अद्वैतशारदा

वेदान्तसारः

० विभागः

अखण्डं सच्चि­दा­न­न्द­म­वा­ङ्म­न­स­गो­च­रम् ।
आत्मा­न­म­खि­ला­धा­र­मा­श्र­येऽ­भी­ष्ट­सि­द्धये ॥१॥

अर्थ­तोऽ­प्य­द्व­या­न­न्दा­न­ती­त­द्वै­त­भा­नतः ।
गुरूनाराध्य वेदान्तसारं वक्ष्ये यथामति ॥२॥

वेदान्तो नामो­प­नि­ष­त्प्र­माणं तदुपकारीणि शारी­र­क­सू­त्रा­दीनि च । अस्य वेदा­न्त­प्र­क­र­ण­त्वात् तदीयैः एव अनुबन्धैः तद्वत्तासिद्धेः न ते पृथगालोचनीयाः । तत्र अनुबन्धो नाम अधि­का­रि­वि­ष­य­स­म्ब­न्ध­प्र­यो­ज­नानि ॥३॥

अधिकारी तु विधि­व­द­धी­त­वे­द­वे­दा­ङ्ग­त्वे­ना­पा­त­तोऽ­धि­ग­ता­खि­ल­वे­दा­र्थोऽ­स्मिन् जन्मनि जन्मान्तरे वा काम्य­नि­षि­द्ध­व­र्ज­न­पु­रः­सरं नित्य­नै­मि­त्ति­क­प्रा­य­श्चि­त्तो­पा­स­ना­नु­ष्ठा­नेन निर्ग­त­नि­खि­ल­क­ल्म­ष­तया निता­न्त­नि­र्म­ल­स्वान्तः साध­न­च­तु­ष्ट­य­स­म्पन्नः प्रमाता । काम्यानि - स्वर्गा­दी­ष्ट­सा­ध­नानि ज्योति­ष्टो­मा­दीनि । निषिद्धानि - नर­का­द्य­नि­ष्ट­सा­ध­नानि ब्राह्म­ण­ह­न­ना­दीनि । नित्यानि - अकरणे प्रत्य­वा­य­सा­ध­नानि सन्ध्या­व­न्द­ना­दीनि । नैमित्तिकानि - पुत्र­ज­न्मा­द्य­नु­ब­न्धीनि जातेष्ट्यादीनि । प्रायश्चित्तानि - पापक्षयसाधनानि चान्द्रायणादीनि । उपासनानि - सगु­ण­ब्र­ह्म­वि­ष­य­मा­न­स­व्या­पा­र­रू­पाणि शाण्डि­ल्य­वि­द्या­दीनि । एतेषां नित्यादीनां बुद्धिशुद्धिः परं प्रयोजनम् , उपासनानां तु चित्तैकाग्र्यं ‘तमेतमात्मानं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन’(बृ.उ. ४ । ४ । २२) इत्यादिश्रुतेः ‘तपसा कल्मषं हन्ति’ (मनु. १२ । १०४) इत्या­दि­स्मृ­तेश्च । नित्य­नै­मि­त्ति­कयोः उपासनानां त्ववान्तरफलं पितृ­लो­क­स­त्य­लो­क­प्राप्तिः ‘कर्मणा पितृलोकः विद्यया देवलोकः’(बृ. उ. १ । ५ । १६) इत्यादिश्रुतेः । साधनानि - नित्या­नि­त्य­व­स्तु­वि­वे­के­हा­मु­त्रा­र्थ­फ­ल­भो­ग­वि­रा­ग­श­मा­दि­ष­ट्क­स­म्प­त्ति­मु­मु­क्षु­त्वानि । नित्या­नि­त्य­व­स्तु­वि­वे­क­स्ता­वद् ब्रह्मैव नित्यं वस्तु ततोऽ­न्य­द­खि­ल­म­नि­त्य­मिति विवेचनम् । ऐहिकानां स्रक्च­न्द­न­व­नि­ता­दि­वि­ष­य­भो­गानां कर्म­ज­न्य­त­या­नि­त्य­त्व­व­दा­मु­ष्मि­का­णा­म­प्य­मृ­ता­दि­वि­ष­य­भो­गा­ना­म­नि­त्य­तया तेभ्यो नितरां विरतिः - इहा­मु­त्रा­र्थ­फ­ल­भो­ग­वि­रागः । शमादयस्तु - शम­द­मो­प­र­ति­ति­ति­क्षा­स­मा­धा­न­श्र­द्धाख्याः । शमस्तावत् - श्रव­णा­दि­व्य­ति­रि­क्त­वि­ष­येभ्यो मनसो निग्रहः । दमः - बाह्ये­न्द्रि­याणां तद्व्य­ति­रि­क्त­वि­ष­येभ्यो निवर्तनम् । निव­र्ति­ता­ना­मे­तेषां तद्व्य­ति­रि­क्त­वि­ष­येभ्य उपरमणमुपरतिरथवा विहितानां कर्मणां विधिना परित्यागः । तितिक्षा - शीतो­ष्णा­दि­द्व­न्द्व­स­हि­ष्णुता । निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः - समाधानम् । गुरू­प­दि­ष्ट­वे­दा­न्त­वा­क्येषु विश्वासः - श्रद्धा । मुमुक्षुत्वम् - मोक्षेच्छा । एवम्भूतः प्रमाताधिकारी ‘शान्तो दान्तः’(बृ. उ. ४ । ४ । २३) इत्यादिश्रुतेः । उक्तञ्च -
‘प्रशा­न्त­चि­त्ताय जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे ।
गुणा­न्वि­ता­या­नु­ग­ताय सर्वदा प्रदेयमेतत् सततं मुमुक्षवे’ (उपदेशसाहस्री ३२४ । १६ । ७२) इति ॥ विषयः - जीवब्रह्मैक्यम् , शुद्धचैतन्यं प्रमेयम् , तत्र एव वेदान्तानां तात्पर्यात् । सम्बन्धस्तु - तदैक्यप्रमेयस्य तत्प्र­ति­पा­द­को­प­नि­ष­त्प्र­मा­णस्य च बोध्यबोधकभावः । प्रयोजनं तु - तदै­क्य­प्र­मे­य­ग­ता­ज्ञा­न­नि­वृत्तिः स्वस्व­रू­पा­न­न्दा­वा­प्तिश्च ‘तरति शोकम् आत्मवित्’(छां. उ. ७ । १ । ३) इत्यादिश्रुतेः, ‘ब्रह्मविद् ब्रह्मैव भवति’(मुं. उ. ३ । २ । ९) इत्या­दि­श्रु­तेश्च ॥४॥

अयमधिकारी जन­न­म­र­णा­दि­सं­सा­रा­न­ल­स­न्तप्तो दीप्तशिरा जल­रा­शि­मि­वो­प­हा­र­पाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपसृत्य तमनुसरति ‘तद्वि­ज्ञा­नार्थं स गुरु­मे­वा­भि­ग­च्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’(मुं. उ. १ । २ । १२) इत्यादिश्रुतेः । स गुरुः पर­म­कृ­प­या­ध्या­रो­पा­प­वा­द­न्या­ये­नै­न­मु­प­दि­शति -
‘तस्मै स विद्वानुपसन्नया सम्यक् प्रशान्तचित्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥’
(मुं. उ. १ । २ । १३) इत्यादिश्रुतेः ॥५॥

असर्पभूतायां रज्जौ सर्पारोपवत् वस्तुनि अवस्त्वारोपः - अध्यारोपः । वस्तु - सच्चि­दा­न­न्द­म­द्वयं ब्रह्म अज्ञा­ना­दि­स­क­ल­ज­ड­स­मू­होऽ­वस्तु । अज्ञानं तु - सद­स­द्भ्या­म­नि­र्व­च­नीयं त्रिगुणात्मकं ज्ञानविरोधि भावरूपं यत्किञ्चिदिति वदन्त्यहमज्ञ इत्याद्यनुभवात् ‘देवात्मशक्तिं स्वगु­णै­र्नि­गू­ढाम्’(श्वे. उ. १ । ३) इत्या­दि­श्रु­तेश्च ॥६॥

