वेदान्तपरिभाषा
प्रयोजनम्
इदानीं प्रयोजनं निरूप्यते । यदवगतं सत् स्ववृत्तितया इष्यते तत्प्रयोजनम् । तच्च द्विविधम् मुख्यं गौणं चेति । तत्र सुखदुःखाभावौ मुख्ये प्रयोजने । तदन्यतरसाधनं गौणं प्रयोजनम् । सुखं च द्विविधम् सातिशयं निरतिशयं च । तत्र सातिशयं सुखं विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृतानन्दलेशाविर्भावविशेषः, " एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" इत्यादिश्रुतेः । निरतिशयं सुखं च ब्रह्मैव, " आनन्दो ब्रह्मेति व्यजानात् ।", " विज्ञानमानन्दं ब्रह्म" इत्यादिश्रुतेः ।
आनन्दात्मकब्रह्मावाप्तिश्च मोक्षः, शोकनिवृत्तिश्च, " ब्रह्म वेद ब्रह्मैव भवति ।", " तरति शोकमात्मवित्" इत्यादिश्रुतेः । न तु लोकान्तरावाप्तिः, तज्जन्यवैषयिकानन्दो वा मोक्षः । तस्य कृतकत्वेनानित्यत्वे मुक्तस्य पुनरावृत्त्यापत्तेः ।
ननु त्वन्मतेऽप्यानन्दावाप्तेरनर्थनिवृत्तेश्च सादित्वे तुल्यो दोषः, अनादित्वे मोक्षमुद्दिश्य श्रवणादौ प्रवृत्त्यनुपपत्तिरिति चेत् न । सिद्धस्यैव ब्रह्मस्वरूपस्य मोक्षस्यासिद्धत्वभ्रमेण तत्साधने प्रवृत्त्युपपत्तेः । अनर्थनिवृत्तिरप्यधिष्ठानभूतब्रह्मस्वरूपतया सिद्धैव । लोकेऽपि प्राप्तप्राप्ति-परिहृतपरिहारयोः प्रयोजनत्वं दृष्टमेव । यथा हस्तगतविस्मृतसुवर्णादौ "तव हस्ते सुवर्णम्" इत्याप्तोपदेशादप्राप्तमिव प्राप्नोति । यथा वा वलयितचरणायां स्रजि सर्पत्वभ्रमवतः "नायं सर्पः" इत्याप्तवाक्यात् परिहृतस्यैव सर्पस्य परिहारः । एवं प्राप्तस्याप्यानन्दस्य प्राप्तिः, परिहृतस्याप्यनर्थस्य निवृत्तिर्मोक्षः प्रयोजनं च ।
स च ज्ञानैकसाध्यः, " तमेव विदित्वाऽतिमृत्युमेति । नान्यः पन्था विद्यतेऽयनाय" इतिश्रुतेः, अज्ञाननिवृत्तेः ज्ञानैकसाध्यत्वनियमाच्च । तच्च ज्ञानं ब्रह्मात्मैक्यगोचरम् , " अभयं वै जनक प्राप्तोऽसि ।", " तदात्मानमेवावेत् अहं ब्रह्मास्मि" इत्यादिश्रुतेः । " तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम्" इति नारदीयवचनाच्च ।
तच्च ज्ञानमपरोक्षरूपम् । परोक्षत्वेऽपरोक्षभ्रमनिवर्तकत्वानुपपत्तेः । तच्चापरोक्षज्ञानं तत्त्वमस्यादिवाक्यादिति केचित् । मनननिदिध्यासनसंस्कृतान्तःकरणादेवेत्यपरे ।
तत्र पूर्वाचार्याणामाशयः संविदापरोक्ष्यं न करणविशषोत्पत्तिनिबन्धनम् । किन्तु प्रमेयविशेषनिबन्धनम् इत्युपपादितम् । तथा च ब्रह्मणः प्रमातृजीवाभिन्नतया तद्गोचरं शब्दजन्यमपि ज्ञानमपरोक्षम् । अत एव प्रतर्दनाधिकरणे प्रतर्दनं प्रति " प्राणोऽस्मि प्रज्ञात्मा । तं मामायुरमृतमुपास्व" इति इन्द्रप्रोक्तवाक्ये प्राणशब्दस्य ब्रह्मपरत्वे निश्चिते सति " मामुपास्व" इत्यस्मच्छब्दानुपपत्तिमाशङ्क्य तदुत्तरत्वेन प्रवृत्ते " शास्त्रदृष्ट्या तूपदेशो वामदेववत्" इत्यत्र सूत्रे- शास्त्रात् दृष्टिः शास्त्रदृष्टिः - तत्त्वमस्यादिवाक्यजन्यम् " अहं ब्रह्म" इति ज्ञानं 'शास्त्रदृष्टि'-शब्देनोक्तमिति ।
