अद्वैतशारदा

वेदान्तपरिभाषा

प्रयोजनम्

इदानीं प्रयोजनं निरूप्यते । यदवगतं सत् स्ववृत्तितया इष्यते तत्प्रयोजनम् । तच्च द्विविधम् मुख्यं गौणं चेति । तत्र सुखदुःखाभावौ मुख्ये प्रयोजने । तदन्यतरसाधनं गौणं प्रयोजनम् । सुखं च द्विविधम् सातिशयं निरतिशयं च । तत्र सातिशयं सुखं विष­या­नु­ष­ङ्ग­ज­नि­ता­न्तः­क­र­ण­वृ­त्ति­ता­र­त­म्य­कृ­ता­न­न्द­ले­शा­वि­र्भा­व­वि­शेषः, " एत­स्यै­वा­न­न्द­स्या­न्यानि भूतानि मात्रा­मु­प­जी­वन्ति" इत्यादिश्रुतेः । निरतिशयं सुखं च ब्रह्मैव, " आनन्दो ब्रह्मेति व्यजानात् ।", " विज्ञानमानन्दं ब्रह्म" इत्यादिश्रुतेः ।

आन­न्दा­त्म­क­ब्र­ह्मा­वा­प्तिश्च मोक्षः, शोकनिवृत्तिश्च, " ब्रह्म वेद ब्रह्मैव भवति ।", " तरति शोक­मा­त्म­वित्" इत्यादिश्रुतेः । न तु लोका­न्त­रा­वाप्तिः, तज्ज­न्य­वै­ष­यि­का­नन्दो वा मोक्षः । तस्य कृत­क­त्वे­ना­नि­त्यत्वे मुक्तस्य पुन­रा­वृ­त्त्या­पत्तेः ।

ननु त्वन्म­तेऽ­प्या­न­न्दा­वा­प्ते­र­न­र्थ­नि­वृ­त्तेश्च सादित्वे तुल्यो दोषः, अनादित्वे मोक्षमुद्दिश्य श्रवणादौ प्रवृ­त्त्य­नु­प­प­त्ति­रिति चेत् न । सिद्धस्यैव ब्रह्मस्वरूपस्य मोक्ष­स्या­सि­द्ध­त्व­भ्र­मेण तत्साधने प्रवृ­त्त्यु­प­पत्तेः । अन­र्थ­नि­वृ­त्ति­र­प्य­धि­ष्ठा­न­भू­त­ब्र­ह्म­स्व­रू­प­तया सिद्धैव । लोकेऽपि प्राप्त­प्रा­प्ति-प­रि­हृ­त­प­रि­हा­रयोः प्रयोजनत्वं दृष्टमेव । यथा हस्त­ग­त­वि­स्मृ­त­सु­व­र्णादौ "तव हस्ते सुवर्णम्" इत्या­प्तो­प­दे­शा­द­प्रा­प्त­मिव प्राप्नोति । यथा वा वलयितचरणायां स्रजि सर्पत्वभ्रमवतः "नायं सर्पः" इत्या­प्त­वा­क्यात् परिहृतस्यैव सर्पस्य परिहारः । एवं प्राप्त­स्या­प्या­न­न्दस्य प्राप्तिः, परि­हृ­त­स्या­प्य­न­र्थस्य निवृ­त्ति­र्मोक्षः प्रयोजनं च ।

स च ज्ञानैकसाध्यः, " तमेव विदि­त्वाऽ­ति­मृ­त्यु­मेति । नान्यः पन्था विद्य­तेऽ­य­नाय" इतिश्रुतेः, अज्ञाननिवृत्तेः ज्ञानै­क­सा­ध्य­त्व­नि­य­माच्च । तच्च ज्ञानं ब्रह्मा­त्मै­क्य­गो­च­रम् , " अभयं वै जनक प्राप्तोऽसि ।", " तदा­त्मा­न­मे­वा­वेत् अहं ब्रह्मास्मि" इत्यादिश्रुतेः । " तत्त्व­म­स्या­दि­वा­क्योत्थं ज्ञानं मोक्षस्य साधनम्" इति नारदीयवचनाच्च ।