इदमज्ञानं सम­ष्टि­व्य­ष्ट्य­भि­प्रा­ये­णै­क­म­ने­क­मिति च व्यवह्रियते । तथाहि यथा वृक्षाणां सम­ष्ट्य­भि­प्रा­येण वन­मि­त्ये­क­त्व­व्य­प­देशो यथा वा जलानां सम­ष्ट्य­भि­प्रा­येण जलाशय इति तथा नानात्वेन प्रतिभासमानानां जीवगताज्ञानानां सम­ष्ट्य­भि­प्रा­येण तदे­क­त्व­व्य­प­देशः, ‘अजामेकाम्’(श्वे. उ. ४ । ५) इत्यादिश्रुतेः । इयं सम­ष्टि­रु­त्कृ­ष्टो­पा­धि­तया विशु­द्ध­स­त्त्व­प्र­धाना । एतदुपहितं चैतन्यं सर्व­ज्ञ­त्व­स­र्वे­श्व­र­त्व­स­र्व­नि­य­न्तृ­त्वा­दि­गु­ण­क­म­व्य­क्त­म­न्त­र्यामी जगत्कारणमीश्वर इति च व्यपदिश्यते सक­ला­ज्ञा­ना­व­भा­स­क­त्वात् । ‘यः सर्वज्ञः सर्ववित्’(मुं. उ. १ । १ । ९) इति श्रुतेः । ईश्वरस्येयं सम­ष्टि­र­खि­ल­का­र­ण­त्वा­त्का­र­ण­श­री­र­मा­न­न्द­प्र­चु­र­त्वा­त्को­श­व­दा­च्छा­द­क­त्वा­च्चा­न­न्द­म­य­कोशः सर्वो­प­र­म­त्वा­त्सु­षु­प्ति­रत एव स्थूल­सू­क्ष्म­प्र­प­ञ्च­ल­य­स्था­न­मिति च उच्यते । यथा वनस्य व्यष्ट्य­भि­प्रा­येण वृक्षा इत्य­ने­क­त्व­व्य­प­देशो यथा वा जलाशयस्य व्यष्ट्य­भि­प्रा­येण जलानीति तथाज्ञानस्य व्यष्ट्य­भि­प्रा­येण तद­ने­क­त्व­व्य­प­देशः ‘इन्द्रो मायाभिः पुरुरूप ईयते’ (ऋग्वेद ६ । ४७ । १८) इत्यादिश्रुतेः । अत्र व्यस्त­स­म­स्त­व्या­पि­त्वेन व्यष्टि­स­म­ष्टि­ता­व्य­प­देशः । इयं व्यष्टि­र्नि­कृ­ष्टो­पा­धि­तया मलि­न­स­त्त्व­प्र­धाना । एतदुपहितं चैत­न्य­म­ल्प­ज्ञ­त्वा­नी­श्व­र­त्वा­दि­गु­णकं प्राज्ञ इत्युच्यत एका­ज्ञा­ना­व­भा­स­क­त्वात् । अस्य प्राज्ञ­त्व­म­स्प­ष्टो­पा­धि­त­याऽ­न­ति­प्र­का­श­क­त्वात् । अस्या­पी­य­म­ह­ङ्का­रा­दि­का­र­ण­त्वा­त्का­र­ण­श­री­र­मा­न­न्द­प्र­चु­र­त्वा­त्को­श­व­दा­च्छा­द­क­त्वा­च्चा­न­न्द­म­य­कोशः सर्वो­प­र­म­त्वा­त्सु­षु­प्ति­रत एव स्थूल­सू­क्ष्म­श­री­र­प्र­प­ञ्च­ल­य­स्था­न­मिति च उच्यते ॥७॥

एतेषां स्थूल­सू­क्ष्म­का­र­ण­प्र­प­ञ्चा­ना­मपि समष्टिरेको महान् प्रपञ्चो भवति यथा अवान्तरवनानां समष्टिरेकं महद्वनं भवति यथा वावा­न्त­र­ज­ला­श­यानां समष्टिरेको महान् जलाशयः । एतदुपहितं वैश्वा­न­रा­दी­श्व­र­प­र्यन्तं चैतन्यमपि अवा­न्त­र­व­ना­व­च्छि­न्ना­का­श­व­द­वा­न्त­र­ज­ला­श­य­ग­त­प्र­ति­बि­म्बा­का­श­वच्च एकमेव । आभ्यां महा­प्र­प­ञ्च­त­दु­प­हि­त­चै­त­न्याभ्यां तप्ता­यः­पि­ण्ड­व­द­वि­विक्तं सदनुपहितं चैतन्यं ‘सर्वं खल्विदं ब्रह्म’(छा. उ. ३ । १४ । १) इति (महा)वाक्यस्य वाच्यं भवति विविक्तं सल्लक्ष्यमपि भवति । एवं वस्तु­न्य­व­स्त्वा­रो­पोऽ­ध्या­रोपः सामान्येन प्रदर्शितः ॥१८॥

तदा­नी­मे­ता­वी­श्व­र­प्राज्ञौ चैत­न्य­प्र­दी­प्ता­भि­र­ति­सू­क्ष्मा­भि­र­ज्ञा­न­वृ­त्ति­भि­रा­न­न्द­म­नु­भ­वतः ‘आनन्दभुक् चेतोमुखः प्राज्ञः’(मां. उ. ५) इति श्रुतेः सुखमहमवाप्सम् न किञ्चि­द­वे­दि­ष­मि­त्यु­त्थि­तस्य परा­म­र्शो­प­प­त्तेश्च । अनयोः सम­ष्टि­व्य­ष्ट्यो­र्व­न­वृ­क्ष­यो­रिव जलाशयजलयोरिव वा भेदः । एत­दु­प­हि­त­यो­री­श्व­र­प्रा­ज्ञ­यो­रपि वन­वृ­क्षा­व­च्छि­न्ना­का­श­यो­रिव जला­श­य­ज­ल­ग­त­प्र­ति­बि­म्बा­का­श­यो­रिव वा भेदः ‘एष सर्वेश्वर’(मां. उ. ६) इत्यादिश्रुतेः ॥८॥

वन­वृ­क्ष­त­द­व­च्छि­न्ना­का­श­यो­र्ज­ला­श­य­ज­ल­त­द्ग­त­प्र­ति­बि­म्बा­का­श­यो­र्वाऽऽ­धा­र­भू­ताऽऽ­नु­प­हि­ताऽऽ­का­श­व­द­न­यो­र­ज्ञा­न­त­दु­प­हि­त­चै­त­न्य­यो­राऽऽ­धा­र­भूतं यदनुपहितं चैतन्यं तत्तु­री­य­मि­त्यु­च्यते ‘शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते’(मां. उ. ७) इत्यादिश्रुतेः । इदमेव तुरीयं शुद्ध­चै­त­न्य­म­ज्ञा­ना­दि­त­दु­प­हि­त­चै­त­न्याभ्यां तप्ता­यः­पि­ण्ड­व­द­वि­विक्तं सन्महावाक्यस्य वाच्यं विविक्तं सल्लक्ष्यमिति चोच्यते ॥९॥

अस्या­ज्ञा­न­स्या­व­र­ण­वि­क्षे­प­ना­म­क­मस्ति शक्तिद्वयम् । आव­र­ण­श­क्ति­स्ता­व­द­ल्पोऽपि मेघोऽ­ने­क­यो­ज­ना­य­त­मा­दि­त्य­म­ण्ड­ल­म­व­लो­क­यि­तृ­न­य­न­प­थ­पि­धा­य­क­तया यथाऽऽच्छादयतीव तथाऽज्ञानं परि­च्छि­न्न­म­प्या­त्मा­न­म­प­रि­च्छि­न्न­म­सं­सा­रि­ण­म­व­लो­क­यि­तृ­बु­द्धि­पि­धा­य­क­त­याऽऽ­च्छा­द­य­तीव तादृशं सामर्थ्यम् । तदुक्तं -
‘घन­च्छ­न्न­दृ­ष्टि­र्घ­न­च्छ­न्न­मर्कं यथा मन्यते निष्प्रभं चातिमूढः ।
तथा बद्धवद्भाति यो मूढदृष्टेः स नित्यो­प­ल­ब्धि­स्व­रू­पोऽ­ह­मात्मा ॥’
(हस्तामलकम् १०) इति । अनया आवृतस्यात्मनः कर्तृ­त्व­भो­क्तृ­त्व­सु­खि­त्व­दुः­खि­त्वा­दि­सं­सा­र­स­म्भा­व­नापि भवति यथा स्वाऽज्ञा­ने­ना­वृ­तायां रज्ज्वां सर्पत्वसम्भावना । विक्षे­प­श­क्तिस्तु यथा रज्ज्वज्ञानं स्वावृतरज्जौ स्वशक्त्या सर्पा­दि­क­मु­द्भा­व­य­त्ये­व­म­ज्ञा­न­मपि स्वावृतात्मनि स्वश­क्त्याऽऽ­का­शा­दि­प्र­प­ञ्च­मु­द्भा­व­यति तादृशं सामर्थ्यम् । तदुक्तम् - ‘विक्षे­प­श­क्ति­र्लि­ङ्गादि ब्रह्माण्डान्तं जगत् सृजेत्’ (वाक्यसुधा १३) इति ॥१०॥

