अद्वैतशारदा

विवरणप्रमेयसङ्ग्रहः

अथ प्रथमं सूत्रम्

स्वमा­त्र­याऽऽ­न­न्द­य­दत्र जन्तून् सर्वात्मभावेन तथा परत्र ।
यच्छ­ङ्क­रा­न­न्द­पदं हृदब्जे विभ्राजते तद्यतयो विशन्ति ॥ १ ॥
भाष्यटीकाविवरणं तन्नि­ब­न्ध­न­स­ङ्ग्रहः ।
व्याख्या­न­व्या­ख्ये­य­भा­व­क्ले­श­हा­नाय रच्यते ॥ २ ॥
नित्य­स्वा­ध्या­य­वि­धि­तोऽ­धीत्य वेदान्तमस्य ये ।
संशेरतेऽर्थे ते सूत्र­भा­ष्या­दि­ष्व­धि­का­रिणः ॥ ३ ॥

अथ प्रथमं वर्णकम्

नित्यो हि “स्वाध्या­योऽ­ध्ये­तव्यः” इत्यध्ययनविधिः “ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च” इति वचनात् । काम्यत्वे हि वेदा­ध्य­य­न­स्याऽ­न्यो­न्या­श्र­यता – अर्थावबोधे सति कामना, कामनायां सत्यां षड­ङ्गो­पे­त­वे­दा­ध्य­य­न­प्र­वृ­त्त­स्याऽ­र्था­व­बोध इति । अतः सर्वोऽपि नित्यविधिबलादेव षडङ्गसहितं वेदमधीत्याऽर्थं जानाति । कश्चित् पुण्य­पु­ञ्ज­प­रि­पा­क­व­शा­न्नि­र­ति­श­य­पु­रु­षा­र्थ­प्रे­प्सायां तदुपायं वेदेऽ­न्वि­ष्ये­द­म­व­ग­च्छति – “आत्मनस्तु कामाय सर्वं प्रियं भवति” इत्या­त्म­शे­ष­त­यै­वाऽ­न्यस्य सर्वस्य प्रिय­त्वो­क्ते­रा­त्म­व्य­ति­रि­क्तात् सर्वस्माद् विरक्तोऽधिकारी, “आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विज्ञातम्” इत्युपक्रम्य “एतावदरे खल्वमृतत्वम्” इत्युपसंहारात् पर­म­पु­रु­षा­र्थ­भू­त­स्याऽ­मृ­त­त्व­स्याऽऽ­त्म­द­र्श­नो­पा­यत्वं प्रति­पा­द्य,द­र्श­नस्य चाऽपु­रु­ष­त­न्त्र­स्याऽ­वि­धे­य­त्वात् “आत्मा वा अरे द्रष्टव्यः” इत्या­त्म­द­र्श­न­म­नूद्य तदुपायत्वेन “श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः” इति मन­न­नि­दि­ध्या­स­नाभ्यां फलो­प­का­र्य­ङ्गाभ्यां सह श्रवणं नमाऽङ्गि विधीयत इति । ननु षड­ङ्गो­पे­त­वे­दा­ध्या­यिनः सत्यपि वेदार्थावगमे विचारमन्तरेण तात्प­र्या­न­व­ग­मान्न तेनाऽवगतोऽर्थः श्रुत्यभिप्रेतो भवितुमर्हतीति चेद्, मैवम्; एत­च्छ्रु­ति­ता­त्प­र्य­स्यैव पुराणेषु प्रति­पा­दि­त­त्वात् । तथा हि –
“श्रोतव्यः श्रुति­वा­क्येभ्यो मन्त­व्य­श्चो­प­प­त्तिभिः ।
ज्ञात्वा च सततं ध्येय एते दर्शनहेतवः ॥ १ ॥
तत्र ताव­न्मु­नि­श्रेष्ठाः ! श्रवणं नाम केवलम् ।
उप­क्र­मा­दि­भि­र्लिङ्गैः शक्ति­ता­त्प­र्य­नि­र्णयः ॥ २ ॥
सर्व­वे­दा­न्त­वा­क्या­ना­मा­चा­र्य­मु­खतः प्रियात् ।
वाक्या­नु­ग्रा­ह­का­न्या­य­शी­लनं मननं भवेत् ॥ ३ ॥
निदि­ध्या­स­न­मै­काग्र्यं श्रवणे मननेऽपि च ।
निदि­ध्या­स­न­संज्ञं च मननं च द्वयं बुधाः! ॥ ४ ॥
फलोपकारकाङ्गं स्यात् तेनाऽसम्भावना तथा ।
विपरीता च निर्मूलं प्रविनश्यति सत्तमाः! ॥ ५ ॥
प्राधान्यं मन­ना­द­स्मि­न्नि­दि­ध्या­स­न­तोऽपि च ।
उत्प­त्ता­व­न्त­रङ्गं हि ज्ञानस्य श्रवणं बुधाः! ॥ ६ ॥
तट­स्थ­म­न्य­व्या­वृत्त्या मननं चिन्तनं तथा ।
इति­क­र्त­व्य­को­टिस्थाः शान्ति­दा­न्त्या­दयः क्रमात् ॥ ७ ॥
ततः सर्वा­ङ्ग­नि­ष्ठस्य प्रत्य­ग्ब्र­ह्मै­क्य­गो­चरा ।
या वृत्तिर्मानसी शुद्धा जायते वेदवाक्यतः ॥ ८ ॥
तस्यां या चिदभिव्यक्तिः स्वतःसिद्धा च शाङ्करी ।
तदेव ब्रह्मविज्ञानं तदे­वाऽ­ज्ञा­न­ना­श­नम् ॥ ९ ॥
प्रत्य­ग्ब्र­ह्मै­क्य­रूपा या वृत्तिः पूर्णाऽभिजायते ।
शब्द­ल­क्ष­ण­सा­मग्र्या मानसी सुदृढा भृशम् ॥ १० ॥
तस्याश्च द्रष्टृभूतश्च प्रत्यगात्मा स्वयम्प्रभः ।
स्वस्य स्वभावभूतेन ब्रह्मभूतेन केवलम् ॥ ११ ॥
स्वयं तस्या­म­भि­व्य­क्त­स्त­द्रू­पेण मुनीश्वराः! ।
ब्रह्म­वि­द्या­स­मा­ख्य­स्त­द­ज्ञानं चित्प्रकाशितम् ॥ १२ ॥
प्रतीत्या केवलं सिद्धं दिवा­भी­ता­न्ध­का­र­वत् ।
अभूतं वस्तुगत्यैव स्वात्मना ग्रसते स्वयम् ॥ १३ ॥
स्वात्म­नाऽ­ज्ञा­न­त­त्कार्यं प्रसन्नात्मा स्वयं बुधाः ! ।
स्वपू­र्ण­ब्र­ह्म­रू­पेण स्वय­मे­वाऽ­व­शि­ष्यते ॥ १४ ॥
एवं रूपावशेषस्तु स्वानु­भू­त्ये­क­गो­चरः ।
येन सिद्ध्यति विप्रे­न्द्रा­स्तद्धि विज्ञानमैश्वरम् ॥ १५ ॥ ”
नन्वेवमपि श्रवणस्य विधिर्नोपपद्यते । तथा हि – स किं ज्योति­ष्टो­मा­दे­रि­वाऽ­पू­र्व­विधिः ? उताऽ­व­घा­ता­दि­व­न्नि­य­म­विधिः ? किं वा “पञ्च पञ्चनखा भक्ष्याः” इत्यादिवत् परिसङ्ख्याविधिः ? नाऽऽद्यः, वेदा­न्त­श्र­व­णा­दीनां दृष्ट­फ­ल­ब्र­ह्म­ज्ञानं प्रति साध­न­त्व­स्याऽ­न्व­य­व्य­ति­रे­काभ्यां सिद्धत्वात्; प्रसिद्धं हि लोके वैद्य­शा­स्त्र­श्र­व­णस्य तद्विषयावगमं प्रति साधनत्वम् । न द्वितीयः, नियमादृष्टस्य कल्पकाभावात् । अवघातादौ तु निय­मा­दृ­ष्ट­ज­न्य­प­र­मा­पू­र्व­मेव एतत्कल्पकम् । न च ब्रह्म­ज्ञा­न­म­दृ­ष्ट­ज­न्यम्, केव­ल­व्य­ति­रे­का­भा­वात् । न हि वेदान्तश्रवणादौ सत्यपि निय­मा­दृ­ष्टा­भा­वा­प­रा­धेन ब्रह्म­ज्ञा­ना­नु­त्प­त्ति­र्दृ­ष्ट­चरी । ज्ञानस्य कथ­ञ्चि­द­दृ­ष्ट­ज­न्य­त्वेऽ­प्ययं विधि­र्भा­ष्य­वि­रुद्धः, सम­न्व­य­सू­त्र­व्या­ख्याने महता प्रयत्नेन विधिनिराकरणात् । अन्यथा वेदान्तानां विधिपरत्वं ब्रह्मपरत्वं चेति वाक्य­भे­द­प्र­सङ्गः । नाऽपि तृतीयः, पञ्च­न­खा­प­ञ्च­न­ख­भ­क्ष­ण­यो­र­न्यतः प्राप्ता­व­न्य­प­रि­व­र्ज­न­व­दा­त्म­सा­क्षा­त्का­र­स्यो­प­नि­ष­द­ति­रि­क्तात् प्राप्त्य­स­म्भ­वात् । तस्मात् नास्ति श्रवणविधिरिति ।अत्रोच्यते – दृष्टफलस्याऽपि धर्मज्ञानस्य साधनेऽध्ययने निय­मा­वि­धि­स्ता­व­द­ङ्गी­कृत एव । यदा त्वर्वा­ची­न­पु­रु­षार्थे परोक्षे धर्म­ज्ञा­नेऽ­प्ये­वम्, तदा किमु वक्तव्यं पर­म­पु­रु­षा­र्थ­ब्र­ह्म­सा­क्षा­त्का­र­सा­धने श्रवणे नियमविधिरिति ? यद्यध्ययने नियमादृष्टजन्यं यागीयापूर्वं तत्कल्पकं स्यात्, तर्हि श्रवणेऽपि ब्रह्मज्ञानं तत्कल्पकमस्तु, ब्रह्मज्ञानस्य सर्वा­दृ­ष्ट­ज­न्य­त्वात्; “सर्वं कर्माऽखिलं पार्थ! ज्ञाने परिसमाप्यते” इति स्मरणात् । अत्र हि प्रसि­द्ध­या­गा­दी­ने­वाऽ­पेक्ष्य सर्वग्रहणमिति भ्रमं व्युदस्य श्रवणादेरपि सङ्ग्र­हा­यै­वाऽ­खि­ल­मि­त्यु­क्तम्, अन्यथा पौनरुक्त्यात् । “योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥”(मनुस्मृ २/१६८) इत्यकरणे प्रत्य­वा­य­म­पेक्ष्य विध्यङ्गीकारे प्रकृतेऽपि तथाऽस्तु ।
“नित्यं कर्म परित्यज्य वेदान्तश्रवणं विना ।
वर्तमानस्तु सन्यासी पतत्येव न संशयः ॥”
इति प्रत्य­वा­य­सं­स्म­र­णात् । ननु ब्रह्मज्ञाने श्रव­णा­दी­ना­म­न्व­य­व्य­ति­रे­का­दिना नास्ति साध­न­भा­व­प्राप्तिः; निर्विशेषस्य ब्रह्मणो वेदा­न्तै­क­स­म­धि­ग­म्य­त्वात्, तत्कथं नियमसिद्धिः ? मैवम्; “व्रीहीनवहन्ति” इत्यत्र शास्त्रै­क­ग­म्या­पू­र्वी­य­व्री­हि­ष्व­न्यतो दल­ना­द्य­प्रा­प्ता­वपि अवघाते यथा नियमः, तथा श्रवणेऽपि पाक्षि­क­त्व­म­न्त­रे­णैव नियमोऽस्तु । अथ व्रीहि­मा­त्र­सा­धा­र­णा­का­रेण प्राप्ति­म­पेक्ष्य तत्र नियमः ? तदत्राऽपि समानम्, विष­य­ज्ञा­न­मा­त्र­सा­धा­र­णा­का­रस्य सुवचत्वात् । अथाऽ­व­घा­तेऽ­पू­र्व­वि­धि­रेव सन् फलतो नियम इति व्यवह्रियते, श्रवणेऽपि तथा भविष्यति । न च भाष्यविरोधः, दर्शनविधेरेव तत्र निराकरणात् । दर्शनविधाने हि “प्रकृ­ति­प्र­त्ययौ प्रत्ययार्थं सह ब्रूतः प्राधान्येन” इति न्यायेन प्रत्ययार्थस्य नियोगस्यैव प्राधान्याद् दर्शनस्य प्रकृत्यर्थतया गुणभूतत्वेन तद्विशेषणस्य ब्रह्मणोऽपि सुतरां गुणभावः स्यात्; ततो न वेदा­न्तै­र्ब्रह्म सिध्येत् । फलत्वेन प्रधानं ब्रह्म­द­र्श­न­मु­द्दिश्य श्रवणविधाने तु न कोऽपि दोषः । वाक्यभेदश्च किमे­क­दे­शि­नाऽऽ­पा­द्यते किं वा तान्त्रिकेण ? नाऽऽद्यः, वेदा­न्तेऽ­प्य­वा­न्त­र­वा­क्य­भे­देन “विविदिषन्ति यज्ञेन” इत्यत्र ज्ञानसाधनत्वेन यज्ञा­दि­वि­ध्य­ङ्गी­का­रात् । न द्वितीयः, प्रेता­ग्नि­हो­त्र­प्र­क­रणे “अधस्तात् समिधं धार­य­न्न­नु­द्र­वेत्” इत्यधोधारणं विधाय “उपरि हि देवेभ्यो धारयति” इति पठितम् । तत्र दैवि­क­मु­प­रि­धा­र­ण­म­न्य­प्र­क­र­ण­मध्ये श्रुतमपि विधेयमिति “विधिस्तु धार­णेऽ­पू­र्व­त्वात्” इत्यधिकरणे निर्णीतत्वात् । अथ कथ­ञ्चि­दे­त­द­धि­क­रणं प्रभाकरो नाऽङ्गीकुर्यात् तथापि दर्श­पू­र्ण­मा­स­प्र­क­रणे “तिस्रो रात्रीर्व्रतं चरेत्” इति रजस्वलाया व्रत­क­ला­प­वि­धि­म­ङ्गी­क­रो­त्येव । तस्माद् ब्रह्म­प्र­क­र­णेऽपि श्रवणं विधीयतां का तव हानिः ? अथ व्रतकलापस्य प्रक­र­णा­न्व­या­स­म्भ­वा­द­गत्या वाक्य­भे­दा­श्र­य­णम्, इह तु तव्य­प्र­त्य­य­स्याऽ­र्हा­र्थ­त्वे­नाऽ­प्य­न्व­य­स­म्भ­वान्न तद्युक्तमिति तवाऽऽपरितोषः, तर्हि “तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य” इत्यादि वाक्यं श्रव­णा­दि­वि­धा­य­क­मस्तु, तस्याऽ­ना­र­भ्याऽ­धी­त­त्वे­नो­क्त­वि­रो­धा­भा­वात् । आपाततः श्रव­णा­द्य­प्र­ती­ता­वपि वाक्यपर्यालोचने वाक्यस्य श्रव­णा­दि­वि­धि­प­र­त्वात् । सूत्रकारेणैव “सह­का­र्य­न्त­र­विधिः” इति सूत्रे पाण्डि­त्य­बा­ल्ययोः श्रव­ण­म­न­न­रू­प­त्वेन विधिं सिद्धवत्कृत्य “अथ मुनिः” इति वाक्यशेषे निदि­ध्या­स­न­रू­प­त्वेन मौनस्य विधि­त्व­प्र­ति­पा­द­नाद् असा­म्प्र­दा­यि­कत्वं दूरापास्तम् । ननु एवमपि अधीत्य स्वाध्या­ये­नाऽ­व­ग­तस्य “श्रोतव्यः” इत्यस्य श्रव­ण­वि­धे­र­नु­प­प­त्ति­स्त­द­व­स्थै­वेति चेत्, न; तव्यप्रत्ययस्य विधावपि स्मरणात् । “तद्वि­जि­ज्ञा­सस्व” इत्यादिषु समानप्रकरणेषु श्रुत्यन्तरेषु श्रवणस्य अवश्यं वाक्यभेदेन विधे­र­ङ्गी­क­र्त­व्य­तया त्वदपरितोषस्य निरवकाशत्वात् । न चैकस्यामेव शाखायां “श्रोतव्यः” “पाण्डित्यं निर्विद्य” इति श्रवणविधिद्वयं पुनरुक्तमिति वाच्यम्, एकत्र विधायाऽपरत्र विधिमनूद्य विशेषकथनात् । अथवा यथा द्विर्मै­त्रे­यी­ब्रा­ह्म­ण­म­पु­न­रु­क्तम्, एक­स्यो­प­सं­हा­र­रू­प­त्वात्; तथा द्विःश्र­व­ण­वि­धि­र्भ­वतु । तस्मात् उपपद्यत एव श्रोतव्य इति विधिः ॥ १ ॥

तत्र श्रवणं नाम वेदान्तवाक्यानि विचार्य “उप­क्र­मा­दि­भि­र्लि­ङ्गै­र्वा­क्य­ता­त्प­र्य­नि­र्णयः” इति पुरा­ण­व­च­ने­नो­क्तम् । तथा च विर­क्ते­नाऽ­धि­का­रि­णाऽ­मृ­त­त्व­सा­ध­न­भू­ता­त्म­द­र्श­नाय वेदा­न्त­वा­क्य­वि­चारः कर्तव्य इति । एवं ताव­द­धी­त­स्वा­ध्यायः पुमान् वेदादेवाऽवगत्य पश्चादेवं सन्दिग्धे – किं वैरा­ग्य­मा­त्र­म­धि­का­रि­वि­शे­ष­णम् उताऽन्यदप्यस्ति ? नानाविशेषणेषु तद्वि­शि­ष्टा­धि­का­रिणि च किं प्रमाणम् ? वेदा­न्त­वा­क्य­वि­चा­रश्च धर्मविचारेणैव गतो न वा ? कथं वा वेदान्तवाक्यानि विचार्याणि? किं लक्ष­ण­मा­त्म­त­त्त्वम् ? तस्मिंश्च किं प्रमाणम् ? तस्य च प्रमाणस्याऽस्ति केनचिद् विरोधो न वा ? तत्त्व­गो­च­र­ज्ञानं च किं कर्मभिः समु­च्चि­त्याऽ­मृ­त­त्व­सा­ध­नम् उत केवलमेव ? केवलस्य साधनत्वे वा किं प्रमाणम् ? कीदृशममृतत्वं किं प्रमाणकं चेति । त एते सन्देहा अन्येऽ­प्ये­वं­विधा नाना­वि­धै­र्न्या­यै­र्नि­र्णे­तव्याः । तांश्च न्यायान् पर­म­कृ­पा­लु­र्भ­ग­वान् बादरायणः सूत्रयितुकामः प्रथमतः “श्रोतव्यः” इति वाक्ये प्रति­प­न्न­म­धि­का­रि­वि­ष­य­फ­ला­ख्या­नु­ब­न्ध­त्र­यो­पेतं विधिं न्यायेन निर्ण­यं­स्त­द­र्थ­भू­त­वि­चा­र­क­र्त­व्यतां वक्ष्य­मा­ण­कृ­त्स्न­शा­स्त्र­प्र­वृ­त्ति­हे­तु­त्वे­नो­पो­द्घा­त­भूतां सूत्रयामास – “अथातो ब्रह्मजिज्ञासा” इति । तत्र “आत्मनस्तु कामाय” इति वाक्ये विर­क्त्यु­प­ल­क्षि­त­सा­ध­न­च­तु­ष्ट­य­स­म्पन्नो य एवाऽधिकारी प्रतीयते स एव अथशब्दार्थः । “अमृतत्वस्य तु नाशास्ति वित्तेन” इति वाक्ये वित्तो­प­ल­क्षि­त­लौ­कि­क­वै­दि­क­क­र्म­भि­र­मृ­तत्वं नास्तीति यदुक्तं तदेवाऽतःशब्देन हेतूक्रियते । “आत्मनि खलु” इत्यादिना वाक्ये­नाऽ­मृ­त­त्व­सा­ध­ना­त्म­द­र्श­नाय वेदा­न्त­वा­क्य­वि­चा­र­रूपं श्रवणं कर्त­व्य­मि­त्यु­क्तम् । तत्सर्वं ब्रह्म­जि­ज्ञा­सा­प­दे­नाऽ­व­ग­न्त­व्यम् । नन्वेतत् सूत्रं विधायकमनुवादकं वा ? नाऽऽद्यः, लिङ् - लोट् - तव्य­प्र­त्य­या­ना­म­द­र्श­नात् । नेतरः, अप्र­व­र्त­के­नाऽ­नेन श्रव­ण­वि­ध्य­स­ङ्ग्र­ह­प्र­स­ङ्गात्, मैवम्; “कर्तव्या” इत्य­ध्या­हा­र्य­त्वात् । ज्ञाने­च्छ­यो­र्व­स्तु­त­न्त्रयोः कर्तु­म­श­क्य­त्वात् अध्याहृतेन जिज्ञासापदं नाऽन्वियदिति चेत्, तर्ह्य­न­यै­वाऽ­नु­प­पत्त्या जिज्ञा­सा­प­दे­नाऽ­नु­ष्ठा­न­योग्यो विचारो लक्ष्यताम् । अवि­ना­भा­व­स­म्ब­न्धश्च सन्दं­श­न्या­य­प्र­सा­दात् सुसम्पादः । सन्दष्टो हि ज्ञानेच्छाभ्यां विचारः । प्रथमत इच्छायां सत्यां विचारे सति पश्चादेव ज्ञानोत्पत्तेः । न च वाच्यं लक्षणायां विचाराख्यो विषयानुबन्ध एव सिद्ध्येत् न ब्रह्म­ज्ञा­नाख्यः फलानुबन्ध इति, अजहल्लक्षणया स्वार्थस्याऽपि स्वीकृतत्वात् । ब्रह्म­ज्ञा­न­ज­न­क­त्वा­न्य­था­नु­प­पत्त्या विचारस्य वेदा­न्त­वा­क्य­वि­ष­यत्वं लभ्यते । न ह्यन्य­वि­चा­र­काणां ब्रह्म­ज्ञा­न­मु­प­ल­भा­महे । फल­त्वा­न्य­था­नु­प­पत्त्या ब्रह्मज्ञानस्य मोक्ष­सा­ध­न­त्व­सिद्धिः । अधि­का­रि­भि­रि­ष्य­माणं हि फलम् । अत्र हि साध­न­च­तु­ष्ट­य­स­म्पन्ना अधिकारिणो निःशे­ष­दुः­खो­च्छि­त्ति­नि­र­ति­श­या­न­न्दा­वाप्ती तत्साधनं च विहाय नान्यदिच्छन्ति । तत्त्वज्ञानस्य दुःखो­च्छे­दा­न­न्दा­वा­प्ति­रू­प­त्वा­स­म्भ­वेन परि­शे­षा­त्त­त्सा­ध­न­त्वम् । तदेवं साध­न­च­तु­ष्ट­य­स­म्प­न्नस्य कर्म­भि­र्मो­क्षा­सि­द्धे­र्मो­क्ष­सा­ध­न­ब्र­ह्म­ज्ञा­नाय वेदा­न्त­वा­क्य­वि­चारः कर्तव्य इति श्रुतार्थः समग्रोऽपि सूत्रे सङ्गृहीतः । एवं शास्त्र­प्र­वृ­त्ति­हे­तुत्वं च विचा­र­क­र्त्त­व्य­ताया अन्व­य­व्य­ति­रे­क­सि­द्धम् । सति ह्यनु­ब­न्ध­त्र­यो­पेते विधौ पुरुषाः प्रवर्तन्ते, ज्योतिष्टोमादौ तथा दर्शनात् । असति तु न प्रवर्तन्ते, सप्तद्वीपा वसुमतीत्यादौ प्रवृ­त्त्य­द­र्श­नात् । सा च विचा­र­क­र्त्त­व्यता वक्ष्य­मा­ण­शा­स्त्र­प्र­वृ­त्ति­हे­तु­भूता प्रथ­म­सू­त्रे­णाऽ­ने­नेत्थं निर्णीयते – विमतं शास्त्र­मा­र­म्भ­णी­यम्, सम्भा­वि­त­वि­ष­य­प्र­यो­ज­न­त्वात्, कृष्यादिवदिति । न च सूत्रे विष­य­प्र­यो­ज­ना­नु­पा­दा­ना­न्नाऽयं विषयः सूत्रसिद्ध इति शङ्कनीयम्, मुख­तोऽ­नु­पा­दा­नेऽ­प्य­र्थात् सूचितत्वात् । सूत्रस्य हि सूचनमलङ्कारः, न तु दोषाय । तत्र तावद् “जन्माद्यस्य यतः” इत्या­दि­शा­स्त्रेण विचार्याणां वेदान्तानां “स वा अयमात्मा ब्रह्म” इत्या­दि­श्रु­ति­प्र­सिद्धं ब्रह्मा­त्मै­कत्वं विषयः । तच्चै­क­त्व­म­ख­ण्डै­क­र­स­व­स्तु­प्र­ति­पा­द­केन ब्रह्मशब्देन सूत्रे सूत्रितम् । “तरति शोकमात्मवित्” “ब्रह्म­वि­दा­प्नोति परम्” इत्या­दि­श्रु­ति­प्र­सिद्धं दुःखो­च्छे­द­ब्र­ह्म­प्राप्ती प्रयोजनम् । ते च तत्सा­ध­न­भू­त­ब्र­ह्म­ज्ञा­न­नि­र्द्दे­शात् सूत्रिते एव । न केवलं सूत्रकारो विषयप्रयोजने सूत्रितवान्, किन्तु तयोरुपपादनं चैवमभिप्रेयाय – विमतं शास्त्रं सम्भा­वि­त­वि­ष­य­प्र­यो­ज­नम्, अवि­द्या­त्म­क­ब­न्ध­प्र­त्य­नी­क­त्वात्, जाग्रद्बोधवदिति ।

न च बन्ध­स्याऽ­वि­द्या­त्म­क­त्व­म­सू­त्र­सू­चि­त­मिति वाच्यम्, बन्धस्य ज्ञान­नि­व­र्त्य­त्वा­ङ्गी­का­रे­णैव तत्सूचनात् । तथा हि – निःशे­ष­दुः­ख­नि­व­र्त­कत्वं तावद् ब्रह्मज्ञानस्य फलत्वसिद्धये सूत्र­का­रे­णाऽ­ङ्गी­कृ­तम् । प्रमा­तृ­त्व­क­र्तृ­त्व­भो­क्तृ­त्वा­दि­ब­न्धश्च सर्वोऽपि दुःखबीजत्वाद् दुःखमेव । तत्र विचारणीयम् – किमयं बन्धः पारमार्थिकः स्याद­पा­र­मा­र्थिको वेति । आद्यो ब्रह्मज्ञानान्न निवर्तेत । ये त्वेकदेश्यादयः पारमार्थिकस्यैव ज्ञाना­न्नि­वृ­त्ति­म­ङ्गी­कु­र्युस्ते प्रष्टव्याः – ज्ञानं स्वविषये वा निवृ­त्त्या­ख्य­म­ति­शयं जनयति स्वाश्रये वा ? आद्येऽपि स्वविषयं संसा­रि­ण­मा­त्मा­न­मेव निवर्तयेद्, उत तद्गतं धर्ममात्रम्, अथवा स्वबो­ध्या­ख­ण्डै­क­र­स­त्व­वि­रो­धिन एव कर्तृत्वादीन्, किं वा विषयगतानवबोधमेव ? न तावत् प्रथ­म­द्वि­ती­य­तृ­तीयाः, न हि नानावर्णे चूतादि फले नीलभागज्ञानं स्वविषयं वा तत्समवेतरसादिकं वा विरोधिनं पीतिमादिगुणं वा निवर्तयति । चतुर्थे त्वस्म­न्म­ता­पत्तिः । आश्र­या­ति­श­य­प­क्षेऽपि किमा­श्र­य­नि­वृत्तिः, किं वा तद्गुणानाम् उता­श्र­य­वि­ष­यो­भ­य­स­म्ब­न्धि­ध­र्मा­णाम् ? नाऽऽद्यः प्रति­क्ष­ण­मा­त्म­वि­ना­शा­पत्तेः । न द्वितीयः, घट­ज्ञा­ने­नाऽऽ­त्म­ग­त­ध­र्मा­दि­गु­णा­नि­वृत्तेः । न तृतीयः, स्वदेहज्ञानेन देहा­त्म­स­म्ब­न्धा­द्य­नि­वृत्तेः । “तमेव विदि­त्वाऽ­ति­मृ­त्यु­मेति” इति श्रुतत्वाद् वास्तवोऽपि बन्धो ज्ञानविवर्त्त्य इति चेद्, न; श्रुते­र्ब­न्ध­स­त्य­त्वा­स­त्य­त्व­यो­स्ता­ट­स्थ्यात् । अस्माभिस्तु श्रुतो­प­प­त्त्यर्थं बन्ध­स्याऽ­वि­द्या­त्मत्वं कल्प्यते । यथा ज्योति­ष्टो­मा­दीनां श्रुतस्य स्वर्ग­सा­ध­न­त्व­स्यो­प­प­त्त्य­र्थ­म­पूर्वं भवद्भिः कल्प्यते तद्वत् । अथ तत्र क्षणिकानां कर्मणां काला­न्त­र­भा­वि­फ­ल­सा­ध­न­त्वा­भा­व­व्या­प्ति­नि­यमः कल्पकोऽस्ति, तर्हीहाऽपि “ज्ञान­म­ज्ञा­न­स्यैव निवर्तकम्” इति व्याप्तिनियमः कल्पकोऽस्तु । अतोऽ­पा­र­मा­र्थि­क­त्व­म­व­शि­ष्यते बन्धस्य । तदेवं ब्रह्म­ज्ञा­न­नि­व­र्त्यस्य बन्ध­स्याऽ­ज्ञा­ना­त्म­कत्वं सूत्रेणैव सूचितम् । नन्वेवं तद­वि­द्या­त्म­कत्वं सूत्रकारेण मुखत एव वर्णनीयम्, विष­य­प्र­यो­ज­न­सा­ध­न­द्वारा कृत्स्न­शा­स्त्रा­र­म्भ­स­म­र्प­क­त्वात् । मुख­तोऽ­प्र­ति­पा­द­नेऽ­ता­त्प­र्य­प्र­सङ्ग इति चेत्, तर्हि वर्णि­त­मे­वै­त­न्मु­खतो द्वितीयाध्याये “तद्गु­ण­सा­र­त्वात्" इत्यादिसूत्रे । सूत्रस्य चाऽयमर्थः – आत्मनो देहो­त्क्रा­न्ति­प­र­लो­क­ग­त्ये­त­ल्लो­का­ग­तीनां श्रुतत्वात् सर्वगतत्वं विरुद्धमिति चेद्, बुद्धि­गु­ण­सा­र­त्वात् । बुद्ध्या­त्म­नो­रि­त­रे­त­र­ता­दा­त्म्या­ध्या­सेन बुद्धि­गु­णे­ष्वे­वो­त्क्रा­न्त्या­दिषु सर्व­ग­त­स्याऽऽ­त्म­नोऽ­भि­मा­न­मात्रं जायते । तच्च श्रुत्याऽ­नू­द्यते – निज­स्व­रू­प­बो­ध­ना­येति । तर्हि कृत्स्न­शा­स्त्रा­रम्भं प्रत्यु­पो­द्घा­त­त्वात् प्रथ­म­मे­वाऽ­ध्या­स­वि­षयं सूत्रं प्रणेतव्यम् । उपोद्घातश्च प्रतिपाद्यमर्थं बुद्धौ सङ्गृह्य प्रागेव तद­र्थ­म­र्था­न्त­र­व­र्ण­न­मिति चेद्, न; प्रतिपादने प्रवृत्तेन सूत्रकारेण विरो­ध­प­रि­हा­र­सू­त्रस्य प्रथमतो वक्तु­म­श­क्य­त्वात् । प्रतिपाद्यं मुखतः प्रतिज्ञाय पश्चात् तत्सि­द्धि­हे­तु­प्र­द­र्शनं प्रतिपादनम् । तथा च प्रथ­मे­नाऽ­ध्या­येन ब्रह्मणि वेदान्तसमन्वयं प्रदर्श्य तदुपपादको विरोधपरिहारः पश्चात् कर्तव्यः । प्रथ­म­म­प्र­द­र्शिते पुनः समन्वयविशेषे तद्विरोधाशङ्का तन्निराकरणं च निर्विषयं स्यात् । नन्वे­व­मा­दा­व­ध्या­सा­नुक्तौ विष­य­प्र­यो­ज­ना­सिद्ध्या शास्त्र­प्र­वृ­त्तिर्न स्याद्, मैवम्; प्रथ­म­सू­त्रेऽ­ध्यासः साक्षा­द­नु­क्तोऽ­प्य­र्थात् सूचित इत्यु­प­पा­दि­त­त्वात् सिध्यत्येव शास्त्र­प्र­वृत्तिः ॥ २ ॥

ननु सूत्र­सू­चि­तोऽ­प्य­ध्यासो न युक्तिसहः । तथा हि – आत्मानात्मानौ इत­रे­त­र­ता­दा­त्म्या­ध्या­स­र­हितौ, क्वाऽपी­त­रे­त­र­भा­व­र­हि­त­त्वात्, तमःप्रकाशवत् । न च हेत्वसिद्धिः, विमतौ तादा­त्म्य­शून्यौ, विरु­द्ध­स्व­भा­व­त्वात्, तमःप्रकाशवत् । न चाऽसिद्धो हेतुः, विमतौ विरुद्धस्वभावौ, युष्म­द­स्म­त्प्र­त्य­य­गो­च­र­त्वाद्, देव­द­त्त­त­द्वै­रि­वत् । न च वाच्यं देवदत्तस्य स्वश­री­रा­दि­स­ङ्घा­तेऽ­स्म­त्प्र­त्य­य­स्त­त्रैव तद्वैरिणो युष्म­त्प्र­त्ययः; न च तत्र विरोधोऽस्ति । एवं तद्वैरिण्यपि प्रत्य­य­व्य­त्या­सेन योजने दृष्टान्तः साध्यविकलः स्यादिति । न हि भिन्नाश्रययोः प्रत्य­य­यो­र्वि­षयौ दृष्टान्तत्वेन विवक्ष्येते; किं तर्हि समानाश्रययोरिति । न हि प्रत्येकाकारौ दृष्टान्तत्वेन विवक्ष्येते; किं तर्हि देव­द­त्त­प्र­तीत्या तद्वै­रि­प्र­तीत्या च सिद्धः समुदायाकारो दृष्टान्त इति नोक्तदोषः । स्यादेतत् – किमत्र लोक­प्र­सि­द्धा­वा­त्मा­ना­त्मानौ पक्षीक्रियेते ? किं वा प्राभाकरादि सिद्धौ ? उत वेदान्तिसिद्धौ ? नाऽऽद्यः, द्वयोरनुमानयोः सिद्धसाधनत्वात् । तृती­या­नु­मा­न­स्याऽ­नु­भ­व­वि­रो­धात् । लोके हि देहा­दि­चै­त­न्या­न्त­स­ङ्घात आत्मा पाषाणादिरनात्मा । न च तयो­रै­क्या­ध्या­सैक्ये वेदान्त्यभिमते । नाऽपि तयोर्नियतो विरोधोऽनुभूयते । न द्वितीयः, प्राभाकरादयो हि प्रमा­तृ­त्व­क­र्तृ­त्व­भो­क्तृ­त्वा­द्या­श्रयं जडमात्मानमाहुः, इन्द्रि­य­दे­हा­द्य­खि­ल­प्र­प­ञ्च­म­ना­त्मा­नम् । तत्र वेदान्तिमते प्रमा­तृ­त्वा­द्या­श्र­योऽ­ह­ङ्कारो जाड्यं च तत्का­र­ण­म­ज्ञा­न­मि­त्यु­भ­य­म­प्य­ना­त्म­न्ये­वाऽ­न्त­र्भ­वति । तथा चाऽनात्मन एक­को­टे­र­ध्या­स­ता­दा­त्म्य­वि­रो­धा­न­ङ्गी­का­रात् पूर्वोक्तमेव दोषद्वयं स्यात् । न तृतीयः, वेदान्तिनो हि सर्वोपप्लवरहितं विज्ञा­न­घ­न­मा­त्मा­न­मा­हु­स्त­द्व्य­ति­रिक्तं च सर्वमनात्मानम् । तत्र किमेकस्मिन् प्रत्य­य­द्व­य­गो­च­रत्वं हेतुत्वेन विवक्षितम् उताऽऽ­त्म­न्य­स्म­त्प्र­त्य­य­गो­च­र­त्वम् अनात्मनि चेतरदिति । आद्ये स्वरूपासिद्धिः, द्वितीये भागासिद्धिः । देहे­न्द्रि­या­न्तः­क­र­ण­प्रा­णा­दि­ष्व­ना­त्मसु युष्म­त्प्र­त्य­या­भा­वात् । व्यवहारदृष्ट्या तदभावेऽपि शास्त्रदृष्ट्या “चिदवभास्यो युष्मदर्थः” इत्ये­त­ल्ल­क्ष­णा­नु­सा­रे­णाऽ­स्त्येव तत्र युष्मत्प्रत्यय इति चेद्, एवमपि स्वप्रकाशे चिदात्मनि वेदा­न्ति­ना­म­स्म­त्प्र­त्य­या­भा­वात् स दोषस्तदवस्थः । तस्मात् नाऽनु­मा­न­सि­द्धि­रिति । अत्रोच्यते – वेदान्तिनं प्रत्य­स्त्ये­वाऽ­नु­मा­न­सिद्धिः । न चाऽऽत्मनि भागासिद्धिः; स्वप्र­का­श­स्याऽ­प्य­ह­ङ्कारे स्फुट­त­र­व्य­व­हा­र­यो­ग्य­त्वे­नाऽ­स्म­त्प्र­त्य­य­गो­च­र­त्व­स्यो­प­च­रितुं शक्यत्वात् । न चैवं मन्तव्यं देह­द्व­य­सा­क्षि­णो­श्चै­त­न्य­यो­र­न्योन्यं युष्म­द­स्म­द­र्थ­त्वेऽपि विरो­धा­भा­वा­द­नै­का­न्तिक इति; चैतन्यस्य चिद­व­भा­स्य­त्व­ल­क्ष­ण­ल­क्षि­त­यु­ष्म­द­र्थ­त्वा­भा­वात् । तादृश एव चाऽत्राऽ­भि­प्रेतो न तु लौकिकयुष्मदर्थः । तथाऽ­प्ये­ते­नाऽ­नु­मा­नेन प्रत्ययद्वारा विरोधसिद्धिर्न तु स्वरूपेणेति चेत् तर्ह्येवमस्तु – आत्मानात्मानौ विरुद्धस्वभावौ, विष­यि­वि­ष­य­त्वात्, नेत्ररूपवदिति । ननु चिद्रू­प­स्याऽऽ­त्मनो जडरूपमनात्मानं प्रति साध­क­त्वे­नाऽऽ­नु­कू­ल्य­म­नु­भू­यते; अतो वध्य­घा­त­क­भा­व­ल­क्ष­णस्य सहा­व­स्था­न­सा­म­र्थ्या­भा­व­ल­क्ष­णस्य वा विरोधस्य च प्रातिकूल्यस्य प्रसा­ध­नेऽ­नु­भ­व­वि­रोधः तथा दृष्टान्तश्च साध्यविकल इति चेद् मैवम्; भावाभाववत् पर­स्प­रा­त्म­ता­सा­म­र्थ्या­भा­व­ल­क्ष­णस्य विरोधस्य इह विवक्षितत्वात् । कथं तर्हि मध्यानुमाने तमः­प्र­का­श­यो­र्दृ­ष्टा­न्त­त्वम्, तयोः सहा­व­स्था­न­सा­म­र्थ्या­भा­व­ल­क्ष­ण­वि­रो­धस्य प्रसि­द्ध­त्वा­दिति चेत्, मैवम्; मन्दप्रदीपे वेश्मनि तमसो दीपेन सहावस्थानात् । अन्यथा स्फीता­लो­क­प्र­दे­श­व­द­त्राऽपि स्पष्ट­रू­प­द­र्श­न­प्र­स­ङ्गात् । तमः­प्र­का­श­श­ब्दाभ्यां तदेकदेशभूतौ छाया­त­पा­वु­प­ल­क्ष्येते इति चेत्, तथाऽपि छाया­या­मे­क­वि­धायां तार­त­म्ये­नो­प­ल­भ्य­मा­न­मौष्ण्यं स्वधर्मिण आतपस्याऽपि अवश्यमवस्थानं सूचयतीति सहावस्थानं दुर्वारम् । एवमेव तमः­प्र­का­श­श­ब्दाभ्यां लक्षितलक्षणया छायातपस्थयोः शैत्यौष्ण्ययोः स्वीकारेऽपि सहावस्थानं सुसम्पादम् । तस्मात् जाति­व्य­क्त्यो­र्यथा तादा­त्म्य­सा­मर्थ्यं नैवं तमः­प्र­का­श­यो­रि­त्य­य­मेव तयोर्विरोधः ॥ ३ ॥

ननु तमः­प्र­का­श­दृ­ष्टान्ते भावा­भा­व­रू­प­त्व­मु­पाधिः । आलोकाभावस्तम इति तार्किका रूप­द­र्श­ना­भा­व­स्तम इति प्राभाकरा इति चेद्; मैवम्; उप­च­या­प­च­या­द्य­व­स्था­भे­द­व­त्त्वे­नो­प­ल­क्ष्य­मा­ण­स्याऽ­भा­व­त्वा­यो­गात् । नीलरूपत्वेन द्रव्यत्वात् । ननु भावत्वपक्षे बहलालोकवति देशे निमीलितनयनस्य कथं तमःप्रतीतिः, बहलालोकेन निवृ­त्त्य­ङ्गी­का­रात् । सहावस्थानं तु मन्दालोकेनैव पूर्वमुक्तमिति चेद्; न, गोल­का­न्त­र्व­र्ति­त­मसः प्रती­त्यु­प­पत्तेः । न च नेत्र­स्याऽ­न्त­र्व­र्त्ति­व­स्तु­ग्रा­ह­क­त्वा­स­म्भवः, पिहि­त­क­र्ण­स्याऽ­न्त­र­श­ब्द­ग्रा­ह­क­त्व­द­र्श­नात् । न चैवं गोल­का­न्त­र­स्था­ञ्ज­ना­दे­रपि निमीलितनयनेन ग्रहणप्रसङ्गः; तमो­व्या­ति­रि­क्त­रू­पिण आलो­क­स­ह­कृ­त­च­क्षु­र्ग्रा­ह्य­त्व­नि­य­मात् । अथ मतम् – द्रव्यत्वे सति तमस आलो­क­वि­ना­शि­त­स्याऽऽ­लो­का­प­गमे झटिति नोत्पत्तिः, कार्यद्रव्याणां द्व्यणु­का­दि­क्र­मे­णै­वाऽऽ­र­म्भा­दिति, तन्न; विवर्तवादिनां क्रमा­न­पे­क्ष­णात्, कारणं तु मूलाविद्यैव । अथाऽपि तमो न रूपवद्द्रव्यम्, स्पर्श­शू­न्य­त्वात्, आकाशवत् इति चेद्, न; वायुर्न स्पर्शवान्, रूपशून्यत्वात्, आका­श­व­दि­त्या­भा­सेन समानत्वात् प्रत्य­क्ष­वि­रो­धस्य तुल्यत्वात् । अथाऽऽलोकाभावे समारोपितं नीलरूपं गोचरयतीति तमः­प्र­त्य­क्ष­स्याऽ­न्यथा गतिरुच्यते एवमपि हेतुरनैकान्तिकः – रूप­व­द्द्र­व्य­स्यैव धूमस्य चक्षुः­प्र­दे­शा­द­न्यत्र स्पर्श­शू­न्य­त्वात् । तत्र विद्यमान एव धूम­स्प­र्शोऽ­नु­द्भूत इति चेत्, तर्हि तमःस्पर्शोऽपि सन्नेव सर्वत्रानुद्भूत इति हेत्वसिद्धिः स्यात् । न च सतः सर्व­त्रा­नु­द्भ­वोऽ­स­म्भा­वितः, आकरजे सुवर्णादौ सत एव स्वप­र­प्र­का­श­क­भा­स्व­र­रू­प­स्यो­ष्ण­स्प­र्शस्य च सर्व­त्रा­नु­द्भ­व­द­र्श­नात् । तदेवं भावरूपतमोवादे न कोऽपि दोषः । नन्वभाववादेऽपि तथा । उप­च­या­द्य­व­स्थानां प्रति­यो­ग्या­लो­को­पा­धि­क­त्वाद् नील­रू­प­स्याऽऽ­रो­पि­त­त्वा­दिति चेद्, मैवम्; दुर्निरूपत्वात् । तथा हि – किमा­लो­क­मा­त्रा­भा­व­स्तमः, उतै­कै­का­लो­का­भावः, सर्वालोकाभावो वा । प्रथ­म­द्वि­ती­य­प­क्षयोः प्रागभाव इतरेतराभावः प्रध्वंसाभावो वा तम इति दुर्भणम्, सवितृकरसन्तते देशे प्रदीपजन्मनः प्राग्वा जाते वा प्रदीपे दीपनाशे वा तमो­बु­द्ध्य­भा­वात् । तृतीये सर्वा­लो­क­स­न्नि­धा­न­म­न्त­रेण न निवर्तेत । रूप­द­र्श­ना­भा­व­स्तम इत्यप्ययुक्तम्, बह­ला­न्ध­का­र­सं­वृ­ता­प­व­र­क­म­ध्य­स्थि­तस्य बही­रू­प­द­र्श­ना­न्त­स्त­मो­द­र्श­न­यो­र्यु­ग­प­देव भावात् । तस्मात् नाभावस्तम इति दृष्टान्ते नाऽस्त्यु­क्तो­पाधिः ॥ ४ ॥

नन्वे­व­म­प्य­न्यो­न्य­ता­दा­त्म्य­सा­म­र्थ्या­भा­वाख्यो भवदीयो मूल­हे­तु­र­नै­का­न्तिकः । “इदं रजतम्” इत्यत्र भ्रान्तिस्थले पुरो­व­र्ति­र­ज­त­यो­र्वि­वि­क्त­यो­स्ता­दा­त्म्य­सा­म­र्थ्या­भा­वेऽपि तादा­त्म्य­स­न्द­र्श­ना­दिति चेद्, न; तत्र साम­र्थ्य­स­द्भा­वेन हेत्ववृत्तेः । तत्सामर्थ्यं च सम्यग्रजतस्थले पुरो­व­र्ति­र­ज­त­यो­र्वा­स्त­व­ता­दा­त्म्य­द­र्श­ना­द­व­ग­न्त­व्यम् । न चैव­मा­त्मा­ना­त्म­नो­रपि क्वचि­द्वा­स्त­व­ता­दात्म्ये सति तत्सा­म­र्थ्य­स­म्भ­वा­द­सिद्धो हेतुरिति वाच्यम्, वास्त­व­ता­दा­त्म्यस्य तयोः क्वाऽपि दुःसम्पादत्वात् । तथा हि – किं द्रष्टु­र्दृ­श्य­ता­दा­त्म्य­मु­च्यते दृश्यस्य वा द्रष्टृ­ता­दा­त्म्यम् ? आद्येऽपि न तावत् स्वाभाविकम्, चिदेकरसे द्रष्टरि दृश्यां­शा­स­म्भ­वात्; अन्यथा कर्मकर्तृभावेन तादा­त्म्या­नु­प­पत्तेः । आगन्तुकत्वेऽपि किं द्रष्टा स्वयमेव दृश्यांशाकारेण परिणमते उत हेतुबलात् ? उभयमप्यसङ्गतम्, द्रष्टु­र्नि­र­व­य­व­त्वात् । न हि निरवयवमाकाशं स्वतो वा कारणान्तराद्वा सावयवाकारेण परिणममानं दृष्टम् । दृश्यस्य धर्मिणो द्रष्ट्रा प्रतियोगिना तादा­त्म्य­मि­त्य­स्मिन् द्वितीयेऽपि पक्षे द्रष्टृत्वस्य स्वभाविकत्वे दृश्यत्वं हीयेत । अंशतो दृश्यत्वमपि स्वस्याऽस्तीति चेत्, तर्हि कर्म­क­र्तृ­त्व­वि­रोधः । आगन्तुकत्वेऽपि किं दृश्यं स्वयमेव चिद्रूपेण परिणमते उताऽऽत्मचैतन्यं स्वस्मिन् सङ्क्रामयति । नाऽऽद्यः, जडजन्यस्य कार्यस्य चिद्रू­प­त्वा­स­म्भ­वात् । नहि जडाया मृदः परिणामो घटः चिद्रूपो दृष्टः । न द्वितीयः; आत्मचैतन्यस्य सर्वगतस्य वस्तुतः प्रवेशायोगात् । तदेवं क्वाऽप्य­त्य­न्त­दुः­स­म्पा­द­वा­स्त­व­ता­दा­त्म्य­यो­श्चि­द­चि­तो­स्त­त्सा­म­र्थ्या­स­म्भ­वेन हेतु­सि­द्धे­र्म­ध्या­नु­मानं सुस्थम् । ततो मूला­नु­मा­न­सि­द्धे­र­ध्या­सा­भावः सुस्थितः । मा भूद् धर्मि­णो­स्ता­दा­त्म्या­ध्यासः । तथा­प्या­त्म­ध­र्मा­णा­म­ना­त्मनि संस­र्गा­ध्या­सोऽस्तु । न च चिदे­क­र­स­स्याऽऽ­त्मनो धर्मासम्भवः; आन­न्द­वि­ष­या­नु­भ­व­नि­त्य­त्वा­दीनां सत्त्वात् । यद्यपि एते स्वरूपभूता एवाऽऽत्मनः, तथा­प्य­न्तः­क­र­ण­वृ­त्त्यु­पाधौ नानेवाऽवभासन्त इति तेषां धर्म­त्व­मु­प­च­र्यते । न च धर्मिणं विहाय धर्माणां स्वात­न्त्र्ये­णाऽ­ध्या­सा­स­म्भवः, जपाकुसुमसन्निधौ लोहितः स्फटिक इत्यादौ धर्म­मा­त्रा­ध्या­स­द­र्श­नात् । नैतत् सारम्; धर्माणां स्वात­न्त्र्या­यो­गात् । स्फटिकेऽपि प्रति­बि­म्बि­त­ज­पा­कु­सु­मा­श्रि­त­मेव लौहित्यं प्रतीयते न तु स्वातन्त्र्येण । तस्मात् नाऽस्ति धर्मा­णा­म­प्या­श्र­य­व्य­त्या­सेन संसर्गाध्यासः । धर्म­ध­र्मि­णो­र­र्थ­यो­र­ध्यासे निराकृते तदविनाभूतो ज्ञानाध्यासोऽपि निराकृत एव । तस्मात् न युक्तिसहोऽध्यास इति । अत्रोच्यते – किं युक्ति­वि­रो­धा­द­व­स्तु­त्व­म­ध्या­स­स्याऽऽ­पा­द्यते किं वा वस्तु­स्व­रू­प­मे­वाऽ­प­ल­प्यते ? नाऽद्यः; अनि­र्व­च­नी­य­वा­दि­ना­म­स्मा­क­म­ध्या­स­स्याऽ­व­स्तु­त्व­यु­क्ति­वि­रो­ध­यो­रि­ष्ट­त्वात् । विरुध्यते ह्यात्म­ना­त्मा­ध्यासो युक्ति­भि­रि­त्ये­वा­नि­र्वा­च्य­त्व­म­ङ्गी­क्रि­यते । अन्यथा तस्य वस्तु­त्व­मे­वाऽ­भ्यु­पेयं स्यात् ।

ननु तर्हि अपलपाम एवाऽध्यासम् – नाऽस्त्ये­वा­त्मा­ना­त्म­नो­र­ध्यासः; तत्सा­म­ग्र्य­भा­वात्; लोके हि “इदं रजतम्” “अयं सर्पः” इत्या­दा­व­धि­ष्ठा­ना­ध्य­स्य­मा­न­यो­र्गु­णा­व­य­व­कृतं सादृ­श्य­म­ध्या­स­सा­मग्री, न चाऽसावत्रास्ति; आत्मनो निर्गु­ण­त्वा­न्नि­र­व­य­व­त्वाच्च । न च वाच्यम् – “लोहितः स्फटिकः” इत्य­त्राऽ­स­त्ये­वो­क्त­सा­दृ­श्येऽ­स्त्य­ध्यास इति; तत्र सोपा­धि­क­भ्र­म­त्वेन सादृ­श्या­न­पे­क्ष­णात् । लौहि­त्या­श्र­य­भूतं सन्निहितं जपा­कु­सु­म­मु­पा­धि­स्तस्य स्फटिके लौहि­त्या­व­भा­स­नि­मि­त्त­त्वात् । नन्वेवं कर्तृ­त्वा­द्या­श्रयं सन्नि­हि­त­म­ह­ङ्का­र­मु­पाधिं कृत्वाऽऽत्मनि कर्तृ­त्वा­दि­क­म­ध्य­सितुं शक्यमिति चेत्, तर्ह्यस्तु कथञ्चित् कर्तृ­त्वा­द्य­ध्या­स­स­म्भ­व­स्त­था­प्या­त्म­न्य­ह­ङ्का­रा­दि­श­री­रा­न्त­ध­र्म्य­ध्यासो निरुपाधिको न सम्भवत्येव, सादृ­श्या­भा­वा­दिति चेत्, तदेतदसारम्; गुणैरवयवैश्च शून्यस्याऽपि गन्धस्य “केतकीगन्धसदृशः सर्पगन्धः” इत्यादौ यथा सौगन्ध्यधर्मेण सादृश्यम्; तथाऽऽत्मनोऽपि पदार्थत्वधर्मेण सादृश्यसम्भवात् । चैतन्यैकरसे धर्मः कोऽपि वस्तुतो न सम्भवतीति चेत्; तर्हि मा भून्नि­रु­पा­धि­क­भ्रमं प्रति सादृश्यस्य सामग्रीत्वम् । सादृ­श्य­म­न्त­रे­णैव “पीतः शङ्खः” इति निरु­पा­धि­क­भ्र­म­द­र्श­नात् । अथ तत्र राग­पि­त्तो­द्रे­क­का­च­का­म­लादि साम­ग्र्य­न्त­र­मस्ति; अस्त्येव तर्ह्य­त्राऽ­प्य­वि­द्याख्या सामग्री । ननु ज्ञानाभावत्वेन भावरूपत्वेन च विप्रतिपन्नाया अविद्यायाः साम­ग्री­त्वा­ङ्गी­का­रात् वरमध्यासापलाप एवेति चेत्, मैवम्; प्रत्य­गा­त्म­स­त्त्व­मा­त्र­मु­प­जीव्य तदी­य­चि­दा­न­न्दा­च्छा­द­क­त्वेन व्यव­स्थि­त­स्याऽ­नादेः प्रत्य­क्ष­स्याऽ­प­ला­पा­यो­गात् । अन्यथा प्रत्य­गा­त्मा­प्य­प­ल­प्येत ।

कार्य­स्याऽ­ध्या­स­स्याऽ­ना­दि­त्व­म­यु­क्त­मिति चेद्, मैवम्; आत्मनि ताव­त्क­र्तृ­त्व­भो­क्तृ­त्व­रा­गा­दि­दो­ष­सं­योग एवाऽध्यासः । तत्र भोक्तृ­त्वा­ध्यासः कर्तृ­त्वा­ध्या­स­म­पे­क्षते; अक­र्तु­र्भो­गा­भा­वात् । कर्तृत्वं च रागा­दि­दो­ष­सं­यो­गा­ध्या­स­म­पे­क्षते; रागादिरहितस्य कर्तृत्वाभावात् । दोषसंयोगश्च भोक्तृ­त्व­म­पे­क्षते; अनु­प­भु­क्तेऽ­नु­प­भु­क्त­जा­तीये वा रागा­द्य­नु­त्पत्तेः । तथा च बीजाङ्कुरवत् प्रवाहरूपेण कर्तृ­त्वा­दी­ना­म­ना­दि­त्वम् । एते­नै­त­द­प्य­पा­स्तम् – प्रपञ्चस्य प्रतीतौ सत्यामारोपः, आरोपे च प्रतीतिरिति पर­स्प­रा­श्र­य­त्व­मिति । अनादित्वे सति पूर्व­पू­र्वा­ध्या­सो­प­द­र्शि­तस्य देहादेः संस्काररूपेण स्थित­स्यो­त्त­रो­त्त­रा­ध्या­स­हे­तु­त्वात् । न च देहा­दे­र­व­स्तु­त्वा­द­ना­रोप इति वाच्यम्, प्रती­ति­मा­त्रे­णा­रो­प्य­त्व­सिद्धौ वस्तुसत्ताया अप्रयोजकत्वात् । “इदं रजतम्” इत्यादौ हि सत्यानृतयोः शुक्ति­र­ज­त­यो­स्ता­दा­त्म्य­म­ध्य­स्यते । न च दूर­स्थ­व­न­स्पत्योः सत्ययोरेव तादा­त्म्य­म­ध्य­स्यत इति वाच्यम्; तत्राऽपि सत्येव वृक्ष­द्व­येऽ­धि­ष्ठा­नेऽ­नृ­त­स्यै­वै­क­त्व­ध­र्म­स्याऽ­ध्या­सात् । अन्यथा वस्तु­नो­र्गु­ण­गु­णि­नो­रपि तादा­त्म्य­स्याऽ­ध्य­स्त­त्व­प्र­स­ङ्गात् । यद्य­प्या­त्मा­ना­त्म­नो­र­न्यो­न्य­स्मि­न्न­न्यो­न्य­ता­दा­त्म्या­ध्यासः समानः, तथाप्यात्मनः संसृ­ष्ट­रू­पे­णै­वाऽ­ध्यासो न स्वरूपेणेति सत्यत्वम्, अनात्मनस्तु स्वरू­पे­णाऽ­प्य­ध्यास इत्यनृतत्वम् । न च तयोः सत्या­नृ­त­यो­स्ता­दात्म्ये गुणगुण्यादाविव भेदाभेदावभासेन “शौक्ल्यवान् पटः” इतिवद् “देहे­न्द्रि­या­दि­मान् अहम्” इति वा “ममेदं देहादि” इति वा प्रत्ययः शङ्कनीयः; इत­रे­त­र­त्व­म­त्य­न्तै­क­त्व­मा­पा­द्यै­वाऽ­ध्या­स­स्वी­का­रात् । तर्हि तादात्म्याध्यास इति न वक्तव्यं किं त्वेकत्वाध्यास इत्येव वाच्यमिति चेद्, न; “पटस्य शौक्ल्यम्” इतिवत् “मम देहः” इति भेदव्यवहारस्य दर्शनात् । न चैवं सति भेदग्रहेण भेदाग्रहे व्यापके निवृत्ते तद्व्या­प्योऽ­ध्या­सोऽपि निवर्तेतेति वाच्यम्, भेद­ग्र­ह­स्याऽ­न­ङ्गी­का­रात् । न हि लौकिकः “मद्देहः” इति भेदं व्यवहरन्तोऽपि शास्त्र­सं­स्का­र­म­न्त­रेण देहा­द्भि­न्न­मा­त्मानं गृह्णन्ति । तस्मादनुभवत एकत्वाध्यास एव, व्यवहारतस्तु तादात्म्याध्यास इत्यपि व्यपदेष्टुं शक्यते; देहा­त्म­नो­र­ह­मि­त्य­भे­द­व्य­व­हा­रस्य मद्देह इति भेदव्यवहारस्य च सद्भावात् । न चैकत्वमेव तादात्म्यमिति वाच्यम्; भेदाऽ­भे­द­स­ह­म­न्यो­न्या­भा­व­वि­रोधि तादात्म्यम्, भेद­वि­रो­ध्ये­क­त्व­मिति तयो­र्वि­वि­क्त­त्वात् । जीव­ब्र­ह्म­णो­र­प्ये­क­त्व­मेव वस्तु­तोऽ­वि­द्या­क­ल्पि­त­भे­द­म­पेक्ष्य तादात्म्यमिति व्यपदिश्यत इत्यविरोधः । न च जीव­ब्र­ह्मै­क्य­व­दा­त्म­दे­है­क्य­म­नु­भू­य­मा­न­मपि वास्तवं भवितुमर्हति । सत्या­नृ­त­रू­पे­णा­त्य­न्त­वि­वि­क्त­यो­र्वा­स्त­वै­क्य­स्याऽ­यो­गात् । तस्मा­द­ध्य­स्त­मे­वै­क­त्वम् ।

तस्य चाऽध्या­स­स्याऽ­ना­द्य­नि­र्व­च­नी­य­भा­व­रू­पा­ज्ञा­न­मु­पा­दा­नम्; तस्मिन् सत्य­ध्या­सो­द­या­द­सति चाऽनुदयात् । नन्वे­ता­व­न्व­य­व्य­ति­रे­का­व­ध्या­स­प्र­ति­ब­न्ध­क­त­त्त्व­ज्ञा­ना­भा­वा­वि­ष­य­त­याऽ­प्यु­प­प­न्ना­विति चेद्, न; तत्त्वज्ञानस्य प्रति­ब­न्ध­क­ल­क्ष­ण­र­हि­त­त्वात् । सति हि पुष्कलकारणे कार्यो­त्पा­द­वि­रो­धि­तया जायमानं प्रतिबन्धकम् । तत्त्वज्ञानं त्वसत्येव काच­का­म­ला­दि­दो­षा­ख्येऽ­ध्या­स­पु­ष्क­ल­का­रणे जायत इति लक्षणरहितम् । तथाऽपि तत्त्व­ज्ञा­न­स्याऽ­ध्या­स­वि­रो­धि­तया विरो­धि­सं­स­र्गा­भा­व­वि­ष­य­त्वे­नाऽपि तावुपपत्स्येते इति चेद्, न; कार्यस्य ताव­दु­पा­दा­ना­पेक्षा प्रथ­म­मु­त्प­द्यते, पश्चा­द्वि­रो­धि­सं­स­र्गा­भा­वा­पेक्षा; तथा च “अन्त­र­ङ्ग­ब­हि­र­ङ्ग­यो­र­न्त­रङ्गं बलवद्” इति न्याये­नाऽ­न्त­र­ङ्गो­पा­दा­न­वि­ष­य­त्व­मेव तयोर्न्याय्यम् । प्रध्वं­स­व­दु­पा­दा­ना­पे­क्षैव मा भूदिति चेद्; विमतं सोपादानम्, भावत्वे सति कार्यत्वाद्, घट­व­दि­त्य­नु­मा­नात् । ननु पटगुणे रूपेऽनैकान्तिको हेतुः, न हि तस्योपादानं सम्भवति । तस्य किं पट एवोपादानं द्रव्यान्तरं वा ? नाऽऽद्यः, सव्ये­त­र­यो­र्वि­षा­ण­यो­रिव युगपदुत्पन्नयोः कार्य­का­र­ण­भा­वा­नु­प­पत्तेः । द्वितीये द्रव्या­न्त­र­ग­त­त्वेन पट­गु­ण­त्व­हा­नि­रिति, मैवम्; तार्किकमते तावद् “उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठति” इति न्यायेन यौगपद्याभावात् पट­स्यै­वो­पा­दा­न­त्व­स­म्भवः । वेदान्तिमते तु तन्तू­ना­मु­पा­दा­न­त्वेऽपि कार्य­का­र­ण­यो­र­भे­दात् पटगुणत्वं न हीयते । न च काचा­दि­दो­षा­णा­मु­पा­दा­न­त्व­स­म्भ­वेऽपि किम­ने­नाऽ­ज्ञा­ने­नेति वाच्यम्, अध्या­स­त­दु­पा­दा­न­यो­रे­का­श्र­य­त्व­नि­य­मात् । इह त्वध्यास आत्माश्रितो दोषा­श्चे­न्द्रि­या­द्या­श्रिता इति नोपादानत्वं तेषाम् । ननु रजताध्यासः शुक्त्याश्रितः प्रतीयते तदुपादानं त्वज्ञा­न­मा­त्मा­श्रि­त­मिति त्वन्मतेऽपि नैका­श्र­य­त्व­सिद्धिः, मैवम्; आत्मा­श्रि­त­स्यै­वाऽ­ध्या­सस्य शुक्तिसंसर्ग इत्यु­प­पा­द­यि­ष्य­मा­ण­त्वात् । ननु तर्हि अर्था­ध्या­स­स्याऽ­ज्ञा­न­मु­पा­दा­न­मस्तु ज्ञानाध्यासस्य त्वात्माऽ­न्तः­क­रणं चोपादानं भविष्यति, सम्यग्ज्ञानेषु मतभेदेन तयो­रु­पा­दा­न­त्वा­दिति चेद्, मैवम्; आत्म­नोऽ­प­रि­णा­मि­त्वात् । अन्तःकरणस्य चेन्द्रि­य­सं­यो­ग­लि­ङ्गा­दि­सा­पे­क्ष­त्वात् । नह्यत्र संयोगादिः सम्भवति । मिथ्यापदार्थस्य प्रत्य­य­मा­त्र­श­री­रस्य प्रत्ययात् प्रागसिद्धेः केनेन्द्रियं संयुज्येत । इन्द्रि­या­न्व­य­व्य­ति­रेकौ तु भ्रान्ति­ज्ञा­न­स्याऽ­धि­ष्ठा­न­ज्ञा­न­वि­ष­य­त­याऽ­न्य­था­सिद्धौ । न चाऽधि­ष्ठा­न[ज्ञा­न]स­म्प्र­यो­गा­देव भ्रान्ति­ज्ञा­नो­त्प­त्ति­सिद्धिः, मिथ्या­र्थ­स­म्प्र­यो­गा­भावे तत्प्र­ती­त्य­नु­प­पत्तेः । न च संस्कारोपनीततया “सोऽयं देवदत्तः” इति प्रत्यभिज्ञायां तत्तांशवत् तत्प्रतीतिः; तद्व­दे­वाऽ­भ्रा­न्त­त्वा­पत्तेः । न चाऽधि­ष्ठा­न­सं­स­र्गां­श­स्याऽ­स­त्त्वाद् भ्रान्तत्वम्; तर्हि तस्याऽसत्त्वेन सम्प्र­यो­गा­यो­ग्य­स्याऽऽ­रो­प्य­स्याऽ­प­रो­क्ष­त्वा­भा­व­प्र­स­ङ्गात् । ननु मिथ्या­र्थेऽ­न्तः­क­र­ण­मि­न्द्रि­य­स­म्प्र­योगं नाऽपेक्षते; विनाऽपि तेन स्वाप्न­ज्ञा­न­द­र्श­ना­दिति चेत्; तथाऽ­प्य­न्तः­क­र­णस्य ज्ञाना­का­र­प­रि­णामे ज्ञातृ­त्व­शू­न्य­त्वाद् मिथ्या­र्थ­व्य­व­हारो न सिध्येत् । अथाऽन्तःकरणमेव जडमपि ज्ञान­क­र्तृ­त्वा­का­रेण परिणंस्यते, आत्मा वा ज्ञाता भविष्यतीति मन्येथाः; एवमपि भ्रान्ति­स­म्य­ग्द­र्श­न­ब­न्ध­नि­वृ­त्ती­ना­मे­का­श्र­य­त्व­नि­य­म­मा­द­न्तः­क­र­णस्य भ्रान्तत्वे तस्यैव सम्य­ग्द­र्श­न­ब­न्ध­नि­वृत्ती प्रसज्येयाताम् । इष्यते त्वात्मन एव भ्रान्त­त्वा­दि­कम्, तच्चाऽऽ­त्मा­श्रि­ता­ज्ञा­नो­पा­दा­न­त्व­पक्षे सिध्यति; ना‍ऽन्यथा । तस्मा­द­ज्ञा­न­मे­वो­पा­दानं परिशिष्यते । न चाऽज्ञाने विवदितव्यम्; “अहमज्ञः” “मामन्यं च न जानामि” इति प्रत्यक्षेण जडात्मिकाया अवि­द्या­श­क्ते­रा­त्मा­न­मा­श्रित्य बाह्या­ध्या­त्मि­केषु व्याप्ताया अनुभूयमानत्वात् । ननु ज्ञाना­भा­व­वि­ष­योऽ­य­म­नु­भवः, तन्न; “अहं सुखी” इति­व­द­प­रो­क्षा­नु­भ­व­त्वात् । अभावस्य च षष्ठ­प्र­मा­ण­ग­म्य­त्वात् । प्रत्य­क्षा­भा­व­वादे तु धर्मि­प्र­ति­यो­गि­नो­रा­त्म­ज्ञा­नयोः प्रतीतौ “मयि ज्ञानं नास्ति” इति एतादृशं ज्ञाना­भा­व­प्र­त्यक्षं व्याहन्येत । तयोरप्रतीतौ च हेत्वभावादेव तत्प्र­त्य­क्षा­नु­त्पादः । ननु सर्वत्र व्यवहारो ज्ञानस्य फलत्वेन लिङ्गं भवति; तल्लिङ्गाभावेन ज्ञाना­भा­वोऽ­नु­मी­यते इति चेद्, न; तदापि धर्म्या­दि­प्र­ती­त्य­प्र­ती­त्यो­रु­क्त­दो­षात् । षष्ठमानगम्यो ज्ञानाभाव इति भट्टमतेऽपि अयमेव दोषः । अस्मन्मते तु साक्षिवेद्यो ज्ञानमात्राभावः । ज्ञान­वि­शे­षा­भा­वस्तु “व्यवहारे भट्टनयः” इत्यभ्युपगमेन षष्ठमानगम्यः । यदा तु “मही घटत्वं घटतः कपालिका कपा­लि­का­चू­र्ण­र­ज­स्त­तोऽणुः” इति पुरा­ण­म­त­मा­श्रि­त्याऽ­भा­व­प­दार्थ एव नाऽङ्गीक्रियते, तदा न काऽपि चिन्ता । ननु भाव­रू­पा­ज्ञा­न­स्यापि ज्ञान­नि­व­र्त्त्य­त्वा­ङ्गी­का­रा­द­ह­मज्ञ इत्या­द्या­श्र­य­वि­ष­य­प्र­ती­ति­ग­र्भि­त­म­ज्ञा­न­प्र­त्यक्षं व्याहतमेव । मैवम्, आश्र­य­वि­ष­या­ज्ञा­नानि त्रीण्यपि एकेनैव साक्षि­णाऽ­व­भा­स्यन्ते । तथा चाऽऽश्रयविषयौ साधयन्नयं साक्षी तद्व­दे­वा­ज्ञा­न­मपि साधयत्येव न तु निवर्तयति । तन्निवर्तकं त्वन्तः­क­र­ण­वृ­त्ति­ज्ञा­न­मेव । तच्चात्र नास्तीति कथं व्याहतिः ? नन्वहं घटं न जाना­मी­त्य­त्रा­ज्ञा­न­व्या­व­र्त्तको घटो न तावत् सम्बन्धरहितेन साक्षिणा प्रत्येतुं योग्यः; बाह्य­वि­ष­य­सिद्धेः स्वस­म्ब­द्ध­प्र­मा­णा­य­त्त­त्वात् । नाऽपि प्रमाणेन; प्रमा­ण­नि­व­र्त्य­त्वा­द­ज्ञा­न­स्येति चेत्, सत्यम्; केवलस्य घटस्य साक्षि­वे­द्य­त्वा­भा­वेऽपि अज्ञा­त­त्व­ध­र्म­वि­शि­ष्ट­स्याऽ­ज्ञा­न­द्वारा सम्बन्धवता साक्षिणा प्रतीतिरुपपद्यत एव । न च वाच्यं केवलस्य साक्षि­वे­द्य­त्वा­भावे विशिष्टस्याऽपि तदनुपपन्नम्, रसा­दे­श्चा­क्षु­ष­द्र­व्य­वि­शि­ष्ट­स्याऽपि चाक्षु­ष­त्वा­द­र्श­ना­दिति, परमाणोः केवलस्य मान­स­प्र­त्य­क्ष­त्वा­भा­वेऽपि “परमाणुमहं जानामि” इति ज्ञानविशेषणतया मान­स­प्र­त्य­क्ष­वि­ष­य­त्वस्य परैरङ्गीकारात् । लोकेऽपि राहोः केव­ल­स्याऽ­प्र­त्य­क्ष­त्वेऽपि चन्द्रा­द्यु­प­र­क्तस्य प्रत्य­क्ष­त्व­द­र्श­नात् । परमतेऽपि “घटमहं न जानामि” इत्यत्र ज्ञाना­भा­व­वि­शे­प­णस्य घटस्य प्रती­त्य­प्र­ती­त्यो­र्दू­ष­ण­स्याऽ­भि­हि­त­त्वात् । तस्मात् सर्वं वस्तु­ज्ञा­त­त­याऽ­ज्ञा­त­तया वा साक्षिचैतन्यस्य विषय एव । ननु तर्हि ज्ञाता­ज्ञा­त­वि­ष­य­भेदो न स्यात् तथा प्रमा­ण­व्या­पा­र­वै­यर्थ्यं तद­न्व­य­व्य­ति­रे­क­वि­रो­ध­श्चेति चेद्, मैवम्; यद्व­द­ज्ञा­न­म­ज्ञा­त­त्व­धर्मं स्वविषये सम्पाद्य तस्य साक्षिणा सम्बन्धं घटयति तद्वत् प्रमाणमपि ज्ञातत्वं धर्मं स्वविषये सम्पाद्य तस्य साक्षिणा सम्ब­न्ध­घ­ट­क­मि­त्य­ङ्गी­का­रे­णो­क्त­दो­ष­नि­वृत्तेः । तदे­व­मु­क्तो­प­प­त्ति­स­हि­त­म­ह­मज्ञ इति प्रत्यक्षं भावरूपाज्ञाने प्रमाणम् ।

तथा­प्य­नु­मा­नै­क­रुचिं प्रति तदप्युच्यते प्रत्य­क्ष­व­दु­प­प­त्त्य­पेक्षां विना साक्षादेव भावरूपत्वसाधनाय । विमतं प्रमाणज्ञानम्, स्वप्रा­ग­भा­व­व्य­ति­रि­क्त­स्व­वि­ष­या­व­र­ण­स्व­नि­व­र्त्य­स्व­दे­श­ग­त­व­स्त्व­न्त­र­पू­र्वकं भवितुमर्हति, अप्र­का­शि­ता­र्थ­प्र­का­श­क­त्वात्, अन्धकारे प्रथ­मो­त्प­न्न­प्र­दी­प­प्र­का­श­वद्, इति । ज्ञानमात्रस्य पक्षत्वे त्वनुवादज्ञाने हेत्वसिद्धिः स्यादिति प्रमा­णे­त्यु­क्तम् । तथा धारा­वा­हि­क­व्या­वृ­त्तये विमतमिति । वस्तु­पू­र्व­क­मि­त्ये­वोक्ते स्वाश्र­ये­णाऽऽ­त्मा­दिना सिद्धसाधनता स्याद्, अतो वस्त्व­न्त­रे­त्यु­क्तम् । तथा स्वाश्र­या­ति­रि­क्त­सा­मग्रीं धर्मादिकं पूर्वज्ञानं प्रागभावं चाऽवरोहक्रमेण स्वदे­शे­त्या­दि­वि­शे­ष­ण­च­तु­ष्ट­येन निवर्तयति । एतावता च विवक्षितविशेषं भावरूपाज्ञानं सिध्यति । धारा­वा­हि­क­ज्ञा­नेषु व्यभिचारं वारयितुम् अप्रकाशितेति । धारा­वा­हि­क­प्र­भा­सू­भ­य­वै­कल्यं वारयितुं प्रथमेति । आतपवति देशे समु­त्प­न्न­दी­प­प्र­भायां तद्वा­र­यि­तु­म­न्ध­कारे इति । अनिर्वचनीयस्य ज्ञाना­र्थ­रू­प­द्वि­वि­धा­ध्या­स­स्याऽ­न्य­था­नु­प­पत्त्या तदु­पा­दा­न­स्याऽ­ज्ञा­न­स्याऽ­नि­र्व­च­नी­य­त्वम् । न चाऽन्य­था­प्यु­प­प­त्ति­स्तस्य सत्यत्वे तत्कार्यस्याऽपि सत्य­त्व­प्र­स­ङ्गात् । तथा च मूल­का­र­ण­त्वा­न्य­था­नु­प­प­त्त्याऽ­ना­दि­त्वम् । सादित्वे चोपा­दा­न­प­र­म्प­रा­पे­क्षायां मूलकारणं न सिध्येत् । तदे­व­म­ना­द्य­नि­र्वा­च्य­भा­व­रू­पा­ज्ञा­न­मा­त्मा­श्रि­त­मा­त्म­वि­ष­य­म­ध्या­स­स्यो­पा­दा­न­मिति सिद्धम् ।

ननु किमि­द­म­ज्ञा­न­मा­त्मा­न­मि­वा­ना­त्मा­न­म­प्या­वृ­णोति किं वा नावृणोति ? नाद्यः; प्रमा­ण­प्र­यो­ज­न­यो­र­भा­वात् । तथा हि “इदं नीलम् अज्ञानेनावृतम्” इति प्रमाणेन ग्रहीतव्यम्, तच्च नील­प्र­ती­त्य­प्र­ती­त्योर्न सम्भाव्यते । अथ मन्यसे नीलावगतिकाल एवाऽ­ज्ञा­ना­व­र­णा­स­म्भ­वेऽपि नीलावगतेः पूर्व­का­ली­न­मा­व­रणं गम्यत एवेति, तन्न; गमकानिरूपणात् । किमि­दा­नी­म­व­ग­तत्वं गमकं किं वा इदा­नी­मे­वे­त्य­व­धा­र­णम्, किं वा तदेवेदं नीलमिति प्रत्य­भि­ज्ञा­न्य­था­नु­प­पत्तिः ? आहो­स्वि­द­भि­ज्ञा­प्र­त्य­भि­ज्ञ­यो­र्मध्ये ज्ञान­स्मृ­त्य­भा­वा­न्य­था­नु­प­पत्तिः ? नाऽऽद्यः, धारा­वा­हि­क­ज्ञा­नेषु पूर्वमवगतस्यैव पश्चादप्यवगमेन पूर्वकालीनावरणं विनै­वे­दा­नी­म­व­ग­त­त्व­स­म्भ­वात् । न द्वितीयः, अन्यो­न्या­श्र­य­त्वात् – पूर्वा­व­र­ण­सि­द्धा­वि­दा­नी­मे­वे­त्य­व­धा­र­ण­सि­द्धि­स्त­त्सि­द्धा­वि­त­र­सि­द्धि­रिति । न तृतीयः, अभिज्ञाय कञ्चित्कालं विस्मृतस्यैव प्रत्यभिज्ञेति नियमाभावात् । सर्वदा स्फुर­त्य­प्या­त्मनि सोऽहमिति प्रत्य­भि­ज्ञा­न­द­र्श­नात् । न चतुर्थः, अभि­ज्ञा­प्र­त्य­भि­ज्ञ­यो­र्म­ध्येऽ­प्या­व­र­ण­वि­र­हि­त­त्वे­नो­त्प­न्ना­ना­मेव ज्ञानानां स्मृत्यभाव इत्यपि सुवचत्वात् । न हि यद्यदनुभूतं तत्तत् स्मर्यत एवेति नियमोऽस्ति । न च वाच्यं “त्वदुक्तमर्थं न जानामि” इति विष­य­स­म्ब­न्ध्य­ज्ञा­न­म­नु­भू­यते सम्ब­न्ध­श्चा­ज्ञा­न­स्याऽऽ­व­र­ण­त्वे­ना­त्मनि दृष्ट­स्त­त्क­थ­म­प­ल­प्यत इति । साक्षिचैतन्येन स्वस्मि­न्न­ध्य­स्ता­ना­म­ज्ञा­न­वि­ष­य­त­त्स­म्ब­न्धा­ना­म­नु­भ­वा­ङ्गी­का­रात् । सम्ब­न्ध­श्चा­ज्ञा­न­वि­ष­ययोः कार्य­का­र­ण­भा­व­ल­क्षणो नाव­र­का­व्रि­य­मा­ण­त्व­ल­क्षणः, अध्य­स्त­स्याऽऽ­व­र­णा­यो­गात् । प्रतीतिकाले तावदावरणं व्याहतम् । अप्रतीतिकाले तु स्वयमेव नास्ति, द्विच­न्द्रा­दि­व­द­ध्य­स्तस्य प्रती­ति­मा­त्र­श­री­र­त्वात् । यद्य­ध्य­स्त­म­प्या­व्रि­येत तदा तत्प्रतिभासः कदाचिदपि न स्यात्; अध्यस्तस्य मानाऽगोचरत्वेन तदा­व­र­णा­नि­वृत्तेः । प्रमाणगम्यं हि वस्तु पर­मा­र्थ­त्वा­द­प्र­ती­य­मा­न­मपि तिष्ठति तत्क­थ­ञ्चि­दा­व्रि­ये­तापि, अध्यस्तं तु माननिवर्त्त्यं तत्कथं नामाऽऽव्रियेत । तस्मात् नाऽस्त्ये­वा­ना­त्मा­व­रणे प्रमाणम् । तथा प्रयोजनं च दुःसम्पादम्, सर्वत्र ह्यावरणस्य प्रस­क्त­प्र­का­श­प्र­ति­बन्धः प्रयोजनम् । तदत्र किमनात्मनि स्वतःप्रकाशः प्रसक्तः ? किं वा प्रमाणबलात् ? चैतन्यबलात् ? नाद्यः, जडत्वात् । न द्वितीयः, भान­नि­व­र्त्य­स्या­व­र­णस्य तत्प्र­ति­ब­न्ध­क­त्वा­यो­गात् । न तृतीयः, चैतन्यावरणादेव तत्सि­द्धा­व­ना­त्मनि पृथ­गा­व­र­न­क­ल्प­ना­वै­य­र्थ्यात् । न हि सूर्ये मेरुव्यवहिते सति रात्रा­व­र­ण­प्र­ति­ब­न्धाय छत्रा­दि­क­म­पे­क्ष्यते । अथाऽ­भ्र­च्छ­न्नेऽपि सवि­त­र्यौ­ष्ण्या­ख्य­सू­क्ष्मा­त­प­प्र­ति­ब­न्धाय छत्रा­द्य­पे­क्षा­व­द­त्राऽ­प्य­ज्ञा­ना­वृ­त­चै­त­न्य­कृ­त­प्र­का­श­ले­श­मपि वारयितुं पृथ­गा­व­र­ण­मि­त्यु­च्येत; तदसत्; किमेकमेव अज्ञा­न­मा­त्मा­श्र­य­म­ना­त्मा­व­रणं चेत्य­ङ्गी­क्रि­यते, किं वा प्रति­वि­ष­य­म­ज्ञा­न­भेदः कल्प्यते ? नाऽऽद्यः; आव­र­ण­वि­ना­श­म­न्त­रेन विष­या­व­भा­सा­यो­गात् । एक­प­दा­र्थ­ज्ञा­ने­नै­वाऽऽ­ज्ञा­न­नि­वृत्तौ सद्यो मुक्ति­प्र­स­ङ्गात् । न द्वितीयः, कल्पकाभावात्; अज्ञा­ना­वृ­त­चै­त­न्य­कृ­त­प्र­का­श­ले­श­स्ये­ष्ट­त्वात् । अन्य­थे­द­म­ज्ञा­त­मिति व्यवहारो न सिध्येत् । अतः प्रमा­ण­प्र­यो­ज­न­शू­न्य­त्वा­दा­व­र­ण­पक्षो दुर्भणः । नाऽपि द्वितीयः, आवरणाभावे सत्यनात्मनः सर्वदा प्रती­ति­प्र­स­ङ्गा­दिति । अत्रोच्यते – आद्योऽनङ्गीकृत एव । द्वितीये तु कथं सर्वदा प्रतीतिः ? किं ज्ञाततया उताऽज्ञाततया अथवा कदाचिद् ज्ञाततया अन्यदा वा अज्ञाततया ? नाऽऽद्यः, ज्ञात­ता­पा­द­क­प्र­मा­ण­प्र­वृत्तेः कादाचित्कत्वात् । न द्वितीयः, अज्ञाततायाः कञ्चित् कालं ज्ञाततया निवृत्तेः । न तृतीयः, इष्टत्वात् । उक्तं हि – “सर्वं वस्तु ज्ञात­त­याऽ­ज्ञा­त­तया वा साक्षिचैतन्यस्य विषय एव” इति । नन्वज्ञातत्वं नामाऽ­ज्ञा­न­वि­ष­य­त्वम् । विषयत्वं च विष­यि­कृ­ता­ति­श­या­धा­र­त्वम् । न चा‍ऽज्ञा­न­कृ­त­मा­व­र­ण­म­ना­त्म­न्य­ङ्गी­क्रि­यते तत्कथं तस्याऽ‍ज्ञा­त­त्व­मिति ? उच्यते – शुक्ती­द­मं­शा­व­च्छि­न्न­चै­त­न्य­ग­त­म­ज्ञानं रज­ता­ध्या­स­मु­त्पाद्य तद­व­भा­सा­ख्य­म­ति­शयं शुक्तौ करोतीति शुक्ते­र­ज्ञा­त­त्व­सिद्धिः । एवं सर्व­त्राऽ­ना­त्म­न्या­व­र­णा­न­ङ्गी­का­रेऽ­प्य­ज्ञा­तत्वं वेदितव्यम् । ननु रजताख्यो विक्षेपो न तावच्छुक्तौ ज्ञाता­या­म­व­भा­सते, तस्य शुक्ति­ज्ञा­न­नि­व­र्त्य­त्वात् । अज्ञातायां तु शुक्तौ कथं तदतिशयो विक्षेप इत्यवगम्येत ? मैवम्, शुक्त्याकारो न जातः इदमाकारश्च ज्ञात इति दोष­द्व­य­नि­वृत्तेः । नन्वा­त्मा­श्र­य­म­ज्ञा­न­मे­क­मेव तच्च विक्षेपमात्रं करोति नाव­र­ण­मि­त्य­स्मिन् पक्षेऽपि किं मुसलेन घट इव शुक्तिज्ञानेन विक्षेप एवोपादाने प्रविलाप्यते उतोपादानमपि निवर्त्त्यते । आद्ये तथैव ब्रह्म­ज्ञा­ने­नाऽपि विक्षे­प­मा­त्र­प्र­वि­लये सति अनि­र्मो­क्षा­पत्तिः । द्वितीये शुक्ति­ज्ञा­ने­नै­वा­ज्ञा­न­नि­वृत्तौ सद्यो मुक्तिप्रसङ्गः । सद्यो मुक्ति­प­रि­जि­ही­र्षया प्रति­वि­ष­य­म­ज्ञा­न­भेदे वाऽध्या­स­स्याऽ­ज्ञा­ना­नु­पा­दा­न­कत्वे चाऽङ्गी­क्रि­य­माणे कल्प­ना­गौ­र­वा­ध्या­स­स­त्यत्वे प्रस­ज्ये­या­ता­मिति, मैवम्; न तावत् प्रथमपक्षे दोषोऽस्ति । विमतं ब्रह्मज्ञानम्, विक्षे­पो­पा­दा­न­नि­व­र्त­कम्, तद्विरोधित्वे सति पश्चा­द्भा­वि­त्वाद्; यथा शुक्तिज्ञानं स्वप्रा­ग­भा­व­र­ज­ता­ध्या­स­यो­र्नि­व­र्त­क­मि­त्य­नु­मा­नात् । द्वितीयपक्षेऽपि नास्त्यु­क्त­दोषः, मूला­ज्ञा­न­स्यै­वाऽ­व­स्था­भेदा रज­ता­द्यु­पा­दा­नानि शुक्त्या­दि­ज्ञा­नै­र्नि­व­र्त्त्यन्ते इत्यङ्गीकारात् । तदेवं जडे­ष्वा­व­र­णा­न­ङ्गी­कारे न कोऽपि दोषः । यत्तु भाव­रू­पा­ज्ञा­न­सा­ध­का­नु­माने स्ववि­ष­या­व­र­णे­त्यु­क्तम्, तत्त­थै­वा­त्म­वि­षये । शुक्त्या­दि­ज­ड­वि­षये तु रज­ता­द्यु­पा­दा­ना­ना­म­ज्ञा­ना­व­स्था­वि­शे­षाणां चैत­न्य­व्य­व­धा­य­क­त्वेन फलत आवरणत्वं न तु साक्षा­दि­त्य­वि­रोधः ।

नन्वा­त्म­न्य­प्या­व­रणं नाम किं प्रकाशनाशः किं वा प्रकाशस्य विष­य­प्रा­क­ट्या­ख्य­का­र्यो­त्पा­दने प्रतिबन्ध उत तत्रैव सह­का­र्य­न्त­र­प्र­तीक्षा ? नाऽऽद्यः, प्रकाशस्य नित्या­त्म­चै­त­न्य­रू­प­त्वात् । नाऽपि द्वितीयतृतीयौ, अन्तः­क­र­ण­वृ­त्ति­व्य­क्त­चि­त्प्र­का­श­म­न्त­रेण विषये पृथक् प्राक­ट्या­न­ङ्गी­का­रात्; ततो दुर्नि­रू­प­मा­व­र­ण­स्व­रू­प­मिति चेत्, सत्यमेतत्; अत एवाऽऽ­व­र­ण­स्याऽ­नि­र्वा­च्या­वि­द्या­रू­प­त्व­म­ङ्गी­क­र्त­व्यम्, न तु दुर्नि­रू­प­त्व­मा­त्रेण तदपलापो युक्तः; अनु­मा­न­सि­द्ध­त्वात् । तथा हि – अस्ति तावन्मूढानामेवं व्यवहारः – अशनायाद्यतीतं विवे­कि­प्र­सि­द्ध­मा­त्म­तत्त्वं “नाऽस्ति, न प्रकाशते च“ इति । सोऽयं व्यवहार आत्मनि भाव­रू­पा­व­र­ण­नि­मित्तो भवितुमर्हति, “अस्ति, प्रकाशते” इत्या­दि­व्य­व­हा­र­पु­ष्क­ल­का­रणे सति तद्वि­प­री­त­व्य­व­हा­र­त्वाद्, यन्नैवं तन्नैवम्; यथास्ति प्रकाशते घट इति व्यवहारः । न च कार­ण­पौ­ष्क­ल्य­म­सि­द्धम्, नित्य­सि­द्ध­स्व­प्र­का­श­चै­त­न्या­ति­रे­के­णा­त्राऽ­न्या­पे­क्षा­भा­वात् । न चान्यथासिद्धिः; इतोऽ­ति­रि­क्ता­व­र­णस्य मूर्त्त­द्र­व्य­स्याऽऽ­त्मनि निरवयवे सर्वगते दुःसम्पादत्वात् । एवं चाऽऽत्म­न्यु­क्त­व्य­व­हा­र­यो­ग्य­त्वम् आवरणस्य स्वरूपमिति निरूपितं भवति ।