अन्येषां त्वेवमाशयः करणविशेषनिबन्धनमेव ज्ञानानां प्रत्यक्षत्वम् , न विषयविशेषनिबन्धनम् । एकस्मिन्नेव सूक्ष्मवस्तुनि पटुकरणापटुकरणयोः प्रत्यक्षत्वाप्रत्यक्षत्वव्यवहारदर्शनात् । तथा च संवित्साक्षात्वे इन्द्रियजन्यत्वस्यैव प्रयोजकतया न शब्दजन्यज्ञानस्यापरोक्षत्वम् । ब्रह्मसाक्षात्कारेऽपि मनननिदिध्यासनसंस्कृतं मन एव करणम् , " मनसैवानुद्रष्टव्यम्" इत्यादिश्रुतेः । मनोऽगम्यत्वश्रुतिश्चासंस्कृतमनोविषया । न चैवं ब्रह्मण औपनिषदत्वानुपपत्तिः । अस्मदुक्तमनसो वेदजन्यज्ञानानन्तरमेव प्रवृत्ततया वेदोपजीवित्वात् ; वेदानुपजीविमानान्तरगम्यत्वस्यैव विरोधित्वात् । 'शास्त्रदृष्टि'-सूत्रमपि ब्रह्मविषयकमानसप्रत्यक्षस्य शास्त्रप्रयोज्यत्वादुपपद्यते । तदुक्तम् " 'अपि संराधने' सूत्रात् शास्त्रार्थध्यानजा प्रमा । शास्त्रदृष्टिर्मता, तान्तु वेत्ति वाचस्पतिः परम् ॥"
तच्च ज्ञानं पापक्षयात् । स च कर्मानुष्ठानादिति परम्परया कर्मणां विनियोगः । अत एव " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इत्यादि श्रुतिः, " कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते" इत्यादिस्मृतिश्च सङ्गच्छते ।
एवं श्रवणमनननिदिध्यासनान्यपि ज्ञानसाधनानि, मैत्रेयीब्राह्मणे " आत्मा वा अरे द्रष्टव्यः" इति दर्शनमनूद्य तत्साधनत्वेन " श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इति श्रवणमनननिदिध्यासनानां विधानात् । श्रवणं नाम वेदान्तानामद्वितीये ब्रह्मणि तात्पर्यावधारणानुकूला मानसी क्रिया । मननं नाम शब्दावधारितेऽर्थे मानान्तरविरोधशङ्कायां, तन्निराकरणानुकूलतर्कात्मकज्ञानजनको मानसो व्यापारः । निदिध्यासनं नाम अनादिदुर्वासनया विषयेष्वाकृष्यमाणस्य चित्तस्य विषयेभ्योऽपकृष्य आत्मविषयकस्थैर्यानुकूलो मानसो व्यापारः ।
तत्र निदिध्यासनं ब्रह्मसाक्षात्कारे साक्षात् कारणम् , " ते ध्यानयोगानुगता अपश्यन् , देवात्मशक्तिं स्वगुणैर्निगूढाम्" इत्यादिश्रुतेः । निदिध्यासने च मननं हेतुः । अकृतमननस्यार्थदार्ढ्याभावेन तद्विषयकनिदिध्यासनायोगात् । मनने च श्रवणं हेतुः, श्रवणाभावे तात्पर्यानिश्चयेन शाब्दज्ञानाभावेन श्रुतार्थविषयकयुक्तत्वनिश्चयानुकूलमननायोगात् । एतानि त्रीण्यपि ज्ञानोत्पत्तौ कारणानीति केचिदाचार्या ऊचिरे ।
अपरे तु श्रवणं प्रधानम् । मनननिदिध्यासनयोस्तु श्रवणात् पराचीनयोरपि श्रवणफलब्रह्मदर्शननिर्वर्तकतया आरादुपकारकतयाऽङ्गत्वमित्याहुः । तदप्यङ्गत्वं न तार्तीयशेषत्वरूपम् , तस्य श्रुत्याद्यन्यतमप्रमाणगम्यस्य प्रकृते श्रुत्याद्यभावेऽसम्भवात् । तथा हि " व्रीहिभिर्यजेत ।", " दध्ना जुहोति" इत्यादाविव मनननिदिध्यासनयोरङ्गत्वे न काचित् तृतीयाश्रुतिरस्ति । नापि " बर्हिर्देवसदनं दामि" इत्यादि मन्त्राणां बर्हिःखण्डन-प्रकाशनसामर्थ्यवत् किञ्चिल्लिङ्गमस्ति । नापि प्रदेशान्तरपठितस्य प्रवर्गस्य " अग्निष्टोमे प्रवृणक्ति" इति वाक्यवत् श्रवणानुवादेन मनननिदिध्यासनविनियोजकं किञ्चिद्वाक्यमस्ति । नापि " दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" इति वाक्यावगतफलसाधनताक-दर्शपूर्णमासप्रकरणे प्रयाजादीनामिव फलसाधनत्वेनावगतस्य श्रवणस्य प्रकरणे मनननिदिध्यासनयोराम्नानम् ।