शक्ति­द्व­य­व­द­ज्ञा­नो­प­हितं चैतन्यं स्वप्रधानतया निमित्तं स्वोपा­धि­प्र­धा­न­त­यो­पा­दानं च भवति । यथा लूता तन्तुकार्यं प्रति स्वप्रधानतया निमित्तं स्वश­री­र­प्र­धा­न­त­यो­पा­दा­नञ्च भवति ॥११॥

तमः­प्र­धा­न­वि­क्षे­प­श­क्ति­म­द­ज्ञा­नो­प­हि­त­चै­त­न्या­दा­काश आका­शा­द्वा­यु­र्वा­यो­र­ग्नि­र­ग्ने­रा­पोऽद्भ्यः पृथिवी चोत्पद्यते ‘एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इत्यादिश्रुतेः । तेषु जाड्या­धि­क्य­द­र्श­ना­त्त­मः­प्रा­धान्यं तत्कारणस्य । तदानीं सत्त्व­र­ज­स्त­मांसि कार­ण­गु­ण­प्र­क्र­मेण तेष्वा­का­शा­दि­षू­त्प­द्यन्ते । एतान्येव सूक्ष्मभूतानि तन्मा­त्रा­ण्य­प­ञ्ची­कृ­तानि चोच्यन्ते । एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते ॥१२॥

सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि । अवयवास्तु ज्ञाने­न्द्रि­य­प­ञ्चकं बुद्धिमनसी कर्मे­न्द्रि­य­प­ञ्चकं वायुपञ्चकं चेति । ज्ञाने­न्द्रि­याणि श्रोत्र­त्व­क्च­क्षु­र्जि­ह्वा­घ्रा­णा­ख्यानि । एता­न्या­का­शा­दीनां सात्त्वि­कां­शेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमे­णो­त्प­द्यन्ते । बुद्धिर्नाम निश्च­या­त्मि­काऽ­न्तः­क­र­ण­वृत्तिः । मनो नाम सङ्क­ल्प­वि­क­ल्पा­त्मि­का­न्तः­क­र­ण­वृत्तिः । अनयोरेव चित्ता­ह­ङ्का­र­यो­र­न्त­र्भावः । अनु­स­न्धा­ना­त्मि­का­न्तः­क­र­ण­वृत्तिः चित्तम् । अभि­मा­ना­त्मि­का­न्तः­क­र­ण­वृत्तिः अहङ्कारः । एते पुन­रा­का­शा­दि­ग­त­सा­त्त्वि­कां­शेभ्यो मिलितेभ्य उत्पद्यन्ते । एतेषां प्रका­शा­त्म­क­त्वा­त्सा­त्त्वि­कां­श­का­र्य­त्वम् । इयं बुद्धि­र्ज्ञा­ने­न्द्रियैः सहिता विज्ञानमयकोशो भवति । अयं कर्तृ­त्व­भो­क्तृ­त्व­सु­खि­त्व­दुः­खि­त्वा­द्य­भि­मा­न­त्वे­ने­ह­लो­क­प­र­लो­क­गामी व्यवहारिको जीव इत्युच्यते । मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति । कर्मेन्द्रियाणि वाक्पा­णि­पा­द­पा­यू­प­स्था­ख्यानि । एतानि पुनराकाशादीनां रजोंशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमे­णो­त्प­द्यन्ते । वायवः प्राणा­पा­न­व्या­नो­दा­न­स­मानाः । प्राणो नाम प्राग्ग­म­न­वा­न्ना­सा­ग्र­स्था­न­वर्ती । अपानो नामा­वा­ग्ग­म­न­वा­न्पा­य्वा­दि­स्था­न­वर्ती । व्यानो नाम विष्व­ग्ग­म­न­वा­न­खि­ल­श­री­र­वर्ती । उदानो नाम कण्ठस्थानीय ऊर्ध्व­ग­म­न­वा­नु­त्क्र­म­ण­वायुः । समानो नाम शरी­र­म­ध्य­ग­ता­शि­त­पी­ता­न्ना­दि­स­मी­क­र­ण­करः । समीकरणन्तु परिपाककरणं रस­रु­धि­र­शु­क्र­पु­री­षा­दि­क­र­ण­मिति यावत् । केचित्तु नाग­कू­र्म­कृ­क­ल­दे­व­द­त्त­ध­न­ञ्ज­याख्याः पञ्चान्ये वायवः सन्तीति वदन्ति । तत्र नाग उद्गिरणकरः । कूर्म उन्मीलनकरः । कृकलः क्षुत्करः । देवदत्तो जृम्भणकरः । धनञ्जयः पोषणकरः । एतेषां प्राणा­दि­ष्व­न्त­र्भा­वा­त्प्रा­णा­दयः पञ्चैवेति केचित् । एत­त्प्रा­णा­दि­प­ञ्च­क­मा­का­शा­दि­ग­त­र­जों­शे­भ्यो­मि­लि­तेभ्य उत्पद्यते । इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सत्प्राणमयकोशो भवति । अस्य क्रियात्मकत्वेन रजोंशकार्यत्वम् । एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः । मनोमय इच्छाशक्तिमान् करणरूपः । प्राणमयः क्रियाशक्तिमान् कार्यरूपः । योग्य­त्वा­दे­व­मे­तेषां विभाग इति वर्णयन्ति । एतत्कोशत्रयं मिलितं सत्सू­क्ष्म­श­री­र­मि­त्यु­च्यते ॥१३॥

अत्रा­प्य­खि­ल­सू­क्ष्म­श­री­र­मे­क­बु­द्धि­वि­ष­य­तया वनवज्जलाशयवद्वा सम­ष्टि­र­ने­क­बु­द्धि­वि­ष­य­तया वृक्षवज्जलवद्वा व्यष्टिरपि भवति । एत­त्स­म­ष्ट्यु­प­हितं चैतन्यं सूत्रात्मा हिरण्यगर्भः प्राण­श्चे­त्यु­च्यते सर्व­त्रा­नु­स्यू­त­त्वा­ज्ज्ञा­ने­च्छा­क्रि­या­श­क्ति­म­दु­प­हि­त­त्वाच्च । अस्यैषा समष्टिः स्थूल­प्र­प­ञ्चा­पे­क्षया सूक्ष्म­त्वा­त्सू­क्ष्म­श­रीरं विज्ञा­न­म­या­दि­को­श­त्रयं जाग्र­द्वा­स­ना­म­य­त्वा­त्स्व­प्नोऽत एव स्थूल­प्र­प­ञ्च­ल­य­स्था­न­मिति चोच्यते । एत­द्व्य­ष्ट्यु­प­हितं चैतन्यं तैजसो भवति तेजो­म­या­न्तः­क­र­णो­प­हि­त­त्वात् । अस्यापीयं व्यष्टिः स्थूल­श­री­रा­पे­क्षया सूक्ष्मत्वादिति हेतोरेव सूक्ष्मशरीरं विज्ञा­न­म­या­दि­को­श­त्रयं जाग्र­द्वा­स­ना­म­य­त्वा­त्स्व­प्नोऽ­त­एव स्थूल­श­री­र­ल­य­स्था­न­मिति चोच्यते । एतौ सूत्रात्मतैजसौ तदानीं मनोवृत्तिभिः सूक्ष्म­वि­ष­या­न­नु­भ­वतः ‘प्रवि­वि­क्त­भु­क्तै­जसः’(मां. उ. ४) इत्यदिश्रुतेः । अत्रापि सम­ष्टि­व्यष्ट्योः तदु­प­हि­त­सू­त्रा­त्म­तै­ज­सयोः वन­वृ­क्ष­व­त्त­द­व­च्छि­न्ना­का­श­वच्च जला­श­य­ज­ल­व­त्त­द्ग­त­प्र­ति­बि­म्बा­का­श­वच्च अभेदः । एवं सूक्ष्म­श­री­रो­त्पत्तिः ॥१४॥