नन्व­ज्ञा­न­मि­त्यत्र नञो यद्यभावोऽर्थः तदा ज्ञानाभाव इति स्याद्, विरोध्यर्थत्वे च भ्रान्ति­ज्ञा­नम्, अन्यार्थत्वे च भ्रान्ति­सं­स्कारः; तथा च ज्ञाना­भा­व­भ्रा­न्ति­ज्ञा­न­त­त्सं­स्कारा एवाऽ­ज्ञा­ना­भि­धा­नास्त एव ब्रह्म­त­त्त्वा­व­भासं प्रति­ब­ध्यो­क्त­व्य­व­हारं जनयिष्यन्ति किमनेन भाव­रू­पा­व­र­ण­क­ल्प­ने­नेति चेद्, मैवम्; सुषुप्तादौ ब्रह्म­त­त्त्वा­न­व­भा­स­स्या­न­न्य­था­सि­द्ध­त्वात् ।तथा हि – किं तत्र ब्रह्मतत्त्वस्य स्वत एवाऽनवभासः किं वा पुरु­षा­न्त­र­सं­वे­द­न­वद् द्रष्टुर्जीवाद् ब्रह्मतत्त्वस्य भिन्नत्वेन उत प्रतिबन्धवशात् ? नाऽऽद्यः, ब्रह्मणः स्वप्रकाशत्वात् । न द्वितीयः, तत्त्व­म­सी­त्ये­क­त्व­श्रुतेः । तृतीये किं भ्रान्ति­ज्ञा­नात् प्रतिबन्ध उत तत्संस्काराद् अथवा ज्ञानाभावाद् आहोस्वित् कर्मवशात् ? नाऽऽद्यः; सुषुप्त्यादौ मिथ्या­ज्ञा­न­स्याऽपि लुप्तत्वात् । न द्वितीयः, रज­त­भ्र­म­सं­स्का­रस्य शुक्ति­त­त्त्वा­व­भा­स­प्र­ति­ब­न्ध­क­त्वा­द­र्श­नात् । तृतीये तु न तावत् स्वरूपज्ञानस्य नित्यस्याऽभावः सम्भवति । अन्य­ज्ञा­ना­भा­वस्तु न स्वय­म्प्र­का­श­ब्र­ह्म­त­त्वा­व­भा­स­प्र­ति­ब­न्ध­क्षमः । अन्यथा मुक्तावपि प्रति­ब­न्ध­प्र­स­ङ्गात् । चतुर्थेऽपि किं कर्माणि चैतन्यमखिलमपि प्रतिबध्नन्ति उत स्वावभासकांशं विहाय । आद्ये साधकाभावात् कर्माणि नैव सिध्येयुः । न द्वितीयः, अप्रा­मा­णि­का­र्द्ध­ज­र­ती­य­त्व­प्र­स­ङ्गात् । न च भावरूपावरणेऽपि तुल्यौ विकल्पदोषाविति वाच्यम्, स्वाव­भा­स­कां­श­प­रि­त्या­ग­स्याऽ­र्द्ध­ज­र­ती­य­स्याऽ­प्य­ह­मज्ञ इत्य­प­रो­क्षा­नु­भ­वा­न्य­था­नु­प­पत्त्या कल्प्यत्वात् । न च तथा कर्मा­ण्य­प­रो­क्षा­ण्य­नु­भू­यन्ते । यद्यपि तत्र परोक्षानुभव एव कल्पकः स्यात्, तथाऽपि कर्माणि न प्रतिबन्धकानि, संस्का­र­रू­प­त्वाद्, रज­त­भ्रा­न्ति­सं­स्का­र­वत् ।

ननु “ज्ञानमावृत्त्य तु तमः प्रमादे सञ्जयत्युत” इति स्मरणात् तमोगुण एव प्रतिबन्धकः स्यादिति चेद्, न; तस्य ब्रह्म­ज्ञा­ना­द­नि­वृ­त्ता­व­नि­र्मो­क्ष­प्र­स­ङ्गात् । निवृत्तौ तु तस्यैव भाव­रू­पा­व­र­ण­त्वा­न्ना­म­मात्रे विवादः स्यात् । तस्मा­द्भे­दा­भे­द­वा­दि­नाऽपि सुषुप्तौ ज्ञानाभाव एव ब्रह्म­त­त्त्वा­न­व­भा­स­हे­तु­रि­त्यमुं दुराग्रहं परित्यज्य भाव­रू­पा­ज्ञा­न­मे­वाऽ­ङ्गी­क­र्त्त­व्यम् । यच्च तदीयं दुराग्रहान्तरं जाग्रा­त्स्व­प्न­यो­रहं मनुष्य इति भ्रान्तिरेव ब्रह्म­त­त्त्वा­न­व­भा­स­हे­तु­रिति, तदप्यसत्; तन्मते भ्रान्तेरस्या दुर्भणत्वात् । यथैव खण्डो गौर्मुण्डो गौरि­त्य­त्रो­भ­य­सा­मा­ना­धि­क­र­ण्येन गोत्व­जा­ते­रे­कस्या एवोभाभ्यामपि व्यक्तिभ्यां सह भेदाभेदौ प्रामाणिकावेव स्वीक्रियेते तथैवाहं मनुष्योऽहं ब्रह्मेति चैकस्य जीवस्य शरी­र­ब्र­ह्म­भ्या­मु­भा­भ्या­मपि सह भेदाभेदौ प्रामाणिकावेव किं नाऽङ्गीक्रियेते ? तथा चाऽहं मनुष्य इति देहा­त्म­नो­र­भे­द­प्र­त्य­योऽपि प्रामाणिक एव स्यात्, न तु भ्रान्तिः । “नाऽहं मनुष्यः, किन्तु ब्रह्म” इत्ययं शास्त्री­य­नि­षे­धोऽपि “नाऽयं खण्डो गौः, किन्तु मुण्डः” इतिवदुपपद्यते । अथोच्येत प्रति­प­न्ने­द­न्तो­पाधौ यथा “नेदं रजतम्” इति निषेधः तथा प्रति­प­न्ना­त्मो­पाधौ “नाहं मनुष्यः” इति मनुष्यत्वस्य निषेधात् मनु­ष्य­त्व­प्र­ती­ति­रा­त्मनि भ्रान्तिरिति, तन्न; तथा सति खण्डो गौरिति खण्डाकारेण प्रतिपन्ने गोत्वोपाधौ पश्चान्नायं खण्ड इति निषेधात् खण्डप्रतीतेरपि भ्रान्ति­त्व­प्र­स­ङ्गात् । न च वाच्यं मुण्डे खण्डो निषिध्यते, न तु गोत्वोपाधाविति; मुण्डे खण्ड­स्याऽ­प्र­स­क्त­त्वात् । ननु खण्ड­व्य­क्त्या­व­च्छिन्नं गोत्वं प्रति­प­न्नो­पाधिः, न च तत्र खण्डो निषिध्यते, किन्तु मुण्ड­व्य­क्त्य­व­च्छिन्ने गोत्व इति चेत्, तर्हि प्रकृतेऽपि मनु­ष्य­त्वा­व­च्छिन्न आत्मा प्रतिपन्नोपाधिः । न च तत्र मनुष्यत्वं निषिध्यते, किन्तु ब्रह्म­त्वा­व­च्छिन्न आत्मनि । एवं सत्यनुगतेन गोत्वेन खण्ड­मु­ण्ड­व्यक्ती इवाऽ­नु­ग­ते­नाऽऽ­त्मना शरीरब्रह्मणी सम्बद्धे, ततः खण्डो गौरिति प्रत्ययवदहं मनुष्य इति प्रत्ययस्य प्रामाणिकत्वं दुर्वारम् । अथ तत्र व्यव­हा­रा­नु­च्छे­दात् प्रामाण्यं तव, तत्प्रकृतेऽपि समानम् । त्वन्मते मोक्षा­व­स्था­या­मपि सर्वो­पा­दा­न­का­र­ण­भू­तेन ब्रह्मणा सर्व­ज्ञे­नाऽ­भि­न्नस्य जीवस्य सर्वात्मतया सर्व­श­री­रे­न्द्रि­या­द्य­भि­मा­न­व्य­व­हा­रा­नु­च्छे­दात् । जाति­व्य­क्ति­का­र्य­का­र­ण­गु­ण­गु­णि­वि­शे­ष­ण­वि­शे­ष्याऽ­व­य­वा­व­य­वि­स­म्ब­न्धानां भेदा­भे­द­प्र­यो­ज­कानां पञ्चा­ना­म­प्य­भा­वा­द्दे­हा­त्म­नो­र­भेदो भ्रान्तिरिति चेद्; मैवम्; पञ्चानामपि सम्भूय प्रयोजकत्वं ताव­द्व्य­भि­चा­र­द­र्श­ना­द­यु­क्तम् । एकैकस्य प्रयोजकत्वे तु प्रयो­ज­क­बा­हु­ल्य­गौ­र­वस्य त्वयै­वा­ङ्गी­कृ­त­त्वात् शरी­र­श­री­रि­स­म्ब­न्धोऽपि प्रयोजकः किं न स्यात् । एत­स्याऽ­प्र­यो­ज­कत्वे तथैवान्येषामपि तदापादयितुं शक्यमिति न क्वाऽपि भेदाभेदौ सिध्येताम् । अथाऽ­ति­प्र­स­ङ्ग­भिया पञ्चस्वेव निर्बन्धः, तर्हि शरीरात्मनोः कार्य­का­र­ण­भा­वोऽस्तु । ब्रह्म­ग­त­का­र­ण­त्व­स्या­त्मनि चेत­न­त्व­सा­म्ये­नो­प­च­रितुं शक्यत्वात् । ननु मुख्यसम्बन्ध एव प्रयोजकः, तदभावादेवाहं मनुष्य इति प्रती­ति­र्भ्रा­न्ति­रिति चेत्, एवमपि भ्रान्ति­र्ना­माऽ­न्तः­क­र­ण­प­रि­णा­म­श्चे­दा­त्मा­श्र­याऽ­विद्या न स्यात् । अन्तःकरणपरिणाम एवा­त्म­न्या­रो­प्यत इति चेत्, तथा­प्य­न्य­था­ख्या­ति­वा­दि­न­स्तव मतेऽ­धि­ष्ठा­ना­रो­प्ययोः संसर्गस्य शून्य­त्वा­दा­त्मा­वि­द्या­स­म्बन्धो न स्यात् । अथात्मपरिणामो भ्रान्तिरिति चेद्, न; आत्म­नोऽ­प­रि­णा­मि­त्वात् । आत्म­नोऽ­प­रि­णा­मि­त्व­म­स्मा­क­म­सि­द्ध­मिति चेत्, सत्यम्; तथापि नित्य­ज्ञा­न­गु­ण­स्त्व­याऽऽत्मा स्वीक्रियते, तथा च तस्मिं­स्ति­ष्ठ­त्येव ज्ञाने भ्रान्ति­त्वा­का­र­प­रि­णामो वक्तव्यः । तच्च न युक्तम् । एक­जा­ती­य­वि­शे­ष­गु­ण­द्व­य­स्याऽ­वि­न­श्य­द­व­स्थ­स्यै­क­स्मिन् द्रव्ये युग­प­त्स­म­वा­या­यो­गात् । न हि पटे शौक्ल्यद्वयं युगपत्समवेतं दृश्यते । तस्मा­ज्जा­ग­र­स्व­प्न­यो­र­प्य­ना­द्य­नि­र्व­च­नी­या­ज्ञा­न­मेव ब्रह्मा­व­र­ण­म­भ्यु­प­ग­न्त­व्यम्।

नन्वज्ञानेन सम्बन्धे सत्या­त्म­नोऽ­स­ङ्गत्वं भज्येतेति चेद्, न; सम्ब­न्ध­स्याऽ­प्य­ना­दे­र­ज्ञा­न­व­त्क­ल्पि­तस्य स्वका­र्य­व­द­स­ङ्ग­त्वा­भ­ञ्ज­क­त्वात् । तदेवं भाव­रू­पा­ज्ञा­न­म­ना­त्मा­न­म­ना­वृ­त्यैव तत्र विक्षेपमात्रं जनयति आत्मानं त्वावृत्य तत्र “अहमिदम्” “ममेदम्” इत्वेवं व्यव­हा­र­यो­ग्या­न­ध्या­सा­नपि जनयति ।

नन्वहमिति निरंशश्चिदात्मा प्रतीयते, न त्विदं रज­त­मि­ति­व­दं­श­द्व­या­नु­विद्धं रूपम्, ततो नाऽयमध्यासः । तथेदमित्यपि शरीरं प्रतीयते । न च तस्याऽ­ध्य­स्तत्वं सम्भवति, प्रमा­ण­भू­तै­रि­न्द्रियैः गृह्यमाणत्वात् । अध्यस्तत्वे चाऽज्ञानवत् केव­ल­सा­क्षि­प्र­त्य­क्ष­वे­द्यता स्यात् । यद्यपीदं रजतमितिवदहं मनुष्य इत्यं­श­द्व­य­व­त्त्वे­ना­धि­ष्ठा­ना­रो­प्य­भावः प्रतीयते, तथापि नाऽसौ नियतः । आत्म­न्यु­त्क्रान्ते पृथगपि शरी­र­स्यो­प­ल­म्भात् । नह्यध्यस्तं रजतमधिष्ठानात् पृथगुपलभ्यते । अथ शरीरोपलम्भकं मानं व्यावहारिकमेव न तत्त्वावेदकमिति मन्ये­था­स्त­था­प्या­त्म­न्य­ध्य­स्तत्वे तत्रैव लयः स्यात् । न च तथा श्रूयते, किन्तु पृथिवीं शरीरमिति पृथिव्यामेव लयः श्रूयते; ततो नात्म­न्ये­त­द­ध्य­स्तम् । तथा ममेदमित्यपि शरी­र­व्य­ति­रि­क्तम् अहं­बु­द्ध्य­यो­ग्य­म­हं­क­र्तृ­स­म्ब­न्धि­व­स्तु­जातं प्रतीयते, न च तत्राऽ­ध्या­स­श­ङ्का­पीति । उच्यते – अहमित्यत्र ताव­ज्ज­डां­शा­न्त­र्भावं प्रति­पा­द­यि­ष्यामः, ततोऽसावध्यास एव । शरी­र­स्या­प्य­न्तः­क­र­णे­न्द्रि­य­वद् दृश्य­त्वा­द­ध्य­स्तत्वं साधनीयम् । अन्तः­क­र­णे­न्द्रि­याणां चात्मनः पृथ­क्स­त्त्वो­प­ल­ब्ध्य­भा­वा­द­ज्ञा­न­वत् केव­ल­सा­क्ष्य­प­रो­क्ष­त­याऽ­ध्या­स­सिद्धिः । न च तेषां संसृ­ष्ट­त­यै­वा­ध्यासो न स्वरूपेणेति शङ्कनीयम्, “न तस्य प्राणा उत्क्रामन्ति” अत्रैव “समलीयन्त” इत्या­त्म­न­त्त्वा­व­बोधे सत्यात्मन्येव लयश्रवणात्, स्वरू­प­तोऽ­प्य­ध्या­स­सिद्धेः । शरीरस्याऽपि पृथि­वी­द्वा­रे­णा­त्म­न्येव लय इत्यवगन्तव्यम् । यदा देहे­न्द्रि­या­दि­वि­शिष्टो भोक्ताऽ­ध्य­स्त­स्तदा तदुपकरणं बाह्य­भो­ग्य­जा­त­म­ध्य­स्त­मिति किमु वक्तव्यम् । न हि स्वप्न­मा­हे­न्द्र­जा­ल­क­ल्पि­तस्य राज्ञो राज्योपकरणं पारमार्थिकं भवति । तस्मादहमिदं ममेदमित्येते त्रयोऽप्यध्यासा एव ।

न च केव­ल­ध­र्मा­ध्या­सेऽपि विवदितव्यम्; “बधिरोऽहम्” इत्य­त्रे­न्द्रि­य­ध­र्मस्य केव­ल­बा­धि­र्य­स्याऽऽ­त्म­न्य­ध्या­स­द­र्श­नात् । ज्ञाना­ध्या­स­स्त्व­र्था­ध्या­सा­वि­ना­भू­त­त्वान्न पृथक् साधनीयः । तदि­त्थ­म­नु­भ­वा­रू­ढोऽ­ध्या­सोऽ­प­ल­पि­तु­म­शक्य इति सिद्धम् ।
गुरुशिष्यौ वादिनौ वा शास्त्रे तत्त्वविचारकौ ।
तत्र शिष्यं प्रति गुरुः पूर्व­म­ध्या­स­मु­क्त­वान् ॥ १ ॥
विवदन्तेऽत्र येऽध्यासे तानुद्दिश्याथ लक्षणम् ।
सम्भावनाप्रमाणं च कथ्य­तेऽ­ध्या­स­सि­द्धये ॥ २ ॥
ननु सर्वत्र लक्षणेन लक्ष्य­मि­त­र­स्माद् व्यावर्त्त्यते सम्भावनया च तस्य स्वदे­श­का­लो­पा­धा­व­स­म्भा­व­ना­बु­द्धि­र्नि­र­स्यते, प्रमाणेन च तत्सद्भावः साध्यते । तथा चात्रा­ध्या­स­सा­ध­ना­यो­प­न्य­सि­ष्य­मा­णानि प्रत्य­क्षा­नु­मा­न­व्य­व­हा­रा­न्य­था­नु­प­प­त्त्या­ग­मा­ख्यानि प्रमा­णा­न्ये­वाऽ­र्था­द­ध्या­स­स्याऽ­न्य­व्या­वृ­त्ता­व­स­म्भा­वा­ना­नि­र­सने च पर्यवस्यन्ति । अव्या­वृ­त्त­स्याऽ­स­म्भा­वि­तस्य चाऽध्यासस्य प्रमा­तु­म­श­क्य­त्वात् । अतो न लक्षणसम्भावने प्रमाणात् पृथग्वर्णनीये इति चेद्, मैवम्; द्विविधो ह्यत्रा­ध्या­सा­कारः । अन्य­स्या­न्या­त्मता मिथ्यात्वं चेति । तत्राऽ­न्य­स्या­न्या­त्म­तायाः साध­क­त्वे­नो­प­न्य­सि­ष्य­माणैः प्रत्य­क्षा­दि­भिर्न मिथ्या­त्व­म­नु­भ­वितुं शक्यते, मिथ्यात्वस्येदं रजतमित्यत्र बाधा­नु­प­प­त्ति­ग­म्य­त्वात् । इह च बाधाभावात् । नन्वत्राऽपि बाध­नि­मि­त्त­मि­त­रे­त­र­वि­वे­क­म­न्त­रे­णाऽ­न्य­स्या­न्या­त्म­ता­व­भा­सोऽ­य­मि­त्य­व­ग­न्तु­म­श­क्य­त्वा­द­स्त्येव बाध इति चेद्, मैवम्; यौक्तिकबाधे सत्यपि भ्रान्ति­प्र­ति­भा­सो­च्छे­दि­नोऽ­प­रो­क्ष­बा­ध­स्या­भा­वेन मिथ्या­त्वा­ध्य­व­सा­य­स्या­स्प­ष्ट­त्वात् । अतस्तस्य स्पष्टीकरणाय लक्षणमेव वक्तव्यम् । तथा लोके ज्ञाने­नाऽ­प्रा­मा­ण्य­हे­तु­र­हि­ते­नाऽ­व­ग­तेऽ­प्यौ­त्पा­ति­क­वि­तृ­सु­ष्या­दा­व­स­म्भा­व­ना­द­र्श­ना­द­त्रा­प्या­त्म­न्य­वि­ष­य­त्वा­स­ङ्ग­त्व­सा­दृ­श्या­भा­वा­दी­ना­म­ध्या­स­वि­रो­धि­ध­र्मा­णा­मु­प­ल­म्भा­द­स­म्भा­व­ना­बु­द्धि­र्जा­यते । न च वाच्यम् आत्म­न्य­वि­ष­या­दि­रू­पेऽ­न­व­गते सति नास­म्भा­व­ना­बुद्धिः, अवगते तु नाध्यास एव तिष्ठतीति; परो­क्षा­व­भा­स­स्या­स­म्भा­व­ना­बु­द्धि­हे­तु­त्वात्, तावता चाऽप­रो­क्षा­ध्या­साऽ­नि­वृत्तेः । तस्मा­द­स­म्भा­व­ना­नि­रा­साय प्रमाणात् पृथगेव सम्भावनाऽपि वक्तव्यैव । तथा चान्यैरपि लक्ष­ण­स­म्भा­व­ना­पू­र्व­कत्वं प्रमाणस्योक्तम् ।
मानधीना मेय­सि­द्धि­र्मा­न­सि­द्धिश्च लक्षणात् ।
तच्चा­ध्य­क्षा­दि­मा­नेषु गीर्वा­णै­र­प्य­वा­र­णम् ॥ १ ॥
सम्भावितः प्रतिज्ञायां पक्षः साध्येत हेतुना ।
न तस्य हेतु­भि­स्त्रा­ण­मु­त्प­त­न्नेव यो हतः ॥ २ ॥ इति ।
तत्राऽपि लक्षणपूर्विका सम्भावना । लक्षणेन हि व्यावृ­त्त­स्व­रूपे उपस्थापिते पश्चादिदं सम्भाव्यते न वेति विचारो युज्यते । अन्यथा निर्विषयो विचारः स्यात् । ततो लक्षणमेव प्रथमं वक्तव्यम् । तदुच्यते – द्विविधो ह्यध्यासो ज्ञान­वि­शि­ष्टोऽ­र्थोऽ­र्थ­वि­शिष्टं ज्ञानं चेति । तत्राऽर्थस्य तावत् स्मर्य­मा­ण­स­दृ­शोऽ­न्या­त्म­नाऽ­व­भा­स्य­मा­नोऽ­न्योऽ­र्थोऽ­ध्यास इति लक्षणम् । ज्ञानस्य तु स्मृति­स­मा­नोऽ­न्य­स्या­न्या­त्म­ता­व­भा­सोऽ­ध्यास इति ।

ननु “इदं रजतम्” इत्यत्र चक्षु­रा­दि­प्र­मा­णा­भा­वात् पारिशेष्यात् स्मर्यमाणमेव रजतं न पुन­स्त­त्स­दृ­श­मि­त्य­ख्या­ति­वा­दिन आहुरिति चेद्, मैवम्; पुरो­व­स्थि­त­त्वे­ना­व­भा­स­मा­न­त्वाद् । न चेदमंशस्यैव तथाऽवभासो न रजतस्येति मन्तव्यम्; यथा सम्य­क्स्थ­ले­ष्विदं रजतमयं घट इत्या­दि­ष्वि­त­रे­त­र­सं­सृष्टौ सामा­न्य­वि­शे­षा­व­प­रो­क्षा­व­व­भा­सेते तथेहापि प्रतिभासात् । अथ मतं सामा­न्य­वि­शे­ष­यो­र्नै­र­न्त­र्येण प्रतिभासात्तथा व्यवहारः, न तु संस­र्ग­सं­वि­त्स­द्भा­वा­दिति, तन्न; पर­मा­र्थ­स्थ­ला­दी­ष­न्न्यू­न­ताया अप्यदर्शनात् । पुरो­व­र्ति­र­ज­ता­भाव एव न्यूनतेति चेद्, न; किम­प­रो­क्ष­सं­वि­द­भा­वा­द्र­ज­ता­भा­व­नि­श्चयः, किं वा नेदं रजतमिति बाधकज्ञानात् ? नाद्यः, संवि­द­भा­व­स्यै­वाऽ­स­म्प्र­ति­पत्तेः । अर्थाभावेनैव संविदभावनिश्चये स्याद­न्यो­न्या­श्र­यता । तस्मा­द­प­रो­क्ष­सं­वि­त्स­द्भा­वा­देव पुरो­व­र्ति­र­ज­त­स­त्ताऽ­भ्यु­प­ग­न्तव्या । न च वैप­री­त्ये­ना­र्थ­स­त्ता­नि­श्च­या­धीनः संवि­त्स­त्ता­नि­श्चय इति वाच्यम्, तथा सत्य­र्थ­नि­श्च­योऽपि तथैव निश्चयान्तराधीन इत्य­न­व­स्था­प्र­स­ङ्गात् । तस्मात् संविन्निश्चयः स्वत एव तदधीना चार्थसत्ता । नापि द्वितीयः, “इदं रजतम्” इति पूर्वज्ञानेन विरु­द्ध­स्यो­त्त­र­ज्ञा­नस्य बाधासामर्थ्यात् । तर्ह्यु­त्त­र­ज्ञा­नस्य का गतिरिति चेत्, पूर्वज्ञानस्य त्वन्मते या गतिः सैव भविष्यति । यथा त्वयेदं रज­त­मि­त्य­त्रे­द­मा­का­र­र­ज­ता­का­र­यो­र­वि­वेकः कल्पितः तथा निषेधेऽप्यविवेक एव न तु संसर्गसंविदिति किं न कल्प्यते ? व्यव­हा­र­सं­वा­द­ज्ञा­ना­न्नि­षे­ध­सं­स­र्ग­सं­वि­द­स्तीति निश्चीयत इति चेत्, तर्हि संविदः स्वप्रकाशत्वं हीयेत । विप्रतिपन्नं प्रत्येवैवं प्रसाधनान्न ममापसिद्धान्त इति चेत्, तथाप्यनवस्था दुष्परिहरा । न च पुरो­व­र्त्ति­र­ज­ता­भावः सर्व­स­म्प्र­ति­पन्न इति वाच्यम्, यथाप्रतिभासमेव मिथ्यारजतस्य शुक्तिज्ञानेन निर­स­न­यो­ग्य­स्याऽ­स्मा­भि­र­भ्यु­प­ग­मात् । मिथ्या­र­ज­ता­भ्यु­प­ग­मोऽपि नेदं रजतमिति त्रैका­लि­क­नि­षे­धेन विरुध्यत इति चेत्, न; तस्य निषेधस्य लोक­प्र­सि­द्ध­प­र­मा­र्थ­र­ज­त­वि­ष­य­त्वात् । न चैव­म­प्र­स­क्त­प्र­ति­षेधः शङ्कनीयः, मिथ्याभूते रजते पर­मा­र्थ­र­ज­ता­र्थि­प्र­वृ­त्ति­द­र्श­नेन पर­मा­र्थ­र­ज­त­त्वस्य सामान्योपाधौ प्रस­क्ते­र­ङ्गी­का­र्य­त्वात् । अन्यथा भूतले घटनिषेधोऽपि दुर्भणः स्यात् । घटसत्त्वे निषेधो व्याहन्येत घटासत्त्वे चाऽप्र­स­क्त­प्र­ति­षेधः । ततो देश­सा­मा­न्यो­पा­धिना काल­सा­मा­न्यो­पा­धिना घटप्रसक्तिर्न तु साक्षात् । तथैव पर­मा­र्थ­र­ज­त­स्या­प्यस्तु । एवं च सत्युत्तरकालीनो नाऽस्त्यत्र रजतमिति प्रत्ययः परमार्थरजतविषयो मिथ्यैव रजतमभादिति प्रत्ययश्च मिथ्यारजतविषय इत्यु­भ­य­म­प्यु­प­प­द्यते । अन्यथैकः प्रत्य­योऽ­प­ल­प्येत । ननु रज­ता­प­रो­क्ष्या­नु­प­पत्त्या तु संसृष्टावभासं परिकल्प्य तदुपपत्तये हि मिथ्या­र­ज­त­क­ल्प­ना­क्लेशः क्रियते । रजतापरोक्ष्यं तु संसृ­ष्टा­व­भा­स­म­न्त­रे­णै­वाऽ­प­रो­क्ष­शु­क्ति­ज्ञा­ना­वि­वे­का­द­प्यु­प­प­द्यत इति चेद्, न; तथा सति विवे­क­ज्ञा­न­स­म­येऽ­प्ये­ता­वन्तं कालं तद्र­ज­त­म­ने­नाऽ­वि­वि­क्त­मि­त्य­वि­वेक एव परामृश्येत, न च तथा परामृश्यते; किं त्वेतावन्तं कालमिदं रजतमित्यभादिति प्रत्यभिज्ञया संसृष्टावभास एव परामृश्यते । अतः पुरो­व­र्त्ति­मि­थ्या­र­ज­त­म­ङ्गी­क­र्त्त­व्यम्; अन्यथा शुक्तिं दृष्ट्वा रजते प्रवर्तत इति किं केन सङ्गच्छेत ? तस्मात् न स्मर्यमाणमिदं रजतम्, किन्तु स्मर्य­मा­ण­स­दृ­श­मेव । तत्सादृश्यं च पूर्वा­नु­भ­व­सा­पे­क्ष­ज्ञा­न­ग­म्य­त्वा­दु­प­प­न्नम् । नह्य­न­नु­भू­त­र­ज­तस्य रज­त­भ्रा­न्ति­र्दृ­श्यते । अत एव संस्का­र­ज­न्य­त्वाद् ज्ञाना­ध्या­स­स्याऽपि स्मृति­सा­म्य­म­व­ग­न्त­व्यम् । विमतं न संस्कारजम्, स्मृति­व्य­ति­रि­क्त­ज्ञा­न­त्वात्, प्रत्यक्षवत्; इति चेद्, न; सम्प्र­यो­ग­मा­त्र­ज­न्य­त्व­स्यो­पा­धि­त्वात् । न चाऽनु­मा­ना­ग­मा­दि­ज्ञा­नेषु साध्याव्याप्तिः शङ्कनीया, व्याप्या­दि­ज्ञा­न­सा­पे­क्ष­त्वेन संस्कारजेषु तेषु साध्याभावात् ।

स्यादेतत् – विमताः प्रत्यया यथार्थाः, प्रत्ययत्वात्, संमतवत्, इति न्यायेन प्रमाणं स्मृतिश्चेति द्वैराश्यमेव ज्ञानस्य । तथा च रजतज्ञानमपि नाध्यासः, किन्तु स्मृतिः, संस्का­र­मा­त्र­ज­न्य­त्वात्, सम्मतवत् । न च स्मृतित्वे सत्य­ति­सा­दृ­श्या­च्छु­क्त्य­न्त­र­मेव किं न स्मर्यत इति वाच्यम्, कर्तृ­ग­त­रा­गा­दि­दो­षा­णा­मपि निमित्तत्वात्, शुक्त्यन्तरे तदभावात् । तैरेव दोषैः स्मरणाभिमानस्य प्रमुपितत्वान्न रजतस्मरणे तत्तांश उल्लिख्यते । तथा­वि­शे­षा­व­भा­स­क­त्वस्य तैरेव प्रति­ब­द्ध­त्वान्न शुक्तिग्रहणेऽपि नील­पृ­ष्ठ­त्वा­दि­क­म­व­भा­सते । तथा च ग्रहणस्मरणे उभे अप्यविवक्ते सम्पद्येते, ततो रजतार्थी पुरोवर्तिनि प्रवर्तते । ननु किं ग्रहणस्मरणे द्वे अपि प्रवर्त्तके ? आहोस्विदेकैकम् । आद्येऽपि किं सम्भूय प्रवर्त्तके ? किं वा क्रमेण ? नाऽऽद्यः, स्मृति­ग्र­ह­ण­यो­र्यौ­ग­प­द्या­भा­वात् । क्रम­वि­शि­ष्ट­यो­र्द्वयोः प्रव­र्त्त­क­त्व­मि­त्य­यु­क्तम्; पूर्वज्ञानस्य प्रवृत्तिं प्रति व्यव­हि­त­स्याऽ­का­र­ण­त्वात् । नाऽप्येकैकस्य प्रव­र्त्त­क­त्वम्, व्यवहारस्य विशि­ष्ट­वि­ष­य­त्वात् । ततो विशि­ष्ट­प्र­वृ­त्तये संसृष्टप्रत्यय एष्टव्य इति चेद्, न ग्रह­ण­स्म­र­ण­नै­र­न्त­र्यो­त्पत्तेः प्रवर्तकत्वात् । इदं रजतमित्यभादिति संसर्गप्रत्ययः प्रत्यभिज्ञायत इति चेद्, न; तादृ­श­व्य­व­हा­र­मा­त्र­त्वात् । यस्तु जातमात्रस्य बालस्य मधुरे तिक्त­त्वा­व­भा­स­स्थू­त्का­रा­द्य­नु­मेयः, सोऽपि जन्मा­न्त­रा­द्य­नु­भू­त­ति­क्त­त्व­स्मृ­ति­रेव, न तु भ्रान्तिरूपः संसर्गप्रत्ययः । माधु­र्य­वि­शे­ष­त­त्तांशौ तु ग्रहणस्मरणयोः पित्त­दो­षा­न्नो­ल्लि­ख्येते । जन्मा­न्त­रा­नु­भूतं च न स्मर्यत इति च भाष्यकारवचनं प्रायि­का­भि­प्रा­यम् । अन्यथा स्तन­पा­ना­दा­व­पी­ष्ट­सा­ध­न­ता­स्मृ­त्य­भा­वेन प्रवृत्तिर्न स्यात् । भ्रान्ति­प­क्षेऽपि जन्मान्तरानुभवः कार­ण­त्वे­नै­ष्टव्यः । अन्य­थाऽ­नु­भू­त­त्वा­वि­शे­षेण सप्तमरसोऽपि भ्रान्तौ भासेत । अतत्त्वे तत्त्वज्ञानमिति वदता शास्त्रकारेणैव दर्शितः संसर्गावभासो भ्रमत्वेनेति चेद्, न; तस्य व्यव­हा­रा­भि­प्रा­य­त्वात् । सम्यक्प्रदेशेषु संसर्गज्ञानस्य प्रवर्त्तकत्वं व्याप्तं तत्कुतोऽत्र त्यज्यत इति चेद्, गौरवादिति ब्रूमः । भ्रान्ति­वा­दि­नाऽपि तत्का­र­ण­त्वे­नाऽ­वश्यं ग्रह­ण­स्म­र­ण­यो­र­वि­वेक एष्टव्यः । तथा च तेनैवोभयसिद्धेन प्रवृत्तिसिद्धौ किम­ति­रि­क्त­सं­स­र्ग­ज्ञा­नेन ? तस्मादख्यातिरेव युक्तेति । अत्रोच्यते – केयमख्यातिर्नाम । किं ख्यात्य­भा­व­मा­त्र­मु­ता­न्या­र्थि­नोऽ­न्यत्र प्रवृ­त्ति­हे­तु­वि­ज्ञा­नम् ? अथा­वि­वि­क्ता­ने­क­प­दा­र्थ­ज्ञा­नम् ? आद्ये, सुषुप्तौ भ्रमः स्यान्न जाग्र­त्स्व­प्नयोः । द्वितीये, झटिति बाधादालस्याद्वा यत्र न प्रवृत्तिस्तत्र भ्रान्तिर्न स्यात् । तृतीयेऽपि अवि­वि­क्त­त्व­प्र­ति­यो­गि­वि­वि­क्तत्वं नाम किं भेदग्रहः ? उताभेदाग्रहः ? आहोस्वित् इत­रे­त­रा­भा­व­भे­द­द्वि­त्वा­दि­स­ङ्ख्या­वि­शि­ष्ट­ज्ञा­नम् ? नाद्यः, इदमिति रजतमिति चाऽपु­न­रु­क्त­श­ब्द­द्व­य­स्मृ­ति­हे­तु­त्वेन सामा­न्य­वि­शे­ष­यो­र्भे­द­ग्रहे सत्य­वि­वे­का­स­म्भ­वात् । न द्वितीयः, उक्तरीत्या भेदस्य गृहीतत्वादेव तद्वि­रु­द्ध­स्या­भे­द­स्याऽऽ­ग्रहे सति तद­ग्र­ह­नि­षे­ध­स्याऽ­वि­वि­क्त­त्वस्य दुःसम्पादत्वात् । तृतीयेऽपि किमाहत्यैव द्वित्वा­दि­ज्ञा­न­म­पे­क्षि­तम् ? उताऽऽ­नु­ष­ङ्गि­क­मपि पर्याप्तम् । आद्ये, “गामानय दण्डेन” इत्यत्र गोदण्डयोरपि साक्षाद् द्वित्वा­द्य­प्र­ती­ते­र­वि­वेकः प्रसज्येत । द्वितीये, पुरो­व­र्त्ति­र­ज­त­यो­र­प्या­नु­ष­ङ्गि­क­द्वि­त्वा­दि­ज्ञा­न­स­द्भा­वा­द­वि­वेको न स्यात् । ननु प्रति­यो­गि­न­मु­प­जी­व्या­वि­वे­का­नि­रू­प­णेऽपि धर्मिद्वारा निरूप्यतामिति चेत् ? तदप्यसत्; न तावत् प्रती­य­मा­न­यो­र्ध­र्मि­णो­र­वि­वेकः सम्भवति, अपुनरुक्तत्वेन स्पष्टं प्रतिभासात् । अप्र­ती­य­मा­न­यो­र­वि­वे­क­श्चेत् ? सुषुप्तावपि भ्रमः प्रसज्येत । नन्वविवेको नामाऽ­सं­स­र्गा­ग्रहः । स च प्रती­य­मा­न­यो­रि­दं­र­ज­तयोः सम्भवति, “इदंरजते असंसृष्टे” इति प्रत्य­या­द­र्श­ना­दिति चेत्, तदाऽपि किं ग्रह­ण­स्म­र­ण­यो­रे­वाऽ­सं­स­र्गा­ग्रहो विवक्षितः? उत ययोः कयोश्चिद् ? आहोस्वित् संस­र्ग­ज्ञा­न­र­हि­तयोः । आद्ये “अहं मनुष्यः” इति भ्रमो न स्यात्; उभयोरपि ग्रहणत्वात् । द्वितीये “खण्डो गौः, शुक्लः पटः” इत्यपि भ्रमः स्यात्; असं­स­र्ग­प्र­ती­त्य­भा­वात् । तृतीयेऽपि स एव दोषः; न हि तत्र संसर्गज्ञानं सम्भवति । तद्वि­ष­य­स्यै­क्य­स्याऽ­भा­वात् । ऐक्यस्य च तद्विषयत्वं प्रत्य­भि­ज्ञा­या­म­व­ग­तम् । यदि गुण­गु­ण्या­दि­स­म्बन्ध एव तद्विषयो नैक्य­मि­त्यु­च्यते तर्हीदं रजतमित्यत्राऽपि सादृ­श्य­स­म्ब­न्ध­स्त­द्वि­षय इति वक्तुं शक्यत्वेन संसर्गप्रत्ययो दुर्वारः । अथ तत्र नेदं रजतमिति असं­स­र्ग­प्र­त्य­येन बाधान्न संस­र्ग­त­त्प्र­त्ययौ सम्भवतः; तर्हि त्वन्मते गुणगुण्यादावपि इत­रे­त­रा­भा­व­ज्ञा­ना­ख्योऽ­सं­स­र्ग­प्र­त्य­योऽ­स्त्ये­वेति संस­र्ग­त­त्प्र­त्य­य­यो­र­स­म्भ­वाद् भ्रम­त्वा­प­त्ति­स्त­द­वस्था । तस्माद् नाऽसं­स­र्गा­ग्र­होऽ­प्य­वि­वेकः । नन्वविवेकं दूषयताऽत्र विवेचकं किञ्चि­न्नि­रू­प­णी­यम् । न तावत् ग्रहणं स्मर्यमाणात् स्वार्थं विविनक्ति; विशे­षा­व­भा­स­क­त्वस्य दोषैः प्रतिबद्धत्वात् । नाऽपि स्मरणं गृह्यमाणात् स्वार्थं विवेक्तुमलम्, स्मरणभिमानस्य प्रमु­पि­त­त्वा­दिति चेद् ? मैवम्; उभयोरपि विवेचकत्वस्य सुसम्पादत्वात् । तथा हि –– किमि­द­मा­का­र­र­ज­ता­का­र­यो­स्त­त्त­ज्जा­ति­व्य­क्ति­वि­शि­ष्ट­यो­रेव त्वया भेदोऽभ्युपेयते किं वा केवलयोरपि ? नाऽद्यः, प्रकृ­त­यो­रि­द­मा­का­र­र­ज­ता­का­र­यो­र्जा­त्या­द्य­वि­शि­ष्ट­यो­र्भे­दा­भा­वे­नैक्ये सति तद्गो­च­र­सं­स­र्ग­ज्ञा­न­प्र­स­ङ्गात् । द्वितीयेऽपि किं प्रथमज्ञानेन वस्तु गृहीत्वा द्वितीयज्ञानेन धर्मि­प्र­ति­यो­गि­भा­व­म­व­गत्य पश्चात् तृतीयज्ञानेन भेदो गृह्यते ? उत वस्तुना सहैव भेदग्रहणम् ? आद्ये सर्व­प­दा­र्थ­ज्ञा­नानां भेदग्रहणात् प्राग् अविविक्तविषयतया भ्रमत्वप्रसङ्गः । द्वितीये च इदन्ताग्रहणादेव भेदस्यापि गृहीतत्वेन भेदापेक्षितो विशे­षोऽ­प्य­व­भा­सित एवेति ग्रहणस्य विवे­च­क­त्व­म­ङ्गी­का­र्यम् । तथा स्मरणमपि विवेचकमेव । न हि स्मरणाभिमानो निरूपयितुं शक्यः, यत्प्रमोपात् स्मृते­र­वि­वे­च­क­त्वम् । तथा हि किं स्मृतिरेव स्मरणाभिमानः स्मृतेरन्यो वा स्मृतिगतधर्मो वा पूर्वा­नु­भ­व­वि­शि­ष्ट­त्वे­नाऽ­र्थ­ग्र­हणं वा स्वगत एव कश्चि­त्स्मृ­ति­वि­शेषो वा पूर्वा­नु­भ­व­गो­च­रा­द्वि­ज्ञि­ष्ट­ज्ञे­य­नि­मित्तो विशेषो वा फलभेदकजनकत्वं वा स्मरामीत्यनुभवो वा । नाऽद्यः, स्मृतेः प्रमोषे रज­त­ज्ञा­न­स्यै­वाऽ­भा­व­प्र­स­ङ्गात् । न द्वितीयः, अन्यस्य प्रमोषे स्मृते­र­वि­वे­च­क­त्व­मिति वैय­धि­क­र­ण्या­पा­तात् । न तृतीयः, तादृ­श­ध­र्मा­नु­प­ल­म्भात् । न चतुर्थः, पूर्वदृष्टः स एवायं देवदत्त इति प्रत्य­भि­ज्ञा­भ्रमे पूर्वा­नु­भ­व­स­म्भे­द­ग्रहे सत्येव विना तत्प्र­मो­ष­म­वि­वे­क­द­र्श­नात् । अथ केव­ल­स्मृ­ति­म­भि­ल­क्ष्यो­क्तम् प्रत्यभिज्ञा तु न तथेति चेत्, तथापि नाऽयं पक्ष एव सम्भवति । तथा हि – किं पूर्वानुभवः स्वात्मानमपि विषयीकरोति उतार्थमात्रम् ? नाद्यः, वृत्तिविरोधात् । द्वितीये त्वर्थ एव स्मृत्याऽ­व­भास्यो न तु पूर्वज्ञानं तस्या­न­नु­भू­त­त्वात् । ननु ज्ञातो घट इत्यत्र ज्ञान­वि­शि­ष्टा­र्थ­स्मृ­ति­र्दृ­श्यत इति चेत्, न; स्मृत्य­न्त­र­त्वात् । अनुव्यवसायेन ज्ञाना­गो­च­रा­नु­मा­नेन वा जन्येयं स्मृति­र्व्य­व­सा­य­ज­न्याया घटमात्रगोचरायाः स्मृतेरन्या । न चाऽनयाऽपि स्वजनको[ऽनु] व्यवसायाख्यः पूर्वानुभवो विषयीक्रियते किं तर्ह्य­नु­व्य­व­सा­ये­ना­नु­भूतो व्यवसाय [विशिष्टो] घट एव । अत एतत्सिद्धम् – विमता स्मृतिर्न स्वमू­ल­ज्ञा­न­वि­शि­ष्ट­मर्थं गृह्णाति, स्मृतित्वात्, पदा­र्थ­स्मृ­ति­वत्, इति । पदानि हि स्वस­म्ब­द्धे­ष्व­र्थेषु स्मृतिं जनयन्ति ।

नन्वेतद् बौद्धो न सहते । तथा हि – पदानामर्थैः संयो­गा­दि­स­म्ब­न्धा­ना­म­स­म्भ­वात् सम्ब­द्धा­र्थ­स्मा­र­क­त्व­मि­त्ये­त­द­यु­क्तम् । बोधजननशक्तिः सम्बन्ध इति चेत्, किम­नु­भ­व­ज­न­न­शक्तिः ? किं वा स्मृतिजननशक्तिः ? नाऽद्यः, पदानां वाक्यरूपेण वाक्या­र्था­नु­भ­व­ज­न­क­त्वेऽपि स्वार्थेषु तदसम्भवात् । व्युत्पत्तिकाले पदार्थानां माना­न्त­र­गृ­ही­त­त्वे­नाऽ­पू­र्वा­र्थ­त्वा­भा­वात् । तदुक्तम् – “पद­म­भ्य­धि­का­भा­वात् स्मरकान्न विशिष्यते” इति । द्वितीयेऽपि सा शक्तिर्न तावदज्ञाता स्मृति­मु­त्पा­द­यति; ज्ञातकारणत्वात् । नाऽपि ज्ञाता; शक्तेः कार्यै­क­स­म­धि­ग­म्य­त्वेन स्मृत्यु­त्प­त्ति­श­क्ति­ज्ञा­नयोः पर­स्प­रा­श्र­य­त्वात् । अथोच्यते – मध्य­म­वृ­द्ध­प्र­वृत्त्या प्रवृ­त्ति­हे­तु­ज्ञा­न­म­नु­माय शब्दा­न­न्त­र्या­त्त­ज्ज­न­कत्वं शब्दस्य निश्चि­त्या­वा­पो­द्धा­राभ्यां व्युत्पत्तिकाल एव शक्ति­नि­श्च­या­न्ना­न्योऽ­न्या­श्र­य­तेति । तदापि किं शब्दमात्रे शक्तिनिश्चयः अर्थ­वि­शे­ष­स­म्बद्धे वा ? नाद्यः, अस्य शब्दस्याऽयमर्थ इति निय­मा­सि­द्धि­प्र­स­ङ्गात् । द्वितीयेऽपि शक्तिसम्बन्धस्य व्यवस्थापकं सम्ब­न्धा­न्त­र­मे­ष्ट­व्य­मि­त्य­न­वस्था स्यात् । शक्तिः स्वपरनिर्वाहिका इति चेत्, तथापि स्मृतिकाले किं शब्द­मा­त्र­द­र्श­ना­दर्थः स्मर्यते किं वाऽर्थ­गो­च­र­श­क्ति­म­च्छ­ब्द­द­र्श­नाद् उत शक्ति­ज्ञा­न­ज­न्य­सं­स्का­रा­च्छ­ब्द­द­र्श­नाच्च । नाद्यः, अनियमापत्तेः । न द्वितीयः, शब्ददर्शनसमय एवाऽर्थस्याऽपि दृष्टत्वेन शब्द­ज­न्य­स्मृ­ति­वै­य­र्थ्यात् । न तृतीयः, तावता स्मृत्यसम्भवात् । अन्यत्र स्मार­क­स्मा­र्यायोः सादृ­श्य­वि­रो­धि­का­र्य­का­र­ण­भा­वा­दि­स­म्ब­न्धा­न्त­र­नि­य­मात् शब्दा­र्थ­यो­स्त­द­भा­वात् । तस्मात् पदानि स्मारकाणि, वाक्यं पुनः प्रमा­ण­मि­त्ये­त­द्वे­द­वा­दिनां प्रक्रि­या­मा­त्र­मिति । अत्रोच्यते – शब्ददर्शनात् शक्ति­सं­स्का­रा­च्चाऽ­र्थ­स्मृतौ न कश्चिद्दोषः । यदु­क्त­म­न्य­त्रे­त्या­दिना तदसत् । किमन्यत्रेव शब्देऽपि सादृ­श्या­दि­क­म­भ्यु­पे­य­मि­त्यु­च्यते किं वा शब्दवदन्यत्रापि शक्तिरेवाऽस्तु मा भूत्सा­दृ­श्या­दि­क­मिति किं वा शब्दे सादृ­श्या­दि­क­मू­ल­स­म्ब­न्धा­भा­वात् सत्यामपि शक्तौ न स्मृति­ज­न­क­त्व­मिति । नाद्यः, शब्दे सादृ­श्या­द­र्श­नाद्, अदृष्टस्य च कल्पने गौरवात् । अन्यत्र तु दृष्ट­त्वे­नाऽ­क­ल्प­नी­य­त्वात् । न द्वितीयः, अनु­भू­य­मा­न­स्याऽ­प­ला­पा­यो­गात् । न तृतीयः, शक्तस्य कार्यजनकत्वे व्याघातापत्तेः । तस्मा­च्छ­क्ति­मन्ति पदानि अर्थेषु स्मृतिं जनयन्त्येव । नहि तत्रार्थैः सह पूर्वानुभवाः स्मर्यन्ते । अन्यथा घटा­दि­व­द­नु­भ­वा­ना­मपि तत्त­च्छ­ब्दा­र्थत्वं प्रसज्येत । नाऽपि पञ्चमः, कार­ण­वि­ष­या­द्यु­पा­धि­म­न्त­रेण ज्ञानानां स्वरूपेषु क्वापि विशे­षा­नु­प­ल­म्भात् । नाऽपि षष्ठसप्तमौ, अनुभवगताभ्यां ज्ञेय­फ­ला­भ्या­म­ति­रि­क्त­ज्ञे­य­फ­लयोः स्मृतावभावात् । नाऽप्यष्टमः, स्मरा­मी­त्य­स्याऽ­नु­भ­व­स्याऽ­न्यत्र विवेचकत्वे सिद्धे सति अत्र कथञ्चित् प्रमोपादविवेचक इति वक्तुं शक्येतापि । तदेव तावदसिद्धम् । ग्रह­ण­वा­च­क­श­ब्द­प­रि­त्या­गेन स्मर­ण­वा­च­क­श­ब्दा­नु­विद्धो ह्ययमनुभवो जायते । स कथं प्रथमतो ग्रह­ण­स्म­र­ण­यो­र­सति विवेके सम्भवेत् ? तथा च विवेके सत्यनुभवः अनुभवे च सति विवेक इति स्याद­न्यो­न्या­श्र­यता । तदित्थं प्रमोपणीयस्य स्मरणाभिमानस्य दुर्भणत्वात् स्मरणस्य विवेचकत्वं प्राप्नोत्येव । ननु ग्रह­ण­स्म­र­ण­यो­र­र्थ­मा­त्र­वि­ष­यत्वे भेदा­भा­व­प्र­स­ङ्गे­नाऽ­वश्यं त्वयाऽपि स्मृतेः पूर्वा­नु­भ­व­वि­शि­ष्टा­र्थ­वि­ष­यत्वं स्वीकार्यं तदेव स्मर­णा­भि­मा­नोऽ­स्त्विति चेद्, न; कारणविशेषादेव भेदसिद्धेः । अन्यथा त्वन्मतेऽपि पूर्वा­नु­भ­व­गो­च­रा­नु­मा­न­ज्ञा­नात् स्मृतेः को भेदः स्याद् ? विषयस्य समत्वात् । ननु स इत्याकारेण स्मृति­र्ज्ञा­ना­नु­मा­ना­द्भि­द्यत इति चेत्, कोऽयं स इत्याकारः; किं परो­क्ष­दे­श­का­ला­दि­वि­शि­ष्टता उत पूर्वा­नु­भ­व­स­म्भि­न्नता किं वा संस्का­र­ज­न्य­त्वम् ? नाऽद्यः, अनुमानादिष्वपि स्मृति­त्व­प्र­स­ङ्गात् । न द्वितीयः, ज्ञानानुमानेऽपि प्रसङ्गात् । तृतीये तु कारणविशेष एव भेदहेतुः स्यात् ।

अस्तु तर्हि प्रकृतेऽपि संस्कारजन्यैव रजतस्मृतिरिति चेद्, न; रजतस्य पुरोवस्थितत्वेन प्रति­भा­सा­दि­त्यु­क्तो­त्त­र­त्वात् । न च पुरो­व­स्थि­त­त्व­म­वि­वे­क­कृ­त­मिति वक्तुं शक्यम्, अविवेकस्य भ्रमं प्रति अप्रयोजकत्वात् । तथा हि – किं गृह्य­मा­ण­यो­र­वि­वेकः किं वा गृह्य­मा­ण­स्म­र्य­मा­ण­यो­रुत स्मर्यमाणयोः ? नाद्यः, स्वप्न­द­शा­या­मा­त्म­व्य­ति­रि­क्तस्य कस्याप्यग्रहणेन द्वयो­र्गृ­ह्य­मा­ण­यो­र­भावे तदविवेकस्य भ्रम­प्र­यो­ज­क­स्या­प्य­भा­वेन भ्रमा­भा­व­प्र­स­ङ्गात् । न द्वितीयः, स्वप्न एव गृह्य­मा­णे­ना­त्मना स्मर्यमाणस्य नीलादेरविवेके सत्यहं नीलमिति प्रति­भा­स­प्र­स­ङ्गात् । तृतीये तु परोक्षमेव सर्वं भ्रान्ता­व­व­भा­सेत, सर्वस्याऽपि स्मर्यमाणत्वात् । एवं च सति प्रकृतस्य पुरो­व­स्थि­त­र­ज­त­ज्ञा­नस्य स्मृति­त्वा­नु­माने परो­क्षा­व­भा­सि­त्वो­पा­धि­र्द्र­ष्टव्यः । यथार्थानुमानस्य चाऽयं प्रतिप्रयोगः । विवादाध्यासिताः प्रत्यया न यथार्थाः, बाध्यमानत्वाद्, भ्रान्ति­व्य­व­हा­र­वत् इति । तस्माद् ज्ञान­द्वै­रा­श्य­दु­रा­ग्रहं परित्यज्य तृतीयं भ्रान्ति­ज्ञा­न­म­ङ्गी­क­र्त­व्यम् ।

ननु तर्हि मा भूदख्यातिः; अस्त्व­न्य­था­ख्यातिः; देशकालान्तरगतं हि रजतं शुक्ति­स­म्प्र­यु­क्तेन दोषो­प­हि­ते­न्द्रि­येण शुक्त्यात्मना गृह्यते । न चैव­म­न­नु­भू­त­स्याऽपि ग्रहणप्रसङ्गः, सादृ­श्या­दे­र्नि­या­म­क­त्वा­दिति; तदेतदसत्, किं ज्ञानेऽ­न्य­थात्वं किं वा फले उत वस्तुनि ? नाऽऽद्यः, रजताकारज्ञानं शुक्तिमालम्बत इति हि ज्ञानेऽ­न्य­थात्वं वाच्यम् । तत्र शुक्ते­रा­ल­म्ब­नत्वं नाम किं ज्ञानं प्रति स्वाका­र­स­म­र्प­क­त्वम् ? उत ज्ञान­प्र­यु­क्त­व्य­व­हा­र­वि­ष­य­त्वम् ? नाऽऽद्यः, रजताकारग्रस्तं ज्ञानं प्रति शुक्त्या­का­र­स­म­र्प­णा­स­म्भ­वात् । न द्वितीयः, व्याघ्रा­दि­द­र्श­न­प्र­यु­क्त­व्य­व­हा­र­वि­ष­यस्य खड्ग­कु­न्त­ध­नु­रा­दे­र्व्या­घ्रा­दि­ज्ञा­ना­ल­म्ब­न­त्व­प्र­स­ङ्गात् । नाऽपि फलेऽन्यथात्वम्, फलस्य स्फुरणस्य भ्रान्तौ सम्यग्ज्ञाने वा स्वरूपतो वैषम्यादर्शनात् । वस्तुन्यपि कथमन्यथात्वम् ? किं शुक्तिकाया रजततादात्म्यं किं वा रजताकारेण परिणामः ? आद्येऽपि किं शुक्ति­र­ज­त­यो­र­त्यन्तं भेदः किं वा भेदाभेदौ ? नाऽऽद्यः, अत्य­न्त­भि­न्न­यो­र्वा­स्त­व­ता­दा­त्म्या­स­म्भ­वात्; अनि­र्व­च­नी­य­त्वस्य त्वयाऽ­न­भ्यु­प­ग­मात् । शून्य­ता­दा­त्म्य­प्र­तीतौ गुणगुण्यादावपि तत्सम्भवेन भ्रान्तित्वं दुर्वारम्, समवायस्य प्रक्रि­या­मा­त्र­सि­द्धस्य तादा­त्म्या­न­ति­रे­कात् । भेदाभेदपक्षे तु खण्डो गौरि­ति­व­द­भ्रान्तिः स्यात् । परिणामपक्षेऽपि बाधो न स्यात् – विमतं रज­त­ज्ञा­न­म­बा­ध्यम्, परि­णा­म­ज्ञा­न­त्वात्, क्षीर­प­रि­णा­म­द­धि­ज्ञा­न­वत् । ततः क्षीरवदेव शुक्तिः पुनर्न दृश्येत । ननु कमलस्य विका­श­रू­प­प­रि­णा­म­हेतोः सूर्यतेजसोऽपगमे पुन­र्मु­कु­ली­भा­व­व­द्र­ज­त­प­रि­णा­म­हे­तो­र्दो­ष­स्याऽ­प­गमे पुनः शुक्ति­भा­वोऽस्तु, मैवम्; विकसितमेव मुकु­ल­मा­सी­दि­ति­व­द्र­ज­त­मेव शुक्तिरासीदिति प्रतीत्यभावात् । कथ­ञ्चि­त्त­द्भा­वेऽपि न परिणामपक्षो युक्तः, निर्दोषस्याऽपि रज­त­प्र­ती­ति­प्र­स­ङ्गात् । न ह्येकमेव क्षीरं दधिरूपेण कञ्चित्पुरुषं प्रति परिणतमन्यं प्रति नेति दृष्टचरम् । तस्मा­न्नाऽ­न्य­था­ख्यातिः सुनिरूपा ।

अस्तु तर्ह्या­त्म­ख्यातिः – विमतं रजतं बुद्धिरूपम्, सम्प्र­यो­ग­म­न्त­रे­णाऽ­प­रो­क्ष­त्वाद्, बुद्धिवत् । ननु चतुर्विधान् हेतून् प्रतीत्य चित्तचैत्या उत्पद्यन्त इति हि सौगतानां मतम् । तत्र न तावत् सह­का­रि­प्र­त्य­या­ख्या­दा­लो­कादे रजताकारोदयः सम्भवति, तस्य स्पष्ट­ता­मा­त्र­हे­तु­त्वात् । नाऽप्य­धि­प­ति­प्र­त्य­या­ख्यात् चक्षुरादेः, तस्य विष­य­नि­य­म­मा­त्र­हे­तु­त्वात् । नाऽपि सम­न­न्त­र­प्र­त्य­या­ख्यात् पूर्वज्ञानात्; विजा­ती­य­घ­ट­ज्ञा­ना­न­न्तरं विजा­ती­य­र­ज­त­भ्र­मो­द­य­द­र्श­नात् । नाऽप्या­ल­म्ब­न­प्र­त्य­या­ख्या­द्बा­ह्यात्, विज्ञानवादिना तदनङ्गीकारात् । ततः कथं विज्ञानस्य रजताकार इति चेत्, संस्का­र­सा­म­र्थ्या­दिति ब्रूमः । ननु संस्कारस्याऽपि स्थायित्वे क्षणिकं सर्वमिति सिद्धान्तहानिः । क्षणिकत्वेऽपि तस्य ज्ञेयत्वेन विज्ञा­न­मा­त्र­वा­द­हा­नि­रिति चेद्, न; अना­दि­सि­द्ध­ज्ञा­न­स­न्ततौ यदा कदाचित्पूर्वं रज­त­ज्ञा­न­मु­त्पन्नं तदेव संस्कार इत्यङ्गीकारात् । यद्यपि संस्कारो विजा­ती­या­ने­क­ज्ञा­न­व्य­व­हि­त­स्त­थापि कदाचित्सजातीयं रज­त­ज्ञा­ना­न्त­र­मु­त्पा­द­यति । यथा व्रीहि­बी­ज­म­ने­का­ङ्कु­रा­दि­कार्यं व्यवधानेन पुनः सजा­ती­य­बी­जा­न्त­र­मु­त्पा­द­यति तद्वत् । अथ न पूर्व­बी­जा­दु­त्त­र­बी­जो­त्पत्तिः, किन्तु पूर्व­बी­ज­ज­न्या­ङ्कु­रा­दि­स­न्ता­ना­दिति मन्यसे ? तर्ह्यत्रापि पूर्व­र­ज­त­ज्ञा­न­ज­न्य­ज्ञा­न­स­न्तान एव संस्कारोऽ‍स्तु । एवं पूर्व­र­ज­त­ज्ञा­न­मपि पूर्व­र­ज­त­ज्ञा­ना­दु­त्प­द्यते । ततोऽ­ना­दि­वा­स­ना­प्रा­पितं रजतं बुद्धिरूपमेव सद् भ्रान्त्या बहिर्वदवभासते इति । अत्रोच्यते – किं तद्र­ज­म­लौ­कि­क­त्वा­ज्ज­न्म­र­हि­तम् उत लौकिकरजतवदेव जायते ? आद्ये जाय­मा­न­ज्ञा­न­स्व­रूपं न स्यात् । द्वितीयेऽपि किं बाह्या­र्था­ज्जा­यते उत ज्ञानात् ? नाऽऽद्यः, त्वया बाह्या­र्थ­स्याऽ­न­ङ्गी­का­रात् । ज्ञानमपि विशुद्धं तावन्न जनकम्; विशुद्धज्ञानस्य मोक्षरूपत्वात् । अथ दुष्ट­का­र­ण­ज­न्य­ज्ञा­ना­द्र­ज­तो­त्पादः, तथाऽपि किं जनकप्रतीतिरेव रजतं गृह्णाति अन्या वा ? नाऽऽद्यः, क्षणि­क­यो­र्ज­न्य­ज­न­क­यो­र्भि­न्न­का­ली­न­त्वे­नाऽ­प­रो­क्ष­र­ज­त­प्र­ती­त्य­भा­व­प्र­स­ङ्गात् । अन्यप्रतीतिरपि न ताव­द­दु­ष्ट­का­र­ण­जन्या रजतग्राहिणी, अतिप्रसङ्गात् । दुष्टकारणजन्या अपि यदि रजतजन्या तदा रज­त­स्याऽ­र्थ­क्रि­या­का­रि­त्वेन सत्त्वे सति बाह्योऽ­र्थोऽ­ङ्गी­कार्यः स्यात् । रजताजन्यत्वे तु न रजतं तद्विषयः स्यात्; ज्ञानाकारार्पको हेतुर्विषय इत्यङ्गीकारात् । तस्मा­दा­त्म­ख्या­ति­पक्षे रजतमेव न प्रतीयेत । ननु तवाऽपि रजतज्ञानस्य स्मृतित्वे स्याद­ख्या­ति­र्ग्र­ह­णत्वे चाऽन्यथाख्यातिः आत्मख्यातिर्वा स्यात्, न हि ज्ञानस्य स्मृति­ग्र­ह­णा­भ्या­मन्यः प्रकारः सम्भवतीति चेद्, मैवम्; किं विल­क्ष­ण­सा­म­ग्र्या­नि­रू­प­णा­त्त­द­स­म्भवः ? किं वा विल­क्ष­ण­ज्ञा­न­स्व­रू­पा­नि­रू­प­णाद् उत विल­क्ष­ण­वि­ष­या­नि­रू­प­णात् ? नाऽऽद्यः सम्प्र­यो­ग­सं­स्का­र­दो­षाणां सामग्रीत्वात् । न च वाच्यं दोषः प्रतिबन्धकत्वेन पूर्व­प्रा­प्त­का­र्या­नु­द­य­स्यैव हेतुर्न त्वपू­र्व­का­र्यो­द­य­स्येति; अनुदयस्य प्राग­भा­व­रू­प­स्याऽ­ना­दि­त्वेन दोषाजन्यत्वात् । वात­पि­त्ता­दि­दो­षाणां चाऽपू­र्व­का­र्यो­त्पा­द­क­त्व­द­र्श­नात् । न च दोषस्य संस्का­रो­द्बो­ध­क­त्वे­नाऽ­न्य­था­सिद्धिः, तदु­द्बो­ध­स्याऽ­वा­न्त­र­व्या­पा­र­त्वात् । नह्यु­द्य­म­न­नि­प­तने कुर्वन् कुठारः छिदिक्रियां प्रत्य­हे­तु­र्भ­वति । ननु सम्प्र­यो­ग­स्ये­द­न्ता­मा­त्र­ज्ञा­नो­प­क्षी­ण­त्वात् संस्कारस्य स्मृति­ज­न­क­त्वेऽपि त्वयाऽत्र स्मृते­र­न­ङ्गी­कृ­त­त्वा­द्दो­षस्य च स्वातन्त्र्येण ज्ञान­हे­तु­त्वा­द­र्श­नाद् रजतावभासः कथमिति चेत्, उच्यते – प्रथमं दोष­स­हि­ते­ने­न्द्रि­ये­णे­द­न्ता­मा­त्र­वि­ष­याऽ­न्तः­क­र­ण­वृ­त्ति­र्ज­न्यते, तत इदन्तायां तद्ग्राहकवृत्तौ च चैत­न्य­म­भि­व्य­ज्यते, तच्चैतन्यनिष्ठा चाऽविद्या दोषवशात् सङ्क्षुभ्नाति, तत्रै­द­मं­शा­व­च्छि­न्न­चै­त­न्य­स्थाऽ­विद्या संक्षुभिता सती सादृ­श्या­दु­द्बो­धि­त­रू­प्य­सं­स्का­र­स­हा­य­व­शाद् रूप्याकारेण विवर्त्तते । वृत्त्य­व­च्छि­न्न­चै­त­न्य­स्थाऽ­विद्या तु रूप्य­ग्रा­हि­वृ­त्ति­सं­स्का­र­स­ह­कृता वृत्तिरूपेण विवर्त्तते; तौ च रूप्य­वि­व­र्त्त­वृ­त्ति­वि­वर्त्तौ स्वस्वा­धि­ष्ठा­नेन साक्षि­चै­त­न्ये­नाऽ­व­भा­स्येते इत्येवं रजतावभासः । यद्य­प्य­त्राऽ­न्तः­क­र­ण­वृ­त्ति­र­वि­द्या­वृ­त्ति­श्चेति ज्ञानद्वयम्, तथाऽपि तद्विषयः सत्यानृतयोरिदं रज­त­यो­र­न्यो­न्या­त्म­त­यै­क­त्व­मा­प­न्न­स्ततो विष­या­व­च्छि­न्न­फ­ल­स्याऽ­प्ये­क­त्वेन ज्ञानै­क्य­म­प्यु­प­च­र्यते । नाऽपि द्वितीयतृतीयौ, मिथ्या­ज्ञा­न­मि­थ्या­वि­ष­य­यो­र्नि­रू­प­णात् । यद्यप्यत्र सम्प्र­यो­ग­सं­स्कारौ निरपेक्षावेव प्रमि­ति­स्मृ­त्यो­र्ज­नने समर्थौ, तथापि प्रमि­ति­स्मृ­ति­नै­र­न्त­र्यो­त्प­त्ति­मा­त्रेण प्रवृ­त्त्य­स­म्भ­वा­दु­भाभ्यां सम्प्र­यो­ग­सं­स्का­राभ्यां जन्यमेकं मिथ्याज्ञानं कल्पनीयम् । यथा निर­न्त­रो­त्प­न्ने­ष्वपि वर्णज्ञानेषु यौगपद्याभावात् पदा­र्थ­ज्ञा­ना­न्य­था­नु­प­पत्त्या पूर्व­पू­र्व­व­र्ण­सं­स्का­र­स­हि­त­म­न्त्य­व­र्ण­वि­ज्ञा­न­मे­क­मेव हेतुत्वेन त्वया कल्प्यते, तद्वत् ।

ननु विमतं ज्ञानं नैकं भिन्न­का­र­ण­ज­न्य­त्वा­द्रू­प­र­स­ज्ञा­न­व­दिति चेद्, न; अनु­मा­न­प्र­त्य­भि­ज्ञ­यो­र­नै­का­न्त्यात् । तत्रोभयत्रापि स्मृति­ग­र्भ­मे­कै­क­मेव हि प्रमा­ण­ज्ञा­न­म­भ्यु­प­ग­तम् । कारणं चानुमानस्य व्याप्ति­सं­स्का­र­लि­ङ्ग­द­र्शने, प्रत्य­भि­ज्ञा­यास्तु सम्प्र­यो­ग­सं­स्कारौ । न चानुमानस्य व्याप्ति­स्मृ­ति­लि­ङ्ग­द­र्शने कारणं न संस्कार इति वाच्यम्, ज्ञान­द्व­य­यौ­ग­प­द्या­स­म्भ­वात् । यद्यपि स्मृतेः प्रत्य­भि­ज्ञा­का­र­ण­तायां नायं दोषस्तथापि स्मृति­हे­तु­त्वे­ना­वश्यं संस्कारोद्बोधो वक्तव्यः । तथा च तेनैव तदुत्पत्तौ, स्मृतेः केव­ल­व्य­ति­रे­का­भा­वा­द्गौ­र­वाच्च न कारणत्वम् । ननु रूप्यधीर्न निर­पे­क्षा­ने­क­का­र­ण­जन्या अभिज्ञात्वाद् घटज्ञानवदिति चेद्, न; रूप्य­धी­रु­क्त­जन्या अभि­ज्ञा­प्र­मा­ण­स्मृ­ति­भ्या­म­न्य­त्वात् प्रत्य­भि­ज्ञा­व­दि­त्यपि सुवचत्वात् । न च वाच्यं रूप्यधीः प्रमा संस्का­र­स­हि­त­हे­तु­ज­न्य­त्वा­द­नु­मा­न­व­दिति, दोषा­ज­न्या­नु­भ­व­त्व­स्यो­पा­धि­त्वात् । ननु ज्ञानेऽ­नु­प­प­त्त्य­भा­वेऽपि रूप्यस्य सत्त्वे­ना­नु­भू­य­मा­नस्य मिथ्यात्वं विरुद्धमिति चेद्, मैवम्; शुक्ती­द­न्तां­श­व­च्छु­क्ति­स­त्ताया एव रज­त­सं­स­र्गा­ङ्गी­का­रात् । तर्हि तस्य संसर्गस्यैव सत्त्वे­ना­नु­भू­तस्य मिथ्यात्वं विरुद्धमिति चेद्, एवं तर्हि त्रिविधं सत्त्वमस्तु – ब्रह्मणः पारमार्थिकं सत्त्वम्, आका­शा­दे­र्मा­यो­पा­धिकं व्याहारिकं सत्त्वम्, शुक्ति­र­ज­ता­दे­र­वि­द्यो­पा­धिकं प्रातिभासिकं सत्त्वम् । तत्रा­पा­र­मा­र्थि­क­स­त्त्व­यो­र्द्व­यो­र्मि­थ्या­त्व­म­वि­रु­द्धम् । न च मिथ्यात्वकल्पनं मानहीनम्, “मिथ्यैव रजतमभात्” इति रज­त­त­द्ज्ञा­न­यो­र्मि­थ्या­त्व­प्र­त्य­भि­ज्ञा­नात् । अतो न मता­न्त­र­व­द­स्म­न्मते अनुभवविरोधो निर्मूलकल्पना वा । अख्यातौ त्वप­रो­क्षा­व­भा­सिनः स्मर्यमाणत्वं विरुध्यते । ज्ञान­द्व­य­र­ज­ता­पा­रो­क्ष्य­स्मृ­ति­त्व­स्म­र­णा­भि­मा­न­प्र­मो­पा­दिकं बह्वदृष्टं कल्प्यम् । एवं मतान्तरेष्वपि यथायोगमूहनीयम् । अतो रजतं माया­म­य­मि­त्य­स्म­न्म­त­मे­वा­द­र्त­व्यम् ।

ननु तत्त्व­ज्ञा­न­नि­व­र्त्य­त्वा­द्र­ज­त­म­वि­द्या­मयं न तु मायामयम् । न च मायैवाविद्या, लक्ष­ण­प्र­सि­द्धिभ्यां तयोर्भेदावगमात् । आश्र­य­म­व्या­मो­ह­यन्ती कर्तु­रि­च्छा­म­नु­स­रन्ती माया तद्विपरीता त्वविद्या । लोके हि माया­नि­र्मि­त­ह­स्त्य­श्व­र­थादौ मायाशब्द एव प्रसिद्धो नाविद्याशब्द इति । उच्यते – अनिर्वचनीयत्वे सति सत्त्वा­व­भा­स­प्र­ति­ब­न्ध­वि­प­र्य­या­व­भा­स­यो­र्हे­तुत्वं लक्षणं तच्चो­भ­यो­र­वि­शि­ष्टम् । न च मन्त्रौषधादि सत्यं वस्त्वेव मायेति वाच्यम्, तत्र माया­श­ब्द­प्र­यो­गा­भा­वात् । द्रष्टारो हि दृष्ट­मि­न्द्र­जा­ल­मेव मायां वदन्ति न त्वदृष्टं मन्त्रादिकम् । मन्त्रा­न्व­य­व्य­ति­रेकौ तु काचा­दि­व­न्नि­मि­त्त­का­र­ण­त्वे­नो­प­पन्नौ । न ह्यनिर्वचनीयं माया­श­ब्द­वा­च्य­मि­न्द्र­जालं सत्य­म­न्त्रा­द्यु­पा­दा­नकं भवति । अतोऽ­ना­द्य­नि­र्व­च­नीयं किञ्चिदुपादानं कल्पनीयम्, सादि­त्वेऽ­न­व­स्था­पत्तेः । तस्य च माया­श­ब्द­वा­च्य­त्व­मु­पा­दा­नो­पा­दे­य­यो­र­भे­दा­दु­प­प­न्नम् । एवं चेन्द्र­जा­लो­पा­दा­न­त्वेन कल्पिता मायैव रज­ता­द्य­ध्या­सा­ना­म­प्यु­पा­दा­न­मस्तु, मास्तु पृथगविद्या; मायां तु प्रकृतिमिति सर्वो­पा­दा­न­त्व­श्रुतेः । अतो लाघ­वा­न्मा­यै­वा­विद्या । न च मायाया आश्रयं प्रत्य­व्या­मो­ह­कत्वं नियतम्, विष्णोः स्वाश्रितमाययैव रामावतारे मोहितत्वात् । नाप्यविद्याया आश्र­य­व्या­मो­ह­नि­यतिः, जल­म­ध्येऽ­धो­मु­ख­त्वेन वृक्षे­ष्व­ध्य­स्ते­ष्वपि तदू­र्ध्व­मु­ख­तायां द्रष्टु­र­व्या­मो­हात् । अथात्र तीर­स्थ­वृ­क्ष­द­र्श­न­ज­न्य­वि­वे­क­व­शा­द­व्या­मोहः अवि­द्या­स्व­भा­वस्तु व्यामोहक इति चेत्, तर्ह्यै­न्द्र­जा­लि­क­स्यापि प्रती­का­र­ज्ञा­ना­द­व्या­मोहः । माया तु स्वभावाद् व्यामोहिकैव, इन्द्र­जा­ल­द्र­ष्टृषु व्यामोहदर्शनात् । सति तु प्रतीकारज्ञाने तेऽपि न मुह्य­न्त्ये­वे­त्य­ना­श्र­यत्वं न व्यामो­ह­प्र­यो­ज­कम् । न च माया कर्तु­रि­च्छा­म­नु­स­रति, मन्त्रौषधादौ निमित्तकारण एव कर्तुः स्वातन्त्र्यात् । तादृशं चेच्छा­नु­व­र्ति­त्व­म­वि­द्याया अपि दृष्टम्, नेत्र­स्या­ङ्गु­ल्य­व­ष्ट­म्भेन द्विच­न्द्र­भ्र­मो­त्पत्तेः । अविद्यास्वरूपे कर्त्ता न व्याप्रियत इति चेत्, तदितरत्रापि समम् । प्रसिद्धिरपि शास्त्रीया तावत्तयोरभेदमेव गमयति, “भूयश्चान्ते विश्व­मा­या­नि­वृत्तिः” इत्यादिश्रुतौ सम्य­ग्ज्ञा­न­नि­व­र्त्या­वि­द्यायां माया­श­ब्द­प्र­यो­गात् ।
तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते ।
योगी मायाममेयाय तस्मै विद्यात्मने नमः ॥
इति स्मृतौ मायाऽ­वि­द्य­यो­र्मु­खत एवै­क­त्व­नि­र्दे­शात् । लोक­प्र­सि­द्धि­स्त्वे­क­स्मि­न्नपि वस्तु­न्यु­पा­धि­भे­दा­दु­प­प­द्यते । विरू­प­ज­न­क­त्वा­का­रे­णे­च्छा­धी­न­त्वा­का­रेण वा मायेति व्यवहारः । आवरणाकारेण स्वात­न्त्र्या­का­रेण वाविद्येति व्यवहारः । तस्माद्रजतस्य माया­म­य­त्व­मु­प­प­न्नम् । ननु कोऽयं क्लेशः रजतं यथावभासं पार­मा­र्थि­क­मे­वा­स्त्विति चेद्, न; तथा सति घटा­दि­व­द्दो­ष­र­हि­तै­रपि गृह्येत । पार­मा­र्थि­क­ग्र­हणं प्रत्यपि दोषस्य कारणत्वे, निर्दोषाणां न किञ्चित् प्रतिभायात् । मायामयत्वे तद् दोष एव नियंस्यति । विमतं सर्वैर्ग्राह्यं शुक्ती­द­मं­श­ग­त्वा­च्छौ­क्ल्य­व­दिति चेद्, न; इद­मं­श­मा­त्र­ग­त­त्व­स्यो­पा­धि­त्वात् । मायारजतं तु दोष­ज­न्य­बु­द्ध्याऽ­भि­व्यक्ते शुक्ती­द­मं­शा­व­च्छिन्ने चैत­न्येऽ­ध्य­स्तम्, ततो निर्दोषैर्न गृह्यते । न ह्यन्यबुद्धिः पुरु­षा­न्त­र­प्र­त्यक्षा । अथ पुनः परमार्थवादी कथंचिद् दृष्टं नियामकं ब्रूयात्, तथाप्यसौ नेदं रजतमिति प्रतिपन्नोपाधौ रजतस्य त्रैका­ल्या­भा­व­बो­धकं बाधकप्रत्यक्षं कथं निस्तरेत् ? मिथ्यावादे त्वनु­कू­ल­मे­वै­तत्, प्रति­प­न्नो­पा­धा­व­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­स्यैव मिथ्या­त्व­ल­क्ष­ण­त्वात् । न ह्ययं निषेधो मिथ्यारजतं गोच­र­य­ती­त्य­ध­स्ता­देव मिथ्यैवाभादिति प्रत्य­भि­ज्ञा­प्र­त्य­य­मा­श्रि­त्यो­प­पा­दि­तम् । अन्य­था­ख्या­त्या­त्म­ख्या­त्योस्तु “नेदं रजतं” किन्तु तद्रजतमिति वा बुद्धिरिति वा परामर्शः स्याद्, न तु मिथ्यैवेति । अतो निर्दो­षै­र­ग्र­ह­णा­द्बा­ध­प­रा­म­र्शाभ्यां च रजतस्य मिथ्यात्वमेव युक्तं न सत्यत्वम् ।

ननु कोऽयं बाधो नाम यद्ब­ला­न्मि­थ्या­त्व­नि­श्चयः । किम­न्या­र्थि­नोऽ­न्यत्र प्रवृत्तिनिरोधः किं वा तत्प्र­वृ­त्ति­यो­ग्य­ता­वि­च्छेद उताऽविविक्ततया प्रतिपन्नस्य विवेक आहो­स्वि­त्ता­दा­त्म्येन प्रति­प­न्न­स्या­न्यो­न्या­भा­व­प्र­ति­पत्तिः अथवा विपरीतज्ञानस्य प्रध्वंसः तद्वि­ष­य­प्र­ध्वंसो वा दोषादिप्रध्वंसो वा ? नाद्यः, विरक्तस्य प्रवृत्त्यभावेन बाधा­भा­व­प्र­स­ङ्गात् । अथ राग­पू­र्व­क­प्र­वृत्ति निरोधो बाधः, तदापि दूरे मरीच्युदकं दृष्ट्वा प्रवर्त्तमानस्य मार्गे सर्पचोरादि दर्शनेन निवृत्तौ बाधप्रसङ्गः । न च तत्र बाधः, उद­क­ज्ञा­न­स्या­नि­वृत्तेः । न द्वितीयः, कालान्तरे तत्रैव शुक्तौ भ्रान्ति­प्र­वृ­त्ति­स­म्भ­वेन योग्यताया अविच्छेदात् । तृतीयेऽपि किं वस्तुषु गृहीतेषु भेदो धर्मः सन् पश्चाद् गृह्यते उत वस्तु­स्व­रू­प­भू­त­स्त­दैव गृह्यते ? आद्ये, सर्वत्र वस्तु­ज्ञा­न­स्या­वि­वि­क्त­वि­ष­यस्य भेदज्ञानं बाधकं स्यात् । द्वितीये, वस्तुनि गृहीते क्वाप्यविवेको न स्यात् । चतु­र्थेऽ­प्य­त्य­न्त­भे­द­वादे भेदाभेदवादे वा “शुक्लो घटः” इति प्रथमं तादात्म्यं प्रतिपद्य पश्चाद् घटस्य शौक्ल्यमिति भेद­प्र­ति­प­त्ति­र्बाधः स्यात् । न पञ्चमः, ज्ञानस्य क्षणिकस्य स्वत एव प्रध्वंसात् । नापि षष्ठसप्तमौ, वस्तु­नो­र्वि­ष­य­दो­ष­यो­र्ज्ञा­नेन प्रध्वं­सा­स­म्भ­वात् । न च बाध एवापलपनीयः, लोक­प्र­सि­द्ध­त्वात् । तस्माद्बाधं न पश्याम इति । उच्यते – अज्ञानस्य वर्त्तमानेन प्रविलीनेन वा स्वकार्येण सह तत्त्वज्ञानेन निवृत्तिर्बाधः, तथा­वि­धाऽ­न­व­बो­ध­नि­वृत्तौ बाधप्रसिद्धेः । नन्वेवं सति शुक्तिज्ञानमेव मिथ्या­र­ज­त­त­दु­पा­दा­न­यो­र्नि­व­र्त्त­क­त्वा­द्बा­धकं स्यात्, सत्यमेवम्; रहस्यमेतत्, तथापि पर­मा­र्थ­र­ज­त­बुद्ध्या प्रवर्त्तमानस्य तदभावबोधनेन प्रवृ­त्या­का­ङ्क्षो­च्छे­दि­त्वा­न्नेदं रजतमिति ज्ञानमपि बाधकत्वेन व्यपदिश्यते । ततो बाधा­न्मि­थ्या­त्व­नि­श्चयः ।

नन्वस्त्वेवं मिथ्यारजतज्ञानं भ्रमः । स्वप्न­प­दा­र्थ­ज्ञानं तु न प्रमाणम्, बाधितत्वात् । नापि स्मृतिः, अपरोक्षत्वात् । नापि भ्रमः, तल्लक्षणाभावात् । भ्रमस्य हि कार­ण­त्रि­त­य­ज­न्यत्वं तटस्थलक्षणम् । न हि तत्स्व­प्नेऽस्ति, निद्रा­ख्य­दो­ष­स्या­दृ­ष्टो­द्बु­द्ध­सं­स्का­रस्य च सत्त्वेऽपि तृतीयस्य सम्प्र­यो­ग­स्या­भा­वात् । नापि स्वरूपलक्षणं परत्र परावभास इत्येवं रूपं तत्र सम्भवति, पर­त्रे­त्यु­क्त­स्या­धि­ष्ठा­न­स्या­भा­वात् । ततस्त्वत्पक्षे स्वप्न­प्र­त्य­यस्य का गतिरिति । उच्यते – सम्प्रयोगो हि जागरणे बाह्य­शु­क्ती­द­मं­शा­दि­गो­च­रा­न्तः­क­र­ण­वृ­त्त्यु­त्पा­दकः, अन्तःकरणस्य देहा­द्ब­हि­र­स्वा­त­न्त्र्यात् । स्वप्ने तु देह­स्या­न्त­र­न्तः­क­रणं स्वत­न्त्र­त्वा­त्स्व­य­मेव प्रवर्त्तिष्यत इति नास्ति सम्प्र­यो­गा­पेक्षा । ततो जागरणे स्वप्नेऽ­प्य­न्तः­क­र­ण­वृ­त्ति­रेव तृतीयं कारणम् । अधिष्ठानमपि सर्वत्र वृत्त्य­व­च्छिन्नं चैतन्यमेव । शुक्ती­द­मं­शा­दिस्तु चक्षु­रा­दि­स­म्प्र­यो­ग­स्यैव जनकः, अन्यथा निर्विषयस्य सम्प्र­यो­ग­स्या­नु­त्पत्तेः; अधि­ष्ठा­न­चै­त­न्या­व­च्छे­द­को­पा­धि­त्वात् । ततो यथा जागरणे सम्प्र­यो­ग­ज­न्य­वृ­त्त्य­भि­व्यक्ते शुक्ती­द­मं­शा­व­च्छिन्ने चैतन्ये स्थिताऽविद्या रजताकारेन विवर्तते तथा स्वप्नेऽपि देह­स्या­न्त­र­न्तः­क­र­ण­वृत्तौ निद्रा­दि­दो­षो­प­प्लु­ता­या­म­भि­व्यक्ते वृत्त्य­व­च्छि­न्न­चै­तन्ये स्थिताऽ­वि­द्याऽ­दृ­ष्टो­द्बो­धि­त­ना­ना­वि­ष­य­सं­स्का­र­स­हिता प्रपञ्चाकारेण विवर्त्तताम् । ननु स्वप्न­भ्र­म­स्या­त्म­चै­तन्यं चेदधिष्ठानं तदाऽ­ध्य­स्य­मा­न­सा­मा­ना­धि­क­र­ण्ये­नेदं रजतमयं सर्प इतिवदहं नीलमहं पीत­मि­त्या­दि­रू­पेण प्रतीयात्, नत्विदं नील­मि­त्या­दि­पु­रो­दे­श­स­म्ब­न्धेन । अथ स देशोऽपि चैत­न्येऽ­ध्यस्तः, तर्हि देशोऽ­ह­मि­त्य­प्य­न्त­रेव प्रतिभासेत । अथ मन्यसे अत्य­ल्प­मि­द­मु­च्यते, जागरेऽपि चैत­न्य­स्यै­वा­धि­ष्ठा­न­त्वात् किं तत्र न चोदयसीति ? तर्ह्यस्तु तत्रापि चोद्यमिति । अत्र ब्रूमः – किं शरी­रा­व­च्छि­न्ना­ह­ङ्का­र­सा­मा­ना­धि­क­र­ण्ये­ना­न्तः­प्र­ती­ति­रा­पा­द्यते उत चैत­न्य­सा­मा­ना­धि­क­र­ण्येन ? नाद्यः, अह­ङ्का­र­स्या­न­धि­ष्ठा­न­त्वात् । न द्वितीयः, इष्टा­प­त्ति­त्वात् । अन्य­थाऽ­ध्य­स्तानां स्वतो जडानां स्फुरणं न स्यात् । अह­मु­ल्ले­ख­स्त्व­ह­ङ्का­र­प्र­युक्त इति नात्र चैतन्यमात्रे सञ्जायते । ननु घटादयोऽपि शुक्तिरजतादिवत् स्फुर­ण­स­मा­ना­धि­कृता एवावभासन्ते । यद्येवं तर्हि चैतन्य एव तेऽप्य­ध्य­स्य­न्ताम् । न च घटादिस्फुरणं प्रमाणजन्यं नात्मस्वरूपमिति वाच्यम्, विमतं विष­या­व­च्छि­न्न­चै­त­न्य­म­ह­ङ्का­रा­व­च्छि­न्न­चै­त­न्या­द्व­स्तुतो न भिद्यते उपा­धि­प­रा­म­र्श­म­न्त­रे­णाऽ­वि­भा­व्य­मा­न­भे­द­त्वाद् यथा घटाकाशो महाकाशात् । एवं च सति शरी­रा­पे­क्ष­याऽ­न्त­र्ब­हि­र्वि­भागं कृत्वाऽहं नाह­मि­त्या­त्मा­ना­त्म­व्य­व­हा­रोऽ­ह­ङ्का­रो­पा­धि­कोऽ­व­ग­न्तव्यः । अन्त­र्ब­हि­र्व्या­प्तिश्च एकस्यापि चैत­न्य­स्या­न­न्त­त्वा­दु­प­प­द्यते । न हि चैत­न्य­म­णु­प­रि­मा­णम्, शरी­र­व्या­पि­त्वे­नो­प­ल­म्भात् । नापि निरवयवस्योपाधिं विना मध्यमपरिमाणं युज्यते । ततः सर्व­ग­त­चै­त­न्येऽ­धि­ष्ठाने जागरणव्यवहारः पार­मा­र्थि­क­त्वे­ना­भि­म­तोऽ­प्य­ध्यस्तः किमु वक्तव्यं स्वप्न­स्त­त्रा­ध्यस्त इति ।