ननु 'द्रष्टव्यः' इति दर्शनानुवादेन श्रवणे विहिते सति फलवत्तया श्रवणप्रकरणे तत्सन्निधावाम्नातयोर्मनननिदिध्यासनयोः प्रयाजन्यायेन प्रकरणादेवाङ्गतेति चेत् न । " ते ध्यानयोगानुगता अपश्यन्" इत्यादिश्रुत्यन्ते ध्यानस्य दर्शनसाधनत्वेनावगतस्य अङ्गाकाङ्क्षायां प्रयाजन्ययेन श्रवणमननयोरेवाङ्गत्वापत्तेः । क्रमसमाख्ये च दूरनिरस्ते ।
किञ्च प्रयाजादिष्वङ्गत्वविचारः सप्रयोजनः । पूर्वपक्षे विकृतिषु न प्रयाजाद्यनुष्ठानम् ; सिद्धान्ते तु तत्रापि तदनुष्ठानमिति । प्रकृते तु श्रवणं न कस्यचित् प्रकृतिः, येन मनननिदिध्यासनयोस्तत्राप्यनुष्ठानमङ्गत्वविचारफलं भवेत् । तस्मान्न तार्तीयशेषत्वं मनननिदिध्यासनयोः । किन्तु यथा घटादिकार्ये मृत्पिण्डादीनां प्रधानकारणता, चक्रादीनां सहकारिकारणतेति प्राधान्याप्राधान्यव्यपदेशः, तथा श्रवणमनननिदिध्यासनानामपीति मन्तव्यम् ।
सूचितं चैतद्विवरणाचार्यैः- " शक्तितात्पर्यविशिष्टशब्दावधारणं प्रमेयावगमं प्रत्यव्यवधानेन कारणं भवति, प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात् । मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणतासंस्कारपरिनिष्पन्न-तदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रतिपद्येते इति फलं प्रत्यव्यवहितकारणस्य शक्तितात्पर्यविशिष्टशब्दावधारणस्य व्यवहिते मनननिदिध्यासने तदङ्गे अङ्गीक्रियेतेेेे" इति ।
श्रवणादिषु च मुमुक्षूणामधिकारः । काम्ये कर्मणि फलकामस्याधिकारित्वात् । मुमुक्षायां च नित्यानित्यवस्तुविवेकस्येहामुत्रार्थफलभोगविरागस्य शमदमोपरतितितिक्षासमाधानश्रद्धानां च विनियोगः । अन्तरिन्द्रियनिग्रहः शमः । बहिरिन्द्रियनिग्रहो दमः । विक्षेपाभाव उपरतिः । शीतोष्णादिद्वन्द्वसहनं तितिक्षा । चित्तैकाग्र्यं समाधानम् । गुरुवेदान्तवाक्येषु विश्वासः श्रद्धा ।
अत्र उपरमशब्देन संन्यासोऽभिधीयते । तथा च संन्यासिनामेव श्रवणादावधिकारः इति केचित् । अपरे तु, उपरमशब्दस्य संन्यासवाचकत्वाभावात् , विक्षेपाभावमात्रस्य गृहस्थेष्वपि सम्भवात् , जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात् , सर्वाश्रमसाधारणं श्रवणादिविधानमित्याहुः ।