स्थूलभूतानि तु पञ्चीकृतानि । पञ्चीकरणं त्वाका­शा­दि­प­ञ्च­स्वे­कैकं द्विधा समं विभज्य तेषु दशसु भागेषु प्राथ­मि­का­न्प­ञ्च­भा­गा­न्प्र­त्येकं चतुर्धा समं विभज्य तेषां चतुर्णां भागानां स्वस्व­द्वि­ती­या­र्ध­भा­ग­प­रि­त्या­गेन भागान्तरेषु योजनम् । तदुक्तम् -
‘द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः ।
स्वस्वे­त­र­द्वि­ती­यां­शै­र्यो­ज­ना­त्पञ्च पञ्चते ॥’ इति । अस्याप्रामाण्यं नाशङ्कनीयं त्रिवृ­त्क­र­ण­श्रुतेः पञ्ची­क­र­ण­स्या­प्यु­प­ल­क्ष­ण­त्वात् । पञ्चानां पञ्चात्मकत्वे समानेऽपि तेषु च ‘वैशेष्यात्तु तद्वा­द­स्त­द्वादः’(ब्र. सू. २ । ४ । २२) इति न्याये­ना­का­शा­दि­व्य­प­देशः सम्भवति । तदानीमाकाशे शब्दोऽ­भि­व्य­ज्यते वायौ शब्द­स्प­र्शा­वग्नौ शब्द­स्प­र्श­रू­पा­ण्यप्सु शब्द­स्प­र्श­रू­प­रसाः पृथिव्यां शब्द­स्प­र्श­रू­प­र­स­ग­न्धाश्च ॥१५॥

एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यो भूर्भु­वः­स्व­र्म­ह­र्ज­न­स्त­पः­स­त्य­मि­त्ये­त­न्ना­म­का­नाम् उप­र्यु­प­रि­वि­द्य­मा­ना­नाम् अत­ल­वि­त­ल­सु­त­ल­र­सा­त­ल­त­ला­त­ल­म­हा­त­ल­पा­ता­ल­ना­म­का­नाम् अधोऽ­धो­वि­द्य­मा­नानां लोकानां ब्रह्माण्डस्य तद­न्त­र्ग­त­च­तु­र्वि­ध­स्थू­ल­श­री­राणां तदु­चि­ता­ना­म­न्न­पा­ना­दीनां चोत्पत्तिर्भवति । चतुर्विधशरीराणि तु जरा­यु­जा­ण्ड­ज­स्वे­द­जो­द्भि­ज्जा­ख्यानि । जरायुजानि जरायुभ्यो जातानि मनुष्यपश्वादीनि । अण्ड­जा­न्य­ण्डेभ्यो जातानि पक्षिपन्नगादीनि । स्वेदजानि स्वेदेभ्यो जातानि यूकमशकादीनि । उद्भिज्जानि भूमिमुद्भिद्य जातानि लतावृक्षादीनि ॥१६॥

अत्रापि चतु­र्वि­ध­स­क­ल­स्थू­ल­श­री­र­मे­का­ने­क­बु­द्धि­वि­ष­य­तया वनवज्जलाशयवद्वा सम­ष्टि­र्वृ­क्ष­व­ज्ज­ल­वद्वा व्यष्टिरपि भवति । एत­त्स­म­ष्ट्यु­प­हितं चैतन्यं वैश्वानरो विराडित्युच्यते सर्व­न­रा­भि­मा­नि­त्वा­द्वि­विधं राजमानत्वाच्च । अस्यैषा समष्टिः स्थूल­श­री­र­म­न्न­वि­का­र­त्वा­द­न्न­म­य­कोशः स्थूल­भो­गा­य­त­न­त्वाच्च स्थूलशरीरं जाग्रदिति च व्यपदिश्यते । एत­द्व्य­ष्ट्यु­प­हितं चैतन्यं विश्व इत्युच्यते सूक्ष्म­श­री­रा­भि­मा­न­म­प­रि­त्यज्य स्थूल­श­री­रा­दि­प्र­वि­ष्ट­त्वात् । अस्याप्येषा व्यष्टिः स्थूल­श­री­र­म­न्न­वि­का­र­त्वा­देव हेतोरन्नमयकोशो जाग्रदिति चोच्यते । तदानीमेतौ विश्ववैश्वानरौ दिग्वा­ता­र्क­व­रु­णा­श्विभिः क्रमा­न्नि­य­न्त्रि­तेन श्रोत्रा­दी­न्द्रि­य­प­ञ्च­केन क्रमा­च्छ­ब्द­स्प­र्श­रू­प­र­स­ग­न्धा­न­ग्नी­न्द्रो­पे­न्द्र­य­म­प्र­जा­प­तिभिः क्रमा­न्नि­य­न्त्रि­तेन वागा­दी­न्द्रि­य­प­ञ्च­केन क्रमा­द्व­च­ना­दा­न­ग­म­न­वि­स­र्गा­न­न्दान् चन्द्र­च­तु­र्मु­ख­श­ङ्क­रा­च्युतैः क्रमा­न्नि­य­न्त्रि­तेन मनो­बु­द्ध्य­ह­ङ्का­र­चि­त्ता­ख्ये­ना­न्त­रे­न्द्रि­य­च­तु­ष्केण क्रमा­त्स­ङ्क­ल्प­नि­श्च­या­ह­ङ्का­र्य­चै­त्तांश्च सर्वानेतान् स्थूल­वि­ष­या­न­नु­भ­वतः ‘जागरितस्थानो बहिःप्रज्ञः’(मां. उ. ३) इत्यादिश्रुतेः । अत्राप्यनयोः स्थूल­व्य­ष्टि­स­म­ष्ट्यो­स्त­दु­प­हि­त­वि­श्व­वै­श्वा­न­र­योश्च वन­वृ­क्ष­व­त्त­द­व­च्छि­न्ना­का­श­वच्च जला­श­य­ज­ल­व­त्त­द्ग­त­प्र­ति­बि­म्बा­का­श­वच्च पूर्ववदभेदः । एवं पञ्ची­कृ­त­प­ञ्च­भू­तेभ्यः स्थूल­प्र­प­ञ्चो­त्पत्तिः ॥१७॥

इदानीं प्रत्यगात्मनि इद­मि­द­म­य­म­य­मा­रो­प­य­तीति विशेषत उच्यते । अतिप्राकृतस्तु ‘आत्मा वै जायते पुत्रः’ इत्यादिश्रुतेः स्वस्मिन्निव पुत्रेऽपि प्रेम­द­र्श­ना­त्पुत्रे पुष्टे नष्टे चाहमेव पुष्टो नष्ट­श्चे­त्या­द्य­नु­भ­वाच्च पुत्र आत्मेति वदति । चार्वाकस्तु ‘स वा एष पुरु­षोऽ­न्न­र­स­मयः’(तै. उ. २ । १ । १) इत्यादिश्रुतेः प्रदी­प्त­गृ­हा­त्स्व­पुत्रं परित्यज्यापि स्वस्य निर्ग­म­द­र्श­ना­त्स्थू­लोऽहं कृशोऽ­ह­मि­त्या­द्य­नु­भ­वाच्च स्थूल­श­री­र­मा­त्मेति वदति । अपरश्चार्वाकः ‘ते ह प्राणाः प्रजापतिं पितरमेत्योचुः’(छा. उ. ५ । १ । ७) इत्यादिश्रुतेः इन्द्रि­या­णा­म­भावे शरी­र­च­ल­ना­भा­वा­त्का­णोऽहं बधि­रोऽ­ह­मि­त्या­द्य­नु­भ­वाच्च इन्द्रि­या­ण्या­त्मेति वदति । अपरश्चार्वाकः ‘अन्योऽन्तर आत्मा प्राणमयः’(तै. उ. २ । २ । १) इत्यादिश्रुतेः प्राणाभाव इन्द्रि­या­दि­च­ल­ना­यो­गात्‌ अहमशनायावानहं पिपा­सा­वा­नि­त्या­द्य­नु­भ­वाच्च प्राण आत्मेति वदति । अन्यस्तु चार्वाकः ‘अन्योऽन्तर आत्मा मनोमयः’(तै. उ. २ । ३ । १) इत्यादिश्रुतेः मनसि सुप्ते प्राणा­दे­र­भा­वा­दहं सङ्कल्पवानहं विक­ल्प­वा­नि­त्या­द्य­नु­भ­वाच्च मन आत्मेति वदति । बौद्धस्तु ‘अन्योऽन्तर आत्मा विज्ञानमयः’(तै. उ. २ । ४ । १) इत्यादिश्रुतेः कर्तुरभावे करणस्य शक्त्यभावादहं कर्ताहं भोक्ते­त्या­द्य­नु­भ­वाच्च बुद्धिरात्मेति वदति । प्राभा­क­र­ता­र्किकौ तु ‘अन्योऽन्तर आत्मानन्दमयः’(तै. उ. २ । ५ । १) इत्यादिश्रुतेः बुद्ध्या­दी­ना­म­ज्ञाने लय­द­र्श­ना­द­ह­म­ज्ञोऽ­ह­म­ज्ञा­नी­त्या­द्य­नु­भ­वाच्च अज्ञानमात्मेति वदतः । भाट्टस्तु ‘प्रज्ञानघन एवानन्दमयः’(मां. उ. ५) इत्यादिश्रुतेः सुषुप्तौ प्रका­शा­प्र­का­श­स­द्भा­वा­न्मा­महं न जाना­मी­त्या­द्य­नु­भ­वाच्च अज्ञानोपहितं चैतन्यमात्मेति वदति । अपरो बौद्धः ‘असदेवेदमग्र आसीत्’(छा. उ. ६ । २ । १) इत्यादिश्रुतेः सुषुप्तौ सर्वाभावादहं सुषुप्तौ नास­मि­त्यु­त्थि­तस्य स्वाभा­व­प­रा­म­र्श­वि­ष­या­नु­भ­वाच्च शून्यमात्मेति वदति ॥१९॥