ननु “नाम ब्रह्मे­त्यु­पास्ते” इत्यादौ नामादिषु ब्रह्म­दृ­ष्ट्य­ध्यासो विधीयते । तत्र कथं कारणदोषमन्तरेण भ्रम इति चेद्, मैवम्; तत्र हि मानसी क्रियैव विधीयते, न भ्रान्ति­ज्ञा­नम्; अपु­रु­ष­त­न्त्र­स्या­वि­धे­य­त्वात् । न च देव­ता­स्म­र­ण­न­ग्न­स्त्री­वि­स्म­र­ण­यो­रि­च्छा­धी­न­त्वात् पुरुषतन्त्रमेव ज्ञानमिति वाच्यम्, तत्रापि मनस ऐकाग्र्यापादने स्मृतिहेतौ विस्मृतिहेतौ च विष­या­न्त­र­प्र­व­र्त्तने पुरुषस्य स्वातन्त्र्यं न स्मृति­वि­स्मृ­त्यो­रि­त्य­ङ्गी­का­र्य­त्वात् । अन्यथा पौनः पुन्ये­ना­वृ­त्ति­म­न्त­रेण सकृदधीतवेदादिकं कदाचित् पुरुषेच्छया झटिति स्मरेत्, पुत्रमरणादिकं च सद्य एव विस्मरेत् । तस्मान्न भ्रमो विधेय इति भ्रमस्य कार­ण­त्रि­त­य­ज­न्यत्वं न व्यभिचरति । परत्र परात्मतावभास इत्येवंरूपतायां तु न कस्यचिदपि विवादः । अख्या­ति­वा­दि­नाऽपि संसृ­ष्ट­व्य­व­हा­र­सि­द्धये मानसस्य संसर्गज्ञानस्य संसर्गाभिमानस्य वा बला­द­ङ्गी­का­र्य­त्वात् । इत­रे­त्व­धि­ष्ठा­ना­ध्य­स्य­मा­नयोः स्वरू­प­दे­श­का­ल­वि­शे­षेषु विवदमाना अपि नोक्त­भ्र­म­स्व­रूपे विवदन्ते ।

ननु शून्यवादी शून्य एव संवृ­ति­ब­ला­द्र­ज­ता­दि­भ्रमं वदन् परत्रेत्युक्तं सद्रूपाधिष्ठानं न सहते । न च निर­धि­ष्ठा­न­भ्र­मा­स­म्भवः, केशो­ण्ड्र­क­ग­न्ध­र्व­न­ग­रा­दि­भ्र­मस्य त्वन्मतेऽपि तथात्वात् । न च निर­व­धि­क­बा­धा­स­म्भवः, “न सर्पः” इत्या­प्त­वा­क्यस्य बाधकस्य तथात्वादिति । नैतत्सारम्, अङ्गु­ल्याऽ­पा­ङ्गा­व­ष्टम्भे सति वेष्टितानां नेत्ररश्मीनां केशो­ण्ड्र­का­धि­ष्ठा­न­त्वात् । आकाशस्य च गन्ध­र्व­न­ग­रा­धि­ष्ठा­न­त्वात् । अन्यथा शून्य­ज्ञा­न­स्यापि भ्रम­त्व­प्र­स­ङ्गात् । तथात्वे च शून्यासिद्धेः । ज्ञान­ज्ञे­य­भ्र­म­यो­र­न्यो­न्या­धि­ष्ठा­नत्वे चाधिष्ठानस्य पूर्व­भा­वि­त्वे­ना­न्यो­न्या­श्र­य­त्वात् । बीजा­ङ्कु­र­न्या­येन ज्ञान­ज्ञे­य­व्य­क्तीनां पर­म्प­रा­भ्यु­प­ग­मेऽपि बीजा­ङ्कु­र­प्र­वा­हा­नु­ग­त­मृ­द्वद् ज्ञान­ज्ञे­य­प्र­वा­हा­नु­ग­तस्य स्थायिनः कस्य­चि­द­भ्यु­प­ग­न्त­व्य­त्वात् । तदनभ्युपगमे वाऽदृ­ष्ट­क­ल्प­ना­या­म­न्ध­प­र­म्प­रा­पत्तेः । “न सर्पः” इत्या­प्त­वा­क्य­बा­ध­स्यापि किन्तु रज्जु­रि­त्ये­त­त्प­र्य­न्त­त्वेन सावधिकत्वात् । किमप्यत्र नास्ति वृथा त्वं बिभे­षी­त्ये­वं­रू­प­बा­धेऽ­प्य­त्रे­त्यु­क्तस्य पुरो­दे­श­स्यै­वा­व­धि­त्वात् । जगत्कारणत्वेन परैरुच्यमानं प्रधानं नास्ती­त्या­दि­बा­धेऽपि सम्प्र­ति­प­न्न­ज­ग­त्का­र­ण­मा­त्र­स्या­व­धि­त्वात् । यत्रापि माया­वि­नि­र्मि­त­ह­स्त्य­श्व­र­था­दा­व­न्यत्र वा निरधिष्ठानभ्रमं निरवधिकबाधं च त्वं शङ्कसे तत्रापि भ्रमबाधयोः साधकं साक्षि­चै­त­न्य­मे­वा­धि­ष्ठा­न­म­व­धिश्च स्यात् । न च तदपि बाध्यम्, तद्बाधस्य साधकाभावात् । अन्यस्य च सर्वस्य जडत्वात् । न च शून्य­स्या­धि­ष्ठा­न­त्वम्, अध्य­स्य­मा­ने­ष्व­नु­ग­त्य­भा­वात् । भावे वा भ्रान्तिकाले शून्यं रजतमिति प्रतीयाद्, न त्विदं रजतमिति । इदमिति प्रतीयमानमेव शून्यमिति चेत्, तर्हि नाममात्रे विवादः । नापि शून्य­स्या­व­धि­त्वम्, सर्वबाधे तदप्रतीतेः । प्रतीतौ वा, चैतन्यमेव शून्य­ना­म्नाऽ­भि­धी­यते । नापि शून्य­स्या­ध्य­स्य­मा­न­त्वम्, तथा सत्य­ध्य­स्त­स्या­प­रो­क्ष­प्र­ती­त्य­भा­व­प्र­स­ङ्गात् । अथ शून्यवादिनः प्रति­भा­स­मा­त्र­नि­रा­क­रि­ष्णो­रि­ष्ट­मे­वै­तत्, तर्हि तन्निराकरणमपि न प्रतिभासेत । ननु तवाप्यध्यस्तस्य शून्यत्वं मतमेवेति चेद्, न; बाध­प्र­ति­यो­गि­त्वस्य सिद्धये तत्प्रतीतिकाले सद­स­द्वै­ल­क्ष­ण्या­ङ्गी­का­रात् । बाधादूर्ध्वं तु भवत्येव शून्यत्वम् । विनष्टस्य शून्यतायाः कस्या­प्य­वि­वा­दात् । ये तु बाधितस्य रजतादेरन्यत्र सत्त्वमिच्छन्ति तेषां किं बाधकज्ञानमेव तद्गमकं किं वेह बाधानुपपत्तिः ? नाद्यः, नेदं रजतं किन्तु देशान्तरे बुद्धौ वेत्य­क्ष्णाऽ­न­व­ग­मात् । आप्त­वा­क्ये­ना­प्य­भि­हितो रजताभाव एव गम्यते, न त्वदुक्तमन्यत्र सत्त्वम् । इह बाधानुपपत्तिश्च न ताव­द्वा­दि­सिद्धा, अन्यथाख्यातौ संस­र्ग­स्या­त्म­ख्यातौ च बहि­ष्ट्व­स्या­न्यत्र सत्त्व­म­न्त­रे­णै­वेह बाधाङ्गीकारात् । अख्या­ति­वा­दि­नाऽपि शुक्तौ रज­त­गो­च­र­मि­थ्या­ज्ञ­नस्य प्रति­वा­दि­प्र­सि­द्ध­स्या­न्यत्र सत्त्व­म­न­ङ्गी­कृ­त्यै­वेह निषेधः क्रियते । नापि लोकसिद्धा, इह भग्न­घ­ट­स्या­न्यत्र सत्त्वं विनैव निषेधात् । तर्हि घटवदेव कालभेदेन तत्र सत्त्वमस्त्विति चेद्, न; पूर्वमत्र घटोऽ­भू­न्ने­दा­नी­मि­ति­व­त्का­ल­वि­शे­षो­पाधौ निषेधाभावात् । निरु­पा­धि­क­नि­षे­धश्च पर­मा­र्थ­र­ज­त­स्यात्र कालत्रयेऽपि शून्य­त्वा­दु­प­प­द्यते । तच्छून्यत्वं चोत्तरकाले मिथ्यैव रजतमभादिति परा­म­र्शा­द­व­ग­म्यते, अन्यथा सत्यमेवाभादिति परामृश्येत । भ्रान्ति­का­ल­प्र­ती­तिस्तु मिथ्या­र­ज­त­मा­त्रे­णा­प्यु­प­प­द्यत एव । तच्च मिथ्यारजतं सोपादानं शुक्ति­त­त्त्व­ज्ञा­नेन बाध्यते । न चास्य बाध­क­ज्ञा­न­स्या­न्यत्र रजतसत्तासधकत्वं शङ्कितुमपि शक्यम् । ततो बाधादुपरि समारोप्यस्य शून्यत्वेऽपि पूर्वं सद्रूपाधिष्ठाने मिथ्या­व­स्त्व­व­भासः शून्य­वा­दि­नाऽ­प्य­भ्यु­पेयः ।

नन्विदं रजतं द्वौ चन्द्र­म­सा­वि­त्या­दि­ष्व­धि­ष्ठा­न­प्र­ती­ति­सं­स्का­र­दो­षा­ख्य­का­र­ण­त्रि­त­य­ज­न्य­त्वेन तटस्थलक्षणेन सत्य­स्या­धि­ष्ठा­नस्य मिथ्या­त्म­ता­व­भा­सा­दु­त्प­न्नेन स्वरूपलक्षणेन च लक्षितो भ्रमोऽस्तु नाम, आत्मनि त्वह­ङ्का­रा­दि­रू­प­भ्रमो वा जीव­ब्र­ह्म­रू­पे­णा­ने­क­जी­व­रू­पेण च भेदभ्रमो वा कथं घटिष्यते ? लक्षणासम्भवात् । तथाहि – तत्र ताव­द्दो­ष­स्त्रि­विधः – विषयगतः सादृश्यादिः कर­ण­ग­त­स्ति­मि­रादिः द्रष्टृगतो रागादिश्चेति । अत्र चात्मैव विष­य­क­र­ण­द्र­ष्ट्रा­ख्य­त्रि­त­य­स्था­नीयः, अन्यस्य सर्व­स्या­ध्य­स्य­मा­न­को­टि­त्वात् । न चाद्वितीये निष्क­ल­ङ्क­स्व­भावे चात्म­न्यु­क्त­दोषा अन्यतो वा स्वतो वा सम्भवन्ति । कथ­ञ्चि­द­वि­द्या­ख्य­स्या­वा­स्त­व­दो­षस्य सम्भ­वेऽ­प्य­ध्य­स्ता­ह­ङ्का­रादि प्रतिभासो न कार­ण­त्रि­त­य­जन्यः, तस्य नित्या­त्म­चै­त­न्य­रू­प­त्वात् । यद्यपि शुक्ति­र­ज­ता­दि­स्फु­र­ण­मपि चैतन्यमेव तथापि तस्य सोपाधिकस्य सम्भ­व­त्यौ­प­चा­रिकं जन्म, अत्र तु उपा­धि­र­प्य­ध्य­स्त­को­टिस्थ एव तत्कथं निरुपाधिकस्य जन्म ? ततो नास्ति तटस्थलक्षणम् । तथेतरदपि नास्त्येव, सत्य­त्वे‍ऽ­प्य­धि­ष्ठा­न­त्वा­स­म्भ­वात् । अधिष्ठानं हि सामान्येन गृहीतं विशेषेणागृहीतम् । आत्मा तु निःसा­मा­न्य­वि­शेषः कथमधिष्ठानं स्यात् ? आत्माऽधिष्ठानं वस्तुत्वात् शुक्त्यादिवदिति चेद्, न; पर­प्र­का­श्य­त्व­स्यो­पा­धि­त्वात् । तर्हि सिद्धा­न्त­र­ह­स्या­नु­सा­रे­णै­व­म­नु­मी­य­ताम् – आत्माऽधिष्ठानं चिद्रूपत्वात् शुक्त्य­व­च्छि­न्न­चै­त­न्य­व­दिति, मैवम्; इद­मं­श­शु­क्त्यं­शा­व­च्छि­न्न­रू­पेण सांशस्य चैतन्यस्य सामा­न्य­ग्र­ह­ण­वि­शे­षा­ग्र­ह­णयोः सम्भवेऽपि निरंशे आत्मनि तदसम्भवात् । निरं­शोऽ­प्या­का­शा­दि­वन्न कार्त्स्न्ये­ना­व­भा­सत इति चेद्, न; स्वयंज्योतिषो याव­त्स­त्त्व­म­व­भा­सात् । स्वय­ञ्ज्यो­तिष्ट्वं चात्रायं पुरुषः स्वयञ्ज्योतिः आत्मैवास्य ज्योति­रि­त्या­दि­श्रु­ति­सि­द्धम् । नन्वत्र ज्योतिःशब्देन प्रका­श­गु­ण­मा­त्र­म­भि­धी­यते तदाश्रयो द्रव्यं वा ? नाद्यः, आत्मनो ज्योतिः शब्दाभिधेयस्य गुण­त्व­प्र­स­ङ्गात् । द्वितीये, प्रका­श­गु­णा­ख्यस्य ज्ञानस्य जन्य­त्वेऽ­प्या­त्मनो ज्योति­ष्ट्व­श्रु­तिर्न विरुध्यते । ततो न याव­त्स­त्त्व­मा­त्म­नोऽ­व­भास इति चेद्, मैवम्; चैतन्यमात्रवाची ज्योतिः­श­ब्द­स्त­द्रूप आत्मेत्येव श्रुत्या विवक्षितत्वात् । अन्यथा स्वयमिति विशेषणस्य एवकारस्य च वैयर्थ्यात् । तथा हि – किं घटा­दा­वि­वा­त्म­न्यपि ग्राहकज्ञनस्य ग्राह्या­द्व्य­ति­रि­क्त­त्व­प्राप्तौ तद्व्यावृत्तये वाक्यद्वये विशेषणद्वयं किं वा ज्ञान­ज­न­क­स्या­न्य­त्व­व्या­वृ­त्तये ? आद्ये, ग्राह्य­ग्रा­ह्य­क­यो­रा­त्म­त­ज्ज्ञा­न­यो­रे­कत्वे श्रुतिः पर्यवस्यति । एवं च सत्यात्मनो गुणत्वं ज्ञानस्य द्रव्यत्वं प्रसज्येतेति चेत्, प्रसज्यतां नाम, तार्कि­क­क­ल्पि­तानां द्रव्या­दि­प­रि­भा­षाणां वस्तुनि विरोधाजनकत्वात् । न द्वितीयः, श्रुत­हा­न्य­श्रु­त­क­ल्प­ना­प्र­स­ङ्गात् । स्वयं ज्ञानं जनयत्यात्मैव ज्ञानं जनयति नान्यज्जनकमिति हि त्वया कल्प्यते, न च तथा श्रूयते; किन्तु स्वयं ज्योतिरात्मैव ज्योतिरिति ततो नान्य­ज्ज्यो­ति­रि­त्ये­वो­प­ल­भ्यते । न चापे­क्षि­त­त्वा­ज्ज­न­क­मपि निरूपणीयमेवेति वाच्यम्, नित्यज्ञानस्य तदनपेक्षत्वात् । विमतं ज्ञानं जायते ज्ञानत्वाद् घटा­दि­ज्ञा­न­व­दि­त्य­नु­मी­यत इति चेद्, न; वेदान्तिमते दृष्टा­न्ता­सिद्धेः । घटादिज्ञानेऽपि स्फुरणांशस्य नित्य­चै­त­न्य­रू­प­त्वाद्, अन्तः­क­र­ण­वृ­त्त्यं­शस्य चाज्ञानत्वाद् ज्ञानव्यवहारस्य च तत्रौ­प­चा­रि­क­त्वात् । न चैत­द्व्य­ति­रे­क्य­नु­मा­नम्, सपक्षसद्भावात् । यद्यपि मतान्तरे घटज्ञानं दृष्टा­न्त­स्त­थापि नैतदुपपद्यते । तथा हि – आत्माश्रितमिदं ज्ञानं किं प्रका­श­गु­ण­व­त्कि­ञ्चित् द्रव्यमिति अङ्गीक्रियते किं वा प्रकाशगुण एवेति ? आद्ये, ज्ञान­द्र­व्य­स्यैव प्रका­श­गु­ण­व­त्त्वेन ज्योतिष्ट्वे सत्यात्मनः श्रुत्युक्तं ज्योतिष्ट्वं न स्यात् । द्वितीयेऽपि किमा­श्र­य­द्रव्यैः सह ज्ञानगुणस्य जन्म उत ज्ञानस्यैव ? नाद्यः, आत्मद्रव्यस्य नित्यत्वात् । न द्वितीयः, विमतं ज्ञानं द्रव्य­ज­न्म­व्य­ति­रे­केण स्वद्रव्योपाधौ न जायते प्रकाशगुणत्वात् प्रदीप प्रकाशवत् । तत्र हि दीपप्रकाशो दीपद्रव्येण सहैव जायते न तु तद्व्य­ति­रे­के­णेति न साध्यवैकल्यम् । दर्पणादौ च सत एव प्रकाशस्य घर्ष­णे­ना­भि­व्य­क्तिर्न तु जन्मेति नाऽनै­का­न्ति­क­त्वम् । न चाऽन्तः­क­र­ण­प्र­काशे व्यभिचारः शङ्कनीयः, परिणामवादे प्रका­श­व­द­न्तः­क­र­ण­द्र­व्य­स्यैव घटा­दि­ज्ञा­न­रू­पे­णो­त्पत्तेः । आरम्भवादे तु प्रकाशो नाऽन्तःकरणगुणः । तस्मादजायमानस्य ज्ञानस्य जन­का­न­पे­क्ष­त्वा­दा­त्मैव ज्योतिर्न त्वात्म­व्य­ति­रिक्तं ज्योतिरित्येव श्रुत्यभिप्रायः । ज्योतिष्ट्वं चाऽत्र चिद्रूपत्वमेव विवक्षितं न जड­प्र­का­श­रू­प­त्व­मिति “प्रज्ञानं ब्रह्म” इत्या­दि­श्रु­त्य­न्त­रा­द­व­ग­म्यते । प्रज्ञा­न­श­ब्दे­नाऽत्र ज्ञातृत्वमुच्यत इति चेद्, न; भावा­र्थ­प्र­सि­द्धि­वि­रो­धात् । प्रकृष्टं ज्ञानमस्येति विग्रहे ज्ञातृत्वं लभ्यत इति चेत्, तथापि प्रति­क्ष­ण­मा­त्मनि ज्ञानो­त्प­त्ति­क­ल्पने गौरवम् । तदकल्पने चाऽऽत्मा न प्रकाशेत, प्रकाशते च सदैवाऽऽत्मा । तस्मात् स्वप्र­का­श­चै­त­न्य­रू­प­स्याऽऽ­त्मनो याव­त्स­त्त्व­म­व­भास एवाऽभ्युपेयः । नन्वा­त्म­न्य­गृ­ह्य­मा­ण­वि­शे­ष­त्व­म­नु­भ­व­सिद्धं ब्रह्मा­का­र­स्याऽ­ग्र­ह­णा­दिति चेद्, न; जीवाद् ब्रह्म भिन्नमभिन्नं वा ? भिन्नत्वे ब्रह्म­ण्ये­वाऽ­धि­ष्ठा­नेऽ­न­व­भा­स­वि­प­र्यासौ स्यातां न जीवे । अभिन्नत्वं च मानहीनम् । अथ मानमेतद् – “अयमात्मा ब्रह्म” इत्यादि वाक्य­म­ख­ण्डा­र्थ­नि­ष्ठम्, कार्य­का­र­ण­भा­व­ही­न­द्र­व्य­मा­त्र­नि­ष्ठत्वे सति समा­ना­धि­क­र­ण­त्वात्, सोऽयं देवदत्त इति वाक्यवदिति, तर्हि ज्ञान­प्र­का­श­वि­रो­धा­दा­श्र­य­वि­ष­य­भे­दा­भा­वाच्च नाऽज्ञातता ब्रह्मणः । तदि­त्थ­म­न­धि­ष्ठाने दोषरहिते आत्मनि नाऽह­ङ्का­रा­द्य­ध्यास इति । अत्रोच्यते – अद्वितीये निष्क­ल­ङ्केऽ­प्या­त्म­न्य­वि­द्या­ख्योऽ­नृ­त­रूपो दोषोऽस्तीति श्रुतेः श्रुता­र्था­प­त्ते­श्चाऽ­व­ग­म्यते । श्रुतिस्तावत् – “तद्यथा हिरण्यं निधिं निहि­त­म­क्षे­त्रज्ञा उपर्युपरि सञ्चरन्तो न विन्दे­यु­रे­व­मे­वेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः” इति सुषुप्तिकाले सर्वासां प्रजानाम् अनृ­त­रू­पा­वि­द्या­पि­हि­त­त्वेन ब्रह्म­चै­त­न्या­न­व­भासं दर्शयति । तच्चाऽ­वि­द्या­पि­धानं मिथ्या­ज्ञा­न­त­त्सं­स्का­र­ज्ञा­ना­भा­व­क­र्म­भ्योऽ­न्यद् मिथ्या­त्म­क­मि­त्या­व­र­ण­वादे समर्थितम् । श्रुता­र्था­प­त्ति­रपि ब्रह्मज्ञानाद् बन्धनिवृत्तिः श्रूयमाणा ब्रह्मणि प्राग­न­व­बो­धोऽ­ध्या­स­ब­न्ध­हे­तु­र्दो­षोऽ­स्तीति कल्पयति । न चैवमज्ञानस्य प्रमाणगम्यत्वेन तात्त्विकत्वं स्यादिति वाच्यम्, अविद्या नाम काचि­द­नि­र्व­च­नी­य­भा­व­रूपा नास्तीति वादिनः पक्षं निराकर्तुमेव प्रमा­णो­प­न्या­सात् । अविद्यास्वरूपं तु साक्षि­चै­त­न्या­देव सिध्यति । यत्तूक्तं जीव­ब्र­ह्म­णो­र­भे­द­पक्षे नाऽज्ञातता ब्रह्मण इति तत्र कोऽभिप्रायः ? किम­ज्ञा­न­मा­श्र­य­वि­ष­य­भे­दा­पेक्षं सदेकस्मिन् न सम्बध्यत एव उत सम्बध्य स्वाश्रयैकत्वेन विरुध्यते किं वा प्रका­श­स्व­भा­व­स्याऽ­वि­द्या­श्र­यत्वं विरुद्धम् अथवा अविद्याश्रयत्वे ब्रह्मणः सर्व­ज्ञ­त्वा­दि­हा­नि­रिति ? नाद्यः, विम­त­म­ज्ञा­न­मा­श्र­य­वि­ष­य­भेदं नापेक्षते, अक्रि­या­त्म­क­त्वाद्, घटादिवत् । तथा विम­त­मे­क­प­दा­र्थ­मे­वाऽऽ­श्र­य­त्या­वृ­णोति च आव­र­क­त्वा­द­प­व­र­क­स्थ­त­मो­व­दिति भेद­म­न­पे­क्ष्यै­क­स्मि­न्नेव सम्ब­न्ध­द्व­य­सिद्धेः ।

ननु ज्ञान­व­द­ज्ञा­न­म­प्या­श्र­य­वि­ष­य­भे­द­म­पे­क्षत एव, अहमिदं जानामीति वदहमिदं न जानामीति व्यवहारात् । मैवम्, द्वय­सा­पे­क्ष­ज्ञा­न­प­र्यु­दा­सा­भि­धा­य्य­ज्ञा­न­श­ब्द­व­शा­देव तथा प्रतीतेः, माया­दि­श­ब्द­व्य­व­हारे तदभावात् । यथा स्थितिः कर्म­नि­र­पे­क्षा­प्य­ग­म­न­श­ब्दे­ना­भि­धी­य­माना कस्य किंविषयमगमनमिति कर्म­सा­पे­क्ष­व­द्भाति तद्वत् । न द्वितीयः, विमतं स्वाश्रयैकत्वेन नविरुध्यते, आवरणत्वात्, तमोवत् । नापि तृतीयः, किं प्रका­श­स्व­भा­व­स्याऽ­ज्ञा­ना­श्र­य­त्व­वि­रो­धोऽ­नु­भू­यते उतानुमीयते ? नाद्यः, अज्ञा­न­सा­ध­क­सा­क्षि­चै­त­न्येऽ­ह­म­ज्ञ­त्य­ज्ञा­ना­श्र­य­ताया एवानुभवात् । अनुमानमपि कथम्? किमात्मा नाऽज्ञानाश्रयः, अाभा­स­मा­न­त्वा­त्,पु­रो­व­र्ति­घ­ट­व­दिति; किं वाऽत्माऽ­ज्ञा­न­वि­रो­धि­स्व­रूपः, प्रकाशत्वात्, अन्तः­क­र­ण­वृ­त्ति­व­दिति; अथवा आत्मा अज्ञा­न­सं­स­र्ग­वि­रोधी, स्वयं­प्र­का­श­त्वात्, प्राभा­क­रा­भि­म­त­सं­वे­द­न­व­दिति ? नाद्यः, बाधितविषयत्वात् । परैरपि हि जन्य­ज्ञा­ने­नाऽऽ­त्मनि भासमान एवाऽ­ज्ञा­ना­श्र­य­त्व­म­भ्यु­प­ग­न्त­व्यम् । अन्य­थाऽऽ­त्मा­व­भा­स­क्षणे सर्व­ज्ञ­त्व­प्र­स­ङ्गात् । न द्वितीयः, अज्ञा­ना­व­भा­स­क­भाने व्यभिचारात् । न च तदेवाऽसिद्धमिति वाच्यम्, परेषामपि स्वाभि­म­ता­ज्ञा­न­प्र­ती­त्य­भावे तद्व्य­व­हा­रा­यो­गात् । न तृतीयः, दृष्टा­न्ता­भा­वात्, स्वप्र­का­श­सं­वे­द­न­स्यै­वाऽऽ­त्म­त्वात् । नापि ब्रह्मणः सर्व­ज्ञ­त्वा­दि­हा­नि­रिति चतुर्थः पक्षः, यथा सत्यपि बिम्ब­प्र­ति­बि­म्ब­यो­रैक्ये मलि­न­द­र्प­ण­ग­त­प्र­ति­बि­म्बेऽ­ध्य­स्तेन श्यामत्वादिना न बिम्ब­स्याऽ­व­दा­त­ता­हानिः तथा जीव­स्याऽ­वि­द्या­श्र­य­त्वेऽपि न ब्रह्मणः सर्व­ज्ञ­त्वा­दि­हा­नि­रिति वक्तुं शक्यत्वात् । किञ्च, जीवब्रह्मैक्यं वा स्वप्रकाशत्वं वा यद्य­द­वि­द्या­म­प­ह्नो­तु­मु­प­न्य­स्यते तत्तदविद्याया ग्रहणाभावत्वं निराकृत्य भावरूपत्वं साधयिष्यति । भाव­रू­पा­च्छा­द­न­म­न्त­रेण विद्यमानानां सर्व­ज्ञ­त्वा­दीनां तदुपेतस्य ब्रह्म­ण­श्चाऽ­न­व­भा­सा­नु­प­पत्तेः । ग्रह­णा­भा­व­मा­त्रेण तु जीवाद् भिन्नस्य जड­स्याऽ­स­र्व­ज्ञस्य घटादेरेवाऽनवभास उपपद्यते न विपरीतस्य ब्रह्मणः ।

ननु जीव­स्याऽ­वि­द्या­श्र­यत्वं ब्रह्मणः सर्वज्ञत्वमिति वदता जीव­ब्र­ह्म­णो­र्वि­भागो वक्तव्य एवेति चेत्, किं वास्तवविभाग आपाद्यते, उताऽविद्याकृतः ? आद्येऽपि किम­न्तः­क­र­ण­कृ­ता­व­च्छे­दाद् विभागः, उत स्वाभा­वि­का­द­ति­रे­काद् अथवा स्वाभा­वि­का­दं­शां­शि­भा­वात् ? नाऽऽद्यः, सादे­र­न्तः­क­र­ण­स्याऽ­ना­द्य­व­च्छे­द­क­त्वा­यो­गात् । न चाऽन्तः­क­र­ण­म­प्य­नादि, सुषु­प्त्या­दा­व­भा­वात् । सूक्ष्मावस्थं तत्त­त्रा­प्य­स्तीति चेत्, किं सूक्ष्मता नाम निर­व­य­व­त्वा­पत्तिः उता­व­य­वा­प­च­य­मात्रं किं वा कार­णा­त्म­नाऽ­व­स्थितिः अथवा संस्कारशेषत्वम् ? नाऽऽद्यः, साव­य­व­स्याऽ­व­य­वा­भावे स्वरूपनाशात् । न द्वितीयः, अव­शि­ष्टा­व­य­वि­नोऽ­का­र्य­त्व­प्र­स­ङ्गात्, कदा­चि­द­प्य­न­पा­यात् । सम्पू­र्ण­का­र्यत्वे वा जाग­र­ण­व­द्व्य­व­हा­रा­पत्तेः । तृतीयेऽपि किं कारणमेव तिष्ठत्युत कार्यमपि ? आद्ये, अन्तः­क­र­णा­भा­वा­पत्तिः। द्वितीये, व्यवहारापत्तिः । नापि चतुर्थः, संस्का­र­स्याऽ­व­च्छे­दा­नु­पा­दा­न­त्वेन सुप्ता­व­न­व­च्छि­न्नस्य जीवस्य मुक्ति­प्र­स­ङ्गात् । अथा­व­च्छि­द्य­मा­न­मेव काष्ठ­व­द­व­च्छे­दो­पा­दा­नम्, अन्तःकरणं तु कुठा­र­व­न्नि­मि­त्त­मे­वेति चेत्, तर्हि नाऽव­च्छे­द­सिद्धिः, निरवयवस्य चैतन्यस्य परमार्थतः काष्ठ­व­द्वि­दा­र­णो­पा­दा­न­त्वा­यो­गात् । अस्माकं त्ववि­द्यै­वा­व­च्छे­दो­पा­दा­नम् । द्वैधी­भा­वोऽ­प्य­वि­द्या­निष्ठ एव सन् आत्मनि परमध्यस्यते । अन्तः­क­र­ण­स्याऽ­प्य­वि­द्या­का­र्य­स्याऽ­वि­द्या­द्वा­रै­वाऽऽ­त्मा­व­च्छे­द­क­त्वम्, न साक्षात्; ततो न कोऽपि दोषः । नाप्यतिरेकादिति द्वितीयः पक्षः, कॢप्ता­वि­द्या­सा­म­र्थ्या­देव जीव­ब्र­ह्म­वि­भा­ग­सि­द्धा­व­ति­रे­क­क­ल्प­ना­व­का­शा­भा­वात् । न च वाच्यं जीवस्य ब्रह्म­वि­ष­याऽ­वि­द्येति निरूपणीयत्वेन विभा­गा­धी­नाऽ­विद्या न विभागस्य हेतुरिति, भेदाधीनस्याऽपि धर्मि­प्र­ति­यो­गि­भा­वस्य भेद­हे­तु­त्व­द­र्श­नात् । अन्यथा तवापि जीवाद् ब्रह्मणो व्यक्तिरेक इति विभा­गा­धी­नोऽ­ति­रेकः कथं विभागहेतुः स्यात् ? अपि च नाऽवि­द्याऽऽ­श्र­य­वि­ष­य­भे­द­म­पे­क्षत इत्यु­प­पा­दि­त­म­ध­स्तात् । नापि तृतीयः, निरवयस्य स्वत एवांऽ­शां­शि­भा­वा­यो­गात् । तस्मादविद्याकृत एव विभाग आपादनीयः स चेष्ट एव । यद्य­प्य­सा­व­विद्या चिन्मा­त्र­स­म्ब­न्धिनी जीवब्रह्मणी विभजते, तथापि ब्रह्म­स्व­रू­प­मु­पेक्ष्य जीवभाग एव पक्षपातिनी संसारं जनयेद् । यथा मुख­मा­त्र­स­म्बन्धि दर्पणादिकं बिम्ब­प्र­ति­बिम्बौ विभज्य प्रतिबिम्बभाग एवातिशयमादधाति तद्वत् । नन्वहमज्ञ इत्य­ह­ङ्का­र­वि­शि­ष्टा­त्मा­श्रि­त­म­ज्ञा­न­म­व­भा­सते न चिन्मा­त्रा­श्रि­त­मिति चेद्, मैवम्; यद्वत् “अयो दहति” इत्यत्र दग्धृ­त्वा­य­सो­रे­का­ग्नि­स­म्ब­न्धात् पर­स्प­र­स­म्ब­न्धा­व­भासः तद्व­द­ज्ञा­ना­न्तः­क­र­ण­यो­रे­का­त्म­स­म्ब­न्धा­देव सामा­ना­धि­क­र­ण्य­वा­भासो न त्वन्तः­क­र­ण­स्याऽ­ज्ञा­ना­श्र­य­त्वात् । अन्य­थाऽ­वि­द्या­स­म्बन्धे सत्य­न्तः­क­र­ण­सि­द्धि­र­न्तः­क­र­ण­वि­शिष्टे चाऽवि­द्या­स­म्बन्ध इति स्याद­न्यो­न्या­श्र­यता । न चाऽन्तः­क­र­ण­म­न्त­रे­णाऽ­वि­द्या­स­म्बन्धो न दृष्टचरः सुषुप्ते सम्मतत्वात् । अथासङ्गस्य चैत­न्य­स्याऽऽ­श्र­य­त्वा­नु­प­प­त्ते­र्वि­शि­ष्टा­श्र­यत्वं कल्प्यत इति चेत्, तदाऽ­प्य­न्तः­क­र­ण­चै­त­न्य­त­त्स­म्ब­न्धा­ना­मेव विशिष्टत्वे चैत­न्य­स्याऽऽ­श्र­यत्वं दुर्वारम् । अन्यदेव तेभ्यो विशिष्टमिति चेत्, तथापि जडस्य तस्य नाऽज्ञा­ना­श्र­य­त्वम् । अन्यथा भ्रान्ति­स­म्य­ग्ज्ञा­न­मो­क्षा­णा­मपि जडा­श्र­य­त्व­प्र­स­ङ्गात् । अज्ञानेन सहै­का­श्र­य­त्व­नि­य­मात् । न च चैतन्यस्य काल्प­नि­के­नाऽऽ­श्र­य­त्वेन वास्तवमसङ्गत्वं विहन्यते । अत­श्चि­न्मा­त्रा­श्रि­त­म­ज्ञानं जीव­प­क्ष­पा­ति­त्वा­ज्जी­वा­श्रि­त­मि­त्यु­च्यते ।

यस्तु भास्क­रोऽ­न्तः­क­र­ण­स्यै­वाऽ­ज्ञा­ना­श्र­यत्वं मन्यते तस्य तावदात्मनः सदा सर्व­ज्ञ­त्व­म­नु­भ­व­वि­रु­द्धम् । असर्वज्ञत्वे च कदाचित् किंचिन्न जाना­ती­त्य­ज्ञा­न­मा­त्म­न्य­भ्यु­पे­य­मेव । अथाऽ­ग्र­ह­ण­मि­थ्या­ज्ञा­न­यो­रा­त्मा­श्र­य­त्वेऽपि भाव­रू­प­म­ज्ञा­न­म­न्तः­क­र­णा­श्र­य­मिति मन्यसे, तदाऽपि ज्ञाना­द­न्य­च्चे­द­ज्ञानं काचकामलाद्येव तत् स्यात् । अथ ज्ञानविरोधि, तन्न; आत्मा­श्रि­त­ज्ञ­ने­नाऽ­न्तः­क­र­णा­श्रि­त­स्याऽ­ज्ञा­नस्य विरोधासम्भवात् । एकस्मिन्नपि विषये देव­द­त्त­नि­ष्ठ­ज्ञा­नेन यज्ञ­द­त्त­नि­ष्ठ­स्याऽ­ज्ञा­न­स्याऽ­नि­वृत्तेः । अन्यत्र भिन्ना­श्र­य­यो­र­वि­रो­धेऽपि करणगतमज्ञानं कर्तृगतज्ञानेन विरुध्यत इति चेद्, न; यज्ञदत्तोऽयम् अन्तः­क­र­ण­ल­य­हे­त्व­दृ­ष्ट­वान्, सुषुप्तौ लीय­मा­ना­न्तः­क­र­ण­त्वा­दि­त्य­नु­मा­तरि देवदत्ते स्थितेनाऽनेन ज्ञाने­नाऽ­नु­मि­ति­क­र­ण­भूते सुषु­प्त­य­ज्ञ­द­त्ता­न्तः­क­रणे स्थित­स्याऽ­ज्ञा­न­स्याऽ­नि­वृत्तेः। ज्ञातृ­स­म्ब­न्धि­न्य­न्तः­क­रणे स्थितस्य निवृ­त्ति­र­स्त्ये­वेति चेद्, न; अज्ञा­न­स्याऽ­न्तः­क­र­ण­ग­तत्वे मानाभावात् । विमतं करणगतं भ्रान्ति­नि­मि­त्त­दो­ष­त्वात् काचादिकवदिति चेत्, तर्हि चक्षुरादिषु तत्प्रसज्येत । सादि­त्वा­त्ते­षा­म­ना­द्य­ज्ञा­ना­श्र­य­त्वा­नु­प­प­त्ति­रिति चेद्, अन्तःकरणेऽपि तुल्यम् । सत्का­र्य­वा­दा­श्र­य­णान्न साद्य­न्तः­क­र­ण­मिति चेत्, चक्षुरादावपि तुल्यम् । अतो नाऽन्तः­क­र­णा­श्र­य­म­ज्ञा­नम्, किन्तु आऽत्माश्रयम् । तदु­क्त­मा­क्षे­प­पू­र्वकं विश्व­रू­पा­चार्यैः –
“नन्वविद्या स्वय­ञ्ज्यो­ति­रा­त्मानं ढौकते कथम् ।
कूटस्थमद्वितीयं च सहस्रांशुं यथा तमः ॥
प्रसि­द्ध­त्वा­द­वि­द्यायाः साऽपह्नोतुं न शक्यते ।
अनात्मनो न सा युक्ता विना त्वात्मा तया न हि ॥” इति ।
तस्या­श्चाऽ­वि­द्याया जीव­ब्र­ह्म­वि­भा­ग­हे­तुत्वं पुराणेऽभिहितम् –
“विभे­द­ज­न­केऽ­ज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥” इति ।
अविद्याया अना­दि­त्वा­दे­वाऽ­ना­दि­वि­भा­ग­हे­तु­त्व­म­वि­रु­द्धम् । अवि­द्याऽ­ना­दित्वं च “प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि” इति स्मृतावुक्तम् । प्रकृतिर्नाम माया, “मायां तु प्रकृतिम्” इति श्रुतेः। माया­वि­द्य­यो­श्चै­क­त्व­म­वो­चाम ॥ नन्वेवं स्वप्र­का­श­स्याऽ­वि­द्या­श्र­य­त्वेऽपि नावि­द्या­वि­ष­यत्वं सम्भवति, सदा भासमानत्वात् । न हि भासमाने घटे घटं न जाना­मी­त्य­ज्ञा­न­वि­ष­यत्वं व्यवहरन्ति । त्वदुक्तमर्थं न जानामीति भास­मा­न­स्यै­वाऽ­र्थ­स्याऽ­ज्ञानं प्रति व्यावर्त्तकतया विषयत्वं व्यवह्रियत इति चेद्, न; तत्रा­प्य­न­व­ग­त­स्यै­वाऽ­र्थ­ग­त­वि­शे­षा­का­रस्य विषयत्वात् । अनवगतस्य व्यावर्त्तकतया प्रतीतिर्न युक्तेति चेद्, एवं तर्हि त्वदुक्तमर्थं न जानामीत्यत्रापि गतिस्त्वयैव वाच्येति । उच्यते – प्रमाणेन हि प्रका­श्य­मा­नोऽर्थो नाऽज्ञानस्य विषयः, प्रमा­ण­स्याऽ­ज्ञा­न­नि­व­र्त्त­क­त्वात् । यत्तु साक्षि­प्र­त्य­क्ष­गम्यं घटादिकं चैतन्यमेव वा न तस्याऽ­ज्ञा­न­वि­ष­यत्वे काचिद्धानिः । न हि साक्षि­चै­त­न्य­म­ज्ञा­न­नि­व­र्त्तकं प्रत्युत तत्साधकमेव । अन्यथैतदज्ञानं सर्वैः प्रमा­णै­र्न्या­यैश्च विरुध्यमानं कथं सिध्येत् । तदुक्तम् –
“सेयं भ्रान्ति­र्नि­रा­लम्बा सर्व­न्या­य­वि­रो­धिनी ।
सहते न विचारं सा तमो यद्वद्दिवाकरम् ॥” इति ।
विचारासहत्वं चाऽविद्याया अलङ्कार एव । तदप्युक्तम् –
“अविद्याया अवि­द्या­त्व­मि­द­मे­वात्र लक्षणम् ।
यद्वि­चा­रा­स­हि­ष्णु­त्व­म­न्यथा वस्तु सा भवेत् ॥” इति ।
न चाऽवि­चा­रि­त­र­म­णी­याया आत्मा­न­मा­च्छा­द­यि­तु­म­सा­मर्थ्यं शङ्कनीयम्,
“अहो धार्ष्ट्य­म­वि­द्याया न कश्चिदतिवर्तते ।
प्रमाणं वस्त्वनादृत्य परमात्मेव तिष्ठति ॥” इत्युक्तत्वात् ।
युक्त्ये­क­श­र­णे­नाऽ­प्य­नु­भवो नाऽपलापितुं शक्यते, अनु­भ­व­नि­ष्ठ­त्वा­द्युक्तेः । अन्यथा युक्ति­र­प्र­ति­ष्ठि­तैव स्यात् । अनुभूयते हि स्वय­ञ्ज्यो­ति­षोऽपि भोक्तु­र्दे­हा­दि­स­ङ्घा­ता­द्व्या­वृ­त्त­त्व­म­ज्ञा­न­ति­रो­हि­त­मेव । नन्व­ह­मि­त्या­त्म­प्र­तीतौ तद्भेदोऽपि प्रतीयत एव भेदस्य वस्तु­स्व­रू­प­त्वात् । न चाऽहं मनुष्य इति मिथ्या­भू­त­दे­ह­ता­दा­त्म्या­भि­मा­नेन भेदस्तिरोहित इति वाच्यम्, ऐक्याभिमानस्य भेद­प्र­ती­त्य­नु­सा­रे­णापि गौणतयोपपत्तौ भेद­प्र­ती­ति­वि­रु­द्ध­मि­थ्या­त्व­क­ल्प­ना­यो­गात् । यदि देह­स­मा­ना­धि­कृ­त­त्वा­द­ह­मिति प्रत्ययो नाऽऽत्मनो देह­व्य­ति­रि­क्तत्वं गृह्णीयात्तदा तन्नैव सिध्येत्, प्रमाणाभावात् । आगमानुमानयोरपि तद्विरोधे प्रमा­ण­त्वा­यो­गात् । न चाऽहंप्रत्ययस्य द्विच­न्द्रा­दि­बो­ध­व­न्मि­थ्या­त्वा­द­वि­रोध इति वाच्यम्, आग­मा­नु­मा­न­प्रा­मा­ण्य­सिद्धौ तन्मिथ्यात्वं तन्मिथ्यात्वे चेत­र­प्रा­मा­ण्य­मि­त्य­न्यो­न्या­श्र­य­त्वात् । द्विच­न्द्रा­दि­बो­धस्य प्रमा­ण­ब­ला­ब­ल­चि­न्तायाः प्रागेव झटिति बाध्य­त्वा­त्त­न्मि­थ्या­त्व­सिद्धिः । अत्र तु प्रमा­ण­ब­ला­ब­ल­चि­न्ता­या­म­स­ञ्जा­त­वि­रो­धि­त­याऽ­हं­प्र­त्यय एव बलीयानिति तद्वि­रु­द्धा­भ्या­मा­ग­मा­नु­मा­नाभ्यां देह­व्य­ति­रि­क्तत्वं न सिध्येत् । तस्मा­द­हं­प्र­त्य­ये­नैव देह­व्य­ति­रि­क्त­त्व­सिद्धौ मनु­ष्य­त्वा­भि­मानो गौणो न मिथ्येति । नैतत्सारम्, किमर्थतो देह­व्य­ति­रि­क्ता­त्म­वि­ष­योऽ­हं­प्र­त्ययः किं वा प्रतिभासतः ? नाऽऽद्यः, अर्थतो भेदसत्ताया अप्रयोजकत्वात् । सिंहो देवदत्त इत्यादौ हि भेदप्रतिभास एव गौणत्वप्रयोजको दृष्टः । अन्यथा इदं रज­त­मि­त्य­त्राऽ­प्य­र्थतो भेदसद्भावेन गौण एव व्यवहारः स्याद्, न भ्रान्तः । द्वितीयेऽपि किमहंप्रत्ययो विचारात् प्रागेव व्यति­रे­क­म­व­भा­स­यति उत पश्चात् ? नाऽऽद्यः, विचा­र­शा­स्त्र­वै­य­र्थ्यात् । न द्वितीयः, प्राप्ता­प्रा­प्त­वि­वे­केन विचारस्यैव व्यति­रे­क­बो­ध­क­त्वात् । ननु विचारो नाम युक्त्य­नु­स­न्धा­नम्, न हि युक्तिः स्वातन्त्र्येण ज्ञानजननी किन्तु प्रमा­णा­नु­ग्रा­हिका सती व्यति­रि­क्ता­त्म­वि­ष­य­त्व­म­हं­प्र­त्य­यस्य प्रमाणस्य विवेचयति । मैवम्, किं युक्ति­र्वि­ष­य­वि­शेषे प्रमाणं नियमयति एतावदेव त्वया ग्रहीतव्यं नाऽधिकं नाऽपि न्यूनमिति किं वा स्वतःसिद्धे विषये ग्रहणाय प्रवृत्तस्य प्रमाणस्य प्रसक्तं प्रतिबन्धं निरस्यति ? नाऽऽद्यः, पुरु­ष­बु­द्धि­वै­चि­त्र्येण युक्ती­ना­म­व्य­व­स्थि­त­तया प्रमा­णा­ना­म­व्य­व­स्थि­त­वि­ष­य­त्वा­पत्तेः नन्वि­ष्टा­प­त्ति­रेषा प्रमाणानां नियतविषयत्वे शास्त्रकाराणां मत­भे­दा­स­म्भ­वा­दिति चेद्, न; विरुद्धस्थले स्वमतमेव प्रामाणिकं नाऽन्यदिति सर्वै­र­ङ्गी­का­रात् । अव्य­व­स्थि­त­वि­ष­यत्वे च परमतान्यपि प्रामा­णि­क­त्वे­नाऽऽ­द­र्त­व्यानि स्युः । न च प्रबलयुक्तीनां बह्वीनां प्रमा­ण­नि­या­म­कत्वं वाच्यम्, न हि सहस्रमपि युक्तयः सक­ल­शा­स्त्रा­भि­म­त­बु­द्धि­प्र­भवा अपि चक्षुषः शब्दविषयत्वं सम्पादयेयुः रूपविषयत्वं वा निवारयेयुः । द्वितीये तु किमहंप्रत्ययस्य देहा­दि­प्र­ति­यो­गि­का­त्म­भे­दोऽपि स्वतःसिद्धो विषयः किं वाऽऽत्ममात्रम् । आद्ये लौकायतिकस्य प्राकृतानां च विवेकः प्रसज्येत । अथ तेषां शास्त्री­य­यु­क्तिभिः प्रति­ब­न्धा­नि­र­स­ना­द­वि­वे­क­स्त­थापि शास्त्राभिज्ञेन त्वया न कदाचिदपि देहा­दि­व्य­ति­रि­क्तोऽ­ह­मिति प्रत्येतुं वक्तुं वा शक्येत । अहमित्यनेनैव भेदोक्तौ देहा­दि­व्य­ति­रिक्त इत्यस्य पौन­रु­क्त्य­प्र­स­ङ्गात् । अथाऽत्ममात्रं विषयः तर्हि सुखेन युक्त­योऽ­हं­प्र­त्य­य­स्याऽऽ­त्म­ग्र­हणे प्रसक्तं प्रतिबन्धं निरस्यन्तु नैता­व­ताऽ­हं­प्र­त्य­यस्य देहा­दि­वि­ष­य­त्व­म­नु­भू­य­मा­न­म­पोढुं शक्यम् । नन्वेवमहं मनुष्य इति प्रत्ययः स्वविषयमेव गृह्णातीति भ्रमो न स्यात् । मैवम्, न हि स्वविषयग्राहि प्रमा­ण­म­न्य­वि­ष­य­ग्रा­ह्य­प्र­मा­ण­मि­त्य­स्म­द्व्य­वस्था, किन्तु सत्यग्राहि प्रमाणं सत्यानृतग्राहि चाऽप्रमाणमिति । अहंप्रत्ययश्च सत्य­मा­त्मा­न­म­सत्यं देहादिकं चैकीकृत्य गृह्णातीति भ्रम एव । न च स्वप्रकाशे निरंशे आत्म­न्य­गृ­ही­त­वि­शे­षां­शा­स­म्भ­वा­द­भ्रम इति वाच्यम्, यद्व­द­का­रा­दि­व­र्णेषु निरवयवेषु साकल्येन भासमानेषु ध्वनिगतं ह्रस्व­दी­र्घ­त्वा­दि­क­मा­रो­प्यते न च ह्रस्वत्वादिकं वर्णधर्मः, स एवाऽयमकार इत्या­दि­प्र­त्य­भि­ज्ञया वर्णानां सर्व­ग­त­त्वा­व­ग­माद् वर्ण­स­र्व­ग­त­त्व­ज्ञा­न­व­ता­मपि तद्यु­क्त्य­न­नु­स­न्धा­नेन ह्रस्व­त्वा­दि­भ्र­मोऽ­नु­व­र्तत एव तद्व­दा­त्म­न्य­प्या­बा­ल­प­ण्डि­त­म­नु­भ­व­सिद्धं देहा­दि­ता­दा­त्म्य­भ्रमं शास्त्रा­न्य­ब्र­ह्मा­त्म­त­त्त्व­सा­क्षा­त्का­रेण विना बाधरहितं को निवारयेत् । गौणत्वं चाऽहं मनुष्य इति प्रत्य­य­स्यो­त्त­रत्र समन्वयसूत्रे निराकरिष्यते । तदेवं स्वयंप्रकाशमानो निरंशोऽप्यात्मा मिथ्या­भि­मा­न­ति­रो­हितो ब्रह्म­त­त्त्वा­का­रे­णाऽ­गृ­हीत इत्याकारभेदेन सामा­न्य­ग्र­ह­ण­वि­शे­षा­ग्र­ह­णयोः सम्भ­वा­द­धि­ष्ठा­न­त्व­म­वि­रु­द्धम् । ततः सत्य­स्याऽ­धि­ष्ठा­नस्य मिथ्या­व­स्तु­स­म्भे­दा­व­भास इति स्वरू­प­ल­क्ष­ण­म­स्त्येव । विष­य­क­र­ण­द्र­ष्ट्रा­ख्य­त्रि­त­य­स्था­नीये आत्म­न्य­वि­द्या­दो­षस्य सम­र्थि­त­त्वा­दा­त्म­चै­त­न्य­स्यै­वा­धि­ष्ठा­न­ग्रा­ह­क­प्र­मा­ण­त्वा­द­नादौ संसारे पूर्व­पू­र्वा­ध्या­स­सं­स्का­रस्य सुलभत्वाच्च कार­ण­त्रि­त­य­ज­न्यत्वं तटस्थलक्षणमपि सुसम्पादम् । यद्य­प्य­त्रा­धि­ष्ठा­ना­ध्य­स्य­मा­न­यो­रा­त्मा­ना­त्म­नो­रे­की­क­र­णे­ना­व­भा­सकं चैतन्यं स्वरूपतो न जायते तथापि विशि­ष्ट­वि­ष­यो­प­र­क्ता­का­रेण तस्य जन्म न विरुद्धम् । एवं च सति यत्तु पूर्वं लक्षणमुक्तं तत्र स्मृति­स­मा­न­श­ब्देन कार­ण­त्रि­त­य­ज­न्यत्वं विवक्षितम् । अन्य­स्याऽ­न्या­त्म­ता­व­भास इत्यनेन च सत्यस्य मिथ्या­स­म्भे­दा­व­भास इति व्याख्येयम् । तस्मा­दा­त्म­न्य­ह­ङ्का­रा­दि­भ्रमो वा सोपाधिकभेदभ्रमो वा लक्षणलक्षित एवेति सिद्धम् । ननु कथं प्रत्य­गा­त्म­न्य­ध्यासः सम्भाव्यते, सर्वत्र ह्यध्यस्यमानेन समा­ने­न्द्रि­य­वि­ज्ञा­न­वि­ष­य­त्व­मे­वाऽ­धि­ष्ठा­नस्य दृष्टम् । न च युष्म­त्प्र­त्य­या­पे­त­स्याऽऽ­त्म­न­स्त­दस्ति । उच्यते – एक­स्मि­न्वि­ज्ञा­नेऽ­धि­ष्ठा­ना­ध्य­स्य­मा­नयोः सम्भि­न्न­त­याऽ­व­भास एवाऽ­ध्या­सेऽ­पे­क्ष्यते नाऽधिष्ठानस्य विषयत्वं केव­ल­व्य­ति­रे­का­भा­वात् । अस्ति चाऽत्राऽऽ­त्मा­ना­त्म­स­म्भे­दा­व­भा­स­क­म­ह­मि­त्येकं ज्ञानम् । यद्यप्यात्मा निरं­श­त्वा­द­वि­ष­य­त्वा­च्चां­शेन वा स्वरूपेण वा नाऽस्य ज्ञानस्य विष­य­स्त­था­प्या­का­श­प्र­ति­बि­म्ब­ग­र्भि­त­द­र्प­ण­व­दा­त्म­न्य­ध्य­स्त­म­न्तः­क­र­ण­मा­त्म­प्र­ति­बि­म्ब­ग­र्भि­त­महं प्रत्य­य­रू­पे­णाऽ­व­भा­सते । अस्ति चेदं रजतमिति वदिदमित्यध्यासे द्वैरूप्यम् । यथाऽयो दहतीत्यत्र दग्धृ­त्व­वि­शि­ष्ट­स्याऽ­ग्ने­र­य­सश्च द्वैरू­प्या­व­भा­स­स्त­थाऽ­ह­मु­प­लभ इत्य­त्रा­प्यु­प­ल­ब्धृ­त्व­वि­शि­ष्ट­स्याऽऽ­त्म­नोऽ­न्तः­क­र­णस्य च द्वैरू­प्या­व­भा­सात् । तत्र दुःखितया परिणामितया जडतया विष­ये­न्द्रि­या­दि­व्या­वृ­त्त­तया वाऽनु­भू­य­मा­नोंऽ­शोऽ­न्तः­क­र­णम्, प्रेमास्पदतया कूटस्थतया साक्षितया विष­ये­न्द्रि­या­द्य­नु­वृ­त्त­चै­त­न्य­रू­प­तया चाऽनुभूयमानोंऽश आत्मा । तस्मा­दि­द­म­नि­द­मा­त्म­कोऽ­हं­प्र­त्ययः ।

नन्वेतत् प्राभाकरो न सहते । तथाहि – घटमहं जानामीत्यत्र स्वप्र­का­श­वि­ज्ञानं घटा­दी­न्वि­ष­य­त्वे­नाऽऽ­त्मानं चाऽऽश्रयत्वेन स्फोरयति । ततोऽ­ह­मि­त्या­त्मैव भासते न तत्रेदमंशः । न च वाच्यम् अयो दहतीत्यादावयः पिण्डा­दे­र्द­ग्धृ­त्व­व्य­ति­रे­क­व­दहं जाना­मी­त्य­त्राऽ­ह­ङ्का­रस्य ज्ञातृ­व्य­ति­रे­कोऽ­स्त्विति, यथा शीतलायः पिण्डो दीप­ज्वा­ला­द्या­त्म­कश्च दग्धा, विविक्तो क्वचिदुपलभ्येते तथाऽ­ह­ङ्का­र­ज्ञात्रोः क्वचिदपि विवे­का­नु­प­ल­म्भात् । ततोऽहङ्कार एवाऽऽत्मा स च संवि­दा­श्र­य­त्वे­नाऽ­प­रोक्षः । यस्तु साङ्ख्य आत्मानमनुमिमीते जडेऽन्तःकरणे चित्प्र­ति­बि­म्ब­स्ता­दृ­श­बि­म्ब­पु­रः­सरः, प्रति­बि­म्ब­त्वाद्, मुख­प्र­ति­बि­म्ब­व­दिति । तथाऽन्येऽपि स्वस्व­प्र­क्रि­या­नु­सा­रेण येऽनुमिमते तेषामात्मनो नित्या­नु­मे­य­त्व­म­ह­मि­त्य­प­रो­क्षा­व­भा­स­वि­रु­द्धम् । अथ परा­व­बो­ध­ना­र्था­न्य­नु­मा­नानि तर्हि सन्तु नाम । यत्तु तार्किकैरात्मनो मान­स­प्र­त्य­क्ष­वि­ष­य­त्व­मुक्तं तदसत्, प्रमाणाभावात् । मनो­न्व­य­व्य­ति­रे­क­यो­र्वि­ष­या­नु­भ­वे­नै­वाऽ­न्य­था­सिद्धेः । विषयानुभवं प्रत्या­श्र­य­त्व­स­म्ब­न्धा­दे­वाऽऽ­त्म­सि­द्धा­वा­त्मनि ज्ञाना­न्त­र­क­ल्पने गौरवात् ।

नन्वस्तु तर्हि भाट्टमतम् । आत्मा ज्ञानकर्म, प्रत्य­क्ष­त्वाद्, घटवत् । न च कर्म­क­र्तृ­त्व­वि­रोधः, द्रव्यांशस्य प्रमेयत्वं बोधांशस्य प्रमातृत्वमिति व्यवस्थितत्वात् । नाऽपि गुण­प्र­धा­न­भा­व­वि­रोधः, प्रमेयांशः प्रधानं प्रमात्रंशो गुणभूत इति सुवचत्वात् । नैतद्युक्तम्, द्रव्यां­श­स्याऽ­चे­त­न­स्याऽऽ­त्म­त्वा­यो­गात् । बोधांशस्यैव कर्मत्वे पूर्वो­क्त­वि­रो­ध­द्व­या­नि­स्ता­रात् । न च बोधो युग­प­त्प्र­मे­य­त्वेन प्रमातृत्वेन च परिणामार्हो निरवयत्वात्, कथ­ञ्चि­त्प्र­धा­ना­दि­व­त्प­रि­णा­मेऽपि प्रमातृभागस्य स्वप्रकाशत्वेन संविदाश्रयत्वेन चाऽप्र­ती­ता­व­प­सि­द्धा­न्ता­पत्तेः; विषयत्वेन प्रतीतौ घट­व­द­ना­त्म­त्व­प्र­स­ङ्गात् । तस्मात् संवि­दा­श्र­य­त­यै­वाऽऽ­त्मा­प्र­त्यक्षः, घटादयस्तु संविद्विषयतया प्रत्यक्षाः । यस्तु सौत्रान्तिको घटादीननुमिमते – संवेदनेषु विष­य­प्र­ति­बि­म्बाऽ­व­भा­स­स्त­था­वि­ध­बि­म्ब­पु­रः­सरः, अत­स्मिं­स्त­द­व­भा­स­त्वाद्, दर्प­ण­ग­त­मु­खा­व­भा­स­व­दिति, स व्यक्तव्यः किम­स्मि­न्न­नु­मा­न­ज्ञाने प्रति­बि­म्ब­भा­व­म­न्त­रेण साक्षा­द्वि­ष­य­भूता विषया अवभासेरन् न वा । आद्ये, अत्रै­वाऽ­नै­का­न्तिको हेतुः । द्वितीये, प्रति­ज्ञा­ता­र्थस्य बिम्ब­पु­रः­स­र­त्व­स्याऽ­प्र­ति­भा­साद् अनुमानानुदय एव । अतोऽनुभूयमानं विषयापरोक्ष्यं नाऽपलपनीयम् । यत्तु विज्ञानवादिना विज्ञा­न­रू­प­त्वे­नैव विष­या­णा­मा­प­रो­क्ष्य­मु­क्तम्, तदसत्; अविज्ञानरूपस्य बहि­ष्ट्व­स्याऽ­प्या­प­रो­क्ष्य­द­र्श­नात् । तस्याऽपि विज्ञानरूपत्वे रजतवद्बाधो न स्यात् । अतो घटादि प्रमेयं विषयत्वेन प्रत्यक्षम् । प्रमितिषु स्वप्रकाशत्वेन न प्रत्यक्षा । यत्तु तार्किका मनः­सं­यु­क्ता­त्मनि समवेता प्रमितिः संयु­क्त­स­म­वा­य­स­म्ब­न्धे­न­ज्ञा­ना­न्त­र­प्र­त्य­क्षे­त्याहुः । यच्च भाट्टाः विषयनिष्ठा प्राकट्याख्या प्रमितिः संयु­क्त­ता­दा­त्म्ये­नाऽ­न्य­वे­द्ये­त्याहुः, तदुभयमप्यसत्; प्रमि­ति­गो­च­र­प्र­मि­त्य­न्त­रा­ङ्गी­का­रे­ण­यु­ग­प­द­ज्ञा­न­द्व­या­व­स्था­न­प्र­स­ङ्गात् । विन­श्य­द­वि­न­श्यतोः फल­यो­र्यौ­ग­प­द्य­मि­ष्ट­मे­वेति चेत्, तथापि संयुक्ते वस्तुनि समवायस्य तादात्म्यस्य वा ग्रह­ण­प्र­यो­ज­कत्वे प्रमि­त्या­श्र­य­ग­त­प­रि­मा­ण­र­सा­दी­ना­मपि प्रमि­ति­ग्रा­ह­के­णैव ज्ञाने­नाऽ­प­रो­क्षता प्रसज्येत । अथोच्यते – आत्म­नि­ष्ठ­प­रि­मा­णा­दीनां घटादिगतरसादीनां च प्रमिति प्रत्या­य­क­ज्ञा­ने­नाऽ­प­रो­क्ष­त्व­यो­ग्यता नास्तीति । एवमपि प्रमितेः स्वसत्तायां प्रका­श­व्य­ति­रे­का­द­र्श­नाद् न घटा­दि­व­द­न्य­वे­द्यता युज्यते । न च वाच्यं प्रमा­णा­ख्या­दा­त्म­व्य­पा­राद् घटादिषु जायमानस्य प्राकट्यस्य घट­ग­त­रू­पा­दि­व­द­न्य­वे­द्य­तेति कोऽसावात्मनो व्यापारः परिस्पन्दः परिणामो वा? नाऽऽद्यः, सर्वगतस्य तदसम्भवात् । द्वितीये तु मृत्परिणामफलस्य घटस्य मृदि चाऽऽत्म­प­रि­णा­म­फ­लस्य प्राक­ट्य­स्याऽऽ­त्मै­वा­श्रयः स्यात् । केश­प­लि­त­त्व­प­रि­णा­मा­च्छ­रीरे वार्द्ध­क­व­दा­त्म­प­रि­णा­मा­द्वि­षये प्राकट्यमिति चेत्, तथापि किं प्राक­ट्या­श्र­यत्वं चेतनत्वं किं वा प्राक­ट्य­ज­न­क­त्वम् उत तज्ज­न­क­ज्ञा­ना­ख्य­व्या­पा­रा­धा­र­त्वम् । आद्ये घटादयश्चेतनाः स्युः । द्वितीये, पुन­श्च­क्षु­रा­द­य­श्चे­त­ना­स्तथा स्युः । न तृतीयः, आत्मा ज्ञान­क्रि­या­वान्, तज्ज­न्य­फ­ल­स­म्ब­न्धि­त्वात्, यथा भुजि­ज­न्य­तृ­प्ति­स­म्बन्धी भुक्ति­क्रि­या­वान् देवदत्तः, इति हि त्वया ज्ञाना­धा­र­त्व­मा­त्म­नोऽ­नु­मा­त­व्यम्, तत्राऽसिद्धो हेतुः स्याद्, आत्मनः फल­स­म्ब­न्धा­भा­वात् । “मया घटोऽनुभूयते” इति फलसम्बन्धः प्रतीयत इति चेत्, तर्हि विषये एव फलं नाऽऽत्मनीति वदतस्तव मते प्रती­ति­वि­रो­ध­स्त्व­यैव सम्पादितः स्यात् । अतोऽतिदुष्टौ तार्कि­क­भा­ट्ट­प­क्षा­वु­पेक्ष्य प्रमा­तृ­व्या­पा­रस्य प्रमाणस्य फलभूतायाः प्रमितेः स्वप्र­का­श­त्व­मा­द­र्त­व्यम् ।

यत्तु सौगतेन संवेदनमेव प्रमाणं तदेव तत्फलं चेत्युक्तम्, तत्र स्फुट एव स्वात्मनि वृत्तिविरोधः । यद्यपि प्रमातुरात्मनो नाऽस्ति कश्चिद् व्यापा­र­स्त­था­प्या­त्म­म­न­श्च­क्षु­र्वि­ष­याणां चतुर्णां सन्निकर्ष एव प्रमाणरूपः सन् प्रमा­तृ­व्या­पा­र­त्वे­नो­प­च­र्यते । न चाऽव्य­भि­चा­रिण्यां प्रमितौ सत्यां हानो­पा­दा­नो­पे­क्षाणां व्यभिचरितानां प्रमा­ण­फ­ल­त्व­मु­प­प­द्यते । न चाऽऽत्मा स्वप्रकाश इति वेदान्तपक्षो युक्तिसहः, उभ­य­वा­दि­सि­द्ध­सं­वि­त्स्व­प्र­का­श­त्व­मा­त्रेण व्यव­हा­र­सि­द्धा­वा­त्म­नोऽपि तत्कल्पने गौरवात् । तस्मात् त्रिपु­टी­प्र­त्य­क्ष­वा­दिनः प्राभाकरस्य यन्मतं “कुम्भमहं जानामि” इत्यादिषु विषयसंवेदनस्य स्वप्र­का­श­स्याऽऽ­श्र­य­त्वेन प्रदी­पा­श्र­य­व­र्ति­व­त्प्र­का­श­मा­नोऽ­ह­ङ्कार आत्मैव, न त्विदमनिदंरूप इति तदेवा‌ऽऽदरणीयम् ।

अत्रोच्यते – विचारे सत्य­ह­ङ्का­र­स्याऽ­ना­त्म­त्व­मेव पर्यवस्यति, आत्म­नोऽ­नु­भ­व­रू­प­त्वात् । तथाहि – इदं तावद् भवान् प्रष्टव्यः किमात्मैव चित्प्रकाश उताऽनुभवोऽपि अथवाऽनुभव एवेति ? आद्ये जड­प्र­का­शोऽ­य­म­नु­भवः किं चक्षु­रा­दि­व­द­प्र­का­श­मानो विश्व­म­भि­व्य­नक्ति आहोस्विदालोकवत् सजा­ती­य­प्र­का­शा­न्त­र­नि­र­पे­क्ष­तया प्रकाशमान एव विषयाभिव्यञ्जकः । नाऽऽद्यः, चक्षुषः स्वाति­रि­क्ता­नु­भ­व­ज­न­क­त्वाद्, अनुभवस्य चाऽतथात्वात् । द्वितीये स्वाति­रि­क्ता­नु­भ­व­म­न­पेक्ष्य स्फुर­ण­मि­त्ये­तस्य चित्प्र­का­श­ल­क्ष­णस्य सत्त्वे­नाऽ­नु­भ­व­श्चि­त्प्र­काश एव भवेत् । यद्य­प्य­नु­भ­व­च­क्षु­रा­लो­कानां घटा­दि­व्य­ञ्ज­कत्वं समानम्, तथाप्यनुभवस्य विष­या­ज्ञा­न­वि­रो­धि­त्वात् चित्प्रकाशत्वम् आलोकस्य विष­य­ग­त­त­मो­वि­रो­धि­त्वा­ज्ज­ड­प्र­का­श­त्वम् चक्षु­ष­श्चा­प­रो­क्षा­नु­भवं प्रति साक्षा­त्सा­ध­न­त्वा­द­ज्ञा­त­क­र­ण­त्व­मिति सम्भवत्येव वैषम्यम् । नन्वालोकवत् सजा­ती­या­न­पे­क्ष­त्व­म­नु­भ­व­स्ये­त्य­यु­क्तम्, आलोकस्य सजा­ती­य­च­क्षुः­प्र­का­श्य­त्वा­दिति चेद्, न; चक्षुः किमालोके तमो वार­य­त्यु­ताऽ­नु­भवं जनयति ? नाऽऽद्यः, आलोकस्य निस्तमस्कत्वात् । द्वितीयेऽपि विजातीयेनैव चक्षु­र्ज­न्या­नु­भ­वेन प्रका­श्य­त्व­मा­लो­कस्य । तस्मादालोकवत् सजा­ती­या­न­पे­क्ष­स्याऽ­नु­भ­वस्य चित्प्रकाशत्वं युक्तम्, जडप्रकाशत्वे जग­दा­न्ध्य­प्र­स­ङ्गात् । प्रमा­तृ­चै­त­न्य­मेव जडानुभवबलात् सर्वमवभासयतीति चेद्, न; जडानुभवो यद्या­त्म­चै­त­न्यस्य विष­य­स­म्ब­न्ध­मात्रे हेतुस्तदा बुद्धिपरिणाम एवाऽयं स्यात्, ततो वेदा­न्ति­म­त­प्र­वेशः। अथाऽऽ­त्म­प्र­का­शेऽपि हेतुः, तदसत्; चिद्रूपस्य जडा­धी­न­प्र­का­शा­नु­प­पत्तेः । अस्तु तर्हि विष­य­मा­त्र­प्र­का­शकः । न च वेदा­न्त­म­ता­पत्तिः, आत्मचैतन्यात् पृथगेव विषयाभिव्यक्तये जडा­नु­भ­व­ज­न्या­नु­भ­वा­न्त­र­स्वी­का­रा­दिति चेत्, तर्हि अस्याऽपि द्वितीयानुभवस्य तथैव जड­त्वे­नाऽ­नु­भ­वा­न्त­रा­पे­क्षा­या­म­न­वस्था स्यात् । नाऽप्या­त्मा­नु­भ­वा­वु­भा­वपि चित्प्रकाशाविति द्वितीयः पक्षः, तयो­र­न्यो­न्य­नि­र­पे­क्ष­सि­द्धि­प्र­स­ङ्गात् । तथात्वे च तयोः संविदात्मनोः सम्बन्धः केनाऽवगम्येत । उभ­यो­र­प्य­न्यो­न्य­वा­र्ता­न­भि­ज्ञ­तया न सम्ब­न्ध­ग्रा­हित्वं सम्भवति । अथ मन्यसे आत्मा स्वयमेव न प्रकाशते, चिद्रूपत्वात्, पुरु­षा­न्त­र­सं­वे­द­न­वत्, ततोऽ­नु­भ­वा­धी­नाऽऽ­त्म­सि­द्धि­रिति, तन्न; अनुभवेऽपि तथाप्रसङ्गात् । अव्य­व­हि­त­त्वा­द­नु­भवः स्वप्रकाश इति चेत्, तदात्मन्यपि समानम् । तत आत्मा स्वयमेव प्रकाशते, चिद्रूपत्वे सत्य­व्य­व­हि­त­त्वात्, अनुभववत् इति प्राप्नोति । नाऽप्यनुभव एव चित्प्रकाश इति तृतीयः पक्षः, आत्मैव चित्प्रकाश इति बला­द­ङ्गी­का­र्य­त्वात्, आत्मा­नु­भ­व­यो­र­भे­दात् । तथाहि – सोऽयमनुभव आत्मगुण इति तार्किकाः प्राभा­क­रा­श्चाऽऽहुः । आत्म­स्व­रू­प­त्वाद् द्रव्यमिति साङ्ख्या अर्थादाचक्षते । तथा परि­णा­म­क्रि­या­फ­ल­त्वात् क्रिया­फ­ल­यो­रै­क्य­वि­व­क्षया कर्मेति भाट्टाः । तत्र कर्मत्वे गमनादिक्रियावत् प्रकाशत्वं फलत्वं चाऽयुक्तम् । द्रव्य­त्वेऽ­प्य­णु­प­रि­मा­ण­श्चेत् खद्यो­त­व­द्व­स्त्वे­क­देशं परिमितमेव स्फोरयेत् । महत्परिमाणत्वे तद्रू­प­स्याऽऽ­त्म­नोऽपि सर्व­त्रा­व­भा­स­प्र­सङ्गः ।अथ तदाश्रय आत्मा, तथापि स एव दोषः । मध्यमपरिमाणत्वे साव­य­व­त्वे­नाऽ­व­य­व­प­र­त­न्त्र­त्वा­दा­त्म­प­र­त­न्त्रता न स्यात् । अथ घटस्य भूत­ल­प­र­त­न्त्र­ता­व­दा­त्म­प­र­त­न्त्रता स्याद्, एवमपि प्रदी­प­प्र­का­श­यो­रि­वाऽऽ­त्म­चै­त­न्य­यो­र­भेद एवाऽङ्गीकार्यः, प्रदीपेन प्रका­शि­त­मि­ति­व­न्म­याऽऽ­व­ग­त­मिति व्यवहारदर्शनात् । आत्म­चै­त­न्य­यो­र्भेदे व्यवहारोऽयं काष्ठेन प्रका­शि­त­मि­ति­व­दु­प­च­रितः स्यात् । गुणत्वपक्षे प्रदी­प­ग­त­भा­स्व­र­रू­प­व­दा­श्र­य­ज­न्म­व्य­ति­रे­केण जन्मा­स­म्भ­वा­न्नि­त्य­त­याऽऽ­त्म­न्य­व्य­भि­चा­र­ब­ला­द­र्थत आत्मैवाऽनुभवः स्यात् । अनु­भ­वा­धी­न­सि­द्धिक आत्मा कथमनुभव इति चेद्; न; तथा सति घट­व­द­ना­त्म­त्व­प्र­स­ङ्गात् । न च नील­पी­ता­द्य­नु­भ­वानां भिन्नत्वाद् नाऽऽत्म­स्व­रू­प­तेति वाच्यम्, स्वरू­प­तोऽ­नु­भ­वेषु भेदाप्रतीतेः । भेदकल्पने च मानाभावात् । न च जन्मविनाशौ भेदकल्पकौ, तयो­र्भे­द­सि­द्धि­पू­र्व­क­त्वेन पर­स्प­रा­श्र­य­त्वात् । ननु चक्षु­रा­दि­सा­ध­ना­र्थ­व­त्त्वा­यो­त्त­र­सं­वि­ज्ज­न्मा­भ्यु­पे­यम् तथा यौग­प­द्य­व्या­वृ­त्तये पूर्व­सं­वि­न्ना­श­श्चा­भ्यु­पेय इति चेद्, न; एकस्याः संविदो विषयविशेषैः सम्ब­न्धा­ना­मु­त्प­त्ति­वि­ना­शा­भ्या­मेव तत्सिद्धौ संवि­दोऽ­प्यु­त्प­त्ति­वि­ना­श­यो­र्गौ­र­वात् ।

यत्तु सुगताः कल्पयन्ति – ज्वालानामिव सादृश्यात् संविदां सन्नेव भेदः परोपाधिमन्तरेण न विभाव्यत इति, तदयुक्तम्; ज्वाला­ना­म­न्य­वे­द्य­त्वेन तथात्वेऽपि स्वप्र­का­श­सं­वि­न्नि­ष्ठ­भे­द­स्याऽ­वि­भा­व­ना­यो­गात् । न च स्वप्र­का­श­ब्र­ह्म­त­त्त्वाऽ­वि­भा­वनं निदर्शनीयम्, तत्राऽ­वि­द्या­व­र­णस्य प्रमाणैः साधितत्वात् । तस्मादेकैव संविदनादिः; अनादित्वं च प्राग­भा­व­र­हि­त­त्वात् । तदुक्तं सुरे­श्व­र­वा­र्त्तिके –
“कार्यं सर्वैर्यतो दृष्टं प्राग­भा­व­पु­रः­स­रम् ।
तस्याऽपि संवि­त्सा­क्षि­त्वात् प्रागभावो न संविदः ॥” इति ।
तदेवं स्वप्र­का­शा­नु­भ­वस्य नित्य­त्वा­दा­त्म­स्व­रू­प­त्व­म­वि­रु­द्धम् तथा चात्मैव विष­यो­पा­धि­कोऽ­नु­भव इति व्यपदिश्यते अवि­व­क्षि­तो­पा­धि­श्चा­त्मेति । यथा वृक्षा­णा­मे­वै­क­दे­शा­व­स्था­नो­पा­धिना वनत्वम् उपा­ध्य­वि­व­क्षायां च वृक्षत्वं तद्वत् । एवं च सति त्रिपु­टी­प्र­त्य­क्ष­वादी कथ­मा­त्म­नोऽ­नु­भ­वा­श्र­य­त्वे­नाऽ­व­भासं ब्रूयात् ? कथं वाऽहङ्कारस्य जडस्याऽऽत्मत्वं सम्पादयेत् ? ननु कुम्भमहं पश्या­मी­त्य­ह­ङ्कारो द्रष्टृत्वेन परामृश्यते द्रष्टा चाऽऽत्मैवेति चेद्, न; सुषु­प्ता­व­प्य­ह­मि­त्ये­वा­त्मा­व­भा­स­प्र­स­ङ्गात्; न चैवमस्ति । ततो नाऽहङ्कार आत्मा, सुषु­प्ता­व­न­व­भा­सात् । अथ सुषुप्तौ विष­या­नु­भ­वा­भा­वात् सतोऽ­प्य­ह­ङ्का­र­स्याऽ­न­व­भासः, तन्न; किं तत्राऽनुभव एव नाऽस्ति उत विषयोपरागाभावः ? नाद्यः; अनुभवस्य नित्यत्वात् । न द्वितीयः; विष­यो­प­रा­ग­स्याऽ­त्म­प्र­ती­ता­व­प्र­यो­ज­क­त्वात् । आत्मनो द्रष्टृ­त्वा­का­रोऽ­ह­ङ्का­र­स्त­त्प्र­तीतौ च विषयोपरागः प्रयोजक इति चेत्, किं द्रष्टृत्वं नाम दृश्या­व­भा­स­क­त्वम् उत दृश्य­व्या­वृ­त्त­त्वम् अथवा चिन्मात्रत्वम् ? तत्र प्रथ­म­द्वि­ती­य­यो­र्दृ­श्य­नि­रू­प्य­त्वे­ना‍ऽऽ­ग­न्तु­कस्य द्रष्टृ­त्व­स्याऽऽ­त्म­त्वा­यो­गाद् नाऽहङ्कार आत्मा स्यात् । तृतीये विष­या­न­पे­क्ष­त्वा­द­ह­ङ्कारः सुषु­प्ता­वु­ल्लि­ख्येत । अस्त्येव तत्राऽहमुल्लेख इति चेद्, न; तथा सत्युत्थितेन पूर्व­दि­ना­ह­ङ्का­र­वत् सौषु­प्ता­ह­ङ्का­रोऽपि स्मर्येत । यद्यपि यदनुभूतं तत् स्मर्यत एवेति नाऽस्ति निय­म­स्त­था­प्य­त्रा­त्मनि स्मर्यमाणो चिद्रू­पोऽ­ह­ङ्कारः कथं न स्मर्येत ? सौषु­प्ता­ह­ङ्का­र­गो­च­रस्य नित्य­चै­त­न्या­नु­भ­व­स्याऽ­वि­ना­शेन संस्का­रा­नु­त्पा­दा­द­द­स्मृ­ति­रिति चेत्, तर्हि तथैव पूर्वा­दि­नाऽ­ह­ङ्कारो न स्मर्येत । अस्मन्मते तु पूर्वदिने जात­स्याऽ­ह­ङ्कृ­त्य­व­च्छि­न्न­चै­त­न्य­स्याऽ­नि­त्य­त्वेन संस्कारोत्पादे तत्स्मृ­ति­र­वि­रुद्धा ।

नन्वेवमेव सौषु­प्ता­ह­ङ्का­रोऽ­प्यु­त्थि­तेन स्मर्यताम् ? सुख­म­ह­म­स्वा­प्स­मिति परा­म­र्श­द­र्श­ना­दिति चेद्, एवं तर्हि अव्य­व­स्थि­त­वा­दिनं त्वां तार्किकवराक एव निर्भर्त्सयतु । तथाहि – नाऽत्र सुषुप्तिकालीन आत्मा तत्सुखं वा परामृश्यते, किं तर्ह्यु­त्था­ना­व­सरे प्रति­भा­स­मा­न­मा­त्मानं पक्षीकृत्य सुखोपलक्षितो दुःखा­भा­वोऽ­नु­मी­यते । अहं स्वप्न­जा­ग­रि­ता­न्त­राले दुःखरहितः, निय­मे­नाऽ­स्म­र्य­मा­ण­त­दा­त­न­दुः­ख­त्वात्, कुम्भवदिति । यद्यपि शाब्दव्यवहार एव लक्षणा प्रसिद्धा, न प्रत्य­क्षा­नु­मा­नादौ, तथाप्यत्र मुख्य­सु­खा­स­म्भ­वाद् दुःखाभाव एवाऽभ्युपेयो न तु मुख्य­सु­ख­व्य­व­हारः । न च परामर्शादेव मुख्यसुखं कल्पयितुं शक्यम्, तथा सत्यन्नसुखं पानसुखमिति विष­य­वि­शे­ष­नि­ष्ठ­तया स्मृति­प्र­स­ङ्गात् । अथ विषयांशे संस्का­रा­नु­द्बोधः कल्प्येत, एवमपि सुखमहमस्वाप्सं न किञ्चि­द­वे­दि­ष­मिति चैत­न्या­भा­व­प­रा­मर्शः सुखा­नु­भ­व­प्र­ति­कू­ल­त्वाद् दुःखा­भा­व­मु­पो­द्ब­ल­यति । सुषु­प्तो­त्थि­त­मा­त्र­स्याऽ­ङ्ग­ला­घ­व­प्र­स­न्न­व­द­न­त्वा­दिकं तत्पूर्वकाले सुखा­नु­भ­व­म­नु­मा­प­ये­दिति चेद्; न, अनु­भ­वा­न­न्त­र­क्षणे स्मर­ण­स­म्भ­वेऽ­नु­मा­न­वै­य­र्थ्यात् तारतम्येन दृश्य­मा­न­म­ङ्ग­ला­घ­वा­दिकं सातिशयेन स्वापसुखेन विना न स्याद् दुःखा­भा­व­स्यै­क­रू­प­त्वा­दिति चेद्, न; प्रति­यो­गि­दुः­ख­ज­न­क­क­र­ण­व्या­पा­र­स्यो­प­र­म­ता­र­त­म्या­द­भा­वेऽपि तत्प्रतीतेः । नन्वास्तां ताव­त्ता­र्कि­क­स­मयः; सिद्धान्तस्तु कथमिति चेत्, तर्हि सावधानमनस्केन श्रूयताम् – अस्ति स्वप्र­का­श­सा­क्षि­चै­त­न्य­स्व­रू­प­भूत आनन्दः सर्वदा भासमानोऽपि जाग्र­त्स्व­प्न­यो­स्ती­व्र­वा­यु­वि­क्षि­प्त­प्र­दी­प­प्र­भा­वद् “अहं मनुष्यः” इत्यादि मिथ्या­ज्ञा­न­वि­क्षि­प्त­तया न स्पष्टमवभासते । सुषुप्तौ तु तद­भा­वा­द्वि­स्प­ष्ट­मे­वाऽ­व­भा­सते । आवरणाविद्या तु ब्रह्म­त­त्त्वा­का­र­मा­च्छा­द­य­न्त्यपि स्वभासकं साक्षि­चै­त­न्या­कारं नावृणोति । नो चेदविद्यैव निःसाक्षिका सती न सिध्येत् । ततश्च सुषुप्तावनुभूत आनन्द आत्मा भावरूपाज्ञानं चेति त्रय­म­प्यु­त्थि­तेन परामृश्यते “सुखमहमस्वाप्सं न किञ्चिदवेदिषम्” इति । नन्वेतत् त्रयं सुषुप्तौ नाऽन्तः­क­र­ण­वृ­त्ति­भि­र­नु­भू­यते तासां तत्राऽभावात् । चैतन्येनाऽनुभवे तस्याऽविनाशिनः संस्का­रा­नु­त्पा­द­क­त्वान्न परामर्शः सिध्येदिति चेद्, मैवम्, अवि­द्यै­वो­क्त­त्र­य­ग्रा­ह­क­वृ­त्ति­त्र­या­का­रेण सुषुप्तौ विवर्त्तते । ताभि­र्वृ­त्ति­भि­र­व­च्छि­न्ना­श्चि­दा­भासा उक्त­त्र­य­म­नु­भू­यो­त्था­न­काले विनङ्क्ष्यन्ति तत्संस्कारजन्या स्मृतिः किं न स्यात् । अवि­द्या­वि­शि­ष्ट­स्याऽऽ­त्म­नोऽ­नु­भ­वि­तृ­त्व­म­न्तः­क­र­ण­वि­शि­ष्ट­स्यैव स्मर्तृत्वमिति वैयधिकरण्यमिति चेद्, न; उत्था­नेऽ­प्य­वि­द्या­वि­शि­ष्ट­स्यैव स्मर्तृ­त्वा­ङ्गी­का­रात् । अन्तःकरणं तु स्मृत­स्याऽ­र्थस्य शब्दा­नु­वि­द्ध­व्य­व­हा­र­मा­पा­द­यति । न च सुखमित्यनेन नाऽवे­दि­ष­मि­त्य­नेन च दुःखा­भा­व­ज्ञा­ना­भा­व­यो­रेव परामर्श इति वाच्यम्, तयोः सुषुप्तौ सतोरप्यननुभवात् । तत्प्र­ति­यो­गि­नो­र्दुः­ख­ज्ञा­न­यो­स्त­दा­नी­म­स्म­र­णात् । कथं तर्हि सौषु­प्त­यो­र­न­नु­भू­त­यो­र्दुः­खा­भा­व­ज्ञा­ना­भा­व­यो­र­व­गमः ? अर्थापत्त्येति ब्रूमः । उक्तरीत्या सौषु­प्त­म­वि­क्षिप्तं सुखमनुसृत्य एत­द­न्य­था­नु­प­पत्त्या तद्विरोधिनो दुःखस्याऽभावः प्रमीयते । तथा परा­मृ­ष्ट­भा­व­रू­पा­ज्ञा­ना­नु­प­पत्त्या तद्वि­रो­धि­ज्ञा­न­स्याऽ­भा­वोऽ­व­ग­म्यते । ननु भावरूपाज्ञानं ज्ञानेन न विरुध्यते, जागरणे तयोः सहावस्थानादिति चेद्, न; अज्ञानमात्रस्य प्रप­ञ्च­ज्ञा­नै­र­वि­रो­धेऽपि विशे­षा­का­र­प­रि­ण­ता­ज्ञा­नस्य तद्विरोधित्वात् । घटज्ञानाकारेण हि परिणतमज्ञानं पटा­दि­ज्ञा­नै­र्वि­रु­ध्यते; अन्यथा घटज्ञानकाल एव पटादिकं सर्वं जगदवभासेत । एवं सति सुषु­प्ता­व­स्था­का­रेण परि­ण­त­स्याऽ­प्य­ज्ञा­न­स्याऽ­शे­ष­वि­शे­ष­ज्ञानैः विरोधो भविष्यति । ततो युक्तै­वाऽ­र्था­पत्तिः । अथ सुषुप्तौ ज्ञानं नाऽऽसीत्, अस्म­र्य­मा­ण­त्वात्, इत्यनुमीयताम् । किम­न­याऽ­र्था­प­त्त्येति चेद्, न; मार्ग­स्थ­तृ­णा­दा­व­स्म­र्य­मा­णेऽ­नै­का­न्त्यात् । कथं तर्हि गृहमध्ये प्रातर्गजो नासी­द­स्म­र्य­मा­ण­त्वा­दिति मध्या­ह्नेऽ­नु­मी­यते ? नैवमनुमीयते, किं तर्हि ? गृहावकाशमापूर्य वर्त्तमानं कुसूलादिकं प्रातरनुभूय मध्याह्ने तदनुस्मृत्य तद­न्य­था­नु­प­पत्त्या प्रात­र्ग­जा­भा­वोऽपि प्रमीयते । तदेवं सुषुप्तौ दुःखा­भा­व­ज्ञा­ना­भावौ अर्था­प­त्ति­वेद्यौ, भाव­रू­पा­ज्ञा­ना­न­न्दा­त्मा­नस्तु स्मर्यन्त इति सिद्धा­न्त­स्थितिः । नन्वे­ता­व­ताऽ­ह­ङ्कारे किमायातम् ? इदमायातम् – न सुषु­प्ता­व­ह­ङ्का­रोऽ­नु­भू­यते, नाऽप्युत्थितेन परामृश्यत इति । का तर्हि सुखमहमिति परा­म­र्श­ग­त­स्याऽ­ह­मु­ल्ले­खस्य गतिः ? एषा गतिः – सुषुप्तौ विलीनोऽहङ्कारः प्रबोधे पुनरुत्पद्यते, स चोत्पन्नः परा­मृ­श्य­मा­न­मा­त्मानं सविकल्पकत्वेन स्पष्ट­व्य­व­हा­रा­यो­प­ल­क्ष­यति, एत­दे­क­प्र­यो­ज­न­त्वा­द­ह­ङ्का­र­वृत्तेः । अत एवाऽऽत्मा कदाचिदपि नाऽन्या­भि­र­न्तः­क­र­ण­वृ­त्ति­भि­र्व्य­व­ह्रि­यते । तदुक्तं नैष्क­र्म्य­सिद्धौ –
“प्रत्य­क्त्वा­द­ति­सू­क्ष्म­त्वा­दा­त्म­दृ­ष्ट्य­नु­शी­ल­नात् ।
अतो वृत्ती­र्वि­हा­याऽन्या ह्यहं­वृ­त्त्यो­प­ल­क्ष्यते ॥
आत्म­भा­वा­वि­ना­भा­व­मथ वा विलयं व्रजेत् ।
न तु पक्षान्तरं याया­द­त­श्चाऽ­हं­धि­यो­च्यते ॥” इति ।
ततो जाग्र­त्स्व­प्न­यो­रा­त्म­त्वेन प्रति­भा­स­मा­नोऽ­प्ययं जडोऽहङ्कारः सुषु­प्ता­व­भा­वान्न स्वयं­प्र­का­श­स्याऽ­त्मनः स्वरूपमिति श्रुति­स्मृ­ति­कु­श­लै­र­भ्यु­पे­य­मिति । तथा च श्रुतिः “स एवाधस्तात् स उपरिष्टात्” इत्यादिना भूमाख्यस्य ब्रह्मणः सार्वा­त्म्य­म­भि­धाय “अथा­तोऽ­ह­ङ्का­रा­देशः एवा­ह­मे­वा­ध­स्तात्” इत्या­दि­नाऽ­ह­ङ्का­र­स्याऽपि सर्वा­त्म­त्व­मुक्त्वा “अथात आत्मादेश एवा­त्मै­वाऽ­ध­स्तात्” इत्या­दि­नाऽऽ­त्मा­न­म­ह­ङ्का­रा­द्भे­देन निर्दिशति । ननु जीवब्रह्मणोः सार्वा­त्म्य­व्य­प­देशो यथा एक­त्व­सि­द्ध्य­र्थ­स्त­थै­वाऽ­ह­ङ्का­र­स्याऽऽ­प्या­त्मै­क­त्व­सि­द्ध्यर्थो व्यपदेशः स्यात् ? मैवम्; पूर्वं भेदेन प्रति­प­न्न­यो­र्जी­व­ब्र­ह्म­णो­र्युक्त एक­त्व­सि­द्ध्यर्थो व्यपदेशः, द्वयोः सार्वा­त्म्या­यो­गात् । अहङ्कारस्य तु पूर्व­मे­वा­त्मै­क­त्वेन प्रतिपन्नस्य पृथगुपदेशो भेदसिद्ध्यर्थ इति गम्यते । न चैवमहङ्कारस्य सार्वा­त्म्यो­प­देशो व्यर्थः, ब्रह्मणः परो­क्ष­स्याऽ­प­रो­क्षा­ह­ङ्का­र­ता­दा­त्म्य­क­थ­ना­र्थ­त्वात् । तर्हि घट्ट­कु­टी­प्र­भा­त­न्या­ये­नाऽ­ह­ङ्कार एवाऽऽत्मा स्यादिति चेत्, पुन­र­ह­ङ्का­र­व्यु­दा­सेन ब्रह्मणो मुख्या­त्म­त्वो­प­दे­शात् । श्रुत्यन्तरे च “अह­ङ्का­र­श्चाऽ­ह­ङ्क­र्त्त­व्यञ्च” इति स्पष्टं विष­ये­न्द्रि­य­प्र­वा­ह­मध्ये पाठात् । स्मृतिश्च “महा­भू­ता­न्य­ह­ङ्कारः" इति कार्य­प्र­प­ञ्च­मध्ये गणयति ।

