अद्वैतशारदा

वेदान्तपरिभाषा

विषयः

एवं निरूपितानां प्रमाणानां प्रामाण्यं द्विविधम् - व्याव­हा­रि­क­त­त्त्वा­वे­द­कत्वं पार­मा­र्थि­क­त­त्त्वा­वे­द­कत्वं चेति । तत्र ब्रह्म­स्व­रू­पा­व­गा­हि­प्र­मा­ण­व्य­ति­रि­क्तानां सर्व­प्र­मा­णा­ना­माद्यं प्रामाण्यम् , तद्विषयाणां व्यवहारदशायां बाधाभावात् । द्वितीयन्तु जीव­ब्र­ह्मै­क्य­प­राणां " सदेव सोम्येदमग्र आसीत्"(छा.उ. ६.२.१.) इत्यादीनां " तत्त्वमसि"(छा.उ. ६.८.७.) इत्यन्तानाम् , तद्विषयस्य जीवपरैक्यस्य काल­त्र­या­बा­ध्य­त्वात् । तच्चैक्यं तत्त्व­म्प­दा­र्थ­ज्ञा­ना­धी­न­ज्ञा­न­मिति प्रथमं तत्-पदार्थो लक्ष­ण­प्र­मा­णाभ्यां निरूप्यते ।

तत्र लक्षणं द्विविधम् , स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम् । यथा सत्यादिकं ब्रह्म­स्व­रू­प­ल­क्ष­णम् , " सत्यं ज्ञानमनन्तं ब्रह्म"(तै.उ. २.१.१.) , आनन्दो ब्रह्मेति व्यजानात्(तै.उ. ३.६.१.) इत्यादिश्रुतेः । ननु स्वस्य स्ववृ­त्ति­त्वा­भावे कथं लक्षणत्वमिति चेत् न । स्वस्यैव स्वापेक्षया धर्मि­ध­र्म­भा­व­क­ल्प­नया लक्ष्य­ल­क्ष­ण­त्व­स­म्भ­वात् । तदुक्तम्- " आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः, अपृथक्त्वेऽपि चैतन्यात् पृथ­गि­वा­व­भा­सन्ते" इति ।

तटस्थलक्षणं नाम याव­ल्ल­क्ष्य­का­ल­म­न­व­स्थि­तत्वे सति यद्व्यावर्तकं तदेव । यथा गन्धवत्वं पृथिवीलक्षणम् । महाप्रलये परमाणुषु, उत्पत्तिकाले घटादिषु च गन्धाभावात् । प्रकृते च जग­ज्ज­न्मा­दि­का­र­ण­त्वम् । अत्र जगत्पदेन कार्यजातं विवक्षितम् । कारणत्वं च कर्तृत्वम् , अतोऽविद्यादौ नातिव्याप्तिः । कर्तृत्वं च तत्त­दु­पा­दा­न­गो­च­रा­प­रो­क्ष­ज्ञा­न­चि­कि­र्षा­कृ­ति­म­त्वम् । ईश्वरस्य ताव­दु­पा­दा­न­गो­च­रा­प­रो­क्ष­ज्ञा­न­स­द्भावे- " यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मा­दे­त­द्ब्रह्म नाम रूपमन्नं च जायते ॥"(मु.उ. १.१.९.) इत्या­दि­श्रु­ति­र्मा­नम् । तादृ­श­चि­की­र्षा­स­द्भावे च " सोऽकामयत, बहु स्यां प्रजायेय"(तै.उ. २.६.१.) इत्या­दि­श्रु­ति­र्मा­नम् । तादृशकृतौ च " तन्म­नोऽ­कु­रुत"(बृ.उ. १.२.१.) इत्यादिवाक्यम् ।

ज्ञाने­च्छा­द्य­न्य­त­म­गर्भं लक्षणत्रितयं विवक्षितम् , अन्यथा व्यर्थ­वि­शे­ष­णा­पत्तेः । अत एव जन्म­स्थि­ति­ध्वं­सा­ना­म­न्य­त­म­स्यैव लक्षणे प्रवेशः । एवं च लक्षणानि नव सम्पद्यन्ते । ब्रह्मणो जग­ज्ज­न्मा­दि­क­र­णत्वे च " यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रय­न्त्य­भि­सं­वि­शन्ति"(तै.उ. ३.१.१.) इत्या­दि­श्रु­ति­र्मा­नम् ।

यद्वा निखि­ल­ज­ग­दु­पा­दा­नत्वं ब्रह्मणो लक्षणम् । उपादानत्वं च जग­द­ध्या­सा­धि­ष्ठा­न­त्वम् , जगदाकारेण परि­ण­म­मा­न­मा­या­धि­ष्ठा­नत्वं वा । एता­दृ­श­मे­वो­पा­दा­न­त्व­म­भि­प्रेत्य " इदं सर्वं यदयमात्मा"(बृ.उ. २.४.६.), सच्च त्यच्चाभवत्(तै.उ. २.६.१.), बहु स्यां प्रजायेय(तै.उ. २.६.१.) इत्यादिश्रुतिषु ब्रह्म­प्र­प­ञ्च­यो­स्ता­दा­त्म्य­व्य­प­देशः । "घटः सन्" , "घटो भाति", "घट इष्टः" इत्या­दि­लौ­कि­क­व्य­प­दे­शोऽपि सच्चि­दा­न­न्द­रू­प­ब्र­ह्मै­क्या­ध्या­सात् ।