एतेषां पुत्रादीनाम् अना­त्म­त्व­मु­च्यते । एतैः अति­प्रा­कृ­ता­दि­वा­दि­भि­रु­क्तेषु श्रुति­यु­क्त्य­नु­भ­वा­भा­सेषु पूर्व­पू­र्वो­क्त­श्रु­ति­यु­क्त्य­नु­भ­वा­भा­सा­ना­मु­त्त­रो­त्त­त­र­श्रु­ति­यु­क्त्य­नु­भ­वा­भासैः अात्म­त्व­बा­ध­द­र्श­ना­त्पु­त्रा­दी­ना­म­ना­त्मत्वं स्पष्टमेव । किञ्च ‘प्रत्य­ग­स्थू­लोऽ­च­क्षु­र­प्रा­णोऽ­मना अकर्ता चैतन्यं चिन्मात्रं सत्’ इत्या­दि­प्र­ब­ल­श्रु­ति­वि­रो­धा­दस्य पुत्रा­दि­शू­न्य­प­र्य­न्तस्य जडस्य चैत­न्य­भा­स्य­त्वेन घटा­दि­व­द­नि­त्य­त्वा­दहं ब्रह्मेति विद्व­द­नु­भ­व­प्रा­ब­ल्याच्च तत्त­च्छ्रु­ति­यु­क्त्य­नु­भ­वा­भा­सानां बाधितत्वादपि पुत्रा­दि­शू­न्य­प­र्य­न्त­म­खि­ल­म­ना­त्मैव । अतस्तत्तद्भासकं नित्य­शु­द्ध­बु­द्ध­मु­क्त­स­त्य­स्व­भावं प्रत्य­क्चै­त­न्य­मे­वा­त्म­व­स्त्विति वेदा­न्त­वि­द्व­द­नु­भवः । एवमध्यारोपः ॥२०॥

अपवादो नाम रज्जुविवर्तस्य सर्पस्य रज्जु­मा­त्र­त्व­वत् वस्तु­वि­व­र्त­स्या­व­स्तु­नोऽ­ज्ञा­नादेः प्रपञ्चस्य वस्तुमात्रत्वम् । तदुक्तम् -
‘सत­त्त्व­तोऽ­न्य­था­प्रथा विकार इत्युदीरितः ।
अत­त्त्व­तोऽ­न्य­था­प्रथा विवर्त इत्युदीरितः ॥’ इति । तथाहि एतद्भोगायतनं चतु­र्वि­ध­स­क­ल­स्थू­ल­श­री­र­जातं भोग्य­रू­पा­न्न­पा­ना­दि­कम् एत­दा­य­त­न­भू­त­भू­रा­दि­च­तु­र्द­श­भु­व­नानि एतदायतनभूतं ब्रह्माण्डं चैत­त्स­र्व­मे­तेषां कारणरूपं पञ्ची­कृ­त­भू­त­मात्रं भवति । एतानि शब्दा­दि­वि­ष­य­स­हि­तानि पञ्चीकृतानि भूतानि सूक्ष्मशरीरजातं चैत­त्स­र्व­मे­तेषां कार­ण­रू­पा­प­ञ्ची­कृ­त­भू­त­मात्रं भवति । एतानि सत्त्वा­दि­गु­ण­स­हि­ता­न्य­प­ञ्ची­कृ­ता­न्यु­त्प­त्ति­व्यु­त्क्र­मे­णै­त­त्का­र­ण­भू­ता­ज्ञा­नो­प­हि­त­चै­त­न्य­मात्रं भवति । एत­द­ज्ञा­न­म­ज्ञा­नो­प­हितं चैतन्यं चेश्व­रा­दि­क­मे­त­दा­धा­र­भू­ता­नु­प­हि­त­चै­त­न्य­रूपं तुरीयं ब्रह्ममात्रं भवति ॥२१॥

आभ्या­म­ध्या­रो­पा­प­वा­दाभ्यां तत्त्व­म्प­दा­र्थ­शो­ध­न­मपि सिद्धं भवति । तथाहि - अज्ञा­ना­दि­स­म­ष्टि­रे­त­दु­प­हितं सर्व­ज्ञ­त्वा­दि­वि­शिष्टं चैतन्यम् एतदनुपहितं चैतत्त्रयं तप्ता­यः­पि­ण्ड­व­दे­क­त्वे­ना­व­भा­स­मानं तत्पदवाच्यार्थो भवति । एत­दु­पा­ध्यु­प­हि­ता­धा­र­भू­त­म­नु­प­हितं चैतन्यं तत्प­द­ल­क्ष्यार्थो भवति । अज्ञा­ना­दि­व्यष्टिः एत­दु­प­हि­ता­ल्प­ज्ञ­त्वा­दि­वि­शि­ष्ट­चै­त­न्यम् एतदनुपहितं चैतत्त्रयं तप्ता­यः­पि­ण्ड­व­दे­क­त्वे­ना­व­भा­स­मानं त्वम्प­द­वा­च्यार्थो भवति । एत­दु­पा­ध्यु­प­हि­ता­धा­र­भू­त­म­नु­प­हितं प्रत्यगानन्दं तुरीयं चैतन्यं त्वम्प­द­ल­क्ष्यार्थो भवति ॥२२॥

अथ महावाक्यार्थो वर्ण्यते । इदं तत्त्वमसिवाक्यं सम्ब­न्ध­त्र­ये­णा­ख­ण्डा­र्थ­बो­धकं भवति । सम्बन्धत्रयं नाम पदयोः सामानाधिकरण्यं पदा­र्थ­यो­र्वि­शे­ष­ण­वि­शे­ष्य­भावः प्रत्य­गा­त्म­ल­क्ष­ण­यो­र्ल­क्ष्य­ल­क्ष­ण­भा­व­श्चेति । तदुक्तम् -
‘सामानाधिकरण्यं च विशेषणविशेष्यता ।
लक्ष्य­ल­क्ष­ण­स­म्बन्धः पदा­र्थ­प्र­त्य­गा­त्म­नाम् ॥’ इति । सामा­ना­धि­क­र­ण्य­स­म्ब­न्ध­स्ता­व­द्यथा सोऽयं देवदत्त इत्य­स्मि­न्वाक्ये तत्का­ल­वि­शि­ष्ट­दे­व­द­त्त­वा­च­क­स­श­ब्दस्य एत­त्का­ल­वि­शि­ष्ट­दे­व­द­त्त­वा­च­का­यं­श­ब्दस्य चैकस्मिन्पिण्डे तात्प­र्य­स­म्बन्धः । तथा च तत्त्वमसीति वाक्येऽपि परो­क्ष­त्वा­दि­वि­शि­ष्ट­चै­त­न्य­वा­च­क­त­त्प­दस्य अप­रो­क्ष­त्वा­दि­वि­शि­ष्ट­चै­त­न्य­वा­च­क­त्व­म्प­दस्य चैक­स्मिं­श्चै­तन्ये तात्प­र्य­स­म्बन्धः । विशे­ष­ण­वि­शे­ष्य­भा­व­स­म्ब­न्धस्तु यथा तत्रैव वाक्ये सश­ब्दा­र्थ­त­त्का­ल­वि­शि­ष्ट­दे­व­द­त्तस्य अयं­श­ब्दा­र्थै­त­त्का­ल­वि­शि­ष्ट­दे­व­द­त्तस्य चान्यो­न्य­भे­द­व्या­व­र्त­क­तया विशे­ष­ण­वि­शे­ष्य­भावः । तथात्रापि वाक्ये तत्प­दा­र्थ­प­रो­क्ष­त्वा­दि­वि­शि­ष्ट­चै­त­न्यस्य त्वम्प­दा­र्था­प­रो­क्ष­त्वा­दि­वि­शि­ष्ट­चै­त­न्यस्य चान्यो­न्य­भे­द­व्या­व­र्त­क­तया विशे­ष­ण­वि­शे­ष्य­भावः । लक्ष्य­ल­क्ष­ण­स­म्ब­न्धस्तु यथा तत्रैव सश­ब्दा­यं­श­ब्द­यो­स्त­द­र्थ­योर्वा विरु­द्ध­त­त्का­लै­त­त्का­ल­वि­शि­ष्ट­त्व­प­रि­त्या­गे­ना­वि­रु­द्ध­दे­व­द­त्तेन सह लक्ष्यलक्षणभावः । तथात्रापि वाक्ये तत्त्व­म्प­द­यो­स्त­द­र्थ­योर्वा विरु­द्ध­प­रो­क्ष­त्वा­प­रो­क्ष­त्वा­दि­वि­शि­ष्ट­त्व­प­रि­त्या­गे­ना­वि­रु­द्ध­चै­त­न्येन सह लक्ष्यलक्षणभावः । इयमेव भाग­ल­क्ष­णे­त्यु­च्यते ॥२३॥