तर्ह्यहङ्कारः किमुपादानः ? किंनिमित्तः ? किंस्वरूपः ? किम्प्रमाणकः ? किंकार्यः ? किमिति सुषुप्तौ नास्तीति चेत्, उच्यते – अह­ङ्का­र­स्याऽ­ना­द्य­नि­र्व­च­नी­याऽ­विद्या उपादानम्, अविद्यायाः पर­मे­श्व­रा­धि­ष्ठि­तत्वं निमित्तम्, ज्ञान­श­क्ति­क्रि­या­श­क्ति­द्वयं स्वरूपम्, कूटस्थचैतन्यं प्रमाणम्, कर्तृ­त्व­भो­क्तृ­त्वा­दिकं च कार्यम् । सुषु­प्ते­र­न्तः­क­र­ण­प्र­ल­य­रू­प­त्वान्न तत्र सद्भावः । यद्यपि क्रियाशक्तिरूपः प्राणः सुषुप्तौ वर्तते, तथापि प्राण­स्याऽ­ह­ङ्का­रा­द­न्यत्वे तल्लयो न विरुध्यते । अनन्यत्वे च प्राणांशं विहा­याऽ­व­शि­ष्टस्य लयः कल्प्यताम् । दृष्टि­सृ­ष्टि­स­मा­श्र­यणे तु सुप्तपुरुषं प्रति सर्वलयो मुख्य एव सेत्स्यति । यत्तु साङ्ख्या मन्यन्ते – स्वतन्त्रमचेतनं पारमार्थिकं प्रधानमेव मह­द­ह­ङ्का­रा­दि­कृ­त्स्न­ज­ग­दु­पा­दा­नम् न त्वविद्या पर­मे­श्व­रा­धि­ष्ठि­तेति, तदसत्; तथा सत्यहङ्कारः तद्ग­त­क­र्तृ­त्व­भो­क्तृ­त्वादि च इदन्तयैव भासेत अयं कर्ताऽयं भोक्तेति न त्वात्म­न्य­ध्य­स्त­त­याऽहं कर्ताऽहं भोक्तेति प्रतिभासः सिध्येत्, अनि­र्व­च­नी­य­ख्यातेः साङ्ख्यै­र­न­ङ्गी­का­रात् ख्यात्यन्तराणां च निरस्तत्वात् । यच्च नैयायिका मन्यन्ते – अस्ति किञ्चि­दि­न्द्रियं मनो नाम अणुपरिमाणं सुख­दुः­खे­च्छा­ज्ञा­ना­दि­नि­मि­त्त­का­र­णम् । यद्येतन्न स्यात्त­र्ह्या­त्मे­न्द्रि­य­वि­ष­या­दिषु समवहितेष्वेव दृश्यमानं ज्ञान­का­दा­चि­त्कत्वं न सिध्येत् । न त्वेत­स्मा­न्म­न­सोऽ­ति­रिक्तं मध्यमपरिमाणं सुख­दुः­खा­दि­प­रि­णामि अन्तःकरणं नामाऽस्ति, यस्याऽ­न्तः­क­र­णस्य वृत्ति­भे­दा­द­ह­ङ्कारो वेदा­न्ति­भि­र­यः­पि­ण्ड­द­र्प­णो­द­क­पा­त्र­स­दृशो वर्ण्यते । यथाऽयःपिण्डेन स्वगतो ह्रस्व­दी­र्घ­व­र्तु­ल­त्वा­द्या­कारो वह्नौ आरोप्यते दर्पणेन चैकमेव मुख­बि­म्ब­प्र­ति­बि­म्ब­रू­पेण विभज्यते, उदकपात्रेण च चन्द्र­प्र­ति­बिम्बे गमनागमनादय आरोप्यन्ते; तथैवाऽहङ्कारेण स्वग­त­क­र्तृ­त्वा­दि­क­मा­त्म­न्या­रो­प्यते, एक एव चाऽऽत्मा जीवब्रह्मरूपेण विभज्यते, जीवे एव परलोकगमनादय आरोप्यन्ते । न च बुद्धि­रे­वाऽ­न्तः­क­र­ण­मिति वाच्यम्, आत्म­गु­ण­ज्ञा­न­व्य­ति­रे­केण बुद्धेरभावात् । तस्मान्नाऽस्ति वेदा­न्त्य­भि­म­त­म­न्तः­क­र­ण­मिति । तदप्यसत्, “बुद्धेर्गुणेन” इत्या­दि­श्रु­ति­ष्व­ने­क­शोऽ­न्तः­क­र­णस्य परिणामिनो ज्ञान­क्रि­या­श­क्ति­रू­पस्य आत्मनि सर्व­सं­सा­रा­पा­द­कस्य मनो­बु­द्ध्या­दि­श­ब्द­वा­च्यस्य प्रसिद्धत्वात् । नो चेद­स­ङ्ग­स्याऽऽ­त्मनः संसारो न सिध्येत् । सति त्वन्तःकरणे तेनाऽऽत्मनि मिथ्यासंसार आरोप्यते जपाकुसुमेनेव स्फटिके मिथ्यालौहित्यम् । यस्तु लौहि­त्य­मि­थ्यात्वं न सहते, स वक्तव्यः, किं स्फटिकप्रवृत्ता नयनरश्मयः स्फटि­क­प्र­ति­स्फा­लिता जपा­कु­सु­म­मु­प­स­र्पेयुः ? किं वा कुसु­म­ग­त­रू­प­मात्रं स्फटिके प्रतिबिम्बितं स्फटिकात्मना भाति उत पद्म­रा­गा­दि­म­णि­प्र­भ­येव कुसुमप्रभया व्याप्तत्वात् स्फटिको लोहित इवाऽवभासते अथवा तत्र व्याप्नुवन्ती प्रभैव लोहिता भाति आहोस्वित्तया प्रभया स्फटिके नूतनं लौहि­त्य­मु­त्पा­दि­तम् ? आद्ये, नेत्राभिमुखं कुसुममपि प्रतीयेत । यदि तदवयवदोषबलान्न कुसुमे सम्प्र­यो­ग­स्तर्हि लौहित्यमपि न भायात्, संयु­क्त­स­म­वा­य­स­म्ब­न्धा­भा­वात् । न द्वितीयः; क्वचिदपि द्रव्यं परित्यज्य रूपमात्रस्य प्रति­बि­म्बा­द­र्श­नात् । तृतीये तु स्फटि­क­लौ­हि­त्ययोः सम्बन्धो मिथ्येति त्वयाऽ­भ्यु­प­ग­त­मेव स्याद्, इवशब्दप्रयोगात् । चतुर्थे स्फटि­क­शौ­क्ल्य­मपि प्रतीयाद्, अप्र­ती­ति­का­र­णा­भा­वात् । न च तया प्रभया विरो­धि­गु­ण­यु­क्तया शौक्ल्य­म­प­सा­र्यते, तथा सति नीरूपस्य स्फटिकस्य अचा­क्षु­ष­त्व­प्र­स­ङ्गात् । नाऽपि शौक्ल्यं प्रतिबद्ध्यते, स्फटिकेऽपि प्रति­ब­न्ध­प्र­स­ङ्गात् । नहि रूपं विहाय द्रव्यमात्रस्य चाक्षुषत्वं सम्भवति, वायावपि तत्प्रसङ्गात् । पञ्चमेऽपि प्रभा­नि­मि­त्त­का­रणं चेद्, तदा प्रभापगमेऽपि स्फटिके लौहि­त्य­म­व­ति­ष्ठेत । उपादानं प्रभेति चेद्, न; मणाविव कुसुमे प्रभाया एवाऽदर्शनात्, पूर्वो­क्त­दू­ष­णा­ना­म­ङ्गी­का­र­वा­द­त्वात् । तदेवं स्फटिके मिथ्यालौहित्यं कुसु­म­नि­मि­त्त­मि­त्य­ङ्गी­क­र्त्त­व्यम् । एव­मा­त्म­न्य­ह­ङ्का­र­नि­मित्तं कर्तृ­त्वा­दि­क­मा­रो­प्यते । ननु किम­ह­ङ्का­र­ग­त­स्यैव कर्तृ­त्व­स्याऽऽ­त्म­न्या­रोप उताऽऽत्मनि मिथ्याभूतं कर्तृ­त्वा­न्त­र­मु­त्प­द्यते ? आद्ये, लोहि­त­दृ­ष्टा­न्त­वै­षम्यं स्यात्; द्वितीये त्वहङ्कारः सत्यकर्ता आत्मा च मिथ्याकर्त्तेति कर्तृ­द्व­या­पत्तिः, मैवम्; न तावदाद्यः पक्षो दुष्यति; आत्मनि वस्तुतोऽसदेव कर्तृत्वं भाती­त्य­स्मि­न्नंशे दृष्टान्त उक्तः । न चैव­म­न्य­था­ख्यातिः; कर्तृ­त्व­ध­र्म­स­हि­त­स्याऽ­ह­ङ्का­र­स्याऽऽ­त्म­न्य­ध्य­स्त­तया मिथ्या­त्वा­ङ्गी­का­रात्, अन्य­था­ख्या­ता­वा­रो­प्यस्य रजतादेः सत्यत्वात् । नाऽपि द्वितीये दोषः; आत्मा­ह­ङ्का­र­यो­रे­क­ता­पत्त्या कर्तृ­द्व­या­प्र­सक्तेः । ननु नाऽहङ्कारः कर्तृ­त्वा­द्य­न­र्थ­हेतुः; “भिद्यते हृदयग्रन्थिः” इत्यादौ हृद­य­ग्र­न्थे­स्त­था­त्व­श्र­व­णा­दिति चेत्, न; अधि­ष्ठा­ना­त्म­स­हि­त­स्याऽ­ह­ङ्का­र­स्यैव सम्भि­न्न­चि­ज्ज­डो­भ­य­रू­पस्य ग्रन्थि­त्वो­प­चा­रात् ।

अथ मत­म­ह­ङ्का­रा­दे­र­ध्य­स्तत्वे प्रतीतिर्न स्यात्, आत्मा न स्वात्म­न्य­ध्यस्तं प्रत्याययति, अधिष्ठानत्वात्, स्फटिकवदिति, तन्न; जड­त्व­स्यो­पा­धि­त्वात् । आत्मा तु चेतनः । एव­म­प्य­ध्य­स्त­गो­च­र­ज्ञा­न­व्या­पा­र­शू­न्य­त्वात् फलतो जड इति चेद्, न; अव्यवधानेन चित्संसर्गादेव प्रतिभाससिद्धौ ज्ञान­व्या­पा­र­स्याऽ­प्र­यो­ज­क­त्वात् । तर्ह्यहङ्कारो नेदमंशः स्याद्, ज्ञान­क्रि­या­व्य­व­धा­न­म­न्त­रेण भासमानत्वात्, साक्षि­स्व­रू­प­व­दिति चेद्, न; चित्स्वभावे साक्षिणि चित्क­र्म­त्व­स्ये­द­मं­श­ल­क्ष­ण­स्याऽ­भा­वात् । अहङ्कारे तल्ल­क्ष­ण­म­नु­भ­व­सि­द्धम् । प्राभाकरादयः पुनः शास्त्र­र­ह­स्य­म­जा­नन्तो लोक­व्य­व­हा­रा­नु­सा­रेण ज्ञान­क्रि­या­क­र्म­त्व­मे­वे­द­मं­श­ल­क्षणं मन्य­मा­ना­स्त­द्र­हि­तोऽ­ह­ङ्कार आत्मेति वृथा मोमुह्यन्ते । यद्य­प्य­ह­ङ्का­रोऽपि वृत्ति­ज्ञा­न­वेद्यः, अन्यथा पूर्व­दि­ना­ह­ङ्कारे स्मृत्य­स­म्भ­वात्; तथाऽपि तस्य वृत्ति­ज्ञा­न­स्याऽ­ह­ङ्का­रां­श­त्वा­द­त्य­न्त­भे­दा­भा­वा­च्छ­री­र­वि­ष­या­दि­वद् वेद्यत्वं न स्पष्टम् । सूक्ष्मदर्शिनां तु स्पष्टमिति चेद्, एवमपि वृत्ति­वे­द्य­त्व­ल­क्षणं वृत्ति­नि­व­र्त्या­म­विद्यां न व्याप्नोति । तत­श्चि­त्क­र्म­त्व­मे­वे­द­मं­श­ल­क्ष­णम् । कुतस्तर्हि लक्षणसाम्ये शरीरविषयादावेव लोकस्येदं व्यवहारो नाऽहङ्कारे; तद­न­भि­ज्ञ­त्वा­दिति ब्रूमः यथा वल्मी­क­पा­षा­ण­वृ­क्षा­दिषु मृन्म­य­त्व­सा­म्येऽपि विवेकहीना वल्मीकमेव तथा व्यवहरन्ति, न वृक्षादि तद्वत् । अभिज्ञास्तु यथालक्षणं चिदंशमनिदन्तया जडांशं चेदन्तया व्यवहरन्ति । तस्मात् चित्प्र­ति­बि­म्ब­ग­र्भि­तोऽ­ह­ङ्कार इद­म­नि­द­मा­त्म­क­त्वेन परी­क्ष­कै­र्नि­रू­प्य­मा­णोऽपि पामरैरेकीकृत्य अहं­प्र­त्य­य­रू­पे­णाऽ­नु­भूत इति सिद्धम् ।

ननु जीव­स्याऽ­ह­ङ्का­र­स्थ­प्र­ति­बि­म्बत्वे दर्प­ण­स्थ­मु­ख­प्र­ति­बि­म्ब­व­द्बि­म्बा­द्भेदः स्यात् । तत्र हि ग्रीवा­स्थ­द­र्प­ण­स्थ­यो­र­न्यो­न्या­भि­मु­ख­त्वेन भेदोऽनुभूयते । मैवम्, मदीयमिदं मुख­मि­त्यै­क्य­प्र­त्य­भि­ज्ञया भेदानुभवस्य बाधात् । न च प्रत्य­भि­ज्ञै­वे­त­रेण बाध्येति वाच्यम्, सति भेदे प्रति­बि­म्बा­स­म्भ­वात् । किं प्रतिबिम्बो नाम मुख­ला­ञ्छि­त­मुद्रा उत दर्पणावयवा एव बिम्ब­स­न्नि­धि­व­शात् तथा परिणमन्ते । नाऽऽद्यः, दर्प­ण­स्थ­मु­ख­स्ये­त­र­स्मा­द­ल्प­त्वात् । यत्र तु प्रौढदर्पणे प्रौढं मुखमुपलभ्यते, तत्रापि तस्य न मुद्रात्वम्, दर्पणमुखयोः संयोगाभावात् । न द्वितीयः; निमित्तकारणस्य बिम्ब­स्या­पा­येऽपि तस्याऽ­व­स्था­न­प्र­स­ङ्गात् । नहि तथाऽवतिष्ठते । तेनैव पुरुषेण दर्पणे तिर्य­ङ्नि­री­क्षिते पुरुषान्तरेण सम्यगवलोकिते वा तन्मु­खा­नु­प­ल­म्भात् । न चैवं मन्तव्यं क्वचि­न्नि­मि­त्ता­पाये कार्यमप्यपैति, हस्त­सं­यो­ग­ज­न्यस्य कटप्रसारणस्य हस्त­सं­यो­गा­पा­येऽ­पा­य­द­र्श­ना­दिति । न तत्र निमित्तापायात् कार्यापायः किन्तु चिर­का­ल­सं­वे­ष्ट­ना­हि­तेन संस्कारेण संवे­ष्ट­न­ल­क्ष­ण­वि­रु­द्ध­का­र्यो­त्पा­दात् । अन्यथा चिरकालप्रसारणेन संवे­ष्ट­न­सं­स्कारे विनाशितेऽपि हस्तापाये प्रसारणमपेयाद्, न चैवमपैति । इह तु चिर­का­ल­बि­म्ब­स­न्नि­धा­वपि अन्ते बिम्बापाये प्रतिबिम्बोऽपि गच्छत्येवेति न बिम्बः परिणामस्य निमित्तम् । अथ मन्यसे चिर­का­ला­व­स्थि­तोऽपि कमलविकासः सवितृकिरणस्य निमि­त्त­स्याऽ­पा­येऽ­प­ग­च्छ­तीति । तन्न, तत्रापि प्राथ­मि­क­मु­कु­लत्वे हेतुभिः पार्थि­वै­रा­प्यैश्च कमलावयवैः पुनरपि रात्रौ मुकुलत्वे विरुद्धकार्ये जनिते विकासापायात् । अन्यथा तादृगवयवरहिते म्लाने कमलेऽपि रात्रौ विकासोऽपगच्छेत् । आदर्शे तु मुखाकारपरिणते पुनः केन हेतुना समतलाकारपरिणामः स्यात् । तदवयवानां कारु­क­र्म­व्य­ति­रे­के­णाऽ­कि­ञ्चि­त्क­र­त्वात् । अत एव बिम्ब­स­न्नि­धि­मा­त्रेण नादर्शावयवा मुखाकारेण परिणमेरन्; अन्यथा दर्पणद्रव्ये प्रतिमामुखे कर्त्तव्ये सति लौकिका बिम्बमेव सन्निधापयेयुर्न तु कारुमपेक्षेरन् । दर्प­ण­द्र­व्य­स्या­न्या­का­र­प­रि­णामे कारु­क­र्मा­पे­क्षा­या­मपि प्रति­बि­म्ब­प­रि­णामे पुनः­स्व­रू­प­प­रि­णामे वा न तदपेक्षेति चेद्, एवमपि न मुख­प्र­ति­बि­म्बा­का­र­प­रि­णामो युक्तिसहः । चक्षु­र्ना­सि­का­दि­नि­म्नो­न्न­त­भा­वस्य स्पर्शे­नाऽ­नु­प­ल­म्भात् । समतलमेव हि पाणिना स्पृश्यते । समतलेन व्यवहितं मुखमिति चेत्, तर्हि चाक्षुषमपि न स्यात् । तत एतत्सिद्धम् – विमत आदर्शो मुख­व्य­क्त्य­न्त­र­र­हितः, तज्ज­न्म­का­र­ण­शू­न्य­त्वाद्, यथा विषा­ण­ज­न्म­का­र­ण­शून्यं विषाणरहितं शशमस्तकमिति । ननु तर्हि शुक्ति­र­ज­त­व­न्मि­थ्या­त्वा­प­त्तेर्न बिम्बै­क­त्व­सिद्धिः, प्रत्यभिज्ञा तु व्यभिचारिणी, मिथ्यारजतेऽपि मदीयमिदं रजतमिति तद्दर्शनादिति चेत्, विषमो दृष्टान्तः । नेदं रजतमिति हि तत्र रजतस्वरूपबाधया रजताभिज्ञाया भ्रमत्वे तत्प्र­त्य­भि­ज्ञाया अपि भ्रमत्वमुचितम् । इह तु न तथा नेदं मुखमिति स्वरूपबाधः, किन्तु नाऽऽत्र मुखमिति देश­स­म्ब­न्ध­मा­त्र­बाधे समुत्पन्ना मदीयमेव मुखमिति प्रत्यभिज्ञा कथं भ्रमः स्यात् । न च स्वमु­खा­व­य­वा­ना­म­चा­क्षु­ष­त्वात् कथं प्रत्य­क्ष­प्र­त्य­भि­ज्ञा­न­मिति वाच्यम्, नासा­दि­क­ति­प­या­व­य­व­द­र्श­ना­दपि घटा­दि­व­द­व­य­वि­न­श्चा­क्षु­ष­त्वो­प­पत्तेः । “यः पुनर्दर्पणापगमे प्रतिबिम्बापगमो नाऽसौ स्वरूपबाधः, दर्पणेऽपि तत्प्रसङ्गात् । ननु “तत्त्वमसि” वाक्येन जीवरूपः प्रतिबिम्बो बाध्यते, यः स्थाणुरसौ पुरुष इतिवद् बाधायां सामा­ना­धि­क­र­ण्यात्, संसार्यविनाशे च मोक्षानुपपत्तेः । मैवम्, सोऽयं देवदत्त इति­व­दै­क्य­प­र­त्वे­नाऽपि सामा­ना­धि­क­र­ण्य­स­म्भ­वात् । विरु­द्धां­श­बा­ध­मा­त्रेण मोक्षोपपत्तेः । कृत्स्नस्य जीवस्य बाधे मोक्ष­स्याऽ­पु­रु­षा­र्थ­त्वात् । यस्तु मन्यते प्रतिबिम्ब एव नास्ति दर्प­ण­प्र­ति­स्फा­लिता नेत्ररश्मयः परावृत्त्य बिम्बमेव दर्पणादविविक्तं गृह्णन्तीति । स्पष्टं प्रत्य­ङ्मु­ख­त्वा­द्य­नु­भ­वे­नै­वाऽसौ निराकरणीयः । कथं तर्हि मूर्त्त­द्र­व्यस्य मुखस्यैकस्य विभिन्नदेशद्वये युगपत् कार्त्स्न्येन वृत्तिः । दर्प­ण­दे­श­वृ­त्ते­र्मा­या­कृ­त­त्वा­दिति ब्रूमः । नहि माया­या­म­स­म्भा­व­नीयं नाम, स्वशि­र­श्छे­दा­दि­क­मपि स्वप्ने माया दर्शयति ।

नन्वेवमेव जल­म­ध्येऽ­धो­मु­खस्य वृक्ष­प्र­ति­बि­म्बस्य तीर­स्थ­वृ­क्षे­णैक्ये सति तीरस्थो वृक्षोऽ­धि­ष्ठा­नम्, तत्र च मायया जल­ग­त­त्व­म­धो­मु­खत्वं चाऽध्यस्तमिति वक्तव्यम् । न चाऽत्राऽ­ध्या­स­हे­तु­रस्ति, अधिष्ठानस्य साकल्येन प्रतीतेः; तत्कथमसावध्यासः ? उच्यते – किमत्र वृक्षा­व­र­णा­भा­वा­द­ध्या­सा­भावः किं वा दोषाभावात् उतोपादानाभावात् आहो­स्वि­द­ध्या­स­वि­रो­धि­नोऽ­धि­ष्ठा­न­त­त्त्व­ज्ञा­नस्य सद्भावात् ? नाऽऽद्यः, चैत­न्या­व­र­ण­स्यै­वाऽ­ध्या­सो­पा­दा­न­तया जडे पृथ­गा­व­र­णा­नु­प­यो­गात् । एतेन तृतीयोऽपि निरस्तः । न द्वितीयः, सोपा­धि­क­भ्र­मे­प­ष­पा­धे­रेव दोषत्वात् । न चतुर्थः, निरु­पा­धि­क­भ्र­म­स्यै­वाऽ­धि­ष्ठा­न­त­त्त्व­ज्ञा­न­वि­रो­धि­त्वात् । तर्हि सोपाधिकभ्रमस्य कर्तृ­त्वा­दे­र्ना­त्म­त­त्त्व­ज्ञा­ना­न्नि­वृत्तिः, किन्त्व­ह­ङ्का­रो­पा­ध्य­प­ग­मा­दिति चेद्, बाढम्; पार­मा­र्थि­क­द­र्प­णा­द्यु­पा­धे­स्त­त्कृ­त­भ्र­मस्य च ज्ञाना­द­नि­वृ­त्ता­व­प्य­ज्ञा­न­ज­न्यो­पा­धे­र­ह­ङ्का­रस्य निरु­पा­धि­क­भ्र­म­रू­प­स्याऽऽ­त्म­त­त्त्व­ज्ञा­ना­न्नि­वृत्तौ कर्तृ­त्वा­दे­र्ज्ञा­ना­न्नि­वृ­त्ति­र­र्थात् सिध्यति । ननु कथं ते तत्त्वज्ञानम् । जीवो नाऽऽत्म­ता­दात्म्यं जानाति, प्रति­बि­म्ब­त्वाद्, दर्प­ण­ग­त­प्र­ति­बि­म्ब­व­दिति चेद्, न; अचे­त­न­त्व­स्यो­पा­धि­त्वात् । यस्तु लौकायतः शरीरस्यैव चैतन्यं मन्यसे तं प्रति दर्पणगतजाड्येन प्रतिबद्धत्वात् प्रति­बि­म्ब­स्याऽ­चे­त­नत्वं सुसम्पादनम् । चेतनत्वे तु बिम्बचेष्टया विनाऽपि स्वयं चेष्टेत । जीवस्य तु प्रति­बि­म्ब­त्वेऽपि नोपाधिजाड्येन प्रतिबन्ध इत्यनुभवात् सिद्धम् । यद्यपि लोके बिम्बभूतस्यैव देवदत्तस्य भ्रम­नि­व­र्त­क­त­त्त्व­ज्ञा­ना­श्र­यत्वं दृष्टं तथापि न तत्र बिम्बत्वं प्रयोजकम्, किन्तु भ्रमाश्रयत्वम् । जीवश्च भ्रमाश्रयः। अवि­द्या­या­श्चि­न्मा­त्रा­श्र­य­त्वेऽपि जीव­प­क्ष­पा­ति­त्वेन भ्रमोत्पादनात् । ननु ब्रह्म स्वस्य जीवैक्यं न जानाति चेत्, असर्वज्ञं स्याद्, जानाति चेज्जीवगतं भ्रमं स्वगतत्वेन पश्येदिति चेद्, न; स्वमु­ख­त­त्प्र­ति­बि­म्ब­यो­रैक्यं जानताऽपि देवदत्तेन स्वमुखे प्रति­बि­म्ब­ग­ता­ल्प­त्व­म­लि­न­त्वा­द्य­द­र्श­नात् । न च जीवस्य प्रतिबिम्बत्वे मानाभावः, श्रुति­स्मृ­ति­सू­त्रे­भ्य­स्त­त्सिद्धेः । “रूपं रूपं प्रतिरूपो बभूव” इति श्रुतिः । “एकधा बहुधा चैव दृश्यते जलचन्द्रवत्” इति स्मृतिः । “अत एव चोपमा सूर्यकादिवत्” इति सूत्रम् ।

न चाऽमूर्त्तस्य ब्रह्मणः प्रति­बि­म्बा­स­म्भवः । अमू­र्त्त­स्या­प्या­का­शस्य स्वाश्रि­ता­भ्र­न­क्ष­त्रा­दि­वि­शि­ष्टस्य जले प्रति­बि­म्ब­भा­व­द­र्श­नात् । जला­न्त­रा­का­शोऽ­भ्रा­दि­प्र­ति­बि­म्बा­धार इति चेद्, न; जानुमात्रेऽपि जले दूर­वि­शा­ला­का­श­द­र्श­नात् । जीवो घटा­का­श­व­दु­पा­ध्य­व­च्छिन्नो न प्रतिबिम्ब इति चेद्, न; तथा सति जीवोपाधिमध्ये ब्रह्मणोऽपि सत्त्वे चैतन्यं[कथं] तत्र द्विगुणं स्यात्, न चैवमाकाशस्य घटे द्वैगुण्यं दृष्टम् । ब्रह्मणः तत्राऽसत्त्वे च सर्व­ग­त­त्व­स­र्व­नि­य­न्तृ­त्वा­दि­हानिः । उभ­या­नु­ग­त­चि­दा­का­र­स्यैव सर्व­ग­त­त्व­स­र्व­नि­य­न्तृ­त्वादि न ब्रह्मणीति चेद्, न; “य आत्मानमन्तरो यमयति” इति श्रुत्या प्रकरणलभ्यस्य ब्रह्मण एव जीवमध्ये निय­न्तृ­त्वे­नाऽ­व­स्था­न­श्र­व­णात् । अतः सर्वत्र शास्त्रे घटा­का­श­दृ­ष्टा­न्तोऽ­स­ङ्ग­त्व­सा­धको न जीवत्वसाधकः । प्रतिबिम्बपक्षे तु द्विगुणीकृत्य वृत्तिर्न दोषाय, जलमध्ये स्वाभा­वि­क­जा­नु­मा­त्रा­का­शस्य प्रति­बि­म्बि­त­वि­शा­ला­का­शस्य च वृत्तेः । तस्मा­द­ह­ङ्का­रो­पा­धि­कृतो ब्रह्म­प्र­ति­बिम्बो जीवः । यद्यप्यज्ञानं जीवा­व­च्छे­दो­पा­धि­रिति पुरस्तादुक्तम्, तथाऽपि सुषु­प्ता­व­ज्ञा­न­मा­त्रा­व­च्छि­न्नस्य जीवस्य स्वप्न­द­शा­या­मी­ष­त्स्प­ष्ट­व्य­व­हा­रा­याऽ­न्तः­क­र­ण­मु­पा­धि­रि­ष्यते तथा जागरणे विस्प­ष्ट­व्य­व­हा­राय स्थूल­श­री­र­मु­पाधिः । न चैव­मु­पा­धि­भे­दा­ज्जी­व­भे­द­प्र­सङ्गः, पूर्व­पू­र्वो­पा­ध्य­व­च्छि­न्न­स्यै­वो­त्त­रो­त्त­रे­णा­व­च्छे­दात् ।

नन्वयं जीवावच्छेदः किं भ्रमगत उत चैतन्यगतः ? आद्ये सुषु­प्ति­मू­र्च्छादौ स न स्यात् । तत्र भ्रमाभावात् । तत­श्चाऽ­वि­द्या­या­स्त­त्का­र्य­मू­र्च्छा­द्य­व­स्थानां च जीवपक्षपातित्वं न स्यात् । द्वितीयेऽपि तस्य कार्यत्वे सुषु­प्त्या­दा­व­भा­वात् स एव दोषः । अकार्यत्वे चावि­द्याऽ­धी­नत्वं न स्यात् । उच्यते – जागरणस्वप्नयोः स्थूल­सू­क्ष्म­श­री­र­कृतो जीवावच्छेदो भ्रम­रू­प­त्वा­द­वि­द्या­कार्यः । सुषुप्त्यादौ तु चैतन्यगतो जीवा­व­च्छे­दोऽ­ना­दि­र­प्या­त्मा­वि­द्ययोः सम्बन्ध इवाऽविद्याधीनो भविष्यति । यद्यपि सम्बन्ध इवाऽवच्छेदो नाऽवि­द्या­श्रि­त­स्त­था­प्य­वि­द्या­वि­शि­ष्ट­चै­त­न्या­श्रि­त­त्वा­द­वि­द्या­धी­न­त्व­म­वि­रु­द्धम् । यथा दर्प­ण­वि­शि­ष्ट­मु­खा­श्रि­त­बि­म्ब­प्र­ति­बि­म्ब­भेदो दर्प­णा­धी­न­स्त­द्वत् । ननु भवद्भिः प्रति­बि­म्ब­स्याऽ­व­स्तु­त्वा­भ्यु­प­ग­मान्न जीवस्य प्रतिबिम्बतेति चेद् ? मैवम्; न हि वयं प्रति­बि­म्ब­स्व­रू­प­भू­तस्य मुखस्य चैतन्यस्य वा मिथ्यात्वं ब्रूमः किं तर्हि ? प्रति­बि­म्ब­त्वस्य धर्मस्य तदा­पा­द­क­भे­द­वि­प­र्या­सा­देश्च मिथ्यात्वं ब्रूमः । प्रतिबिम्बस्य प्रत्यभिज्ञया तत्त्वमसि वाक्येन च सत्य­बि­म्बा­त्म­ता­म­वा­दिष्म । प्रति­बि­म्ब­त्व­ध­र्मस्य मिथ्यात्वेऽपि धर्मो बध्यते मुच्यते चेति न बन्ध­मो­क्ष­यो­र­स­म्भवो नाऽपि तयोर्ब्रह्मणि बिम्बप्रसङ्गः । नन्वे­व­म­ह­ङ्का­रा­द्यु­पा­धिके बिम्ब­प्र­ति­बि­म्ब­भे­दा­ध्यासे सत्य­प्य­ह­ङ्का­रा­द्य­ध्यास उपाधिशून्यः कथं सिध्येत् ? रज्जुसर्पवदिति ब्रूमः । अथ तत्र स्वत­न्त्र­प­दा­र्थो­पा­ध्य­भा­वेऽपि सर्प­सं­स्का­र­मा­त्र­मु­पा­धि­स्तर्हि प्रकृ­तेऽ­प्य­ह­ङ्का­र­सं­स्कारः कुतो नोपाधिः ? न हि प्रमाणजन्यः संस्कार उपाधिर्न भ्रान्तिजन्य इति नियमोऽस्ति । तदेवं चैत­न्यै­क­र­सोऽ­निदं रूपोऽप्यात्मा स्वात्म­न्य­ध्य­स्तेऽ­ह­ङ्करे प्रति­बि­म्ब­तोऽ­हं­व्य­व­हा­र­योग्यः सन् अहमित्येतस्मिन् प्रत्य­येऽ­ध्य­स्य­मा­ना­ह­ङ्का­र­स­म्भि­न्न­त­याऽ­व­भा­स­मा­नोऽ­हं­प्र­त्य­य­वि­ष­य­त्वे­नो­प­च­र्यते इति सम्भवत्येव तत्राऽध्यासः । ननु न ताव­न्नि­र्वि­क­ल्प­क­त­याऽ­व­भा­स­माने चैतन्ये सवि­क­ल्प­का­ह­ङ्का­रा­द्य­ध्यासः सम्भवति; तथा­वि­ध­स्याऽ­दृ­ष्ट­च­र­त्वात् । नाऽपि प्रमा­तृ­त्वा­दि­वि­क­ल्प­वि­शि­ष्ट­त­याऽ­व­भा­स­मानो तत्सम्भवः; प्रमा­तृ­त्वा­दे­र­ह­ङ्का­र­पू­र्व­क­त्वात् । न च पूर्व­पू­र्वा­ह­ङ्का­र­कृ­त­प्र­मा­तृ­त्वा­दि­सं­स्का­रेण चैतन्यस्य सविकल्पकत्वम्, प्रमा­तृ­प्र­मा­णा­दि­व्य­व­हा­रस्य सर्वेणाऽपि वादिना दुरुपपादत्वात् । तथा हि – वेदा­न्ति­सा­ङ्ख्य­यो­र्मते किमहङ्कारः प्रमाता उतात्मा ? नाऽद्यः, तस्य जडत्वात् । द्वितीयेऽपि प्रमा­णा­ख्य­क्रि­या­रू­पेण परिणामित्वं प्रमातृत्वम्, तच्चाऽ­वि­का­रि­ण्या­त्मनि दुःसम्पादम् । अन्तरेणैव प्रमातृत्वं चैतन्येन विषयप्रकाशे तस्य सर्वगतत्वेन सर्वं युगपत् प्रकाशेतेति प्रति­क­र्म­व्य­वस्था न सिध्येत् । तार्कि­का­दि­म­तेऽपि किं सर्व­ग­ता­त्म­न्यु­त्प­द्य­मानं ज्ञानं यावदात्मसमवायि ? उत शरी­रा­व­च्छि­न्ना­त्म­प्र­दे­श­स­म­वायि ? नाऽऽद्यः; नियामकाभावेन युगपत् सर्वा­व­भा­स­प्र­स­ङ्गात् । धर्माधर्मौ नियामकाविति चेद्, न; तयोः सुख­दुः­ख­ज­न­क­वि­ष­येषु तथात्वेऽपि उपे­क्ष­णी­य­तृ­णा­दि­स­र्व­व­स्तु­ष्व­नि­या­म­क­त्वात् । यस्य ज्ञानस्य यज्जनकं तत्तेन प्रकाश्यमिति नियम इति चेद्, न; चक्षुरादेरपि चक्षु­र्ज­न्य­ज्ञा­न­वे­द्य­त्व­प्र­स­ङ्गात् । विषयत्वे सति यस्य जनकं वेद्यमिति चेद्, न; विष­य­त्व­स्याऽ­द्याऽ­प्य­नि­रू­प­णात् । लोकप्रसिद्ध्या तन्निरूपणेऽपि ज्ञानस्य गुणत्वे क्रियात्वे वा न स्वज­न­क­वि­ष­य­ग्रा­हि­त्व­नि­य­म­सिद्धिः । प्रदीपगुणस्य प्रका­श­स्याऽ­ज­न­केऽपि घटे प्रका­श­क­त्व­द­र्श­नात् ।बा­णा­दि­क्रि­याणां चाऽनु­द्दि­ष्टेऽपि वस्तुनि स्वाश्र­य­सं­यु­क्तेऽ­ति­श­य­हे­तु­त्व­द­र्श­नात् । अथ ज्ञाना­श्र­य­स्याऽ­त्म­नोऽपि निरवयवत्वाद् न सर्वसंयोग इति नास्ति युगपत् सर्वा­व­भा­स­प्र­सङ्गः ? तर्हि न किञ्चिदपि प्रकाशेत, क्रियारूपस्य गुणस्य वा ज्ञानस्य स्वाश्र­य­म­ति­ल­ङ्घ्याऽ­न्यत्र संसर्गायोगात् । असं­सृ­ष्ट­ग्रा­हित्वे चाऽतिप्रसङ्गात् । शरी­रा­व­च्छि­न्ना­त्म­प्र­दे­श­स­म­वा­यि­ज्ञा­न­मि­त्य­स्मिन् पक्षेऽपि प्रदेशस्य स्वाभाविकत्वे सावयवत्वमात्मनः प्रसज्येत । औपाधिकत्वेऽपि ज्ञानं तत्प्र­दे­श­सं­यु­क्त­ग्राहि चेत्, तदा देहाद्बाह्यो घटादिर्न भासेत । बाह्या­त्म­प्र­दे­श­सं­यु­क्त­ग्रा­हित्वे बाह्यं सर्वमप्यवभासेत । ननु सम्बन्धरहितेऽपि वस्तुनि व्यवस्थयैव ज्ञान­क्रि­याऽ­ति­शयं जनयिष्यति । यथाऽ­भि­चा­र­क्रि­यया सह­स्र­यो­ज­न­व्य­व­हि­तोऽ­प्यु­द्दिष्ट एव पुरुषो मार्यते तद्वत् । तन्न, तत्राऽपि हन्तृ­ह­न्य­मा­न­पु­रु­ष­द्व­य­सं­यु­क्तस्य देवतात्मन ईश्वरस्य वा कृत्यादेर्वा निया­म­क­स्याऽ­नु­मे­य­त्वात् । विमतमभिचारकर्म स्वस­म्ब­न्धि­न्य­ति­श­य­ज­न­कम्, क्रियात्वात्, बाणादिक्रियावत् ।

तर्ह्येवमस्तु ज्ञाना­धा­रे­णाऽऽ­त्मना मनः संयुज्यते, मनसा चेन्द्रियम्, तेन च विषयः, सा चेयं संयोगपरम्परा नियामिकेति तदप्यसत्, तस्याः परम्पराया ज्ञानात्पूर्वं ज्ञानोत्पादन एवोपक्षयात् । ज्ञानादुपर्यपि संयोगपरम्परया विषयावभासे विष­य­सं­यु­क्त­त­त्सं­यु­क्ता­दि­रू­पे­णाऽ­व­स्थितं सर्व जगदवभासेत । एव­म­णु­प­रि­मा­ण­दे­ह­प­रि­मा­णा­त्म­प­क्ष­यो­रपि दोषा ऊहनीयाः । तस्मान्न सर्ववादिनां प्रमा­णा­दि­व्य­व­हा­र­स­म्भवः । अत्रोच्यते – सत्यमेवमन्यत्र, वेदान्तिमते तु कथञ्चित्सम्भवति । तथा हि – सर्वगतं चिदा­त्मा­न­मा­वृत्य स्थिता भावरूपाऽविद्या विविधजगदाकारेण विवर्त्तते । तत्र शरीरमध्ये स्थितोऽ­न्तः­क­र­णा­ख्योऽ­वि­द्या­वि­वर्त्तो धर्मा­ध­र्म­प्रे­रितो नेत्रादिद्वारा निर्गत्य यथोचितं घटादिविषयान् व्याप्य तत्तदाकारो भवति । यथा लोके पूर्णतटाकस्थम् उदकं सेतु­ग­त­च्छि­द्रा­न्नि­र्गत्य कुल्या­प्र­वा­ह­रू­पेण केदारान् प्रविश्य चतुष्कोणत्वेन त्रिकोणत्वेन वर्त्तुलत्वेन वा तत्त­त्के­दा­रा­नु­सारि अवतिष्ठते तद्वत् । नह्यु­द­क­व­द­न्तः­क­रणं परिस्यन्दते, येना­ति­दू­र­व­र्त्ति­च­न्द्र­न­क्ष­त्र­ध्रु­वा­दि­प्रा­प्ति­र्झ­टिति न सिध्येत् । किं तर्हि सूर्य­र­श्मि­व­त्तै­ज­स­त्वा­द्दी­र्घ­प्र­भा­का­रेण परिणमते । अत एव रश्मिवत् सहसा सङ्को­चोऽ­प्यु­प­पन्नः । उप­प­न्न­श्चाऽ­न्तः­क­र­णस्य क्षीरादिवत् सावयवत्वात् परिणामः । तच्च परिणतमन्तःकरणं देहाभ्यन्तरे घटादौ च सम्यग्व्याप्य देह­घ­ट­यो­र्म­ध्य­दे­शेऽपि दण्डा­य­मा­न­म­वि­च्छिन्नं व्यवतिष्ठते । तत्र देहा­व­च्छि­न्ना­न्तः­क­र­ण­भा­गोऽ­ह­ङ्का­रख्यः कर्तेत्युच्यते । देह­वि­ष­य­म­ध्य­व­र्ति­द­ण्डा­य­मा­न­स्त­द्भागो वृत्ति­ज्ञा­ना­भिधा क्रियेत्युच्यते । विष­य­व्या­प­क­स्त­द्भागो विषयस्य ज्ञान­क­र्म­त्व­स­म्पा­द­क­म­भि­व्य­क्ति­यो­ग्य­मि­त्यु­च्यते । तस्य च त्रिभा­ग­स्याऽ­न्तः­क­र­ण­स्याऽ­ति­स्व­च्छ­त्वा­च्चै­तन्यं तत्राऽ­भि­व्य­ज्यते । तस्याऽ­भि­व्य­क्तस्य चैत­न्य­स्यै­क­त्वेऽ­प्य­भि­व्य­ञ्ज­का­न्तः­क­र­ण­भा­ग­भे­दात् त्रिधा व्यपदेशो भवति । कर्तृ­भा­गा­व­च्छि­न्न­श्चि­दंशः प्रमाता, क्रिया­भा­गा­व­च्छि­न्न­श्चि­दंशः प्रमाणम्, विष­य­ग­त­यो­ग्य­त्व­भा­ग­व­च्छि­न्न­श्चि­दंशः प्रमितिरिति प्रमा­तृ­प्र­मा­ण­प्र­मि­ती­ना­म­सा­ङ्क­र्यम् । भाग­त्र­येऽ­प्य­नु­ग­त­स्यै­वाऽ­न्तः­क­र­णा­का­रस्य प्रमा­तृ­प्र­मे­य­स­म्ब­न्ध­रू­प­त्वात् “मयेदमवगतम्” इति विशि­ष्ट­व्य­व­हा­रोऽ­प्यु­प­प­द्यते । व्यङ्ग्य­व्य­ञ्ज­क­यो­श्चै­त­न्या­न्तः­क­र­ण­यो­रै­क्या­ध्या­सा­द­न्यो­न्य­स्मि­न्न­न्यो­न्य­ध­र्मा­दि­व्य­व­हारो न विरुध्यते । नन्वन्तःकरणेन चैत­न्य­स्याऽ­भि­व्य­क्ति­र्नाम आव­र­ण­वि­ना­श­श्चेद्, घटज्ञानेनैव मोक्षः स्यात्, आत्म­ग­ता­ति­श­य­श्चेत् आत्मनो विकारित्वं स्यादिति चेद्, न; आव­र­णा­भि­भ­व­स्याऽ­भि­व्य­क्ति­त्वात् । यत्तू­क्त­म­ह­ङ्का­रस्य जड­त्वा­दा­त्म­नोऽ­प­रि­णा­मि­त्वान्न प्रमाता सिध्यतीति । तदसत्, चिद­भि­व्य­क्ति­वि­शिष्टः परिणाम्यहङ्कारः प्रमातेति दर्शितत्वात् ।

यच्च चैतन्यस्य सर्वगतत्वान्न प्रति­क­र्म­व्य­व­स्थेति, नाऽसौ दोषः; किमेकेन पुरुषेण यत्सु­ख­दुः­खा­दि­क­म­नु­भू­यते तत्स­र्वै­र­नु­भ­वि­तव्यं सर्व­पु­रु­ष­चै­त­न्य­स्यै­क­त्वा­दि­त्या­पा­द्यते ? किं वा देवदत्तेन यदा घटोऽनुभूयते तदा कृत्स्नं जग­त्ते­नाऽ­नु­भ­वि­त­व्यम् ? तच्चैतन्यस्य सर्वगतत्वादिति । नाऽऽद्यः, न हि वयं चैतन्यस्य केवलस्य विष­या­नु­भ­व­हे­तुत्वं ब्रूम­स्त­स्याऽ­वि­द्या­वृ­त­त्वात्, किं तर्ह्य­न्तः­क­र­णा­भि­व्य­क्तस्य तथात्वम् । तानि चाऽन्तःकरणानि प्रतिपुरुषं व्यवस्थितानि । तत्कथं सर्व­पु­रु­ष­भो­ग­स­ङ्करः । नाऽपि द्वितीयः, न हि देव­द­त्ता­न्तः­क­रणं व्यव­स्था­प­रि­च्छिन्नं युगपत्कृत्स्नेन जगता सम्बध्यते, येन तद­भि­व्य­क्त­चै­त­न्य­ब­लात् सर्वमसावनुभवेत् । परि­च्छि­न्न­स्याऽपि सूर्यरश्मिवत् सर्वव्यापी परिणामः स्यादिति चेद्, न; अन्तः­क­र­ण­प­रि­णा­म­सा­मग्र्याः पुण्य­पा­प­ने­त्र­श्रो­त्रा­दि­रू­पायाः प्रतिविषयं व्यवस्थितत्वेन परिणामस्याऽपि व्यवस्थासिद्धेः । यस्तु योगमभ्यस्य सर्व­व्या­पि­प­रि­णा­म­सा­मग्रीं सम्पादयेत् स युग­प­त्स­र्व­म­व­ग­च्छ­त्येव न ततः काचिद्धानिः । ननु किं चैत­न्य­स्याऽ­स­ङ्गि­तया स्वतो विष­यो­प­रा­गा­भा­वात् तत्सि­द्ध­येऽ­न्तः­क­र­णो­पाधिः कल्प्येत किं वा सत्यपि तदुपरागे विष­य­प्र­का­श­न­सि­द्धये ? नाऽऽद्यः, अस­ङ्गि­त­यै­वाऽ­व­स्था­न्तः­क­र­णो­पा­धा­वपि तस्याऽ­नु­प­रा­ग­प्र­स­ङ्गात् । न द्वितीयः, चित्सम्बन्धादेव प्रका­श­सि­द्धा­वु­पा­धि­वै­य­र्थ्यात् । तत उपाधिपरित्यागे सर्वगतचैतन्येन संयु­क्त­स­र्व­व­स्तु­प्र­का­श­यौ­ग­पद्यं केन वार्यते । अथ मन्यसे किं प्रति­बि­म्ब­भू­त­जी­व­चै­त­न्यस्य युगपत् सर्वा­व­भा­स­क­त्व­मा­पा­द­यसि किं वा बिम्ब­भू­त­ब्र­ह्म­चै­त­न्यस्य ? नाऽऽद्यः, तस्य परि­च्छि­न्न­त्वात् । न द्वितीयः, इष्टत्वात् । जीव­ब्र­ह्म­णो­र्भे­दा­भा­वेऽपि किञ्चि­ज्ज्ञ­त्व­स­र्व­ज्ञत्वे असङ्कीर्णे बिम्ब­प्र­ति­बि­म्ब­मु­ख­यो­र­व­दा­त­श्या­मत्वे इवेति, नैतत्सारम्; तथा सति विषयेऽनुभवस्य ब्रह्म­चै­त­न्य­रू­प­तया सर्व­ज्ञ­त्व­व­द­ह­ङ्का­रा­व­च्छि­न्न­जी­वा­नु­ष­ङ्गा­भा­वा­ज्जी­वस्य किञ्चि­ज्ज्ञ­त्व­मपि न स्यात् । जीवो­पा­धे­र­न्तः­क­र­णस्य चक्षुरादिद्वारा विष­य­स­म्ब­न्धा­ज्जी­वस्य विषयज्ञातृत्वं घटत इति चेद्, न; अन्तः­क­र­ण­सं­सृ­ष्ट­व­स्तु­ज्ञा­तृत्वे ब्रह्मस्वरूपमपि जीवः सर्वदा जानीयात् । सर्वगतस्य ब्रह्म­णोऽ­न्तः­क­र­णेऽपि संसृष्टत्वात् । अथ मत­म­वि­द्यो­पा­धि­क­त्वा­ज्जीवः सर्वगतः । स च न कृत्स्नं जगदवभासयितुं क्षमः, अविद्यावृतत्वेन स्वय­म­प्य­प्र­का­श­मा­न­त्वात् । “अहमज्ञः” इति परि­च्छि­न्न­त­याऽ­व­ग­ताया अप्यविद्यायाः सर्व­ग­त­चै­त­न्य­ति­रो­धा­य­क­त्व­म­प्यु­प­प­न्न­मेव । नेत्रसमीपे धृते­नाऽ­ङ्गु­लि­मा­त्रेण महत आदित्यादेरपि तिरोधानदर्शनात् । एवं च सत्य­न्तः­क­र­णो­प­रा­गेण यत्राऽऽ­व­र­ण­म­भि­भू­यते तत्रै­वाऽ­भि­व्य­क्तेन चैतन्येन किञ्चिदेव प्रकाश्यते न सर्वमपि; तदपि न युक्तम्, कार्य­भू­ताऽ­न्तः­क­र­णेन स्वोपा­दा­न­स्याऽ­ज्ञा­न­स्याऽ­भि­भ­वा­यो­गात् । तस्मान्न केनाऽपि प्रकारेण व्यव­स्था­सि­द्धि­रिति ।

अत्रोच्यते – जीव­चै­त­न्य­म­स­ङ्गि­त­याऽ­न्य­त्राऽ­नु­प­र­ज्य­मा­न­मपि अन्त करणे उपरज्यते, तादृ­श­स्व­भा­व­त्वात् । यथा सर्वगताऽपि गोत्वादिजातिः सास्ना­दि­म­द्व्य­क्ता­वु­प­र­ज्यते, नाऽन्यत्र तद्वत् । अथ व्यक्तिरेव न सर्वगता जातिस्तर्हि पदी­प­प्र­भा­दृ­ष्टा­न्तोऽस्तु । सा हि रूप­र­स­ग­न्ध­वा­य्वा­दि­दे­श­व्या­पि­न्य­पि­रू­प­मेव प्रकाशयति नाऽन्यत् । तथा चाऽन्तः­क­र­णो­पा­धि­श्चै­त­न्यस्य विष­यो­प­रा­ग­सि­द्ध्यर्थो भविष्यति । न चाऽसत्युपरागे चित्प्रकाशो विषा­न­व­भा­स­यि­तु­मीष्टे, प्रदीपप्रकाशवत् संयु­क्त­द्यो­त­क­त्वात् । ब्रह्म हि सर्वो­पा­दा­न­त्वा­द­न्त­रे­णै­वो­पा­धि­क­म­नु­रागं स्वस्वरूपवत् स्वाभिन्नं जगदवभासयति । न तु तथा जीवः, अनुपादानत्वात् । न च स्वतोऽनवभासकस्य जीवस्य घटा­दि­व­द­न्य­स­म्ब­न्धा­द­प्य­व­भा­स­कत्वं नेति शङ्कनीयम्, केव­ल­व­ह्ने­स्तृ­णा­द्य­दा­ह­क­त्वेऽ­प्य­यः­पि­ण्ड­स­मा­रू­ढस्य तद्दा­ह­क­त्व­द­र्श­नात् । तदेवमसङ्गिनः साक्षि­चै­त­न्य­स्याऽ­वि­द्या­ना­वृ­तस्य जीवत्वेऽपि स्यादे­वाऽ­न्तः­क­र­ण­व­शाद् व्यावस्था । यदा त्वन्तः­क­र­ण­प्र­ति­बिम्बो जीवस्तदाऽपि परि­च्छि­न्न­त्वात् सुतरां व्यवस्था सिद्ध्येत् । विषयानुभवस्य ब्रह्म­चै­त­न्य­रू­प­त्वेऽपि जीवो­पा­ध्य­न्तः­क­र­ण­प­रि­णामे विष­या­व्या­पि­न्य­व्य­क्त­त्वा­ज्जी­व­चै­त­न्य­रू­प­त्व­म­प्य­वि­रु­द्धम् । ब्रह्म­णोऽ­न्तः­क­र­ण­सं­सृ­ष्ट­त्वेऽपि ब्रह्मा­का­र­प­रि­ण­ता­न्तः­क­र­ण­वृ­त्त्य­भा­वन्न सदा जीवस्य ब्रह्म­ज्ञा­न­प्र­सङ्गः । नह्य­न्तः­क­र­ण­स्व­रू­प­मात्रं वस्त्व­भि­व्य­ञ्ज­कम्, किन्तु तदाकारपरिणामः । अन्य­थाऽ­न्तः­क­र­णा­न्त­र्ग­तानां धर्मा­दी­ना­म­प्य­भि­व्य­क्ति­प्र­स­ङ्गात् । जीवोऽपि जीवा­का­रा­हं­वृ­त्ति­रू­पेण परि­ण­तेऽ­न्तः­क­र­णेऽ­भि­व्य­ज्यते, नाऽन्तः­क­र­ण­मात्रे; सुषुप्तावहं वृत्त्यभावे जीवाप्रतीतेः । तदि­त्थ­म­न्तः­क­र­ण­प्र­ति­बि­म्बस्य जीवत्वेऽपि प्रति­क­र्म­व्य­व­स्थायां न कोऽपि विघ्नः। यदा चाऽविद्योपाधिकः सर्वगतो जीव­स्त­दाऽ­प्या­व­र­ण­ति­रो­धा­य­के­नाऽ­न्तः­क­र­णेन व्यवस्था सिध्येत् । सम्भवति हि कार्य­स्याऽ­प्यु­पा­दा­न­ति­रो­धा­य­क­त्वम्, वृश्चि­क­वृ­क्षा­दि­का­र्यस्य गोम­य­मृ­दा­दि­क­र­ण­स्व­भा­व­ति­रो­धा­य­क­त्व­द­र्श­नात् । न हि वृश्चिकशरीरे गोमयं प्रत्यभिज्ञायते वृक्षादौ वा मृत्स्वरूपम् । तदेवं वेदान्तिमते सर्वेणाऽपि प्रकारेण प्रमा­त्रा­दि­व्य­व­हा­र­सिद्धौ पूर्व­पू­र्वा­ह­ङ्का­र­कृ­त­प्र­मा­तृ­त्वा­दि­सं­स्का­रेण सविकल्पके चैतन्ये सम्भवत्येव सवि­क­ल्प­का­ह­ङ्का­रा­द्य­ध्यासः । न च सर्वस्य ज्ञेयस्य चैत­न्य­वि­व­र्तत्वे चैत­न्या­ति­रे­के­णाऽ­स­त्त्वाद् विज्ञा­न­वा­दि­म­त­प्र­वेश इति वाच्यम्, किञ्चि­त्सा­म्या­न्म­ता­न्त­र­प्र­वेशे सर्व­म­त­सा­ङ्क­र्यस्य दुरपवादत्वात् । सर्वसाम्यं तु प्रकृतेऽपि नाऽस्ति । विज्ञानवादी हि क्षणि­का­न्य­ने­कानि विज्ञनानि विषयाश्च तेभ्योऽभिन्ना इत्याह । तत्वदर्शी तु नित्यमद्वितीयं विज्ञानं विषयाश्च तत्राऽध्यस्ताः पृथ­ग­र्थ­क्रि­या­स­म­र्था­स्तेषां चाऽबाधितं स्थायि­त्व­म­स्तीति वदति । अद्वितीयं हि संवेदनम्, सर्वत्र प्रत्य­भि­ज्ञा­नात् । घट­सं­वि­त्प­ट­सं­वि­दिति भेदावभासो विषयोपाधिको न स्वाभाविकः । अद्वितीयत्वादेव संविदोऽपि नित्यत्वम् । न च संवि­द्वि­ष­या­व­भिन्नौ, प्रत्य­क्त्वा­प्र­त्य­क्त्व­रू­पे­णाऽ­नु­वृ­त्त­व्या­वृ­त्त­रू­पेण चाऽत्य­न्त­वि­ल­क्ष­ण­त्वात् । विषयाणां च पृथ­ग­र्थ­क्रि­या­स­म­र्थ्य­म­नु­भ­व­सि­द्धम् । स्थायित्वं च प्रत्य­भि­ज्ञा­ना­द­व­ग­न्त­व्यम् । तस्मा­च्चै­त­न्येऽ­ह­ङ्का­रा­द्य­ध्या­सेऽपि नाऽस्ति मतसाङ्कर्यमिति सिद्धम् ।

नन्वित्थं विज्ञानवादी मनुते –
सहो­प­ल­म्भ­नि­य­मा­द­भेदो नीलतद्धियोः ।
अन्यच्चेत संविदो नीलं न तद्भासेत संविदि ॥
भासते चेत् कुतः सर्वं न भासेतैकसंविदि ।
नियामकं न सम्बन्धं पश्यामो नीलतद्धियोः ॥
संविज्जनकत्वमेव नियामकः सम्बन्ध इति चेद्, न; इन्द्रियस्याऽपि तज्जनकस्य विष­य­त्व­प्र­स­ङ्गात् । तस्मादभेद एव नीलतद्धियोः । “अहमिदं जानामि” इति ज्ञातृ­ज्ञे­य­ज्ञा­नानि विवि­क्त­स्व­रू­पाणि परस्परं सम्ब­द्धा­न्य­नु­भू­यन्ते इति चेद्, न; क्षणिकानां सम्ब­न्धा­नु­प­पत्तेः । स्थायित्वे हि ज्ञातृ­ज्ञे­य­यो­र्जि­ज्ञा­सा­न्त­रो­त्प­न्न­ज्ञा­न­क्रि­या­द्वारा सम्बन्धो युज्येत, स कथं क्षणिकयोः स्यात् ? तस्मादेवं कल्पयितव्यम् – प्रथमं तावदहमिति इदमिति च जानामीति च ज्ञानत्रयं तत्त­दा­का­रो­प­प्लुतं क्रमे­णो­त्प­न्नम्; ततः प्रथ­म­द्वि­ती­य­ज्ञा­ना­ख्य­वा­स­ना­वा­सि­तात् तृतीयज्ञानात् तद­नु­रू­प­मा­का­र­त्र­यो­प­प्लुतं ज्ञाना­न्त­र­मु­त्प­न्न­मिति । एवं सति क्षणिकज्ञानमेव विष­या­का­र­मि­त्य­भ्यु­पे­यम् । अन्यथा ज्ञानज्ञेययोः सम्ब­न्धा­नि­रू­प­णेन ज्ञेयं न प्रतीयेत । न च ज्ञानक्षणिकत्वे विवदितव्यम् । यथा नीलज्ञानं नीलस्य पीता­दि­व्या­वृ­त्ति­मपि बोधयति तथा वर्त्त­मा­न­त्वे­नाऽ­व­भा­स­मानं ज्ञानं स्वस्य भूत­भ­वि­ष्य­त्का­ल­द्व­य­स­म्ब­न्ध­व्या­वृ­त्ति­मपि बोधयिष्यति । ततो ज्ञानस्य क्षणिकत्वं प्रत्य­क्ष­सि­द्ध­मिति ।

अत्रोच्यते – न ज्ञानं क्षणिकम्, प्रतिक्षणं स्वरू­प­भे­दा­न­व­भा­सात् । अति­सा­दृ­श्या­द्भे­दा­न­व­भास इति चेद्, न; विकल्पासहत्वात् । किं सविद्धर्मो ज्ञाना­न्त­र­ग­म्यश्च भेदः किं वा संवि­त्स्व­रू­प­भू­त­स्त­यैव संविदा वेद्यः ? आद्येऽपि धर्मि­प्र­ति­यो­गि­भू­तयोः संविदो संवि­द­न्त­रा­वि­ष­यत्वे तयोर्भेदग्रहो न सिध्येत । विषयत्वे वा धर्मि­प्र­ति­यो­गि­भे­दा­ख्य­त्रि­त­य­मपि भेदसंवेदने कल्पितं तदभिन्नं च स्यात् । द्वितीये संवि­त्स्व­रू­प­भूतो भेदः सादृ­श्या­न्नाऽ­व­भा­सत इत्युक्ते संविदेव नाऽवभासत इत्युक्तं स्यात्, ततो जग­दा­न्ध्य­प्र­सङ्गः । अथाऽपि संविदां सादृ­श्य­नि­र्वा­हाय भेदोऽङ्गीक्रियत इति चेत्, सादृश्यस्य मान­ही­न­त्वा­दै­क्या­व­भा­स­वि­रु­द्ध­त्वाच्च । न च वाच्य­मै­क्या­व­भा­सस्य भ्रमत्वान्न सादृ­श्य­वि­रो­धित्वं प्रत्यु­तै­क्य­भ्रम एव भिन्नेषु सादृ­श्य­म­न्त­रे­णाऽ­नु­प­प­न्न­स्त­त्क­ल्पक इति, अन्यो­न्या­श्र­य­त्वात् । संविदां भिन्नत्वे सादृश्ये च सिद्धे सत्यै­क्या­व­भा­सस्य भ्रम­त्व­सि­द्धि­स्त­त्सिद्धौ चेतरसिद्धिरिति । अथ मतम् – सादृश्यस्य मान­ही­न­त्व­मा­न­वि­रो­धि­त्वयोः सिद्धा­वै­क्य­प्र­त्य­यस्य प्रामा­ण्य­सि­द्धि­स्त­त्सि­द्धा­वि­त­र­सि­द्धि­रिति तुल्यं तवा­पी­त­रे­त­रा­श्र­य­त्व­मिति, तन्न; ऐक्यबोधिकायाः प्रत्यभिज्ञाया मया स्वतः प्रामा­ण्या­ङ्गी­का­रात् ।

ननु केयं प्रत्यभिज्ञा नाम ? न ताव­दे­क­स्याऽ­ती­त­व­र्त्त­मा­न­का­ल­द्व­य­स­म्ब­न्ध­वि­षयं प्रत्यक्षज्ञानं प्रत्यभिज्ञा; प्रत्य­क्ष­ज्ञा­नस्य वर्त­मा­न­मा­त्रा­र्थ­ग्रा­हि­त्वात् । पूर्वा­नु­भ­व­सं­स्का­र­स­हि­ता­दि­दा­नी­न्त­न­व­स्तु­प्र­मि­ति­का­र­णा­ज्जा­तस्य तस्य तथात्वमिति चेद्, एवमप्यात्मनि सोऽहमिति प्रत्यभिज्ञा न सिध्येत् । नित्ये स्वयंप्रकाशे तस्मिन् संस्कारस्य जन्यज्ञानस्य चाऽसम्भवात् । नाऽपि स्वरूपज्ञानमेव प्रत्यभिज्ञा, तस्य प्रदी­प­प्र­भा­व­द्व­र्त­मा­न­प्र­का­शिनः पूर्वा­प­र­प­रा­म­र्शा­त्म­क­त्वा­यो­गात् । अस्मन्मते तु सोऽह­मि­त्या­का­र­द्व­यो­प­प्लुतं ज्ञानद्वयमेतन्न प्रत्यभिज्ञा । तस्मादनया दुर्निरूपया प्रत्यभिज्ञया कथमैक्यसिद्धिः ? उच्यते – केवले चिदात्मनि जन्य­ज्ञा­न­त­त्सं­स्का­र­यो­र­स­म्भ­वेऽ­प्य­न्तः­क­र­ण­वि­शिष्टे तत्स­म्भ­वा­दु­क्त­प्र­त्य­भिज्ञा किं न स्यात् ? न च विशिष्टस्य प्रत्य­भि­ज्ञा­वि­ष­यत्वे तस्यैव प्रत्य­भि­ज्ञा­तृ­त्व­म­पीति कर्म कर्तृत्वविरोधः शङ्कनीयः, सर्ववादिनां देह­व्य­ति­रि­क्ता­द्य­नु­मा­न­वि­ष­य­त­याऽ­त्मनि कर्मकर्तृभावस्य सम्प्र­ति­प­न्न­त्वात् । अथ मतम् – नाऽनुमानादौ विषयस्य कर्मकारकत्वम्, अती­ता­दि­व­स्त्व­नु­माने विष­य­स्याऽ­वि­द्य­मा­नस्य ज्ञान­ज­न­क­त्वा­यो­गात् । विषयत्वं त्ववि­द्य­मा­न­स्याऽपि कथञ्चित् सम्भविष्यति, ज्ञानस्य तदाकारत्वात् । ततोऽनुमानादौ कर्तृत्वमेव आत्मनः, प्रत्यक्षे तु विषयस्य ज्ञानजनकतया कर्मकारकत्वम्, ततो विरोधस्तदवस्थ इति, मैवम्; अन्तः­क­र­ण­वि­शि­ष्ट­त­यै­वाऽ­त्मनः प्रत्य­भि­ज्ञा­तृत्वं पूर्वा­प­र­का­ल­वि­शि­ष्ट­तया च प्रत्य­भि­ज्ञे­य­त्व­मि­त्यु­पा­धि­भे­दे­नाऽ­वि­रो­धात् । किमेतावता प्रयासेन प्रत्यभिज्ञैव मा भूदिति चेद्, न; सोऽहमिति प्रत्यभिज्ञायाः स्वानु­भ­व­सि­द्ध­त्वात् । अविसंवादित्वेन च भ्रान्ति­त्वा­यो­गात् । यदुक्तम् – सोऽह­मि­त्या­का­र­द्व­यो­प­प्लुतं ज्ञानद्वयमिति, तदसत्; तथा सति विज्ञानं क्षणि­क­मि­त्य­त्राऽपि ज्ञान­द्व­य­प्र­स­ङ्गेन विज्ञानस्य क्षणि­क­त्वा­सि­द्धि­प्र­स­ङ्गात् । विज्ञा­न­मा­त्र­वा­दिनां क्षणि­क­त्वा­दि­धर्मा अवास्तवा एवेति चेत्, तर्हि स्थायि­त्वा­दि­धर्मा एवाऽवास्तवा उपादीयन्ताम् ? “सोऽहम्" इत्या­द्य­नु­भ­वा­नु­सा­रि­त्वात् ।

यच्च प्राभाकरा मन्यन्ते – नैव “सोऽहम्” इति प्रत्य­भि­ज्ञा­वि­ष­य­त्वे­नाऽ­य­मात्मा सिध्यति, किं तर्हि “सोऽयं घटः” इत्या­दि­प्र­त्य­भि­ज्ञा­श्र­य­त्वे­नेति ? तदयुक्तम्, पूर्वा­प­र­का­ल­वि­शि­ष्टस्य क्षण­मा­त्र­वृ­त्ति­प्र­त्य­भि­ज्ञा­श्र­य­त्वा­स­म्भ­वेन प्रत्य­भि­ज्ञा­नात् स्थायि­त्वा­सि­द्धि­प्र­स­ङ्गात् । अथ मतम् – “मम संवेदनं जातम्” इती­दा­नी­म­नु­स्म­र्य­माणा पूर्वकालीना घटादिसंवित् स्वाश्रयं तदा­नी­न्त­न­मा­त्मानं साधयति । स्मृति­श्च­स्वा­श्र­य­मि­दा­नी­न्त­न­मा­त्मानं साधयति । ततश्च स्थाय्यात्मा सिध्यति न पुनरप्रामाणिकं “सोऽहम्" इत्यात्मविषयं प्रत्यभिज्ञानं किञ्चित् कल्पनीयमिति । नैतत्सारम्, स्मृति­पू­र्वा­नु­भवौ ह्यभि­ज्ञा­द्व­य­व­त्त­त्का­ली­न­मा­त्मानं यद्यपि साधयतः, तथा­प्ये­क­स्याऽ­स्याऽऽ­त्मनः कालद्वयसम्बन्धो न केनापि सिध्येत् । संविद् द्वयमेव सम्बन्धस्याऽपि साधकमिति चेत्, तर्हि तथैव घटा­दि­ष्व­प्य­भि­ज्ञा­द्व­येन स्थायित्वसिद्धौ तत्सिद्धये प्रत्यभिज्ञा नाऽपेक्ष्येत । तद्दार्ढ्याय तत्र प्रत्यभिज्ञेति चेद्, एवमपि प्रकृते संविद्द्वयं किं साक्षात् सम्बन्धसाधकमुत प्रत्य­भि­ज्ञा­मु­त्पाद्य ? आद्येऽपि न तावदेकैकं तत्साधकम्, एकैकस्य काल­द्व­य­वि­शि­ष्टा­त्म­न्य­ना­श्रि­त­त्वात् । नापि सम्भूय तत्साधकम्, अतीतानुभवस्य वर्त्त­मा­न­स्मृ­तेश्च यौगपद्यायोगात् । द्वितीये स्थाय्या­त्म­वि­षयं सोऽहमिति प्रत्यभिज्ञानं त्वयै­वाऽ­ङ्गी­कृतं स्यात् । न च वाच्यं न क्वचिदपि ज्ञान­वि­ष­य­त्व­मा­त्म­न­स्त­त्कथं प्रथ्य­भि­ज्ञा­वि­ष­य­त्व­मिति, “मम संवेदनं जातम्” इति स्मृति­ज्ञा­न­वि­ष­य­त्वात् । यद्यप्यनेन स्मृतिज्ञानेन स्वोत्प­त्ति­का­लीन आत्मा स्वाश्रयत्वेनैव प्रकाश्यते न विषयत्वेन, तथापि स्मर्य­मा­ण­सं­वे­द­ना­श्र­य­भू­त­स्त­त्सं­वे­द­न­का­लीन आत्मा विषयीक्रियत एव । अथोच्येत – स्मृत्या संवेदनमेव विषयीक्रियते, तच्च संवेदनं स्मृतं सत् स्वाश्र­य­मा­त्मा­न­मा­श्र­य­त­यैव प्रत्या­य­यि­ष्य­तीति । तदसत्, स्मृतिकाले संवे­द­न­स्याऽ­वि­द्य­मा­नस्य स्वाश्र­य­सा­ध­क­त्वा­यो­गात् । स्वयं प्रकाशमानं हि संवेदनमाश्रयं साधयति न तु स्मृतिविषयतया परप्रकाश्यम् । अन्यथा धर्मादीनामपि परतः सिद्धानां स्वाश्र­या­त्म­सा­ध­क­त्व­प्र­स­ङ्गात् । तस्मादतीतकालीन आत्मा स्मृतिविषय एवेत्यभ्युपेयम् । तथा च “सोऽहम्” इति प्रत्यभिज्ञापि आत्मानं विषयीकरिष्यतीति प्राभा­क­रै­र­प्या­त्म­वि­ष­य­प्र­त्य­भि­ज्ञ­यैव संविदात्मनः क्षणिकत्वं निराकरणीयम् । अथैवं घटादिषु क्षणिकत्वं साध्येत – विमता उपान्त्यादयो घटसत्ताक्षणाः स्वस्वा­न­न्त­र­क्ष­ण­भा­वि­घ­ट­ना­श­व्याप्ताः, घट­स­त्ता­क्ष­ण­त्वाद्, अन्त्यक्षणवदिति । तन्न, विमतो घटनाशक्षणो घटसत्तावान्, कालत्वात्, संम­त­व­दि­त्या­भा­स­स­मा­न­त्वात् । अत्र घटा­भा­वा­नु­भ­व­वि­रोध इति चेत्, तर्हि क्षणि­क­त्वा­नु­मा­नेऽपि “सोऽयं घटः” इति प्रत्य­भि­ज्ञा­वि­रो­धोऽ­स्त्येव । ननु सर्वे भावाः क्षणिकाः, अर्थ­क्रि­या­का­रि­त्वाद्, व्यतिरेके शशविषाणवत् । विपक्षे स्थायि­नोऽ­र्थ­क्रि­या­नु­प­प­त्ति­र्बा­धिका । न च स्थायिन एव पदार्थस्य निमि­त्त­सं­यो­गा­द­न्य­था­भू­त­स्याऽ­र्थ­क्रि­या­पू­र्वकं कार्य­मु­त्पा­द­यितुं सामर्थ्यं न क्षणिकस्येति वाच्यम्, किमसौ स्थायी पदार्थ एकमेव कार्य­मु­त्पा­द­येद् उत युगपदनेकानि अथवा क्रमेणानेकानि ? तत्र प्रथमद्वितीययोः कृतं स्थायित्वेन, सकृ­त्का­र्यो­त्पा­द­नस्य क्षणिकेनैव सिद्धेः । न तृतीयः, समर्थस्य क्षेपायोगात् । अतो भावा­ना­मे­क­स्मि­न्नेव क्षणेऽ­र्थ­क्रि­या­का­रि­त्व­ल­क्ष­ण­त्व­मिति । नैतद्युक्तम्, त्वन्म­तेऽ­र्थ­क्रि­याया दुर्निरूपत्वात् । किमर्थक्रिया नाम संविदां स्वगो­च­र­ज्ञा­न­ज­ननं किं वा क्षणा­न्त­रो­त्पा­द­नम् ? आद्येऽपि स्वसन्ताने तज्जननं पुरु­षा­न्त­र­स­न्ताने वा सर्वज्ञसन्ताने वा ? नाद्यः, संविदां स्वप्रकाशत्वेन तदसम्भवात् । अस्तु तर्हि द्वितीयः, देवदत्तसंवेदनं हि स्वप्रकाशमपि यज्ञ­द­त्त­सं­वे­द­नस्य विषयत्वाज्जनकं भविष्यतीति । तदसत्, न तावत् प्रत्य­क्ष­ज्ञा­नस्य विषयतया जनकमिति शक्यं वक्तुम्, तर्हि प्रुषा­न्त­र­ज्ञानं पुरु­षा­न्त­र­प्र­त्य­क्ष­तया क्वचिद् दृष्टम् । नाप्य­नु­मा­न­ज्ञा­नस्य विषयतया जनकम्, त्वया प्रत्य­क्ष­ज्ञा­न­मेव विष­य­ज­न्य­मि­त्य­ङ्गी­का­रात् । ननु तर्हि तृतीयोऽस्तु, सर्वज्ञस्य हि प्रत्यक्षज्ञानं सर्व­पु­रु­ष­ग­त­सं­वे­द­नानि विषयीकुर्वत् तैर्जन्यते । मैवम्, तथा सति सोपप्लवैः संसा­रि­सं­वे­द­नै­री­श्व­र­सं­वे­द­न­म­प्यु­प­प्लुतं स्यात्; त्वन्मते ज्ञान­ज्ञे­य­यो­र­भे­दात् । अथे­श्व­र­ज्ञा­न­मु­प­प्लु­त­मपि नोपप्लवदोषं भजते, तत्त्व­ज्ञा­ने­नो­प­प्ल­व­बा­धा­दिति चेद्, मैवम्; न तावत्तदेव ज्ञानं स्वोपप्लवं बाधते, उपप्लवस्य एकस्मिन्नेव क्षणे प्राप्ति­बा­ध­यो­र्द्व­यो­र­स­म्भ­वात् । नाऽपि ज्ञाना­न्त­र­मु­प­प्ल­व­म­नूद्य बाधितुं क्षमते, पूर्व­ज्ञा­नो­प­प्ल­वस्य ज्ञाना­न्त­रा­वि­ष­य­त्वाद् विषयत्वे च पूर्वज्ञानवदेव ज्ञाना­न्त­र­मु­प­प्लुतं सत् कथं बाधकं स्यात् ? न चोपप्लवांऽशं विहाय संवे­द­नांऽ­श­स्यै­वे­श्व­र­ज्ञानं प्रति विषयतया जनकत्वम्, तथा सति उपप्लवानभिज्ञः ईश्वरः कथमुपदिशेत् ? नाऽपि क्षणा­न्त­रो­त्पा­द­न­म­र्थ­क्रि­येति द्वितीयः पक्षः, त्वत्प्रक्रियया चर­म­क्ष­ण­स्याऽ­स­त्त्व­प्र­स­ङ्गात् । तथाहि – विज्ञानानि स्थायि­त्व­क­ल्प­नया द्रव्य­गु­णा­दि­क­ल्प­नया रागा­दि­दो­षै­र्वि­ष­यै­श्चो­प­प्लु­तानि पूर्व­पू­र्व­स­जा­ती­य­वि­ज्ञा­न­ल­क्ष­णेभ्यः संस्कारेभ्य उत्त­रो­त्त­रा­ण्यु­त्प­द्यन्ते । तत्र “सर्वमिदं क्षणिकम्” इति भावनया स्थायित्वकल्पना निवर्तते । “स्वलक्षणम्” इति भावनया द्रव्य­गु­णा­दि­क­ल्पना नश्यति । “दुःखम्” इति भावनया राग­दि­दो­ष­प्र­वृ­त्ति­सु­ख­दुः­खो­प­प्लवाः क्षीयन्ते । “शून्यम्" इति भावनया विषयोपप्लवविगमः । ततश्च भाव­ना­भे­दै­श्च­तु­र्विधैः संस्का­र­वि­रो­धि­भि­श्च­तु­र्वि­धो­प­प्लवे क्रमेण मन्दीकृते भाव­ना­प्र­क­र्ष­स्याऽ­न्त्य­भू­ता­दु­पा­न्त्य­प्र­त्य­यात् सर्वोपप्लवविरहि विज्ञा­न­मु­त्प­द्यते । तच्च संसा­र­स­न्ता­ना­न्त्य­त्वात् “चरमक्षणः” इति गीयते । तस्य च कार्या­भा­वा­द­स­त्त्वा­पत्तौ तथैव क्रमेण पूर्व­पू­र्व­ज्ञा­ना­ना­म­प्य­सत्त्वं प्राप्नुयात् । चरमक्षण ईश्वरज्ञानस्य जनकः, तद्विषयत्वादिति चेत्, तर्हि चर­म­क्ष­ण­स­र्व­ज्ञ­ज्ञा­न­यो­र्वि­शु­द्ध­तया तुल्य­स्व­भा­व­यो­रे­क­स­न्ता­नत्वं स्यात्; तुल्यस्वभावयोः कार्य­का­र­ण­भा­व­स्यै­क­स­न्ता­न­ल­क्ष­ण­त्वात् । ततः सन्ता­ना­वि­च्छे­दा­द­नि­र्मोक्षः स्यात् । सर्व­ज्ञ­स­न्ता­न­प्र­वेश एव मोक्ष इति चेद्, एवमपि चर­म­क्ष­ण­स्ये­श्व­र­ज्ञा­न­वि­ष­यत्वं दुर्निरूपमिति जनकत्वं दूरापास्तम् । भेदे हि सति संविदो विषयविषयिभावः । न चेह भेदो विद्यते । न तावत् संवित् संविदन्तरात् संविदाकारेण भिद्यते, तथा सति वैल­क्ष­ण्य­सि­द्धये प्रति­यो­गि­नोऽ­सं­वि­त्त्व­प्र­स­ङ्गात् । नाऽपि संविदाकारेण, धर्मि­णोऽ­सं­वि­त्त्व­प्र­स­ङ्गात् । तस्मात् चरमक्षणस्य सर्व­ज्ञ­ज्ञा­नो­त्पा­द­न­ल­क्ष­ण­याऽ­र्थ­क्रि­यया सत्त्वं दुःसम्पादम् । यद्य­स्याऽ­र्थ­क्रिया कल्प्येत, तदापि सा किं कारणस्य सत्त्वं सम्पादयति उत तत्प्रतीतिम् ? नाऽऽद्यः, कार्यात् पूर्वमेव कारणस्य सत्त्वात् । अन्यथा कारणत्वायोगात् । द्वितीयेऽपि तत्कार्यं स्वकार्येण प्रतिभासितं सत् कारणं प्रत्याययति, तदपि तथेत्यनवस्था स्यात् । संवित् स्वयमेव स्वात्मानं प्रकाशयतीति नाऽनवस्थेति चेत्, तर्हि अर्थ­क्रि­या­प्र­ती­ति­र्हे­तु­रिति पक्षो हीयेत । स्वयमेव स्वस्याऽ­र्थ­क्रि­येति वदत आत्माश्रयत्वं दुर्वारम् । तदेवं सत्त्वं नाम नाऽर्थ­क्रि­या­का­रि­त्वम्, किन्तु स्वाभाविकः कश्चिद्धर्मः । तथा चैकस्मिन् क्षणेऽ­र्थ­क्रियां कृत्वा पुन­स्तू­ष्णी­भू­त­स्याऽपि स्थायिनः सत्त्वं न विरुध्यते ।

यदुक्तं स्थायिनः क्रमे­णाऽ­ने­क­का­र्यो­त्पा­द­कत्वं नाऽस्ति, समर्थस्य क्षेपायोगाद् इति । तदसत्, शक्तस्याऽपि सह­का­रि­स­न्नि­धा­न­वि­शे­ष­क्र­मा­पे­क्षया कार्यक्रम उपपन्नः; लोके तथैवाऽनुभवात् । अथ मतम् – शक्तस्य सहकार्यपेक्षाया अप्य­यु­क्त­त्वा­द­शक्ता एव सर्वे पदार्थाः परस्परापेक्षया सामग्रीं जनयन्ति, सा च शक्ता कार्य­मु­त्पा­द­य­तीति; तदप्ययुक्तम्, सामग्रीं प्रत्यपि पदार्थानां शक्त­त्वेऽ­न्यो­न्या­पेक्षा न युक्ता, अशक्तत्वे च तद­ज­न­क­त्वा­न्नि­ष्फ­लाऽ­न्यो­न्या­पे­क्षेति अनपेक्षैव सर्वत्र स्यात् । मा भूत्तर्हि कस्याऽपि सहकार्यपेक्षेति चेद्, न; अनुभवविरोधात् । न चाऽनुभवो भ्रान्तः, बाधाभावात् । यद्यपि शक्त­स्याऽ­श­क्तस्य वाऽपेक्षा न युक्ते­त्यु­क्तम्, तथापि शक्त­त्वा­श­क्त­त्व­वि­नि­र्मु­क्त­व­स्तु­मा­त्रस्य सहकार्यपेक्षा स्यात्; न्यायस्याऽस्य त्वयाऽ­प्य­ङ्गी­का­र्य­त्वात् । तथा हि – कार्यसत्त्वे सिद्धान्तहानिः, असत्त्वे च कारणविशेषेण कार्यविशेषस्य सम्ब­न्धा­नि­रू­प­णात् सर्वं सर्व­स्मा­दु­त्प­द्येत; इति परेण चोदिते सत्त्वा­स­त्त्व­स­म्ब­न्ध­त्वा­स­म्ब­न्ध­त्वा­वि­शेषं विमुच्य नियतपूर्वभावि कारणम्, नियतोत्तरभावि कार्यम्, इति त्वया निरूपणीयम् । अन्वयव्यतिरेकौ तत्र निरूपकौ स्त इति चेत्, सहकारिण्यपि स्त एव । तस्मादस्त्येव सहकार्यपेक्षा । तत्कृ­त­स्तू­प­का­र­वि­शे­ष­श्चि­न्त्य­ताम् ? यत्त्वत्रैकदेशी मन्यते – अन्व­य­व्य­ति­रे­क­सि­द्ध­भू­म्यु­द­का­दि­स­ह­का­रिणो बीजाख्ये कारणे विशे­ष­मु­च्छू­न­ताख्यं जनयन्ति, तत­स्त­द्बी­ज­म­ङ्कु­राख्ये कार्ये शक्तम्, अन्य­थाऽ­नु­प­का­रि­भू­म्या­दि­र्बी­जेन नाऽपेक्ष्येत इति, तदसत् बीजं स्वग­त­वि­शे­षो­त्पत्तौ शक्तं न वा ? न चेत्, सह­का­रि­स­ह­स्र­स­न्नि­धा­नेऽपि न तज्जनयेत्, ततो नाङ्कु­रो­त्पा­द­नेऽपि शक्ष्यति । अथ शक्तम्, तदापि यदि सह­का­रि­कृ­त­वि­शे­षा­न्तरं प्राप्य उच्छूनतायां शक्नुयात्, तदाऽनवस्था स्यात् । अथ तदप्राप्यैव तत्र शक्तम्, तर्हि अङ्कुरेऽपि विशेषमन्तरेणैव शक्तं स्यात् । अथ मतम् – अङ्कु­रो­त्प­त्ति­रु­च्छू­न­त्व­ज­न्म­पू­र्विका, उच्छू­न­त्वो­त्प­त्तिस्तु सह­का­रि­स­न्नि­धि­मा­त्र­साध्या, तथैव इष्टत्वात् इति, तन्न; तथा सति शक्तिमता कारणेन स्वात्मनि अनुपकुर्वन्नपि सहकार्यपेक्षित इति त्वयैव स्वमतव्याघात आपादितः स्यात्; तस्मा­न्नै­क­दे­शि­पक्षो युक्तिसहः । नन्वत एवा­स्म­न्म­त­मा­द­र­णी­यम् – न हि वयं तद्वत् कारणस्वरूपे सहकार्युपकारं ब्रूमः, किन्तर्हि क्षणि­का­न्मू­ल­का­र­णा­दु­त्प­द्य­मानं कार्यं सह­का­रि­का­र­णा­न्य­पे­क्षते, कार्यस्य बहु­का­र­ण­सा­ध्य­त्वा­दिति ब्रूमः । यद्यपि स्थायि­का­र­ण­म­तेऽपि एतावत समानम्, तथापि त्वन्मते याव­त्का­र­ण­सत्त्वं नैरन्तर्येण कार्यो­त्प­त्ति­र्दु­र्वारा, नियामकाभावात् । न च सहकारिसम्बन्धो नियामकः, सम्बन्धेनाऽपि याव­त्स­म्ब­न्धि­सत्त्वं भवितव्यत्वात् । न च तस्य सम्बन्धान्तरं नियामकम्, अनवस्थानात् । न च वाच्यं क्षणिकपक्षेऽपि न कारणसत्त्वक्षणे कार्यं जायते, तयो­र्यौ­ग­प­द्य­प्र­स­ङ्गात् । अन्यदा जन्मा­ङ्गी­का­रेऽपि अनि­य­मा­प­त्ति­रिति, कार­णा­न­न्त­र­क्ष­णस्य कार्य­नि­या­म­क­त्वात् । अतः क्षणिकवाद एव श्रेयान् । मैवम्, सर्वत्र कार्यकारणभावो व्याप्ति­ब­ला­न्नि­श्चे­तव्यः । तत्र किं तव मते कार्य­का­र­ण­भा­व­व्या­प्ति­र्धू­मा­ग्नि­व्य­क्त्यो­रुत तत्सन्तानयोः ? नाऽऽद्यः, क्षणि­क­यो­र­न्व­य­व्य­ति­रे­क­बु­द्धि­द्व­य­का­ला­व­स्था­ना­यो­गात् । द्विती­येऽ­ङ्गा­रा­व­स्था­द­प्य­ग्ने­र्धूमो जायेत, तत्स­न्ता­न­पा­ति­त्वा­वि­शे­षात् । काष्ठाभावाद् जन्म नेति चेद्, न; तस्यापि स्वसन्ताने विद्यमानत्वात् । न चाऽग्निकाष्ठयोः सम्बन्धाभावः, सन्ता­न­द्व­य­नि­त्य­त्वेन तस्या­प्य­नि­वा­र्य­त्वात् । स सम्बन्धः सम्ब­न्धा­न्त­र­पू­र्व­क­त्वान्न सदातन इति चेद्, न; अनवस्थापत्तेः । त्रिच­तु­र­क­क्षा­वि­श्रा­न्त्य­भ्यु­प­ग­मा­द­दोष इति चेत्, तर्हि स्थायि­का­र­ण­प­क्षेऽपि तथैवाऽनवस्थायाः सुप­रि­ह­र­त्वा­न्नो­क्त­दोषः । ननु सहकारिण उप­का­र­क­त्वा­ङ्गी­कारे यदि स्थायित्ववादी स्वमतमपि समीकुर्यात् तर्हि तन्नाङ्गीकुर्म इति चेद्, न; धूमकाष्ठयोः कार्य­स­ह­का­रि­णो­रु­प­का­र्यो­प­का­र­क­भा­व­स्याऽ­न्व­य­व्य­ति­रे­क­सि­द्ध­स्याऽ­व­र्ज­नी­य­त्वात् । अन्व­य­व्य­ति­रे­क­यो­श्चो­प­का­र्यो­प­का­र­क­भा­व­सा­ध­कत्वं मूल­का­र­ण­त­त्का­र्य­यो­र­ग्नि­धू­म­यो­र्दृ­ष्टम् । तस्मादुपकारके सहकारिणि मत­द्व­येऽ­प्य­पेक्षा समाना । तथा च क्षणिकपक्षे यथा एकवह्नेः सहकारिभेदाद् देशभेदाच्च युग­प­द­ने­क­का­र्य­ज­न­क­त्व­म­भ्यु­पे­यते वह्निः स्वदेशे वह्न्यन्तरमेव जन­य­त्यु­प­रि­ष्टाद् धूममधस्ताद्भस्म पुरुषे विज्ञानं चेति । तथा स्थायि­प­क्षेऽ­प्ये­कस्य कारणस्य कालभेदात् सह­का­रि­भे­दा­च्चाऽ­ने­क­का­र्य­ज­न­क­त्वम् । ततः क्रमकारित्वं किं न स्यात् ? न चैतावता क्षणि­क­स्था­यि­वा­दि­नो­र्म­त­सा­ङ्कर्यं शङ्कनीयम्, पूर्वस्य प्रति­क­र्म­व्य­व­स्था­वा­द­स्याऽन्ते निराकृतत्वात् । तदेवमतिदुष्टं क्षणि­क­वि­ज्ञा­न­वा­दि­म­त­मु­पेक्ष्य कूट­स्थ­नि­त्य­चै­तन्ये सर्व­म­प्य­ध्य­स्त­तया प्रतीयत इत्ययमेव वेदा­न्त­वा­दोऽ­ति­नि­र्दो­ष­त्वा­दा­द­र­णीयः ।