नन्वा­न­न्दा­त्म­क­चि­द­ध्या­सा­द्घ­टा­दे­रि­ष्ट­त्व­व्य­व­हारे, दुःखस्यापि तत्राध्यासात् तस्या­पी­ष्ट­त्व­व्य­व­हा­रा­प­त्ति­रिति चेत् न । "आरोपे सति निमित्तानुसरणम् , न तु निमि­त्त­म­स्ती­त्या­रोपः" इत्यभ्युपगमेन, दुःखादौ सच्चि­दं­शा­ध्या­सेऽपि आन­न्दां­शा­ध्या­सा­भा­वात् । जगति नाम­रू­पां­श­द्व­य­व्य­व­हा­रस्तु अवि­द्या­प­रि­णा­मा­त्म­क­ना­म­रू­प­स­म्ब­न्धात् । तदुक्तम्- " अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥" इति ॥

अथ जगतो जन्मक्रमो निरूप्यते । तत्र सर्गाद्यकाले परमेश्वरः सृज्य­मा­न­प्र­प­ञ्च­वै­चि­त्र्य­हे­तु­प्रा­णि­क­र्म­स­ह­कृ­तोऽ­प­रि­मि­ता­नि­रू­पि­त­श­क्ति­वि­शे­ष­वि­शि­ष्ट­मा­या­स­हितः सन् नाम­रू­पा­त्म­क­नि­खि­ल­प्र­पञ्चं प्रथमं बुद्धावाकलय्य, "इदं करिष्यामि" इति सङ्कल्पयति, " तदैक्षत बहु स्यां प्रजायेय"(छा.उ. ६.२.३.), " सोऽकामयत बहु स्यां प्रजायेय"(तै.उ. २.६.१.) इत्यादिश्रुतेः । तत आकाशादीनि पञ्च­भू­ता­न्य­प­ञ्ची­कृ­तानि तन्मा­त्र­प­द­प्र­ति­पा­द्या­न्यु­त्प­द्यन्ते । तत्राकाशस्य शब्दो गुणः, वायोस्तु शब्दस्पर्शौ, तेजसस्तु शब्द­स्प­र्श­रू­पाणि, अपां तु शब्द­स्प­र्श­रू­प­रसाः, पृथिव्यास्तु शब्द­स्प­र्श­रू­प­र­स­गन्धाः । न तु शब्द­स्या­का­श­मा­त्र­गु­ण­त्वम् , वाय्वादावपि तदुपलम्भात् । न चासौ भ्रमः बाधकाभावात् ।

इमानि भूतानि त्रिगु­ण­मा­या­का­र्याणि त्रिगुणानि । गुणाः सत्त्व­र­ज­स्त­मांसि । एतैश्च सत्त्वगुणोपेतैः पञ्च­भू­तै­र्व्य­स्तै­र्य­था­क्रमं श्रोत्र­त्व­क्च­क्षू­र­स­न­घ्रा­णानि पञ्च ज्ञाने­न्द्रि­याणि जायन्ते । एतैरेव सत्त्वगुणोपेतैः पञ्च­भू­तै­र्मि­लि­तै­र्म­नो­बु­द्ध्य­ह­ङ्का­र­चि­त्तनि जायन्ते । श्रोत्रादीनां पञ्चानां क्रमेण दिग्वा­ता­र्क­व­रु­णा­श्वि­नोऽ­धि­ष्ठा­तृ­दे­वताः । मन आदीनां चतुर्णां क्रमेण चन्द्र­च­तु­र्मु­ख­श­ङ्क­रा­च्युता अधिष्ठातृदेवताः ।

एतैरेव रजोगुणोपेतैः पञ्च­भू­तै­र्य­था­क्रमं वाक्पा­णि­पा­द­पा­यू­प­स्था­ख्यानि कर्मेन्द्रियाणि जायन्ते । तेषां च क्रमेण वह्नी­न्द्रो­पे­न्द्र­मृ­त्यु­प्र­जा­प­त­योऽ­धि­ष्ठा­तृ­दे­वताः । रजोगुणोपेतैः पञ्चभूतैरेव मिलितैः पञ्च वायवः प्राणा­प­न­व्या­नो­दा­न­स­मा­नाख्या जायन्ते । तत्र प्राग्गमनवान् वायुः प्राणो नासा­दि­स्था­न­वर्ती । अर्वा­ग्ग­म­न­वा­न­पानः पाय्वा­दि­स्था­न­वर्ती । विष्वगमनवान् व्यानः अखिलशरीरवर्ती । ऊर्ध्व­ग­म­न­वा­नु­त्क्र­म­ण­वा­यु­रु­दानः कण्ठस्थानवर्ती । अशि­त­पी­ता­न्ना­दि­स­मी­क­र­ण­करः समानः नाभिस्थानवर्ती ।

तैरेव तमो­गु­णो­पे­तै­र­प­ञ्ची­कृ­त­भूतैः पञ्चीकृतभूतानि जायन्ते । " तासां त्रिवृतं त्रिवृ­त­मे­कै­का­म­क­रोत्"(छा.उ. ६.३.३.) इति श्रुतेः पञ्ची­क­र­णो­प­ल­क्ष­णा­र्थ­त्वात् ।

पञ्ची­क­र­ण­प्र­का­र­श्चे­त्थम् आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषां चतुर्णामंशानां वाय्वादिषु चतुर्षु भूतेषु संयोजनम् । एवं वायुं द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषां चतु­र्णा­मां­शा­ना­मा­का­शा­दिषु संयोजनम् । एवं तेजआदीनामपि । तदे­व­मे­कै­क­भू­त­स्यार्धं स्वांशात्मकम् अर्धान्तरं चतु­र्वि­ध­भू­त­म­य­मिति पृथिव्यादिषु स्वांशाधिक्यात् पृथि­व्या­दि­व्य­व­हारः । तदुक्तम्- " वैशेष्यात्तु तद्वा­द­स्त­द्वादः"(ब्र.सू. २.४.२२.) इति ।