तच्च ज्ञान­म­प­रो­क्ष­रू­पम् । परो­क्ष­त्वेऽ­प­रो­क्ष­भ्र­म­नि­व­र्त­क­त्वा­नु­प­पत्तेः । तच्चा­प­रो­क्ष­ज्ञानं तत्त्व­म­स्या­दि­वा­क्या­दिति केचित् । मन­न­नि­दि­ध्या­स­न­सं­स्कृ­ता­न्तः­क­र­णा­दे­वे­त्य­परे ।

तत्र पूर्वा­चा­र्या­णा­मा­शयः संविदापरोक्ष्यं न कर­ण­वि­श­षो­त्प­त्ति­नि­ब­न्ध­नम् । किन्तु प्रमे­य­वि­शे­ष­नि­ब­न्ध­नम् इत्युपपादितम् । तथा च ब्रह्मणः प्रमा­तृ­जी­वा­भि­न्न­तया तद्गोचरं शब्दजन्यमपि ज्ञानमपरोक्षम् । अत एव प्रतर्दनाधिकरणे प्रतर्दनं प्रति " प्राणोऽस्मि प्रज्ञात्मा । तं मामा­यु­र­मृ­त­मु­पास्व" इति इन्द्र­प्रो­क्त­वाक्ये प्राणशब्दस्य ब्रह्मपरत्वे निश्चिते सति " मामुपास्व" इत्य­स्म­च्छ­ब्दा­नु­प­प­त्ति­मा­शङ्क्य तदुत्तरत्वेन प्रवृत्ते " शास्त्रदृष्ट्या तूपदेशो वामदेववत्" इत्यत्र सूत्रे- शास्त्रात् दृष्टिः शास्त्रदृष्टिः - तत्त्व­म­स्या­दि­वा­क्य­ज­न्यम् " अहं ब्रह्म" इति ज्ञानं 'शास्त्र­दृ­ष्टि'-श­ब्दे­नो­क्त­मिति ।

अन्येषां त्वेवमाशयः कर­ण­वि­शे­ष­नि­ब­न्ध­न­मेव ज्ञानानां प्रत्यक्षत्वम् , न विष­य­वि­शे­ष­नि­ब­न्ध­नम् । एकस्मिन्नेव सूक्ष्मवस्तुनि पटु­क­र­णा­प­टु­क­र­णयोः प्रत्य­क्ष­त्वा­प्र­त्य­क्ष­त्व­व्य­व­हा­र­द­र्श­नात् । तथा च संवि­त्सा­क्षात्वे इन्द्रि­य­ज­न्य­त्व­स्यैव प्रयोजकतया न शब्द­ज­न्य­ज्ञा­न­स्या­प­रो­क्ष­त्वम् । ब्रह्म­सा­क्षा­त्का­रेऽपि मन­न­नि­दि­ध्या­स­न­सं­स्कृतं मन एव करणम् , " मन­सै­वा­नु­द्र­ष्ट­व्यम्" इत्यादिश्रुतेः । मनोऽ­ग­म्य­त्व­श्रु­ति­श्चा­सं­स्कृ­त­म­नो­वि­षया । न चैवं ब्रह्मण औप­नि­ष­द­त्वा­नु­प­पत्तिः । अस्मदुक्तमनसो वेद­ज­न्य­ज्ञा­ना­न­न्त­र­मेव प्रवृत्ततया वेदोपजीवित्वात् ; वेदा­नु­प­जी­वि­मा­ना­न्त­र­ग­म्य­त्व­स्यैव विरोधित्वात् । 'शास्त्र­दृ­ष्टि'-सू­त्र­मपि ब्रह्म­वि­ष­य­क­मा­न­स­प्र­त्य­क्षस्य शास्त्र­प्र­यो­ज्य­त्वा­दु­प­प­द्यते । तदुक्तम् " 'अपि संराधने' सूत्रात् शास्त्रा­र्थ­ध्या­नजा प्रमा । शास्त्र­दृ­ष्टि­र्मता, तान्तु वेत्ति वाचस्पतिः परम् ॥"