सगुणोपासनमपि चित्तैकाग्र्यद्वारा निर्विशेषब्रह्मसाक्षात्कारहेतुः । तदुक्तम् " निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥ वशीकृते मनस्येषां सगुणब्रह्मशीलनात् । तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम् ॥" इति । सगुणोपासकानां च अर्चिरादिमार्गेण ब्रह्मलोकगतानां तत्रैव श्रवणाद्युत्पन्नतत्त्वसाक्षात्काराणां ब्रह्मणा सह मोक्षः । कर्मिणान्तु धूमादिमार्गेण पितृलोकं गतानामुपभोगेन कर्मक्षये सति पूर्वकृतसुकृतदुष्कृतानुसारेण ब्रह्मादिस्थावरान्तेषु पुनरुत्पत्तिः । तथा च श्रुतिः- " रमणीयचरणा रमणीयां योनिमापद्यन्ते । कपूयचरणाः कपूयां योनिमापद्यन्ते" इति । प्रतिषिद्धानुष्ठायिनां तु रौरवादिनरकविशेषेषु तत्तत्पापोचित-तीव्रदुःखमनुभूय श्वशूकरादितिर्यग्योनिषु स्थावरादिषु चोत्पत्तिः इत्यलं प्रसङ्गागतप्रपञ्चेन ।
निर्गुणब्रह्मसाक्षात्कारवतस्तु न लोकान्तरगमनम् । " न तस्य प्राणा उत्क्रामन्ति" इतिश्रुतेः । किन्तु यावत्प्रारब्धकर्मक्षयं सुखदुःखे अनुभूय पश्चादपवृज्यते ।
ननु " क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्यादिश्रुत्या, " ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा" इत्यादिस्मृत्या च ज्ञानस्य सकलकर्मक्षयहेतुत्वनिश्चये सति प्रारब्धकर्मावस्थानमनुपपन्नमिति चेत् न । " तस्य तावदेव चिरं यावन्न विमोक्ष्ये । अथ सम्पत्स्ये" इत्यादिश्रुत्या, " नाभुक्तं क्षीयते कर्म" इत्यादिस्मृत्या चोत्पादितकार्यकर्मव्यतिरिक्तानां सञ्चितकर्मणामेव ज्ञानविनाश्यत्वावगमात् ।
सञ्चितं द्विविधम् सुकृतं दुष्कृतं च । तथा च श्रुतिः " तस्य पुत्रा दायमुपयन्ति । सुहृदः साधुकृत्याम् । द्विषन्तः पापकृत्याम्" इति । ननु ब्रह्मज्ञानान्मूलाज्ञाननिवृत्तौ तत्कार्यप्रारब्धकर्मणोऽपि निवृत्तेः कथं ज्ञानिनां देहधारणमुपपद्यते ? इति चेत् न । अप्रतिबद्धज्ञानस्यैवाज्ञाननिवर्तकतया प्रारब्धकर्मरूपप्रतिबन्धकदशायामज्ञाननिवृत्तेरनङ्गीकारात् ।
नन्वेवमपि तत्त्वज्ञानादेकस्य मुक्तौ सर्वमुक्तिः स्यात् । अविद्याया एकत्वेन तन्निवृत्तौ क्वचिदपि संसारायोगादिति चेत् न । इष्टापत्तेरित्येके । अपरे तु एतद्दोषपरिहारायैव " इन्द्रो मायाभिः" इति बहुवचनश्रुत्यनुगृहीतमविद्यानानात्वमङ्गीकर्तव्यमित्याहुः । अन्ये तु एकैवाविद्या । तस्याश्चाविद्याया जीवभेदेन ब्रह्मस्वरूपावरणशक्तयो नाना । तथा च यस्य ब्रह्मज्ञानं तस्य ब्रह्मस्वरूपावरणशक्तिविशिष्टाविद्यानाशः, न त्वन्यं प्रति, इत्युपगमात् नैकमुक्तौ सर्वमुक्तिः । अत एव " यावदधिकारमवस्थितिराधिकारिकाणाम्" इत्यस्मिन्नधिकरणे अाधिकारिकपुरुषाणामुत्पन्नतत्त्वज्ञानानामिन्द्रादीनां देहधारणानुपपत्तिमाशङ्क्य, अधिकारापादकप्रारब्धकर्मसमाप्त्यनन्तरं विदेहकैवल्यमिति सिद्धान्तितम् । तदुक्तमाचार्यवाचस्पतिमिश्रैः- " उपसनादिसंसिद्धितोषितेश्वरचोदिताः। अधिकारं समाप्यैते प्रविशन्ति परं पदम् ॥" इति । एतच्चैकमुक्तौ सर्वमुक्तिरिति पक्षे नोपपद्यते । तस्मादेकाविद्यापक्षेऽपि प्रतिजीवमावरणभेदोपगमेन व्यवस्थोपपादनीया ।
तदेवं ब्रह्मज्ञानान्मोक्षः । स चानर्थनिवृत्तिर्निरतिशयब्रह्मानन्दावाप्तिश्चेति सिद्धं प्रयोजनम् ।
इति वेदान्तपरिभाषायां प्रयोजनपरिच्छेदः ।
इति धर्मराजाध्वरीन्द्रविरचिता वेदान्तपरिभाषा समाप्ता ॥