पूर्वो­क्तै­र­प­ञ्ची­कृ­त­भू­तै­र्लि­ङ्ग­श­रीरं पर­लो­क­या­त्रा­नि­र्वा­हकं मोक्ष­प­र्य­न्त­स्थायि मनो­बु­द्धि­भ्या­मु­पेतं ज्ञाने­न्द्रि­य­प­ञ्च­क-क­र्मे­न्द्रि­य­प­ञ्च­क-प्रा­ण­दि­प­ञ्च­क­सं­युक्तं जायते । तदुक्तम्- " पञ्च­प्रा­ण­म­नो­बु­द्धि­द­शे­न्द्रि­य­स­म­न्वि­तम् । अप­ञ्ची­कृ­त­भू­तोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥" इति । तच्च द्विविधम् परमपरं च । परं हिर­ण्य­ग­र्भ­लि­ङ्ग­श­री­रम् ,अप­र­म­स्म­दा­दि­लि­ङ्ग­श­री­रम् । तत्र हिर­ण्य­ग­र्भ­लि­ङ्ग­श­री­रम् महत्तत्त्वम् ,अस्म­दा­दि­लि­ङ्ग­श­रीरं चाहङ्कार इत्याख्यायते ।

एवं तमो­गु­ण­यु­क्तेभ्यः पञ्ची­कृ­त­भू­तेभ्यो भूम्य­न्त­रि­क्ष­स्व­र्म­ह­र्ज­न­त­पः­स­त्या­त्म­क­स्यो­र्ध्व­लो­क­स­प्त­कस्य अत­ल­वि­त­ल­सु­त­ल­त­ला­त­ल­र­सा­त­ल­म­हा­त­ल­पा­ता­ला­ख्यस्य अधोलोकसप्तकस्य ब्रह्माण्डस्य जरा­यु­जा­ण्ड­ज­स्वे­द­जो­द्भि­ज्जा­ख्य­च­तु­र्वि­ध­स्थू­ल­श­री­राणां चोत्पत्तिः । तत्र जरायुजानि जरायुभ्यो जातानि मनु­ष्य­प­श्वा­दि­श­री­राणि । अण्ड­जा­न्य­ण्डेभ्यो जातानि पक्षि­प­न्न­गा­दि­श­री­राणि । स्वेदजानि स्वेदाज्जातानि यूक­म­श­का­दि­श­री­राणि । उद्भिज्जानि भूमिमुद्भिद्य जातानि वृक्षादीनि । वृक्षादीनामपि पाप­फ­ल­भो­गा­य­त­न­त्वेन शरीरत्वम् ।

तत्र परमेश्वरस्य पञ्च­त­न्मा­त्रा­द्यु­त्पत्तौ सप्त­द­शा­व­य­वो­पे­त­लि­ङ्ग­श­री­रो­त्पत्तौ हिर­ण्य­ग­र्भ­स्थू­ल­श­री­रो­त्पत्तौ च साक्षात् कर्तृत्वम् इत­र­नि­खि­ल­प्र­प­ञ्चो­त्पत्तौ च हिर­ण्य­ग­र्भा­दि­द्वारा, " हन्ता­ह­मि­मा­स्तिस्रो देवता अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याक­र­वाणि"(छा.उ. ६.३.२.) इति श्रुतेः ।

हिरण्यगर्भो नाम मूर्ति­त्र­या­दन्यः प्रथमो जीवः । " स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥", " हिरण्यगर्भः सम­व­र्त­ताग्रे"(ऋ.सं. १०.१२१.१.) इत्यादिश्रुतेः । एवं भूत­भौ­ति­क­सृ­ष्टि­र्नि­रू­पिता ।

इदानीं प्रलयो निरूप्यते । प्रलयो नाम त्रैलोक्यविनाशः । स च चतुर्विधः नित्यः प्राकृतो नैमित्तिक आत्यन्तिकश्चेति । तत्र नित्यः प्रलयः सुषुप्तिः, तस्याः सक­ल­का­र्य­प्र­ल­य­रू­प­त्वात् । धर्मा­ध­र्म­पू­र्व­सं­स्का­राणां च तदा कार­णा­त्म­नाऽ­व­स्था­नम् । तेन सुप्तोत्थितस्य न सुख­दुः­खा­द्य­नु­प­पत्तिः, न वा स्मरणानुपपत्तिः । न च सुषुप्तौ अन्तःकरणस्य विनाशे तद­धी­न­प्रा­णा­दि­क्रि­या­नु­प­पत्तिः, वस्तुतः श्वासा­द्य­भा­वेऽपि तदुपलब्धेः पुरु­षा­न्त­र­वि­भ्र­म­मा­त्र­त्वात् , सुप्त­श­री­रो­प­ल­म्भ­वत् । न च एवं सुप्तस्य परेतादविशेषः, सुप्तस्य हि लिङ्गशरीरं संस्का­रा­त्म­नाऽ­त्रैव वर्तते परेतस्य तु लोकान्तरे इति वैलक्षण्यात् ।