अस्मिन्वाक्ये नीलमुत्पलमिति वाक्य­व­द्वा­क्यार्थो न सङ्गच्छते । तत्र तु नील­प­दा­र्थ­नी­ल­गु­ण­स्यो­त्प­ल­प­दा­र्थो­त्प­ल­द्र­व्यस्य च शौक्ल्य­प­टा­दि­भे­द­व्या­व­र्त­क­तय अन्यो­न्य­वि­शे­ष­ण­वि­शे­ष्य­रू­प­सं­स­र्गस्य अन्य­त­र­वि­शि­ष्ट­स्या­न्य­त­रस्य तदैक्यस्य वा वाक्या­र्थ­त्वा­ङ्गी­कारे प्रमा­णा­न्त­र­वि­रो­धा­भा­वा­त्त­द्वा­क्यार्थः सङ्गच्छते । अत्र तु तत्प­दा­र्थ­प­रो­क्ष­त्वा­दि­वि­शि­ष्ट­चै­त­न्यस्य त्वम्प­दा­र्था­प­रो­क्ष­त्वा­दि­वि­शि­ष्ट­चै­त­न्यस्य चान्यो­न्य­भे­द­व्या­व­र्त­क­तया विशे­ष­ण­वि­शे­ष्य­भा­व­सं­स­र्ग­स्या­न्य­त­र­वि­शि­ष्ट­स्या­न्य­त­रस्य तदैक्यस्य वा वाक्या­र्थ­त्वा­ङ्गी­कारे प्रत्य­क्षा­दि­प्र­मा­ण­वि­रो­धा­द्वा­क्यार्थो न सङ्गच्छते । तदुक्तम् -
‘संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः ।
अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥’ इति (पञ्चदशी ७ । ७५) ॥२४॥

अत्र गङ्गायां घोषः प्रतिवसति इति­वा­क्य­व­ज्ज­ह­ल्ल­क्ष­णापि न सङ्गच्छते । तत्र तु गङ्गा­घो­ष­यो­रा­धा­रा­धे­य­भा­व­ल­क्ष­णस्य वाक्या­र्थ­स्या­शे­षतो विरु­द्ध­त्वा­द्वा­क्या­र्थ­म­शे­षतः परित्यज्य तत्स­म्ब­न्धि­ती­र­ल­क्ष­णाया युक्त­त्वा­ज्ज­ह­ल्ल­क्षणा सङ्गच्छते । अत्र तु परो­क्षा­प­रो­क्ष­चै­त­न्यै­क­त्व­ल­क्ष­णस्य वाक्यार्थस्य भागमात्रे विरो­धा­द्भा­गा­न्त­र­मपि परि­त्य­ज्या­न्य­ल­क्ष­णाया अयु­क्त­त्वा­ज्ज­ह­ल्ल­क्षणा न सङ्गच्छते । न च गङ्गापदं स्वार्थ­प­रि­त्या­गेन तीरपदार्थं यथा लक्षयति तथा तत्पदं त्वम्पदं वा स्वार्थ­प­रि­त्या­गेन त्वम्पदार्थं तत्पदार्थं वा लक्षयत्वतः कुतो जहल्लक्षणा न सङ्गच्छत इति वाच्यम् । तत्र तीरपदाश्रवणेन तदर्थाप्रतीतौ लक्षणया तत्प्र­ती­त्य­पे­क्षा­या­मपि तत्त्वम्पदयोः श्रूयमाणत्वेन तदर्थप्रतीतौ लक्षणया पुन­र­न्य­त­र­प­दे­ना­न्य­त­र­प­दा­र्थ­प्र­ती­त्य­पे­क्षा­भा­वात् ॥२५॥

अत्र शोणो धावतीति वाक्य­व­द­ज­ह­ल्ल­क्ष­णापि न सम्भवति । तत्र शोण­गु­ण­ग­म­न­ल­क्ष­णस्य वाक्यार्थस्य विरु­द्ध­त्वा­त्त­द­प­रि­त्या­गेन तदा­श्र­या­श्वा­दि­ल­क्ष­णया तद्वि­रो­ध­प­रि­हा­र­स­म्भ­वा­द­ज­ह­ल्ल­क्षणा सम्भवति । अत्र तु परो­क्ष­त्वा­प­रो­क्ष­त्वा­दि­वि­शि­ष्ट­चै­त­न्यै­क­त्वस्य वाक्यार्थस्य विरु­द्ध­त्वा­त्त­द­प­रि­त्या­गेन तत्सम्बन्धिनो यस्य कस्यचिदर्थस्य लक्षितत्वेऽपि तद्वि­रो­ध­प­रि­हा­रा­स­म्भ­वा­द­ज­ह­ल्ल­क्षणा न सम्भवत्येव । न च तत्पदं त्वम्पदं वा स्वार्थ­वि­रु­द्धां­श­प­रि­त्या­गे­नां­शा­न्त­र­स­हितं त्वम्पदार्थं तत्पदार्थं वा लक्षयत्वतः कथं प्रकारान्तरेण भाग­ल­क्ष­णा­ङ्गी­क­र­ण­मिति वाच्यम् । एकेन पदेन स्वार्थां­श­प­दा­र्था­न्त­रो­भ­य­ल­क्ष­णाया अस­म्भ­वा­त्प­दा­न्त­रेण तदर्थप्रतीतौ लक्षणया पुन­स्त­त्प्र­ती­त्य­पे­क्षा­भा­वाच्च ॥२६॥

तस्माद्यथा सोऽयं देवदत्त इति वाक्यं तदर्थो वा तत्का­लै­त­त्का­ल­वि­शि­ष्ट­दे­व­द­त्त­ल­क्ष­णस्य वाक्या­र्थ­स्यांशे विरो­धा­द्वि­रु­द्ध­त­त्का­लै­त­त्का­ल­वि­शि­ष्टांशं परि­त्य­ज्या­वि­रुद्धं देव­द­त्तां­श­मात्रं लक्षयति तथा तत्त्वमसीति वाक्यं तदर्थो वा परो­क्ष­त्वा­प­रो­क्ष­त्वा­दि­वि­शि­ष्ट­चै­त­न्यै­क­त्व­ल­क्ष­णस्य वाक्या­र्थ­स्यांशे विरो­धा­द्वि­रु­द्ध­प­रो­क्ष­त्वा­प­रो­क्ष­त्व­वि­शि­ष्टांशं परि­त्य­ज्या­वि­रु­द्ध­म­ख­ण्ड­चै­त­न्य­मात्रं लक्षयतीति ॥२७॥