तच्च ज्ञानं पापक्षयात् । स च कर्मा­नु­ष्ठा­ना­दिति परम्परया कर्मणां विनियोगः । अत एव " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तप­साऽ­ना­श­केन" इत्यादि श्रुतिः, " कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते" इत्या­दि­स्मृ­तिश्च सङ्गच्छते ।

एवं श्रव­ण­म­न­न­नि­दि­ध्या­स­ना­न्यपि ज्ञानसाधनानि, मैत्रे­यी­ब्रा­ह्मणे " आत्मा वा अरे द्रष्टव्यः" इति दर्शनमनूद्य तत्साधनत्वेन " श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः" इति श्रव­ण­म­न­न­नि­दि­ध्या­स­नानां विधानात् । श्रवणं नाम वेदा­न्ता­ना­म­द्वि­तीये ब्रह्मणि तात्प­र्या­व­धा­र­णा­नु­कूला मानसी क्रिया । मननं नाम शब्दा­व­धा­रि­तेऽर्थे माना­न्त­र­वि­रो­ध­श­ङ्कायां, तन्नि­रा­क­र­णा­नु­कू­ल­त­र्का­त्म­क­ज्ञा­न­ज­नको मानसो व्यापारः । निदिध्यासनं नाम अनादिदुर्वासनया विष­ये­ष्वा­कृ­ष्य­मा­णस्य चित्तस्य विष­ये­भ्योऽ­प­कृष्य आत्म­वि­ष­य­क­स्थै­र्या­नु­कूलो मानसो व्यापारः ।

तत्र निदिध्यासनं ब्रह्म­सा­क्षा­त्कारे साक्षात् कारणम् , " ते ध्यानयोगानुगता अपश्यन् , देवात्मशक्तिं स्वगु­णै­र्नि­गू­ढाम्" इत्यादिश्रुतेः । निदिध्यासने च मननं हेतुः । अकृ­त­म­न­न­स्या­र्थ­दा­र्ढ्या­भा­वेन तद्वि­ष­य­क­नि­दि­ध्या­स­ना­यो­गात् । मनने च श्रवणं हेतुः, श्रवणाभावे तात्प­र्या­नि­श्च­येन शाब्द­ज्ञा­ना­भा­वेन श्रुता­र्थ­वि­ष­य­क­यु­क्त­त्व­नि­श्च­या­नु­कू­ल­म­न­ना­यो­गात् । एतानि त्रीण्यपि ज्ञानोत्पत्तौ कारणानीति केचिदाचार्या ऊचिरे ।

अपरे तु श्रवणं प्रधानम् । मन­न­नि­दि­ध्या­स­न­योस्तु श्रवणात् पराचीनयोरपि श्रव­ण­फ­ल­ब्र­ह्म­द­र्श­न­नि­र्व­र्त­क­तया आरा­दु­प­का­र­क­त­याऽ­ङ्ग­त्व­मि­त्याहुः । तदप्यङ्गत्वं न तार्ती­य­शे­ष­त्व­रू­पम् , तस्य श्रुत्या­द्य­न्य­त­म­प्र­मा­ण­ग­म्यस्य प्रकृते श्रुत्या­द्य­भा­वेऽ­स­म्भ­वात् । तथा हि " व्रीहिभिर्यजेत ।", " दध्ना जुहोति" इत्यादाविव मन­न­नि­दि­ध्या­स­न­यो­र­ङ्गत्वे न काचित् तृती­या­श्रु­ति­रस्ति । नापि " बर्हिर्देवसदनं दामि" इत्यादि मन्त्राणां बर्हिः­ख­ण्ड­न-प्र­का­श­न­सा­म­र्थ्य­वत् किञ्चि­ल्लि­ङ्ग­मस्ति । नापि प्रदे­शा­न्त­र­प­ठि­तस्य प्रवर्गस्य " अग्निष्टोमे प्रवृ­णक्ति" इति वाक्यवत् श्रवणानुवादेन मन­न­नि­दि­ध्या­स­न­वि­नि­यो­जकं किञ्चि­द्वा­क्य­मस्ति । नापि " दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेत" इति वाक्या­व­ग­त­फ­ल­सा­ध­न­ता­क-द­र्श­पू­र्ण­मा­स­प्र­क­रणे प्रयाजादीनामिव फल­सा­ध­न­त्वे­ना­व­ग­तस्य श्रवणस्य प्रकरणे मन­न­नि­दि­ध्या­स­न­यो­रा­म्ना­नम् ।