यद्वा अन्तःकरणस्य द्वे शक्ती ज्ञानशक्तिः क्रिया­श­क्ति­श्चेति । तत्र ज्ञान­श­क्ति­वि­शि­ष्टा­न्तः­क­र­णस्य सुषुप्तौ विनाशः, न तु क्रिया­श­क्ति­वि­शि­ष्टस्य इति प्राण­द्य­व­स्था­न­म­वि­रु­द्धम् । " यदा सुप्तः स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति अथैनं वाक् सर्वैर्नामभिः सहाप्येति"(कौ.उ. ३.३.), " सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति"(छा.उ. ६.८.१.) इत्या­दि­श्रु­ति­रु­क्त­सु­षुप्तौ मानम् ।

प्राकृ­त­प्र­ल­यस्तु कार्य­ब्र­ह्म­वि­ना­श­नि­मि­त्तकः सकलकार्यविनाशः । यदा तु प्रागे­वो­त्प­न्न­ब्र­ह्म­सा­क्षा­त्का­रस्य कार्यब्रह्मणो ब्रह्मा­ण्डा­धि­का­र­ल­क्ष­ण­प्रा­र­ब्ध­क­र्म­स­माप्तौ विदे­ह­कै­व­ल्या­त्मिका परा मुक्तिः, तदा तल्लो­क­वा­सि­ना­म­प्यु­त्प­न्न­ब्र­ह्म­सा­क्षा­त्का­राणां ब्रह्मणा सह विदेहकैवल्यम् । " ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥" इति स्मृतेः । एवं तल्लोकवासिभिः सह कार्यब्रह्मणि मुच्यमाने, तद­धि­ष्ठि­त­ब्र­ह्माण्ड -तद­न्त­र्व­र्ति­नि­खि­ल­लो­क-त­द­न्त­र्व­र्ति­स्था­व­रा­दीनां भौतिकानां भूतानां च प्रकृतौ मायायां लयः, न तु ब्रह्मणि, बाध­रू­प­वि­ना­श­स्यैव ब्रह्म­नि­ष्ठ­त्वात् । अतः प्राकृत इत्युच्यते ।

कार्यब्रह्मणो दिव­सा­व­सा­न­नि­मि­त्तकः त्रैलो­क्य­मा­त्र­प्र­लयः नैमित्तिकप्रलयः । ब्रह्म­दि­व­स­श्च­तु­र्यु­ग­स­ह­स्र­प­रि­मि­त­कालः, " चतु­र्यु­ग­स­ह­स्राणि ब्रह्मणो दिन­मु­च्यते" इत्यादिवचनात् । प्रलयकालोऽपि दिवसकालपरिमितः, रात्रिकालस्य दिव­स­का­ल­तु­ल्य­त्वात् ।

प्राकृतप्रलये नैमित्तिकप्रलये च पुराणवचनानि प्रमाणानि । " द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्प्यन्ते प्रलयाय हि ॥ एष प्राकृतिको राजन् प्रलयो यत्र लीयते ।" इति वचनं प्राकृतप्रलये मानम् । " एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् । शेतेऽनन्तासने नित्य­मा­त्म­सा­त्कृत्य चाखिलम् ।" इति वचनं नैमित्तिके प्रलये मानम् ।

तुरीयप्रलयस्तु ब्रह्म­सा­क्षा­त्का­र­नि­मि­त्तकः सर्वमोक्षः । स चैकजीववादे युगपदेव, नानाजीववादे तु क्रमेण । " सर्व एकीभवन्ति"(मु.उ. ३.२.७.) इत्यादिश्रुतेः । तत्रा­द्या­स्त्र­योऽपि लयाः कर्मो­प­र­म­नि­मित्ताः तुरीयस्तु ज्ञानो­द­य­नि­मित्तो लयोऽज्ञानेन सहैवेति विशेषः ।

एवं चतुर्विधप्रलयो निरूपितः । तस्येदानीं क्रमो निरूप्यते । भूतानां भौतिकानां च न कारणलयक्रमेण लयः कारणलयसमये कार्या­णा­मा­श्र­य­म­न्त­रे­णा­व­स्था­ना­नु­प­पत्तेः, किन्तु सृष्टि­क्र­म­वि­प­री­त­क्र­मेण । तत्तत्कार्यनाशे तत्त­ज्ज­न­का­दृ­ष्ट­ना­श­स्यैव प्रयोजकतया उपा­दा­न­ना­श­स्या­प्र­यो­ज­क­त्वात् । अन्यथा न्यायमतेऽपि महाप्रलये पृथि­वी­प­र­मा­णु­ग­त­रू­प­र­सा­दे­र­वि­ना­शा­पत्तेः । तथा च पृथिव्या अप्सु, अपां तेजसि, तेजसो वायौ, वायोराकाशे, आकाशस्य जीवाहङ्कारे, तस्य हिर­ण्य­ग­र्भा­ह­ङ्कारे, तस्य चाविद्यायाम् इत्येवंरूप एव प्रलयः । तदुक्तं विष्णुपुराणे " जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । तेजस्यापः प्रलीयन्ते तेजो वायौ प्रलीयते ॥ वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन्निष्कले सम्प्र­ली­यते" इति । एवं­वि­ध­प्र­ल­य­का­र­णत्वं तत्-पदार्थस्य ब्रह्म­ण­स्त­ट­स्थ­ल­क्ष­णम् ।