नन्वयमपि वादो दुष्ट एव । तथाहि – कूटस्थचैतन्येन चेद् स्वस्मि­न्न­ध्यस्ताः पदार्था अपरोक्षा अवभास्यन्ते, तदाऽ­नु­मे­या­द­योऽ­प्य­प­रोक्षाः स्युः । न चेच्चै­त­न्य­म­प­रो­क्ष­प्र­ती­ति­ज­न­कम्, तदा घटादयोऽपि नाऽपरोक्षाः स्युः; नियामकाभावात् । न चेन्द्रि­य­मा­प­रो­क्ष्य­नि­या­म­क­मिति शक्यं वक्तुम्, बाह्ये­न्द्रि­यस्य तथात्वे सुख­दुः­खा­दे­रा­प­रो­क्ष्या­भा­व­प्र­स­ङ्गात् । अन्तःकरणस्य तथात्वे त्वनु­मे­या­दा­वा­प­रोक्ष्यं दुर्वारम् ।

नैष दोषः, कार­क­त्व­व्य­ञ्ज­क­त्व­यो­र्नि­या­म­क­त्वात् । योऽय­म­न्तः­क­र­ण­प­रि­णामो नेत्रादिद्वारा निर्गत्य घटादीन् व्याप्नोति तस्य हि कर्मभूता घटादयः कारकाः । घटाद्यभावे तद्व्या­पि­प­रि­णा­मा­नु­प­पत्तेः । घटा­दि­भि­रु­त्पा­दिते च परिणामे चैत­न्य­म­भि­च्य­ज्यत इति व्यञ्जकत्वं घटादीनाम् । ततस्तेषां युक्त­मा­प­रो­क्ष्यम् । न चैवमनुमेयादिषु कार­क­त्व­व्य­ञ्ज­क­त्व­ध­र्म­द्वयं नियमेन सम्भवति, अतीतानागतयोरपि कदा­चि­द­नु­मे­य­त्वात्; तयोश्च वर्त­मा­न­ध­र्म­द्व­या­श्र­य­त्वा­नु­प­पत्तेः । ननु यदा “वृष्टिरासीत्” इत्यनुमीयते तदा वृष्टि­र­ती­त­त्वा­का­रेण वर्त्तते ततो वर्त्त­मा­न­ध­र्मा­श्र­यत्वं स्यादिति चेद्, नैतद्युक्तम्; किमनुमानकाले वृष्टे­र्व­र्त­मा­न­त्व­मु­च्यते उताऽ­ती­त­त्व­ध­र्मस्य ? आद्ये, वृष्टे­र्यु­ग­प­द­ती­तत्वं वर्तमानत्वं च व्याहन्येत । न द्वितीयः, अतीतत्वं नाम वर्त­मा­न­का­ल­व्या­वृ­त्त­भू­त­का­ल­यो­गि­त्वम्, ततश्च यथा घटादौ वर्त्त­मा­न­का­लोऽ­नु­गतः सन्निवच्छेदको न तथाऽ­ती­त­त्व­धर्मः, किन्तु घटाभावस्य घट इवाऽ­ती­त­त्व­ध­र्मस्य वर्तमानकालः केवलं निरूपक इति नाऽती­त­त्व­ध­र्मस्य घट­व­द्व­र्त्त­मा­न­त्व­स­म्भवः । नन्वयं धर्मो यदि न सर्वथा वर्त­मा­न­त्व­व्य­व­हा­रा­र्ह­स्तर्हि नरविषाणवदसन्नेव स्यात्, ततो वर्तमान एवाऽयं धर्म इति चेद्, एवमपि न तद्ध­र्म­वि­शि­ष्टायां वृत्तौ कार­क­त्व­व्य­ञ्ज­कत्वे सम्भवतः । न हि मृतो देवदत्तो घटं कुरुते, नाऽपि विनष्टः प्रदी­प­स्त­म­भि­व्य­नक्ति । नन्वनुमेयादिषु विष­ये­ष्व­का­र­के­ष्व­व्य­ञ्ज­केषु च सत्सु कथ­म­नु­मा­ना­दि­ज­न्य­ज्ञा­नस्य तद्विषयाकारतेति चेद्, लिङ्गशब्दादयो ह्यवि­ना­भा­व­श­क्त्या­दि­स­म्ब­न्ध­वि­शे­ष­ब­लात् तत्तद्विषयाकारं ज्ञाने समर्पयन्तीति ब्रूमः । न चाऽती­ता­ना­ग­ते­ष्व­नु­मे­या­दिषु यथा विषयत्वं धर्मोऽ­ङ्गी­क्रि­यते तथा कार­क­त्व­व्य­ञ्ज­क­त्व­ध­र्मेऽ­प्य­ङ्गी­कार्ये सति प्रत्यक्षे इवा­नु­मा­ना­दि­ष्वपि विषयतयैव ज्ञाना­का­रा­र्प­कत्वं भविष्यतीति वाच्यम्, न हि विषयत्वं नामाऽनुमेये कश्चिद्भावरूपो धर्मः, येन दृष्टान्तः स्यात्, किन्त­र्ह्य­नु­मा­न­प्र­वृत्तेः पूर्वमनुमेयस्य यादृ­ग­व­स्थाऽऽ­सी­त्ता­दृ­ग­व­स्था­नि­वृ­त्ति­रेव विष­य­त्व­श­ब्दे­नो­च्यते । न च सैवाऽवस्था दृष्टान्तत्वेन शङ्कनीया, तस्या अप्यु­क्त­नि­वृ­त्ति­प्रा­ग­भा­व­रू­प­त्वात् । अतोऽ­ती­ता­द्य­नु­मे­येषु भावरूपं कारकत्वं दुःसम्पादम् । अती­ता­द्य­नु­मे­य­स्याऽ­क­र्य­का­र­कत्वे कथं तत्र “वृष्टिं जानाति” इति सक­र्म­क­धा­तु­प्र­योगः ? उपचारादिति ब्रूमः । यथा सकर्मके प्रत्यक्षज्ञाने फलमस्ति तथाऽनुमानादावपि तत्स­त्त्व­मा­त्रेण सक­र्म­क­त्व­मु­प­च­र्यते । मुख्यस्य कर्म­ण­स्त­त्राऽ­ङ्गी­कारे, प्रत्य­क्ष­व­द­ती­ता­द्य­नु­मा­नेऽ­प्या­प­रोक्ष्यं दुर्वारम् । एवं च सति यत्र वर्त­मा­नोऽ­ग्न्या­दि­र­नु­मी­यते तत्राऽ­प्य­नु­मे­य­त्व­सा­म्या­द­ग्न्या­दे­र­क­र्म­का­र­क­त्व­मा­प­रो­क्ष्य­प­रि­हा­रा­याऽ­व­ग­न्त­व्यम् । प्रत्यक्षे पुन­र­वि­ना­भा­व­स­म्ब­न्धा­दी­ना­म­भा­वा­द्वि­ज्ञा­न­स्याऽऽ­का­र­स­म­र्प­णाय विषयस्य कर्म­का­र­क­त्व­मे­वाऽ­भ्यु­पे­यम् । सम्भवति हि तत्र नियमेन कारकत्वम्, प्रत्य­क्ष­वि­ष­यस्य वर्त्त­मा­न­त्व­नि­य­मात् । तस्मात् कूटस्थचैतन्ये सर्वदा सर्व­प­दा­र्था­ना­म­ध्य­स्तत्वे समेऽपि कार­क­त्व­व्य­ञ्ज­क­त्व­व­शात् प्रत्य­क्ष­वि­ष­ये­ष्वे­वाऽऽ­प­रोक्ष्यं व्यवस्थास्यते ।

न च निर्विकल्पके चैतन्ये कथं सवि­क­ल्प­क­प­दा­र्था­ध्यास इति शङ्कनीयम्, पूर्व­पू­र्व­प्र­मा­तृ­त्वा­दि­सं­स्का­रेण सविकल्पकमेव चैत­न्य­म­ह­ङ्का­रा­द्य­ध्या­सा­धि­ष्ठा­न­मिति प्रति­क­र्म­व्य­व­स्था­वादे प्रत्यु­क्त­त्वात् । ननु तथापि संस्का­रा­दि­स­र्व­प्र­प­ञ्चो­पा­दानं मूलाज्ञानं निर्वि­क­ल्प­क­चै­तन्ये एवाऽध्यसनीयम्, अज्ञा­ना­ध्या­सा­धी­न­सि­द्धि­क­त्वा­द­न्यस्य सर्वस्य सवि­क­ल्प­क­त्व­स­म्पा­द­कस्य वस्तुनः । न च निर्वि­क­ल्प­क­स्याऽ­धि­ष्ठा­न­त्व­मु­प­प­द्यते, सर्वत्र सवि­क­ल्प­क­स्यै­वाऽ­धि­ष्ठा­न­त्व­द­र्श­नात् । तत्क­थ­म­ज्ञा­ना­ध्यासः ? नैष दोषः, अप­रो­क्ष्य­स्फु­र­ण­मा­त्रे­णाऽ­धि­ष्ठा­न­त्वो­प­पत्तेः सवि­क­ल्प­क­त्व­स्याऽ­प्र­यो­ज­क­त्वात् । तच्च केव­ल­व्य­ति­रे­का­भा­वा­द­व­ग­न्त­व्यम् ।

आत्मनो नित्या­नु­मे­य­त्वा­न्नाऽ­प­रो­क्ष­तेति चेद्, न; अह­ङ्का­र­वा­देऽ­ह­मि­त्य­प­रो­क्षा­नु­भ­व­वि­रो­धेन प्रत्यु­क्त­त्वात् । अह­मि­त्य­नु­भ­वोऽ­नु­मा­न­जन्य एव, तथापि भूयोऽ­भ्या­स­पा­ट­वाद् व्याप्ति­प­क्ष­ध­र्म­तो­ल्ले­ख­म­न्त­रेण झटिति तदुत्पत्तौ अपरोक्षभ्रमः प्राणिनां तत्रेति चेद्, न; तथा सति घटादिकं जानतो देवदत्तस्य “मयेदं विदितम्: इति सम्बन्धावगमो न स्यात् । यथा परेण विदिते घटे स्वस्य सम्बन्धो न प्रतीयते तथा स्वेन विदितेऽपि, उभ­यो­र्नि­त्या­नु­मे­य­यो­र­वि­शे­षात् । स्वेन ज्ञानावसरे स्वस्य ज्ञानाश्रयत्वं विशेष इति चेद्, न; स्वात्म­न्य­प्र­ती­य­माने ज्ञाना­श्र­य­त्वस्य दुरवगमत्वात् । न च ज्ञानाश्रयत्वं फल­स­म्ब­न्धा­द­नु­मातुं शक्यम्, फल­स­म्ब­न्ध­स्याऽ­द्या­प्य­सिद्धेः । तत आत्मा स्वप्र­का­श­त्वे­नाऽ­प­रोक्षो न नित्यानुमेयः ।

यस्तु स्वप्रकाशत्वे विवदते स वक्तव्यः – किमात्मा संवि­दा­श्र­य­त्वे­नाऽ­प­रोक्षः किं वा संवि­त्स­म्ब­न्ध­मा­त्र­स­त्त्वा­दुत संवि­दु­पा­धि­त्वा­दथो संवि­द्वि­ष­य­त्वात् ? नाद्यः, आत्मा न संवि­दा­श्र­य­त्वे­नाऽ­प­रोक्षः, संवि­त्क­र्म­ता­म­न्त­रे­णाऽ­प­रो­क्ष­त्वात्, संवेदनवत् । न द्वितीयः, अतिप्रसङ्गात् । तृतीयेऽपि न तावत् संविदुपाधित्वं नाम संवि­दा­श्र­य­त्वम्, विष­य­स्याऽ­ना­श्र­य­स्याऽ­प­रो­क्ष­त्वा­भा­व­प्र­स­ङ्गात् । नाप्याऽऽ­श्र­य­वि­ष­य­यो­र­न्य­त­र­त्वम्, विषयस्य दुर्निरूपत्वात् । संवि­त्प्र­यु­क्त­व्य­व­हा­र­योग्यो विषय इति चेद्, आत्माऽपि तर्हि विषयः स्यात् । आश्र­य­व्य­ति­रि­क्तत्वे सति संवि­द्व्या­व­र्त्त­कत्वं चक्षु­ष्य­ति­व्या­प्तम् । आश्र­य­व्य­ति­रि­क्तत्वे सति संवि­त्प्र­यु­क्त­व्य­व­हा­र­यो­ग्यत्वं च संवि­दा­त्म­स­म्ब­न्धेऽ­ति­व्या­प्तम् । न च सम्बन्धस्य विषयत्वमिष्टम्; अप­रो­क्ष­त्व­प्र­स­ङ्गात् । अनुमेयो हि नित्यं समवायो भवतेष्यते । चतुर्थेऽपि न तावदात्मविषयं संवेदनं घटा­दि­वि­ष­य­सं­वे­द­ना­द्भि­न्न­का­ली­नम् । तथा सति “मयेदं विदितम्” इति संवेद्यसम्बन्धो नावगम्येत । नापि तयोरेककालत्वम् । युग­प­द्वि­रु­द्ध­वि­ष­य­ग्रा­हि­ज्ञा­न­द्व­यो­त्पा­दा­यो­गात् । न हि देव­द­त्त­स्याऽ­ग्र­पृ­ष्ठ­दे­श­स्थि­ता­र्थ­व्या­पि­ग­म­न­क्रि­या­द्व­या­वेशो युगपद् दृश्यते । विरु­द्ध­प­रि­स्प­न्द­द्व­यस्य युग­प­द­नु­प­प­त्ता­वपि परिमाणद्वयस्य नानुपपत्तिरिति चेद्, न; निर­व­य­व­स्याऽ­व­य­वशः परि­णा­म­द्व­या­नु­प­पत्तेः । नाऽपि कार्त्स्न्येन परिणामद्वयम्, कृत्स्न­श­री­र­व­र्तिनो विरु­द्ध­प­रि­णा­म­यो­र्बा­ल्य­यौ­व­न­यो­र्यौ­ग­प­द्या­द­र्श­नात् । तस्मात् परिशेषात् स्वप्र­का­श­त्वे­नै­वाऽऽ­त्म­नोऽ­प­रो­क्ष­त्वम् । न च वाच्य­म­धि­ष्ठा­न­स्याऽ­ध्य­स्य­मा­ने­नै­के­न्द्रि­य­ग्रा­ह्य­त्व­म­न्त­रे­णाऽ­प­रो­क्ष­ता­मा­त्रे­णाऽ­ध्यासो न क्वचिद् दृष्ट इति, साक्षिणा मनोमात्रेण वा प्रत्यक्षे आकाशे मालि­न्या­दे­श्चा­क्षु­ष­स्याऽऽ­प­रो­क्ष्य­द­र्श­नात् । क्षप­ण­कै­र्भा­ट्टै­श्चाऽ­का­शस्य चाक्षु­ष­त्व­मि­ष्यत इति चेद्, न; तथा सति रूप­स्प­र्श­व­त्त्व­प्र­स­ङ्गात् । चक्षु­र­न्व­य­व्य­ति­रेकौ त्वाका­शा­नु­मा­प­क­मू­र्त­द्र­व्या­भा­व­वि­ष­य­त­याऽ­न्य­था­सिद्धौ । ये तु वादिनः स्वस्व­प्र­क्रि­या­नु­सा­रेण नित्या­नु­मे­य­मा­का­श­मि­च्छन्ति तान्प्र­त्य­ध्य­स्य­मा­ने­नै­के­न्द्रि­य­ग्रा­ह्य­त्वा­भा­वाद् भवत्येवोदाहरणम् । तस्यैतस्य विद्या­नि­व­र्त्य­स्याऽ­वि­द्या­त­त्का­र्य­रू­प­स्याऽ­ध्या­स­स्याऽ­धि­ष्ठा­न­भू­तोऽ­प्यात्मा न तद्गुणदोषाभ्यां संस्पृश्यते, अनुपादानत्वात्। तदेवं वेदान्तवादे सर्व­दो­ष­प­रि­हा­रस्य सुकरत्वात् सम्भाव्यत एव प्रत्य­गा­त्म­न्य­प्य­ना­त्मा­ध्यासः ।

नन्वा­त्म­न्य­ना­त्मा­ध्यासो लक्ष­ण­स­म्भा­व­ना­भ्या­मु­पे­तोऽपि न प्रमाणमन्तरेण सेद्धुमर्हति, मानाधीनत्वात् सर्वत्र मेयसिद्धेरिति चेत्, तर्ह्यत्र प्रत्य­क्षा­नु­मा­ना­र्था­प­त्त्या­गमाः प्रमा­ण­त्वे­नाऽ­व­ग­न्तव्याः । सर्वो लोको “मनुष्योऽहं देवोऽहं पशुरहम्” इति जाति­वि­शि­ष्ट­श­री­रे­न्द्रि­या­दि­सं­घाते चिद्रूपस्य स्वस्य तादा­त्म्य­म­ध्य­स्यैव व्यवहारं प्रमा­तृ­प्र­मे­या­दि­रूपं कुरुत इति प्रत्यक्षमेतत् । यद्य­प्य­त्रे­न्द्रि­या­प­गमे प्रमा­ण­को­टा­व­न­न्त­र्भा­वात् प्रत्य­क्ष­सा­म­ग्र्य­स­म्भ­व­स्त­थापि नित्यं साक्षि­प्र­त्यक्षं सम्भविष्यति । यत्र साम­ग्र्य­भा­वेऽ­प्या­प­रोक्ष्यं दृश्यते, तत्र साक्षि­प्र­त्य­क्ष­तेति हि वेदान्तमर्यादा । तथाऽनुमानमपि – विमतौ देवदत्तस्य जाग्र­त्स्व­प्न­कालौ तस्यैवाऽहं मनुष्य इत्या­द्य­ध्या­स­पु­रः­स­र­प्र­मा­तृ­त्वा­दि­व्य­व­हा­र­वन्तौ, तस्यैव सुषु­प्त्या­दि­का­ला­द­न्य­का­ल­त्वात्, यन्नैवं तन्नैवम्, यथा तस्यैव सुषुप्त्यादिकाल इति । अर्थापत्तिरपि प्रमा­तृ­त्वा­दि­व्य­व­हारो देहा­दि­ता­दा­त्म्या­ध्यासं विना नोपपद्यते, सुषु­प्ता­दा­व­ध्या­सा­भावे व्यव­हा­रा­नु­प­ल­म्भा­दिति । आगमस्तु “ब्राह्मणो यजेत” इत्या­दि­र­व­ग­न्तव्यः । ननु प्रमा­तृ­त्वा­दि­व्य­व­हारो देहात्मनोः सम्ब­न्ध­मा­त्र­म­पे­क्षते, न तादात्म्यमिति चेत्, कोऽसौ सम्बन्धः ? स्वस्वा­मि­भा­व­श्चेत्, तर्हि भृत्या­दि­श­री­रे­णाऽपि प्रमा­तृ­त्वा­दि­व्य­व­हारः स्यात् । अस्तु तर्हि स्वेच्छा­मा­त्रा­नु­वि­धा­यित्वं सम्बन्धः । भृत्यादिशरीरं तु स्वव­च­ना­नु­वि­धा­यीति नाऽतिप्रसङ्ग इति चेद्, मैवम्; यदी­च्छा­नु­वि­धा­न­यो­ग्य­ता­मात्रं विवक्षितं तदा सुषुप्तेऽपि तत्सत्त्वाद् व्यवहारो दुर्वारः । अथे­च्छ­याऽ­नु­वि­धी­य­मा­न­त्वम्, तर्ह्यत्यातुरे तदभावात् प्रमा­तृ­त्वा­दि­व्य­व­हारो न स्यात् । इच्छानुविधानस्य व्यव­हा­र­मू­ल­त्व­म­नु­भ­व­सि­द्ध­मिति चेत्, किमे­त­त्सा­र्व­त्रि­क­मुत क्वाचित्कम् ? नाऽऽद्यः, इच्छा­नु­वि­धा­न­म­न्त­रे­णैव दुर्ग­न्धा­दि­प्र­मा­तृ­त्व­द­र्श­नात् । न द्वितीयः, इच्छाया अप्य­ध्या­स­मू­ल­त्वे­नाऽ­ध्या­स­स्यैव व्यव­हा­र­हे­तु­त्वात् । नह्य­न्तः­क­र­ण­ता­दा­त्म्या­ध्या­स­म­न्त­रे­णे­च्छा­रूपः परिणामो निर्वि­का­र­स्याऽऽ­त्मनः सम्भवति । न चाऽऽत्मा­ना­त्मनोः संयोगसमवायौ व्यव­हा­र­नि­मि­त्तम्, सुषुप्तेऽपि तयोः सत्त्वाद् व्यवहारापत्तेः; भोक्तृ­भ्यो­ग्या­न्व­य­स्व­क­र्मा­र­भ्य­त्व­स्वे­न्द्रि­या­धि­ष्ठे­य­त्वा­दि­स­म्ब­न्धानां भोगा­द्य­ध्या­स­मू­ल­त्वात् । भृत्यादिशरीरे सद्भावाच्च न व्यवहारत्वम् । अथ भृत्या­दि­व्या­वृ­त्त्य­र्थ­म­व्य­व­धा­नेन भ्योग्यत्वं सम्बन्ध इत्युच्येत, तदापि भोग­यो­ग्य­ता­मात्रं चेत्, सुषु­प्तेऽ­प्यस्ति । अथ भुज्यमानत्वम्, तथाऽप्यात्मनः सर्व­श­री­र­दे­श­का­ले­ष्व­व्य­व­धा­नस्य समत्वात् कस्यचिदेव शरीरस्य कयोश्चिदेव देश­का­ल­यो­र्भ्यो­ग्यत्वे नियामको मूल­स­म्ब­न्धोऽ­पे­क्ष्येत । तस्मा­त्ता­द­त्म्या­ध्यास एव व्यवहारहेतुः । अस्मिन्नपि पक्षे शरी­र­वि­शे­षेऽ­ध्या­सस्य किं नियामकमिति चेद्, लिङ्गशरीरविशेष इति ब्रूमः । न च लिङ्ग­श­री­रा­त्मनोः सम्बन्धः सादिः, येन तत्राऽपि निया­म­का­न्त­र­म­न्वि­ष्येत । न च प्रमा­तृ­त्वा­दि­व्य­व­हा­रस्य देहा­दि­ता­दा­त्म्या­ध्या­स­मू­लत्वे कार­ण­दो­षा­द­प्रा­माण्यं प्रत्यक्षादीनां प्रसज्येतेति वाच्यम्; तत्र तत्त्वा­वे­द­क­प्रा­मा­ण्य­हा­नि­र्वे­दा­न्त­व्य­ति­रि­क्ता­ना­म­भ्यु­प­ग­तैव । व्याव­हा­रि­क­प्रा­माण्यं तु न हीयते, व्यवहारे बाधाभावात् । मोक्षावस्थायां बाध्य­त्व­मा­त्र­स्वी­का­रे­णाऽऽ­ध्या­सि­क­त्व­स्वी­का­रात् । न चाऽऽध्या­सि­क­त्व­म­वि­सं­वा­दि­व्य­व­हा­रा­ङ्गत्वं चोभयं विरुद्धमिति वाच्यम्, उभयस्य प्रमा­ण­सि­द्ध­त्वात् । तत्राऽऽ­ध्या­सि­कत्वे ताव­त्प्र­मा­णा­न्यु­क्तानि, इत­र­च्चाऽ­नु­भ­व­सि­द्धम् । अविसंवादित्वं न निश्चेतुं शक्यत इति चेत्, तत्र ताव­त्प्र­त्य­क्षा­दि­ज­न्य­व्य­व­हा­र­स्याऽ­वि­सं­वाद आपातिकः साक्षिसिद्धः । आत्यन्तिकस्तु नाऽभ्युपेयते । वेदान्तानां चाऽत्य­न्ता­बा­ध्य­वि­ष­य­त्वा­त्त­त्त्वा­वे­द­क­प्रा­मा­ण्य­मु­चि­तम् । स्वयं मिथ्याभूता अपि अबाध्यं बोधयन्त्येव, स्वप्न­का­मि­नी­स­न्द­र्श­नादौ मिथ्याभूतेऽपि वास्तवश्रेयः सूचकत्वदर्शनात् । ननु प्रत्यक्षादीनि व्यव­हा­रि­क­प्र­मा­णानि, व्यव­हा­रा­र्थ­क्रि­या­स­म­र्थ­व­स्तु­वि­ष­य­त्वा­दिति हि त्वया तेषां प्रामाण्यं साधनीयम् । तथा च परतः प्रामा­ण्या­प­त्ति­रिति चेद्, न; विमतानि प्रमाणानि, यथा­र्थ­वि­ष­य­त्वा­दिति साधयतस्तवापि तुल्यत्वात् । अथ विषययाथार्थ्यं विषयिज्ञानादेव सिध्यति, न ज्ञानान्तरादिति न परतस्त्वम्; तर्ह्य­स्म­न्म­तेऽपि विषये व्यव­ह­रि­क­र्थ­क्रि­या­सा­मर्थ्यं विषयिज्ञानादेव सिध्यतीति समानम् ।

अथा­प्य­ध्या­सो­पा­दा­नत्वे ब्रह्मज्ञानस्य प्रप­ञ्च­ज्ञा­न­व­न्मि­थ्यात्वं प्रसज्येतेति चेद्, न; स्वरू­प­मि­थ्या­त्व­स्ये­ष्ट­त्वात् । अथ विषयमिथ्यात्वं साध्यम्, तर्हि विन­श्व­र­ग्रा­हित्वं प्रपञ्चज्ञाने उपाधिः । अथ ब्रह्मज्ञानमपि विनश्वरग्राहि, दुष्ट­का­र­ण­ज­न्य­त्वात्, रज्जु­स­र्प­ज्ञा­न­व­दिति चेद्, न; हेत्वसिद्धेः । न हि ब्रह्मज्ञानं काच­का­म­ला­दि­दो­ष­ज­न्यम् । ब्रह्म­ज्ञा­नो­पा­दा­न­म­ज्ञा­न­मेव दोष इति चेद्, न; चैत­न्य­स्याऽ­द्वै­ता­व­भासं प्रतिबध्य द्वैता­व­भा­स­ज­न­क­त्वेन चैतन्यं प्रत्यज्ञानस्य दोषत्वेऽपि ब्रह्मज्ञानं प्रत्यु­पा­दा­न­त­याऽ­नु­कू­लस्य तस्य गुणत्वात् । एकस्यैव दोषत्वगुणत्वे विरुद्धे इति चेद्, न; काचादीनां रज्ज्वा­दि­त­त्त्वा­व­भासं प्रति विरोधित्वेन दोषत्वेऽपि स्वका­र­ण­भू­त­पा­पा­नु­माने लिङ्गत्वेन गुणत्वदर्शनात् । ततः प्रमाणकारणेषु सर्वेषु सत्सु तद्वि­रो­धि­त्वे­नाऽ­ग­न्तुको यः काचादिः स एवाऽ­प्रा­मा­ण्य­हे­तु­र्दोषः । लोके तु विरोधिष्वपि क्षुत्पि­पा­सा­दिषु नैस­र्गि­क­त्व­मा­त्रेण दोषबुद्धिर्न दृश्यते तत्र किमु वक्तव्यं नैसर्गिकमनुकूलं चाऽज्ञानं न दोष इति । तस्मा­दा­ध्या­सि­का­ना­मपि प्रत्यक्षादीनां नाऽप्रा­मा­ण्य­मि­त्य­ध्यास उपादानं व्यवहारस्य ।

विमतोऽध्यासः प्रमा­तृ­त्वा­दि­व्य­व­हा­रस्य निमित्तकारणम्, अध्यासत्वात्, शुक्ति­र­ज­ता­ध्या­स­वत्, इति चेद्, न; व्यव­हा­रा­ना­श्र­य­त्व­स्यो­पा­धि­त्वात् । रज­ता­ध्या­स­म­न्त­रे­णाऽऽ­प्या­त्मनि प्रमा­तृ­त्वा­दि­व्य­व­हा­र­द­र्श­नात् रजताध्यासो न तदाश्रयः, । देहा­त्मा­ध्या­स­स्त­दा­श्रयः, सुषुप्ते देहा­त्मा­ध्या­स­हीने व्यव­हा­रा­नु­प­ल­म्भात् । अथ मतम् – व्यवहारः प्रमातृनिष्ठः, प्रमातृत्वं चाऽऽत्म­न­श्चे­त­न­त्वा­द्वि­नै­वाऽ­ध्यासं सिध्यतीति । तन्न, अध्या­स­म­न्त­रे­णाऽ­स­ङ्ग­स्याऽऽ­त्मनो निर्व्यापारस्य प्रमाजनकत्वेन कार­क­प्र­यो­क्तृ­त्व­ल­क्ष­ण­प्र­मा­तृ­त्वा­नु­प­पत्तेः । अतोऽ­ध्या­सो­पा­दा­नक एव प्रमा­तृ­त्वा­दि­व्य­व­हारः । अविवेकिव्यवहार एव तादृशः, न तु विवेकिव्यवहार इति चेद, न; विवे­कि­व्य­व­हा­रोऽपि लौकि­क­स्ता­व­त्प­श्वा­दि­व्य­व­हा­र­स­म­त्वा­द­ध्या­स­कार्य एव । पश्वादीनां च देहा­दि­स­ङ्घा­तेऽ­ह­मि­त्य­भि­ज्ञा­व्य­व­हा­रोऽ­ध्या­सा­त्मकः अगृ­ही­त­भे­द­यो­र्द्व­यो­रै­क्य­ज्ञा­न­त्वा­च्छु­क्ति­र­ज­त­ज्ञा­न­वत् । न हि विवेकिभिरपि लौकि­क­व्य­व­हा­र­काले देहात्मनोर्भेदो गृह्यते, येन पश्वादिसाम्यं न स्याद् । भेदग्रहणे च देह­स्याऽ­नु­कू­लेऽ­न्न­पा­नादौ प्रतिकूले च ताडनादौ पश्वा­दि­व­न्म­मे­द­म­नु­कूलं प्रतिकूलमिति बुद्ध्या प्रवृ­त्ति­नि­वृत्ती नोपपद्येयाताम् । देहात्मनोर्भेदः प्राकृ­त­प्र­त्य­क्षे­णैव गम्यते, पामराणामपि स्त्रीशू­द्रा­दीनां पर­लो­का­र्थ­ग­ङ्गा­स्ना­ना­दि­प्र­वृ­त्ति­द­र्श­ना­दिति चेद्, न; आप्त­वा­क्य­प­र­म्प­र­यैव तत्र भेदावगमात् । नो चेदात्मज्ञानाय शास्त्रं न प्रवर्तेत । तस्मात् विवेकिनामपि लौकिकव्यवहार आध्यासिक एव । ननु विवेकिनां शास्त्री­य­व्य­व­हारो नाऽऽध्यासिकः, पर­लो­क­स­म्ब­न्धि­न­मा­त्मा­न­मा­प्त­वा­क्या­द्वि­ज्ञा­यैव वैदिककर्मसु प्रव­र्त्त­मा­न­त्वात् । स्यादेतत्, किं “चित्रया यजेत पशुकामः” “ज्योतिष्टोमेन स्वर्गकामो यजेत्” इत्यादिफलचोदना देहव्यतिरिक्तं पारलौकिमात्मानं कल्पयेत् ? किं वा “याव­ज्जी­व­म­ग्नि­होत्रं जुहोति” इत्या­दि­नि­त्य­चो­दना ? अथवा “गृहदाहवान् यजेत” इत्या­दि­नै­मि­त्ति­क­चो­दना ? आहोस्वित् प्राय­श्चि­त्त­चो­दना ? आद्येऽपि किं देह­व्य­ति­रि­क्त­मा­त्मा­न­म­न्त­रेण पश्वा­दि­फ­ल­म­नु­प­प­न्नम् ? उत स्वर्गादिफलम् ? नाऽऽद्यः, पश्वा­दी­ना­म­स्मि­न्नेव जन्मनि लब्धुं शक्यत्वात् । न चैहिकफलत्वे चित्रादीनां सम­न­न्त­र­नि­य­त­फ­लेभ्यः कारीर्यादिभ्यो भेदो न स्यादिति शङ्कनीयम्, अस्मिन्नेव जन्मनि यौव­न­वा­र्द्ध­का­दि­का­ल­भे­दे­नाऽपि चित्रा­दी­ना­म­नि­य­त­फ­ल­त्वो­प­पत्तेः । कारीर्यादीनां त्वनावृष्ट्या सस्येषु शुष्यत्सु विधा­ना­न्नि­य­त­स­म­न­न्त­र­फ­ल­त्वम् । नाऽपि द्वितीयः –
अत्रैव नरकस्वर्गाविति मातः प्रचक्षते ।
मनःप्रीतिकरः स्वर्गो नर­क­स्त­द्वि­प­र्ययः ॥
इति न्यायेन पश्वा­दि­ज­न्य­सु­ख­स्यैव स्वर्ग­श­ब्दा­भि­धे­यस्य ज्योति­ष्टो­मा­दि­फ­ल­स्याऽ­प्य­त्रैव सम्भवात् । न हि तत्सुखं चित्रादिफलम्, पश्वा­दि­मा­त्र­का­मस्य तद्विधानात् । निरतिशयप्रीतेः स्वर्ग­त्वेऽ­प्यै­हि­क­त्व­म­वि­रु­द्धम्, साम्रा­ज्या­दि­प्राप्त्या तस्या अप्यत्रैव सम्भवात् । शास्त्रेषु मेरुपृष्ठे स्वर्ग­भो­गोऽ­व­ग­म्यत इति चेत्, सोऽपि मन्त्रौ­प­धा­दि­सि­द्धे­नाऽ­ने­नैव शरीरेण सुसम्पादः । यदि तथा न दृश्येत तर्हि वृष्ट्या­द्य­नु­त्पादे कारी­र्या­दि­ष्वि­वा­त्रापि किञ्चि­द­ङ्ग­वै­कल्यं कल्पनीयम् । नापि द्वितीयतृतीयौ, नित्य­नै­मि­त्ति­क­चो­द­न­यो­र्गु­रु­मते फलशून्यत्वात् । भट्टमतेऽपि तत्फलस्येहैव भोक्तुं शक्यत्वात् । नापि चतुर्थः, प्रायश्चित्तस्य पापा­प­ग­म­मा­त्र­फ­ल­त्वात् । अकृ­त­प्रा­य­श्चि­त्तस्य ब्रह्महत्यादेः फलं भोक्तुमात्मा नरकगामीति चेद्, न; स्वर्ग­व­न्न­र­क­स्या­प्य­ने­नैव जन्मना भोगसम्भवात् । श्वसू­क­रा­दि­दे­हेषु पापफलोपभोगः शास्त्रे प्रतीयते इति चेत्, न; तत्र सूकरादि समा­न­दुः­ख­प्रा­प्ति­मा­त्रस्य विवक्षितत्वात् । अतो न देह­व्य­ति­रि­क्ता­त्मनः किञ्चि­त्क­ल्प­क­म­स्तीति । नैतदेवम्, देव­ता­धि­क­र­ण­न्या­येन प्रमा­ण­भू­तै­र्म­न्त्रा­र्थ­वा­दा­दि­भि­र्वि­शि­ष्ट­दे­श­का­ल­श­री­रा­दि­भो­ग्य­स्व­र्गा­दि­फ­ला­व­गतौ देह­व्य­ति­रि­क्ता­त्म­सं­सिद्धेः । इममर्थं वेदा­न्त­दे­व­ता­धि­क­र­ण­न्या­य­सि­द्ध­मपि जैमि­नि­र्ना­ङ्गी­च­का­रेति चेद्, न; देह­व्य­ति­रि­क्ता­त्म­त­त्त्वस्य विधि­भि­र­न­पे­क्षि­त­त्वेन जैमिनिना मृग्वतो सूत्रणेऽपि सिद्ध­सा­ध्य­वि­ष­य­कृ­त्स्न­वे­द­स्या­प्य­न­पे­क्ष­त्व­ल­क्ष­ण­प्रा­मा­ण्य­सू­त्र­णे­नाऽ­र्थात् सूत्रितत्वात् । अन्यथा तदीयेन भाष्यकारेण मन्त्रा­र्थ­वा­दा­दि­प्रा­मा­ण्य­मा­श्रित्य देहव्यतिरिक्त आत्मा कथं विचारितः । न च पूर्व­त­न्त्र­ग­त­दे­व­ता­धि­क­रणे सूत्र­का­र­भा­ष्य­का­राभ्यां मन्त्रा­दि­प्रा­माण्यं निराकृतमिति वाच्यम् । न हि तत्र मन्त्रा­दि­मा­त्रस्य प्रामा­ण्य­नि­रा­क­रणे तात्पर्यम्, किन्तु विरुद्धस्यैव “महान् इन्द्रो वज्रबाहुः” इत्या­दि­म­न्त्र­ब­लात् देवताया विग्रहवत्त्वे सति ऋत्वि­गा­दि­व­त्स­न्नि­धा­ने­नो­प­का­र­कत्वं स्यात् तच्चाऽ­नु­भ­व­वि­रु­द्ध­मिति निराक्रियते । अविरुद्धस्य तु मन्त्रादेः प्रामा­ण्य­म­ङ्गी­कृ­त­मेव अर्थ­वा­द­ग­त­लि­ङ्गा­ना­मपि तत्र तत्र द्वादशलक्षण्यां प्रमा­ण­त्वे­नो­दा­ह्रि­य­मा­ण­त्वात् । तदेवं मन्त्रा­दि­ब­ला­द्दे­हा­दि­व्य­ति­रि­क्त­मा­त्मा­न­म­व­गत्य विवेकिनः शास्त्रीयकर्मसु प्रवर्तन्ते इति न तद्व्यवहार आध्यासिकः ।

नैष दोषः । किं कर्मिणो मन्त्रा­र्थ­वा­दा­दि­ब­लाद् देह­व्य­ति­रि­क्त­म­ख­ण्डै­क­र­स­मा­त्मा­न­म­व­ग­च्छेयुः उत परलोकगामिनम् ? नाऽऽद्यः, तस्य वेदा­न्तै­क­वे­द्य­त्वात् । द्वितीयेऽपि पर­लो­क­गा­म्या­त्म­ज्ञाने सति किमध्यासमात्रं निवर्तत इति तवाऽभिप्राय उत स्थूलदेहाध्यासो निवर्तत इति । नाऽऽद्यः, सर्वगतस्य पर­लो­क­ग­म­ना­नु­प­प­त्ते­र­न्तः­क­र­णा­ध्यासो न निवर्तत इत्य­ङ्गी­का­र्य­त्वात् । न द्वितीयः, अप­रो­क्षा­ध्या­सस्य परो­क्ष­ज्ञा­न­मा­त्रेण निवृत्त्ययोगात् । ततो विवेकिनां शास्त्री­य­व्य­व­हा­रोऽ­प्या­ध्या­सिक एव ।

यद्ययं सर्वोऽपि व्यव­हा­रोऽ­ध्या­स­मू­ल­स्त­र्ह्या­त्मा­ना­त्मनोः कस्य कुत्राऽध्यास इति विशेषतो निरूपणीयम् इति चेत्, श्रूयतां तर्ह्यवधानेन । तत्र ताव­त्सा­क्षि­चै­त­न्येऽ­न्तः­क­र­णे­न्द्रि­य­दे­ह­त­द्बा­ह्य­वि­ष­या­स्त­द्ध­र्माश्च क्रमे­णाऽऽ­रो­प्यन्ते, तत्रापि पूर्व­पू­र्वा­ध्या­स­वि­शिष्टं चैत­न्य­मु­त्त­रो­त्त­रा­ध्या­सा­धि­ष्ठा­न­म­व­ग­न्त­व्यम् । न च आत्मनि बाह्य­वि­ष­या­ध्यासे विवदितव्यम्, पुत्रभार्यादिषु विकलेषु सकलेषु च सत्स्वहमेव विकलः सकलो वेति व्यवहारदर्शनात् । ननु नाऽऽयं मुख्यो व्यवहारः, असा­र्व­त्रि­क­त्वात् । न हि पुत्रे मृतपत्नीके सत्यहं मृतपत्नीक इति व्यवहारो दृश्यत इति चेद्, मैवम्; क्वचि­द­द­र्श­न­मा­त्रेण दृष्टस्थलेषु मुख्य­त्व­स्याऽ­नि­वा­र्य­त्वात् । न हि क्वचिच्छुक्तौ रजतव्यवहारो न दृष्ट इत्यन्यत्रापि रजतरूपेण भातायां शुक्तौ रजतव्यवहार औपचारिको भवति । अस्तु शुक्ति­र­ज­त­यो­स्ता­दा­त्म्य­प्र­ती­ते­र्मुख्य आरोपः । स्वदे­ह­पु­त्र­योस्तु भेद प्रतीतेः “सिंहो देवदत्तः” इतिवद्गौण एवैकत्वव्यवहार इति चेद्, न; वैषम्यात् । न हि सिंह­सु­ख­दुः­खाभ्यां देवदत्तः संस्पृश्यत इति तदे­क­त्व­व्य­व­हा­रिणो गौणी प्रतीतिः । अत्र तु पुत्र­सु­ख­दुः­खा­भ्या­म­ह­मेव संस्पृष्ट इति पिताऽभिमन्यते । अथाऽ­ति­स्ने­ह­व­शा­द­भि­मानो नाऽध्यासवशादिति मन्येथाः । तन्न, स्नेह­स्याऽ­प्या­ध्या­सि­क­त्वात् । अन्यथा तस्यैव पितुः पारिव्राज्यं प्राप्तस्य विवेकज्ञाने सति तेष्वेव पुत्रादिषु कथं न यथापूर्वं स्नेहो दृश्येत । नाऽपि वास्तवस्य स्नेहस्य विवे­क­ज्ञा­न­मा­त्रा­द­प­गमः सम्भवति । ज्ञान­म­ज्ञा­न­स्यैव निवर्तकमिति व्याप्ति­द­र्श­नात् । ननु यदि पुत्रादिषु स्नेहकृतोऽहमिति व्यवहार आध्यासिकः कथं तर्हि भाष्य­का­रे­णे­क्ष­त्य­धि­क­रणे राज्ञः सर्वा­र्था­का­रि­ण्य­ति­स्नि­ग्ध­भृत्ये “ममात्मा भद्रसेनः” इति व्यवहारो गौणत्वेनोदाहृतः । विषम उपन्यासः, न हि तत्र भद्र­से­न­स्व­रू­प­प्र­युक्तो राज्ञः स्नेहः विपरीतकारिणि तस्मिन्नेव द्वेषदर्शनात् । किं तर्हि तत्कृ­ते­ष्व­नु­कू­लेषु राजकार्येष्वेव स्नेहः । पुत्रेषु तु पितुर्निरुपाधिक एव स्नेहः । कार्याक्षमे विपरीतकारिणि वा स्नेहाऽनपायात् । अथापि न स्नेह आध्यासिकः, स्नेहपात्रेषु वस्त्रा­ल­ङ्का­रा­दि­ष्व­हं­बु­द्ध्य­भा­वा­दिति चेद्, न; तत्रापि मम­बु­द्धि­ल­क्ष­णा­ध्या­सस्य सत्त्वात् । अध्या­स­स्याऽ­ह­मिति ममेति चाऽऽकारद्वयं स्नेह­ता­र­त­म्या­दु­प­प­द्यते । तत्तारतम्यं च “तदेतत्प्रेयः पुत्रात्” इत्यस्याः श्रुते­र्व्या­ख्या­ना­व­सरे विश्व­रू­पा­चा­र्यै­र्द­र्शि­तम् ।
“वित्तात्पुत्रः प्रियः पुत्रात्पिण्डः पिण्डा­त्त­थे­न्द्रि­यम्।
इन्द्रियेभ्यः प्रियः प्राणः प्राणादात्मा परः प्रियः ॥” इति ।
अतः प्रियमात्रे वित्तादौ नियमेन ममेति सम्बन्धाध्यास एव भवति । प्रियतरे पुत्रे कदा­चि­दै­क्य­म­प्य­ध्य­स्यते । प्रियतमे देहे प्रचु­रै­क्या­ध्यासः । ततोऽपि प्रियतमे त्वन्तःकरणे नियत ऐक्याध्यासः । ननु पुत्रे चेदै­क्य­बु­द्धि­रा­ध्या­सिकी कथं तर्हि चतुः­सू­त्र्य­व­साने भाष्ये गौण­मि­थ्या­त्म­नोऽ­सत्त्वे पुत्र­दे­हा­दि­बा­ध­ना­दिति गौणात्मत्वेन पुत्र उदाहृतः । नाऽयं दोषः, देह­व­दै­क्या­ध्या­सस्य प्राचुर्यं नास्ती­त्ये­ता­व­न्मात्रं तत्र विवक्षितम्, न त्वात्मै­क्या­ध्यासः पुत्रे सर्वथा नास्तीति । अन्यथा कथम् “आत्मा वै पुत्रनामाऽसि” इति श्रुतिरुपपद्येत । इयं हि श्रुति­र्लो­क­सिद्धं पुत्र­ता­दा­त्म्या­ध्या­स­म­नु­व­दति । तस्मादस्त्येव पुत्रभार्यादिषु विषयेष्वध्यासः । अथ कथ­ञ्चि­त्पु­त्रा­दि­ता­दा­त्म्या­ध्या­सेऽपि विप्र­ति­प­द्ये­था­स्त­थापि तद्ध­र्मा­ध्या­सोऽ­ङ्गी­कार्य एव । स्तनन्धये पुत्रे वस्त्रा­ल­ङ्का­रा­दिना पूजिते सत्यहमेव पूजित इति पितु­र­भि­मा­न­द­र्श­नात् । तथाऽङ्गुल्या स्वदेहं प्रदर्श्य वचनेनाऽयमहमिति व्यवहारो देह­ता­दा­त्म्या­ध्या­स­मा­त्मनो गमयति । कृशोऽहं कृष्णोऽहमिति व्यवहारे देहधर्माणां कृश­त्वा­दी­ना­मा­त्म­न्य­ध्यासः प्रसिद्धः । मूकोऽहं वक्ताऽहमन्धोऽहं द्रष्टाऽ­ह­मि­ती­न्द्रि­य­धर्मा एवाऽऽ­त्म­न्य­ध्य­स्यन्ते । नह्यत्र धर्मि­णा­मि­न्द्रि­या­णा­म­ध्यासो घटते, नित्यानुमेयानां तेषा­म­प­रो­क्षा­ध्या­सा­यो­ग्य­त्वात् । अहं कामी कोपी­त्य­न्तः­क­र­ण­धर्मा आत्म­न्या­रो­प्यन्ते । न च कामादय आत्मन एव धर्मा नाऽन्तः­क­र­ण­स्येति वाच्यम्, सत्येवान्तःकरणे तेषां भावात् । आत्मो­पा­दा­न­क­त्वेऽपि कामा­दी­ना­म­न्तः­क­रणं निमित्तमिति तद­न्व­य­व्य­ति­रे­का­विति चेद्, न; निमि­त्त­स्याऽ­न्तः­क­र­ण­स्याऽ­पा­य­मा­त्रेण सुषुप्तौ कामा­द्य­पा­या­नु­प­पत्तेः । अन्तः­क­र­णा­त्म­सं­यो­ग­स्याऽ­स­म­वा­यि­का­र­ण­स्याऽ­पा­या­त्त­द­पाय इति चेद्, एव­म­प्य­न्तः­क­र­ण­स्यो­पा­दा­न­त्व­मेव कल्पनीयम्, अभ्यर्हितत्वात् । निमि­त्त­त्व­म­प्य­भ्य­र्हि­त­मेव, तदभावे कार्या­नु­त्पा­दा­दिति चेद्, न; चक्षुरादौ निमि­त्ता­न्त­र­स्याऽत्र सद्भावेन तस्याऽ­क­ल्प­नी­य­त्वात् । न चोपा­दा­ना­न्त­र­म­त्राऽस्ति, यैनोपादानत्वमपि न कल्प्येत । आत्मन उपादानत्वे त्वहं काम इति सामा­ना­धि­क­र­ण्य­प्र­त्ययः स्याद्, न तु दण्डी देवदत्त इतिवदहं कामीति सम्बन्धप्रत्ययः । अन्तः­क­र­ण­सा­मा­ना­धि­क­रण्यं तु कामादीनां “कामः सङ्कल्पः” इत्या­दि­श्रु­ति­सि­द्धम् । ततोऽ­न्तः­क­र­ण­धर्मा एव कामादय आत्म­न्या­रो­प्यन्ते, अन्तःकरणं च स्वसा­क्षि­ण्या­त्म­न्यै­क्ये­नाऽ­ध्य­स्यते । अन्यथा केव­ल­सा­क्षि­णोऽ­ह­मि­त्य­भि­मा­न­वि­शि­ष्ट­त्वेन प्रतीतिर्न स्यात् ।

ननु न साक्षि­वे­द्य­म­न्तः­क­र­णम्, किन्त्वा­त्मे­न्द्रि­य­वि­ष­येषु समवहितेषु दृश्यमानस्य ज्ञानो­त्प­त्ति­क्र­म­स्याऽ­न्य­था­नु­प­पत्त्या गम्यमिति चेद्, न; अन्य­थाऽ­प्यु­प­पत्तेः । आत्मन एव क्रमेण ज्ञान­ज­न­न­सा­म­र्थ्य­क­ल्प­नेऽ­प्यु­प­प­न्न­स्त­त्क्रमः । न चाऽवश्यं कस्य­चि­न्नि­या­म­कस्य कल्पनीयत्वे मन एव कल्प्यतामिति वाच्यम्, सिद्ध­स्यै­वाऽऽ­त्मनः साम­र्थ्य­मा­त्र­क­ल्प­नस्य साम­र्थ्यो­पे­त­द्र­व्या­न्त­र­क­ल्प­ना­ल्ल­घी­य­स्त्वात् ।

ननु तर्ह्यनुमानेन मनोऽवगम्यताम् – विमतः क्रमः कर्तुः क्रम­का­रि­सा­धा­र­ण­का­र­णा­पेक्षः, बहु­वि­ष­य­स­न्नि­धा­न­वतः कर्तुः कार्यो­त्पा­द­क्र­म­त्वाद्, बाहु­च्छे­द्य­स­न्नि­धा­न­वतो देवदत्तस्य कुठा­र­सा­पे­क्ष­च्छि­दि­क्रि­या­क्र­म­व­दिति । नैतत्सारम्, मनःकर्तृकेषु प्रती­न्द्रि­य­सं­यो­गेषु वर्तमाने क्रमेऽ­नै­का­न्त्यात् । न हि मनस इन्द्रियैः क्रमेण संयोगे किञ्चित्साधारणं कारणमस्ति । अदृष्टमेव तद्भविष्यतीति चेद्, एवमपि वृक्षात्पततः फल­स्याऽऽ­का­श­प्र­दे­श­सं­यो­ग­क्र­मेऽ­नै­का­न्त्यम् । तत्रापि गुरुत्वं साधारणं कारणमिति चेद्, एवं तर्हि चक्षुषः प्रति­वि­ष­य­सं­यो­गेषु वर्त्त­मा­न­क्र­मेऽ­नै­का­न्त्यात् । न चाऽदृ­ष्ट­म­त्राऽपि सममिति वाच्यम्, अदृ­ष्ट­व्य­ति­रि­क्त­स्यैव साधारणकारणस्य साध्यत्वेन विवक्षितत्वात् । एवं च सति प्रथमत उक्त­म­नै­का­न्ति­क­स्थ­ल­म­प्य­दु­ष्टम् । अथ मतम् – विमता विज्ञा­ना­दि­वि­शे­ष­गु­णो­त्पत्तिः स्वाश्रये द्रव्या­न्त­र­सं­यो­ग­ल­क्ष­णा­स­म­वा­यि­का­र­णा­पेक्षा, नित्य­द्र­व्य­वि­शे­ष­गु­णो­त्प­त्ति­त्वाद्, अग्नि­सं­यो­गा­पे­क्ष­प­र­मा­णु­ग­त­लौ­हि­त्यो­त्प­त्ति­वत् । तथा च द्रव्यान्तरं यत्तन्मन इति । नैत­द­प्यु­प­प­न्नम्, आत्मनः शरी­रे­न्द्रि­य­सं­यो­गोऽपि ज्ञाना­स­म­वा­यि­का­र­ण­मिति तत्र सिद्धसाधनत्वात् । स्वप्न­ज्ञा­न­प­क्षी­कारे मनःसिद्धिरिति चेद्, न; शरीरेणैव सिद्धसाधनत्वात् । न हि स्वप्नेऽ­प्या­त्मनः शरी­र­सं­यो­गोऽ­प­ग­च्छति । तर्ह्यस्तु प्रत्यक्षं मन इति चेद्, न; अणुपरिमाणत्वे मनसः पर­मा­णु­व­दि­न्द्रि­या­ग­म्य­त्वात् । अनन्तपरिमाणत्वे युग­प­त्स­र्व­ज­ग­द­व­भा­स­प्र­स­ङ्गात् । मध्य­म­प­रि­मा­ण­त्वेऽपि न तस्ये­न्द्रि­य­ग­म्य­त्वम्, स्वप्ना­व­स्था­या­मि­न्द्रि­या­भा­वेऽपि मनोदर्शनात् । न च मनसः प्रतीतिरेव नास्तीति वाच्यम्, मम मनोऽन्यत्र गतमित्यनुभवात् । ततः परिशेषान्मनसः साक्षिवेद्यत्वं सिद्धम् । स च साक्षी प्रत्य­गा­त्माऽ­ना­त्म­स्व­न्तः­क­र­णा­दि­ष्वै­क्ये­नाऽ­ध्य­स्यते, अहङ्कारादिषु चैतन्योपलम्भात् ।

नन्वा­त्मा­ना­त्म­नो­र­न्यो­न्या­ध्यासे द्वयो­र­प्य­ध्य­स्त­त्वेन मिथ्यात्वं स्यात् तथा द्वयो­र­प्य­धि­ष्ठा­न­त्वेन सामान्यावभास एव स्यान्न कस्यापि विशेषावभास इति चेद्, मैवम्; चिज्जडरूपेण द्वयो­र्वि­शे­षा­व­भा­स­स्ता­व­दि­त­रे­त­रा­ध्यासं गमयति । अध्यासे विशे­षा­व­भा­स­स्याऽ­ध्य­स्य­मा­न­ता­प्र­यु­क्त­त्वात् । एकतराध्यासे चैकस्यैव विशेषावभासः स्यात् । न च द्वयोरपि मिथ्यात्वापातः, चेतनस्याऽचेतने स्वरू­पा­ध्या­सा­भा­वा­त्सं­सृ­ष्ट­त­यै­वाऽ­ध्या­सात् । न च विशे­षा­व­भा­सा­द­धि­ष्ठा­न­त्व­वि­रोधः, अधिष्ठानधर्मतया विशेषाप्रतीतेः । देहस्य चेत­न­त्व­मा­त्म­नोऽ­चे­त­न­त्व­मिति वैपरीत्येन प्रतीतेः । न च वाच्यं द्वयो­र्वि­शे­षा­व­भासे सति नाध्यासः सम्भवति, सामा­ना­धि­क­र­ण्य­मस्ति चेद्गौणं तद्भविष्यतीति । न हि लौकिकाः अन्तः­क­र­णा­दा­वा­त्मनो गौणीं बुद्धि­म­भि­म­न्यन्ते, किन्तु मुख्यामेव । न हि दृष्टेऽनुपपन्नं नाम । नन्वा­दि­श­ब्दोऽ­नु­प­पन्नः । अन्तःकरणमात्रे शुद्ध­स्याऽऽ­त्म­नोऽ­ध्या­सात् । इन्द्रियादौ त्वध्य­स्ता­त्म­वि­शि­ष्ट­म­न्तः­क­र­ण­मेव सम्बन्ध्यत इति चेत्, सत्यमेवम् तथापि चैत­न्य­मे­वे­न्द्रि­या­द्य­व­च्छिन्नं प्रकाशते, नान्तःकरणमिति प्रति­भा­सा­भि­प्रा­ये­णा­दि­शब्द उक्तः । चैतन्यस्य देहे­न्द्रि­या­दा­व­नु­स्यू­त­त्वेन प्रतिभासादेव तत्र लौका­य­ता­दी­ना­मा­त्म­भ्रमः । अन्यथा चैत­न्या­ध्या­स­व­त्य­न्तः­क­रणे एव सर्वेषामपि वादि­ना­मा­त्म­त्व­भ्रमः स्यान्न तु देहादौ । तदि­त्थ­मा­त्मा­ना­त्म­नो­र­न्यो­न्या­ध्यासे लक्ष­ण­स­म्भा­व­ना­स­द्भा­व­प्र­मा­णै­रु­प­पा­दिते विवदितुं केनाऽपि न शक्यत इति सिद्धम् । ननु विमतं शास्त्रं सम्भा­वि­त­वि­ष­य­प्र­यो­ज­नम्, अध्या­सा­त्म­क­ब­न्ध­प्र­त्य­नी­क­त्वात्, जाग्रद्बोधवत्, इत्य­नु­मा­तु­म­ध्यासो भवता प्रसाधितः । तत्र प्रयोजनं नाम किं कर्तृ­त्व­भो­क्तृ­त्वा­द्य­न­र्थ­नि­वृत्तिः ? किं वाऽन­र्थ­हे­तो­र­वि­द्या­त­त्का­र्या­ध्या­सस्य निवृत्तिः ? नाऽऽद्यः; सति हेतौ निवृ­त्त­स्याऽ­न­र्थस्य पुन­र­प्यु­त्पत्तेः । न द्वितीयः; अनादेरध्यासस्य निवृत्त्ययोगात् । शास्त्र­प्रा­मा­ण्या­न्नि­वृ­त्ति­रिति चेद्, न; प्रत्य­क्ष­वि­रो­धात् । न हि देहादिभ्यो न्यायतो विवि­क्तेऽ­प्या­त्मनि अध्यासनिवृत्तिं पश्यामः । उच्यते – अनादेः प्रागभावस्य भव­न्म­त­सि­द्ध­सं­सा­र­हे­तो­र्नि­वृ­त्ति­रि­वाऽ­ध्या­स­स्याऽपि निवृत्तिः किं न स्यात् ? अध्यासो न निवर्तते, अना­दि­भा­व­रू­प­त्वा­दा­त्म­व­दिति चेद्, न; किं भावरूपत्वं नाम सत्यत्वम् उताऽ­भा­व­वै­ल­क्ष­ण्यम् ? आद्ये अनि­र्व­च­नी­य­वा­दिनां हेत्वसिद्धिः । न द्वितीयः; विमतो ज्ञाननिवर्त्यः, अज्ञा­ना­त्म­क­त्वात् रजताध्यासवत् । न च पूर्वानुमानेन बाधः, तस्यैवाऽनेन बाध्यत्वात् । यथा सामान्यशास्त्रं विशेषेण बाध्यते तथा सामान्यानुमानं विशेषानुमानेन किं न बाध्यते ? ननु निवृत्तिर्नाम स्वोपा­दा­न­ग­तो­त्त­रा­वस्था, घटस्य मृद्ग­त­क­पा­ल­रू­प­त्व­प्रा­प्ते­र्नि­वृ­त्ति­त्वाद्; न हि निरु­पा­दा­न­स्याऽ­वि­द्या­ध्या­सस्य सा सम्भवतीति चेद्, न; स्वाश्र­य­ग­तो­त्त­रा­व­स्थाया निवृत्तित्वात् । अन्यथा पर­मा­णु­ग­त­श्या­म­त्वा­दे­र­ना­दे­र­नि­वृ­त्ति­प्र­स­ङ्गात् । यद्यपि न्यायतो देहा­दि­व्य­ति­रि­क्ता­त्मनि विज्ञाते ताव­तै­वाऽ­ध्या­स­नि­वृ­त्तिर्न दृष्टा, तथापि तत्त्व­म­स्या­दि­वा­क्याद् ब्रह्म­रू­प­त्वा­व­ग­ता­व­वि­द्या­त­त्का­र्या­ध्या­सस्य विरोधिनो निवृ­त्ति­र्यु­ज्यते । विरुध्यते हि ब्रह्मविद्यया ब्रह्मा­व­र­णा­ज्ञानं तत्कार्यं च । देह­व्य­ति­रि­क्ता­त्म­ज्ञा­नेन तु देहात्मत्वं विरुध्यत इति तस्यैव तेन निवृत्तिः । यद्य­प्य­हं­प्र­त्यये भास­मा­न­श्चि­दात्मा ब्रह्मैव, तथापि ब्रह्माकारेण न भासत इति नाऽहंप्रत्ययो ब्रह्मविद्या । यौक्तिकज्ञानस्य कथञ्चिद् ब्रह्म­गो­च­र­त्वेऽ­प्य­प्र­मा­ण­त्वात् परोक्षत्वाद्वा नाऽप­रो­क्षा­ध्या­स­नि­व­र्त्त­क­त्वम् । ततो वेदा­न्त­वा­क्य­ज­न्य­ब्र­ह्मा­व­ग­मा­दे­वाऽ­ध्या­स­नि­वृत्तिः । ननु नाऽध्या­स­नि­वृ­त्ति­मात्रं शास्त्र­प्र­यो­ज­नम्, किन्त्वा­न­न्दा­वा­प्ति­र­पीति चेत्, सत्यम्; तथापि जीव­ब्र­ह्म­णो­रे­क­त्व­ल­क्षणे विषये निर्दिष्टे सति जीव­स्याऽऽ­न­न्दा­वा­प्ति­रपि विष­या­न्तः­पा­ति­तया साक्षाल्लभ्यते । “आनन्दो ब्रह्म” इति श्रुत्या ब्रह्मण एवाऽऽ­न­न्द­रू­प­त्वात् । प्रयोजनत्वं चाऽऽन­न्दा­वाप्तेः पुरु­षा­का­ङ्क्षा­वि­ष­य­त्वा­देव प्रसिद्धम्, अतो नाऽसौ प्रयोजनत्वेन पृथ­ङ्नि­र्दे­ष्टव्या । तर्ह्य­ध्या­स­नि­वृ­त्ति­रपि न पृथग् निर्देष्टव्या, शास्त्र­वि­ष­य­त्वात्, आन­न्दा­वा­प्ति­व­दिति चेद्, मैवम्; किमि­य­म­ध्या­स­नि­वृत्तिः शास्त्रस्य स्वातन्त्र्येण विषय उत ब्रह्मा­त्मै­क­त्व­ल­क्षणे विष­येऽ­न्त­र्भ­वि­ष्यति ? नाऽऽद्यः; ब्रह्मा­त्मै­क­त्व­स्यैव शास्त्र­प्र­ति­पा­द्य­त्वात् । “भूयश्चाऽन्ते विश्व­मा­या­नि­वृत्तिः” “भिद्यते हृदयग्रन्थिः” इत्ये­व­मा­दि­फ­ल­वाक्यैः स्वब्र­ह्मा­त्मै­क­त्वा­व­ग­ति­सा­म­र्थ्य­ल­भ्यै­वाऽ­ध्या­स­नि­वृ­त्ति­र­नू­द्यते । न द्वितीयः; ब्रह्मा­त्मै­क्य­प्र­ति­पा­द­कै­स्त­त्त्व­म­स्या­दि­वा­क्यै­र­ध्या­स­नि­वृ­त्ते­र­वि­ष­यी­कृ­त­त्वात् । ब्रह्म­ग­त­स­प्र­प­ञ्च­त्वस्य जीव­ग­ताऽ­वि­द्या­त­त्का­र्य­योश्च निवृत्तिमन्तरेण तत्त्व­म­स्या­दि­वा­क्यो­क्त­म­प्यैक्यं नोपपद्यत इति चेद्, आयातं तर्ह्यस्मदुक्तं साम­र्थ्य­ल­भ्य­त्व­म­वि­द्या­नि­वृत्तेः । तत्त्व­म­स्या­दि­म­हा­वा­क्ये­ष्व­ध्या­स­नि­वृ­त्ते­र­र्थ­ल­भ्य­त्वेऽ­प्य­स्थू­ल­म­न­ण्वि­त्य­वा­न्त­र­वा­क्येषु साक्षात् सा प्रतिपाद्यत इति चेत् ? मैवम्, नह्यत्र ब्रह्मा­त्म­सा­क्षा­त्का­रेण मोक्षावस्थायां निष्पत्स्यमाना बन्ध­नि­वृ­त्ति­र­स्थू­ला­दि­श­ब्दार्थः, किं तर्हि ? स्वतोऽसङ्गस्य ब्रह्मणः कालत्रयेऽपि स्वाभाविकं यन्नि­ष्प्र­प­ञ्च­स्व­रूपं तदे­वाऽ­स्थू­ला­दि­शब्दैः प्रतिपाद्यते । प्रतिपादिते हि तस्मि­न्प­श्चा­न्म­हा­वा­क्येन ब्रह्मात्मत्वं साक्षात्कर्तुं जीवः शक्नुयान्न पुनरन्यथा, ब्रह्म­प­दा­र्थ­स्या­लौ­कि­क­त्वात् । न च ब्रह्मणो निष्प्र­प­ञ्च­त्व­प्र­ति­पा­द­नेन सप्र­प­ञ्च­त्व­ग्रा­ह­क­प्र­मा­ण­वि­रोधः, तादृ­श­प्र­मा­ण­स्यै­वाऽ­भा­वात् । प्रत्यक्षादीनां प्रप­ञ्च­गो­च­र­त्वेऽपि ब्रह्मा­ग्रा­हि­त्वेन तदु­भ­य­स­म्ब­न्धा­बो­ध­क­त्वात् । “इदं सर्वं यदयमात्मा” इत्यादिवाक्यानि च न ब्रह्मणः सर्व­प्र­प­ञ्चा­त्मकं प्रतिपादयन्ति, सर्वोपादानतयैव तत्सिद्धेः; किं तर्ह्यन्यतः सिद्धमेव तदनूद्य निष्प्र­प­ञ्च­त्व­प्र­ति­पा­द­क­वा­क्या­पे­क्षि­त­नि­षे­ध्य­स­म­र्प­क­तया वाक्यैकवाक्यतां प्रतिपद्यन्ते । अन्यथा पुरु­षा­र्थ­भू­त­नि­ष्प्र­प­ञ्च­त्व­वि­रु­द्ध­म­पु­रु­षा­र्थ­भूतं सप्रपञ्चत्वं कथं प्रतिपादयेयुः । निष्प्र­प­ञ्च­स­प्र­प­ञ्च­त्वयोः पुरु­षा­र्थ­त्वा­पु­रु­षा­र्थत्वे सुषु­प्त­जा­ग­र­यो­र्दृष्टे श्रुतिसिद्धे च । न च सप्र­प­ञ्च­त्वा­नु­वा­देन निष्प्र­प­ञ्च­त्व­प्र­मि­ति­र्बा­ध्यते, अनु­वा­द­स्याऽ­नु­वा­द­त्वेन निष्प्र­प­ञ्च­प्र­मि­त्य­र्थ­तया चाऽत्र दुर्बलत्वात् । नन्वप्राप्तं प्रपञ्चं ब्रह्मणि सप्रपञ्चवाक्यैः प्रापय्य पुन­स्त­न्नि­षे­धोऽ­न­र्थक एव, प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमिति न्यायात् । नैष दोषः, अद्वि­ती­य­त्व­प्र­ति­पा­द­न­प­र­श्रु­त्यु­क्त­स­र्वो­पा­दा­न­त्व­सा­म­र्थ्या­देव प्राप्तः प्रपञ्चो यद्यनूद्य न निषिध्यते तदा नाऽद्वितीयत्वं ब्रह्मणः सिध्येत् । तच्च श्रुतसामर्थ्ये सप्रपञ्चत्वस्य प्रापकमेव न प्रमापकम्, साक्षा­न्नि­षे­ध­श्रुत्या विरोधे श्रुत­सा­म­र्थ्यस्य दौर्बल्यात् । दुर्बलस्याऽपि यावद्बाधं शुक्ति­र­ज­ता­दि­ज्ञा­न­वत् प्राप­क­त्व­म­वि­रु­द्धम् । अन्यथा बाधानुपपत्तेः । प्राप्तमेव हि सर्वत्र बलवत्प्रमाणेन बाध्यते नाऽप्राप्तं नाऽपि प्रमितम् । न च “सर्वं खल्विदं ब्रह्म” इत्या­द्यु­पा­स­ना­प्र­क­र­ण­प­ठि­त­वा­क्यानि सप्रपञ्चं ब्रह्म प्रमापयन्ति, अन्यपराणां तेषां तात्प­र्यो­पे­त­नि­ष्प्र­प­ञ्च­वा­क्य­बा­धि­त­त्वात् । आरो­पि­त­रू­पे­णाऽ­प्यु­पा­स­नो­प­पत्तेः । आरोपोऽपि नाऽत्य­न्त­म­प्रा­प्तस्य सम्भवतीति चेद्, न; सृष्टि­वा­क्यै­र­द्वि­ती­य­त्व­प्र­ति­प­त्तये निषेध्यसमर्पकैः प्रापितत्वात् । तस्मात् निष्प्र­प­ञ्च­ब्र­ह्म­प्र­मितौ न कश्चिद्विरोधः ।

तथापि तादृशं ब्रह्म कर्तृ­त्वा­दि­प्र­प­ञ्चो­पे­तस्य जीवस्य कथमात्मा स्यात् ? उच्यते – न तावज्जीवे कर्तृ­त्वा­दि­प्र­प­ञ्चोऽ­नु­मा­ना­दि­गम्यः; अपरोक्षत्वात् । नाऽपि चक्षुरादिगम्यः; जीवस्य बाह्ये­न्द्रि­या­वि­ष­य­त्वेन तन्नि­ष्ठ­क­र्तृ­त्वा­दे­रपि तथात्वात् । नाऽपि मनोगम्यः, प्रमाणाभावात् । अन्वयव्यतिरेकौ तु मनसः कर्तृ­त्वा­द्यु­पा­दा­न­त­याऽ­प्यु­प­पन्नौ, आत्मन एव कर्तृ­त्वा­द्यु­पा­दा­न­त्व­क­ल्प­नेऽपि मनसः कर्तृ­त्वा­दि­प्र­त्या­य­कत्वं नाऽन्व­य­व्य­ति­रे­क­सि­द्धम्, व्यतिरेकस्य सन्दिग्धत्वात् । यत्र मनो नाऽस्ति न तत्र कर्तृ­त्वा­दि­प्र­ति­भासो यथा सुषुप्ताविति हि व्यतिरेको वाच्यः, स च सन्दिग्धः, सुषुप्तौ कर्तृ­त्वा­दे­र­न­व­भासः किं मनसोऽसत्त्वात् किं वा स्वय­म­स­त्त्वा­दि­त्य­नि­र्ण­यात् । न चैवं कर्तृत्वादेः प्रत्यायकाभावः शङ्कनीयः, साक्षिणः प्रत्यायकत्वात् । यत्तु कर्तृ­त्व­भो­क्तृ­त्व­रा­ग­द्वे­ष­सु­ख­दुः­खा­द­योऽपि आत्मनि स्वयंप्रकाशा इति बौद्धा जर­त्प्रा­भा­क­राश्च कल्पयन्ति, न तद्युक्तम्; यदि कर्तृत्वादीनां द्रव्यत्वं तदा प्रत्येकं प्रका­श­गु­ण­क­ल्प­ना­दा­त्म­प्र­का­श­स्यैव तत्प्र­त्या­य­क­त्व­क­ल्पनं लघीयः । यदि च तेषां गुणत्वं तदा तेषु प्रकाशगुण एव न सम्भवति, गुणस्य गुणान्तराभावात् । कर्तृत्वादय एव प्रकाशरूपगुणा इति चेत्, तर्हि तेषा­मा­दि­त्या­दि­प्र­का­श­व­त्स्वा­श्र­यो­पा­धा­वु­त्प­त्तिर्न स्यात् । न च कर्तृत्वादेः स्वसत्तायां प्रका­श­व्य­ति­रे­का­भा­वेन स्वप्रकाशत्वं कल्पयितुं शक्यम्, नित्या­त्म­प्र­का­श­सं­स­र्गा­दपि तदुपपत्तेः । सन्तु तर्हि साक्षिवेद्या एव कर्तृ­त्वा­द­य­स्त­थापि ते सत्या इति चेद्, न; प्रमा­णा­प्र­मा­ण­सा­धा­र­णस्य साक्षिणो विष­य­स­त्य­त्व­मि­थ्या­त्व­यो­स्ता­ट­स्थ्यात् । तत्स­त्य­त्व­क­ल्पने चाऽस­ङ्ग­त्व­श्रु­ति­व्या­को­पात् । इन्द्रो मायाभिरिति सर्व­सं­सा­र­ध­र्माणां मिथ्या­त्व­श्र­व­णात् । तदेवम् “अस्थूलमनणु” “न जायते म्रियते” इत्या­द्य­वा­न्त­र­वा­क्यानि महा­वा­क्या­पे­क्षितौ वस्तुतो निष्प्रपञ्चौ चिन्मात्ररूपौ तत्त्वंपदार्थौ समर्पयन्ति, न त्वध्या­स­नि­वृत्तिं प्रतिपादयन्ति । ननु तर्ह्य­वा­न्त­र­वा­क्य­स­म­र्पितौ स्वाभा­वि­क­प्र­प­ञ्च­र­हितौ तत्त्वं­प­दा­र्था­वे­वो­प­जीव्य महा­वा­क्ये­नै­कत्वं प्रतिपाद्यत इत्य­ध्य­स­नि­वृ­त्ति­म­न्त­रे­णाऽ­नु­प­प­त्त्य­भा­वा­दा­र्थि­क­त्व­मपि तस्या अवि­द्या­नि­वृ­त्ते­स्त­त्प्र­ति­भा­सस्य च कथमिति चेद् ? उच्यते – एक­त्व­गो­च­र­स्त­त्त्व­बोधो विरो­धि­न­म­वि­द्या­त­त्का­र्या­ध्यासं निव­र्त­य­न्ने­वो­देति, शुक्ति­त­त्त्वा­व­बोधे तथादर्शनात् । नेदं रजतमिति निषेधकज्ञानं तत्राऽ­ध्या­स­नि­व­र्त­क­मिति चेद्, मैवम्; निषेधः परमार्थरजतगोचर इत्यख्यातिवादे प्रति­पा­दि­त­त्वात् । स च रजतनिषेधः पर­मा­र्थ­र­ज­ता­र्थिनः प्रवृ­त्त्या­का­ङ्क्षा­मु­च्छि­न्द­न्न­ध्या­स­बा­ध­क­त्वे­नो­प­च­र्यते । साक्षा­द­ध्या­स­बा­धस्तु शुक्ति­ज्ञा­ने­नै­वे­त्य­नि­र्व­च­नी­य­ख्यातौ बाध­वि­चा­रेऽ­भि­हि­तम् । न च वाच्यं शुक्तिज्ञानं शुक्ति­त­त्त्व­प्र­त्या­यन एव व्याप्रियते नाऽध्या­स­नि­वृ­त्ता­विति आर्थिकार्थस्य तत्र निरपेक्षत्वात् । तथाहि – लोके तुलया सुवर्णं सम्मिमानस्य सुवर्णकारस्य हस्तस्तुलाया उन्नमन एव प्रयतते । तत्रै­क­भा­ग­स्याऽ­व­न­मनं नाऽन्तरीयकं न तु तत्र हस्तः प्रयतते । शास्त्रेषु च नाऽन्त­री­य­क­सिद्धा अर्थाः प्रय­त्न­नि­र­पेक्षाः सर्वत्र प्रसिद्धाः ।

ननु यत्र वाक्या­द्बा­ध­स्तत्र नेदं रजमिति वाक्यस्य पर­मा­र्थ­र­ज­त­वि­ष­य­त्वा­च्छु­क्ति­के­य­मिति वाक्यस्य चाऽध्या­स­नि­रा­स­प्र­ति­पा­दने सामर्थ्याभावात् तन्नि­वृ­त्ति­प्र­ति­भासो नान्त­री­य­कोऽस्तु, यत्र पुनः प्रत्यक्षं बाधकं तत्र कथं नाऽन्त­री­य­क­त­याऽ­ध्या­स­नि­वृ­त्ति­प्र­ति­भास इति चेद्, उच्यते – न ताव­त्त­त्रा­रो­पि­त­र­ज­ता­भा­वोऽ­नु­प­ल­ब्धि­गम्यः, अपरोक्षत्वात् । आरोपितरजततदभावौ हि न सम्प्रयोगयोग्यौ । न हि प्रती­ति­मा­त्र­श­री­र­मा­रो­पितं रजतं प्रतीतेः पूर्वमस्ति, येनेन्द्रियं संयुज्येत । प्रतियोगिनो रज­त­स्ये­न्द्रि­य­स­म्प्र­यो­गा­भा­वा­देव तदभावोऽपि नेन्द्रियेण सम्बध्यते । ततो वाक्यबाधवत् प्रत्य­क्ष­बा­धेऽ­पी­न्द्रि­येण शुक्तितत्त्वे ज्ञायमाने नाऽन्त­री­य­क­त­यै­वाऽ­ध्या­स­नि­वृत्तिः प्रतीयते । एवञ्च जीव­ब्र­ह्म­णो­रे­कत्वे वाक्या­द­नु­भ­वाद्वा जायमाने सत्यविद्या तत्का­र्य­नि­वृ­त्ते­रा­र्थिक्याः साक्षा­च्छा­स्त्र­प्र­ति­पा­द्येऽ­न­न्त­र्भा­वात् प्रयोजनत्वेन विषयात् पृथग् निर्देशो युक्ततरः । यद्यपि विचारशास्त्रस्य वेदा­न्त­ग­स­न्दे­हा­प­गम एव साक्षा­त्प्र­यो­जनं वेदान्तारम्भस्य च ब्रह्म­वि­द्या­प्राप्तिः फलम्, तथाऽ­प्य­ध्या­स­नि­वृ­त्ते­र्वि­द्या­फ­ल­त्वेन पुरु­षा­का­ङ्क्षा­वि­ष­य­त्वेन च परम्परया शास्त्र­प्र­यो­ज­न­त्व­म­प्यु­प­प­न्नम् । ननु केयं ब्रह्मविद्यायाः प्राप्तिर्नाम या वेदा­न्ता­र­म्भ­फ­ल­त्वे­नो­प­व­र्ण्यते । सर्वत्र ह्यप्राप्तस्य स्वरूपेण निष्पन्नस्य गर्वादेः प्राप्तिर्भवति । न तु नित्यप्राप्तस्य स्वरूपस्य, नाऽप्य­नि­ष्प­न्नस्य नरविषाणादेः । विद्या तु ज्ञाता­र­मा­श्रित्य ज्ञेयं प्रकाशयन्त्येव निष्पद्यते तथैव प्रतीयते चेति स्वरूपतः प्रतीतितश्च नित्यप्राप्ताः तत्कथं तस्याः प्राप्तिः ?