ननु 'द्रष्टव्यः' इति दर्शनानुवादेन श्रवणे विहिते सति फलवत्तया श्रवणप्रकरणे तत्स­न्नि­धा­वा­म्ना­त­यो­र्म­न­न­नि­दि­ध्या­स­नयोः प्रयाजन्यायेन प्रक­र­णा­दे­वा­ङ्ग­तेति चेत् न । " ते ध्यानयोगानुगता अपश्यन्" इत्या­दि­श्रु­त्यन्ते ध्यानस्य दर्श­न­सा­ध­न­त्वे­ना­व­ग­तस्य अङ्गा­का­ङ्क्षायां प्रयाजन्ययेन श्रव­ण­म­न­न­यो­रे­वा­ङ्ग­त्वा­पत्तेः । क्रमसमाख्ये च दूरनिरस्ते ।

किञ्च प्रया­जा­दि­ष्व­ङ्ग­त्व­वि­चारः सप्रयोजनः । पूर्वपक्षे विकृतिषु न प्रया­जा­द्य­नु­ष्ठा­नम् ; सिद्धान्ते तु तत्रापि तदनुष्ठानमिति । प्रकृते तु श्रवणं न कस्यचित् प्रकृतिः, येन मन­न­नि­दि­ध्या­स­न­यो­स्त­त्रा­प्य­नु­ष्ठा­न­म­ङ्ग­त्व­वि­चा­र­फलं भवेत् । तस्मान्न तार्तीयशेषत्वं मन­न­नि­दि­ध्या­स­नयोः । किन्तु यथा घटादिकार्ये मृत्पिण्डादीनां प्रधानकारणता, चक्रादीनां सहकारिकारणतेति प्राधा­न्या­प्रा­धा­न्य­व्य­प­देशः, तथा श्रव­ण­म­न­न­नि­दि­ध्या­स­ना­ना­म­पीति मन्तव्यम् ।

सूचितं चैत­द्वि­व­र­णा­चार्यैः- " शक्ति­ता­त्प­र्य­वि­शि­ष्ट­श­ब्दा­व­धा­रणं प्रमेयावगमं प्रत्यव्यवधानेन कारणं भवति, प्रमाणस्य प्रमेयावगमं प्रत्य­व्य­व­धा­नात् । मनननिदिध्यासने तु चित्तस्य प्रत्य­गा­त्म­प्र­व­ण­ता­सं­स्का­र­प­रि­नि­ष्प­न्न-त­दे­का­ग्र­वृ­त्ति­का­र्य­द्वा­रेण ब्रह्मा­नु­भ­व­हे­तुतां प्रतिपद्येते इति फलं प्रत्य­व्य­व­हि­त­का­र­णस्य शक्ति­ता­त्प­र्य­वि­शि­ष्ट­श­ब्दा­व­धा­र­णस्य व्यवहिते मनननिदिध्यासने तदङ्गे अङ्गी­क्रि­येतेेेे" इति ।