ननु वेदा­न्तै­र्ब्र­ह्मणि जगत्कारणत्वेन प्रतिपाद्यमाने सति सप्रपञ्चं स्यात् , अन्यथा सृष्टि­वा­क्या­ना­म­प्रा­मा­ण्या­प­त्ति­रिति चेत् न । न हि सृष्टिवाक्यानां सृष्टौ तात्पर्यम् । किन्तु अद्वये ब्रह्मण्येव । तत्प्रतिपत्तौ कथं सृष्टेरुपयोगः ? इत्थम् - यदि सृष्टि­म­नु­प­न्यस्य प्रपञ्चस्य निषेधो ब्रह्मणि प्रतिपाद्येत, तदा ब्रह्मणि प्रतिषिद्धस्य प्रपञ्चस्य वायौ प्रतिषिद्धस्य रूपस्येव ब्रह्म­णोऽ­न्य­त्रा­व­स्था­न­श­ङ्कायां न निर्वि­चि­कि­त्स­म­द्वि­ती­यत्वं प्रतिपादितं स्यात् । ततः सृष्टि­वा­क्या­द्ब्र­ह्मो­पा­दे­य­त्व­ज्ञाने सति, उपादानं विना कार्यस्यान्यत्र सद्भावशङ्कायां निरस्तायां, " नेति नेति"(बृ.उ. २.३.६.) इत्यादिना ब्रह्मण्यपि तस्या­स­त्त्वो­प­पा­द­नेन प्रपञ्चस्य तुच्छत्वावगमे, निर­स्त­नि­खि­ल­द्वै­त­वि­भ्र­म­म­खण्डं सच्चि­दा­न­न्दै­क­रसं ब्रह्म सिद्ध्यतीति परम्परया सृष्टि­वा­क्या­ना­मपि अद्वितीये ब्रह्मण्येव तात्पर्यम् । उपा­स­ना­प्र­क­र­ण­प­ठि­त­स­गु­ण­ब्र­ह्म­वा­क्यानां च उपा­स­ना­वि­ध्य­पे­क्षि­त­गु­णा­रो­प­मा­त्र­प­र­त्वम् , न गुणपरत्वम् । निर्गु­ण­प्र­क­र­ण­प­ठि­तानां सगु­ण­वा­क्या­नान्तु निषे­ध­वा­क्या­पे­क्षि­त­नि­षे­ध्य­स­म­र्प­क­त्वेन विनियोग इति न किञ्चिदपि वाक्य­म­द्वि­ती­य­ब्र­ह्म­प्र­ति­पा­द­नेन विरुध्यते ।

तदेवं स्वरू­प­त­ट­स्थ­ल­क्ष­ण­ल­क्षितं । तत्-प­द­वा­च्य­मी­श्व­र­चै­तन्यं माया­प्र­ति­बि­म्ब­रू­प­मिति केचित् । तेषामयमाशयः- जीव­प­र­मे­श्व­र­सा­धा­रणं चैतन्यमात्रं बिम्बम् , तस्यैव बिम्ब­स्या­वि­द्या­त्मि­कायां मायायां प्रति­बि­म्ब­मी­श्व­र­चै­त­न्यम् , अन्तःकरणेषु प्रतिबिम्बं जीवचैतन्यम् " कार्योपाधिरयं जीवः कार­णो­प­धि­री­श्वरः" इति श्रुतेः । एतन्मते जला­श­य­ग­त­श­रा­व­ज­ल­ग­त­सू­र्य­प्र­ति­बि­म्ब­यो­रिव जीव­प­र­मे­श्व­र­यो­र्भेदः । अवि­द्या­त्म­को­पा­धे­र्व्या­प­क­तया तदु­पा­धि­के­श्व­र­स्यापि व्यापकत्वम् । अन्तःकरणस्य परिच्छिन्नतया तदु­पा­धि­क­जी­व­स्यापि परिच्छिन्नत्वम् ।

एत­न्म­तेऽ­वि­द्या­कृ­त­दोषा जीव इव परमेश्वरेऽपि स्युः, उपाधेः प्रति­बि­म्ब­प­क्ष­पा­ति­त्वात् , इत्यस्वरसात् बिम्बा­त्म­क­मी­श्व­र­चै­त­न्य­मि­त्य­परे । तेषामयमाशयः- एकमेव चैतन्यं बिम्ब­त्वा­क्रा­न्त­मी­श्व­र­चै­त­न्यम् । प्रति­बि­म्ब­त्वा­क्रान्तं जीवचैतन्यम् । बिम्ब­प्र­ति­बि­म्ब­क­ल्प­नो­पा­धि­श्चै­क­जी­व­वादे अविद्या, अनेकजीववादे तु अन्तःकरणान्येव । अवि­द्या­न्तः­क­र­ण­रू­पो­पा­धि­प्र­युक्तो जीवपरभेदः । उपाधिकृतदोषाश्च प्रतिबिम्बे जीव एव वर्तन्ते, न तु बिम्बे परमेश्वरे, उपाधेः प्रति­बि­म्ब­प­क्ष­पा­ति­त्वात् । एतन्मते च गगनसूर्यस्य जलादौ भास­मा­न­प्र­ति­बि­म्ब­सू­र्य­स्येव जीवपरयोर्भेदः ।

ननु ग्रीवास्थमुखस्य दर्पणप्रदेश इव बिम्बचैतन्यस्य परमेश्वरस्य जीव­प्र­दे­शेऽ­भा­वात् तस्य सर्वा­न्त­र्या­मित्वं न स्यादिति चेत् न । साभ्र­न­क्ष­त्र­स्या­का­शस्य जलादौ प्रति­बि­म्बि­तत्वे बिम्ब­भू­त­म­हा­का­श­स्यापि जला­दि­प्र­दे­श­स­म्ब­न्ध­द­र्श­नेन परि­च्छि­न्न­बि­म्बस्य प्रति­बि­म्ब­दे­शा­स­म्ब­न्धि­त्वेऽ­प्य­प­रि­च्छि­न्न­ब्र­ह्म­बि­म्बस्य प्रति­बि­म्ब­दे­श­स­म्ब­न्धा­वि­रो­धात् ।