उच्यते – प्रमा­ण­ज्ञा­नि­ता­न्तः­क­र­ण­वृ­त्ति­र्विद्या तया विषयनिश्चयः प्राप्तिशब्देन विवक्षितः । तत्र घटादिविद्यायाः स्वोत्प­त्ति­मा­त्रेण विष­य­नि­श्चा­य­क­त्वेऽपि न ब्रह्म­वि­द्या­या­स्तथा सहसा निश्चायकत्वम्, अस­म्भा­व­ना­वि­प­री­त­भा­व­ना­भ्या­म­भि­भू­त­वि­ष­य­त्वात् । तत्राऽसम्भावना नाम चित्तस्य प्रत्य­ग्ब्र­ह्मा­त्मै­क्य­प­रि­भा­व­ना­प्र­च­य­नि­मि­त्तै­का­ग्र्य­वृ­त्ति­यो­ग्य­तो­च्यते विपरीतभावनेति च शरी­रा­द्य­ध्या­स­सं­स्का­र­प्र­चयः । न चाऽप­रो­क्षा­व­भा­स­नि­मि­त्त­प्र­मा­ण­गृ­हीते वस्तु­न्यु­भ­य­वि­ध­चि­त्त­दो­षा­द­प­रो­क्षा­व­भा­स­नि­श्च­या­भावो न दृष्टचर इति वाच्यम्, वारा­ण­सी­प्र­दे­शा­दा­वा­र्द्र­म­रि­च­म­ञ्ज­र्या­दि­ष्व­त्य­न्ता­दृ­ष्ट­पू­र्वेषु दूरदेशात् समानीतेषु प्रत्यक्षेण दृश्य­मा­ने­ष्व­प्य­वि­श्वा­सेन झटिति निश्च­यो­त्पा­दा­द­र्श­नात् । अतः शास्त्र­प्र­मा­णा­दु­त्प­न्नाऽपि ब्रह्मविद्या चित्त­दो­ष­प्र­ति­बद्धा तर्कं सहायमपेक्ष्य पश्चाद्विषयं निश्चिनोति ।

तर्कस्य प्रमाणत्वे स्वत­न्त्र­त्वा­द­प्र­मा­णत्वे चाऽनु­प­का­रि­त्वान्न प्रमाणं प्रति सहकारित्वं सम्भवतीति चेद्, मैवम्; तर्क­स्या­प्र­मा­ण­भू­तस्य स्वातन्त्र्येण वस्त्व­नि­श्चा­य­क­त्वेऽपि नाऽत्य­न्त­म­नु­प­का­रि­कम्, प्रमा­ण­त­च्छ­क्ति­प्र­मे­याणां स्वरूपे सम्भ­वा­स­म्भ­व­प्र­त्य­य­रू­प­त्वात् । अत एव प्रमा­णा­ना­म­नु­ग्रा­ह­क­स्तर्क इति तर्कविदः । ननु प्रमाणस्य तर्कापेक्षया निश्चा­य­क­त्वेऽ­प­सि­द्धा­न्ता­पत्तिः । तथा हि – ज्ञानानां प्रामा­ण्य­म­प्रा­माण्यं च स्वत एवेति साङ्ख्याः । उभयमपि परत इति तार्किकाः । अप्रामाण्यमेव स्वत इति बौद्धाः । प्रामाण्यमेव स्वत इति वेदान्तिनः । न तावत् साङ्ख्यपक्षो युक्तः । तत्र किमेकस्यामेव ज्ञानव्यक्तौ प्रामा­ण्या­प्रा­मा­ण्ययोः समावेशोऽभिप्रेत उत व्यक्तिभेदेन तयोर्व्यवस्था । नाऽद्यः, विरोधात् । न द्वितीयः, अस्या व्यक्तेः प्रामा­ण्य­म­स्या­श्चाऽ­प्र­मा­ण्य­मिति व्यव­स्था­प­का­भा­वात् । ज्ञान­त्व­स्यो­भ­यत्र समत्वात् । अन्यस्य व्यवस्थापकस्य स्वत­स्त्व­वा­दि­नाऽ­न­ङ्गी­का­रात् । नाऽप्युभयं परतः । तदा ह्युत्प­न्न­मात्रं ज्ञानं प्रामा­ण्या­प्रा­मा­ण्य­र­हितं किञ्चित्कालं समवतिष्ठेत । न चैतल्लोके प्रसिद्धम् ।

अस्तु तर्हि बौद्धपक्षः –– अप्रामाण्यमेव स्वतः प्रामाण्यं परत इति । नाऽयमप्युपपन्नः । तत्र प्रामाण्यस्य परतस्त्वम् उत्पत्तौ ज्ञप्तौ वा ? नोत्पत्तौ तत्सम्भवति, चक्षु­रा­दि­का­र­णेभ्य उत्पन्नस्य ज्ञानस्य क्षणिकस्य स्वस्मिन् प्रामा­ण्य­ध­र्मो­त्प­त्ति­प­र्य­न्त­म­व­स्था­ना­स­म्भ­वात् । ननु ज्ञानकारणाद् ज्ञानोत्पत्तौ सत्यां पश्चा­त्त­त्का­र­ण­ग­त­गु­णा­त्त­स्मिन् ज्ञाने प्रामा­ण्यो­त्प­त्ति­रु­त्प­त्ति­प­र­त­स्त्वम्, तद्यदि न सम्भवेत् कथं तर्हि प्रामाण्यस्य गुणा­न्व­य­व्य­ति­रे­का­विति चेद्, न; प्रामा­ण्य­प्र­ति­ब­न्ध­कस्य दोषस्याऽभावं विष­यी­कृ­त्याऽ­व­स्था­नेऽपि तयोरुपपत्तेः । न च गुणा­न्व­य­व्य­ति­रे­क­यो­र्दो­षा­भा­व­वि­ष­यत्वे वैयधिकरण्यं शङ्कनीयम्, दोषाभावस्यैव गुणत्वात् । नहीन्द्रियादिषु दोषा­भा­व­व्य­ति­रे­केण गुणो दृश्यते । अथ यः कश्चिद्गुणः स्यात् तदापि दोष­नि­वृ­त्ति­हे­तो­स्तस्य गुणस्य दोषाभावेनैव साक्षा­द­न्व­य­व्य­ति­रेकौ निवृत्ते तु दोषे प्रामाण्यं निष्प्रतिबन्धं सिध्यतीति प्रामाण्येनाऽपि सह गुणस्य दोषा­भा­व­द्वा­राऽ­न्व­य­व्य­ति­रेकौ प्रतीयेते, न तु तत्र साक्षात्तौ विद्येते । अस्तु तर्हि प्रतिबन्धकस्य दोषस्याऽभाव एव प्रामाण्यकारणं साक्षा­द­न्व­य­व्य­ति­रे­क­व­त्त्वा­दिति चेद्, न; तथा सति दोषस्य प्रति­ब­न्ध­क­त्वा­स­म्भ­वात् । सत्येव पुष्कलकारणे कार्यो­त्पा­द­वि­रो­धि­तया प्राप्तं हि प्रतिबन्धकम् । न हि दोषाभावे सति दोषः प्राप्नोति । अतो नोत्पत्तौ परतस्त्वम् । ज्ञप्तिरपि प्रामाण्यस्य कथं परतः स्यात् ? प्रामाण्यं नाम ज्ञान­स्या­र्थ­प­रि­च्छे­द­सा­म­र्थ्यम्, तत्किं गुण­ज­न्य­त्व­ज्ञा­ना­द­व­ग­म्यते अर्थ­क्रि­या­सं­वा­द­ज्ञा­नाद्वा ? नाऽऽद्यः, घटे ज्ञायमानेऽपि तस्य ज्ञानस्य गुणजन्यत्वं यावन्न ज्ञायते तावद् घट­प­रि­च्छे­द­सा­म­र्थ्या­प्र­तीतौ घट­व्य­व­हा­रा­नु­द­य­प्र­स­ङ्गात् । अस्तु गुण­ज­न्य­त्व­ज्ञाने सति पश्चाद् व्यवहार इति चेद्, न; घटज्ञानवद् गुण­ज­न्य­त्व­ज्ञा­न­स्याऽपि स्वप्रा­मा­ण्य­नि­श्चा­य­क­ज्ञा­ना­न्त­रात् प्राग­कि­ञ्चि­त्क­रत्वे सत्य­न­व­स्था­प्र­स­ङ्गात् । द्वितीयेऽप्ययं न्यायस्तुल्यः । अथ मतम् – साध­न­भू­त­भो­ज­ना­दि­ज्ञा­नानां तृप्त्या­द्य­र्थ­क्रि­या­सं­वा­द­ज्ञा­नात् प्रामाण्यावगमः, फल­भू­त­तृ­प्त्या­दि­ज्ञा­नानां तु स्वत एव तदवगमः; अर्थः क्रिया­न्त­रा­भा­वात्, ततो नाऽनवस्थेति । तदसत्, विमतं साधनज्ञानं स्वत एव प्रमाणम्, ज्ञानत्वात्, फलज्ञानवत् । विपक्षे चाऽन्यो­न्या­श्र­य­प्र­सङ्गो बाधः। प्रवृ­त्त­स्याऽ­र्थ­क्रि­या­सं­वा­द­ज्ञा­नात् प्रामा­ण्य­नि­श्चयः प्रामा­ण्य­नि­श्चये च प्रवृत्तिरिति । अनिश्चिते एव प्रामाण्ये तन्निश्चयाय प्रवृ­त्त्यु­प­प­त्ते­र्नाऽ­न्यो­न्या­श्र­य­तेति चेत्, सति सन्देहे तथाऽस्तु । अस­न्दि­ग्धा­र्थे­ष्व­भ्य­स्त­घ­टा­दि­वि­ष­य­ज्ञा­नेषु कथं प्रामा­ण्य­नि­श्च­याय प्रवृत्तिः स्यात् । ननु सुव­र्ण­प­री­क्षायां निरी­क्ष­ण­नि­क­र्ष­ण­दा­ह­च्छे­द­रू­पात् प्रत्य­य­च­तु­ष्ट­या­द­र्थ­नि­श्चयः, न प्रथ­म­प्र­त्य­य­मा­त्रात्, ततः परतः प्रामा­ण्य­म­नि­वा­र्य­मिति चेद्, न; तत्र हि द्वितीयादि ज्ञानानि प्रथ­म­ज्ञा­न­प्रा­मा­ण्य­प्र­ति­ब­न्ध­क­सं­श­या­दि­नि­रा­सीनि, न तु तत् प्रामा­ण्य­नि­श्चा­य­कानि । तस्मात् प्रामा­ण्य­स्यो­त्पत्तौ ज्ञप्तौ च ज्ञानो­त्पा­द­क­ज्ञा­प­का­ति­रि­क्ता­न­पे­क्ष­त्व­ल­क्षणं स्वत­स्त्व­म­भ्यु­पे­यम् । अप्रामाण्यस्य तु ज्ञान­का­र­ण­ग­त­दो­षा­दु­त्प­त्ति­र्बा­धाच्च ज्ञप्तिरिति परतस्त्वम् ।

अप्रामाण्यं परतो नोत्पद्यते, प्रामा­ण्या­भा­व­त्वात्, प्रामा­ण्य­प्रा­ग­भा­व­व­दिति चेद्, न; हेत्वसिद्धेः । अप्रामाण्यं नामाऽ­ज्ञा­न­सं­श­य­वि­प­र्ययाः । तदुक्तं भट्टपादैः –– “अप्रामाण्यं त्रिधा भिन्नं मिथ्या­त्वा­ज्ञा­न­सं­शयैः ।” इति । अज्ञानशब्देन चाऽत्र वस्त्व­न्त­र­ज्ञानं विवक्षितम्, “विज्ञानं वाऽन्यवस्तुनि” इति तैरेवोक्तत्वात् । ततस्तत्र त्रयाणामपि नाऽभाववत्वम् ।स्वतः प्रामा­ण्य­स्याऽपि दोष­ब­ला­द­प्रा­मा­ण्य­म­वि­रु­द्धम्, स्वत उष्ण­स्याऽ­प्य­ग्ने­र्म­न्त्रा­दिना प्रतिबन्धे शैत्यदर्शनात् ।

यदि कथ­ञ्चि­द­प्रा­मा­ण्यस्य स्वत­स्त्व­मा­श­ङ्के­था­स्त­दा­नी­म­प्र­मा­ण­ज्ञा­ना­दपि याव­द्दो­षा­धि­ग­म­मु­त्प­द्य­मानं व्यवहारं कथं समर्थयेथाः ? तस्मात् प्रामाण्यमेव स्वतः इति स्थितम् । तथा च सति ब्रह्म­वि­द्या­या­स्त­र्का­पे­क्षत्वे कथं नाऽपसिद्धान्तः ? नैष दोषः, तर्कस्य प्रति­ब­न्ध­नि­रा­क­र­ण­मा­त्र­हे­तु­त्वात् । यद्यपि ब्रह्म स्वप्रकाशं शब्दश्च तत्राऽ­प­रो­क्ष­ज्ञा­न­ज­नने समर्थस्तथापि दुरि­तै­श्चि­त्त­कृ­त­वि­प­री­त­प्र­वृ­त्ते­र्वि­ष­या­स­म्भा­व­नया देहे­न्द्रि­या­दि­वि­प­री­त­भा­व­नया च प्रतिबन्धः सम्भवति, ततो निश्च­लोऽ­प­रो­क्षोऽ­नु­भवो न जायते । तत्राऽऽ­श्र­य­म­ध­र्मा­नु­ष्ठा­नाद् दुरितापगमः । शमा­दि­से­व­ना­च्चि­त्तस्य विप­री­त­प्र­वृ­त्तयो निरुध्यन्ते । मननात्मकेन तर्केण जीव­ब्र­ह्मै­क्य­ल­क्ष­णस्य विष­य­स्याऽ­स­म्भा­वना निरस्यते । निदिध्यासनेन विपरीतभावनां तिरस्कृर्वती सूक्ष्मा­र्थ­नि­र्धा­र­ण­स­मर्था चित्त­वृ­त्ते­रे­का­ग्रता सम्पद्यते । ततः शब्द­ज­नि­त­म­प­रोक्षं ज्ञानं निश्चलं प्रतितिष्ठति । वेदान्तशब्दस्य च ब्रह्मा­प­रो­क्षा­व­ग­ति­हे­तुत्वं “तं त्वौपनिषदं पुरुषं पृच्छामि” इति तद्धितप्रत्ययेन दर्शितम् । उपनिषत्स्वेव सम्यगवगतः पुरुष इति तद्धि­त­प्र­त्य­यार्थः । न ह्यपरोक्षे ब्रह्मणि परोक्षज्ञानं सम्भवति । ततः प्रथमत एव शब्दा­दु­त्प­न्न­म­प­रो­क्ष­ज्ञानं प्रतिबन्धापाये पश्चान्निश्चलं भवति । अथवा यथा सम्प्र­यो­गोऽ­भि­ज्ञा­न­मु­त्पाद्य पुनः पूर्वा­नु­भ­व­सं­स्का­रा­पे­क्षया प्रत्य­भि­ज्ञा­न­मु­त्पा­द­यति तथा शब्द एव प्रथमं ब्रह्मणि परो­क्ष­ज्ञा­न­मु­त्पाद्य पुन­र्व­र्णि­त­प्र­ति­ब­न्ध­क्ष­या­पे­क्षया द्विती­य­म­प­रो­क्ष­ज्ञा­न­मु­त्पा­द­यति । न च स्वयंप्रकाशे ब्रह्मणि परोक्षज्ञानं विभ्रमः, स्वयंप्रकाशेऽपि पुरु­षा­न्त­र­सं­वे­दने परो­क्षा­नु­मा­न­द­र्श­नात् । एवं सति शब्दात् प्रथममपरोक्षं परोक्षं वा ब्रह्मज्ञानं जातमपि तावतैव निश्च­ला­प­रो­क्षा­नु­भ­व­रू­पेण प्रतिष्ठाया अभा­वा­द­प्रा­प्त­मिव भवति । मन­न­नि­दि­ध्या­स­नयोः कृतयोः फलरूपेण प्रति­ष्ठि­त­त्वाद् ब्रह्मविद्या प्राप्तेति व्यपदिश्यते ।

नन्वेवं सति निदि­ध्या­स­ना­न­न्त­र­मेव फलो­द­य­द­र्श­ना­त्त­स्यै­वाऽ­ङ्गित्वं श्रवणमननयोस्तु तदु­प­का­रि­त­याऽ­ङ्गत्वं प्राप्तमिति चेद्, मैवम्; निदि­ध्या­स­न­स्याऽ­नु­भ­वो­त्पत्तौ करणत्वायोगात् । न हि निदिध्यासनं नाम किञ्चि­त्प्र­मा­णम्, येनाऽनुभवजनने स्वयं कारणं स्यात् । श्रवणं तु शब्द­श­क्ति­ता­त्प­र्या­व­धा­र­ण­रूपं सत्क­र­ण­भू­त­श­ब्दा­ति­श­य­हे­तु­त्वात् करणमिति कृत्वा श्रव­ण­स्यै­वाऽ­ङ्गि­त्व­मु­चि­तम् । प्रब­ल­प्र­ति­ब­न्ध­नि­वा­र­क­यो­र्म­न­न­नि­दि­ध्या­स­नयोः सह­का­रि­भू­त­चि­त्ता­ति­श­य­हे­तु­त्वात् फलो­प­का­र्य­ङ्ग­त्वम् । मननं हि विष­य­ग­ताऽ­स­म्भा­वनां निराकृत्य चित्ते संशयमपनयति । निदिध्यासनं च विपरीतभावनां निराकृत्य चित्त­वृ­त्ते­रै­काग्र्यं जनयति । शमादीनां यज्ञादीनां चाऽऽरा­दु­प­का­र­क­त्वा­दिति कर्त्त­व्य­ता­रू­प­त्वम्, तत्राऽ­प्य­न्त­रङ्गाः शमादयः श्रव­णा­धि­का­र­प्र­ति­ब­न्ध­कस्य चित्ते­न्द्रि­य­ग­त­वि­प­री­त­प्र­वृ­त्त्या­ख्यस्य दृष्टदोषस्य निवारकत्वात् । यज्ञा­द­य­श्चाऽ­दृ­ष्ट­दो­षस्य निवारकतया बहिरङ्गाः । अत इतिकर्त्तव्यतया फलो­प­का­र्य­ङ्गाभ्यां चोपकृतमङ्गिभूतं श्रवणमेव निश्च­ला­प­रो­क्षा­नु­भ­व­ज­न­कम् । यत्तु श्रव­ण­मा­पा­ति­क­म­ङ्गा­नु­ष्ठा­नात् प्राक्प­रो­क्ष­ज्ञा­न­म­प्र­ति­ष्ठि­ता­प­रो­क्ष­ज्ञानं वा जनयति । तस्य निदि­ध्या­स­ना­ङ्ग­त्वेऽपि न नः किञ्चिद्धीयते, संसा­र­नि­व­र्त­क­ब्र­ह्म­त­त्त्वा­प­रो­क्ष­ज्ञा­न­ज­न­क­श्र­व­ण­स्यै­वाऽ­ङ्गि­त्वा­ङ्गी­का­रात् । ब्रह्मज्ञानं न संसारनिवर्तकम्, सत्यपि तस्मिन् संसारदर्शनादिति चेद्, न; तत्त्वा­प­रो­क्षाद् समू­ला­ध्या­स­नि­वृ­त्ते­र­न्व­य­व्य­ति­रे­क­शा­स्त्र­सि­द्ध­त्वात् । अध्या­स­वि­रो­धि­दे­ह­व्य­ति­रे­का­व­ग­म­व­त्त­त्त्वा­व­बो­धोऽ­ध्या­स­वि­रु­द्धोऽपि न तमपनयेदिति चेद्, न; वैषम्यात् । तत्त्वज्ञानं हि मूला­ज्ञा­न­वि­रोधि, न तु तथा देह­व्य­ति­रे­क­ज्ञा­नम् । तर्हि तत्त्व­ज्ञा­ना­न्मू­ला­ज्ञा­न­नि­वृत्तौ सद्यः शरीरपातः स्यादिति चेद्, न; अज्ञा­न­त­त्का­र्य­सं­स्का­रा­दपि शरी­रा­द्य­नु­वृ­त्ति­स­म्भ­वात् । चक्र­भ्र­म­णा­दि­क्रि­यायां ज्ञाने च संस्कारः प्रसिद्धो नान्यत्रेति चेद्, न; गन्धादौ संस्कारदर्शनात् । निःसारितपुष्पे पुष्पपात्रे स्थिताः सूक्ष्माः पुष्पावयवा एव गन्धबुद्धिम् उत्पादयन्ति न संस्कार इति चेत्, तथापि प्रलयावस्थायां सर्व­का­र्य­सं­स्का­रोऽ­भ्यु­प­गम्य एव । ये तु नाऽभ्यु­प­ग­च्छन्ति, तान् प्रत्य­नु­मा­त­व्यम् – विमतः कार्यविनाशः संस्का­र­व्याप्तः, संस्का­र­वि­ना­शा­द­न्यत्वे सति विनाशत्वाद्, ज्ञानविनाशवदिति । क्रिया­ज्ञा­न­यो­रेव संस्कार इति प्रसिद्ध्या बाध इति चेत्, तर्ह्य­वि­द्या­त­त्का­र्य­यो­रपि भ्रान्ति­ज्ञा­न­रू­प­त्वात् संस्का­र­हे­तु­त्व­मस्तु । अविद्यादि साक्षिचैतन्यस्य नित्यत्वेऽपि तद­व­च्छे­द­क­ज्ञा­ना­भा­स­रू­प­वृ­त्ते­र­नि­त्य­त्वात् संस्कारः सिध्येत्, तथापि स्मृति­मा­त्र­का­र­णात् संस्कारात् कथ­म­प­रो­क्ष­द्वै­ता­व­भास इति चेत्, प्रप­ञ्चा­प­रो­क्ष­का­र­ण­चै­त­न्या­श्रि­त­दो­ष­त्वात् संस्कारस्येति वदामः । अप­रो­क्ष­का­र­ण­ने­त्रा­दि­ग­त­का­चा­दि­दो­षा­णा­म­प­रो­क्ष­भ्र­म­हे­तु­त्वात् । न च केवलस्य चैतन्यस्य न संस्का­रा­श्र­य­त्व­स­म्भव इति वाच्यम्, अवि­द्या­श्र­य­त्व­व­दु­प­पत्तेः । संस्कारस्य कार्यत्वेऽपि प्रध्वं­स­व­न्नो­पा­दा­ना­पेक्षा, अवि­द्या­सं­स्का­र­व्य­ति­रि­क्त­भा­व­रू­प­का­र्या­णा­मे­वो­पा­दा­न­ज­न्य­त्वात् । अत एवाऽन्यत्र संस्कारस्य स्वोपा­दा­ना­श्र­य­त्व­नि­य­मेऽ­प्य­त्राऽ­नु­पा­दा­न­चै­त­न्या­श्रि­त­त्व­मु­प­प­द्यते । न च संस्का­रा­ङ्गी­कारे विदे­ह­मु­क्त्य­भावः, प्रार­ब्ध­क­र्म­णोऽन्ते तत्त्व­ज्ञा­ना­नु­स­न्धा­ना­देव संस्कारनिवृत्तौ तत्सिद्धेः ।

अथ मन्यसे – अविद्याया निवृत्तत्वात् संस्कारस्य चाऽनु­पा­दा­न­त्वा­न्नि­रु­पा­दानो देहेन्द्रियादिः कथं सिद्ध्येदिति ? तर्हि तत्त्व­सा­क्षा­त्कारे जातेऽ­प्या­प्रा­र­ब्ध­क्ष­य­म­वि­द्या­ले­शा­नु­वृत्त्या जीव­न्मु­क्ति­रस्तु । प्रतिबन्धकस्य प्रारब्धकर्मणः क्षये तत्त्व­ज्ञा­ना­द­वि­द्या­ले­शोऽपि निवर्तते, अतः सर्व­सं­सा­र­नि­व­र्त­क­ब्र­ह्मा­त्मै­क­त्व­वि­द्या­प्रा­प्तये सर्व­वे­दा­न्ता­रम्भः । यद्यपि केषु­चि­द्वे­दा­न्तेषु सगुणोपासनानि विधीयन्ते, तथापि तेषां गोदोहनादिवत् प्रास­ङ्गि­क­त्वा­दु­पा­स­न­क­र्म­भूतं निर्विशेषं ब्रह्मैव तत्राऽपि प्रतिपाद्यम् । उपास्यत्वेन विधीयमाना गुणा अप्य­ध्या­रो­पा­प­वा­द­न्या­येन निर्वि­शे­ष­ब्र­ह्म­प्र­ति­प­त्ता­वु­प­यु­ज्यन्ते । अपवादात् प्राग­व­स्था­या­मा­रो­पि­तै­स्तै­स्तै­र्गु­णै­र्वि­शिष्टं ब्रह्म तस्मै तस्मै फलायोपास्यत्वेन विधातुं शक्यम् । ननु यदि मुमु­क्षु­णाऽ­व­ग­न्तव्यं ब्रह्मस्वरूपं बोध­यि­तु­मा­रो­पि­त­गु­ण­प्र­प­ञ्च­मा­श्रि­त्यो­पा­स­ना­वि­धि­स्तदा मोक्षेऽ­धि­कृ­त­स्यै­वो­पा­स­ना­धि­कारः स्यात् । यथा दर्शपूर्णमासयोः “चमसेनाऽपः प्रणयेत्” इति वाक्यात् प्राप्त­म­पा­म्प्र­ण­य­न­मा­श्रित्य “गोदोहनेन पशुकामस्य” इति विधीयमाने गोदोहने दर्श­पू­र्ण­मा­सा­धि­का­रिण एवाऽ­धि­का­र­स्त­द्वत् । नैष दोषः, तत्र हि दर्श­पू­र्ण­मा­सा­धि­का­रिण एवाऽ­प्प्र­ण­य­न­प्राप्तिः, तत्प्राप्तिमत एव पशुकामनायां गोदो­ह­न­वि­धि­रि­त्य­धि­कृ­ता­धि­का­रता स्यात् । इह तु शब्दा­दा­रो­पि­त­प्र­प­ञ्च­प्र­ति­प­त्ति­र­मु­मु­क्षू­णा­म­प्य­स्ती­त्या­श्रित्य विधानेऽपि नाऽधि­कृ­ता­धि­का­रता । ननु सगु­ण­ब्र­ह्मो­पा­स­ना­वि­धा­य­कानां वेदान्तानां ब्रह्म­प्र­ति­प­त्ति­प­र­त्वेऽपि न प्राणा­द्यु­पा­स­न­वि­धा­य­कानां तदस्तीति चेत्, न; तेषामपि अन्तः­क­र­ण­शु­द्धि­द्वा­रेण तत्रैव पर्य्यवसानाद् । तस्मात् सर्वेषामपि वेदान्तानां ब्रह्मैव विष­य­स्त­द्वि­द्या­प्रा­प्त्याऽ­न­र्थ­नि­वृत्तिः प्रयोजनम्, तत­स्त­द्वि­चा­र­शा­स्त्र­स्याऽपि ते एव विषयप्रयोजने इत्यवगन्तव्यम् ।

ननु विचा­र­क­र्त­व्य­ता­मात्रं प्रथ­म­सू­त्र­स्याऽर्थः, तत्राऽसूत्रिते विषयप्रयोजने वेदा­न्त­वि­चा­र­स­म्ब­न्धि­तया किमिति उपपाद्येते ? इति चेत्, उच्येते एवाऽर्थतो विषयप्रयोजने । तथा हि – इष्टसाधनतैव विधायकानां लिड्-लो­ट्-त­व्य-प्र­त्य­या­ना­मर्थ इति ताव­दु­त्त­र­त्राऽ­भि­धा­स्यते । मोक्षकामेन ब्रह्मज्ञानाय वेदान्ता विचारयितव्या इत्यस्मिन् सूत्रवाक्ये तव्यप्रत्ययेन धात्वर्थस्य विचारस्य सामा­न्ये­ने­ष्ट­सा­ध­नता बोध्यते । तत्र किं तदिष्टमिति विशेषाकारेण फलजिज्ञासायां स्वर्गा­दि­व­द­धि­का­रि­वि­शे­ष­ण­तया मोक्ष एव विचा­र­फ­ल­त्वे­नाऽ­व­ग­म्यते । ब्रह्मज्ञानं तु धात्व­र्थ­वि­चा­र­सा­ध्य­त्वात् फली­भू­त­मो­क्ष­सा­ध­न­त्वाच्च अपू­र्व­व­द­वा­न्त­र­व्या­पा­र­रूपं भविष्यति ।

ननु नेष्टसाधनता लिङा­दि­प्र­त्य­यार्थः, किन्तु नियोगो मानान्तरागम्यः, स च धात्वर्थेषु नियोज्यं नियुञ्जानः साम­र्थ्या­द्धा­त्व­र्थेऽस्य फलसाधनत्वं कल्पयतीति । नैतत्सारम्, अनु­प­प­त्त्य­भा­वात् । किं धात्वर्थस्य फल­सा­ध­न­त्व­म­न्त­रेण नियोगस्य स्वरू­प­म­नु­प­प­न्न­मुत तत्प्र­व­र्त­क­त्व­म­नु­प­प­न्नम् ? नाऽऽद्यः असत्यपि फले नित्य-नै­मि­त्ति­क-नि­यो­ग­स्व­रू­पस्य सत्त्वात् । द्वितीयेऽपि किं नियोगः फलकामनामपेक्ष्य प्रवर्तकः उत स्वयमेव प्रवर्तकः ? आद्ये फलकामनैव प्रवर्तयतु किं नियोगेन ? प्रत्यक्षादिषु फलकामनायाः प्रवर्तने स्वात­न्त्र्य­द­र्श­नात् । द्वितीये नदी­वे­गा­दि­व­न्नि­योगः फलकामनायाः प्रवर्तने स्वात­न्त्र्य­द­र्श­नात् । द्वितीये नदी­वे­गा­दि­व­न्नि­योगः फलकामनारहितमपि पुरुषं बलात् प्रवर्तयेत् । तथा च तत्प्रवर्तकत्वं धात्वर्थस्य फल­सा­ध­न­त्वा­भा­वेऽपि उपपन्नम् । अन्यथा नदीवेगोऽपि फलसाधने प्रवर्तयेत् । नियोगमात्रस्य धात्व­र्थ­फ­ल­स­म्ब­न्धा­क­ल्प­क­त्वेऽपि फलकामिना प्रमीयमाणो नियो­ग­स्त­त्क­ल्पकः इति चेत्, न; अत्रापि तयोः सम्ब­न्ध­म­न्त­रे­णाऽ­नु­प­प­त्त्य­भा­वात् । न तावत् काम्यफलस्य धात्व­र्थ­सा­ध्य­त्व­म­न्त­रे­णाऽ­धि­का­रि­वि­शे­ष­ण­त्व­म­नु­प­प­न्नम् ? जीव­ना­दी­ना­म­सा­ध्या­ना­मपि “यावज्जीवं जुहुयात्” इत्या­दि­ष्व­धि­का­रि­वि­शे­ष­ण­त्व­द­र्श­नात् । असा­ध्य­स्व­भा­वानां तथात्वेऽपि साध्यस्वभावस्य फल­स्याऽ­धि­का­रि­वि­शे­ष­णत्वं धात्व­र्थ­सा­ध्य­तया विनाऽ­नु­प­प­न्न­मिति चेत्, न; किं साध्य­स्व­भा­व­स्ये­त्यत्र साध्यशब्देन धात्व­र्थ­सा­ध्यत्वं विवक्षितम् उत साध्यत्वमात्रम् ? आद्ये कल्प्य­क­ल्प­क­यो­र­भे­दात् आत्मा­श्र­या­पत्तिः । द्वितीयेऽपि किं स्वर्गस्य साध्यत्वं शब्दात् प्रतीयते उत अर्थात् ? नाऽऽद्यः, वाचकपदाभावात् । न द्वितीयः, कल्पकाभावात् । न हि स्वर्गस्य साध्यत्वमन्तरेण किञ्चिदनुपपन्नं पश्यामः । स्वर्गस्य साध्यत्वाभावे कामि­यो­गोऽ­नु­प­पन्न इति चेत्, एवमपि नाऽस्याऽ­धि­का­रि­वि­शे­ष­ण­त्वम्, यद्बलात् धात्वर्थस्य साध्यता कल्प्येत । यथा “शुष्कदण्डी देवदत्तः” इत्यत्र दण्ड एव देव­द­त्त­वि­शे­ष­णम्, शुष्कत्वं दण्डविशेषणम्, तथा “स्वर्ग­का­मोऽ­धि­कारी” इत्यत्राऽपि काम­नै­वाऽ­धि­का­रि­वि­शे­ष­णम्, स्वर्गः कामनायाः विशेषणम्, कामनाद्वारा स्वर्ग­स्याऽ­धि­का­रि­वि­शे­ष­णत्वं स्यादिति चेत्, तथापि न तस्य धात्वर्थसाध्यता सिद्ध्यति, “अध्येतुकामो भैक्ष्यं चरेत्” इत्यत्र साध्य­स्व­भा­व­स्याऽ­धि­का­रि­वि­शे­ष­ण­स्याऽ­प्य­ध्य­य­नस्य धात्व­र्थ­भू­त­भै­क्ष्य­च­र­ण­सा­ध्य­त्वा­द­र्श­नात् । “द्रव्यकामो राजानं धर्मकामो यज्ञान् उपसेवेत” इत्यादौ वैपरीत्यमपि दृष्टमेवेति चेत्, तर्हि स्वर्ग­त­त्का­म­न­यो­र­धि­का­रि­वि­शे­ष­ण­त्व­मेव दुर्निरूपम् । तथा हि – न तावत् स्वर्गकामपदं दर्श­पू­र्ण­मा­स­नि­यो­गस्य पुरुषेणाऽयोगं व्यवच्छिनत्ति, नित्य­वि­धि­ब­ला­दे­वा­यो­ग­व्य­व­च्छे­दस्य सिद्धेः । नाऽपि तद­न्य­यो­ग­व्य­व­च्छे­द­कम्, अस्वर्गकामस्य दर्श­पू­र्ण­मा­स­व्य­व­च्छेदे नित्य­वि­धि­वि­रो­धात् । नित्यनियोगाद् भिन्नो हि काम्यनियोगः । तत्राऽ­यो­गा­न्य­यो­ग­व्य­व­च्छेदे नाऽस्त्युक्तदोष इति चेद्, मैवम्; यद्यपि यावज्जीववाक्येन बोध्यो नित्यनियोगः, काम्यनियोगश्च स्वर्ग­का­म­वा­क्य­बोध्यः, तथापि साङ्ग­द­र्श­पू­र्ण­मा­स­नि­यो­ग­स्यो­भ­य­त्रै­क­त्वेन प्रत्य­भि­ज्ञा­ना­न्नाऽस्ति भेदः । नित्य­का­म्य­वि­भा­ग­स्त्व­धि­का­र­मा­त्र­भे­दा­दु­प­प­द्यते । न च अधि­का­रि­वि­शे­ष­ण­त्वा­भावे स्वर्ग­का­म­प­द­वै­यर्थ्यं शङ्कनीयम्, यथा “दण्डी प्रैषानन्वाह” इत्यादौ ऋत्विजः प्रैषानुवक्तुः प्राप्तत्वात् दण्डिविशेषणपरं वाक्यं यत्प्रैषानन्वाह तद्दण्डी सन्निति, तथा स्वर्गकामपदमपि विशे­ष­ण­स्व­र्ग­प­रम् । तदुक्तं पार्थसारथिना –
“अपे­क्षि­त्वा­द्भा­व्यस्य कामशब्दो हि तत्परः ।
विशे­ष­ण­प्र­धा­नत्वं दण्डीत्यादिषु दर्शितम् ॥” इति ।
स्वर्गकामपदस्य फल­मा­त्र­प­र­त्वेऽ­प्य­र्था­द­धि­कारी लभ्यते । धात्वर्थस्य यागस्य स्वर्गसाधनत्वे लिङा­दि­प्र­त्य­यै­र्बो­धिते सति मद­पे­क्षि­त­फ­ल­सा­ध­न­मिदं कर्मेति कर्मण्यधिकारं पुरुषः स्वयमेव प्रतिपद्यते । एवं च फलपरं स्वर्गकामपदं साध­न­व­च­ने­नाऽ­न्वि­ता­भि­धा­न­म­र्हति, तच्चे­ष्ट­सा­ध­न­ता­या­स्त­व्या­द्य­र्थत्वे सिद्ध्यति, न नियोगस्य तदर्थत्वे । तस्मात् न नियोगो लिङा­दि­प्र­त्य­यार्थः ।

अन्ये पुन­र्धा­त्व­र्थ­स्व­र्गयोः साध्य­सा­ध­न­स­म्ब­न्धा­व­ग­म­मे­व­माहुः – विष­य­नि­यो­ज्याभ्यां विशिष्टो नियो­ग­स्ता­व­द्वि­धि­वा­क्या­द­व­ग­म्यते । विषयो यागः, नियोज्यः स्वर्गकामः, तयोश्च कर्मकर्तृरूपेण परस्परान्वयो नियो­ग­नि­ष्प­त्त्य­न्य­था­नु­प­प­त्त्याऽ­व­ग­म्यते । अन्वयाभावे नियोज्येन विष­येऽ­न­नु­ष्ठी­य­माने तदनुष्ठानसाध्यो नियोगो न निष्पद्यते । तत्र यथा दण्डि­नाऽ­न्वी­य­मा­नस्य दण्डे­नाऽ­प्य­न्व­य­स्तथा स्वर्ग­का­म­वि­शि­ष्ट­नि­यो­ज्ये­नाऽ­न्वी­य­मा­नस्य यागस्य विशे­ष­णी­भू­त­स्व­र्गे­णाऽ­प्य­न्वयो भवति । स चाऽन्वयो गुण­प्र­धा­न­भा­वा­दृते न सम्भवति । ततः स्वर्गस्य प्राधान्येन यागस्य गुणभावेनाऽन्वये सति तयोः साध्य­सा­ध­न­स­म्बन्धः स्यादिति । नैतत्सारम्, उक्तरीत्या कर्तृ­वि­शे­ष­ण­भू­त­जी­व­न­गृ­ह­दा­हा­दि­नाऽपि याग­स्याऽ­न्व­य­प्र­स­ङ्गात् । अस्तु को दोष इति चेद्, उच्यते – तत्र किं जीव­ना­दे­र्धा­त्वर्थं प्रत्य­ङ्ग­त्वे­नाऽ­न्वयः किं वा प्राधान्येन ? आद्ये नित्य­द­र्श­पू­र्ण­मा­सा­धि­का­रि­वि­शे­ष­णस्य जीवनस्य दर्श­पू­र्ण­मा­सा­ङ्ग­त्वेन तद्विकृतौ सौर्या­दा­व­प्य­न्वयः प्रसज्येत । तथा हि – “सौर्यं चरुं निर्वपेद् ब्रह्म­व­र्च­स­कामः” इत्यनेन विहितस्य कर्मणो दर्श­पू­र्ण­मा­स­वि­कृ­तित्वं निर्व­प­ति­चो­द­ना­सा­म­र्थ्या­त्सि­द्धम् । तत्र “प्रकृ­ति­व­द्वि­कृतिः कर्त्तव्या” इति अतिदेशेन प्रकृ­ति­भू­त­द­र्श­पू­र्ण­मा­सा­ङ्गानां विकृतौ प्राप्ति­द­र्श­नात्, तद­वि­शे­षा­ज्जी­व­न­मपि प्राप्नुयात्ततो यावज्जीवं सौर्यं चरुं निर्वपेदिति स्यात् । न च कामाधिकारेण नित्याधिकारस्य बाधाददोष इति वाच्यम्; यथा प्रकृतौ नित्य­का­म्या­धि­का­र­स्तथा विकृतावपि प्रसङ्गात् । द्वितीये जीवनादेः प्राधान्येन स्वर्गा­दि­व­त्सा­ध्यत्वं स्यात् । तस्मात् फलविशेषपरं स्वर्गकामपदं सामान्येन श्रेयः­सा­ध­न­त्व­वि­ध्य­भि­धा­यिना लिङा­दि­प­दे­नाऽ­न्वि­ता­भि­धानं करोति । ननु यदि लिङा­दि­प्र­त्य­यै­रि­ष्ट­सा­ध­नता विधीयते, तदा “ज्योतिष्टोमेन यजेत” इत्यत्र तृतीया न सिद्ध्येत्, तिङ् - कृत् - तद्धित - समासैरनभिहिते करणे कारके तृतीयाविधानात् । ना‍ऽयं दोषः, धात्वर्थस्य यागसामान्यस्य कार­ण­त्वेऽ­भि­हि­तेऽपि याग­वि­शे­ष­ज्यो­ति­ष्टो­म­क­र­ण­त्व­स्याऽ­न­भि­हि­त­त्वात् । तत इष्टसाधनताया विधा­य­क­प्र­त्य­या­र्थ­तायां न कोऽपि दोषः, तथा च “मोक्षकामेन वेदान्ता विचारयितव्याः” इत्यनेन सूत्र­वा­क्ये­नाऽपि श्रेयो­मा­त्र­सा­ध­नत्वे विचा­र­स्याऽ­भि­हिते सति अर्थात् श्रेयोविशेषो मोक्षो विचा­र­शा­स्त्र­प्र­यो­ज­न­मिति लभ्यते । ब्रह्म­जि­ज्ञा­सेति शब्देन विषयोऽपि सूचितः । यद्यपि सम­न्व­या­ध्या­ये­नैव वैषयोऽवगम्यते चतुर्थाध्यायेन च प्रयोजनम्, तथापि प्रवृ­त्ति­हे­तु­त्वात् प्रथमसूत्रेऽपि तेसूचनीये । तदेवं विष­य­प्र­यो­ज­न­स­द्भा­वात् शास्त्र­मा­र­म्भ­णी­य­मि­त्ये­त­द्व­र्ण­क­ता­त्प­र्य­मिति सिद्धम् ।

इति श्री विद्यारण्यमुनि प्रणीते विवरणोपन्यासे प्रथमं वर्णकं समाप्तम् ।

अथ द्वितीयं वर्णकम्

आत्मा श्रोतव्य इत्यस्य विधे­र्वे­दा­न्त­वा­क्यगः ।
विचारो विषयः साक्षात् स निरूप्योऽत्र वर्णके ॥

वेदा­न्त­व्य­व­धा­नेन ब्रह्मैक्यं विषयो विधेः ।
निरूपितः स पूर्वस्मिन् वर्णके सप्रयोजनः ॥

वेदान्ता यदि शून्याः स्युर्विषयेण फलेन च ।
तदा दूरे तद्वि­चा­रोऽ­त­स्तयोः पूर्वमीरणम् ॥

सम्भाविते विचारेऽद्य पूर्वमीमांसया स किम् ।
गतो न वेति सन्देहे निर्ण­योऽ­त्राऽ­भि­धी­यते ॥

ननु वेदा­न्ता­ना­म­र्थ­नि­र्ण­याय न्याय­क­ला­पोऽ­पे­क्षितः । स च “अथातो धर्मजिज्ञासा” इत्यादिसूत्रैः सूत्रितः । न च विधि­वा­क्या­र्थस्य तत्र निर्णयः प्रवृत्तः इति वाच्यम्, कृत्स्नवेदस्य विधि­मा­त्र­प­र­त्वात् । वेदान्ताः सिद्धपरा इति चेत्, न; तेषामप्यात्मा द्रष्टव्य इत्या­दि­ज्ञा­न­वि­धि­प­र­त्वात् । तर्हि क्रियाविधिकलापः पूर्वमीमांसायां निरूपितः ज्ञान­वि­धि­नि­रू­प­णा­यो­त्त­र­मी­मां­साऽऽ­र­भ्य­ता­मिति चेद्, न; उत्प­त्ति­वि­नि­यो­ग­प्र­यो­गा­धि­का­राणां चतुर्णां विध्य­पे­क्षि­त­रू­पाणां क्रियायां निरूपितानां ज्ञानेऽपि न्यायसाम्येन बोद्धुं शक्यत्वात् ।

तत्रो­त्प­त्ति­वि­धि­र्नाम कर्म­स्व­रू­प­मा­त्र­बो­धकः “अग्निहोत्रं जुहोति” इत्यादिः । तथाऽ­ङ्गा­ङ्गि­स­म्ब­न्ध­बो­धकः “दध्ना जुहोति” इत्या­दि­र्वि­नि­यो­ग­विधिः। साङ्ग­प्र­धा­न­क­र्म­ण्य­नु­ष्ठा­न­बो­धकः प्रयोगविधिः । स च श्रौत इति भाट्टाः । विध्या­क्षे­प­ल­क्ष­णो­पा­दा­न­प्र­मा­णेन कल्पनीय इति प्राभाकराः । फलकामिनो जीव­ना­दि­नि­मि­त्त­वतो वा कर्म­ण्य­धि­का­र­प्र­ति­पा­द­कोऽ­धि­का­र­विधिः । त एते विधयः क्रियायां निरूपिता ज्ञानेऽपि यथा­यो­ग­मु­त्प्रे­क्षितुं शक्याः । अन्यथा क्रिया­मे­का­मु­दा­हृत्य निरूपिताः क्रियान्तरे पुनः प्रतिपादनीयाः स्युः । नन्व­भ्य­धि­का­श­ङ्का­भि­र्नि­रा­क­र­णा­या­ध्या­या­न्त­र­व­च्छा­स्त्रा­न्त­र­मा­र­म्भ­णी­यम् । तथा हि – वेदा­प्रा­मा­ण्य­श­ङ्कायां प्रथमेऽध्याये तत्प्रामाण्यं निरूपितम् । सर्व­क­र्मै­क्य­श­ङ्कायां द्वितीये “यजति”, “जुहोति” इत्या­दि­श­ब्दा­न्त­रा­दि­हे­तु­भि­रु­त्प­त्ति­वि­धि­भे­द­पू­र्वकः कर्मभेदो निरूपितः। सर्वत्र सम­प्रा­धा­न्य­श­ङ्कायां तृतीये श्रुति­लि­ङ्गा­दि­प्र­मा­णै­र­ङ्गा­ङ्गि­भाव उक्तः । चतुर्थे क्रत्व­र्थ­त्वे­नै­ता­व­ता­म­नु­ष्ठानं पुरुषार्थत्वेन चैतावतामिति निर्धारितम् । पञ्चमे “वाज­पे­ये­नेष्ट्वा बृहस्पतिसवेन यजेत” इत्यादौ क्रमो दर्शितः । षष्ठे कामिन इहाधिकारो जीव­ना­दि­भि­नि­मि­त्त­व­त­श्चे­हेति विचारितम् । इति पूर्वषट्केन प्रकृ­ति­वि­ध्य­पे­क्षितो विचारः कृतः । सम­ग्रा­ङ्ग­सं­युक्तो विधिः प्रकृतिः । विक­ला­ङ्ग­सं­युक्तो विधिर्विकृतिः । विकृ­ति­वि­ध्य­पे­क्षितो विचारः सप्त­म­मा­र­भ्यो­त्त­र­ष­ट्केन कृतस्तत्रापि सप्तमेन प्रकृ­त्यु­प­दि­ष्टा­ना­म­ङ्गानां सामान्येन विकृतावतिदेशो निर्णीतः । इत्थं कुर्या­दि­त्यु­प­दे­श­स्त­द्व­त्कु­र्या­दि­त्य­ति­देशः । अष्टमे तु प्रकृतिभूतायां दर्श­पू­र्ण­मा­सा­ख्या­या­मि­ष्टा­वा­ग्ने­योऽ­ष्टा­क­पाल इत्यत्र पुरो­डा­श­प्र­कृ­ति­द्र­व्य­भू­तानां व्रीहीणां ये निर्वा­पा­व­घा­त­प्रो­क्ष­णा­दयो धर्मा अभिहितास्ते विकृ­ति­भू­त­सौ­र्य­चरौ व्रीहि­द्र­व्य­सा­रू­प्य­द्वा­रेण चरु­प्र­कृ­ति­भू­त­व्री­हि­ष्व­प्य­ति­दि­श्यन्त इत्या­दि­वि­शे­षा­ति­देशो निरूपितः । तदुक्तम् –
“सप्त­मे­ना­ति­दे­शेन धर्माः सन्तीति साधिते ।
ततोऽष्टमेन यो यस्य यतश्चेति निरूपणा ॥” इति ।
नवमे तु प्रकृ­त्यु­पा­दि­ष्ट­म­न्त्र­सा­म­सं­स्का­र­क­र्मणां विकृ­ता­व­ति­दि­ष्टानां प्रकृ­ति­वि­कृ­त्यो­र्द्र­व्य­दे­व­ता­भेदे सति प्रकृ­ति­ग­त­द्र­व्या­दि­शब्दं विहाय विकृ­ति­स्थि­त­द्र­व्या­दि­श­ब्दा­ध्या­हा­रा­दि­ल­क्षण ऊहो दर्शितः । तद्यथा “अग्नये जुष्टम्” इति मन्त्रस्य विकृतौ सूर्याय जुष्टमिति पदप्रक्षेपः । दशमे तु विकृ­ता­व­ति­दि­ष्टा­ना­म­ङ्गानां प्रकृतौ सावकाशानां विकृ­ति­ग­त­वि­शे­षा­ङ्गो­प­दे­शा­दिना बाधो दर्शितः । तद्यथा विकृ­ता­व­ति­दे­श­प्रा­प्तानां प्रकृ­ति­स­म्ब­न्धि­ब­र्हिषां शरमयं बर्हिरिति विकृ­ति­ग­त­वि­शे­षो­प­दे­शेन बाधः । तथा “कृष्णलान् श्रपयेत्” इति विहिते विकृतिभूते कृष्णलपाके प्राकृता अवघातादयः प्राप्ताः, तत्र कृष्णलाख्येषु सुवर्णशकलेषु रूप­वि­मो­का­स­म्भ­वा­द­व­घा­तस्य बाधः । तथा “तौ न पशौ करो” इति निषेधात् पशा­वा­ज्य­भा­ग­यो­र्बाधः । एकादशे त्वने­क­शे­षि­वि­धि­प्र­यु­क्तस्य शेषस्य सकृदनुष्ठानादेव सर्व­शे­षि­णा­मु­प­का­र­सा­म्य­रूपं तन्त्र­ना­म­क­मु­क्तम् । तद्यथा – अग्ने­योऽ­ष्टा­क­पालः, उपांशुयागमन्तरा यजति, अग्नीषोमीय एकादशकपाल इत्यु­क्त­पौ­र्ण­मा­स­क­र्म­प्र­यु­क्तस्य प्रयाजादेः सकृदनुष्ठानादेव शेषित्रयोपकार इति । द्वादशे त्वेक­शे­षि­प्र­यु­क्त­शे­षा­नु­ष्ठा­नस्य प्रयो­ज­क­सा­म­र्थ्य­प्र­यु­क्त­शे­ष्य­न्त­रेऽ­प्यु­प­कारः प्रसङ्गाख्यो दर्शितः । तद्यथा पशु­वि­धि­यु­क्ता­ङ्गानां पशु­पु­रो­डा­शेऽ­प्यु­प­कारः । तदेवं प्रत्य­ध्या­य­मा­श­ङ्का­न्त­र­नि­रा­क­र­णेन विध्यसम्भेदो यथा निरूपितस्तथा प्रतिपत्तव्यस्य ब्रह्मणः प्रत्य­क्षा­दि­भि­र­सि­द्ध­त्वात् प्रति­प­त्ति­वि­ध्य­यो­गा­श­ङ्कायां तन्नि­रा­क­र­णा­यो­त्त­र­मी­मां­साऽ­र­भ्यत इति । तदेतदयुक्तम्, प्रत्य­क्षा­द्य­सि­द्धा­ना­मपि यूपाहवनीयादीनां यथा सिद्धिस्तथा ब्रह्मणोऽपि सिद्धौ पृथग् मीमां­सा­न­र्थ­क्यात् ।

अथ मतम् – “यूपं तक्षति” इत्यादौ न यूपमुद्दिश्य तक्षणादि विधीयते, येन यूपाकारस्य लोक­प्र­सि­द्धि­रु­पे­क्ष्येत, किं तर्हि “खादिरो यूपो भवति” इत्यादिनाऽवगतं खदि­रा­दि­प्र­कृ­ति­द्रव्यं तक्षति यूपं कर्तु­मि­त्य­लौ­कि­क­यू­पा­का­रस्य साध्यत्वं प्रतीयते । स चाऽऽकारो “यूपे पशुं बध्नाति” इति विनि­यो­ग­द­र्श­ना­द्वि­शे­ष­तोऽ­व­ग­म्यते – तक्ष­णा­दि­प­रि­नि­ष्पन्नः पशुबन्धाधारः काष्ठविशेषो यूप इति । एव­मा­ह­व­नी­या­द­योऽपि । न त्वत्र तथा ब्रह्मणः किञ्चि­त्सा­ध­क­मस्ति । तत आरब्धव्या उत्तरमीमांसेति । नैत­द­प्यु­प­प­न्नम्, ब्रह्म­सि­द्धि­म­न्त­रे­णापि “योषा वा व गौतमाग्निः” इत्या­दा­वि­वाऽऽ­रो­पि­त­रू­पे­णो­पा­सने प्रति­प­त्ति­वि­ध्यु­प­पत्तेः । ततोऽ­भ्य­धि­का­श­ङ्काया अभा­वा­न्नो­त्त­र­मी­मां­साऽऽ­र­ब्धव्या ।

अत्र केचित् सिद्धा­न्तै­क­दे­शि­नोऽ­भ्य­धि­का­श­ङ्का­मे­व­माहुः – “चोद­ना­ल­क्ष­णोऽर्थो धर्मः” इति ब्रुवता विधेः प्रामाण्यं दर्शितम् । नच “सदेव सोम्य” इत्यादिवेदानां विधिरहितानां तत्सम्भवति । न च तेषां “सोऽन्वे­ष्टव्यः” इत्या­दि­वि­धि­भि­रे­क­वा­क्य­तेति वाच्यम्, भाव­क­र्मा­र्थ­वा­चि­न­स्त­व्य­प्र­त्य­यस्य तत्र विधा­य­क­त्वा­भा­वात् । विधावपि तव्य­प्र­त्य­योऽ­स्तीति चेत्, तथापि नेह विधिः सम्भवति, तव्यप्रत्ययस्य कर्मा­भि­धा­यि­त्वात् । “गन्तव्यम्” इत्यादौ तु तव्यप्रत्ययस्य भावार्थस्य प्राधान्येन स्वतन्त्रफलाय विधानं युक्तम् । “स्वाध्या­योऽ­ध्ये­तव्यः” इत्यत्र कर्मा­भि­धा­यि­त­व्य­प्र­त्य­या­दपि धात्वर्थविषयो विधिर्दृष्ट इति चेद्, अस्त्व­प्रा­प्त­स्वा­ध्या­य­ग­त­प्रा­प्ति­फ­लाय तत्र विधिः । प्रकृते तु किं स्वतन्त्रफलाय कर्मी­भू­त­ब्र­ह्मणो दृष्टिर्विधीयते किं वा कर्मकारकगतफलाय । नाऽऽद्यः, अवघातादिवत् कर्मकारकद्रव्ये गुणभूताया दर्शनक्रियायाः स्वतन्त्रफलाय विधा­तु­म­श­क्य­त्वात् । न द्वितीयः, चतुर्विधं हि कर्मकारके क्रियाजन्यफलम् – उत्प­त्ति­रा­प्ति­र्वि­कारः संस्कारश्च । तत्राऽऽदौ नित्यप्राप्ते निर्विकारे ब्रह्मणि न त्रिविधं फलं सम्भवति । नाऽप्य­ज्ञा­ना­ध­र्मा­दि­म­ला­प­क­र्ष­ण­ल­क्षणः संस्कारः शङ्कनीयः, अवे­क्षि­ता­ज्य­स्येव संस्कृतस्य ब्रह्मणोऽन्यत्र विनियोगाभावात् । अथाऽऽत्मनि सक्तुन्यायेन विधिः सम्भविष्यति । तथा हि – “सक्तून् जुहोति” इति क्रतुप्रकरणे श्रवणात् क्रत्वङ्गता सक्तु­हो­म­स्याऽ­व­गता । तत्राऽङ्गानि द्विविधानि – अर्थकर्माणि संस्कारकर्माणि च । तत्र कार­का­ण्य­ना­श्रित्य स्वातन्त्र्येण गृहीतानि प्रया­जा­दी­न्य­र्थ­क­र्माणि । व्रीह्या­दि­का­र­क­गु­ण­भू­तानि संस्कारकर्माणि । तत्र न तावत् सक्तु­हो­म­स्याऽ­र्थ­क­र्मता, व्रीहि­गु­ण­प्रो­क्ष­ण­वत् सक्तु­द्र­व्य­गु­ण­भू­त­त्वात् । नाऽपि संस्कारकर्मता । द्विविधो हि संस्कारः – विनि­यु­क्त­सं­स्कारो विनि­यो­क्ष्य­मा­ण­सं­स्का­रश्च । तद्यथा “व्रीहि­भि­र्य­जेत” इति विनियुक्तान् व्रीहीनुद्दिश्य विहितः प्रोक्ष­णा­दि­र्वि­नि­यु­क्त­सं­स्कारः । “आहवनीये जुहोति” इति विनि­यो­क्तु­म­ग्ने­रा­ह­व­नी­य­त्व­सि­द्धये विहित आधा­ना­दि­र्वि­नि­यो­क्ष्य­मा­ण­सं­स्कारः । तत्र होमेन भस्मीकृतानां सक्तूनां क्रतुं प्रत्य­नु­प­का­रिणां क्रतौ विनि­यो­गा­स­म्भ­वा­न्नो­भ­य­वि­ध­सं­स्का­रोऽ­प्यत्र घटते । न च सक्तु­हो­म­वा­क्यस्य वैयर्थ्यं युक्तम्, अध्य­य­न­वि­धि­प­रि­गृ­ही­त­त्वात् । तस्मात् “सक्तून्” इति द्वितीययाऽवगतं प्राधान्यं विहाय सक्तुभिरिति तृतीयया परिणामेन सक्तूनां गुणभावं होमक्रियायाः प्राधान्यं चोपा­दा­याऽ­र्थ­क­र्मता निरूपिता । तद्वत् “आत्मानमुपासीत” इत्य­त्राऽ­प्या­त्मनो विभ­क्ति­वि­प­रि­णा­मे­नाऽऽ­त्म­गु­ण­क­मु­पा­स­ना­क­र्मैव स्वतन्त्रफलाय प्राधान्येन विधीयते । विषम उपन्यासः । दृष्टान्ते हि शब्दतः करणभूता अपि सक्तवोऽर्थतः कर्मभूताः, होम­क्रि­या­कृ­ता­ति­श­यस्य भस्मी­भा­व­ल­क्ष­णस्य विकारस्य सक्तुषु सद्भावात् । ततो “जुहोति” इति सक­र्म­क­धा­तु­प्र­योगो युक्तः । दार्ष्टान्तिके तु यद्या­त्म­नोऽ­र्थतः कर्मत्वं तदो­त्प­त्त्या­दीनां चतुर्णां क्रियाफलानामेकं वक्तव्यम्, तच्च निराकृतम् । अकर्मकत्वे चोपासीतेति सक­र्म­क­धा­तु­प्र­यो­गोऽ­नु­प­पन्नः । नन्वा­त्म­न्याप्तिः क्रियाफलं भविष्यति, स्वरूपतो नित्य­प्रा­प्त­स्याऽ­प्यु­पा­स­नायाः पूर्वं प्रती­ति­तोऽ­प्रा­प्त­त्वात् । नैतद्युक्तम्, स्वप्र­का­श­चै­त­न्य­रू­प­त्वेन प्रतीतितोऽपि नित्य­प्रा­प्त­त्वात् । अतो विध्य­भा­वा­द­वि­व­क्षि­तार्था वेदान्ता इति धर्म­जि­ज्ञा­सा­न­न्तरं स्नानं प्राप्तमिति तामे­ता­म­भ्य­धि­का­शङ्कां निराकर्तुं ब्रह्मजिज्ञासां त एव सिद्धा­न्तै­क­दे­शिन एवमवतारयन्ति – अथातो ब्रह्म­जि­ज्ञा­सेति । अयमभिप्रायः – धर्म­जि­ज्ञा­सा­न­न्तरं ब्रह्म जिज्ञासितव्यं न स्नातव्यमिति । न च वेदान्तेषु विध्यभावः, “कटः कर्त्तव्यः” इत्यादिवत् “आत्मा द्रष्टव्यः” इत्यादौ कर्मकारकगतफलाय विध्युपपत्तेः । सम्भवति ह्यात्म­न्य­ज्ञा­ना­दि­म­ला­प­क­र्ष­ण­ल­क्षणः संस्कारः । न च संस्कृ­त­स्याऽऽ­त्मन आज्यादिवदन्यत्र विनि­यो­गोऽ­पे­क्ष्यते, स्वयमेव पुरुषार्थत्वात् । अपु­रु­षा­र्थ­सं­स्का­र­स्यैव विनि­यो­गा­पे­क्ष­त्वात् । तदेवं वेदान्तेषु विध्य­भा­व­ल­क्ष­णा­म­भ्य­धि­का­शङ्कां निराकृत्य प्रतिपत्तिविधिं च सम­र्थ­यि­तु­मु­त्त­र­मी­मां­सा­रम्भ इति । तदेतत् सिद्धा­न्तै­क­दे­शि­मतं पूर्वपक्षिणो नाभिमतम् । तथाहि – सिद्धा­न्तै­क­दे­शिना विध्य­भा­व­ल­क्ष­णा­भ्य­धि­का­श­ङ्का­काले परमा युक्ति­र­न्तेऽ­भि­हिता – स्वप्र­का­श­चै­त­न्य­रू­प­मेव प्रतीतितोऽपि प्राप्त­त्वा­न्नो­पा­स­ना­वि­धि­रिति । सा न युक्ता, यथा “हिरण्यं भार्यम्” इत्यत्र भूषणार्थत्वेन प्राप्तं हिर­ण्य­धा­र­ण­म­भ्यु­द­या­र्थ­त्वेन नियम्यते तद्वत् प्राप्त­स्याऽ­प्या­त्म­ज्ञा­नस्य कर्तृ­स­म­वा­यि­मो­क्ष­फ­लाय निय­म­वि­धि­स­म्भ­वात् । हिर­ण्य­धा­र­ण­स्याऽ­प्रा­प्ति­रपि पक्षेऽस्तीति निय­म­वि­धि­स्त­त्राऽस्तु । इह तु स्वरू­प­चै­त­न्य­त्वे­नाऽऽ­त्म­प्र­ती­ते­र्नि­त्य­प्रा­प्त­त्वान्न नियमविधिरिति चेत्, तर्ह्य­ना­त्म­प्र­ति­भा­स­नि­वृ­त्तये परि­स­ङ्ख्या­वि­धि­र­दृ­ष्टार्थः स्यात् । अतो नाऽभ्यधिकाशङ्का सम्भवति । यच्चा­भ्य­धि­का­श­ङ्का­नि­रा­क­रणे तेनैव सिद्धा­न्तै­क­दे­शिना फल­म­वि­द्या­दि­म­ला­प­न­य­न­मु­क्तम्, तदप्यसत् । किं लौकि­का­त्म­ज्ञा­न­म­वि­द्या­म­प­न­यति उताऽ­लौ­कि­का­त्म­ज्ञा­नम् । आद्येऽपि न तावत् स्वरूपमेव तामपनयति, अहमिति सर्व­दाऽऽ­त्म­प्र­ती­ता­व­प्य­वि­द्या­नि­वृ­त्त्य­द­र्श­नात् । नाऽपि विधिबलात् । तर्ह्य­स­म्भा­वि­त­पा­केषु कृष्णलेषु विधिबलादपि मुख्यः पाको दर्शयितुं शक्यः । द्वितीयेऽपि किं तादृ­शा­त्म­ज्ञा­न­म­त्य­न्त­म­प्र­सि­द्ध­मुत सामान्यतः प्रसिद्धम् अथवा विशेषतः ? नाऽऽद्यः, अत्य­न्ता­प्र­सि­द्धस्य विध्ययोगात् । यागादावपि हि कञ्चिद्यागं दृष्टवतः पुरुषस्य याग­त्व­सा­मा­न्यो­पा­धिना प्रसिद्धौ सत्यां दृष्ट­या­ग­व्य­क्ति­स­दृशं याग­व्य­क्त्य­न्तरं प्रति­प­त्तृ­बु­द्धि­स्थ­मेव विधीयते । अन्यथा “ममेदं कर्त्तव्यम्” इति प्रति­प­त्त्य­स­म्भ­वात् । न द्वितीयः, अलौ­कि­का­त्म­ज्ञा­न­त्व­सा­मा­न्या­क्रा­न्तस्य व्यक्तिविशेषस्य कस्यचिदपि पूर्व­म­न­नु­भू­त­त्वात् । तृतीयेऽपि किं तादृगात्मज्ञानं पुरुषान्तरे विशेषतः प्रसिद्धम् उत विधेः प्रति­प­त्त­र्य­धि­का­रि­ण्येव ? नाऽऽद्यः, पुरु­षा­न्त­र­प्र­सि­द्धे­र­धि­का­रिणं प्रत्यनुपयोगात् । न द्वितीयः, अधिकारिणि विशेषतः प्रसि­द्ध­स्याऽ­र्थस्य विधिवैयर्थ्यात् । तदेवं सिद्धा­न्तै­क­दे­शि­नाऽ­भि­हि­त­यो­र­भ्य­धि­का­श­ङ्का­त­न्नि­रा­क­र­ण­प्र­का­र­यो­र­स­ङ्ग­त­त्वान्न तेनो­त्त­र­मी­मां­साया अगतार्थत्वं प्रतिपादयितुं शक्यम् । अपरे पुनः सिद्धा­न्तै­क­दे­शिन एव­म­ग­ता­र्थ­त्व­माहुः – न वयं तद्वत् वेदान्तेषु विध्य­भा­व­ल­क्ष­णा­म­भ्य­धि­का­शङ्कां ब्रूमः, येनोक्तदोषः स्यात्, किन्तु विधि­म­भ्यु­पे­त्यैव ब्रह्मा­सि­द्धि­ल­क्ष­णाम् । तथा हि – प्रति­प­त्ति­वि­ध्य­पे­क्षि­ता­ना­मु­प्त­त्त्या­दीनां चतुर्णां रूपाणां क्रिया­वि­ध्यु­क्त­न्या­येन यद्यपि निर्णयः सिद्धः तथापि प्रतिपत्तव्यस्य ब्रह्मणः सिद्ध­व­स्तु­प्र­ति­बो­ध­न­स­म­र्थै­रपि प्रत्य­क्षा­दि­भि­र­द­र्श­नाद् वेदस्य च कार्यमात्रपरस्य सिद्ध­ब्र­ह्म­त­त्त्वा­प्र­ति­पा­द­क­त्वा­दा­रो­पि­त­रू­पस्य च ब्रह्मण उपासनायां मोक्ष­ल­क्ष­णा­त्य­न्ति­क­फ­ला­स­म्भ­वा­द­नु­पा­स्य­मेव ब्रह्मे­त्ये­ता­म­भ्य­धि­का­शङ्कां निरा­क­र्त्तु­मु­त्त­र­मी­मां­साऽ­र­ब्धव्या । तत्र चैवं निर्णीयते – न कार्यमात्रपरो वेदः, उपा­स­ना­वि­धि­प­रै­र्वे­दा­न्तै­र्ब्र­ह्म­णोऽ­प्य­व­ग­म्य­मा­न­त्वात् । यथा रूपप्रत्यायनाय प्रवृत्तं चक्षु­र्द्र­व्य­मपि प्रख्यापयति तद्वत् ।

ननु कथं वेदा­ना­मु­पा­स­ना­वि­धि­प­र­त्वम् ? न तावदुपासनं नाम ब्रह्मा­प­रो­क्ष­ज्ञा­नम्, तस्य पर­मा­न­न्द­सा­क्षा­त्का­र­रू­प­त्वेन फलभूतस्य स्वर्ग­व­द­वि­धे­य­त्वात् । नाऽपि दृष्टिज्ञानं, तत्र विधेरश्रवणात् । न हि शाब्दज्ञानं कर्त­व्य­मि­त्ये­ता­दृशो विधिः क्वचिच्छ्रूयते । मैवम्, “इदं सर्वं यदयमात्मेत्मा” इत्या­दि­वा­क्यानां विधिपराणां शब्दज्ञानविधौ पर्यवसानात् । न च वाच्यं यद­य­मा­त्मे­त्या­त्म­स्व­रू­प­मु­द्दिश्य तदिदं सर्वमिति प्रप­ञ्च­रू­प­त्व­वि­धाने सति आत्म­नोऽ­चे­त­न­त्व­प्र­स­ङ्गेन विधे­र्बो­द्धु­र­भा­वा­दा­त्मनः प्रप­ञ्च­रू­प­त्व­स्याऽ­पु­रु­षा­र्थ­त्वात् कथमेतद्वाक्यं विधिपरमिति ? यदिदं सर्वमिति प्रतिपन्नं प्रप­ञ्च­मु­द्दिश्य तद­य­मा­त्मे­त्य­प्र­ति­प­न्ना­त्म­रू­प­स्यैव विधानात् । “नेति नेति” इत्या­दि­वा­क्य­प­र्या­लो­च­नया प्रपञ्चं प्रवि­ला­प्या­त्मैव विधेय इति विशेषनिश्चयात् । यद्यपि “इदं सर्वं यदयमात्मा” इत्यत्र विधिर्न श्रूयते तथापि “पूषा प्रपिष्टभागः” इत्यादाविव विधिः कल्प्यतामिति ।

तमे­त­म­प्ये­क­दे­शि­शा­स्त्रा­र­म्भ­प्र­कारं पूर्वपक्षी नाऽङ्गीकुरुते । तथा हि – “पूषा प्रपिष्टभागः” इत्यत्र प्रपिष्टो भागो यस्येति समासे यथा प्रमीयमाणो द्रव्य­दे­व­ता­स­म्बन्धः स्वाविनाभूतं यागं गमयति । यागश्च स्वाविनाभूतं विध्यर्थं नियोगमिति । श्रुत­सा­म­र्थ्या­द्वि­ध्यर्थे प्रतिपन्ने व्यवहारमात्राय पूषोद्देशेन पिष्टपरित्यागः कर्त्तव्य इत्युपसंह्रियते । तद्वदत्र न द्रव्य­दे­व­ता­स­म्बन्धः प्रमीयते, यद्बलात् विधिः कल्प्येत । अथ मन्येत – यथा “विश्वजिता यजेत” इत्यादिषु प्रमीयमाणौ याग­नि­यो­गा­व­न्य­था­नु­प­पत्त्या चेतनं स्वर्गकामं नियोज्यं कल्पयतः, तथेहापि श्रूयमाणश्चेतन आत्मा यागनियोगौ कल्पयतीति । तदसत्, अनु­प­प­त्ते­र­भा­वात् । अन्तरेणाऽपि यागनियोगौ, लोकव्यवहारे चेतनस्य दृष्टत्वात् । नियोगाभावे कृत्स्नवेदस्य कार्य­प­र­त्व­नि­य­मोऽ­नु­प­पन्न इति चेद्, एवमपि न नियोगः कल्पयितुं शक्यः, तत्साधनस्य धात्वर्थस्य कस्य­चि­द­प्य­भा­वात् । सोऽपि कल्प्यत इति चेत्, तत्र किं पाकं गमनं करो­ती­त्ये­क­पा­क­ग­म­ना­दि­स­र्व­धा­त्व­र्था­नु­गतः कृत्यर्थः कल्प्यते, उत ज्ञप्त्यर्थः कल्प्यते, अथ वोभयम् ? आद्ये “यदिदं सर्वं तदयमात्मा कर्त्तव्यः” इति वचनव्यक्तिः स्यात् । तथा च सति अश­क्य­वि­धा­न­मा­प­द्येत । न हि निपुणतरेणाऽपि घटः पटीकर्तुं शक्यते । अथाऽमी पिष्टपिण्डाः सिंहाः क्रिय­न्ता­मि­त्य­त्राऽ­न्य­द­न्या­का­रेण क्रियमाणं दृष्टमिति चेद्, एव­म­प्य­त्रे­ति­क­र्त्त­व्य­ताया अभावादसंपूर्णो विधिः । न हि शमादयः प्रप­ञ्च­वि­ल­य­ने­ति­क­र्त्त­व्यता रूपाः, तेषां ज्ञाने­ति­क­र्त­व्यता रूपत्वात् । न द्वितीयः, प्रपञ्चे सर्वस्मिन् विधि­ब­ला­दा­त्मा­का­रेण ज्ञानमानेऽपि प्रप­ञ्च­भा­व­स्याऽ­नि­वृत्तेः । न हि योपि­दा­दि­ष्व­ग्न्या­दि­रू­पेण ज्ञायमानेषु योपिदादिभावोऽपि निवृत्तः । न तृतीयः, पक्ष­द्व­य­दो­ष­प्र­स­ङ्गात् । ननु योषिदग्न्यादिषु मानसी क्रिया, न ज्ञानम् । इह त्वात्म­त­त्त्व­ज्ञा­नेन विधीयमानेन प्रपञ्चः प्रविलीनः स्यात्, स्थाणु­त­त्त्व­ज्ञा­नेन पुरु­ष­भा­व­प्र­वि­ल­य­द­र्श­ना­दिति चेत्, तर्हि स्थाणु­त­त्त्व­ज्ञा­न­स्ये­वाऽऽ­त्म­त­त्त्व­ज्ञा­न­स्याऽपि विधिव्यतिरिक्तं किञ्चित्प्रापकं वक्तव्यम्, तत्त्वज्ञानस्य वस्तु­त­न्त्र­स्याऽ­वि­धे­य­त्वात् । विधा­य­क­श­ब्द­व्य­ति­रिक्ता वेदान्तगताः शब्दा­स्त­त्प्रा­पका इति चेत्, तर्हि तेभ्य एव ज्ञानसिद्धेः कृतं विधिना ? ननु उत्पन्नेऽपि ज्ञाने पुनस्तादृशं ज्ञान­व्य­क्त्य­न्तरं विधीयते । न च विधिवैयर्थ्यम्, मन्त्रेष्टिवत् प्राप्तस्यापि पुन­र्वि­ध्यु­प­पत्तेः । तथा हि – “स्वाध्या­योऽ­ध्ये­तव्यः” इत्यत्र स्वशाखा स्वाध्या­य­श­ब्दे­नो­च्यते । अत­स्त­न्म­ध्य­पा­तिनो मन्त्रा अपि स्वाध्यायविधिना पठितव्यतया स्वीकृतास्ते च गुही­त­प­द­प­दा­र्था­स­म्ब­न्धस्य स्वार्थे प्रत्य­य­मु­त्पाद्य प्रयोजनशून्या व्यवतिष्ठन्ते । न च स्वार्था­नु­ष्ठा­प­कत्वं प्रयोजनम्, स्वार्थस्य द्रव्य­दे­व­ता­स्व­रू­प­स्याऽ­न­नु­ष्ठे­य­त्वात् । नाऽपि तत्प्र­मा­प­क­त्वम्, ब्राह्म­ण­वा­क्यै­रेव मन्त्रार्थस्य द्रव्यादेः प्रमितत्वात् । ततो निष्प्रयोजनत्वे प्राप्ते श्रुति­लि­ङ्गा­दि­भि­र्व्री­ह्या­दि­व­न्मन्त्राः सप्रयोजनस्य कर्म­णोऽ­ङ्ग­भा­वेऽपि न विनियुज्यन्ते । तत्र “ऐन्द्र्या गार्ह­प­त्य­मु­प­ति­ष्ठते” इत्यस्मिन् ब्राह्मणो “गार्हपत्यम्” इति द्वितीया श्रुतिः “कदाचन स्तरीरसि” इत्ये­त­न्म­न्त्र­स्ये­न्द्र­प्र­का­श­न­स­म­र्थ­स्याऽपि गार्ह­प­त्यो­प­स्थाने विनियोगं बोधयति, श्रुत­सा­म­र्थ्य­ल­क्ष­णा­ल्लि­ङ्गा­च्छ्रु­ते­र्ब­ली­य­स्त्वात् । “बर्हिर्देवसदनं दामि” इत्ययं मन्त्रस्तु मन्त्रलिङ्गाद् बर्हिर्लवने विनियुज्यते । एवं वाक्य­प्र­क­र­ण­स्था­न­स­मा­ख्या­भि­रपि तत्र तत्र मन्त्रा विनियुक्ताः । ते च मन्त्राः केनोपकारेण प्रधा­ना­पू­र्व­सि­द्धे­रु­प­कु­र्व­न्तीति वीक्षा­या­म­नु­ष्ठा­ना­पे­क्षि­त­द्र­व्य­दे­व­ता­दि­स्मा­र­णे­नेति कल्पनीयम्, दृष्टोपकारे सत्य­दृ­ष्ट­क­ल्प­ना­नु­प­पत्तेः । सम्भवति हि हुंफ­डा­दि­व्य­ति­रि­क्त­म­न्त्रै­र­र्थ­स्मृतिः । तद­ध्य­य­न­स्याऽ­र्थाऽ­व­बो­ध­प­र्य­न्त­त्वात् । यद्यपि ब्राह्म­ण­वा­क्यै­र्द्र­व्य­दे­व­ता­दि­स्मृतिः सम्भवति तथापि मन्त्रैरेव स्मृता­व­दृ­ष्ट­वि­शेषः कल्पनीयः । अन्यथा मन्त्रा­णा­मा­न­र्थ­क्य­प्र­स­ङ्गात् । अध्य­य­न­वि­ध्यु­पा­त्तानां तदयोगात् । एवं च सति प्रयोगविधिः सर्वै­र­ङ्गै­र­पू­र्वो­प­कारं कारयन् मन्त्रै­र­र्थ­ज्ञा­न­ल­क्ष­ण­मु­प­कारं कारयति । तत्र यथा प्रयोगवचनो मन्त्रै­र­ध्य­य­न­का­लो­त्प­न्न­ज्ञा­ना­ति­रि­क्त­म­पू­र्वो­प­का­रि­ज्ञा­ना­न्त­र­म­नु­ष्ठा­प­यति तथाऽत्रापि मोक्षो­प­का­रि­ब्र­ह्म­ज्ञा­न­व्य­क्त्य­न्त­र­म­नु­ष्ठा­प­यतु । न चाऽत्र दार्ष्टान्तिके तद्वत् प्रयो­ग­वि­धि­र्ना­स्तीति शङ्कनीयम्, तस्य सम्पादयितुं शक्यत्वात् । ननु सर्वत्रोत्पन्ने कर्मणि विनि­यो­गो­त्त­र­का­ल­म­धि­का­र­स­म्बन्धे सति पश्चात् प्रयो­ग­वि­धि­र­न्वि­ष्यते । इह तूत्प­त्त्या­दि­वि­धि­त्र­या­भावे कथं प्रथमत एव प्रयो­ग­वि­धि­स­म्पा­द­न­मिति चेद्, न; उत्प­त्त्या­दि­वि­धि­त्र­य­स्याऽ­प्यत्र सुसम्पादत्वात् । तथाहि – “वेदा­न्त­वा­क्ये­नाऽऽ­त्म­ज्ञानं कुर्यात्” इत्येवं वेदा­न्त­श­ब्द­ल­क्ष­ण­क­र­णेन विशि­ष्ट­स्याऽऽ­त्म­ज्ञा­नस्य स्वरूपबोध उत्प­त्ति­वि­धि­स्ता­व­द­ध्या­ह्रि­यते । न च वाच्यं विशिष्टप्रतीतौ नोत्प­त्ति­वि­धित्वं सम्भवति, स्वरू­प­मा­त्र­बो­ध­क­त्वा­दु­त्प­त्ति­वि­धे­रिति, “सोमेन यजेत” इत्यत्र विशि­ष्टो­त्प­त्ति­वि­धे­र­ङ्गी­कृ­त­त्वात् । तत्र हि सोमशब्दो यागविशेषनामधेयं गुणवाची वेति विचार्य वल्लीविशेषे रूढस्य याग­ना­म­त्वा­स­म्भ­वा­द्गु­ण­वा­चित्वं निर्धारितम् । तत्र यद्यपि “दध्ना जुहोति” इतिवत् “सोमेन यजेत” इत्युक्ते गुणसम्बन्धः प्रतीयते, तथापि “अग्निहोत्रं जुहोति” इतिवत् पृथ­गु­त्प­त्त्य­श्र­व­णात् सोम­गु­ण­वि­शि­ष्ट­या­गो­त्प­त्ति­वि­धि­रिति अङ्गीकर्तव्यम् । तद्वत् प्रकृतेऽपि विशि­ष्टो­त्प­त्ति­विधिः किं न स्यात् ?

स एवोत्पत्तिविधिः पर्यालोचितो विनि­यो­गा­धि­का­र­प्र­यो­गा­ख्य­वि­धि­त्र­या­का­रेण सम्पद्यते । प्रथमं ताव­दु­त्प­त्ति­वि­धि­बो­धि­त­मा­त्म­ज्ञानं कथमिति जिज्ञासायाम् “फल­व­त्स­न्नि­धा­व­फलं तदङ्गम्” इति न्यायेन फल­व­दा­त्म­ज्ञा­न­प्र­क­र­ण­प­ठि­त­श­मा­दीनि निष्फलानि इति­क­र्त्त­व्य­त्वेन विनि­यो­ज­य­न्न­ङ्गा­ङ्गि­स­म्ब­न्ध­बो­ध­क­त्वा­दु­त्प­त्ति­वि­धि­रेव विनियोगविधिः सम्पद्यते । ततः शमा­दी­ति­क­र्त्त­व्य­ता­नु­गृ­ही­तै­र्वे­दा­न्त­वा­क्य­क­र­णै­रा­त्म­ज्ञानं कुर्यादित्येवं रूपेण निष्पन्नः स एव विनियोगविधिः साङ्गे कर्मणि “ममेदं कर्त्तव्यम्” इति प्रति­प­त्ता­र­म­धि­का­रि­ण­मा­का­ङ्क्ष­न्न­र्थ­वा­द­गतं मोक्षं फलत्वेन रात्रि­स­त्र­न्या­ये­नो­प­सं­हृत्य “मोक्षकामः कुर्यात्” इत्ये­व­म­धि­का­र­विधिः सम्पद्यते । “रात्रिसत्रे” ह्येवमर्थवादः श्रूयते – “प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्ति” इति । तत्राऽ­श्रु­त­त्वा­द­धि­कारी कल्पनीयः । स किं स्वर्गकामो भवेत् किं वाऽऽर्थ­वा­दि­क­प्र­ति­ष्ठा­काम इति सन्देहः । तत्र विश्व­जि­न्न्या­येन स्वर्गकामः प्राप्तः । “विश्वजिता यजेत” इत्यत्र फल­स्याऽ­श्रु­त­स्याऽ­पे­क्षायां “स स्वर्गः स्यात् सर्वा­न्प्र­त्य­वि­शि­ष्ट­त्वात्” इति सूत्रेण क्वचि­न्नि­यो­ज्य­वि­शे­ष­ण­त्वेन श्रुतः स्वर्ग इतरत्राऽपि फलत्वेन कल्पनीयः, सर्वेषां स्वर्गा­र्थि­त्वा­वि­शे­षा­दिति निर्णीतम् । तथा रात्रिसत्रेऽपि स्वर्गः फलं तत्का­मोऽ­धि­का­रीति पूर्वपक्षे प्राप्ते “फलमात्रेयो निर्देशात्” इति सूत्रेणेत्थं राद्धान्तितम् – विश्वजिदादौ फलस्योत्पत्तौ अश्रवणात् स्वर्गः कल्प्यतां नाम, रात्रिसत्रे त्वर्थ­वा­द­नि­र्दिष्टा प्रतिष्ठैव फलम्; सार्थवादेनैव वाक्येन नियोगप्रतीतेः । अर्थवादानां विध्ये­क­वा­क्य­ताया अर्थवादाधिकरणे निर्णीतत्वात् । तत आर्थ­वा­दि­क­प्र­ति­ष्ठा­कामो यथा रात्रि­स­त्रेऽ­धि­कारी तथा “तरति शोकमात्मवित्” इत्या­द्य­र्थ­वा­दा­व­ग­त­मो­क्ष­का­म­म­धि­का­रिणं सम्पा­द­य­न्न­धि­का­र­विधिः स्यात् । ततः स एव साङ्ग­त­त्त्व­ज्ञा­न­म­धि­का­रि­णाऽ­नु­ष्ठा­प­यन् प्रयोगविधिः सम्पद्यते । ततः प्रयोगविधिबलाद् मन्त्रवद् वेदान्तशब्दाः प्रथमतः स्वार्थ­मा­त्मा­न­म­व­बो­ध्याऽपि पश्चा­द­पू­र्वो­प­का­रि­वि­धे­य­ज्ञा­न­व्य­क्त्य­न्तरे पर्य­व­स्था­स्यन्ति । न च वाच्यं मन्त्रा­णा­म­पू­र्वो­प­का­रि­प्र­त्य­य­मात्रे तात्पर्यम्, स्वार्थस्य ब्राह्मणवाक्यैः प्रति­पा­दि­त­त्वात् । वेदान्तानां तु स्वार्थेऽपि तात्पर्यं वक्तव्यम् । अन्य­तोऽ­प्रा­प्त­त्वात् । अतो न विधेयप्रत्यये तात्पर्यमिति, कुल्या­प्र­ण­य­न­न्या­ये­नो­भ­या­र्थ­त्वा­वि­धे­य­त्वात् । यथा शाल्यर्थं कुल्याः प्रणीयन्ते ताभ्य एव पानीयं च पीयते तद्वत् । ननु स्थायिनां कुल्यादीनां युगपत्क्रमेण वाऽने­क­का­र्य­का­रि­त्व­मस्तु, उपलभ्यमानत्वात् । शब्दस्य तु न ताव­त्क्र­म­का­रित्वं क्वचिदपि, विरम्य व्यापा­रा­नु­प­ल­म्भात् । नाऽपि युगपदर्थद्वये तात्पर्यं प्रत्यक्षेण दृश्यते । न्याय­त­स्त­त्क­ल्पने च न युगपद् न्याय­द्व­य­प्र­वृत्तिः सम्भवतीति चेद्, न; प्रया­ज­वा­क्ये­ष्व­र्थ­द्वये तात्प­र्य­स्या­ङ्गी­कृ­त­त्वात् । “समिधो यजति”, “तनूनपातं यजति”, “इडो यजति”, “बर्हिर्यजति”, “स्वाहाकारं यजतीति” पञ्चवाक्यानि पञ्च प्रयाजान् क्रमं च तदनुष्ठानस्य बोधयन्तीति ह्यङ्गीकृतम् । अतः प्रया­ज­वा­क्य­व­दु­भ­यार्था वेदान्तशब्दा मन्त्र­व­द­पू­र्वो­प­का­रिणि ज्ञान­व्य­क्त्य­न्तरे विधेये पर्य­व­स्था­स्य­न्तीति । अत्रोच्यते – वेदान्तानां विधे­य­स­म­र्प­क­तायां न स्वार्थपरता सम्भवति । विधायकस्य योपि­द­ग्न्या­दि­वा­क्यस्य स्वार्थ­प­र­त्वा­द­र्श­नात् । योषि­दा­दि­प­दा­र्थस्य लोकसिद्धतया न तत्र स्वार्थपरता इह तु विधि­ब्र­ह्म­णो­र­लौ­कि­क­त्वा­दु­भ­य­प­रत्वं वेदा­न्त­ज­न्य­ज्ञा­नस्य स्यादिति चेत्, किमत्र वेदान्तेषु या ज्ञान­व्य­क्ति­र्वि­धी­यते सैव वेदान्तार्थभूतं ब्रह्मस्वरूपं प्रमापयति उत ज्ञान­व्य­क्त्य­न्त­रम् ? आद्ये विरु­द्ध­त्रि­क­द्व­या­प­त्ति­ल­क्षणं वैरूप्यं ब्रह्मणः प्रसज्येत । प्राधा­न्य­मु­पा­दे­यत्वं विधेयत्वं चेत्येकं त्रिकम् । गुण­भा­व­मु­द्दे­श्य­त्व­म­नु­वा­द्यत्वं चेत्यपरं त्रिकम् । तत्र प्रमापकस्य ज्ञानस्य प्रमेयार्थतया प्रमेयस्य ब्रह्मणः प्राधान्यम् । तथा कस्य ज्ञान­मि­त्य­पे­क्षायां ब्रह्मणो ज्ञानमित्येवं विधेयज्ञानं प्रति व्यावर्त्तकतया तदर्थस्य ब्रह्मणो गुणाभावः तथा प्रमाणविषयस्य ब्रह्मणः प्रमा­ण­ज­न्या­ति­श­य­यो­गि­त्वा­का­रेण साध्य­त्वा­दु­पा­दे­यत्वं तथा स्वभावतः सिद्धवाद् ब्रह्मण उद्देश्यत्वम् । तथेदानीं प्रमाणविषयस्य ब्रह्मणः पूर्व­म­ज्ञा­त­त­याऽ­ङ्गी­का­र्य­त्वाद् विधेयत्वम् । तथे­दा­नी­मु­द्दे­श्यस्य ब्रह्मणः पूर्वं ज्ञात­त्वा­द­नु­वा­द्य­त्वम् । तदेवं विधेयज्ञानमेव ब्रह्म­प्र­मा­प­क­मि­त्य­स्मि­न्ना­द्य­पक्षे वैरूप्यं दुर्वारम् । अस्तु तर्हि द्वितीयः पक्षः – वेदान्तेभ्य उत्पन्नं प्रथमज्ञानं ब्रह्मपरं द्वितीयज्ञानं विधेयतया विधिपरमिति । नाऽयमपि पक्षः समीचीनः, शब्द­स्यो­भ­य­प­र­त्वा­भावे तज्ज­न्य­ज्ञा­न­स्याऽ­स­कृ­ज्जा­त­स्याऽ­प्यु­भ­य­प­र­त्वा­नु­प­पत्तेः । न च शब्द­स्यो­भ­य­प­र­त्वम्, प्रया­ज­वा­क्य­दृ­ष्टा­न्तस्य निरा­क­रि­ष्य­मा­ण­त्वात् । ननु वैरूप्यप्रसङ्गो न दोषमावहति । अन्यथा गुण­क­र्म­वि­धा­ना­नु­प­पत्तेः । तथाहि – क्रत्व­ङ्ग­भू­त­व्री­ह्या­दि­का­र­क­सं­स्का­रा­र्थानि कर्माणि गुणकर्माणि । तत्र व्रीही­णा­म­न्या­र्थ­त्व­सि­द्ध­त्व­ज्ञा­त­त्व­ल­क्ष­णानि गुण­त्वो­द्दे­श्य­त्वा­नु­वा­द्य­त्वानि तावद् विद्यन्ते । यागक्रियां प्रति कार­क­त्वा­द­न्या­र्थ­त्वम् । माना­न्त­र­ग­म्य­त्वात् सिद्ध­त्व­ज्ञा­तत्वे । तथा शेषि­त्व­सा­ध्य­त्वा­ज्ञा­त­त्व­ल­क्ष­णानि प्राधा­न्यो­पा­दे­य­त्व­वि­धे­य­त्वानि प्रोक्ष­ण­क्रि­या­व­शाद् व्रीहीणामत्र सम्भविष्यन्ति । प्रोक्षणस्य व्रीह्य­र्थ­त्वाद् व्रीहीणां शेपित्वम् । प्रोक्ष­ण­ज­न्या­ति­श­य­व­दा­का­रेण पूर्व­म­सि­द्ध­त्वात् साध्य­त्वा­ज्ञा­तत्वे । तत्र गुण­त्वो­द्दे­श्य­त्वा­नु­वा­द्य­त्वाख्यं त्रिकं व्रीहिशब्दात् प्रतीयते । प्राधा­न्यो­पा­दे­य­त्व­वि­धे­य­त्वाख्यं त्रिकं प्रोक्ष­ण­क्रि­या­ज­न्या­ति­श­य­वा­चि­द्वि­ती­या­वि­भक्त्या प्रतीयते । ततो व्रीहि­प्रो­क्ष­णा­दिषु गुण­क­र्म­स्वे­कस्यां प्रमितौ विरु­द्ध­त्रि­क­द्व­या­प­त्ति­र्दु­र्वा­रेति नेयं दोषावहेति चेद्, मैवम्; न तत्र क्रिया­ज­न्या­ति­शयो विभक्तिगम्यः, किन्तु व्रीह्य­र्थ­क्रि­या­वि­ध्य­नु­प­प­त्ति­गम्यः । अतः शाब्दे ज्ञाने गुण­त्वो­द्दे­श्य­त्वा­नु­वा­द्य­त्वा­न्येव प्रमीयन्ते । प्राधा­न्यो­पा­दे­य­त्व­वि­धे­य­त्वानि त्वर्था­प­त्त्येति ज्ञानभेदान्न तत्र वैरूप्यप्रसङ्गः । प्रकृतेऽपि तर्हि ब्रह्म­ज्ञा­न­वि­धे­य­ज्ञा­न­यो­र्भे­दा­द­वि­रो­धोऽ­स्त्विति चेद्, न; व्रीह्यादाविव ब्रह्मणि माना­न्त­र­स्याऽ­स­म्भ­वात् । न हि साम­ग्री­भे­द­म­न्त­रेण कार्यभेदः सम्भवति । अथोच्येत – विधा­य­क­प­द­व्य­ति­रि­क्त­प­द­स­मु­दायो ब्रह्मस्वरूपं प्रथमतः प्रतिपाद्य पुन­स्त­द­नु­वा­द­ज्ञानं जनयित्वा तस्य ज्ञानस्य विधि­वि­ष­य­त्व­स­म­र्प­णेन पुनर्विधायकपदेन पदैकवाक्यानां गच्छति, ततः प्रमा­ण­भे­द­सि­द्धि­रिति । नैतद्युक्तम्, पदैकवाक्यतायाः प्राग् वाक्यरूपस्य पदसमुदायस्य प्रमा­ण­त्वा­यो­गात् । अथाऽत्र ब्रह्मज्ञानं ज्ञानविधिवाक्यं चेति द्वेधा विभज्य पश्चा­द­र्थ­वा­द­वि­धि­वा­क्य­यो­रिव वाक्यैकवाक्यता कल्प्येत, तदसत्; अर्थ­वा­दा­ना­म­फ­लानां विध्ये­क­वा­क्य­त्वेऽपि ब्रह्मवाक्यस्य स्वत एव पुरु­षा­र्थ­प­र्य­व­सा­यि­न­स्त­द­यो­गात् । अथ प्राथ­मि­क­शा­ब्द­ज्ञा­नस्य परो­क्ष­त्वे­नाऽ­फ­ल­त्वात् फल­भू­ता­प­रो­क्षा­नु­भ­व­हे­तु­त्वा­भा­वात् तद्धेतुज्ञानं विधेयम् । ततो ब्रह्मवाक्यस्य तद्वि­ध्ये­क­वा­क्यत्वं युक्तमिति चेद्, तर्हि यागस्य व्रीह्या­दि­व­द्वि­धी­य­मा­न­ज्ञा­नस्य किञ्चि­त्क­र­ण­का­रकं वक्तव्यम् । तच्च न सम्भवति, त्वन्मते शब्दस्य परो­क्ष­ज्ञा­नो­प­क्ष­यात् । इन्द्रियादीनां च ब्रह्म­गो­च­र­त्वा­भा­वात् । अथ मतं शाब्द­ज्ञा­न­स्याऽ­प­रो­क्षा­नु­भ­व­हे­तुता यद्यपि स्वतो न दृश्यते तथापि विधिबलात् भविष्यति, ततः शब्द एव विधे­य­ज्ञा­न­क­र­ण­मिति । तदयुक्तम् । किमत्र शब्दजन्यं प्राथमिकं ब्रह्मज्ञानं विधेयमुत तेन ज्ञानेनाऽवगतं ब्रह्मोद्दिश्य प्रत्ययसन्तानः । नाऽऽद्यः, विधेयज्ञानस्यैव ब्रह्म­प्र­मा­प­कत्वे वैरूप्यस्य दर्शितत्वात् । न द्वितीयः, प्रत्य­य­स­न्ता­न­स्याऽ­श्रु­त­त्वात् । “आत्मे­त्वे­वो­पा­सीत” इत्यादौ प्रत्य­य­स­न्ता­न­रू­प­स्यो­पा­स­नस्य विधिः श्रूयत इति चेद्, न; स्वभा­व­सि­द्ध­प्र­त्य­य­मु­द्दिश्य तस्याऽ­लौ­कि­का­त्म­ल­क्ष­ण­वि­ष­य­प्र­ति­पा­दने वाक्य­ता­त्प­र्यात् । एव­का­र­यो­गा­दा­त्मनः प्रति­पा­द्य­त्व­नि­र्ण­यात् । तदुक्तम् –
“यच्छब्दयोगः प्राथ­म्य­मि­त्या­द्यु­द्दे­श्य­ल­क्ष­णम् ।
तच्छब्द एवकारश्च स्यादु­पा­दे­य­ल­क्ष­णम् ॥” इति ॥
न चैत­द्वा­क्य­मा­त्मानं तदुपासनं च प्रतिपादयितुं शक्नोति, वाक्य­भे­द­प्र­स­ङ्गात् । न च “निदि­ध्या­सि­तव्यः” इति वाक्यमुपासनां विदध्यात्, आत्म­प्र­ति­पा­द­क­वा­क्य­मध्ये पठितस्य तस्य स्तुतिपरत्वात् । अन्यथा वाक्यभेदापत्तेः । नन्वा­त्म­न्ये­वाऽऽ­त्मानं पश्येदिति ज्ञानविधानेन सन्ता­न­वि­धि­रु­प­ल­भ्यते, ज्ञानस्य सर्वत्र प्रवा­हे­णाऽ­वि­ना­भा­वा­दिति चेद्, न; अवि­ना­भा­वा­सिद्धेः । क्वचि­त्पु­रो­वर्ति वस्तु सकृद् दृष्टवतो झटिति प्रत्य­ङ्मु­ख­त्वा­दि­द­र्श­नात् । अथाऽपि दर्श­पू­र्ण­मा­स­प्र­क­रणे मलवद्वाससो व्रत­क­ला­प­वि­धा­न­व­दा­त्म­प्र­क­रणे सन्तानरूपं निदिध्यासनं विधातुं शक्यत इति चेद्, एवमपि सन्ता­न­स्याऽ­प्र­मा­ण­स्याऽ­प­रो­क्षा­नु­भ­व­हे­तु­त्वा­स­म्भ­वान्न शाब्द­ज्ञा­ना­द्वि­शेषः सिध्येत् । न च मृत­पु­त्रा­दे­र्भा­व­ना­धि­क्या­दा­प­रोक्ष्यं दृष्टमिति वाच्यम्, तत्र विष­य­स्याऽ­स­म्प्र­यु­क्त­त्वेन तदापरोक्ष्यस्य भ्रान्तत्वात् । “ज्ञानप्रसादेन विशु­द्ध­स­त्त्व­स्त­तस्तु तं पश्यति निष्फलं ध्यायमानः” इति श्रुत्या ध्यान­स्याऽ­प­रो­क्षा­नु­भ­व­हे­तु­त्व­मु­क्त­मिति चेद्, मैवम्; नाऽत्र “ध्यायमानः पश्यति” इत्येवमन्वयो येन ध्यानं दर्शनहेतुः स्याद्, अपि तु ध्यायमानो ज्ञानप्रसादेन पश्यतीति । शान­श­ब्देऽ­ना­त्राऽ­न्तः­क­र­ण­मु­च्यते, ज्ञायतेऽनेनेति व्युत्पत्तेः । तस्य प्रसाद ऐकाग्र्यम् । तच्च सहकारिकारणम् । लोके दुर्ज्ञे­य­व­स्तु­द­र्शने चित्तै­का­ग्र्य­स­हा­या­पे­क्षाया दृष्टत्वात् । एवं च सह­का­रि­भू­त­चि­त्तै­का­ग्र्यस्य प्रत्य­य­स­न्ता­न­रूपं ध्यानं साधनमित्युक्तं भवति । न चैव­म­श्रु­ता­न्व­य­क­ल्प­न­म­यु­क्त­मिति वाच्यम्, अदृ­ष्टा­नु­प­प­न्ना­र्थ­क­ल्प­ना­द­न्व­य­मा­त्र­वै­प­री­त्य­क­ल्प­नस्य लघीयस्त्वात् । नह्यन्यत्र ध्यान­स्याऽ­प­रो­क्ष­प्र­मि­ति­हे­तुत्वं दृष्टम्, नाऽप्युपपन्नम्, ध्यानस्य प्रमा­ण­रू­प­त्वा­भा­वात् । साक्षात्कारस्य तु प्रमाणभूतः शब्द एव कारणमिति पूर्ववर्णके विद्या­प्रा­प्ति­वादे “तं त्वौपनिषदम्” इति तद्धि­त­प्र­त्य­य­मु­प­जीव्य सिद्धान्तिना समर्थितम् । अतः शब्दज्ञानस्य तत्सन्तानस्य वा नाऽप­रो­क्षा­नु­भ­व­क­र­ण­तया विधेयत्वसम्भवः ।