श्रवणादिषु च मुमु­क्षू­णा­म­धि­कारः । काम्ये कर्मणि फल­का­म­स्या­धि­का­रि­त्वात् । मुमुक्षायां च नित्या­नि­त्य­व­स्तु­वि­वे­क­स्ये­हा­मु­त्रा­र्थ­फ­ल­भो­ग­वि­रा­गस्य शम­द­मो­प­र­ति­ति­ति­क्षा­स­मा­धा­न­श्र­द्धानां च विनियोगः । अन्त­रि­न्द्रि­य­नि­ग्रहः शमः । बहि­रि­न्द्रि­य­नि­ग्रहो दमः । विक्षेपाभाव उपरतिः । शीतो­ष्णा­दि­द्व­न्द्व­स­हनं तितिक्षा । चित्तैकाग्र्यं समाधानम् । गुरु­वे­दा­न्त­वा­क्येषु विश्वासः श्रद्धा ।

अत्र उपरमशब्देन संन्या­सोऽ­भि­धी­यते । तथा च संन्यासिनामेव श्रवणादावधिकारः इति केचित् । अपरे तु, उपरमशब्दस्य संन्या­स­वा­च­क­त्वा­भा­वात् , विक्षे­पा­भा­व­मा­त्रस्य गृहस्थेष्वपि सम्भवात् , जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात् , सर्वा­श्र­म­सा­धा­रणं श्रव­णा­दि­वि­धा­न­मि­त्याहुः ।

सगुणोपासनमपि चित्तै­का­ग्र्य­द्वारा निर्वि­शे­ष­ब्र­ह्म­सा­क्षा­त्का­र­हेतुः । तदुक्तम् " निर्विशेषं परं ब्रह्म साक्षा­त्क­र्तु­म­नी­श्वराः । ये मन्दा­स्तेऽ­नु­क­म्प्यन्ते सविशेषनिरूपणैः ॥ वशीकृते मनस्येषां सगु­ण­ब्र­ह्म­शी­ल­नात् । तदेवाविर्भवेत् साक्षा­द­पे­तो­पा­धि­क­ल्प­नम् ॥" इति । सगुणोपासकानां च अर्चि­रा­दि­मा­र्गेण ब्रह्मलोकगतानां तत्रैव श्रव­णा­द्यु­त्प­न्न­त­त्त्व­सा­क्षा­त्का­राणां ब्रह्मणा सह मोक्षः । कर्मिणान्तु धूमादिमार्गेण पितृलोकं गतानामुपभोगेन कर्मक्षये सति पूर्व­कृ­त­सु­कृ­त­दु­ष्कृ­ता­नु­सा­रेण ब्रह्मा­दि­स्था­व­रा­न्तेषु पुनरुत्पत्तिः । तथा च श्रुतिः- " रमणीयचरणा रमणीयां योनिमापद्यन्ते । कपूयचरणाः कपूयां योनि­मा­प­द्यन्ते" इति । प्रति­षि­द्धा­नु­ष्ठा­यिनां तु रौर­वा­दि­न­र­क­वि­शे­षेषु तत्त­त्पा­पो­चि­त-ती­व्र­दुः­ख­म­नु­भूय श्वशू­क­रा­दि­ति­र्य­ग्यो­निषु स्थावरादिषु चोत्पत्तिः इत्यलं प्रस­ङ्गा­ग­त­प्र­प­ञ्चेन ।

निर्गु­ण­ब्र­ह्म­सा­क्षा­त्का­र­व­तस्तु न लोकान्तरगमनम् । " न तस्य प्राणा उत्क्रा­मन्ति" इतिश्रुतेः । किन्तु याव­त्प्रा­र­ब्ध­क­र्म­क्षयं सुखदुःखे अनुभूय पश्चादपवृज्यते ।

ननु " क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्या­दि­श्रुत्या, " ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा" इत्यादिस्मृत्या च ज्ञानस्य सक­ल­क­र्म­क्ष­य­हे­तु­त्व­नि­श्चये सति प्रार­ब्ध­क­र्मा­व­स्था­न­म­नु­प­प­न्न­मिति चेत् न । " तस्य तावदेव चिरं यावन्न विमोक्ष्ये । अथ सम्पत्स्ये" इत्या­दि­श्रुत्या, " नाभुक्तं क्षीयते कर्म" इत्यादिस्मृत्या चोत्पा­दि­त­का­र्य­क­र्म­व्य­ति­रि­क्तानां सञ्चितकर्मणामेव ज्ञान­वि­ना­श्य­त्वा­व­ग­मात् ।