न च रूपहीनस्य ब्रह्मणो न प्रति­बि­म्ब­स­म्भवः, रूपवत एव तथात्वदर्शनात् इति वाच्यम् । नीरूपस्यापि रूपस्य प्रति­बि­म्ब­द­र्श­नात् । न च नीरूपस्य द्रव्यस्य प्रति­बि­म्बा­भा­व­नि­यमः । आत्मनो द्रव्य­त्वा­भा­वस्य उक्तत्वात् । " एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।", " यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहु­धै­कोऽ­नु­ग­च्छन् ।" इत्यादिवाक्येन ब्रह्म­प्र­ति­बि­म्बा­भा­वा­नु­मा­नस्य बाधितत्वाच्च । तदेवं तत्-पदार्थो निरूपितः ।

इदानीं त्वम्-पदार्थो निरूप्यते । एक­जी­व­वा­देऽ­वि­द्या­प्र­ति­बिम्बो जीवः । अनेकजीववादे तु अन्तः­क­र­ण­प्र­ति­बिम्बः । स च जाग्र­त्स्व­प्न­सु­षु­प्ति­रू­पा­व­स्था­त्र­य­वान् । तत्र जाग्रद्दशा नाम इन्द्रि­य­ज­न्य­ज्ञा­ना­वस्था । अवस्थान्तरे इन्द्रियाभावात् नातिव्याप्तिः । इन्द्रि­य­ज­न्य­ज्ञानं च अन्तः­क­र­ण­वृत्तिः, स्वरू­प­ज्ञा­न­स्या­ना­दि­त्वात् ।

सा चान्तः­क­र­ण­वृ­त्ति­रा­व­र­णा­भि­भ­वार्था इत्येकं मतम् । तथा हि- अवि­द्यो­प­हि­त­चै­त­न्यस्य जीवत्वपक्षे घटा­द्य­धि­ष्ठा­न­चै­त­न्यस्य जीवरूपतया, जीवस्य सर्वदा घटा­दि­भा­न­प्र­सक्तौ घटा­द्य­व­च्छि­न्न­चै­त­न्या­व­र­क­म­ज्ञानं मूला­वि­द्या­प­र­त­न्त्र­म­व­स्था­प­द­वा­च्य­म­भ्यु­प­ग­न्त­व्यम् । एवं सति न सर्वदा घटा­दे­र्भा­न­प्र­सङ्गः । अना­वृ­त­चै­त­न्य­स­म्ब­न्ध­स्यैव भान­प्र­यो­ज­क­त्वात् । तस्य चावरणस्य सदातनत्वे कदाचिदपि घटभानं न स्यादिति तद्भङ्गे वक्तव्ये, तद्भङ्गजनकं न चैतन्यमात्रम् । तद्भासकस्य तदनिवर्तकत्वात् । नापि वृत्त्युपहितं चैतन्यम् । परोक्षस्थलेऽपि तन्नि­वृ­त्त्या­प­त्ते­रिति परो­क्ष­व्या­वृ­त्त­वृ­त्ति­वि­शे­षस्य, तदु­प­हि­त­चै­त­न्यस्य वा आवरणभञ्जकत्वम् - इति आवरणाभिभवार्था वृत्तिरुच्यते ।

सम्बन्धार्था वृत्तिरित्यपरं मतम् । तत्रा­वि­द्यो­पा­धि­कोऽ­प­रि­च्छिन्नो जीवः । स च घटादिप्रदेशे विद्यमानोऽपि घटा­द्या­का­रा­प­रो­क्ष­वृ­त्ति­वि­र­ह­द­शायां न घटादिकमवभासयति, घटादिना समं सम्बन्धाभावात् । तत्त­दा­का­र­वृ­त्ति­द­शायां तु भासयति, तदा सम्ब­न्ध­स­त्त्वात् ।

ननु अवि­द्यो­पा­धि­क­स्या­प­रि­च्छि­न्नस्य जीवस्य स्वत एव सम­स्त­व­स्तु­स­म्ब­द्धस्य वृत्ति­वि­र­ह­द­शायां सम्ब­न्धा­भा­वा­भि­धा­न­म­स­ङ्ग­तम् । अस­ङ्ग­त्व­दृष्ट्या सम्ब­न्धा­भा­वा­भि­धाने च वृत्त्यनन्तरमपि सम्बन्धो न स्यात् , इति चेत् । उच्यते - न हि वृत्ति­वि­र­ह­द­शायां जीवस्य घटादिना सह सम्बन्धसामान्यं निषेधामः । किन्तर्हि ? घटा­दि­भा­न­प्र­यो­जकं सम्बन्धविशेषम् । स च सम्बन्धविशेषो विषयस्य जीवचैतन्यस्य च व्यङ्ग्य-व्य­ञ्ज­क­ता­ल­क्षणः कादा­चि­त्क­स्त­त्त­दा­का­र­वृ­त्ति­नि­ब­न्धनः । तथा हि तैजसमन्तःकरणं स्वच्छ­द्र­व्य­त्वात् स्वत एव जीव­चै­त­न्या­भि­व्य­ञ्ज­न­स­म­र्थम् । घटादिकस्तु न तथा, अस्व­च्छ­द्र­व्य­त्वात् । स्वाका­र­वृ­त्ति­सं­यो­ग­द­शा­यान्तु वृत्त्य­भि­भू­त­जा­ड्य­ध­र्म­क­तया वृत्त्यु­त्पा­दि­त­चै­त­न्या­भि­व्य­ञ्ज­न­यो­ग्य­ता­श्र­य­तया च वृत्त्यु­द­या­न­न्तरं चैत­न्य­म­भि­व्य­नक्ति । तदुक्तं विवरणे " अन्तःकरणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैत­न्या­भि­व्य­क्ति­यो­ग्य­ता­मा­पा­द­यति" इति । दृष्टं चास्व­च्छ­द्र­व्य­स्यापि स्वच्छ­द्र­व्य­स­म्ब­न्ध­द­शायां प्रति­बि­म्ब­ग्रा­हि­त्वम् । तथा कुड्या­दे­र्ज­ला­दि­सं­यो­ग­द­शायां मुखा­दि­प्र­ति­बि­म्ब­ग्रा­हिता । घटा­दे­र­भि­व्य­ञ्ज­कत्वं च तत्प्र­ति­बि­म्ब­ग्रा­हि­त्वम् , चैत­न्य­स्या­भि­व्य­क्तत्वं च तत्र प्रति­बि­म्बि­त­त्वम् ।