अथाधुना ‘अहं ब्रह्मास्मि’(बृ. उ. १ । ४ । १०) इत्य­नु­भ­व­वा­क्यार्थो वर्ण्यते । एव­मा­चा­र्ये­णा­ध्या­रो­पा­प­वा­द­पु­रः­सरं तत्त्वम्पदार्थौ शोधयित्वा वाक्ये­ना­ख­ण्डा­र्थेऽ­व­बो­धि­तेऽ­धि­का­रि­णोऽहं नित्य­शु­द्ध­बु­द्ध­मु­क्त­स­त्य­स्व­भा­व­प­र­मा­न­न्दा­न­न्ता­द्वयं ब्रह्मा­स्मी­त्य­ख­ण्डा­का­रा­का­रिता चित्त­वृ­त्ति­रु­देति । सा तु चित्प्र­ति­बि­म्ब­स­हिता सती प्रत्य­ग­भि­न्न­म­ज्ञातं परम्ब्रह्म विषयीकृत्य तद्गताज्ञानमेव बाधते तदा पटकारणतन्तुदाहे पट­दा­ह­व­द­खि­ल­का­र­णेऽ­ज्ञाने बाधिते सति तत्का­र्य­स्या­खि­लस्य बाधि­त­त्वा­त्त­द­न्त­र्भू­ता­ख­ण्डा­का­रा­का­रिता चित्तवृत्तिरपि बाधिता भवति । तत्र प्रतिबिम्बितं चैतन्यमपि यथा दीप­प्र­भाऽऽ­दि­त्य­प्र­भाऽ­व­भा­स­नाऽ­स­मर्था सती तयाऽभिभूता भवति तथा स्वय­म्प्र­का­श­मा­न­प्र­त्य­ग­भि­न्न­प­र­ब्र­ह्माऽ­व­भा­स­नाऽ­न­र्ह­तया तेनाभिभूतं सत् स्वोपा­धि­भू­ता­ख­ण्ड­वृ­त्ते­र्बा­धि­त­त्वा­द्द­र्प­णा­भावे मुख­प्र­ति­बि­म्बस्य मुख­मा­त्र­त्व­व­त्प्र­त्य­ग­भि­न्न­प­र­ब्र­ह्म­मात्रं भवति ॥२८॥

एवं च सति ‘मन­सै­वा­नु­द्र­ष्ट­व्यम्’(बृ. उ. ४ । ४ । १९) ‘यन्मनसा न मनुते’(के. उ. १ । ६) इत्यनयोः श्रुत्योरविरोधो वृत्ति­व्या­प्य­त्वा­ङ्गी­का­रेण फल­व्या­प्य­त्व­प्र­ति­षे­ध­प्र­ति­पा­द­नात् । तदुक्तम् -
‘फल­व्या­प्य­त्व­मे­वास्य शास्त्र­कृ­द्भि­र्नि­वा­रि­तम् ।
ब्रह्म­ण्य­ज्ञा­न­ना­शाय वृत्ति­व्या­प्ति­र­पे­क्षिता ॥’ इति (पञ्चदशी ६ । ९०) । ‘स्वय­म्प्र­का­श­मा­न­त्वा­न्ना­भास उपयुज्यते ।’ इति च (पञ्चदशी ६ । ९२) । जड­प­दा­र्था­का­रा­का­रि­त­चि­त्त­वृ­त्ते­र्वि­शे­षोऽस्ति । यथा दीप­प्र­भा­म­ण्ड­ल­म­न्ध­का­र­गतं घटपटादिकं विषयीकृत्य तद्ग­ता­न्ध­का­र­नि­र­स­न­पु­रः­सरं स्वप्रभया तदपि भासयतीति । तथाहि - अयं घट इति घटा­का­रा­का­रि­त­चि­त्त­वृ­त्ति­र­ज्ञातं घटं विषयीकृत्य तद्ग­ता­ज्ञा­न­नि­र­स­न­पु­रः­सरं स्वगतचिदाभासेन जडं घटमपि भासयति । तदुक्तम् -
‘बुद्धि­त­त्स्थ­चि­दा­भासौ द्वावपि व्याप्नुतो घटम् ।
तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् ॥’ इति । (पञ्चदशी ७ । ९१) ॥२९॥

एवं भूत­स्व­स्व­रू­प­चै­त­न्य­सा­क्षा­त्का­र­प­र्यन्तं श्रव­ण­म­न­न­नि­दि­ध्या­स­न­स­मा­ध्य­नु­ष्ठा­न­स्या­पे­क्षि­त­त्वात् तेऽपि प्रदर्श्यन्ते । श्रवणं नाम षड्वि­ध­लि­ङ्गै­र­शे­ष­वे­दा­न्ता­ना­म­द्वि­ती­य­व­स्तुनि तात्प­र्या­व­धा­र­णम् । लिङ्गानि तूप­क्र­मो­प­सं­हा­रा­भ्या­सा­पू­र्व­ता­फ­ला­र्थ­वा­दो­प­प­त्त्या­ख्यानि । तदुक्तम् -
‘उप­क्र­मो­प­सं­हा­रा­व­भ्या­सोऽ­पू­र्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥’ प्रक­र­ण­प्र­ति­पा­द्य­स्या­र्थस्य तदा­द्य­न्त­यो­रु­प­पा­द­न­मु­प­क्र­मो­प­सं­हारौ । यथा छान्दोग्ये षष्ठाध्याये प्रक­र­ण­प्र­ति­पा­द्य­स्या­द्वि­ती­य­व­स्तुन ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) इत्यादौ ‘ऐतदात्म्यमिदं सर्वम्’(छा. उ. ६ । ८ । ७) इत्यन्ते च प्रतिपादनम् । प्रक­र­ण­प्र­ति­पा­द्यस्य वस्तु­न­स्त­न्मध्ये पौनःपुन्येन प्रति­पा­द­न­म­भ्यासः । यथा तत्रै­वा­द्वि­ती­य­व­स्तुनि मध्ये तत्त्वमसीति नवकृत्वः प्रतिपादनम् । प्रक­र­ण­प्र­ति­पा­द्य­स्या­द्वि­ती­य­व­स्तुनः प्रमा­णा­न्त­रा­वि­ष­यी­क­र­ण­म­पू­र्वता । यथा तत्रै­वा­द्वि­ती­य­व­स्तुनो माना­न्त­रा­वि­ष­यी­क­र­णम् । फलं तु प्रक­र­ण­प्र­ति­पा­द्य­स्या­त्म­ज्ञा­नस्य तदनुष्ठानस्य वा तत्र तत्र श्रूयमाणं प्रयोजनम् । यथा तत्र ‘आचा­र्य­वा­न्पु­रुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’(छा. उ. ६ । १४ । २) इत्य­द्वि­ती­य­व­स्तु­ज्ञा­नस्य तत्प्राप्तिः प्रयोजनं श्रूयते । प्रक­र­ण­प्र­ति­पा­द्यस्य तत्र तत्र प्रशंसनमर्थवादः । यथा तत्रैव ‘उत तमा­दे­श­म­प्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’(छा. उ. ६ । १ । ३) इत्य­द्वि­ती­य­व­स्तु­प्र­शं­स­नम् । प्रक­र­ण­प्र­ति­पा­द्या­र्थ­सा­धने तत्र तत्र श्रूयमाणा युक्तिरुपपत्तिः । यथा तत्र ‘यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वा­चा­र­म्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’(छा. उ. ६ । १ । ४) इत्या­दा­व­द्वि­ती­य­व­स्तु­सा­धने विकारस्य वाचा­र­म्भ­ण­मा­त्रत्वे युक्तिः श्रूयते । मननं तु श्रुत­स्या­द्वि­ती­य­व­स्तुनो वेदा­न्ता­नु­गु­ण­यु­क्ति­भि­र­न­व­र­त­म­नु­चि­न्त­नम् । विजा­ती­य­दे­हा­दि­प्र­त्य­य­र­हि­ता­द्वि­ती­य­व­स्तु­स­जा­ती­य­प्र­त्य­य­प्र­वाहो निदिध्यासनम् । समाधिर्द्विविधः सविकल्पको निर्वि­क­ल्प­श्चेति । तत्र सविकल्पको नाम ज्ञातृ­ज्ञा­ना­दि­वि­क­ल्प­ल­या­न­पे­क्षया अद्वितीयवस्तुनि तदा­का­रा­का­रि­ता­या­श्चि­त्त­वृ­त्ते­र­व­स्था­नम् । तदा मृन्म­य­ग­जा­दि­भा­नेऽपि मृद्भा­न­व­द्द्वै­त­भा­नेऽ­प्य­द्वैतं वस्तु भासते । तदुक्तम् -
‘दृशिस्वरूपं गगनोपमं परम् सकृद्विभातं त्वजमेकमक्षरम् ।
अलेपकं सर्वगतं यदद्वयम् तदेव चाहं सततं विमुक्तमोम् ॥’ इति ॥ (उपदेशसाहस्री ७३ । १० । १) । निर्विकल्पकस्तु ज्ञातृ­ज्ञा­ना­दि­वि­क­ल्प­ल­या­पे­क्षया अद्वितीयवस्तुनि तदा­का­रा­का­रि­ता­या­श्चि­त्त­वृत्तेः अति­त­रा­मे­की­भा­वे­ना­व­स्था­नम् । तदा तु जला­का­रा­का­रि­त­ल­व­णा­न­व­भा­सेन जल­मा­त्रा­व­भा­स­व­द­द्वि­ती­य­व­स्त्वा­का­रा­का­रि­त­चि­त्त­वृ­त्त्य­न­व­भा­से­ना­द्वि­ती­य­व­स्तु­मा­त्रम् अवभासते । ततश्चास्य सुषु­प्ते­श्चा­भे­द­शङ्का न भवति । उभयत्र वृत्त्यभाने समानेऽपि तत्स­द्भा­वा­स­द्भा­व­मा­त्रे­णा­न­यो­र्भे­दो­प­पत्तेः ॥३०॥