यदुक्तं प्रया­ज­वा­क्य­व­द्वे­दा­न्ता­ना­मु­भ­या­र्थत्वे सति ब्रह्म­प्र­ति­पा­दनं विधे­य­ज्ञा­न­व्य­क्त्य­न्त­र­प­र्य­व­सानं च भविष्यतीति । तदपेशलम्, दृष्टा­न्ता­सिद्धेः । प्रयाजा एव हि तत्र शब्द­ग­म्या­स्त­द­नु­ष्ठा­न­क्र­म­स्त्व­र्था­प­त्ति­गम्यः । ननु न तावत्प्रजाया एव क्रमः, तेषां क्रम­श­ब्दा­न­भि­धे­य­त्वात् । नापि तदतिरिक्तः क्रमः सुनिरूपः, एकै­क­स्मि­न्प्र­याजे क्रमादर्शनात् । संयो­ग­व­द­ने­का­श्रितः क्रम इति चेद्, न; तथा सति संयोगिनोरिव प्रयाजानां यौग­प­द्य­प्र­स­ङ्गात् । यौगपद्ये च कालकृते क्रमव्याघातात् । मैवम्, लोकप्रसिद्धस्य क्रम­स्याऽ­प­ह्न­वा­यो­गात् । काल­कृ­त­क्र­म­त्वा­दे­वाऽऽ­श्र­य­यौ­ग­प­द्या­न­पे­क्ष­त्वात् । यदि देश­का­ल­व­स्तू­पा­धि­प­रा­म­र्श­म­न्त­रेण स्वतन्त्रः क्रमो न दृश्येत, तर्ह्ये­क­दे­शो­पा­धि­केषु वृक्षेषु वनव्यवहारवत् सन्नि­हि­ता­ने­क­क्ष­णो­पा­धि­केषु प्रयाजेषु क्रम­व्य­व­हा­रोऽस्तु । अथाऽ­नु­ष्ठे­य­प­दा­र्था­ना­म­नि­ष्प­न्न­स्व­भा­व­त्वा­द्दे­श­का­ल­व­स्तु­कृतः क्रमो न सम्भवेत्, तर्हि वाक्यपाठक्रम एव स्मर्य­मा­णोऽ­नु­ष्ठे­य­प­दा­र्थोऽ­प्यु­प­क­ल्प­ताम् । ननु कथमयं क्रमोऽ­नु­ष्ठे­य­वि­शे­ष­ण­तया प्रमीयते, विधायकाभावात्; प्रयोगवचनस्य तद्विधायकत्वे पर­स्प­रा­श्र­य­त्व­प्र­स­ङ्गात् । विहिते प्रयोगविधिः, प्रयोगविधौ च तद्विधिकल्पनेति । नैष दोषः, एकस्य कर्तु­र्यु­ग­प­द­ने­क­प­दा­र्थ­प्र­यो­गा­नु­प­पत्त्या क्रमस्य प्रमीयमाणत्वात् । ततः प्रया­ज­वा­क्या­ना­मे­का­र्थ­प­र­त्वान्न तद्दृष्टान्तेन वेदा­न्ता­ना­म­र्थ­द्व­य­प­रत्वं सम्भवति । यदप्युक्तम् – उपा­स­ना­वि­धि­प­रै­र्वे­दा­न्तै­र्ब्र­ह्मा­प्य­व­ग­म्यते, रूपप्रत्यायकेन चक्षुषा द्रव्यस्याऽपि प्रती­ति­द­र्श­ना­दिति, तदप्यसत् । यथा प्रतिवस्तु सम्प्र­यो­ग­नि­र­पे­क्ष­मेव प्रमाणं चक्षुर्न तथा प्रतिपदार्थं प्रमाणं शब्दः किन्तु यत्र तात्पर्यं तत्र सम्भूयैव प्रमाणम् । तथा च विधिपरा वेदान्ताः कथं ब्रह्मावगमयेयुः । नन्वेवं तर्हि वेदान्तशब्दा ब्रह्मस्वरूपं मा प्रमापयन्तु किन्तु विधा­य­क­प­द­ज­न्य­वि­धि­प्र­मि­ति­वि­ष­य­त्वे­नैव ब्रह्मज्ञानं समर्पयन्तु ब्रह्मस्वरूपं त्वर्थापत्त्या सेत्स्यति, विधेयज्ञानस्य ज्ञेय­भू­त­ब्र­ह्म­स्व­रू­प­म­न्त­रे­णाऽ­नु­प­प­त्ते­रिति चेद्, महदिदं न्याय­वि­चा­र­कौ­श­ल­मा­यु­ष्यतः, यदेकस्मिन् विषये ब्रह्म­स्व­रू­पाख्ये प्रथ­म­प्र­ति­पत्तिः प्रमाणं तस्मिन्नेव द्वितीयज्ञानं न प्रमाणमिति । तथा श्रुतिर्न प्रमाणम्, श्रुत्य­र्था­प­त्तिश्च प्रमाणमिति । अथ श्रुति­र्वि­धि­शे­ष­त्वान्न स्वार्थे प्रमाणं श्रुत्य­र्था­प­त्ति­स्त्व­न­न्य­शे­ष­त्वात् प्रमाणम्, इत्युच्येत, एवमपि नाऽत्र ब्रह्म सिध्येत्, “वाचं धेनुमुपासीत” इत्यादाविव विधेयज्ञानस्य वास्त­व­ज्ञे­य­म­न्त­रे­णा­प्यु­प­पत्तेः । स्वतः प्रामा­ण्य­मा­श्रित्य विधेयज्ञानाद् ब्रह्मसाधने तथैव सिद्धा­र्थ­प­द­ज­न्य­प्रा­थ­मि­क­ज्ञा­नाद् ब्रह्म किं न सिध्येत् ? तत्सिद्धौ च तावतैव मुक्त्युपपत्तौ विधिवैयर्थ्यम् । अथ विधे­य­ज्ञा­न­स्या­रो­पि­त­वि­ष­य­ता­या­म­दृ­ष्ट­फ­ल­क­ल्प­नात् ततो विष­य­प्र­मि­ति­ल­क्षणं दृष्टफलं कल्प्यत इति चेद्, न; सक­ल­प्र­मा­ण­वि­रो­ध­प्र­स­ङ्गात् । तदे­व­म­त्य­न्त­दु­ष्टस्य प्रति­प­त्ति­वि­धे­र­ध्या­ह­र्तु­म­श­क्य­त्वात् “इदं सर्वं यदयमात्मा” इत्यादि वेदा­न्तै­र्म­न्त्रै­रिव प्रयोगवचनो न ज्ञान­व्य­क्त्य­न्त­र­म­नु­ष्ठा­प­यति, ततो नानेनापि सिद्धा­न्तै­क­दे­शिना वेदा­न्त­वि­चा­र­स्याऽ­ग­ता­र्थत्वं सुसम्पादम् । नन्व­ध्य­य­न­वि­ध्यु­पा­त्तानां धर्म­ब्र­ह्म­वि­ष­य­त्वा­भावे सत्यानर्थक्यं स्यादिति चेत्, मैवम्; यद्यपि वेदान्तानां सिद्ध­ब्र­ह्म­स्व­रू­पा­बो­ध­क­त्वा­न्नास्ति ब्रह्म, तथापि न वेदा­न्त­वै­यर्थ्यं, कर्तृ­त्व­भो­क्तृ­त्वा­दि­वि­शि­ष्ट­स्या­हं­प्र­त्य­य­ग­म्यस्य जीवात्मनो विद्यमानः कर्तृ­त्वा­दि­भि­र­वि­द्य­मा­नै­श्चाऽ­न्त­र्या­मि­त्व­ब्र­ह्म­त्वा­दि­भि­र्वे­दा­न्तो­क्त­स­म­स्त­गु­णै­र्वि­शि­ष्ट­त­यो­पा­स­नो­त्प­त्ति­विधौ शम­द­मा­दी­ति­क­र्त्त­व्य­तो­प­सं­हा­रेण विनियोगविधौ मोक्ष­का­मि­नि­यो­ज्य­स­म्ब­न्धि­त­याऽ­धि­का­र­विधौ साङ्गे कर्म­ण्य­धि­का­रि­ण्य­नु­ष्ठा­प­क­तया प्रयोगविधौ च वेदान्तानां पर्य­व­सा­ना­ङ्गी­का­रात् । तत्र विध्य­पे­क्षि­त­न्या­यस्य सर्वस्य पूर्वतन्त्र एव गत­त्वा­द­भ्य­धि­का­श­ङ्काया अद­र्श­ना­न्नै­वा­र­ब्ध­व्यो­त्त­र­मी­मां­से­त्येवं पूर्वः पक्षः । अत्राऽभिदध्मे – किं सिद्धे व्युत्प­त्त्य­भा­वा­द्वे­दा­न्ता­ना­मु­पा­स­ना­क्रि­या­प­र­त्व­मु­च्यते किं वा जैमि­न्या­दि­व­च­न­सा­म­र्थ्यात् ? तत्राऽऽद्यः समन्वयसूत्रे निराकरिष्यते । न द्वितीयः, वेदान्तानां जैमि­न्या­दि­भि­र­वि­चा­रि­त­त्वात् । “अथातो धर्मजिज्ञासा” इत्यत्र हि सूत्रे भाष्य­का­रा­दि­भि­र्ध­र्म­मा­त्र­वि­चा­र­प्र­ति­ज्ञा­प­र­त्वे­नाऽ­धि­क­र­ण­मा­र­चितं न तु कृत्स्न­वे­दा­र्थ­वि­चा­र­प्र­ति­ज्ञा­प­र­त्वेन । तथाहि – धर्म­मी­मां­सा­शास्त्रं विषयः, ततः किमारम्भणीयं न वेति सन्देहः । तदर्थमर्थान्तरं चिन्त्यते – अध्य­य­न­वि­धि­र­दृ­ष्टार्थो दृष्टार्थो वेति ? तताऽदृष्टार्थ इति तावत् प्राप्तम्, दृष्टफलसाधने भोजनादौ विध्यदर्शनात् । अध्य­य­न­क्रि­या­क­र्मणि स्वाध्याये संस्का­र­प्रा­प्ति­ल­क्षणं दृष्टफलं सम्भवेत् । कथ­म­दृ­ष्टा­र्थ­तेति चेद्, मैवम् । न तावत् संस्कारः सम्भवति; संस्कृतस्य स्वाध्यायस्य कुत्रचित्कृतौ विनि­यो­गा­द­र्श­नात् । नाऽपि प्राप्तिः, अक्ष­र­ग्र­ह­ण­मा­त्र­रू­पायाः प्राप्तेः स्वय­म­फ­ल­त्वा­त्फ­ला­न्त­रा­सा­ध­न­त्वाच्च । अर्थावबोधसाधनं तदिति चेत्, तर्ह्य­र्था­व­बो­धा­क्ष­र­ग्र­ह­णयोः साध्यसाधनभावस्य लोक­सि­द्ध­त्वा­द्वि­धि­वै­य­र्थ्यम् । यदि कर्म­का­र­क­ग­त­फ­ला­भावे कर्मा­भि­धा­यि­त­व्य­प्र­त्य­येन कर्मप्रधानो विधिर्न सम्भवेत्, तर्हि सक्तुन्यायेन “अधीयीत” इति वैपरीत्यं कल्प्यताम् ? न च फला­श्र­व­णा­द­ध्य­य­नस्य कथ­म­दृ­ष्टा­र्थ­तेति वाच्यम्, “यदृचोऽधीते पयसः कुल्या अस्य पितॄन् स्वधा अभिसम्भवति यद्यजूंषि घृतस्य कुल्या” इत्यादिना ब्रह्म­य­ज्ञ­रू­प­ज­पा­ध्य­य­न­फ­ल­त्वेन श्रूयमाणस्य घृत­कु­ल्या­दे­र­ध्य­य­न­त्व­सा­म्येन प्रथ­मा­ध्य­य­नेऽ­प्य­ति­देष्टुं शक्यत्वात्; ततो रात्रि­स­त्र­न्या­येन घृतकुल्यादिकामः “स्वाध्या­ये­ना­धी­यीत” इत्येवं विधिः सम्पद्यते । यदि केचि­द­र्थ­वा­द­फ­ला­ति­देशं नेच्छन्ति, तर्हि तन्मते विश्व­जि­न्न्या­येन स्वर्गः कल्पनीयः । तदुक्तम् –
“विनापि विधि­नाऽ­दृ­ष्ट­ला­भा­न्नहि तदर्थता ।
कल्प्यस्तु विधिसामर्थ्यात् स्वर्गो विश्वजिदादिवत् ॥” इति ।
न चाऽदृ­ष्टा­र्थ­त्वेऽपि स्वाभा­वि­क­स्वा­र्था­व­बो­ध­सा­म­र्थ्यस्य का हानिरिति वाच्यम्, अन्यार्थस्याऽपि स्वार्थापरतायां मन्त्रा­र्थ­वा­द­यो­र­ति­प्र­स­ङ्गात् । तस्मा­दा­म्ना­य­स्याऽ­वि­व­क्षि­ता­र्थ­त्वा­द्ध­र्मस्य च प्रत्य­क्षा­द्य­वि­ष­य­त्वात् प्रमा­णा­नु­ग्रा­ह­क­त­र्क­रू­पस्य विचा­र­स्याऽ­नु­ग्रा­ह्य­प्र­मा­णा­भावे निरा­ल­म्ब­न­त्वान्न शास्त्र­मा­र­म्भ­णी­य­मिति पूर्वपक्षे प्राप्ते राद्धान्तं ब्रूमः –
“लभ्यमाने फले दृष्टे नाऽदृ­ष्ट­फ­ल­क­ल्पना ।
विधेस्तु निय­मा­र्थ­त्वा­न्नाऽऽ­न­र्थक्यं भविष्यति ॥”
लभ्यते हि कर्मकारके स्वाध्याये द्विविधं दृष्टफलम् – अध्य­य­न­क्रि­या­ज­नितं फल­व­द­र्था­व­बो­ध­हे­तु­भू­त­प्राप्तिः संस्कारश्च । अर्था­व­बो­धा­र्था­क्ष­र­ग्र­ह­णयोः साध्यसाधनभावस्य लोकसिद्धत्वेऽपि न विधिवैयर्थ्यम्, नियमार्थत्वात् । न च संस्कृतस्य विनियोगाभावः, क्रतु­वि­ध्यु­पा­दा­न­प्र­मा­णा­देव विनियोगसिद्धेः । क्रतुविधिर्हि स्ववि­ष­या­व­बो­ध­म­पे­क्ष­मा­ण­स्तस्य जनकतया संस्कृतं स्वाध्या­य­मु­पा­दत्ते । ननूपादानप्रमाणं ज्ञानस्य जनकतया स्वाध्या­य­मा­त्र­मा­दत्ते न संस्कारमिति चेत्, सत्यम्, तथापि कर्म­प्र­धा­ना­ध्य­य­न­वि­धि­सा­म­र्थ्या­देव संस्कृ­त­स्वा­ध्या­य­ज­न्य­वि­शि­ष्ट­ज्ञा­न­व­तै­वाऽ­नु­ष्ठितो यागोऽपूर्वं जनयतीति कल्प्यते । प्रधा­न­व­द­न­ङ्ग­स्याऽ­प्य­ध्य­य­नस्य क्रतू­प­का­रि­त्व­म­वि­रु­द्धम्, तत उभ­य­वि­धि­सा­म­र्थ्या­द्वि­व­क्षि­तार्थो लभ्यते । एवं च यथा­श्रु­त­क­र्म­का­र­क­ग­त­दृ­ष्ट­फ­ल­स­म्भवे सक्तु­न्या­ये­नाऽ­श्रु­त­क­र­ण­त्व­क­ल्प­न­म­दृ­ष्ट­फ­ल­क­ल्पनं चाऽन्याय्यम् । ननु तव्यप्रत्ययेन प्रकृ­त्य­र्थ­भू­ता­ध्य­य­नो­प­र­क्त­म­पू­र्व­म­भि­धी­यते, न तु कल्प्यत इति चेद्, मैवम्; अपू­र्वा­भि­धा­यि­त­व्य­प्र­त्ययः स्वाध्या­य­ग­त­त्वे­नै­वाऽ­पू­र्व­म­भि­द­ध्या­न्नाऽ­ध्य­य­न­ग­त­त्वेन, तव्यप्रत्ययस्य कर्म­भू­त­स्वा­ध्या­य­प­र­त्वात् । अपूर्वस्य धात्व­र्थ­ज­न्य­त्व­नि­य­मेऽपि तदु­प­र­क्त­त्वा­नि­य­मेन स्वाध्या­य­ग­त­त्व­म­वि­रु­द्धम् । नन्व­दृ­ष्टा­र्थत्वे स्वाध्यायस्य विवक्षितार्थता न स्यात्, विष­नि­र्ह­र­णा­दि­का­र्या­न्त­र­वि­नि­यु­क्त­म­न्त्रा­दि­व­दिति चेद्, न; तथा सत्य­ध्य­य­न­वि­धि­वा­क्य­स्याऽ­प्य­वि­व­क्षि­ता­र्थ­त्वा­द­दृ­ष्टा­र्थ­त­याऽ­ध्य­य­न­वि­धा­न­मि­त्ये­ता­दृशं त्वन्मतमपि न सिध्येत् । अथोच्येत अध्य­य­न­वा­क्य­स्याऽ­दृ­ष्टा­र्थत्वं तस्याऽ­र्थ­वि­व­क्षा­प्र­ति­ब­न्धकं न भवति, स्ववा­क्या­र्थ­म­ध्य­य­ना­व­च्छि­न्न­फ­ल­भा­व­ना­रूपं प्रत्ये­वाऽ­ध्य­य­न­वि­धि­नाऽ­ध्य­य­न­वा­क्यस्य विनियुक्तत्वात् । न हि मन्त्रेष्वपि विनि­यु­क्त­त्व­मा­त्र­म­वि­व­क्षि­ता­र्थ­त्व­प्र­यो­ज­कम्, किन्तु स्वार्थादन्यत्र विनियुक्तत्वम् । न चाऽध्ययनवाक्यं स्वार्थादन्यत्र विनियुज्यते तेन स्वार्थपरस्य तस्य कस्मा­द­वि­व­क्षि­ता­र्थता स्यात् । ज्योति­ष्टो­मा­दि­वा­क्यानि तु यागा­द्य­व­च्छि­न्न­फ­ल­भा­व­ना­रू­पात् स्वार्था­द­न्य­त्राऽ­ध्य­य­ना­व­च्छि­न्न­फ­ल­भा­व­ना­या­म­ध्य­य­न­वि­धिना विनियुज्यन्ते, ततो मन्त्रा­णा­मि­वाऽ­न्यत्र विनि­यु­क्त­स्याऽ­दृ­ष्टा­र्थस्य स्वाध्या­य­स्याऽ­र्थ­वि­व­क्षा­प्र­ति­बन्धो दुर्वार इति । नैतद्युक्तम्, न ताव­द­दृ­ष्टा­र्थ­त्वे­नाऽ­र्थ­वि­वक्षा प्रतिबध्यते, स्वत­न्त्राऽ­दृ­ष्टस्य निर­पे­क्ष­स्व­र्गा­दि­फ­ल­ज­न­कस्य कथ­ञ्चि­त्प्र­ति­ब­न्ध­क­त्व­श­ङ्का­या­म­प्यत्र तदभावात् । अत्र हि स्वाध्या­य­ग­त­क­र्म­त्व­प्र­ती­ति­नि­र्वा­हाय कर्म­ग­त­म­दृ­ष्ट­म­वश्यं कल्पनीयम्, तस्य च कर्मद्वारेणैव फल­म­पे­क्षि­त­मि­त्य­क्ष­र­सा­म­र्थ्य­सि­द्धा­र्था­व­बोध एव तत्फलं स्यात् । तथा चाऽत्राऽदृष्टं नाऽर्थविवक्षाया बाधकं प्रत्युत साधकमेव । कर्म­ग­ता­दृ­ष्ट­स्याऽ­व­र्ज­नी­यत्वे तस्याऽ­दृ­ष्टा­र्था­व­बो­ध­क­ल­क्ष­ण­फ­लो­त्पा­द­नेन चरितार्थतायां च ततोऽ­ति­रि­क्त­स्व­त­न्त्रा­दृष्टं तत्फलं वा कल्प­यि­तु­म­श­क्यम्, गौरवप्रसङ्गात् । नाऽप्यन्यत्र विनि­यो­गोऽ­र्थ­वि­वक्षां प्रतिबध्नाति, अन्यत्र विनियुक्तानामपि मन्त्राणां स्वसा­म­र्थ्य­सि­द्धा­र्था­व­बो­ध­क­त्व­द­र्श­नात् । अन्यथा ब्राह्म­णा­दि­वा­क्यै­रपि स्मर्तुं शक्यस्य द्रव्य­दे­व­ता­दे­र्म­न्त्रै­रेव स्मरणाय नियमफलो विनियोगः कथं सङ्गच्छेत । तदुक्तम् –
“विधिशक्तिर्न मन्त्रस्य नियोगेनाऽपनीयते ।
स्वतो विधास्यति ह्येषां नियो­गा­त्स्मा­र­यि­ष्यति ॥” इति ।
तस्मा­द्वि­व­क्षि­ता­र्थ­मा­म्ना­य­म­व­लम्ब्य प्रवृत्तं तदनुग्राहकं धर्म­वि­चा­र­शा­स्त्र­मा­र­म्भ­णी­य­मिति ।

तदेवं पूर्व­मी­मां­सा­र­म्भा­धि­क­र­ण­प­र्या­लो­च­नया कृत्स्न­वे­द­स्याऽ­र्थ­वि­वक्षां धर्ममात्रस्य विचारावसरं च प्रद­र्श­यि­तु­मा­दि­सूत्रं प्रववृते न तु सर्व­वे­दा­र्थ­वि­चा­र­प्र­ति­ज्ञा­ना­ये­त्य­व­ग­म्यते । ननु वेदवाक्यानि विचा­र­ये­दि­त्या­दि­भा­ष्य­लि­ङ्गाद् वेदा­र्थ­मा­त्र­वि­चा­रोऽ­व­ग­म्यते । मैवम्, त्वया तद­भि­प्रा­या­न­व­बो­धात् । भाष्यकारो हि धर्मे सामान्यतः प्रसिद्धिं विशेषतो विप्रतिपत्तिं चोपन्यस्य चैत्य­व­न्द­ना­दी­ना­मेव धर्मत्वाद् बुद्धा­दि­वा­क्या­न्येव विचार्याणीति पूर्वपक्षीकृत्य सिद्धा­न्त­सू­त्र­म­र्थ­क­थ­न­पु­रः­स­र­मे­व­म­व­ता­र­यति स्म – धर्माय वेदवाक्यानि विचारयिष्यन् वेद­स्याऽ­र्थ­वि­वक्षां विचारावसरं च प्रदर्शयितुम् “अथातो धर्मजिज्ञासा” इति सूत्रयामास जैमिनिरिति । ततः पूर्वा­प­र­प­र्या­लो­च­नया धर्मविचार एव भाष्य­का­रा­भि­प्रेत इति निश्चीयते । सूत्रस्य चाऽयमर्थः – वेद­म­धी­त्याऽ­न­न्त­र­म­धी­त­वे­दस्य विवक्षितार्थस्य विचा­र­हे­तु­त्वा­द्ध­र्म­वि­चारः कर्तव्य इति । तत्राऽ­प्य­थ­श­ब्देन कृत्स्न­वे­दा­ध्य­य­नस्य पूर्व­वृ­त्त­त्व­म­भि­धा­याऽ­तः­श­ब्देन च कृत्स्नवेदस्य विव­क्षि­ता­र्थत्वे हेतूकृते सति सर्व­वे­दा­र्थ­वि­चारः कर्त्तव्य इत्येव प्रतिज्ञा यद्यपि प्राप्ता, अन्यथा प्रति­ज्ञा­हे­त्वो­र्वै­य­धि­क­र­ण्यात् । तथापि वेदशब्दं परित्यज्य धर्म­श­ब्द­मु­च्चार्य प्रतिजानतः सूत्रकारस्य वेदै­क­दे­शा­र्थ­वि­चार एवाऽभिप्रेत इति गम्यते । युक्तं च धर्मस्यैव विचार्यत्वम् । लोके हि यत्सन्दिग्धं सप्रयोजनं च तद्विचार्यम्, धर्मश्च सामान्याकारेण लोक­प्र­वा­द­सि­द्ध­त्वा­द­ग्नि­हो­त्र­चै­त्य­व­न्द­ना­दि­वि­शे­षा­का­रेण वादि­भि­र्वि­प्र­ति­प­न्न­त्वाच्च सन्दिग्धः, पुरु­षै­र­र्थ्य­मा­नस्य सुखस्य साधनतया सप्रयोजनश्चेति विचारयोग्यः । वेदार्थस्तु वेद­प्रा­मा­ण्य­प्र­ति­पा­द­ना­त्प्राङ् न सामान्यतः प्रसिद्धः । अत एव न विशेषतोऽपि प्रतिपद्यते । नापि पुरु­षा­र्थ­सा­ध­न­त­याऽ­व­ग­म्यते । तत्कथं तस्य विचारयोग्यता ? न च वाच्यं वेदा­र्थ­स्यै­वाऽ­ग्नि­हो­त्रा­दे­र्वि­चा­र­सा­ध्यता भव­ताऽ­प्य­ङ्गी­कृ­तेति, धर्म­त्व­प्र­यु­क्त्यै­वाऽ­ङ्गी­कृ­त­त्वात् । न चोक्त­वै­य­धि­क­र­ण्य­दोषः, विचा­र्य­स्या­ग्निऽ­हो­त्रा­दे­र्ध­र्मस्य दैवगत्या वेदार्थत्वेन वैय­धि­क­र­ण्य­प­रि­हा­रात् । तस्मा­द्ध­र्म­मा­त्र­वि­चा­र­परं प्रथमसूत्रम् ।

तथा “चोद­ना­ल­क्ष­णोऽर्थो धर्मः” इति द्वितीयसूत्रमपि वेदै­क­दे­शा­र्थ­वि­चा­र­मेव गमयति । “तत्र यश्चोदनालक्षणः स धर्मः” इति वचनव्यक्त्या धर्मलक्षणपरं सूत्रम् । अर्था­त्प्र­मा­ण­प्र­ति­ज्ञेति प्राभाकराः । “यो धर्मः स चोदनालक्षणः” इत्यन्वयात् प्रमाणप्रतिज्ञा मुखतः अर्था­द्ध­र्म­ल­क्ष­ण­मिति वार्त्ति­क­का­रीयाः । तत्र मतद्वयेऽपि यदि कृत्स्नो वेदो धर्म­मे­वाऽ­व­बो­ध­येत् तदा वेदप्रमाणको धर्म इति वक्तव्यं स्यात् । चोदनालक्षण इति तु वदन् सूत्रकारो वेदैकदेशमेव धर्मपरं मन्यत इति गम्यते । स्यादेतत्, चोदनाग्रहणं वेदैकदेशस्य धर्मपरत्वमिति ज्ञापनाय न भवति, किन्तु अर्थ­भा­व­ना­रू­पायाः पुरुषप्रवृत्तेः पुरु­षा­र्थ­प­र्य­व­सा­यि­त्व­द्यो­त­नाय । तथाहि – अस्ति ताव­द्भा­व्य­क­र­णेति कर्त्त­व्य­ता­ल­क्ष­णे­नांऽ­श­त्र­ये­णो­पेता भावना नाम, “किं केन कथ­मि­त्यं­श­त्र­य­पूर्णा हि भावना” इति भट्टा­चा­र्यै­रु­क्त­त्वात् । सा च द्वेधा – अर्थभावना शब्दभावना चेति । तत्र पुरु­ष­प्र­वृ­त्ति­र­र्थ­भा­वना । लिङादिशब्द एवांऽ­श­त्र­य­वि­शिष्टः शब्दभावनेति केचित् । तदुक्तम् –
“किमा­द्य­पे­क्षितैः पूर्णः समर्थः प्रत्ययो विधौ ।
तेन प्रव­र्त्त­ना­वाक्यं शास्त्रेऽ­स्मिं­श्चो­द­नो­च्यते ॥” इति ।

लिङादिशब्दस्य व्यापारः पुरु­ष­प्र­व­र्त्त­ना­ल­क्षणः शब्द­भा­व­ने­त्यन्ये । लिङादिशब्दस्य गुणः प्रव­र्त्त­ना­सा­म­र्थ्य­ल­क्षणः शब्दभावनेत्यपरे । त्रिविधाया अप्यस्याः शब्दभावनायाः पुरु­ष­प्र­वृ­त्ति­रू­पाऽ­र्थ­भा­व­नैव भाव्य­त्वे­नाऽ­व­ग­न्तव्या । शब्द­भा­व­ना­प्र­त्या­यकं ज्ञानमेव करणं स्तुति­नि­न्दाऽ­र्थ­वा­दा­दि­ज्ञा­न­मि­ति­क­र्त्त­व्यता । न च शब्दभावनाया वाचकपदाभावः, लिङा­दि­प्र­त्य­या­न्त­स्याऽऽ­ख्या­त­त्व­सा­मा­न्या­का­रे­णाऽ­र्थ­भा­व­ना­भि­धा­यि­त्वेऽपि लिङा­दि­रू­प­वि­शे­षा­का­रेण शब्द­भा­व­ना­भि­धा­यि­त्व­स्याऽ­प्य­ङ्गी­का­रात् । तदुक्तम् –
“अभि­धा­भा­व­ना­मा­हु­र­न्या­मेव लिङादयः ।
अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते ॥” इति ।
अभि­धा­भा­व­ना­म­प्या­हु­रे­वे­त्य­न्वयः । ननु “सम्बन्धबोधः करणं तदीयम्” इति मण्डनाचार्यैः स्वर्गयागयोः साध्य­सा­ध­न­स­म्ब­न्धा­व­बो­धस्य करणत्वमुक्तं ततो न शब्द­भा­व­ना­प्र­त्या­य­कस्य ज्ञानस्य करणत्वमिति चेद्, द्वयोरपि करणत्वात् । हस्तेन शरेण विद्ध इत्यादौ करणद्वयदर्शनात् । शब्द­भा­व­ना­ज्ञा­नस्य च कर­ण­ल­क्ष­णो­पे­त­त्वात् । इति कर्त्त­व्य­ता­नु­गृ­हीतो भाव्यहेतुः करणमिति हि तल्लक्षणं शब्दभावनाज्ञानं च स्तुत्या­दि­ज्ञा­ना­नु­गृ­हीतं सत्प्र­व­र्त्त­क­ज्ञा­न­त्वा­त्पु­रु­ष­प्र­वृ­त्ति­ल­क्ष­ण­भा­व्य­हे­तु­रिति कुतो न करणं स्यात् ? सेयमंशत्रयवती शब्दभावना स्वभाव्यरूपायां पुरु­ष­प्र­वृ­त्ति­ल­क्ष­णा­या­म­र्थ­भा­व­नायां पुरुषं प्रेरयन्ती चोदनेत्युच्यते । “चुद् प्रेरणे” इत्य­स्मा­द्धा­तो­श्चो­द­ना­श­ब्द­नि­ष्पत्तेः । तच्च चोद­ना­प्रे­र­क­त्व­म­र्थ­भा­व­नायाः पुरु­षा­र्थ­वि­ष­य­त्व­म­न्त­रेण न सिध्यति, अपुरुषार्थे पुरु­ष­स्याऽ­प्र­वृत्तेः । ननु “यजेत” इत्यत्र लिङ्प्र­त्य­य­ग­म्याया अर्थभावनाया धात्वर्थो भाव्य इति वाच्यम्, एक­प­दो­पा­त्त­त्वे­नाऽ­त्य­न्त­स­न्नि­हि­त­त्वात् । स च क्लेशा­त्म­क­स्त­त्क­थ­म­र्थ­भा­व­नायाः पुरु­षा­र्थ­वि­ष­य­त्व­मिति चेद्, उच्यते – अन­यै­वाऽ­नु­प­पत्त्या धात्वर्थं विहाय भिन्न­प­दो­पा­त्त­म­प्य­धि­का­रि­वि­शे­षणं स्वर्गभाव्यं कल्पयामः । ततश्च स्वर्गादिकं भाव्यं धात्वर्थः करणं प्रयाजादय इति­क­र्त­व्य­ते­त्ये­व­मं­श­त्र­य­म­र्थ­भा­व­नायाः सम्पद्यते । तदे­व­म­र्थ­भा­व­नायाः पुरु­षा­र्थ­प­र्य­व­सा­यित्वं द्योतयितुं प्रेर­णा­र्थ­वा­च­कस्य चोदनापदस्य ग्रहणं सूत्रकारेण कृतम्, न तु वेदैकदेशस्यैव धर्मपरत्वं द्योतयितुमिति । तदेतदसारम्, सूत्रे वेद­ग्र­ह­णेऽ­प्य­र्थ­भा­व­नानां पुरु­षा­र्थ­प­र्य­व­सा­यि­त्व­सिद्धेः । तथाहि – “स्वाध्या­योऽ­ध्ये­तव्यः” इति तव्यप्रत्ययस्य व्यापारः शब्दभावना । सा चाऽध्य­य­न­वि­ष­य­पु­रु­ष­प्र­वृ­त्ति­ल­क्ष­णा­र्थ­भा­व­ना­रू­प­भा­व्य­निष्ठा स्वगो­च­र­ज्ञा­न­क­र­णिका घृत­कु­ल्या­द्य­ध्य­य­न­फ­ला­र्थ­वा­दा­दि­ज्ञा­ने­ति­क­र्त्त­व्य­ताका सती पुरु­ष­प्र­वृ­त्ति­ल­क्ष­णा­र्थ­भा­व­ना­म­ध्य­य­न­क­र­णिकां स्वाध्या­य­रू­प­भा­व्य­निष्ठां प्राङ्मु­ख­त्वा­दी­ति­क­र्त्त­व्य­ता­मु­त्पा­द­यति । तत्र भाव्यस्य स्वाध्यायस्य फल­व­द्वि­ज्ञा­न­ज­न­न­नि­मि­त्त­त्व­म­न्त­रेण ताम­र्थ­भा­व­ना­मु­त्पा­द­यि­तु­म­स­मर्था शब्दभावना स्वाध्या­य­ग­त­लि­ङा­दि­श­ब्दा­भि­धे­य­क्र­तु­भा­व­नानां स्वर्गा­दि­वि­ष­यत्वं परम्परया कल्पयति । ततोऽ­ध्य­य­न­वि­धि­सा­म­र्थ्या­देव वेदस्य विशि­ष्ट­फ­ल­वि­ष­य­भा­व­ना­प्र­ति­पा­द­कत्वं सिद्धमिति वेदग्रहणेनापि विव­क्षि­ता­र्थ­सि­द्धेर्न तदर्थं सूत्रे चोद­ना­ग्र­ह­ण­म­पे­क्षितं प्रत्युत क्रुत्स्नवेदस्य धर्मपरत्वं वदतस्तव तत्प्रतिकूलमेव । चोदनाग्रहणे हि सति विधिवाक्यानामेव धर्मपरत्वं नेतरेषां वेदान्तानां किन्तु अर्थान्तरपरत्वं तेषामित्याशङ्का स्यात् तथा लौकि­क­वि­धि­वा­क्या­ना­मपि धर्म­प­र­त्व­मा­श­ङ्क्येत । तदु­भ­य­व्या­वृ­त्तये त्वन्मते वेदपदमेव सूत्रे वक्तव्यमापद्येत । वेदा­ध्य­य­ना­न­न्तरं धर्मविचारं प्रतिज्ञाय चोदनालक्षण इति ब्रुवता वैदिक्येव चोदना विवक्षितेति गम्यत इति चेद्, न; प्रथमसूत्रे “वेदा­ध्य­य­ना­न­न्त­रम्” इति विशेषाभावात् । एत­त्सू­त्रा­नु­सा­रेण तत्रापि सर्व­चो­द­ना­न­न्त­र्य­क­ल्प­ना­प्र­स­ङ्गात् । न च वेदाधिकरणे “वेदांश्चैके सन्निकर्षम्” इति सूत्र­ग­त­वे­द­प­दा­द­ति­प्र­स­ङ्ग­प­रि­हारः । वेदा­धि­क­र­ण­स्याऽ­ति­दू­र­स्थ­त्वात् । अतो वेदान्तानां धर्म­प­र­त्व­प­र्यु­दा­साय चोदनाग्रहणमिति सूत्र­भा­ष्य­वा­र्ति­क­का­रा­भि­प्रा­येण वेदान्तानां ब्रह्मपरत्वमेव सिध्यति ।

न च “दृष्टो हि तस्यार्थः कर्मावबोधनम्” इति भाष्यवचनात् क्रुत्स्नवेदस्य धर्म­प­र­त्व­सिद्धिः, सामान्यस्य भाष्यस्य प्रथ­म­द्वि­ती­य­सू­त्र­ग­त­वि­शे­ष­व­च­ना­नु­सा­रेण निर्णे­त­व्य­त्वात् । तद्धि भाष्यं पूर्वा­प­र­प­र्या­लो­च­नायां वेद­स्याऽ­र्थ­स­द्भा­व­मात्रे पर्यवसितं ततः कर्मा­न­व­बो­ध­क­त्व­ल­क्ष­ण­म­योगं व्यवच्छिनत्ति न तु ब्रह्म­बो­ध­क­त्व­ल­क्ष­ण­म­न्य­यो­गम् । ननु “आम्नायस्य क्रिया­र्थ­त्वा­दा­न­र्थ­क्य­म­त­द­र्था­नाम्” इति सूत्रा­दा­न­र्थक्यं क्रिया­र­हि­ता­ना­मिति चेद्, मैवम् । न ताव­दा­न­र्थ­क्य­म­भि­धे­या­भावः । एवमेव भूत­म­र्थ­म­नु­व­द­न्तीति भाष्येऽ­भि­धे­य­प्र­द­र्श­नात् । नाऽपि प्रयोजनाभावः, सोऽरो­दी­दि­त्या­द्य­र्थ­वा­दानां विध्ये­क­वा­क्य­ता­म­न्त­रेण प्रयोजनाभावेऽपि वेदान्तेषु श्रूयमाणस्य फल­स्याऽ­नि­वा­र्य­त्वात् । अत एव भाष्यकारेण तस्मिन्नधिकरणे क्रिया­प्र­क­र­ण­प­ठिता अर्थवादा एवोदाहृता न तु वेदान्तवाक्यं किञ्चि­द­प्यु­दा­हृ­तम् । तदेवं भट्टमते वेदा­न्ता­ना­म­ग­ता­र्थत्वं सिद्धम् ।

ननु प्राभाकरास्तु शास्त्रा­र­म्भ­मे­व­माहुः – अध्ययनविधिर्हि विचारं विदधाति, स च स्वाध्यायस्य फल­प­र्य­न्त­ता­मा­का­ङ्क्षन् वेदार्थविचारमेव विदध्यान्न धर्मविचारम् । न च वेदार्थे सामा­न्य­प्र­ति­प­त्त्य­भावः, साङ्गं वेदमधीतवत आपा­त­त­स्त­द­र्थ­प्र­ति­प­त्ति­स­त्त्वात् । नाऽपि विशे­ष­प्र­ति­प­त्त्य­भावः, “उद्भिदा यजेत पशुकामः” इत्यादौ पशुकाममुद्दिश्य यागो विधीयते, यागविधानं चोद्दिश्य पशुकामाधिकार इत्या­दि­व­च­न­व्य­क्ति­स­न्दे­हात् । तस्मात् “अथातो धर्मजिज्ञासा” इत्य­स्याऽ­धि­क­र­णस्य वेदार्थविचारो विषयः, स कर्तव्यो न वेति संशयः । न कर्तव्य इति तावत्प्राप्तम्, आल­म्ब­न­प्र­मा­णा­भा­वात् । आम्नायालम्बनो विचार इति चेद्, न; अध्य­य­न­वि­धि­शे­ष­त­याऽऽ­म्ना­यस्य स्वार्थ­वि­व­क्षा­यो­गात् । अध्य­य­ना­ङ्ग­त्व­मा­म्ना­यस्य न सम्भवति, विनि­यो­ज­का­भा­वा­दिति चेद्, न; प्रयु­क्ति­शे­ष­त्व­स्याऽ­नि­वा­र्य­त्वात् । अध्ययनं ताव­द­ध्या­प­न­वि­धि­प्र­यु­क्ता­नु­ष्ठा­न­त्वा­त्त­च्छे­ष­ता­म­श्नुते, तच्चाऽ­ध्य­य­न­मु­च्चा­र­ण­रू­प­मु­च्चा­र्य­मा­ण­स्वा­ध्या­य­नि­ष्पा­द्यम् । अतोऽध्ययनस्य प्रयो­ज­कोऽ­ध्या­प­न­वि­धि­स्त­दु­प­का­रि­ण­मा­म्ना­य­मपि प्रयुङ्क्ते प्रयुक्तौ चाङ्गत्वान्न विव­क्षि­ता­र्थ­त्वम् । अथ मन्यसे – न प्रयु­क्ति­मा­त्रा­द­ङ्ग­त्वम्, अन­ङ्ग­स्याऽ­प्यु­प­का­रस्य प्रयु­क्ति­स­म्भ­वाद्; अतो विष­नि­र्ह­र­णा­दि­म­न्त्र­वा­क्य­व­द­वि­व­क्षि­ता­र्थत्वं नास्तीति, तर्हि प्रकारान्तरेण विव­क्षि­ता­र्थत्वं सम्पादयामः । स्वाध्या­य­वि­धि­वाक्ये तव्य­प्र­त्य­ये­नाऽ­पू­र्वस्य प्रतिपादनात् तदङ्गता तावत् स्वाध्या­य­स्याऽ­धि­गता । यद्य­प्य­ध्या­प­न­वि­धि­प्र­यो­ज्य­म­ध्य­य­न­स्याऽ­ध्या­प­ना­ङ्ग­त्व­मपि प्राप्तं क्रतु­प्र­यु­क्तस्य प्रयाजादेः क्रत्व­ङ्ग­त्व­द­र्श­नात् तथापि प्रथ­मा­व­ग­त­म­पू­र्वा­ङ्गत्वं नाऽपाकर्तुं शक्यम्, तत­श्चाऽ­पू­र्वा­ङ्गस्य स्वाध्या­य­स्याऽ­वि­व­क्षि­ता­र्थ­त्वात् “न वेदार्थविचारः कर्तव्यः” इति पूर्वपक्षे प्राप्ते राद्धान्तं ब्रूमः – न तावत् प्रयु­क्ति­ब­ला­द­ध्या­प­ना­ङ्ग­त्व­म­ध्य­य­नस्य युज्यते, उत्त­रा­नु­प्र­यु­क्त­स्याऽऽ­धा­नस्य तद­ङ्ग­त्वा­द­र्श­नात् । प्रयाजादीनां विनि­यो­ज­क­प्र­क­र­णा­दि­प्र­मा­ण­ब­ला­द­ङ्ग­त्व­सिद्धेः । इह च तादृ­श­प्र­मा­णा­भा­वात् । अपूर्वार्थत्वं त्वध्ययनस्य नाऽर्थ­वि­व­क्षा­प्र­ति­ब­न्ध­कम्, अपूर्वस्य स्वाध्या­य­ग­त­त­व्य­प्र­त्य­या­भि­हि­त­त्वेन प्रयो­ज­ना­का­ङ्कायां दृष्टे सत्य­दृ­ष्ट­क­ल्प­नाऽ­नु­प­पत्त्या स्वाध्या­य­सा­म­र्थ्य­जन्यं प्रयो­ज­न­व­द्वि­ज्ञानं फलमिति कल्पयितुं शक्यत्वात् । तस्मा­द्वि­व­क्षि­ता­र्थस्य वेद­स्याऽ­र्थ­वि­चारः कर्त्तव्य इति स्थितम् । एवं च वेदार्थविचारं प्रतिजानतां प्राभाकराणां मते वेदा­न्ता­ना­म­ग­ता­र्थत्वं दुःसम्पादमिति ।

अत्रोच्यते – यद्यपि कृत्स्न­वे­दा­ध्य­य­न­वि­धि­प्र­युक्तो विचारो वेदार्थमेव विषयीकुर्यात् तथा­प्य­न­न्य­था­सि­द्धेन सूत्र­कृ­त­ध­र्म­ग्र­ह­णेन वेदा­र्थै­क­दे­श­वि­षयः सम्पद्यते । न चैव­म­ध्य­य­न­वि­धि­वि­रोधः, सामान्यरूपस्य विधेः प्रति­वा­क्या­ध्य­यनं प्रति­वा­क्य­वि­चारं च व्यापारभेदेन वेदा­र्थै­क­दे­श­वि­चा­रेऽपि चरितार्थत्वात् । यथा “चक्षुषा रूपं पश्येत्” इति विधे­र्नी­ल­रू­प­द­र्श­न­मा­त्रे­णाऽपि चरितार्थता तद्वत् । अथ तत्र सर्व­रू­प­द­र्श­न­स्याऽ­श­क्य­त्वात् संकोचस्तर्हि अत्रापि अवि­र­क्ते­ना­न­धि­का­रिणा वेदान्तानां विचा­र­यि­तु­म­श­क्य­त्वा­देव संकोचोऽस्तु । न चैवमध्ययनेऽपि सङ्कोचप्रसङ्गः, तत्र विरक्तेरधिकारं प्रत्य­य­प्र­यो­ज­क­त्वात्; विचारस्य चाऽसङ्कोचे धर्म­ग्र­ह­ण­म­नु­प­पन्नं स्यात् । वेदार्थविचार इत्येव वक्तव्यत्वात् । पुरु­षा­र्थ­द्यो­त­नाय वेदार्थ एव धर्मशब्देन निर्दिश्यत इति चेद् न; धर्मशब्दस्य वेदा­र्थ­वा­च­क­त्वा­भा­वात् । अवेदार्थे चैत्य­व­न्द­ना­दा­वपि कैश्चि­द्ध­र्म­श­ब्द­प्र­यो­गात् । अथाऽ­न्व­य­व्य­ति­रे­क­सि­द्ध­श्रे­यः­सा­ध­ना­भि­धायी धर्मशब्दो वेदार्थश्च श्रेयःसाधनमिति तत्र धर्मशब्दो वर्त्तत इति मन्यसे, तर्हि श्रेयोरूपं ब्रह्म न धर्म­श­ब्दे­नाऽ­भि­धी­यते, साधनत्वाभावात्; तत एक­दे­श­वि­चा­रोऽ­ङ्गी­कार्यः । नो चेद् ब्रह्मणोऽपि सङ्ग्रहाय सूत्रे वेदार्थपदं वक्तव्यम् । न च सामा­न्य­तोऽ­प्य­प्र­ति­प­न्नस्य ब्रह्मणः कथं सङ्ग्रह इति वाच्यम्, साङ्ग­वे­दा­ध्या­यिनो विचारात् प्राग् धर्मवद् ब्रह्म­णोऽ­प्या­पा­ततः प्रतिपत्तेः सत्त्वात् । ततश्च वेदा­र्थ­प­दा­भा­वा­दा­दि­सूत्रं धर्म­मा­त्र­वि­चा­र­वि­ष­यम् । तथा लक्षणपरं द्वितीयसूत्रमपि धर्मविषयम्, न वेदार्थविषयम् । लक्षणं हि लक्ष्य­स्याऽ­न्यत्र प्रस­ङ्ग­भ्र­म­नि­रा­स­प­रम् । तत्र धर्मस्य लक्ष्यत्वे चैत्यवन्दनादौ प्रसङ्गभ्रमो निरस्यते, कैश्चित् चैत्यवन्दनादिषु धर्मत्वभ्रमं प्राप्य विप्र­ति­प­द्य­मा­न­त्वात् । ननु वेदार्थेऽपि विप्रतिपत्तयः सन्ति – किम­र्थ­वा­दा­दि­ल­क्षणो वेदार्थः किं वा चोदनालक्षण इति, ततस्तन्निरासाय लक्ष­ण­मु­च्य­ता­मिति चेत्, तर्हि “चोदनालक्षणो वेदार्थः” इति सूत्रे लक्षणं वक्तव्यम्, धर्मग्रहणे हि वेदा­र्थ­वि­प्र­ति­प­त्ति­नि­रा­सोऽ­शाब्दः स्यात् । वेदार्थमेव विवक्षित्वा धर्मशब्दः प्रयुक्त इति चेद् न; तस्य तदवाचकत्वात् । न च धर्मशब्दो वेदार्थं लक्षयति, जहल्लक्षणायां वेदा­र्थ­स्याऽ­ध­र्म­त्व­प्र­स­ङ्गात् । अभिधेयादन्यस्य तीरा­दे­र्ल­क्ष्य­स्याऽ­ग­ङ्गा­त्व­द­र्श­नात् । अज­ह­ल्ल­क्ष­णा­या­मपि कीदृशी वचनव्यक्तिः ? यश्चोदनालक्षणः स धर्म इति यो धर्मः स चोदनालक्षण इति वा । द्वेधाऽपि न वेदार्थविवक्षा सिद्ध्यति, चोद­ना­ध­र्म­श­ब्द­यो­र्वे­द­त­द­र्थै­क­दे­श­वा­चिनोः कृत्स्न­वे­द­त­द­र्थ­ल­क्ष­णत्वे कारणाभावात् । न हि यच्चाक्षुषं तद्रूपं यद्रूपं तच्चा­क्षु­ष­मि­त्यत्र सर्व­प्र­त्य­क्ष­त­द्वि­ष­य­ल­क्षणा दृष्टा । मुख्या­र्थेऽ­नु­प­प­त्त्य­भाव उभयत्राऽपि समानः । अथोच्येत –
“उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः ।
सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥”
इत्यादिवत् संज्ञा­वि­धि­प­र­मिदं सूत्रम्, ततो धर्मशब्दस्य पूर्व­म­भि­धा­न­ल­क्ष­णा­वृ­त्त्यो­र­भा­वेऽपि वेदार्थविवक्षा भवतीति, तन्न; प्रयोजनाभावात् । यथा “आचार्याय गां दद्यात्” इत्या­दि­का­र्या­न्तरे नियो­गा­र्थ­मा­चा­र्य­संज्ञा विधीयते न तथेह कार्यान्तरमस्ति यदर्थं वेदार्थस्य धर्मसंज्ञा विधीयते । धर्मशब्दस्य वेदा­र्थ­वा­च­क­त्वा­ङ्गी­का­रेऽपि सूत्र­ग­ता­र्थ­श­ब्द­वै­यर्थ्यं चोदनाशब्दस्य कृत्स्न­वे­द­ल­क्ष­णा­प­र­त्व­म­धि­क­र­ण­र­च­ना­नु­प­प­त्तिश्च त्वन्मते वारयितुं न शक्यते । न च “श्येने­ना­भि­च­र­न्य­जेत” इत्या­द­योऽ­र्थ­श­ब्द­व्या­वर्त्त्याः, तेषामपि वेदा­र्थ­त्व­व्या­वृ­त्त्य­यो­गात्; अवेदार्थत्वे च धर्मशब्देनैव व्यावृ­त्ति­सिद्धेः । सिद्धामेव व्यावृ­त्ति­म­र्थ­श­ब्दोऽ­नु­व­द­तीति चेद्, न; तथा सति वैय­र्थ्य­ता­द­व­स्थ्यात् । वेदा­र्थै­क­दे­श­भू­त­ध­र्म­वि­चा­र­पक्षे तु श्येनादेः प्रति­षे­ध­चो­द­ना­ल­क्ष­ण­स्याऽ­न­र्थ­त्वे­नाऽ­ध­र्म­त्व­सि­द्धि­र­र्थ­श­ब्द­प्र­यो­जनं भविष्यति । अर्थ­श­ब्द­वै­य­र्थ्येऽपि चोदनाशब्दस्य लक्षणापरत्वं कथमिति चेद्, उच्यते – किं चोद­ना­ति­रि­क्तोऽपि कश्चि­द्वे­द­भा­गोऽस्ति उत न ? यदि नाऽस्ति तदा चोद­ना­ल­क्ष­णोऽ­र्थ­श्चो­द­नार्थ इति सूत्रार्थः स्यात्, ततो लक्ष्य­ल­क्ष­ण­यो­रै­क्य­मा­प­द्येत । अस्ति चेत् सोऽपि वेद­भा­गोऽ­र्थ­वान्न वा ? अर्थवांश्चेत् “कथं चोद­ना­प्र­मे­योऽ­चो­द­ना­भा­ग­स्याऽर्थः स्यात् ? अर्थ­शू­न्य­त्वेऽपि चोदनार्थः कथं सार्थ­क­नि­र­र्थ­क­भा­ग­द्व­य­स­मु­दा­य­वे­दार्थः स्यात् । तस्मात् चोदनाशब्दस्य कृत्स्न­वे­द­ल­क्ष­कत्वं त्वया दुर्वारम् । अधिकरणं चैवं त्वया रचनीयम् – किं वेदा­र्थ­श्चो­द­ना­ल­क्षणः किं वाऽर्थ­वा­दा­दि­ल­क्षण इति । विशये सति नाऽर्थ­वा­दा­दि­ल­क्षणः किन्तु चोदनालक्षण इति । सेयं रचनाऽऽनुपपन्ना, वेदस्य प्रामा­ण्य­प्र­ति­पा­द­नात् प्राग­र्थ­व­त्त्व­स्यै­वाऽ­नि­श्च­यात् । प्रथ­म­सू­त्रेऽ­ध्य­य­न­वि­धि­प्र­यु­क्ता­प्रा­मा­ण्य­नि­रा­क­र­णेऽपि पौरु­षे­य­त्वा­दि­प्र­यु­क्ता­प्रा­मा­ण्य­म­नि­रा­कृ­तम् । अन्य­थो­त्त­र­सू­त्र­स­न्द­र्भस्य प्रामा­ण्य­प्र­ति­पा­द­कस्य वैयर्थ्यापातात् । न च दृढीकरणाय पुनः प्रतिपादनमिति वाच्यम्, अदार्ढ्यशङ्काया अभावात् । वेद­प्रा­मा­ण्य­स्याऽपि वेदा­र्था­न्तः­पा­ति­त्वात् सूत्रसन्दर्भेण प्रतिपादनमिति चेद्, न; तथा सति प्रामाण्यस्य सिद्धरूपतया वेदस्य कार्यै­क­नि­ष्ठ­त्व­हा­नि­प्र­स­ङ्गात् । तर्हि प्रथमसूत्रमेव प्रामाण्यं साधयति, नाऽन्यः सूत्रसन्दर्भ इति चेद् न; भाष्यविरोधात् । भाष्यकारो हि द्विती­या­ध्या­य­मा­र­भ­माणो वृत्तं प्रमा­ण­ल­क्ष­ण­मि­त्य­नु­व­दन् प्रथमाध्यायेन वेदस्य प्रामाण्यमेव साधितं दर्शयति – किं चोदनालक्षणो वेदार्थो नाऽर्थ­वा­दा­दि­ल­क्षण इति । अयमेव यद्यस्य सूत्र­स्याऽ­र्थ­स्त­दाऽ­र्थ­वा­द­म­न्त्रा­धि­क­र­णा­ना­रम्भः प्रसज्येत । अस्मिन्नेव सूत्रे मन्त्रा­र्थ­वा­द­यो­र्ध­र्म­प्र­मा­प­क­त्व­नि­रा­क­र­णात् । स्ताव­क­त्वा­दि­नाऽ­न्य­प्र­का­र­प्र­ति­पा­द­ना­र्थ­स्त­द­धि­क­र­णा­रम्भ इति चेद्, न; अत्रैव धर्म­प्र­मा­प­क­त्व­नि­रा­क­रणे तत्र धर्म­प्र­ति­पा­द­क­त्व­ल­क्ष­ण­पू­र्व­प­क्ष­स्याऽ­नु­द­यात् । तदेवं प्रथ­म­द्वि­ती­य­सू­त्र­प­र्या­लो­च­नया कार्यनिष्ठो वेदभागो विचार्यतया प्रक्रान्तो विचारितश्च न वस्तु­त­त्त्व­निष्ठः । तस्मा­द­ग­ता­र्थ­त्वा­द्व­स्तु­त­त्त्व­निष्ठं वेदभागं विचा­र­यि­तु­मु­त्त­र­मी­मां­साऽऽ­र­ब्ध­व्येति सिद्धम् ।

इति विव­र­ण­प्र­मे­य­स­ङ्ग्रहे प्रथमसूत्रे द्वितीयवर्णकं समाप्तम् ॥

अथ तृतीयं वर्णकम्

एवं सूत्रस्य तात्प­र्या­च्छा­स्त्रा­रम्भो निरूपितः ।
वर्ण­क­द्वि­त­ये­नाऽथ पदव्याख्या निरूप्यते ॥

तात्पर्ये निश्चिते पूर्वं तत्र योजयितुं पदम् ।
सुशकं तेन तात्पर्यं कथितं वर्णकद्वये ॥

तृतीये वर्णके सूत्र­प­द­व्या­ख्या­मु­खेन तम् ।
शास्त्रारम्भं दृढीकर्तुं पदार्थोऽत्र विचार्यते ॥

अथशब्दस्य चत्वारोऽर्था वृद्धव्यवहारे प्रयो­ग­सा­म­र्थ्या­त्प्र­सिद्धाः आनन्तर्यमधिकारो मङ्गलाचरणं प्रकृ­ता­द­र्था­द­र्था­न्त­रत्वं च । तत्रे­त­र­प­र्यु­दा­से­नाऽऽ­न­न्त­र्य­म­थ­श­ब्दे­नो­पा­दी­यते । तच्च जिज्ञा­सा­प­द­स्याऽ­व­य­वा­र्थ­स्वी­कारे लभ्यते । तत्राऽधिकारो नाम प्रारम्भः । न हि ब्रह्म­ज्ञा­नेच्छा कर्त्तव्यतया प्रतिपाद्यतया वा प्रारब्धुं शक्या, इच्छाया विष­य­सौ­न्द­र्य­मा­त्र­ज­न्य­त्वा­त्प्र­त्य­धि­क­र­ण­म­प्र­ति­प­द्य­मा­न­त्वाच्च । ननु जिज्ञासाशब्दो विचारे रूढः । भाष्य­का­रा­दि­भि­स्तत्र विचारविवक्षया प्रयुक्तत्वात् । अतो “रूढि­र्यो­ग­म­प­ह­रति” इति न्याये­नाऽ­व­य­वा­र्थ­स्वी­कारो न युक्त­स्त­तोऽ­थ­श­ब्दोऽ­प्य­धि­का­रार्थो भविष्यतीति विचारस्य प्रारब्धं शक्यत्वादिति चेद्, मैवम्; रूढि­र्यो­ग­म­प­ह­र­तीति न्याय­स्याऽ­त्राऽ­प्र­स­रात् । तथाहि – द्विविधा ताव­च्छ­ब्द­वृ­त्ति­र्मु­ख्या­मु­ख्य­भे­दात् । तत्र रूढिर्योगश्चेति द्वयं मुख्यम्, लक्षणा गौणवृत्तिश्चेति द्वयममुख्यम् । अव­य­वा­र्थ­म­न­पेक्ष्य वृद्ध­प्र­यो­ग­मा­त्रेण व्युत्पाद्यमाना अश्वगजादिशब्दा रूढाः । अवयवार्थद्वारा विशि­ष्टा­र्था­भि­धा­यि­न­श्च­तु­रा­न­न­क­म­ला­स­ना­दि­शब्दा यौगिकाः ।
“अभि­धे­या­वि­ना­भू­त­प्र­ती­ति­र्ल­क्ष­णो­च्यते ।
लक्ष्य­मा­ण­गु­णै­र्यो­गा­द्वृ­त्ते­रिष्टा तु गौणता ॥”
इत्यु­क्त­त्वा­द­भि­धे­या­वि­ना­भू­त­ती­र­प्र­त्य­यको गङ्गाशब्दो लाक्षणिकः । शौर्या­दि­गु­ण­यो­गा­द्दे­व­दत्ते प्रयुज्यमानः सिंहशब्दो गौणः । न च पङ्कजादिशब्देषु योगरूढ्याख्या पञ्चमी शब्द­वृ­त्ति­र­स्तीति शङ्कनीयम्, तत्र रूढिकल्पने प्रयोजनाभावात् । तामरसे व्यव­हा­र­बा­हु­ल्या­द­प्यु­त्प­ला­दि­व्या­वृ­त्ति­सिद्धेः । दृश्यते ह्यने­का­र्थ­स्याऽपि गोशब्दस्य प्रयो­ग­बा­हु­ल्यात् सास्ना­दि­म­द्व्यक्तौ प्रथ­म­प्र­ति­पत्तिः । ततश्चतस्र एव शब्दवृत्तयः । तत्र यः शब्द एकत्राऽर्थे रूढोऽपरत्र यौगिको यथा छागे रूढोऽजशब्द आत्मनि यौगिकस्तत्राऽजं पश्येत्युक्ते रूढि­र्यो­ग­म­प­ह­र­तीति न्यायः प्रसरति । इह तु जिज्ञासाशब्दो न विचारे रूढः । ज्ञाने­च्छा­ल­क्ष­णा­द्यौ­गि­का­र्था­द्वि­चा­र­स्याऽ­त्य­न्त­पा­र्थ­क्या­भा­वात् । न हि ज्ञाने­च्छा­मात्रं जिज्ञा­सा­श­ब्दार्थः, किन्तु विचा­र­सा­ध्य­ज्ञा­न­वि­ष­येच्छा । ज्ञानं खल्विष्यमाणं विषयेण सहाऽवगतमिष्यते, अनवगते विषये इच्छायोगाद् । ततश्च प्रतिपन्ने वस्तुनि ज्ञानमिष्यमाणं सन्दिग्धे निश्चयफलं परो­क्षेऽ­प­रो­क्ष­फलं वेष्यते । तच्चोभयं प्रमा­णा­दि­वि­चा­र­प्र­य­त्न­सा­ध्य­मिति प्रतिपन्ने वस्तुनि विशि­ष्ट­ज्ञा­न­मि­ष्य­मा­ण­म­वि­ना­भा­वेन प्रमाणादिविचारं गमयति । ततो भाष्य­का­रा­दि­भि­र्जि­ज्ञा­सा­शब्दो लक्षणया विचारे प्रयुक्तो न तु रूढ्या, येनाऽ­त्रो­क्त­न्यायः प्रसरेत् ।

ननु शब्दत इच्छायाः प्राधान्येऽपि नेच्छामात्रं सूत्रेण प्रतिपाद्यते, प्रयोजनाभावात् किन्तु इष्य­मा­ण­ज्ञा­न­प्र­द­र्श­न­मु­खेन तत्साधनं विचा­र­म­न्त­र्णी­त­श्रु­ति­मु­प­लक्ष्य स एव तात्पर्येण प्रतिपाद्यते । अतोऽर्थतः प्रधानानां विचा­र­ज्ञा­न­ब्र­ह्म­णा­म­न्य­त­मस्य तात्पर्येण प्रति­पा­द्य­स्याऽऽ­र­म्भा­याऽ­थ­शब्द इति चेद्; मैवम् । तथा सत्य­थ­श­ब्दे­नाऽऽ­न­न्त­र्या­भि­धा­न­मु­खेन शास्त्री­य­सा­ध­न­च­तु­ष्ट­य­स­म्प­न्न­स्याऽ­धि­का­रि­वि­शे­षस्य न्यायतः समर्पणाभावात् कर्त्तव्यतया विधीयमानो विचारो निर­धि­का­रोऽ­न­नु­ष्ठेयः स्यात् । न च विचारविधिरेव विश्व­जि­न्न्या­ये­नाऽ­धि­का­रि­वि­शेषं कल्पयित्वा प्रवृ­त्ति­प­र्यन्तो भविष्यति किमा­न­न्त­र्या­र्थे­नाऽ­थ­श­ब्दे­नेति वाच्यम्, कर्त्त­व्य­त­याऽ­व­गतो विचारः प्रार­म्भ­म­र्था­द्ग­म­यति किं विचा­र­प्रा­र­म्भा­र्थे­नाऽ­थ­श­ब्दे­ने­त्यपि सुवचत्वात् । तर्हि विधि­सा­म­र्थ्या­दु­भ­य­प्राप्तौ कस्तत्र निर्णय इति चेद्; विध्य­पे­क्षि­तो­पा­धि­त्वा­दा­न­न्त­र्या­भि­धा­न­मु­खे­नाऽ­धि­का­रि­स­म­र्प­ण­मेव युक्तमिति ब्रूमः । यद्यथशब्देन विशि­ष्टा­धि­का­रिणं मुखतोऽसमर्प्य विश्व­जि­न्न्या­येन तं कल्पयसि तदा विचा­र­वि­ध्य­न्य­था­नु­प­पत्त्या सामा­न्य­त­स्त्रै­व­र्णि­का­धि­कारं प्रसक्तं कृत्वा पुनस्तन्निषेधेन मोक्षकामाधिकारः कल्पनीयः इति गौरवं स्यात् । ततो वरमथशब्देनैव विशि­ष्टा­धि­का­रि­स­म­र्प­णम् । ननु विधि­प्र­ति­प­त्ति­वि­शि­ष्टा­धि­का­रि­प्र­ति­पत्त्योः कालभेदे सत्युक्तदोषो भवति । नेह कालभेदः । किन्तु रात्रि­स­त्र­न्या­ये­नाऽ­र्थ­वा­द­गतं मोक्षं ब्रह्मज्ञानं वा फलत्वेन परिणमय्य मोक्षकामो ब्रह्मज्ञानकामो वा विचारयेदिति विधि­प्र­ति­प­त्ति­स­म­येऽ­धि­का­रि­वि­शि­ष्ट­विधिः प्रतीयते; ततो न प्रस­ज्य­प्र­ति­षे­ध­रूपं गौरवमिति चेत्, तत्रेदं वक्तव्यम् – किं विशिष्टाधिकारं विचारशास्त्रम् उत त्रैव­र्णि­क­मा­त्रा­धि­का­र­मिति ? आद्ये प्रतीतो विधि­रु­त्स­र्ग­त­स्त्रै­व­र्णि­क­स­म्बन्धी पश्चा­द­र्थ­वा­द­ब­लात् त्रैव­र्णि­क­वि­शे­ष­मो­क्ष­का­म­स­म्ब­न्धीति कालभेदेन प्रति­प­त्ते­रु­क्त­दोषो दुर्वारः । ननु त्वत्पक्षेऽपि विधिबलात् सर्वा­धि­का­र­प्र­स­क्ता­व­थ­श­ब्देन विशि­ष्टा­धि­का­रि­स­म­र्प­णात् प्रस­ज्य­प्र­ति­षेधो दुर्वार इति चेद्, न; श्रव­ण­वि­धि­प्र­क­र­ण­प­ठि­त­स्यैव साध­न­च­तु­ष्ट­य­स­म्प­न्ना­धि­का­रि­णोऽ­थ­श­ब्देन न्यायतः समर्पणात् । द्वितीयेऽपि किं फलतः सर्वाधिकारं शास्त्रं किं वा विधितः ? नाऽऽद्यः, सर्वेषां ब्रह्म­ज्ञा­न­ल­क्ष­ण­फ­ला­र्थि­त्वा­भा­वात् । न च वस्तु­सु­ख­सा­क्षा­त्का­र­रूपे ब्रह्मज्ञाने किमि­त्य­र्थि­त्वा­भाव इति वाच्यम्, ब्रह्म­ज्ञा­नाद्धि मनसोऽपि वियो­गा­न्नि­खि­ल­वि­ष­या­नु­ष­ङ्ग­नि­वृत्तिः श्रूयते । सा च सार्वभौमोपक्रमं ब्रह्म­लो­का­व­सा­न­मु­त्कृ­ष्टो­त्कृ­ष्ट­सुखं श्रूयमाणं सोपायं निवर्तयति; अतो ब्रह्म­ज्ञा­न­म­पु­मर्थः, उत्कृ­ष्ट­सु­ख­नि­व­र्त­क­त्वाद्, व्याध्यादिवत्, इति मन्वानो लोको न ब्रह्म­ज्ञा­न­म­र्थ­यते, प्रत्युत तस्मादुद्विजते । ब्रह्मज्ञानं पुमर्थः, निर­ति­श­या­न­न्द­हे­तु­त्वात्, धर्मवत् । तद्धेतुत्वं च श्रुतिसिद्धमिति चेद्, एवमपि दृष्टा­न­न्दो­पा­यान् विषयान् परित्यज्य श्रुतानन्दसाधने ब्रह्मज्ञाने प्रेक्षा न युक्ता । तदुक्तम् –
“अथाऽऽनन्दः श्रुतः साक्षा­न्मा­ने­नाऽ­वि­ष­यी­कृतः ।
दृष्टा­न­न्दा­भि­लाषं स न मन्दी­क­र्तु­म­प्य­लम् ॥” इति ॥
ननु निखि­ल­वि­ष­या­नु­ष­ङ्ग­साध्य आनन्दो ब्रह्मज्ञानादेव सिध्यतीति नित्यतृप्तये विषयपरित्यागेन ब्रह्म­ज्ञा­न­म­पे­क्ष्य­ता­मिति चेत्, न पामराणां विष­य­वि­च्छे­दि­कायां तृप्ता­व­प्यु­द्वे­ग­द­र्श­नात् । तथा च मूर्खा वदन्ति – अहो कष्टं किमिति सृष्टिरेवं न बभूव यत्सर्वदैव भोक्तुं साम­र्थ्य­म­तृ­प्ति­र्भो­ग्यानां चाऽऽक्षय इति । मोक्षस्तु विषयमुखलेशमपि नाऽर्हतीति तेषामभिमानः । तथा च रागि­गी­त­मु­दा­ह­रन्ति –
“अपि वृन्दावने शून्ये शृगालत्वं स इच्छति ।
न तु निर्विषयं मोक्षं कदाचिदपि गौतम ! ॥” इति ।
नन्वस्तु तर्हि विधितः सर्वाधिकारं शास्त्रमिति द्वितीयः पक्षः । दृष्टफलो ह्यय­म­ध्य­य­न­वि­धि­र्या­व­द­र्था­व­बोधं व्याप्रियमाणः फलनिष्पत्तये विचा­र­म­प्य­नु­ष्ठा­प­यति । तथा चाऽध्य­य­न­वि­धे­स्त्रै­व­र्णि­का­धि­का­र­त्वात् तत्प्रयोजनस्य विचारस्याऽपि तथात्वं युक्तम् । यद्यपि न विचा­रोऽ­ध्य­य­न­वि­धे­र्वि­षयः, पाठमात्रस्यैव धात्वर्थत्वाद् । नाऽपि तदुपकारी, विचा­र­म­न्त­रे­णाऽपि पाठनिष्पत्तेः; तथाऽपि अध्ययनविधेः फल­प­र्य­न्त­त्व­सि­द्धये विचारस्य तद्वि­धि­प्र­यो­ज्यत्वं भविष्यति । यथा “व्रीहीनवहन्ति” इत्यत्र सकृदवघातमात्रेण विध्युपपत्तावपि तण्डु­ल­नि­ष्प­त्ति­ल­क्ष­ण­फ­ल­सि­द्ध्य­र्थ­म­वि­हि­तस्य विहि­ता­नु­प­का­र­स्याऽ­प्य­व­घा­त­पौ­नः­पु­न्यस्य विधि­प्र­यो­ज्यत्वं तद्वत् । तस्मात् विचा­र­सा­ध्या­र्थ­नि­श्च­य­फ­ला­द­ध्य­य­न­विधेः शास्त्रं सर्वाधिकारं प्राप्तमिति । नैतत्सारम्, किम­र्थ­ज्ञा­न­म­ध्य­य­नस्य दृष्ट­फ­ल­म­न्व­य­व्य­ति­रे­क­सि­द्धम्, उत तदुद्देशेन विधानात् शास्त्रीयम्, किं वा विधेः प्रयो­ज­न­प­र्य­न्त­ता­सा­म­र्थ्येन लभ्यम् ? आद्येऽपि न ताव­द­र्थ­नि­श्च­योऽ­ध्य­य­न­फ­लम्, केव­ला­द­ध्य­य­ना­दा­वृ­त्ति­स­हि­ताद्वा निश्चयानुदयात् । विचारेण तदुदये विचारस्यैव फलं स्याद् नाऽध्ययनस्य । यद्य­र्थ­स्याऽऽ­पा­त­द­र्श­न­म­ध्य­य­न­फलं न तदा विचारस्य तत्प्र­यो­ज्य­त्वम्, साङ्ग­वे­दा­ध्य­य­ना­देव तत्सिद्धेः । नन्वस्तु तर्हि विधि­ब­ला­च्छा­स्त्री­य­मिति द्वितीयः पक्षः । तथाहि – अध्येतव्य इति तव्यप्रत्ययेन स्वव्यापारः शब्दभावना विधि­रू­प­त­याऽ­भि­धी­यते । सा च शब्द­भा­व­नाऽ­र्थ­भा­वनां निष्पादयन्ती फलवदर्थावबोधं पुरुषार्थं भाव्यत्वेन कल्पयति । तत्र भाव्या­न्त­र­त्वात् समा­न­प­दो­पा­त्त­म­ध्य­यनं करणतामापाद्यते । यद्यध्ययनमेव भाव्यं स्यात् तदाऽ­क्ष­रा­वाप्तिः फलमिति मतं त्वदीयमपि न सिध्येत् । ततः कर­ण­स्याऽ­ध्य­य­नस्य भाव्योऽ­र्था­व­बोधो विधिबलात् फलं भविष्यतीति । नैत­द­प्यु­प­प­न्नम्, कर्माभिधायिना तव्यप्रत्ययेन कर्म­भू­त­स्वा­ध्या­य­ग­त­प्रा­प्ति­ल­क्ष­ण­भा­व्या­भि­धाने सम्भवति भाव्या­न्त­र­क­ल्प­ना­यो­गात् । समा­न­प­दो­पा­त्त­म­ध्य­यनं परित्यज्य भिन्न­प­दो­पा­त्तस्य बहिरङ्गस्य स्वाध्यायस्य प्राप्तेः कथं भाव्यत्वमिति चेद्, न; स्वाध्यायस्य कर्मा­भि­धा­यि­त­व्य­प्र­त्य­या­र्थ­त्वेन प्रत्य­या­र्थ­भू­त­भा­वनां प्रति प्रकृ­त्य­र्था­द­ध्य­य­ना­द­प्य­न्त­र­ङ्ग­त्वात् । नाऽपि तृतीयः, अक्ष­र­ग्र­ह­ण­स्यै­वाऽ­ध्य­य­न­वि­धि­प्र­यो­ज­न­त्वात् । नन्व­क्ष­र­ग्र­ह­णस्य स्वय­म­पु­रु­षा­र्थ­त्वात् न फलत्वं तदर्थावबोधस्य त्वया विधि­प्र­यो­ज­न­त्वा­न­ङ्गी­का­रा­द­न्यस्य च कर्म­का­र­क­ग­त­फ­ल­स्याऽ­भा­वात् सक्तुन्यायेन कर्मप्राधान्यं परित्यज्य स्वाध्या­या­ध्य­य­नेन स्वर्गं भावयेदिति कल्पना प्रसज्येत, ततो वरमर्थावबोधस्य विधि­प्र­यो­ज­न­त्वम्, दृष्टे सत्यदृष्टं न कल्प्यमिति न्यायात् । सम्भवति हि साङ्ग­वे­दा­ध्य­य­न­मा­त्रा­द­र्थ­नि­श्चयः । अर्था­व­बो­ध­हे­तो­र्व्या­क­र­ण­स्या‍ऽ­प्य­ङ्ग­त्वात् । न चैवं विचा­र­शा­स्त्र­वै­य­र्थ्यम्, अव­बु­द्धा­र्था­व­ग­त­वि­रो­ध­प­रि­हा­राय तदपेक्षणात् । अतः पुरु­षा­र्थ­भू­त­फ­ल­व­द­र्था­व­बोधो विधिप्रयोजनम्, नाऽक्ष­र­ग्र­ह­ण­मिति चेद्, मैवम्; अर्था­व­बो­ध­हे­तु­त्वे­नाऽ­क्ष­र­ग्र­ह­ण­स्याऽपि पुरुषार्थत्वात् । फल­भू­त­क्षी­रा­दि­हे­तूनां गवादीनामपि पुरु­षै­र­र्थ्य­मा­न­ता­द­र्श­नात् । विधे­र­क्ष­र­ग्र­ह­ण­मा­त्रो­प­क्ष­येऽ­र्थ­ज्ञा­न­मा­क­स्मिकं स्यादिति चेद्, न; अर्थावबोधस्य फल­प्र­यु­क्त­त्वात् । न हि विधि­प्र­यु­क्तोऽ­र्था­व­बोधः, लैकि­का­प्त­वा­क्यानां विधिमन्तरेण फल­व­द­र्था­व­बो­ध­क­त्व­द­र्श­नात् । न चाऽध्य­य­ना­द­क्ष­र­ग्र­ह­णस्य विशेषाभावात् कथं तयोर्हेतुफलभाव इति वाच्यम्; अक्ष­रा­वा­प्ति­र्नाम स्वाधी­नो­च्चा­र­ण­यो­ग्य­त्वा­ख्योऽ­क्ष­र­धर्मः । अध्ययनं तु तदर्थो वाङ्मनसव्यापार इति विशेषसद्भावात् । एवं च तर्ह्य­ध्य­य­न­स्याऽ­क्ष­र­ग्र­ह­ण­हे­तु­त्व­म­न्व­य­व्य­ति­रे­क­सि­द्ध­मिति व्यर्थो विधिरिति चेद्, न; अव­घा­ता­दि­व­द­दृ­ष्टो­त्प­त्तये नियमार्थत्वात् । न चैवं दृष्ट­फ­ल­त्व­हानिः, दृष्ट­फ­ल­भू­ता­क्ष­र­प्रा­प्ति­स­म­वे­त­स्यैव निय­मा­दृ­ष्ट­स्याऽ­ङ्गी­का­रात् । दृष्टे सत्यदृष्टं न कल्प्यमिति न्यायस्य स्वत­न्त्रा­दृ­ष्ट­वि­ष­य­त्वात् । अर्थावबोध एव फलमिति वदताऽपि निय­म­वि­धि­त्वा­ङ्गी­का­रात् । न चोपपत्तिसाम्ये सत्यक्षरग्रहणे एव किमिति पक्षपात इति वाच्यम्, अध्ययनविधेः फलवदर्थावबोधः प्रयोजनमिति पक्षे यस्य यस्मि­न्क­र्म­ण्य­धि­का­र­स्तस्य तद्वा­क्या­ध्य­य­न­मेव स्याद्, न तु वाक्या­न्त­रा­ध्य­य­नम्, तत्र प्रवृ­त्त्या­दि­फ­ला­भा­वात् । ततो न कृत्स्न­वे­दा­ध्य­य­न­सिद्धिः । अस्मत्पक्षे तु कृत्स्न­वे­दा­वाप्तिः प्राय­श्चि­त्त­ज­पा­दा­वु­प­यु­ज्यते ।

नन्व­र्था­व­बो­ध­म­धि­का­रि­वि­शे­ष­ण­मु­द्दि­श्याऽ­ध्य­यनं विधातव्यम्, निर­धि­का­र­वि­धा­ना­यो­गात् । अक्ष­रा­वा­प्ति­मु­द्दिश्य विधानेऽपि तदवाप्तिकाम एवाऽधिकारी स्यादिति चेद्, न; अर्थाऽ­व­बो­धो­द्दे­श­न­पू­र्व­क­श­ब्दो­च्चा­र­णा­भावे वाक्यस्य तात्प­र्या­सिद्धेः । लोकेऽ­र्था­व­बो­ध­मु­द्दि­श्यो­च्चा­रि­त­शब्दे तात्प­र्य­द­र्श­नात् । न च लोकवदेव विधिर्मा भूदिति वाच्यम्, तद्वदत्र शब्दो­च्चा­र­ण­प्र­यो­ज­कस्य रागस्याऽभावात् । अथोच्येत विश्व­जि­न्न्या­येन स्वर्ग­का­मोऽ­धि­कारी कल्प्यताम् । अथ वा वाजसनेयिनां ब्रह्म­च­र्य­मा­गा­मि­त्या­दि­नो­प­न­य­नस्य प्रकृ­त­त्वा­दु­प­नी­तोऽ­धि­का­रीति प्रकरणप्रमाणेन कल्प्यतामिति । तदसत्, अर्थाऽ­व­बो­ध­ल­क्ष­ण­दृ­ष्ट­फ­ल­का­मेऽ­धि­का­रिणि सत्य­न्त­क­ल्प­ना­यो­गात् । एवं चाऽर्था­व­बो­ध­का­मोऽ­ध्य­य­ने­नाऽ­र्था­व­बोधं भावयेदिति विधिः सम्पद्यते । विचा­रे­णाऽ­र्था­व­बोधं भावयेदिति विधि­स्त्वा­र्थिकः । विचा­रे­णाऽ­प­रि­हृते विरो­धेऽ­र्थ­नि­श्च­या­नु­द­या­द­र्था­व­बोध एव फलमिति । नैतत्सारम्, तत्र किं विधि­ब­ला­द­क्ष­र­ग्र­ह­ण­मात्रे निष्पन्ने सति श्रुतव्याकरणस्य पुरुषस्य लौकिकवाक्यार्थ इव वेदार्थोऽपि स्वतो बुध्यत इति कृत्वा तद्बोधस्य फलत्वमुच्यते किं वाऽर्था­व­बो­ध­का­म­मु­द्दिश्य विधानतः । तत्राऽऽ­द्य­म­ङ्गी­कुर्मः । द्विती­योऽ­नु­प­पन्नः, अध्ययनात् प्राग्वे­दा­र्थ­स्याऽ­प्र­ति­प­न्न­त्वेन तद्वि­शि­ष्ट­स्याऽ­व­बो­ध­स्याऽ­प्य­प्र­ति­प­न्नस्य कामनायोगात् । वेदोऽर्थवान् वाक्य­प्र­मा­ण­त्वा­दा­प्त­वा­क्य­व­दि­त्य­नु­मा­नेन प्रतिपन्नो वेदार्थ इति चेत्, तर्ह्य­नु­मा­न­सि­द्ध­त्वा­देव न वेदार्थज्ञानं काम्येत । सामा­न्य­तोऽ­नु­मि­तोऽपि वेदार्थो नाऽग्नि­हो­त्रा­दि­वि­शे­षा­का­रेण प्रतिपन्न इति चेत्, तर्ह्य­ग्नि­हो­त्रा­दि­गो­च­र­बो­धोऽ­प्य­प्र­ति­पन्नः कथं काम्येत । पित्राद्युपदेशत एवाऽ­ग्नि­हो­त्रा­द्य­व­गमे कामनावैयर्थ्यं तदवस्थम् ।अ­थौ­प­दे­शि­क­ज्ञा­न­स्याऽ­प्र­मा­ण­त्वा­त्तत्र निर्णयज्ञानं काम्यत इति चेत्, तत्र न तावदप्रामाण्ये निश्चिते निर्ण­य­ज्ञा­न­का­मना सम्भवति, अर्थस्य विभ्र­म­मा­त्र­त्वात् । अप्रा­मा­ण्य­स­न्देहे तु तद्वि­चा­र­स्यै­वाऽ­व­सरो नाऽध्ययनस्य । अथ मन्यसे औपदेशिकज्ञानं प्रामा­ण्य­वि­चा­रा­यैव वेदाध्ययनं तदर्थविचारश्च वेदस्य तन्मू­ल­प्र­मा­ण­त्वा­दिति । एवं तर्ह्यस्तु कथ­ञ्चि­द­र्था­व­बो­धोऽ­धि­का­रि­वि­शे­ष­णम्, तथापि तदुद्देशेन विधानमयुक्तम् । तत्र किं वेदा­र्थ­वि­शे­ष­ज्ञा­नानां विशे­षा­का­रे­णाऽ­ध्य­य­न­वि­धा­वु­द्दे­श्य­त्व­मुत सामान्याकारेण । नाऽऽद्यः, युग­प­त्त­द­स­म्भ­वात् । द्विती­येऽ­र्थ­मा­त्र­ज्ञा­न­मु­द्दि­श्यो­च्च­रि­तस्य शब्दस्य तत्रैव तात्पर्यं स्यान्नाऽ­ग्नि­हो­त्रा­दि­वि­शे­ष­ज्ञाने । अथ विधि­सा­म­र्थ्या­द­र्थ­मात्रे तात्पर्येऽपि वाक्य­श­क्त्य­नु­सा­रेण विशिष्टार्थे तात्पर्यं कल्प्येत तर्हि विधेस्तत्र तात्प­र्य­नि­मि­त्तत्वं न स्यात् । किञ्च, कथञ्चिदुद्दिश्य विधानेऽपि नाऽध्य­य­न­मा­त्रा­द्दृ­ष्ट­फ­ल­त­याऽ­र्था­व­बो­ध­सिद्धिः, अदर्शनात् । ननु वेद­स्याऽ­र्था­व­बो­ध­मु­द्दि­श्यो­च्चा­र­णा­भावे स्वार्थे तात्पर्यं न स्यात्, तात्प­र्य­हे­तो­र­भा­वा­दिति चेद्, मैवम्; न ताव­च्छ्रो­तु­रु­च्चा­रणं तात्प­र्य­नि­मि­त्तम्, लोके तदभावात् । नाऽपि वक्तु­रु­च्चा­र­णम्, अपौरुषेये वेदे तात्प­र्या­भा­व­प्र­स­ङ्गात् । नन्वेवमपि वेद­स्याऽ­र्थ­प्र­ति­पा­द­कत्वं न स्याद् उद्दि­श्यो­च्चा­र­णस्य प्रति­पा­द­न­हे­तो­र­भा­वा­दिति चेद्, न; शब्दस्य प्रति­पा­द­क­त्व­स्वा­भा­व्यात् । तर्ह्य­र्थ­ज्ञा­न­मु­द्दिश्य शब्दोच्चारणं लोके व्यर्थं स्यादिति चेद्, न; पुरु­ष­स­म्ब­न्ध­कृ­त­दो­षा­ख्य­प्र­ति­ब­न्ध­प­रि­हा­रा­र्थ­त्वात् । ननु वेद­स्याऽ­र्थ­प्र­ति­पा­द­न­सा­म­र्थ्येऽपि न बोधकत्वं सम्भवति, बोधस्य तात्प­र्या­धी­न­त्वात् तात्पर्यस्य पुरु­ष­ध­र्म­स्याऽ­त्राऽ­स­म्भ­वा­दिति चेद्, मैवम्; तात्पर्यं हि षड्वि­ध­लि­ङ्ग­ग­म्य­तया शब्दधर्मो न पुरुषधर्म इति समन्वयसूत्रे वक्ष्यमाणत्वात् । तदे­व­म­ध्य­य­न­वि­धे­र्या­व­द­र्था­व­बो­ध­फ­ल­म­व्या­पा­रान्न विधितो विचारशास्त्रस्य सर्वाधिकारिता सिध्यति । नन्व­ध्य­य­न­वि­धे­र­र्था­व­बो­ध­का­मा­धि­कारं नाऽङ्गीकरोषि अधिकारान्तरं च न श्रुतं ततोऽनध्ययनमेव प्रसज्येत ।