एवं­वि­धा­भि­व्य­ञ्ज­क­त्व­सि­द्ध्य­र्थ­मेव वृत्ते­र­प­रो­क्ष­स्थले बहि­र्नि­र्ग­म­ना­ङ्गी­कारः । परोक्षस्थले तु वह्न्या­दे­र्वृ­त्ति­सं­स­र्गा­भा­वेन चैत­न्या­न­भि­व्य­ञ्ज­क­तया नापरोक्षत्वम् । एतन्मते च विष­या­णा­म­प­रो­क्षत्वं चैत­न्या­भि­व्य­ञ्ज­क­त्व­मिति द्रष्टव्यम् । एवं जीव­स्या­प­रि­च्छि­न्न­त्वेऽपि वृत्तेः सम्बन्धार्थत्वं निरूपितम् ।

इदानीं परि­च्छि­न्न­त्व­पक्षे सम्बधार्थत्वं निरूप्यते । तथा हि अन्तःकरणोपाधिको जीवः । तस्य न घटाद्युपादानता, घटा­दि­दे­शा­स­म्ब­न्धात् । किन्तु ब्रह्मैव घटाद्युपादानम् , तस्य मायोपहितस्य सक­ल­घ­टा­द्य­न्व­यि­त्वात् । अत एव ब्रह्मणः सर्वज्ञता । तथा च जीवस्य घटा­द्य­धि­ष्ठा­न­ब्र­ह्म­चै­त­न्या­भे­द­म­न्त­रेण घटा­द्य­व­भा­सा­स­म्भवे प्राप्ते, तदवभासाय घटा­द्य­धि­ष्ठा­न­ब्र­ह्म­चै­त­न्या­भे­द­सि­द्ध्यर्थं घटा­द्या­का­र­वृ­त्ति­रि­ष्यते ।

ननु वृत्त्यापि कथं प्रमा­तृ­चै­त­न्य­वि­ष­य­चै­त­न्य­यो­र­भेदः सम्पाद्यते, घटा­न्तः­क­र­ण­रू­पो­पा­धि­भे­देन तद­व­च्छि­न्न­चै­त­न्य­यो­र­भे­दा­स­म्भ­वात् इति चेत् न । वृत्ते­र्ब­हि­र्दे­श­नि­र्ग­म­ना­ङ्गी­का­रेण वृत्त्य­न्तः­क­र­ण­वि­ष­या­णा­मे­क­दे­श­स्थ­त्वेन तदु­प­धे­य­भे­दा­भा­वस्य उक्तत्वात् । एवमपरोक्षस्थले वृत्तेर्मतभेदेन विनियोग उपपादितः ।

इन्द्रि­या­ज­न्य­वि­ष­य­गो­च­रा­प­रो­क्षा­न्तः­क­र­ण­वृ­त्त्य­वस्था स्वप्नावस्था । जाग्र­द­व­स्था­व्या­वृ­त्त्य­र्थम् इन्द्रि­या­ज­न्येति । अवि­द्या­वृ­त्ति­मत्यां सुषु­प्ता­व­ति­व्या­प्ति­वा­र­णाय अन्तःकरणेति । सुषुप्तिर्नाम अवि­द्या­गो­च­रा­वि­द्या­वृ­त्त्य­वस्था । जाग्र­त्स्व­प्न­यो­र­वि­द्या­का­र­वृ­त्ते­र­न्तः­क­र­ण­वृ­त्ति­त्वान्न तत्रा­ति­व्याप्तिः । अत्र केचि­न्म­र­ण­मू­र्च्छ­यो­र­व­स्था­न्त­र­त्व­माहुः । अपरे तु सुषुप्तावेव तयो­र­न्त­र्भा­व­माहुः । तत्र तयो­र­व­स्था­त्र­या­न्त­र्भा­व­ब­हि­र्भा­वयोः त्वं-पदा­र्थ­नि­रू­पणे उपयोगाभावात् न तत्र प्रयत्यते ।

तस्य मायो­पा­ध्य­पे­क्षया एकत्वम् , अन्तः­क­र­णो­पा­ध्य­पे­क्षया च नानात्वं व्यवह्रियते । एतेन जीवस्याणुत्वं प्रत्युक्तम् । " बुद्धे­र्गु­णे­ना­त्म­गु­णेन चैवं ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः ।" इत्यादौ जीवस्य बुद्धि­श­ब्द­वा­च्या­न्तः­क­र­ण­प­रि­मा­णो­पा­धि­कस्य परि­मा­ण­त्व­श्र­व­णात् ।