सञ्चितं द्विविधम् सुकृतं दुष्कृतं च । तथा च श्रुतिः " तस्य पुत्रा दायमुपयन्ति । सुहृदः साधुकृत्याम् । द्विषन्तः पाप­कृ­त्याम्" इति । ननु ब्रह्म­ज्ञा­ना­न्मू­ला­ज्ञा­न­नि­वृत्तौ तत्का­र्य­प्रा­र­ब्ध­क­र्म­णोऽपि निवृत्तेः कथं ज्ञानिनां देह­धा­र­ण­मु­प­प­द्यते ? इति चेत् न । अप्र­ति­ब­द्ध­ज्ञा­न­स्यै­वा­ज्ञा­न­नि­व­र्त­क­तया प्रार­ब्ध­क­र्म­रू­प­प्र­ति­ब­न्ध­क­द­शा­या­म­ज्ञा­न­नि­वृ­त्ते­र­न­ङ्गी­का­रात् ।

नन्वेवमपि तत्त्व­ज्ञा­ना­दे­कस्य मुक्तौ सर्वमुक्तिः स्यात् । अविद्याया एकत्वेन तन्निवृत्तौ क्वचिदपि संसारायोगादिति चेत् न । इष्टा­प­त्ते­रि­त्येके । अपरे तु एत­द्दो­ष­प­रि­हा­रा­यैव " इन्द्रो मायाभिः" इति बहु­व­च­न­श्रु­त्य­नु­गृ­ही­त­म­वि­द्या­ना­ना­त्व­म­ङ्गी­क­र्त­व्य­मि­त्याहुः । अन्ये तु एकैवाविद्या । तस्या­श्चा­वि­द्याया जीवभेदेन ब्रह्म­स्व­रू­पा­व­र­ण­श­क्तयो नाना । तथा च यस्य ब्रह्मज्ञानं तस्य ब्रह्म­स्व­रू­पा­व­र­ण­श­क्ति­वि­शि­ष्टा­वि­द्या­नाशः, न त्वन्यं प्रति, इत्युपगमात् नैकमुक्तौ सर्वमुक्तिः । अत एव " याव­द­धि­का­र­म­व­स्थि­ति­रा­धि­का­रि­का­णाम्" इत्य­स्मि­न्न­धि­क­रणे अाधि­का­रि­क­पु­रु­षा­णा­मु­त्प­न्न­त­त्त्व­ज्ञा­ना­ना­मि­न्द्रा­दीनां देह­धा­र­णा­नु­प­प­त्ति­मा­शङ्क्य, अधि­का­रा­पा­द­क­प्रा­र­ब्ध­क­र्म­स­मा­प्त्य­न­न्तरं विदेहकैवल्यमिति सिद्धान्तितम् । तदु­क्त­मा­चा­र्य­वा­च­स्प­ति­मिश्रैः- " उप­स­ना­दि­सं­सि­द्धि­तो­षि­ते­श्व­र­चो­दिताः। अधिकारं समाप्यैते प्रविशन्ति परं पदम् ॥" इति । एतच्चैकमुक्तौ सर्वमुक्तिरिति पक्षे नोपपद्यते । तस्मा­दे­का­वि­द्या­प­क्षेऽपि प्रति­जी­व­मा­व­र­ण­भे­दो­प­ग­मेन व्यव­स्थो­प­पा­द­नीया ।

तदेवं ब्रह्म­ज्ञा­ना­न्मोक्षः । स चान­र्थ­नि­वृ­त्ति­र्नि­र­ति­श­य­ब्र­ह्मा­न­न्दा­वा­प्ति­श्चेति सिद्धं प्रयोजनम् ।

इति वेदा­न्त­प­रि­भा­षायां प्रयो­ज­न­प­रि­च्छेदः ।

इति धर्म­रा­जा­ध्व­री­न्द्र­वि­र­चिता वेदान्तपरिभाषा समाप्ता ॥