेन विनियोग उपपादितः ।
इन्द्रियाजन्यविषयगोचरापरोक्षान्तःकरणवृत्त्यवस्था स्वप्नावस्था । जाग्रदवस्थाव्यावृत्त्यर्थम् इन्द्रियाजन्येति । अविद्यावृत्तिमत्यां सुषुप्तावतिव्याप्तिवारणाय अन्तःकरणेति । सुषुप्तिर्नाम अविद्यागोचराविद्यावृत्त्यवस्था । जाग्रत्स्वप्नयोरविद्याकारवृत्तेरन्तःकरणवृत्तित्वान्न तत्रातिव्याप्तिः । अत्र केचिन्मरणमूर्च्छयोरवस्थान्तरत्वमाहुः । अपरे तु सुषुप्तावेव तयोरन्तर्भावमाहुः । तत्र तयोरवस्थात्रयान्तर्भावबहिर्भावयोः त्वं-पदार्थनिरूपणे उपयोगाभावात् न तत्र प्रयत्यते ।
तस्य मायोपाध्यपेक्षया एकत्वम् , अन्तःकरणोपाध्यपेक्षया च नानात्वं व्यवह्रियते । एतेन जीवस्याणुत्वं प्रत्युक्तम् । " बुद्धेर्गुणेनात्मगुणेन चैवं ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः ।" इत्यादौ जीवस्य बुद्धिशब्दवाच्यान्तःकरणपरिमाणोपाधिकस्य परिमाणत्वश्रवणात् ।
स च जीवः स्वयंप्रकाशः । स्वप्नावस्थामधिकृत्य " अत्रायं पुरुषः स्वयं ज्योतिः" इति श्रुतेः । अनुभवरूपश्च, " प्रज्ञानघन एव" इत्यादिश्रुतेः । "अनुभवामि" इति व्यवहारस्तु वृत्तिप्रतिबिम्बितचैतन्यमादाय उपपद्यते । एवं त्वं-पदार्थो निरूपितः ।
अधुना तत्-त्वम्-पदार्थयोरैक्यं महावाक्यप्रतिपाद्यमभिधीयते । ननु "नाहमीश्वरः" इत्यादिप्रत्यक्षेण, किञ्चिज्ज्ञत्वसर्वज्ञत्वादिविरुद्धधर्माश्रयत्वादिलिङ्गेन, " द्वा सुपर्णा" इत्यादिश्रुत्या, " द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥" इत्यादिस्मृत्या च जीवपरभेदस्यावगतत्वेन तत्त्वमस्यादिवाक्यम् " आदित्यो यूपः ।", " यजमानः प्रस्तरः" इत्यादिवाक्यवदुपचरितार्थमेव, इति चेत् न । भेदप्रत्यक्षस्य सम्भावितकरणदोषस्यासम्भावितदोषवेदजन्यज्ञानेन बाध्यमानत्वात् । अन्यथा चन्द्रगताधिकपरिमाणग्राहि-ज्योतिःशास्त्रस्य चन्द्रप्रादेशग्राहिप्रत्यक्षेण बाधापत्तेः । पाकरक्ते घटे "रक्तोऽयम् । न श्यामः" इतिवत् " सविशेषणे हि" इति न्यायेन जीवपरभेदग्राहिप्रत्यक्षस्य विशेषणीभूतधर्मभेदविषयत्वाच्च । अत एव नानुमानमपि प्रमाणम् , आगमविरोधात् , मेरुपाषाणमयत्वानुमानवत् ।
नाप्यागमान्तरविरोधः । तत्परातत्परवाक्ययोस्तत्परवाक्यस्य बलवत्वेन लोकसिद्धभेदानुवादि - " द्वा सुपर्णा" - इत्यादिवाक्यापेक्षया उपक्रमोपसंहाराद्यवगताद्वैततात्पर्यविशिष्टस्य तत्त्वमस्यादिवाक्यस्य प्रबलत्वात् । न च जीवपरैक्ये विरुद्धधर्माश्रयत्वानुपपत्तिः । शीतस्यैव जलस्यौपाधिकौष्ण्याश्रयत्ववत् स्वभावतो निर्गुणस्यैव जीवस्यान्तःकरणाद्युपाधिककर्तृत्वाद्याश्रयत्वप्रतिभासोपपत्तेः । यदि च जलादावौष्ण्यमारोपितम् , तदा प्रकृतेऽपि तुल्यम् । न च सिद्धान्ते कर्तृत्वस्य क्वचिदप्यभावादारोप्यप्रमाहितसंस्काराभावे कथमारोपः इति वाच्यम् । लाघवेनारोप्यविषयकसंस्कारत्वेनैव तस्य हेतुत्वात् । न च प्राथमिकारोपे का गतिः, कर्तृत्वाद्यध्यासप्रवाहस्यानादित्वात् ।
तत्र तत्त्वम्-पदवाच्ययोर्विशिष्टयोरैक्यायोगेऽपि लक्ष्यस्वरूपयोरैक्यमुपपादितमेव । अत एव तत्प्रतिपादक-तत्त्वमस्यादिवाक्यानामखण्डार्थत्वम् , "सोऽयम्" इत्यादिवाक्यवत् । न च कार्यपराणामेव प्रामाण्यम् । "चैत्र, पुत्रस्ते जातः" इत्यादौ सिद्धेऽपि सङ्गतिग्रहात् । एवं सर्वप्रमाणाविरुद्धं श्रुतिस्मृतीतिहासपुराणप्रतिपाद्यं जीवपरैक्यं वेदान्तशास्त्रस्य विषय इति सिद्धम् ।
इति वेदान्तपरिभाषायां विषयपरिच्छेदः ।