अस्याङ्गानि यम­नि­य­मा­स­न­प्रा­णा­या­म­प्र­त्या­हा­र­धा­र­णा­ध्या­न­स­मा­धयः । तत्र ‘अहिं­सा­स­त्या­स्ते­य­ब्र­ह्म­च­र्या­प­रि­ग्रहा यमाः’ । ‘शौच­स­न्तो­ष­त­पः­स्वा­ध्या­ये­श्व­र­प्र­णि­धा­नानि नियमाः’ । ‘कर­च­र­णा­दि­सं­स्था­न­वि­शे­ष­ल­क्ष­णानि पद्म­स्व­स्ति­का­दी­न्या­स­नानि’ । ‘रेच­क­पू­र­क­कु­म्भ­क­ल­क्षणाः प्राण­नि­ग्र­हो­पायाः प्राणायामाः’ । ‘इन्द्रियाणां स्वस्वविषयेभ्यः प्रत्याहरणं प्रत्याहारः’ । ‘अद्वि­ती­य­व­स्तुनि अन्त­रि­न्द्रि­य­धा­रणं धारणा’ । ‘तत्रा­द्वि­ती­य­व­स्तुनि विच्छिद्य विच्छि­द्या­न्त­रि­न्द्रि­य­वृ­त्ति­प्र­वाहो ध्यानम्’ । समाधिस्तूक्तः सविकल्पक एव ॥३१॥

एवमस्याङ्गिनो निर्विकल्पकस्य लय­वि­क्षे­प­क­षा­य­र­सा­स्वा­द­ल­क्ष­णा­श्च­त्वारो विघ्नाः सम्भवन्ति । लय­स्ता­व­द­ख­ण्ड­व­स्त्व­न­व­ल­म्ब­नेन चित्त­वृ­त्ते­र्निद्रा । अख­ण्ड­व­स्त्व­न­व­ल­म्ब­नेन चित्त­वृ­त्ते­र­न्या­व­ल­म्बनं विक्षेपः । लय­वि­क्षे­पा­भा­वेऽपि चित्तवृत्तेः रागादिवासनया स्तब्धी­भा­वा­द­ख­ण्ड­व­स्त्व­न­व­ल­म्बनं कषायः । अख­ण्ड­व­स्त्व­न­व­ल­म्ब­ने­नापि चित्तवृत्तेः सवि­क­ल्प­का­न­न्दा­स्वा­दनं रसास्वादः । समाध्यारम्भसमये सवि­क­ल्प­का­न­न्दा­स्वा­दनं वा ॥३२॥

अनेन विघ्नचतुष्टयेन विरहितं चित्तं निर्वातदीपवदचलं सद­ख­ण्ड­चै­त­न्य­मा­त्र­म­व­ति­ष्ठते यदा तदा निर्विकल्पकः समा­धि­रि­त्यु­च्यते । यदुक्तम् -
‘लये सम्बोधयेच्चितं विक्षिप्तं शमयेत्पुनः ।
सकषायं विजा­नी­या­त्स­म­प्राप्तं न चालयेत् ॥

नास्वादयेद्रसं तत्र निःसङ्गः प्रज्ञया भवेत्’(गौडपादकारिका ३ । ४४-४५) इति च, ‘यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता’(भ. गी. ६ । १९) इति च ॥३३॥

अथ जीव­न्मु­क्त­ल­क्ष­ण­मु­च्यते । जीवन्मुक्तो नाम स्वस्व­रू­पा­ख­ण्ड­ब्र­ह्म­ज्ञा­नेन तद­ज्ञा­न­बा­ध­न­द्वारा स्वस्व­रू­पा­ख­ण्ड­ब्र­ह्मणि साक्षा­त्कृ­तेऽ­ज्ञा­न­त­त्का­र्य­स­ञ्चि­त­क­र्म­सं­श­य­वि­प­र्य­या­दी­ना­मपि बाधि­त­त्वा­द­खि­ल­ब­न्ध­र­हितो ब्रह्मनिष्ठः । ‘भिद्यते हृद­य­ग्र­न्थि­श्छि­द्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥’
(मुं. उ. २ । २ । ९) इत्यादिश्रुतेः ॥३४॥

अयं तु व्युत्थानसमये मांस­शो­णि­त­मू­त्र­पु­री­षा­दि­भा­ज­नेन शरी­रे­णा­न्ध्य­मा­न्द्या­प­टु­त्वा­दि­भा­ज­नेन इन्द्रि­य­ग्रा­मे­णा­श­ना­पि­पा­सा­शो­क­मो­हा­दि­भा­ज­ने­ना­न्तः­क­र­णेन च पूर्व­पू­र्व­वा­स­नया क्रियमाणानि कर्माणि भुज्यमानानि ज्ञाना­वि­रु­द्धा­र­ब्ध­फ­लानि च पश्यन्नपि बाधि­त­त्वा­त्प­र­मा­र्थतो न पश्यते । यथेन्द्रजालमिति ज्ञान­वां­स्त­दि­न्द्र­जालं पश्यन्नपि परमार्थमिदमिति न पश्यति । ‘सच­क्षु­र­च­क्षु­रिव सकर्णोऽकर्ण इव’ इत्यादिश्रुतेः । उक्तञ्च -
‘सुषु­प्त­व­ज्जा­ग्रति यो न पश्यति द्वयं च पश्यन्नपि चाद्वयत्वतः ॥
तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीह निश्चयः ॥’ इति (उपदेशसाहस्री ५) ॥३५॥

अस्य ज्ञानात्पूर्वं विद्य­मा­ना­ना­मे­वा­हा­र­वि­हा­रा­दी­ना­म­नु­वृ­त्ति­व­च्छु­भ­वा­स­ना­ना­मे­वा­नु­वृ­त्ति­र्भ­वति शुभा­शु­भ­यो­रौ­दा­सीन्यं वा । तदुक्तम् -
‘बुद्धा­द्वै­त­स­त­त्त्वस्य यथेष्टाचराणं यदि ।
शुनां तत्त्वदृशाञ्चैव को भेदोऽशुचिभक्षणे ॥’ इति (नैष्क­र्म्य­सिद्धिः ४ । ६२), ‘ब्रह्मवित्तं तथा मुक्त्वा स आत्मज्ञो न चेतरः ॥’ इति च (उपदेशसाहस्री ११५) ॥३६॥

तदा­नी­म­मा­नि­त्वा­दीनि ज्ञान­सा­ध­ना­न्य­द्वे­ष्ट्ट­त्वा­दयः सद्गु­णा­श्चा­ल­ङ्का­र­व­द­नु­व­र्तन्ते । तदुक्तम् -
‘उत्प­न्ना­त्मा­व­बो­धस्य ह्यद्वे­ष्ट्ट­त्वा­दयो गुणाः ।
अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥’ इति (नैष्क­र्म्य­सिद्धिः ४ । ६९) ॥३७॥

किं बहुनायं देह­या­त्रा­मा­त्रा­र्थ­मि­च्छा­नि­च्छा­प­रे­च्छा­प्रा­पि­तानि सुख­दुः­ख­ल­क्ष­णा­न्या­र­ब्ध­फ­ला­न्य­नु­भ­व­न्न­न्तः­क­र­णा­भा­सा­दी­नाम् अवभासकः संस्तदवसाने प्रत्य­गा­न­न्द­प­र­ब्र­ह्मणि प्राणे लीने सत्य­ज्ञा­न­त­त्का­र्य­सं­स्का­रा­णा­मपि विना­शा­त्प­र­म­कै­व­ल्य­मा­न­न्दै­क­र­स­म­खि­ल­भे­द­प्र­ति­भा­स­र­हि­तम् अख­ण्ड­ब्र­ह्मा­व­ति­ष्ठते । ‘न तस्य प्राणा उत्क्रामन्ति’(बृ. उ. ४ । ४ । ६) , ‘अत्रैव समवनीयन्ते’(बृ. उ. ३ । २ । ११) , ‘विमुक्तश्च विमुच्यते’(क. उ. ५ । १) इत्यादिश्रुतेः ॥३८॥

॥ इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य-स­दा­न­न्द­यो­गी­न्द्र-वि­र­चितो वेदान्तसारनामको ग्रन्थः समाप्तः ॥