स च जीवः स्वयंप्रकाशः । स्वप्ना­व­स्था­म­धि­कृत्य " अत्रायं पुरुषः स्वयं ज्योतिः" इति श्रुतेः । अनुभवरूपश्च, " प्रज्ञानघन एव" इत्यादिश्रुतेः । "अनु­भ­वामि" इति व्यवहारस्तु वृत्ति­प्र­ति­बि­म्बि­त­चै­त­न्य­मा­दाय उपपद्यते । एवं त्वं-पदार्थो निरूपितः ।

अधुना तत्-त्व­म्-प­दा­र्थ­यो­रैक्यं महा­वा­क्य­प्र­ति­पा­द्य­म­भि­धी­यते । ननु "नाह­मी­श्वरः" इत्या­दि­प्र­त्य­क्षेण, किञ्चि­ज्ज्ञ­त्व­स­र्व­ज्ञ­त्वा­दि­वि­रु­द्ध­ध­र्मा­श्र­य­त्वा­दि­लि­ङ्गेन, " द्वा सुपर्णा" इत्या­दि­श्रुत्या, " द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥" इत्यादिस्मृत्या च जीव­प­र­भे­द­स्या­व­ग­त­त्वेन तत्त्व­म­स्या­दि­वा­क्यम् " आदित्यो यूपः ।", " यजमानः प्रस्तरः" इत्या­दि­वा­क्य­व­दु­प­च­रि­ता­र्थ­मेव, इति चेत् न । भेदप्रत्यक्षस्य सम्भा­वि­त­क­र­ण­दो­ष­स्या­स­म्भा­वि­त­दो­ष­वे­द­ज­न्य­ज्ञा­नेन बाध्यमानत्वात् । अन्यथा चन्द्र­ग­ता­धि­क­प­रि­मा­ण­ग्रा­हि-ज्यो­तिः­शा­स्त्रस्य चन्द्र­प्रा­दे­श­ग्रा­हि­प्र­त्य­क्षेण बाधापत्तेः । पाकरक्ते घटे "रक्तोऽयम् । न श्यामः" इतिवत् " सविशेषणे हि" इति न्यायेन जीव­प­र­भे­द­ग्रा­हि­प्र­त्य­क्षस्य विशे­ष­णी­भू­त­ध­र्म­भे­द­वि­ष­य­त्वाच्च । अत एव नानुमानमपि प्रमाणम् , आगमविरोधात् , मेरु­पा­षा­ण­म­य­त्वा­नु­मा­न­वत् ।

नाप्या­ग­मा­न्त­र­वि­रोधः । तत्प­रा­त­त्प­र­वा­क्य­यो­स्त­त्प­र­वा­क्यस्य बलवत्वेन लोक­सि­द्ध­भे­दा­नु­वादि - " द्वा सुपर्णा" - इत्या­दि­वा­क्या­पे­क्षया उप­क्र­मो­प­सं­हा­रा­द्य­व­ग­ता­द्वै­त­ता­त्प­र्य­वि­शि­ष्टस्य तत्त्व­म­स्या­दि­वा­क्यस्य प्रबलत्वात् । न च जीवपरैक्ये विरु­द्ध­ध­र्मा­श्र­य­त्वा­नु­प­पत्तिः । शीतस्यैव जल­स्यौ­पा­धि­कौ­ष्ण्या­श्र­य­त्व­वत् स्वभावतो निर्गुणस्यैव जीव­स्या­न्तः­क­र­णा­द्यु­पा­धि­क­क­र्तृ­त्वा­द्या­श्र­य­त्व­प्र­ति­भा­सो­प­पत्तेः । यदि च जला­दा­वौ­ष्ण्य­मा­रो­पि­तम् , तदा प्रकृतेऽपि तुल्यम् । न च सिद्धान्ते कर्तृत्वस्य क्वचि­द­प्य­भा­वा­दा­रो­प्य­प्र­मा­हि­त­सं­स्का­रा­भावे कथमारोपः इति वाच्यम् । लाघ­वे­ना­रो­प्य­वि­ष­य­क­सं­स्का­र­त्वे­नैव तस्य हेतुत्वात् । न च प्राथमिकारोपे का गतिः, कर्तृ­त्वा­द्य­ध्या­स­प्र­वा­ह­स्या­ना­दि­त्वात् ।

तत्र तत्त्व­म्-प­द­वा­च्य­यो­र्वि­शि­ष्ट­यो­रै­क्या­यो­गेऽपि लक्ष्य­स्व­रू­प­यो­रै­क्य­मु­प­पा­दि­त­मेव । अत एव तत्प्र­ति­पा­द­क-त­त्त्व­म­स्या­दि­वा­क्या­ना­म­ख­ण्डा­र्थ­त्वम् , "सोऽयम्" इत्यादिवाक्यवत् । न च कार्यपराणामेव प्रामाण्यम् । "चैत्र, पुत्रस्ते जातः" इत्यादौ सिद्धेऽपि सङ्गतिग्रहात् । एवं सर्व­प्र­मा­णा­वि­रुद्धं श्रुति­स्मृ­ती­ति­हा­स­पु­रा­ण­प्र­ति­पाद्यं जीवपरैक्यं वेदा­न्त­शा­स्त्रस्य विषय इति सिद्धम् ।

इति वेदा­न्त­प­रि­भा­षायां विषयपरिच्छेदः ।