अत्र प्राभाकरा आहुः – नाऽध्ययनविधिः स्वत­न्त्र­म­धि­का­रि­ण­म­पे­क्षते, अध्य­य­न­वि­धि­प्र­युक्त्या तद्वि­ष­या­नु­ष्ठा­न­सिद्धेः । न च वाच्यं विधिर्हि सर्वत्र स्वविषयं तदङ्गं वाऽनुष्ठापयति, न चाऽध्य­य­न­म­ध्या­प­न­वि­धे­र्वि­ष­योऽङ्गं वा तत्कथं तेनाऽनुष्ठाप्यत इति, अवि­ष­य­स्याऽ­त­द­ङ्ग­स्याऽ­प्या­धा­न­स्यो­त्त­र­का­म्य­क्र­तु­वि­धि­भि­र­नु­ष्ठा­पि­त­त्वा­दिति । सोऽयं प्राभाकरोक्तः परि­हा­रोऽ­नु­प­पन्नः । तथा हि – अध्या­प­न­वि­धि­र­प्य­श्रू­य­मा­णा­धि­कार एव । “अष्टवर्षं ब्राह्म­ण­मु­प­न­यीत” “तमध्याययीत” इत्य­त्राऽऽ­चा­र्य­क­र­ण­काम इत्यश्रवणात् । तत्कथमध्ययनं तत्प्रयुक्तं यत् तत्राऽधिकारिणं परिकल्प्य तत्प्र­यु­क्ति­र­ध्य­य­न­स्यो­च्येत । तर्ह्यध्ययने स्वत­न्त्रोऽ­धि­कारी कल्प्यताम्, लाघवाद् । लघीयसी हि स्ववि­धि­प्र­यु­क्ति­र­न्य­वि­धि­प्र­युक्तेः । अथै­क­त्राऽ­धि­का­रि­क­ल्प­न­मा­त्रे­णे­त­रस्य तत्प्र­यु­क्ता­नु­ष्ठाने सम्भवत्युभयत्र तत्कल्पने गौरवमिति मन्यसे तर्ह्यध्ययन एवाऽधिकारिणं परिकल्प्य तत्प्र­यु­क्ति­म­न्यस्य किं न ब्रूषे ? यदि लिखि­त­पा­ठा­द­प्य­ध्य­य­न­सि­द्धे­र्नाऽ­ध्य­य­न­वि­धि­र­ध्या­पनं प्रयोजयति, तर्ह्य­वि­हि­ताऽ­ध्य­य­नेन प्राङ्मु­ख­त्वा­दि­र­हि­ते­नाऽ­प्य­ध्या­प­न­सि­द्धेर्न विहि­त­म­ध्य­य­न­म­ध्या­प­न­विधिः प्रयोजयेत् । अथोच्येत प्रयतः प्राङ्मुखः पवि­त्र­पा­णि­र­धी­यी­तेति माणवकस्य प्राङ्मु­ख­त्वा­द्य­ध्य­य­नाङ्गं श्रुतं तथाऽध्यापनेऽपि प्राङ्मुखं पवि­त्र­पा­णि­म­ध्या­प­यी­तेति माणवकस्य प्राङ्मु­ख­त्वा­दि­वि­शे­ष­ण­श्र­व­णा­द्वि­हि­त­मे­वाऽ­ध्य­यनं प्रयुज्यत इति । तर्हि
“गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः ।
अन­र्थ­ज्ञोऽ­ल्प­क­ण्ठश्च षडेते पाठकाधमाः ॥”
इति लिखितपाठस्य निन्दा­स­द्भा­वा­दा­चा­र्या­धीनो वेद­म­धी­ष्वे­त्य­ध्य­य­न­स्याऽऽ­चा­र्य­पू­र्व­क­त्व­नि­य­म­वि­धा­ना­द­ध्य­य­न­वि­धि­र­ध्या­पनं किं न प्रयोजयेत् । अथ मतम् – “आचा­र्या­धी­नोऽ­धीष्व” इत्य­त्राऽऽ­चा­र्य­क­र­ण­वि­धि­प्र­यु­क्तोऽ­धी­ष्वे­ति­वा­क्यार्थ आचा­र्य­त्व­स्याऽ­ध्या­प­ना­दु­त्त­र­का­ल­भा­वि­त्वा­दिति, तदसत्; तद् द्वितीयं जन्म । तद् यस्मात्स आचार्य इत्यु­प­न­य­ना­ख्य­द्वि­ती­य­ज­न्म­हे­तु­त्व­मा­त्रे­णाऽऽ­चा­र्य­श्र­व­णात् ।
“आचिनोति हि शास्त्रा­र्थ­मा­चारे स्थापयत्यपि ।
स्वयमाचरते यस्मादाचार्यः स उदाहृतः ॥”
इति स्मृतावाचारे शिष्यान् स्थापयतीति व्युत्पत्तिः प्रतीयत इति चेद्, एवमप्यध्यापनात् पूर्व­मा­चा­र्य­त्व­म­वि­रु­द्धम् । अध्या­प­ना­दा­चा­र्य­त्व­स्यो­त्त­र­का­ल­भा­वित्वे चाचा­र्य­क­र­ण­वि­धि­प्र­यु­क्तोऽ­धी­ष्वेति साध्याहारयोजना प्रसज्येत तस्मा­द­धि­का­रि­क­ल्प­ना­सा­म्या­दि­त­रे­त­र­प्र­यु­क्ति­सा­म्याच्च काम्य­वि­धि­प्र­यु­क्ति­स­म्भ­वेऽ­ध्य­य­नस्य कथ­म­ध्या­प­न­वि­धि­प्र­यु­क्ति­रिति । अत्रोच्यते – नाऽध्या­प­न­वि­धे­र­धि­कारी कल्पनीयः, श्रुतिस्मृत्योः प्रतीयमानत्वात् । तथाहि – “अष्टवर्षं ब्राह्म­ण­मु­प­न­यीत” इति श्रुता­वा­त्म­ने­प­दे­नाऽऽ­चा­र्य­क­र­ण­सा­ध्यता प्रतीयते सम्मा­न­नो­त्स­ञ्ज­ना­चा­र्य­क­र­णे­त्या­दिना व्याक­र­ण­सू­त्रे­णाऽऽ­चा­र्य­क­रणे साध्ये तद्विधानात् । न चाऽऽचार्यत्वं किञ्चिल्लोके प्रसिद्धमस्ति ततो यथाऽहवनीये जुहो­ती­त्य­त्राऽऽ­ह­व­नीये होमाधारत्वेन विनियुक्ते सत्यसंस्कृतस्य होमा­धा­र­त्वा­यो­गात् संस्कृतस्य सम्भ­वा­च्चाऽऽ­धा­न­सं­स्कृ­तोऽ­ग्नि­रा­ह­व­नी­य­त्वेन निश्चितः तथा “आचार्याय गां दद्यात्” इत्य­त्राऽऽ­चार्ये दक्षिणां प्रति सम्प्र­दा­न­त्वे­नाऽ­व­गते सत्यनुपकारिणः सम्प्र­दा­न­त्वा­यो­गा­दु­पा­का­रि­णोऽत्र सम्भ­वा­च्चो­प­न­य­न­नि­ष्पा­द­ना­ख्ये­नो­प­का­रेण माणवकं प्रत्युपकुर्वत आचार्यत्वं निश्चीयते । नन्वे­व­म­प्यु­प­न­य­न­सा­ध्य­मा­चा­र्यत्वं भवे­न्नाऽ­ध्या­प­न­सा­ध्य­मिति चेद्, न; उप­न­य­न­स्याऽ­ध्या­प­ना­ङ्ग­त्वात् । “उपनयीत तमध्यापायीत” इत्ये­क­प्र­यो­ग­ता­व­ग­मात्, न च निर­पे­क्ष­वि­धि­भे­दान्न प्रयोगैक्यमिति वाच्यम्, उप­नी­याऽ­ध्या­प­ये­दि­त्येवं प्रयो­गै­क्य­क­ल्प­नात् । तमिति प्रकृ­त­प­रा­म­र्शिना तच्छब्देन कर्मै­क्य­प्र­तीतेः। नचो­प­न­य­न­स्याऽ­ध्या­प­ना­ङ्ग­त्वेऽ­प्य­ध्य­य­नस्य न तत्प्र­यु­क्ति­रिति वाच्यम्, माण­व­क­वि­ष­या­ध्या­प­ने­नाऽऽ­चा­र्यत्वं भावयेदिति वाक्या­र्थ­स्वी­क­र­णे­नाऽऽ­ध्या­प­न­क्रि­या­नि­व­र्त­क­तया माणवकस्य क्रियां प्रति गुणभूतत्वाद् उपकारकत्वे वक्तव्ये दृष्टे सत्य­दृ­ष्ट­क­ल्प­नाया अन्याय्यत्वाद उप­ग­म­ना­ध्य­य­ना­भ्या­मु­प­क­रो­तीति कल्प्यत्वात् । ननू­प­न­य­ना­ध्य­य­नाभ्यां निष्पा­द्य­स्याऽ­ध्या­प­नस्य यद्य­प्या­चा­र्यत्वं फलं तथापि श्रुतावधिकारी कल्पनीयः, एतत्काम इत्यश्रवणादिति चेद्, न; कामो­प­ब­न्ध­मा­त्रस्य कल्प्यत्वात् । ततश्च श्रुता­वु­प­नी­याऽ­ध्या­प­ये­दा­चा­र्य­क­र­ण­काम इत्ये­व­म­ध्या­प­न­विधिः साधिकारः सम्पद्यते, तथा स्मृतावपि । “उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ।।“ इत्यु­प­न­य­ना­ध्या­प­नयोः प्रयो­गै­क्या­द­ध्या­पने विधि­श्र­व­णा­दा­चा­र्य­त्व­फ­ल­श्र­व­णा­च्चाऽऽ­चा­र्य­त्व­कामो माण­व­क­मु­प­नी­या­ध्या­प­ये­दिति निष्पाद्यते । अध्ययने तु नाऽधि­का­र­नि­मित्तं किञ्चि­च्छ्रु­त­म­स्तीति विशेषः । न चाऽध्ययनस्य स्वत­न्त्र­वि­ध्य­न्त­र­वि­हि­तस्य कथं स्वत­न्त्र­वि­ध्य­न्त­र­प्र­यु­क्ता­नु­ष्ठा­न­मिति शङ्कनीयम्, आधानदृष्टान्तेन प्रयुक्तत्वात् । आधाने हि ब्राह्म­णोऽ­ग्नि­मा­द­धी­तेति श्रूयते । तत्र किमाधानं स्वात­न्त्र्ये­णा‍ऽ­नु­ष्ठे­यम् उताऽ­न्य­प्र­युक्त्या । आद्येऽपि न तावत् पुरुषमुद्दिश्य नित्यतया स्वतन्त्रमाधानं विधातुं शक्यम्, प्रोक्ष­णा­दि­व­त्क­र्म­का­र­क­सं­स्का­र­रू­प­स्याऽऽ­धा­नस्य द्रव्य­प­र­त­याऽ­ग्ने­रु­द्दे­श्य­त्वात् । नाऽपि स्वत­न्त्र­का­म्य­तया तद्विधेयं फलाश्रवणात् । न च सक्तुन्यायेन गुण­प्र­धा­न­वै­प­री­त्य­क­ल्प­नया नित्याधिकारता कामाधिकारता वा शङ्कनीया । भस्मीभूतसक्तुना उपयोगासम्भवेन तत्र वैप­री­त्य­क­ल्प­नेऽपि प्रकृते संस्कृताग्नेः क्रत्वन्तरे विनियोगयोग्यतया तदसम्भवात् । द्वितीयेऽपि किमा­धा­न­स्यो­त्त­र­नि­त्य­क्र­तु­वि­धि­प्र­यु­क्ति­रु­तो­त्त­र­का­म्य­क्र­तु­वि­धि­प्र­युक्तिः? नाऽऽद्यः, उद्दे­श्य­स्याऽ­नु­पा­दे­य­स्याऽऽ­ह­व­नी­यस्य क्रतु­वि­धि­प्र­यु­क्ता­नु­ष्ठे­य­त्वा­यो­गात् । उपादेयमेव हि विधिरनुष्ठापयति । अन्यथा स्वर्ग­का­मा­दी­ना­म­प्य­नु­ष्ठे­य­त्व­प्र­स­ङ्गात् । तस्मा­दु­त्त­र­का­म्य­क्र­तु­वि­धि­प्र­युक्तिः परिशिष्यते । न हि विधिरिव कामोऽ­प्यु­पा­दे­य­मे­वाऽ­नु­ष्ठा­प­यति येनोक्तदोषः स्यात् । किन्तु यद्य­दु­द्दे­श्य­मु­पा­देयं वा विना काम्यमानस्य न सिद्धि­स्त­त्सर्वं विधि­स­ह­का­रि­त­याऽ­नु­ष्ठा­प­यति । दृश्यते हि लोके विधि­रा­ग­यो­र्वै­ष­म्यम् । “सौवर्णपीठे समुपविशेत्” इति विधि­स्त­था­वि­ध­पी­ठा­भावे पुरुषं न तत्रोपवेशयति रागस्तु तथाविधं पीठ­मु­त्पा­द्याऽपि तत्र निवेशयति । एवं च सति प्रकृ­तेऽ­प्या­चा­र्य­क­र­ण­का­म­नै­वाऽऽ­चा­र्य­प्रे­र­ण­द्वा­रे­णाऽ­ध्या­प­न­सि­द्ध्यर्थं माण­व­के­नाऽऽ­ध्य­यनं निर्वर्तयतीति स्थितम् । तदे­त­त्प्रा­भा­क­र­मतं वेदान्तिनो न बहु मन्यन्ते । तथा हि – किं “तमप्यध्यापयीत” इत्य­त्राऽऽ­चा­र्यत्वं विधेयम् उत विधिरूपमथवा नैयोगिकं फलम् ? नाऽऽद्यः, उप­न­य­नाऽ­ध्य­य­न­भा­वा­र्थ­वि­ष­य­त्वा­द्विधेः । न द्वितीयः, आत्म­ने­प­द­मा­त्रा­भि­धे­य­स्याऽऽ­चा­र्य­त्वस्य विधि­प­दा­न­भि­धे­य­तया विधि­रू­प­त्वा­यो­गात् । न तृतीयः, “अाचारान् ग्राहयति” इति व्युत्पत्त्या हेतु­क­र्तृ­त्व­नि­ब­न्ध­न­स्याऽऽ­चा­र्य­त्वस्य लौकिकत्वात्, अलौकिकस्यैव नैयोगिकत्वात् । न चोप­न­य­न­सा­ध्य­त्वा­द­लौ­कि­क­मा­चा­र्यत्वं स्यादिति वाच्यम्, द्वितीयं जन्म तद्यस्मात् स आचार्य इति स्मृतावुपनयनं प्रति हेतु­क­र्तृ­त्व­स्यैव लौकि­क­स्याऽऽ­चा­र्य­श­ब्द­नि­मि­त्त­त्वा­व­ग­मात् । यद्या­चा­र्य­त्व­म­लौ­किकं स्यात् तदा व्याकरणसूत्रे संमा­न­ना­दि­भि­र्लौ­कि­कार्थैः सह कथं पठ्येत ? ननु विधा­य­क­प्र­त्य­य­श्र­व­णाद् नियोगः प्रतीयते, तस्य नियो­ज्य­वि­शे­ष­णा­का­ङ्क्षायां स्वर्ग­व­न्नि­यो­ग­सा­ध्य­त्वे­नैव नियो­ज्य­वि­शे­ष­ण­त्व­मा­चा­र्य­स्याऽ­भ्यु­पे­त­व्यम्, कारकफलस्य तदनुपपत्तेः । न चाऽऽचा­र­ग्रा­ह­क­त्व­मु­प­न­यने हेतुकर्तृत्वं चाऽऽचा­र्य­श­ब्द­प्र­वृ­त्ति­नि­मि­त्तम्, विकल्पापत्तेः । अतो मन्त्रा­द्य­लौ­कि­क­सा­ध­ना­न्त­र­वि­धा­ना­द­लौ­कि­क­मा­चा­र्य­त्वम् । सम्माननादीनां तु तदभावाद्भवतु लौकिकत्वम् । अतस्तैः सह पाठेऽ­प्य­लौ­कि­क­मे­वाऽऽ­चा­र्य­त्व­मिति चेद्, एव­म­प्यु­प­न­य­न­नि­यो­ग­फलं भविष्यति, तेनाऽ­ध्या­प­न­विधेः कुतः साधिकारता ?

अथ मतमुपनयने श्रुत­म­प्या­चा­र्य­त्व­म­ध्या­प­न­फलं भविष्यति, उपनयनस्य तदङ्गत्वादिति; तन्न, तथा सत्यङ्गेषु फलश्रुतिरर्थवाद इति न्याये­नाऽऽ­चा­र्य­त्वस्य नियो­ज्य­वि­शे­ष­ण­त्वा­स­म्भ­व­प्र­स­ङ्गात् । नन्वेवं सत्य­न­धि­का­र­म­ध्य­यनं सर्वथा नाऽनुष्ठीयेतेति चेद्, न; उप­नी­त­स्याऽ­ध्य­य­ना­धि­का­र­त्वात्; वाज­स­ने­यि­शा­खा­या­मु­प­न­यनं प्रक्र­म्याऽ­ध्य­य­नस्य विहितत्वात् । सर्वस्मृतिषु चोप­नी­तोऽ­धी­यी­ते­त्य­व­ग­मात् । अतोऽध्ययनस्य स्ववि­धि­प्र­यु­क्ता­नु­ष्ठा­नो­प­पत्तौ तद­नु­ष्ठा­न­सि­द्ध­येऽ­ध्या­प­नेऽ­धि­का­रिणं परिकल्प्य न मनः खेदनीयम् । ननु न तं कल्पयामि किन्त्वस्त्येव सः, श्रुतौ दुःस­म्पा­द­त्वेऽपि “उपनीय तु यः शिष्यम्” इत्या­दि­म­नु­वा­क्येन तदवगमादिति चेद्, न; तद्वा­क्य­स्यो­प­न­य­ना­ध्या­प­ना­नु­वा­देन कर्तु­रा­चा­र्य­सं­ज्ञा­वि­धा­य­क­त्वाद्, वाक्य­ग­त­य­त्त­च्छ­ब्दा­भ्या­म­नु­वा­द­वि­ध्यो­र्नि­श्च­यात् । आचा­र्य­सं­ज्ञा­याश्च नम­स्का­रा­दि­वि­धा­ने­षू­प­यो­गात् । नन्वे­व­म­प्य­प्र­बु­द्धस्य माण­व­क­स्यो­प­नी­तस्य स्वाधिकारं प्रति­प­द्याऽ­नु­ष्ठा­तु­म­श­क्य­त्वा­द­ध्या­प­न­वि­धि­रेव कथ­ञ्चि­त्सा­धि­का­रोऽ­ध्य­य­न­मपि प्रयुङ्क्त एवेति वाच्यमिति चेत्, तत्र किम­ध्या­प­न­वि­धि­र­वि­हि­त­म­ध्य­यनं प्रयुङ्क्ते उत विहितम् ? नाऽऽद्यः, अध्य­य­न­वि­ध्य­प्रे­रि­तानां तत्र प्रयो­ज­न­शू­न्यानां पुरु­षा­णा­मा­चार्यं प्रति गुणभावेन प्रवृ­त्त्य­यो­गात् । द्वितीये विधि­स्व­रू­प­सि­द्ध­येऽ­ध्य­य­नेऽ­धि­का­र्यपि स्वीकार्यः । विषय एव विधिस्वरूपसाधको नाऽधिकारीति चेत्, तर्हि विहि­त­स्याऽ­ध्य­य­न­स्याऽ­धि­का­रि­वि­शे­षा­भा­वाद्यं कञ्चि­द­ध्या­प­ये­दिति प्राप्नुयात् । तस्मात् प्रक­र­ण­स­म­र्पि­ते­नो­प­नी­ते­नाऽ­धि­का­रिणा साधि­का­रोऽ­ध्य­य­न­विधिः स्वयमेव स्वविषये पुरुषं प्रवर्तयति । अन्यथा स्वाधि­का­र­वि­धि­नै­वाऽ­प्र­व­र्ति­तस्य प्रवृ­त्त्य­स­म्भ­वात् । न च बालकस्य स्वाधि­का­र­प्र­ति­प­त्त्य­स­म्भवः, विध्य­र्था­प­रि­ज्ञा­नेऽपि सन्ध्यो­पा­स­न­स­मि­दा­ह­र­णा­दि­क­र्त्त­व्य­ता­प्र­ति­प­त्ति­व­त्पि­त्रा­द्यु­प­दे­श­सा­म­र्थ्या­द­ध्य­य­न­क­र्त्त­व्य­ता­प्र­ति­पत्तेः । नन्व­ध्य­य­न­स्याऽ­ध्या­प­न­वि­धि­प्र­युक्तौ नायं क्लेशः, आचार्यस्य प्रबुद्धस्य स्वाधिकारं प्रतिपत्तुं शक्यत्वात् । यद्यपि कश्चित् प्रेक्षावान् माणवको न स्वाधि­का­र­म­बुद्ध्वा प्रवर्तेत तथा­प्य­न्योऽ­प्र­बुद्ध आचार्यप्रेरितः प्रवर्तिष्यत एव । ततः प्रवा­ह­रू­पे­णाऽ­ध्या­पनं न विच्छिद्यत इति चेद्, एवमप्याचार्यः किम­न्ये­नो­प­नी­ता­न्मा­ण­व­का­न­ध्या­प­येद् उत स्वेनै­वो­प­नी­तान्, नाऽऽद्यः, उपनयनस्याऽपि त्वन्म­तेऽ­ध्या­प­ना­ङ्ग­तया तद्वैकल्ये नियो­गा­नि­ष्प­त्ता­वा­चा­र्य­त्व­फ­ला­सिद्धेः । तर्ह्यस्तु द्वितीयः, उक्त­दो­षा­भा­वा­दिति चेद्, न; एवमपि नित्या­नि­त्य­सं­यो­ग­वि­रो­धस्य दुरपवादत्वात् । तथा हि – अध्यापनं तावदनित्यम्, द्रव्या­र्ज­ना­र्थ­त्वात् । नह्या­चा­र्य­त्व­म­ध्या­प­न­फलं भवितुमर्हति, सुख­प्रा­प्ति­दुः­ख­प­रि­हा­र­सा­ध­न­रू­प­त्वा­भा­वे­नाऽ­पु­म­र्थ­त्वात् । न चाऽदृष्टं तत्फलत्वेन कल्प्यम्, दृष्टे सति तदयोगात् । अस्ति दृष्टम् –
“षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥”
इत्याध्यापनस्य द्रव्या­र्ज­नो­पा­य­त्वेन स्मरणात् । ननु याजनस्य जीविकार्थत्वं युक्तं ऋत्विग्भ्यो दक्षिणादिविधौ सति सर्वा­ङ्गा­नु­ष्ठा­प­कस्य दक्षि­णा­द्य­नु­ष्ठा­प­क­तया द्रव्यार्जनं निश्चित्य तदर्थिना याजने प्रवृ­त्ति­स­म्भ­वात् । अत्र तु भृत­का­ध्या­प­न­नि­षे­धात् । प्रकारान्तरेण द्रव्या­र्ज­ना­भा­वाद् न ताद­र्थ्य­म­ध्या­प­न­स्येति चेद्, मैवम्; माण­व­क­स्याऽ­ध्य­य­ना­ङ्ग­त्वेन गुरु­द­क्षि­णा­वि­धा­ना­द­ङ्गि­न्य­ध्य­य­नेऽ­नु­ष्ठा­प­क­स्याऽ­ध्या­प­न­वि­धे­र्द­क्षि­णा­शु­श्रू­षा­द्य­ङ्गे­ष्व­नु­ष्ठा­प­क­त्वात् । तस्माद् द्रव्या­र्ज­न­का­मे­नाऽ­नु­ष्ठे­य­त्वा­द­ध्या­प­न­म­नि­त्यम् । उपनयनाख्यस्तु संस्कारो नित्यः, अकरणे दोषश्रवणात् ।
“आषोडशात्तु द्वाविं­शा­च्च­तु­र्विं­शाच्च वत्सरात् ।”
इति त्रैव­र्णि­का­ना­मु­प­न­य­न­स्याऽ­मुख्यं कालमभ्यनुज्ञाय पश्चात्स्मर्यते ।
“अत ऊर्ध्वं त्रयोऽप्येते यथा­का­ल­म­सं­स्कृताः ।
सावित्रीपतिता व्रात्या भव­न्त्या­र्य­वि­ग­र्हिताः ॥”
“नेतै­र­पू­तै­र्वि­धि­व­दा­प­द्यपि च कर्हिचित् ।
ब्राह्मा­न्यौ­नांश्च सम्बन्धानाचरेद् ब्राह्मणः क्वचित् ॥” इति ।
नन्वकरणे दोष­श्र­व­ण­मा­त्रे­णो­प­न­य­नस्य नित्यतायां प्राय­श्चि­त्त­स्याऽपि नित्यता प्रसज्येत ।
“अतीते चिरकाले तु द्विगुणं व्रतमर्हति ।”
इति प्राय­श्चि­त्ता­क­र­ण­नि­मि­त्त­दो­षस्य निरासाय प्राय­श्चि­त्ता­न्त­र­वि­धा­नात् । न हि प्रायश्चित्तं नित्यं दोषा­प­न­य­का­मि­नाऽ­नु­ष्ठे­य­त्वात् । उच्यते, न प्राय­श्चि­त्ता­क­र­ण­नि­मि­त्त­दो­ष­नि­रा­साय द्विगुणं व्रतमुच्यते किन्तु प्रायश्चित्तेन निरा­क­र्त्त­व्यस्य पूर्व­दो­ष­स्यै­वाऽ­तीते चिरकाले द्विगु­ण­व्र­ता­पे­क्ष­यैव निरास इत्युच्यते । अन्यथा प्राय­श्चि­त्ता­न­व­स्था­प्र­स­ङ्गात् । ततो नोपनयनस्य नित्य­ता­या­म­ति­प्र­सङ्गः । तच्चोपनयनं नित्य­भू­त­म­ध्य­य­ना­ङ्ग­त्वा­द­ङ्गि­नोऽ­ध्य­य­न­स्याऽपि नित्यतां कल्पयति ।

ननू­प­न­य­न­स्याऽ­ध्य­य­ना­ङ्ग­त्व­म­यु­क्तम्, अध्य­य­न­म­ना­र­भ्याऽ­धी­त­त्वात् । यद्यनङ्गत्वे संस्कारकर्मत्वं नोपपद्यते, तर्हि हिरण्यधारणवद् गत्यन्तरं कल्पनीयम् । “हिरण्यं भार्यम्” इत्यत्र हि न ताव­द्धि­र­ण्य­धा­र­णस्य प्रया­जा­दि­व­द­र्थ­क­र्मता घटते, कर्म­का­र­क­प्रा­धा­न्येन विधानात् । यदि संस्कारकर्मत्वं तदाऽपि संस्का­र्य­हि­र­ण्य­द्वारा क्रतुविशेषेण सम्बध्येत उत क्रतुमात्रेण । नाऽऽद्यः, विशे­ष­स­म्ब­न्ध­बो­ध­क­श्रु­त्या­दी­ना­म­भा­वात् । न द्वितीयः, एकस्य संस्कारस्य सर्व­क्र­तू­प­का­रि­त्वा­नु­प­पत्तेः । अतः संस्कारकर्मत्वं परि­त्य­ज्याऽ­भ्यु­द­य­फलः स्वतन्त्रो विधिरभ्युपगतः । एवमुपनयनविधिरपि स्वतन्त्र एवाऽभ्युदयफलः स्यात् । अत्रोच्यते, अना­र­भ्याऽ­धी­त­स्यो­प­न­य­न­स्याऽ­ध्य­य­ना­ङ्ग­त्व­बो­ध­कानां पूर्व­त­न्त्र­तृ­ती­या­ध्या­यो­क्त­श्रु­त्या­दि­प्र­मा­णा­ना­म­भा­वेऽपि तत्र­स्थ­च­तु­र्था­ध्या­यो­क्त­वि­ध्या­क्षे­प­रू­पो­पा­दा­न­प्र­मा­णे­नो­प­न­य­न­स्याऽ­ध्य­य­ना­ङ्गत्वं सिध्यति । अनुपपन्नं स्वाचा­र्यो­प­स­त्ति­म­न्त­रे­णाऽ­ध्य­य­नम्, लिखि­त­पा­ठा­दि­प्र­ति­षे­धे­नाऽ­चा­र्या­धी­न­श्चे­द­म­धी­ष्वे­त्यु­प­सत्तौ नियमविधानात् । ततोऽ­ध्य­य­न­वि­धि­रु­प­सत्तिं स्वाङ्ग­त्वे­नाऽऽ­क्षि­पति । तथो­प­न­य­ना­ख्य­सं­स्का­र­वि­धिश्च प्रयो­ज­न­म­पे­क्ष­माण उप­स­त्ति­स­म­वे­त­मे­वाऽ­दृष्टं कल्पयति, दृष्ट­स­म­वा­य्य­दृ­ष्ट­स­म्भवे स्वत­न्त्रा­दृ­ष्टा­यो­गात् । तत­श्चो­प­न­य­ना­ध्य­य­न­वि­धि­द्व­यो­पा­दा­न­सा­म­र्थ्या­द­ध्य­य­ना­ङ्ग­त्व­मु­प­न­य­न­स्याऽ­व­ग­म्यते । न च वाच्य­म­ङ्ग­त्वेऽपि न प्रोक्ष­णा­दि­व­त्सं­स्का­र­क­र्म­त­याऽ­ङ्गता प्रया­जा­दि­व­त्फ­लो­प­का­र्य­ङ्ग­तैव किं न स्यादिति । अङ्गि­स्व­रू­प­नि­ष्पा­द­क­तया सन्नि­प­त्यो­प­का­रिणः संस्का­र­स्याऽ­भ्य­र्हि­त­त्वात् । फलो­प­का­र्य­ङ्गन्तु नाभ्यर्हितम्, अपू­र्व­द्वा­रे­णाऽऽ­रा­दु­प­का­र­क­त्वात् । अतो माण­व­क­सं­स्का­र­क­र्म­त­यै­वो­प­न­य­न­म­ध्य­य­न­स्व­रू­पो­प­का­र्य­ङ्गम् । किं चोपा­दा­न­प्र­मा­ण­व­च्छ्रु­ति­प्र­क­रणे अप्य­ध्य­य­ना­ङ्ग­त्व­मु­प­न­य­नस्य गमयतः, अष्टवर्षो ब्राह्मण उप­ग­च्छे­त्सोऽ­धी­यी­तेति वाक्य­वि­प­रि­णा­मस्य विवक्षितत्वात् । तच्छ्रु­ति­रे­वो­प­न­य­न­सं­स­स्कृतं माण­व­क­मा­दा­याऽ­ध्य­यने विनियुङ्क्ते । न च तच्छब्देनैव माणवकस्यैव परामर्शो न संस्कारस्येति वक्तुं युक्तम्, संस्का­र­स्याऽ­न­न्त­र­प्र­कृ­त­त्वात् । न च श्रुते­र­ना­का­ङ्क्षि­तस्य समर्पणप्रसङ्गः, उप­न­य­ना­ध्य­य­न­यो­रु­प­स­त्ति­द्वारा पर­स्प­र­सा­का­ङ्क्ष­त्वस्य दर्शितत्वात् । ननु सोऽधीयीतेत्यत्र संस्कृतो माणवकः प्रातिपदकार्थ एव न तु विभक्त्यर्थः । न च प्राति­प­दि­क­मा­त्र­म­ङ्गा­ङ्गि­भा­व­स­म्बन्धं बोधयितुमलम्, द्विती­या­श्रु­त्या­दे­रेव तद्बोधकत्वादिति चेद्, मैवम्; प्राति­प­दि­क­स्याऽ­प्य­न्वि­ता­भि­धा­यि­तया सम्ब­न्ध­प्र­ति­पा­द­क­त्वात् । अन्वि­ता­भि­धा­यि­त्वा­भावे तत्प्रयोग एव न स्यात् । तस्मा­त्त­च्छ­ब्द­श्रु­ति­र­ङ्गत्वं गमयति । तथा प्रकरणमपि तद्गमकं वाजसनेयिशाखायां सर्व­स्मृ­त्य­नु­मि­त­श्रु­तिषु चोपनयनं प्रकृ­त्याऽ­ध्य­य­न­वि­धा­नात् । न चैव­मु­प­न­य­न­प्र­क­रणे पठि­त­म­ध्य­य­न­मे­वाऽङ्गं प्रसज्येतेति वाच्यम्; अध्ययनस्य फलत्वात् । फल­व­त्स­न्नि­धा­व­फलं तदङ्गमिति न्याये­नो­प­न­य­न­स्यै­वाऽ­ङ्ग­त्व­प्राप्तेः । अत उपा­दा­न­श्रु­ति­प्र­क­र­णै­रु­प­न­य­न­स्याऽ­ङ्गत्वं सिद्धम् । तच्चोपनयनं स्वयं नित्य­भू­त­म­ङ्गि­नोऽ­ध्य­य­नस्य कथं न नित्य­ता­मा­पा­द­येत् । नह्यङ्ग्यभावे कदा­चि­त्कु­त्र­चि­दङ्गं सम्भवति । अस्ति ह्यध्य­य­न­स्याऽ­प्यु­प­न­य­न­व­द­क­रणे प्रत्यवायः ।
“योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥”
अश्रोत्रिया अननुवाक्या अनग्नयः शूद्रसधर्माणो भवन्तीति स्मरणात् । तथा च नित्यमध्ययनं द्रव्य­का­मा­नु­ष्ठे­ये­नाऽ­नि­त्ये­नाऽ­ध्या­प­नेन कथं प्रयुज्येत ? न च वाच्यं काम्य­म­प्य­ध्या­पनं नित्य­स­मी­हि­त­जी­व­न­फ­ल­हे­तु­त्वा­न्नि­त्य­मिति । तावताऽध्यापनस्य नित्य­व­द­नु­ष्ठा­ना­सिद्धेः । शब्दप्रमाणाद्धि नित्य­क­र्त्त­व्य­ता­प्र­मितौ सन्ध्या­व­न्द­ना­दा­वि­वाऽ­क­रणे प्रत्य­वा­य­भ­या­न्नि­य­मेन पुरुषः प्रवर्तते । अध्यापनस्य तु न शब्दा­न्नि­त्य­क­र्त्त­व्यता प्रमीयते, किन्तु नित्यसमीहितस्य जीवनाख्यफलस्य हेतुत्वेन कल्प्यते । न हि तथा कल्पयितुं शक्यम् अध्यापनमन्तरेण याज­न­प्र­ति­ग्र­हा­दि­नाऽपि जीवननिष्पत्तेः ।

अथ मन्यसे उप­न­य­ना­ध्या­प­न­यो­र्नि­त्य­पु­त्रो­त्पा­द­न­वि­धि­शे­ष­तया नित्यत्वं भविष्यति । नित्यश्च पुत्रो­त्पा­द­न­विधिः, नाऽपुत्रस्य लोकोऽ­स्ती­त्य­क­रणे प्रत्य­वा­य­श्र­व­णात् । तथा “त्रिभि­र्ऋ­णैर्वा जायते ब्रह्म­च­र्ये­ण­र्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः” इति ऋणत्रयमुपन्यस्य पश्चात् “एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी चाऽस्ति” इति पुत्रिणः पितॄ­न्प्र­त्या­नृण्यं दर्शयति । तच्चाऽऽनृण्यं पुत्रस्य पिण्ड­पि­तृ­य­ज्ञा­द्य­नु­ष्ठा­न­द्वा­रेण पितृ­तृ­प्ति­हे­तु­त्वा­दु­प­प­द्यते । तदनुष्ठानं चाऽनु­प­नी­त­स्याऽ­न­धी­तस्य वेदार्थमजानतो न सम्भवति । अतो नित्यस्य पुत्रो­त्पा­द­न­विधेः फल­प­र्य­न्त­ता­पे­क्षि­त­म­नु­शा­सनं तच्छेषतया विधीयते । तस्मा­त्पु­त्र­म­नु­शिष्टं लोक्यमाहुः तस्मा­दे­न­म­नु­शा­स­तीति । ततश्च पितुरेव नित्य­पु­त्रो­त्पा­द­न­वि­धि­सा­म­र्थ्या­दु­प­न­य­ना­ध्या­प­न­वि­धीनां नित्यत्वं प्राप्तमिति । नैतत्सारम्, सम्प्र­ति­प­त्ति­क­र्म­वि­धि­शे­षा­र्थ­वा­द­रू­पस्य “तस्मा­त्पु­त्रम्” इति वाक्य­स्याऽ­नु­शा­स­न­वि­धा­य­क­त्वा­यो­गात् । यदा हि पिताऽरिष्टादिना स्वस्य मरणं निश्चिनुते तदा स्वानुष्ठेयानि वेद­त­द­र्थ­त­त्फ­लानि पुत्रे समर्पयेत् स च पुत्र­स्ता­न्य­नु­ष्ठे­य­तया स्वीकुर्यात् तदे­त­त्स­म्प्र­ति­प­त्ति­कर्म । तथा च श्रूयते “अथातः सम्प्र­ति­प­त्ति­र्यदा प्रैष्यन्मन्यते तदा पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति । स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति ।” तत्र च सम्प्र­ति­प­त्ति­क­र्मणि पूर्वा­नु­श­स­न­म­न्त­रे­णाऽ­क­स्मा­देव सक­ल­क­र्त­व्य­स­ङ्ग्र­हा­नु­प­पत्तेः फल­प­र्य­न्त­पु­त्रो­त्पा­द­न­वि­धि­नाऽऽ­क्षि­प्त­म­नु­शा­सनं पूर्व­नि­र्वृ­त्त­मे­वाऽ­र्थ­वा­द­त­याऽ­नेन वाक्ये­नाऽ­नू­द्यते । ननु मा भूदे­त­द्वा­क्येऽ­नु­शा­स­न­वि­धानं तथाऽपि नित्य­पु­त्रो­त्पा­द­न­वि­धि­सा­म­र्थ्या­देव पितु­रु­प­न­य­ना­द्य­नु­शा­स­न­वि­धि­र्नित्य एव प्राप्त इति चेद्, मैवम्; पितुः पुत्रं प्रत्य­न­नु­ष्ठा­प­क­त्वात् । अन्यथा स्तन­न्ध­य­स्ये­त­रस्य वा मृत­पि­तृ­क­स्यो­प­न­य­ना­द्य­भा­व­प्र­स­ङ्गात् । अनुशासनं तु कर्त्त­व्या­र्थो­प­दे­श­न­मा­त्र­मिति श्रौत­लि­ङ्गा­द­व­ग­म्यते । तथा च श्रुतिः “श्वेत­के­तु­र्हा­रु­णेय आस तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्या­स्म­त्कु­ली­नोऽ­न­नूच्य ब्रह्मबन्धुरिव भवतीति” । न च वाच्यं पितरि कथञ्चिन्मृते माणवक एवाऽऽ­चा­र्या­न्त­र­मा­हूय नित्य­मु­प­न­य­ना­दिकं सम्पादयिष्यति ततोऽ­नु­ष्ठा­प­न­मे­वाऽ­नु­शा­स­न­मि­स्त्विति । तत्र किं माणवकः स्वाधि­का­र­सि­द्ध्य­र्थ­मा­चा­र्या­न्तरं करोति किं वाऽऽचा­र्य­नि­यो­ग­सि­द्ध्य­र्थम् ? नाऽऽद्यः, अध्या­प­न­प्र­यु­क्ति­म­ध्य­य­नस्य वदता भवता माणवकस्य पृथ­ग­धि­का­रा­न­ङ्गी­का­रात् । न द्वितीयः, न ह्यन्य­नि­यो­गोऽ­न्यस्य कर्त­व्य­बु­द्धि­मु­त्पा­द­यति । न चाऽक­र्त­व्या­नु­ष्ठा­नाय साधनसम्पादनं युक्तम् । अथ साध­ना­न्त­र­प्र­ति­नि­ध्यु­पा­दा­न­व­द­धि­का­रि­णोऽपि प्रति­नि­ध्यु­पा­दा­नेन कर्तव्यं माणवकः सम्पादयेत्, तन्न वैषम्यात् । सर्वत्र ह्यधिकारिणः कर्त­व्य­म­नु­ष्ठा­तुम् साध­ना­न्त­र­प्र­ति­नि­धि­रा­दी­यते । अधि­का­रि­प्र­ति­नि­धिस्तु कर्त­व्य­म­नु­ष्ठा­तु­मा­दी­येत । न ताव­न्मृ­त­स्याऽऽ­चा­र्यस्य कर्तव्यं सम्भवति, विधि­स­म्ब­न्ध­नि­मि­त्तस्य निवृत्तत्वात् । नाऽपि प्रति­नि­धि­त्वे­नो­पा­दे­य­स्याऽऽ­चा­र्यस्य तत्सम्भवः । तस्याऽऽचार्यस्य कर्त्त­व्य­त्व­सि­द्ध्यु­त्त­र­का­ली­न­त्वात् । अतो न माणवक आचा­र्या­न्त­र­मा­दा­याऽ­ध्ये­तु­म­र्हति । अथ मृता­चा­र्य­शि­क्षितं माणवकमन्य आचार्यः स्वीकृत्य स्वाधिकारं निर्व­र्त­यि­तु­म­ध्या­प­येत्, तदप्ययुक्तम्; पूर्वोपनीतस्य माण­व­क­स्याऽऽ­चा­र्या­न्त­रेण पुन­रु­प­न­य­ना­स­म्भवे सत्यु­प­ने­तृ­त्व­ल­क्ष­ण­स्याऽ­ङ्गस्य वैक­ल्येऽ­ङ्गि­नोऽ­ध्या­प­नस्य निष्प­त्त्य­यो­गात् । न चाऽने­नाऽऽ­चा­र्ये­णाऽ­ङ्ग­भू­त­मु­प­न­यनं माण­व­का­न्त­रेऽ­नु­ष्ठि­त­मिति वाच्यम्, तथा सत्य­ङ्गि­नोऽ­ध्या­प­न­स्याऽपि तत्राऽ­नु­ष्ठि­त­त्वेन पुन­र­नु­ष्ठा­ना­यो­गात् । अन्यथा स्वोप­नी­त­स्याऽ­ध्या­प­नात् प्रागेव मृता­व­ङ्गि­मा­त्रा­नु­ष्ठा­नाय माण­व­का­न्त­र­स्वी­कारः तर्ह्य­नु­प­नी­त­म­प्य­ध्या­प­येत् । यदि स्वोप­नी­ता­न­ध्याप्य द्रव्य­बा­हु­ल्या­याऽ­न्या­न­प्य­ध्या­प­य­ती­त्यु­च्येत, तदा दरिद्रं नाऽध्यापयेत् । शुश्रूषायै दरि­द्र­म­प्य­ध्या­प­यि­ष्य­तीति चेद्, एवमपि त्वन्मते लौकि­क­वै­दि­क­व्य­व­हारो दुर्वारः । लोके हि माण­व­क­क­र्त्त­व्य­नि­ष्प­त्तये एवाऽऽ­चा­र्योऽ­न्वि­ष्यते नाऽऽचा­र्य­क­र्त्त­व्य­नि­ष्प­त्तये माणवकः । वेदेऽपि सत्यकामो ह जाबालो ब्रह्म­च­र्या­या­चार्यं स्वय­मे­वाऽ­न्वि­ष्यो­प­स­न्न­वा­निति गम्यते । तथा च श्रुतिः "स ह हारिद्रुमन्तं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्या­म्यु­पेयां भगवन्तमिति” तदेवमध्यापनस्य नित्यत्वे बहु­दो­ष­स­द्भा­वा­द­नि­त्येन च तेन नित्य­स्याऽ­ध्य­य­नस्य प्रयुक्तौ नित्या­नि­त्य­सं­यो­ग­वि­रो­धात् स्ववि­धि­प्र­यु­क्त­मे­वाऽ­ध्य­य­न­म­ङ्गी­का­र्यम् ।

ननू­प­न­य­ना­ध्य­य­नयोः स्ववि­धि­प्र­यु­क्तत्वे सति तत्प्र­यु­क्त­त­यै­वो­प­न­य­ना­ध्या­प­न­सि­द्धे­रु­प­न­यीत तमध्यापयीतेति तद्वि­धा­न­म­न­र्थ­क­मिति चेद्, मैवम्, नाऽत्राऽऽ­चा­र्य­व्या­पा­र­यो­रु­प­न­य­ना­ध्या­प­न­यो­र्विधिः, किन्तु माण­व­क­व्या­पा­र­यो­रु­प­ग­म­ना­ध्य­य­नयोः । ननु वाक्ये प्रयो­ज­क­क­र्तु­रा­चा­र्यस्य व्यापारौ प्रतीयेते, तत्र साक्षा­त्क­र्तु­र्मा­ण­व­कस्य व्यापारयोः स्वीकारे विरो­धा­ज्जी­व­ना­र्थ­तया प्राप्ता­वा­चा­र्य­व्या­पा­रा­व­नू­द्याऽ­प्रा­प्त­यो­र्मा­ण­व­क­व्या­पा­र­यो­र्वि­धा­नस्य न्याय्यत्वात् । नाऽपि शब्दविरोध, “एतया ग्रामकामं याजयेत्” इत्यत्र प्रयो­ज­क­व्या­पा­र­म­न्त­रेण स्वार्थेऽपि णिच्प्र­त्य­य­प्र­यो­ग­द­र्श­नात् । याजनस्य वृत्त्यर्थतया प्राप्त­स्याऽ­नु­वा­दे­नाऽ­प्राप्तं यजनमेव विधीयते । एवम् “अध्यापयीत” इत्यत्र किं न स्यात् । ननु याज­ये­द­ध्या­प­ये­दि­त्यत्र कर्तृव्यापारस्य णिच्प्र­त्य­या­र्थ­त­याऽ­व­ग­मा­दे­क­त­रस्य प्रसि­द्ध­स्याऽ­नु­वा­दे­ने­त­रस्य विधिरस्तु । “उपनयीत” इत्यत्र तु धात्वर्थस्यैव प्रयो­ज­क­व्या­पा­र­त्वा­द­न­भि­धी­य­मानः कर्तृव्यापारः कथं विधीयते । न च वाच्यमुपनयने मा भून्मा­ण­व­क­व्या­पा­र­विधिः, अध्यापने तु भविष्यतीति, वाक्ययोः सारूप्यात्, उच्यते; प्रयो­ज­क­व्या­पा­रा­भि­धा­यि­नाऽपि नयतिधातुना माण­व­क­व्या­पा­र­स्याऽ­न­भि­धी­य­मा­न­स्याऽपि गम्यमानताया वक्ष्यमाणत्वात् स एव धातुना लक्षणयोपादाय विधीयते, न प्रयोजकव्यापारः । तस्य स्वयमेव प्राप्तत्वात् । ननु तत्प्रा­प्ति­र्दुः­स­म्पादा, इत­रे­त­रा­श्र­य­त्व­प्र­स­ङ्गात् । दक्षि­णा­शु­श्रू­षा­द्य­ङ्ग­स­हिते ह्यध्ययने माणवकस्य विहिते तस्य च स्ववि­धि­प्र­युक्तौ सत्यां वृत्त्य­र्थ­त­याऽऽ­चा­र्य­प्र­वृत्तिः प्राप्नोति । वृत्त्य­र्थ­प्र­वृत्तौ प्राप्तायां तदनुवादेन माण­व­क­व्या­पा­रोऽ­ध्य­य­ना­दि­र्वि­धातुं शक्यत इति, मैवम्; ग्रामकाय याजयेदित्यत्र याजनप्राप्तेरपि दुःस­म्पा­द­त्व­प्र­स­ङ्गात् । दक्षि­णा­द्य­ङ्ग­स­हिते कर्तृव्यापारे विहिते सति वृत्त्यर्थत्वेन प्रयो­ज­क­व्या­पा­र­प्रा­प्ति­स्त­त्प्राप्तौ च तदनुवादेन कर्तृ­व्या­पा­र­वि­धि­रिति पर­स्प­रा­श्र­य­त्वात् । अथ स्ववि­धि­प्र­यु­क्तेषु यागान्तरेषु सामान्येन वृत्त्यर्थतया प्राप्तं प्रयो­ज­क­व्या­पा­र­म­नूद्य ग्रामकामस्य यागविशेषो विधीयेत तर्हीहाऽपि विध्यन्तरेषु सामा­न्य­प्रा­प्त­प्र­यो­ज­क­व्या­पा­रा­नु­वा­दे­नो­प­ग­म­ना­ध्य­य­ना­दि­मा­ण­व­क­व्या­पारो विधीयताम् । ननु याजनात्मक एव प्रयोजकव्यापारो यागान्तरेषु प्राप्तोऽस्ति । उप­न­य­ना­ध्या­प­ना­त्म­कस्तु तथा न विध्यन्तरेषु प्राप्त इति चेत्, तर्हि भाविनी प्राप्तिरस्तु । माण­व­क­व्या­पा­र­वि­धि­सा­म­र्थ्या­देव प्रयोजकव्यापारः प्राप्स्यते, तत्पूर्वकत्वात् माणवकव्यापारस्य । न च वैपरीत्येन प्राप्तिः शङ्क्या; नह्यनित्येन नित्यप्राप्तिः सम्भ­व­ती­त्यु­क्त­त्वात् । ननु प्राप्त­स्यो­त्प­त्ति­वि­ध्य­स­म्भ­वेऽपि तद­नु­वा­दे­नाऽ­धि­का­र­विधिः स्यादिति चेद्, न; वाक्ये जीव­ना­दि­नि­त्य­का­म्या­धि­का­र­यो­र­श्र­व­णात् । तर्ह्यरुणया पिङ्गाक्ष्या क्रीणातीतिवद् गुण­वि­शे­ष­वि­धि­रस्तु, स च गुणोऽ­ष्ट­व­र्ष­ब्र­ह्म­णाख्य इति चेद्, न; ब्राह्म­ण­त्वा­ष्ट­व­र्ष­त्वा­ख्य­यो­र्गु­ण­यो­रु­भ­यो­रपि विशेषतया पर­स्प­र­स­म्ब­न्ध­र­हि­त­यो­र्वि­शि­ष्ट­वि­ध्य­यो­गात्, पृथग् विधाने वाक्य­भे­द­प्र­स­ङ्गात् । अरुणवाक्ये तु विशेष्यस्य याग­सा­ध­न­क्र­य­ण­स्याऽ­प्य­न्य­तोऽ­प्रा­प्तस्य विधे­य­त­याऽ­रु­णा­दी­ना­म­ने­के­षा­मपि विशेषणानां तदन्वये सति विशिष्टविधानं युक्तम्, न तथेह प्रयोजकव्यापारो विधेयः, प्राप्तत्वात् । अतो नाऽनेकेषु गुणविधिः, तदुक्तम् –
“प्राप्ते कर्मणि नाऽनेको विधातुं शक्यते गुणः ।
अप्राप्ते तु विधीयन्ते बह­वोऽ­प्ये­क­य­त्नतः ॥” इति ।
ननु प्रयो­ज­क­व्या­पा­रस्य प्राप्त­त्वा­द्यथा विधि­र्नि­रा­क्रि­यते तथा माण­व­क­व्या­पा­र­स्याऽपि स निराकर्तुं शक्यः, “माण­व­क­मु­प­न­यीत" इत्यत्र कर्मभूतस्य माणवकस्य व्यापा­रा­प्र­तीतेः । न हि “ग्रामं गच्छेत्” इत्यत्र ग्रामस्य व्यापारः प्रतीयते, मैवम्; शब्दतो न्यायतश्चाऽत्र माणवकस्य गम­न­व्या­पा­र­प्र­तीतेः । लोके हि नय­त्य­र्थ­वा­चि­श­ब्द­प्र­यो­गेषु नीयमानस्य गमनं दृष्टमिति शब्द­त­स्त­त्प्र­तीतिः तथा बाला­ना­म­क्ष­र­शि­क्षायै शिक्षकगृहं प्रति गमनं दृष्टं ततो न्यायोऽपि माणवकव्यापारं प्रत्याययति । न हि प्रेक्षावान् माणवको विधि­म­न्त­रे­णाऽ­ध्य­य­नादौ प्रवर्तते । अर्था­व­बो­धा­दि­दृ­ष्ट­फ­ला­र्थ­त्व­नि­रा­क­रणे रागतः प्रवृ­त्त्य­यो­गात् । ततो वाक्यविपरिणामेन माण­व­क­व्या­पा­रोऽत्र विधातव्यः । यथा “ग्रामकामं याजयेत्” इत्यत्र “ग्रामकामो यजेत्” इति विपरिणामस्तथा “अष्टवर्षं ब्राह्म­ण­मु­प­न­यीत” इत्यत्रापि “अष्टवर्षो ब्राह्मण उपगच्छेत्, सोऽधीयीत” इति विपरिणामः स्यात् । नन्वेवमपि नाऽत्र विधिः सङ्गच्छते, निरधिकारत्वात् । न ताव­द­त्राऽ­ष्ट­व­र्ष­त्व­मा­त्र­म­धि­का­र­नि­मि­त्तम्, शूद्र­स्याऽ­प्यु­प­न­य­ना­दि­प्र­स­ङ्गात् । नाऽपि ब्राह्म­ण्य­मा­त्रम्, जातमात्रस्य तत्प्रसङ्गात् । नाऽप्युभयम्, तयोः पर­स्प­रा­न्व­या­भा­वात्, गुणानां च परार्थत्वादिति न्यायात् । अथ मन्यसे तयोरपि पार्ष्णिकः परस्परान्वयो भविष्यति । यथाऽरुणावाक्ये “अरुणया क्रीणाति” इति प्रत्येकं शाब्दे क्रियान्वये पश्चा­दे­क­प्र­यो­ज­न­त्व­सा­म­र्थ्यात् पर­स्प­रा­न्व­य­स्त­द्व­दिति, तन्न; तथा सत्य­धि­का­र­हे­तो­र­शा­ब्द­त्व­प्र­स­ङ्गात् । अतो निरधिकारो विधिरयुक्तः; नैष दोषः; शाब्दमेव सर्व­त्राऽ­धि­का­र­नि­मि­त्त­मिति नियमाभावात् । साङ्ग­क­र्मा­नु­ष्ठा­न­सा­म­र्थ्य­स्याऽ­शा­ब्द­स्याऽ­प्य­धि­का­र­हे­तु­त्वात् कथ­ञ्चि­च्छा­ब्द­त्व­नि­य­मेऽपि क्रिया­स­म्ब­न्धा­भि­धा­न­मु­खेन विशिष्टसमर्पणे शब्दद्वयस्य तात्प­र्य­क­ल्प­नात् तत्सिद्धिः । नन्वेवमपि विशिष्टस्य नाऽधि­का­र­नि­मि­त्त­त्व­मु­पा­दे­य­वि­शे­ष­ण­त्वात् । तथा हि – “तमध्यापयीत” इत्यत्र प्रयोजकव्यापारं प्रति माणवकस्य कर्मताभिधायिनी द्विती­या­वि­भक्तिः स्वव्यापारं प्रति माणवकस्य कर्तृत्वं गमयति, “कुर्वन्तं प्रयुङ्क्ते” इति न्यायेन प्रयो­ज­क­व्या­पा­रस्य कर्तृविषयत्वात् । न च वाच्यम् “अध्यापयीत” इति वाक्ये विप­रि­णा­म­स्यो­क्त­त्वा­न्मा­ण­व­क­स्याऽ­धि­का­रि­त्वम्, न तु कर्तृत्वमिति । तत्र हि प्राप्त­प्र­यो­ज­क­व्या­पा­रा­नु­वा­देन कर्तृव्यापारे विधि­स­म्ब­न्ध­मात्रं परिणम्यते, न तु शब्दप्राप्तं माणवकस्य कर्तृत्वं पराक्रियते अत उपादेयो माणवकः, तल्ल­क्ष­ण­व­त्त्वात् । साक्षाद्वा परम्परया वा विधि­वि­ष­य­त­याऽ­नु­ष्ठे­य­मिति तल्लक्षणम्, कर्त्रा­द­य­श्चाऽ­नु­ष्ठेयं प्रति कारकत्वात् पर­म्प­र­याऽ­नु­ष्ठेयाः । अतः कर्त्तु­रु­पा­दे­यस्य माणवकस्य यद्विशेषणं जातिविशिष्टं वयः न तद­धि­का­र­नि­मि­त्तम् । “लोहितोष्णीषा ऋत्विजः प्रचरन्ति” इत्यादौ कर्तृविशेषणस्य लोहि­तो­ष्णी­ष­त्वा­दे­र­धि­का­र­नि­मि­त्त­त्वा­द­र्श­नात् । न च कर्त्तै­वाऽ­धि­कारी, कर्तु­र­नु­ष्ठे­य­का­र­क­तया विधिं प्रति गुणभूतत्वाद् अधिकारिणश्च विधिं प्रति स्वामितया प्राधा­न्ये­नाऽ­न्व­यात् । न चैव­म­धि­का­र­हे­तो­रे­वाऽ­स­म्भवः, अनु­पा­दे­य­वि­शे­ष­णस्य तद्धेतुत्वात् । विधि­प्र­यु­क्ता­नु­ष्ठे­य­त­द्वि­शे­ष­ण­व्य­ति­रे­केण विधि­स­म्ब­न्ध्य­नु­पा­देयं तादृशविशेषणं च जीव­न­गृ­ह­दा­ह­स्व­र्ग­का­म­नादि । अत्र त्वष्ट­व­र्ष­त्वा­द्यु­पा­दे­य­वि­शे­षणं तत्क­थ­म­धि­का­र­हेतुः स्यात् । अत्रोच्यते; किं भावनाया वाक्या­र्थ­त्व­मा­श्रि­त्येदं ब्रवीषि उत नियोगस्य अथवा इष्टसाधनस्य ? नाऽऽद्यः, तत्राऽ­धि­का­रा­न्व­यस्य कर्त्र­न्व­य­पू­र्व­क­तया कर्तृ­वि­शे­ष­ण­स्यै­वाऽ­धि­का­र­हे­तु­त्वात् । पुरु­ष­प्र­वृ­त्तिर्हि भावना, सा च क्रियात्मिका सती स्वरू­प­नि­ष्पा­द­कानि कारकाणि प्रथममपेक्षते । तत्र पुरु­षा­र्थ­धा­त्व­र्थ­यो­र्भा­व्य­त्वेन तत्करणत्वेन चाऽन्वये सति परिशेषात् स्वर्गकामादयः कर्तृ­त्वे­नाऽ­न्वी­यन्ते । तस्य च कर्तु­र्व्या­व­र्त­कानि जीव­न­गृ­ह­दा­ह­का­म­ना­दीनि । ततः कर्तुरेव फलनियमात् स एव कर्ता फल­भो­क्तृ­त्वो­पा­धिना स्वामि­त्वा­द­धि­कारं प्रतिपद्यते । अत­श्चो­पा­दे­य­क­र्तृ­वि­शे­ष­णा­न्ये­वाऽ­धि­का­रि­णोऽपि व्यावर्त्तकानि सम्पद्यन्ते । नन्वस्तु तर्हि द्वितीयः, नियोगो हि स्वरू­पो­पा­धि­त्वे­नैव नियो­ज्य­वि­ष­या­व­पे­क्षते, विना ताभ्यां कस्य कस्मिन्नियोग इत्याकाङ्क्षाया अनिवृत्तेः । ततो वाक्य­ग­त­स्व­र्ग­का­मा­दि­र्नि­यो­ज्य­त्वेन धात्वर्थश्च विष­य­त्वे­नाऽ­न्वेति । न चाऽत्राऽ­धि­का­रा­न्वयः पृथगपेक्ष्यते । “ममाऽयं नियोगः” इति प्रति­प­त्तु­र्नि­यो­ज्य­स्यैव तत्स्वा­मि­त­याऽ­धि­का­रि­त्वात् । स चाऽधिकारी विष­या­नु­ष्ठा­न­म­न्त­रेण नियो­ग­नि­ष्प­त्ति­म­प­श्यं­स्त­द­नु­ष्ठाने कर्तृतयाऽन्वयं गच्छति । तथा चाऽस्मि­न्प­क्षेऽ­धि­का­रा­न्व­य­द­शायां स्वर्गा­दी­ना­म­नु­पा­दे­य­वि­शे­ष­णत्वं व्यवस्थितमिति, तदेतदसारम्; प्रकृ­ता­प्र­ति­प­क्ष­त्वात् । नियोगवादिनो ह्यनु­पा­दे­य­वि­शे­ष­ण­मे­वाऽ­धि­का­र­हे­तु­रिति वदन्तोऽपि क्वचि­त्क­र्तृ­वि­शे­ष­णे­नाऽ­धि­का­रिणं व्यावर्तयन्ति । “राजा स्वाराज्यकामो राजसूयेन यजेत” इत्यत्र कर्तृविशेषणेन राजत्वेन स्वारा­ज्य­का­म­स्याऽ­धि­का­रिणो विशेषणीयत्वात् । अन्यथा स्वाराज्यकामस्य वैश्यादेरपि तद­धि­का­र­प्र­स­ङ्गात् । न चैव­म­नु­पा­दे­य­मे­वाऽ­धि­का­र­हे­तु­रिति नियमस्य भङ्गः, राजत्वस्य वैश्या­दि­भि­र­नु­ष्ठा­ने­नाऽ­नि­ष्पा­द्य­स्याऽ­नु­पा­दे­य­त्वात् । एवं च प्रकृ­तेऽ­प्य­न्ये­नाऽ­नु­ष्ठा­ना­द­स­म्पा­द्य­स्याऽ­ष्ट­व­र्षो­पे­त­ब्र­ह्म­णस्य कर्तृ­वि­शे­ष­ण­त्वेऽ­प्य­धि­का­र­हे­तुता किं न स्यात् ? नन्वेवं तर्हि तृतीयः पक्षोऽस्तु । तत्र श्रेयःसाधनरूपे वाक्यार्थे श्रेयसो भोक्तव्यरूपस्य भोक्त्रा­का­ङ्क्षायाः प्रार्थ­म्या­त्त­त्सा­ध­न­स्याऽपि भोक्त्रन्वयः प्रथमभावी । न च साधनस्य कृतियोग्यतया कर्त्रा­का­ङ्क्षस्य कर्त्रन्वय एव प्राथमिक इति शङ्कनीयम्; कृतियोग्यताया अनियमात् । श्रेयःसाधनेऽपि चन्द्रोदयादौ तददर्शनात् । यत्राऽपि तद्योग्यताऽस्ति तत्राऽपि श्रेयसः प्रधा­न­त्वा­त्त­द­नु­सा­रे­णाऽ­न्वयो वाच्यः । अथ साधनस्य वाक्यार्थत्वात् तत्प्राधान्यम्, तथापि तत्स्व­रू­पो­पा­धि­भूतं हि श्रेयः कस्य साधनमित्येवं तन्निरूपकत्वात् । साधकापेक्षा तु विशि­ष्ट­सा­ध­न­प्र­ती­त्यु­त्त­र­का­लीना । ततः प्रथ­म­प्र­ती­त­श्रे­योऽ­नु­सा­रेण भोक्त्रन्वये सति पश्चा­द­भि­ल­षि­त­सा­ध­न­त्व­स्याऽत्र कृति­यो­ग्ये­ष्ट­सा­ध­न­त्वा­र्थ­नि­ष्ठ­तया विधिना चोदितत्वात् कृतेश्च कर्त्र­पे­क्ष­त्वात् स एव भोक्ताऽधिकारी कर्तृतां प्रतिपद्यते । ततोऽस्मिन् पक्षेऽ­नु­पा­दे­य­स्यै­वाऽ­धि­का­रि­वि­शे­ष­ण­तेति । एवमपि प्रकृते नाऽस्ति विरोधः; उप­ग­म­न­रू­पेऽ­भि­ल­षि­त­सा­धने प्रथमं भोक्तृ­त­याऽ­धि­का­रा­न्वयं प्राप्तस्य माणवकस्य पश्चात् कर्त्रन्वयं प्राप्स्यतोऽपि यद्विशेषणं ब्राह्मण्यादि तस्याऽ­नु­पा­दे­य­वि­शे­ष­ण­त्वात् । अतोऽ­ङ्ग­भू­त­स्यो­प­ग­म­नस्य साधिकारित्वे सति अङ्गि­नोऽ­ध्य­य­न­स्याऽपि तत्सिध्यति । अङ्गाङ्गिनोः सर्व­त्रै­का­धि­का­रि­त्वात् । नन्वेवं तर्हि ब्राह्म­ण्य­व­द­ष्ट­व­र्ष­त्व­स्याऽ­प्यु­ग­म­न­धि­का­र­हे­तो­र­ध्य­य­नेऽ­प्य­न्व­या­न्न­व­म­व­र्षा­द­र्वा­गे­वाऽ­ध्य­य­न­स­माप्तिः प्राप्ता सा च दुःशकेति चेद्, न; अङ्गाङ्गिनोः कालैक्यानियमात् । अन्य­थाऽ­ङ्ग­म­न्वा­धानं पर्व­ण्य­नु­ष्ठा­याऽ­ङ्गि­भू­ताया इष्टेः प्रति­प­द्य­नु­ष्ठानं न सम्भवेत् । अतो नाऽङ्गा­धि­का­र­हेतुः कालोऽ­ङ्ग्य­धि­का­र­हेतुः । तदेवं नित्या­धि­का­र­स­म्भ­वा­द­ध्य­य­न­विधौ न काऽप्यनुपपत्तिः । ननु “सकृत्कृते कृतः शास्त्रार्थः” इति न्यायेन सकृदध्ययनादेव नित्या­ध्य­य­न­वि­धि­सि­द्धे­रा­वृ­त्तिर्न लभ्येतेति चेद्, न; अक्ष­रा­वा­प्ति­ल­क्ष­ण­दृ­ष्ट­फ­ला­नु­प­पत्त्या तल्लाभात्, त्वयाऽ­प्य­र्था­व­बो­ध­फ­ला­नु­प­प­त्त्यैव तत्कल्पनात् । तर्ह्य­क्ष­रा­वा­प्ति­पू­र्व­का­र्था­व­बोध एवाऽऽ­वृ­त्ति­हे­तु­रिति चेद्, न; शाखान्तरीयेभ्यः पौरुषेयेभ्यो वा वाक्ये­भ्योऽ­स्वी­कृ­ते­भ्योऽ­ना­वृ­त्ते­भ्योऽ­प्य­र्था­व­बो­ध­द­र्श­नात् । न च तर्हि मा भूता­म­क्ष­रा­वा­प्त्या­वृत्ती इति वाच्यम्; जप­स्वा­ध्या­य­वि­ध्य­ध्य­य­न­वि­ध्यो­र­स­म्भ­व­प्र­स­ङ्गात् । न ह्यन­वा­प्ते­ष्व­क्ष­रेषु ब्रह्म­य­ज्ञ­स्वा­ध्यायो जपितुं शक्यः । नाऽप्या­वृ­त्ति­म­न्त­रे­णाऽ­ध्य­यनं घटते । अक्ष­रा­वा­प्ति­प­र्य­न्त­व्या­पा­र­स्याऽ­ध्य­य­न­श­ब्द­वा­च्य­त्वात् । तस्मा­द­क्ष­र­ग्र­ह­णान्तो अध्ययनविधिः । यदि विधेरदृष्टं फलमपेक्षितम्, तर्ह्य­क्ष­र­प्रा­प्ति­स­म­वे­त­मेव तत्कल्पनीयं दृष्ट­स­म­वे­ता­दृष्टे सति स्वत­न्त्रा­दृ­ष्टा­यो­गात् । एवं चाऽध्य­य­न­वि­धे­र­क्ष­र­ग्र­ह­ण­मा­त्र­प­र्य­व­सा­ना­द्वि­चारः क्रतु­वि­धि­प्र­युक्तो भविष्यति ।

यत्तु शाबरभाष्ये वेद­स्याऽ­न्य­नि­र­पे­क्ष­तया विचारहेतुत्वं वदन् भाष्य­का­रोऽ­ध्य­य­न­वि­धे­र्वि­चा­र­हे­तु­ता­म­ङ्गी­च­कार, तत्र परम्परया हेतु­त्व­म­व­ग­न्त­व्यम् । विधी­य­मा­ना­ध्य­य­न­प्राप्तो हि स्वाध्यायः क्रतु­वि­धी­नु­प­स्था­प­यति । ते च विधयः स्वाध्या­या­दा­पा­त­प्र­ति­पन्ना अनु­ष्ठे­य­नि­र्ण­य­ज्ञा­न­म­न्त­रे­णाऽ­नु­ष्ठा­प­यि­तु­म­श­क्नु­व­न्त­स्त­न्नि­र्ण­याय विचारं प्रयोजयन्ति । न चाऽनुष्ठानमेव मा भूदिति वाच्यम्, नित्य­वि­धि­ष्व­क­रणे प्रत्य­वा­य­स्याऽ­प्या­पा­ततः प्रतिपन्नत्वात् । काम्यविधिषु तु फल­का­म­नै­वाऽऽ­धा­न­मिव विचारं प्रयुङ्क्ते । नन्व­ने­क­वि­धि­प्र­यु­क्ति­क­ल्प­ना­द्व­र­म­ध्य­य­न­वि­धि­प्र­यु­क्ति­क­ल्पनं विचारस्येति चेद्, न; विधिर्हि सर्वत्र स्वविधेयस्य वा तदुपकारिणो वा प्रयोजको नाऽन्यस्य । विचारस्तु नाऽध्ययनविधेयो नाऽपि तदुपकारी । न चैव­मु­त्त­र­क्र­तु­वि­धि­प्र­यु­क्ति­र्वि­चा­रस्य निराकर्तुं शक्या, तद्विधिविधेयं प्रत्यु­प­का­रि­त्वात् । न चैकस्य विचा­र­स्याऽ­ने­क­वि­धि­प्र­यो­ज्य­त्वा­नु­प­पत्तिः, प्रतिवाक्यं विचा­र­सा­ध्य­नि­र्ण­य­ज्ञा­न­भे­देन तदुपपत्तेः । आधानस्य चैक­स्याऽ­प्य­ने­क­वि­धि­प्र­यो­ज्य­त्व­द­र्श­नात् । यद्य­ने­क­वि­धि­प्र­यो­ज्यत्वे गौर­वा­द्भी­तोऽ­ध्य­य­न­वि­धि­प्र­यो­ज्य­त्व­मेव विचारस्य ब्रूषे, तदा यागा­द्य­नु­ष्ठा­न­स्याऽपि तत्प्रयोज्यत्वं वक्तव्यं स्याद, लाघवात् । त्वत्पक्षे चाऽध्य­य­न­वि­धि­फ­लस्य स्वर्गा­दि­सि­द्धि­प­र्य­न्त­तया यागानुष्ठानस्य विधे­यो­प­का­रि­त्वात् । ततः क्रतु­वि­धि­वै­य­र्थ्य­मा­प­द्येत । ननु सिद्धा­न्तेऽ­प्य­ति­प्र­सङ्गः समानः, विमतमध्ययनं क्रतु­वि­धि­प्र­यु­क्तम्, क्रत्व­नु­ष्ठा­प­क­त्वात्, अर्थ­वि­चा­र­नि­र्ण­य­वत्, अध्ययनात् प्राग­प्र­ति­प­न्नानां क्रतु­वि­धी­ना­म­ध्य­य­न­प्र­यो­ज­क­त्वा­यो­गात् । अध्य­य­न­वि­धि­र­प्य­ध्य­य­नात् प्रागप्रतिपन्न इति चेत्, सत्यम्, तथापि सन्ध्यो­पा­स­ना­दि­वि­धि­वत् पित्रादिभ्यः श्रूय­मा­णोऽ­ध्य­य­न­वि­धि­र­ध्य­यनं प्रयोजयति । न च क्रतु­वि­ध­योऽ­ध्य­य­ना­त्प्रा­क्पि­त्रा­दिभ्यः श्रोतुं शक्याः, येन तत्प्र­यो­ज्य­त्व­म­ध्य­य­न­स्याऽऽ­पा­द्येत । अतोऽ­ध्य­य­न­वि­धि­प्र­यु­क्त­म­ध्य­यनं क्रतु­वि­धि­प्र­यु­क्तश्च धर्मविचार इत्य­ङ्गी­क­र्त­व्यम् । अस्तु तर्हि ब्रह्म­वि­चा­र­स्याऽपि धर्मविचारवत् सक­ल­त्रै­व­र्णि­का­धि­कृ­तो­त्त­र­नि­त्य­वि­धि­प्र­यु­क्ति­रिति चेत्, तत्र किं श्रव­ण­वि­धि­प्र­यु­क्ति­र्ब्र­ह्म­वि­चा­रस्य किं वा क्रतु­वि­धि­प्र­युक्तिः ? नाऽऽद्यः; सर्व­त्रै­व­र्णि­कानां श्रव­णा­द्य­न­नु­ष्ठाने प्रत्य­वा­या­भा­वात् तान् प्रति नित्य­वि­धि­त्वा­नु­प­पत्तेः । परमहंसस्यैव श्रवणाद्यकरणे प्रत्यवायात् । नाऽपि द्वितीयः, ब्रह्मविचारस्य क्रत्व­नु­प­का­रि­त्वात् । नन्व­ग्नि­हो­त्रा­दि­क­म­नु­ति­ष्ठ­द्भि­र­नु­ष्ठे­य­म­ङ्ग­जा­ता­दिकं वेदान्तेषु नाऽस्तीत्येवं निश्चेतुं वेदान्ता विचारयितव्या इति चेद्, न; अध्य­य­न­ज­न्या­पा­त­द­र्श­ने­नैव ताव­न्मा­त्र­नि­श्च­यात् । तदेवं ब्रह्मविचारे धर्म­वि­चा­र­व­द­धी­त­स्वा­ध्या­यस्य त्रैव­र्णि­क­मा­त्र­स्याऽ­न­धि­का­रा­च्छ्र­व­णा­दि­वि­धि­प्र­क­र­ण­प­ठि­त­सा­ध­न­च­तु­ष्ट­य­स­म्प­न्न­त्व­ल­क्ष­ण­म­धि­का­रि­वि­शे­षणं न्यायतः प्राप­यि­तु­मा­न­न्त­र्य­वा­च­कोऽ­थ­शब्दः सूत्रकारेण प्रयुक्तो नाऽऽर­म्भा­र्थ­वि­व­क्ष­येति स्थितम् । ननु शास्त्रारम्भे शिष्टा­चा­र­प­रि­पा­ल­नाय विघ्नोपशान्तये च मङ्गलाचरणं कर्तव्यम्, ततोऽथशब्दो मङ्ग­ला­र्थोऽस्तु, सम्भवति हि तस्य मङ्गलार्थत्वम् ।
“ओङ्का­र­श्चाऽ­थ­श­ब्दश्च द्वावेतौ ब्रह्मणो मुखात् ।
कण्ठं भित्त्वा विनिर्यातौ तस्मा­न्मा­ङ्ग­लि­का­वुभौ ॥”
इति स्मृतेरिति चेत् ? तत्र किं माङ्गल्यं वैयधिकरण्येन ब्रह्मजिज्ञासां प्रति कार­क­त्व­मा­प­द्याऽ­न्वेति किं वा सामानाधिकरण्येन विशेषणत्वमापद्य ? नाऽद्यः, माङ्गल्यस्य कर्त्रा­द्य­न्य­त­म­का­र­क­तायां प्रमाणाभावात् । न च जिज्ञा­सा­नु­प­प­त्ति­र्मा­नम्, कारकान्तरैरेव तदुपपत्तेः । जीवः कर्ता, चित्तै­का­ग्र्य­स­ह­कृतं वेदान्तवाक्यं करणम् इत्यादीनि कारकान्तराणि । नाऽपि द्वितीयः, “जिज्ञासा मङ्गलम्” इत्युक्ते प्रशं­सा­प­र­त­याऽ­र्थ­वा­द­त्व­प्र­स­ङ्गात् । शिष्टा­चा­रा­द्यर्थं तु मङ्ग­ला­च­र­ण­मा­न­न्त­र्य­वा­चि­नाऽ­प्य­थ­श­ब्देन सम्पादयितुं शक्यम्, अथ­का­र­प­रो­ङ्का­रा­दि­ध्व­ने­र्मृ­द­ङ्गा­दि­ध्व­नि­वत् मङ्ग­ला­त्म­क­त्वात् । एवमपि “अथैवं मन्यसे” इत्या­दा­वि­वाऽ­थ­शब्दः प्रकृ­ता­द­र्था­द­र्था­न्त­र­म­भि­द­धा­त्विति चेद्, न; हेतु­फ­ल­भा­वे­नाऽ­न­न्त­र्या­भि­धाने प्रकृ­ता­द­र्था­द­र्था­न्त­र­त्व­स्याऽ­न्त­र्णी­त­तया सिद्धेः । न च वैप­री­त्ये­नाऽऽ­न­न्त­र्य­मे­वाऽ­न्त­र्णी­त­तया सिध्यत्विति वाच्यम्, तत्र किं नियमेन पूर्ववृत्ततया हेतुभूतो वस्तुविशेषो द्योत्यते किं वा यत्कि­ञ्चि­द्वस्तु पूर्व­वृ­त्त­म­पे­क्ष्यते ? नाऽऽद्यः; आन­न्त­र्या­भि­धा­न­म­न्त­रेण हेतुतया पूर्व­वृ­त्त­व­स्तु­वि­शे­ष­नि­य­मा­सिद्धेः । न द्वितीयः, लोके सर्व­व्या­पा­रे­ष्वपि यत्कि­ञ्चि­त्पू­र्व­वृ­त्ता­द­र्था­न्त­रस्य सिद्ध­त्वा­द­थ­श­ब्द­प्र­यो­ग­स्याऽ­नु­वा­दा­दृ­ष्टा­र्थ­त्व­यो­र­न्य­त­र­त्व­प्र­स­ङ्गात् । अतो निय­त­पू­र्व­वृ­त्त­पु­ष्क­ल­का­र­ण­द्यो­त­ना­याऽऽ­न­न्त­र्य­मे­वाऽ­थ­श­ब्दे­नाऽ­भि­धा­त­व्यम् । यद्य­प्या­न­न्त­र्य­मा­त्रा­भि­धाने तन्न सिध्यति, तथापि मुख्या­न­न्त­र्य­स्वी­कारे सिद्ध्येदेव पुष्कलकारणात् फलस्य यदानन्तर्यं तदेव मुख्यम्, अव्य­व­धा­ना­द­व्य­भि­चा­राच्च । यत्तु हेतु­फ­ल­यो­रा­न­न्तर्यं तत्क­दा­चि­द्व्य­भि­च­रति कदा­चि­द्व्य­व­धी­यते चेति गौणमेव स्यात् । न च वाच्यं कार्यं चेद्, दृश्यते किं पुष्क­ल­का­र­णा­व­ग­मे­नेति ? पुष्क­ल­का­र­ण­स्याऽ­धि­का­रि­वि­शे­ष­ण­त्वेन फल­प­र्य­न्ते­च्छा­वि­चा­रा­दि­प्र­वृत्तौ प्रति­प­त्त्य­पे­क्ष­त्वात् ।

ननू­क्त­मे­वाऽ­धि­का­रि­वि­शे­ष­णम् “अथाऽतो धर्मजिज्ञासा” इत्य­त्र­त्ये­नाऽ­थ­श­ब्दे­नेति चेद्, न; तत्र ह्यध्य­य­ना­न­न्त­र्य­म­थ­श­ब्दे­नोक्तं न च तस्याऽ­त्राऽ­धि­का­रि­वि­शे­ष­णत्वं सम्भवति, केव­ल­व्य­ति­रे­का­भा­वे­नाऽ­हे­तु­त्वात् । न हि शम­द­मा­दि­का­र­ण­पौ­ष्कल्ये अध्य­य­ना­भा­वा­प­राधे ब्रह्म­जि­ज्ञा­साया अप्र­वृ­त्ति­र्दृष्टा । यद्यपि वेदा­न्ता­ना­म­न­ध्य­यने तद्वि­चा­रा­भा­वा­द­ध्य­य­न­मपि पुष्क­ल­का­र­णेऽ­न्त­र्भ­वेत्, एवमपि धर्म­ब्र­ह्म­वि­चा­रयोः साधा­र­ण­हे­तो­र­ध्य­य­नस्य ब्रह्मविचारं प्रत्य­पु­ष्क­ल­का­र­ण­तया तद्वि­चा­रा­वि­चा­रयोः साधा­र­ण­त्वा­द्य­द­न­न्तरं नियमेन ब्रह्म­वि­चा­र­प्र­वृ­त्ति­स्ता­दृशं पुष्क­ल­का­र­ण­म­न्वे­ष्ट­व्यम् । धर्म­ब्र­ह्म­वि­चा­र­यो­र­न्यो­न्यो­प­का­र्यो­प­का­र­क­भा­वे­नै­क­फ­ल­शे­ष­त्वा­दु­प­का­र­क­ध­र्म­वि­चा­रा­न­न्त­र्य­मु­प­का­र्य­ब्र­ह्म­वि­चा­रस्य पुष्क­ल­का­र­णेऽ­न्त­र्भ­व­ती­त्य­थ­श­ब्दार्थः स्यादिति चेद्, न; तयो­रु­प­का­र्यो­प­का­र­क­भा­वा­सिद्धेः । उपकारकत्वे हि वेदा­न्ता­ध्य­य­न­व­द्ध­र्म­वि­चा­र­स्याऽपि व्यतिरेको वक्तव्यः, न च वक्तुं शक्यः, धर्मजिज्ञासाया अभा­वेऽ­प्य­धी­त­वे­दा­न्तस्य ब्रह्म­जि­ज्ञा­सो­प­ल­म्भात् । अथ व्युत्प­त्त्या­दि­सि­द्धये पूर्व­त­न्त्रा­पेक्षा, तदाऽपि वक्तव्यम् – किं तत्रत्यो न्यायोऽ­पे­क्ष्यते किं वाक्यार्थनिर्णय उताऽ­ग्नि­हो­त्रा­दि­कर्म ? आद्ये किं प्रथ­म­पा­दो­क्त­वे­द­प्रा­मा­ण्या­पे­क्षि­त­सा­ध­क­न्या­य­स्याऽ­पे­क्षया उत न्यायान्तरस्य ? नाऽऽद्यः; उत्तरतन्त्रेऽपि “शास्त्र­यो­नि­त्वात्”, “अत एव च नित्यत्वम्” इत्यादिसूत्रेषु वेदा­न्ता­पे­क्षि­त­न्या­य­स्यो­क्त­त्वात्, अस्तु वा दार्ढ्याय प्रथ­म­पा­दा­पेक्षा, नैतावता धर्म­जि­ज्ञा­सा­न­न्त­र्य­प्र­सङ्गः । प्रथमपादस्य धर्म­ब्र­ह्म­जि­ज्ञा­सयोः साधारणत्वात् । प्रथ­म­पा­द­ग­त­वे­दा­न्त­प्रा­मा­ण्य­वि­चा­रा­न­न्त­र्य­म­थ­श­ब्दा­र्थोऽ­स्त्विति चेद्, न; तस्याऽ­प्य­ध्य­य­न­व­द­पु­ष्क­ल­का­र­ण­त्वात् । द्वितीयेऽपि तन्न्यायान्तरं ब्रह्म­प्र­ति­पा­द­नेऽ­पे­क्ष्यते उत गुणोपसंहारे ? नाऽऽद्यः, उत्प­त्त्या­दि­वि­धि­च­तु­ष्ट­य­नि­र्णा­य­कस्य न्याया­न्त­र­स्याऽ­न­नु­ष्ठे­य­भू­त­व­स्तु­प्र­ति­पा­द­नेऽ­नु­प­यो­गात् । “आका­श­स्त­ल्लि­ङ्गात्” इत्यादिसूत्रैः श्रुतिलिङ्गादय उपजीव्यन्त इति चेद्; न; तत्र लोक­सि­द्ध­श्रु­त्या­दी­ना­मे­वो­प­जी­व­नात् । न द्वितीयः; सगुणविद्यानां मान­स­क्रि­या­रू­पाणां धर्मा­न्तः­पा­ति­तया गुणोपसंहारे तद­पे­क्षा­या­म­प्य­वि­रो­धात् । ब्रह्म­जि­ज्ञा­सायां तूपासनानां प्रासङ्गिकी सङ्गतिः । द्वितीयेऽपि न तावत् पूर्व­त­न्त्र­वा­क्या­र्थ­नि­र्णयो ब्रह्म­वि­चा­र­प्र­वृ­त्ता­वु­प­यु­ज्यते, क्वाऽप्य­न्य­वि­ष­य­ज्ञा­न­स्याऽ­न्यत्र प्रवृ­त्ति­हे­तु­त्वा­द­र्श­नात् । नापि ब्रह्मप्रमितौ तदुपयोगः, धर्मज्ञानस्य ब्रह्म­प्र­मा­प­क­त्वा­यो­गात् । यदि धर्मज्ञानस्य ब्रह्म­का­र्य­त्वात् कार्येण कार­णा­नु­मा­न­मि­त्यु­च्यते, तदा प्रपञ्चेनाऽपि कार्येण ब्रह्म­णोऽ­नु­मातुं शक्यत्वात् किं धर्मज्ञानेन । तृतीयपक्षेऽपि ब्रह्मविचारे कथ­म­ग्नि­हो­त्रा­दि­क­र्म­णा­मु­प­योगः । किं यथा सोपानपरम्परया प्रासादमारोहति तथा सन्ध्यो­पा­स­न­मा­रभ्य पूर्व­पू­र्वा­ल्प­त­र­क­र्म­प्र­हा­णे­नो­त्त­रो­त्त­र­म­ह­त्त­र­क­र्मो­पा­दा­नात् सहस्रसंवत्सरे निरतिशये कर्मण्यवस्थितः परिशेषाद् ब्रह्म­ज्ञा­नेऽ­व­त­र­ती­त्यु­च्यते किं वा क्रमेण कृत्स्न­क­र्म­फ­ला­वाप्तौ ब्रह्म­लो­का­न्त­गो­च­राणां सर्वेषां कामानामनुभवेन प्रविलये तत्र निवृत्तकामः परमानन्दकामनया ब्रह्म­वि­चा­रेऽ­व­त­र­तीति ? नाऽऽद्यः, प्रमाणाभावात् । द्वितीयो ब्रह्मविचारो मनुष्याधिकारो न स्यात्, ब्रह्म­लो­क­प्रा­प्त्य­न­न्त­र­भा­वि­त्वात् । अथापि सकामस्य ब्रह्म­वि­चा­रा­न­धि­का­रात् कामः प्रविलापनीय एव । तत्र यथा वह्निरुपस्थितं दाह्यमखिलं दग्ध्वा प्रशाम्यति तथा कामोऽपि सर्वभोगेन प्रविलीयत इति चेद्, न; हैर­ण्य­ग­र्भा­दि­भो­गानां प्रतिक्षणं क्षीय­मा­ण­त्वा­द­ना­ग­त­भो­ग­वि­ष­य­का­म­नो­प­पत्तेः । अग्नेरपि दाह्या­न्त­रो­प­स्थाने पुनः प्रज्व­ल­न­द­र्श­नात् । अत एवोक्तम् –
“न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाऽभिवर्धते ॥” इति ।
ननु कामावाप्त्या स्वच्छहृदयः पुमान् कार्यान्तरक्षमो दृष्ट इति चेत्, सत्यम्; तत्रौ­त्सु­क्य­नि­वृ­त्ति­र्हृ­द­य­स्वास्थ्ये हेतुर्न कामप्राप्तिः, अनु­प­भु­क्त­वि­ष­य­स्यौ­त्सु­क्य­र­हि­तस्य पुरुषस्य चित्त­स्वा­स्थ्य­द­र्श­नात् । औत्सुक्यं च न भोगादेकान्ततो निवर्त्तते, किन्तु विषयदोषदर्शनात् । न च भोगात् कामोपशम इत्येवंविध आगमोऽस्ति । यस्तु मन्यते वैदिकशब्दा सर्वे संहत्य प्रप­ञ्च­वि­ल­य­प्र­मि­ति­पराः, ज्योति­ष्टो­मा­दि­वा­क्या­ना­मपि देहा­ति­रि­क्ता­त्मा­न­मु­प­जीव्य प्रवृत्तानां देहा­त्म­त्व­प्र­वि­ला­प­क­त्वा­दिति; तं प्रतीतिविरोध एव निराकरिष्यति । तस्मान्न केनापि प्रकारेण पूर्व­त­न्त्रा­पेक्षा सुलभा । ननु कर्मद्वारा तदपेक्षा स्याद् ब्रह्मविचारस्य । तथा हि – नित्य­क­र्मा­ण्य­नु­ष्ठी­य­मा­नानि पुरुषे धर्माख्यं गुणमादधति, स च धर्मः पापाख्यं मलमपकर्षति ततो गुणा­धा­न­म­ला­प­क­र्ष­ण­सं­स्का­राभ्यां संस्कृतः पुमान् ब्रह्म­वि­चा­रेऽ­धि­क्रि­यते । तदाह गौतमः – यस्यै­तेऽ­ष्टा­च­त्वा­रिं­श­त्सं­स्काराः स ब्रह्मणः सायुज्यं सालोक्यं च गच्छतीति । अत्रैतच्छब्देन गर्भाधानादीनि सप्त­सो­म­सं­स्था­न्तानि कर्माणि परामृश्यन्ते । न च वाच्यं कर्मणां संस्कारकत्वे स्वतन्त्रफलता न स्याद्, व्रीहि­प्रो­क्ष­णादौ स्वत­न्त्र­फ­ला­भा­वात्; तत आश्र­म­क­र्मा­नु­ष्ठा­यिनां स्वत­न्त्र­फ­ला­भि­धा­यिनी सर्व एते पुण्यलोका भवन्तीति श्रुतिः पीड्येतेति । प्रोक्षणादिवत् कर्म­णा­म­न्या­ङ्ग­ता­न­ङ्गी­का­रेण स्वत­न्त्र­फ­ल­ताऽ­वि­रो­धात् । यथा द्रव्यार्जनस्य स्वत­न्त्र­पु­रु­षा­र्थ­तया निर्णीतस्य क्रत्व­न­ङ्ग­स्याऽपि क्रतूपकारिता तथाऽनङ्गानामपि कर्मणां ब्रह्म­वि­चा­रो­प­का­रिता स्यात् । अन्यथा कर्मणां संस्का­र­त्व­स्मृ­त्य­नु­प­पत्तेः । एवं च कर्माणि केव­ला­न्य­भ्यु­द­य­फ­लानि, श्रव­ण­म­न­ना­दि­स­ह­कृ­तानि तु ब्रह्म­ज्ञा­न­ज­न­का­नीति श्रुति­स्मृ­त्यो­र­वि­रोधः । न च गौतमस्मृतौ सालो­क्य­लि­ङ्गा­द्धि­र­ण्य­ग­र्भ­प्रा­प्ति­रेव संस्कारकर्मणां फलमिति वाच्यम्, तत्र सायुज्यशब्देन मोक्ष­स्याऽ­भि­हि­त­त्वात् । “ज्ञान­मु­त्प­द्यते पुंसां क्षयात् पापस्य कर्मणः” इत्यादिस्मृतिषु स्पष्टमेव पाप­क्ष­य­ल­क्ष­ण­सं­स्का­र­द्वारा ज्ञानोत्पत्तौ कर्मणां विनियोगात् । यथा प्रोक्षणादीनि संस्कारकर्माणि दर्श­पू­र्ण­मा­स­स्व­रू­पो­त्प­त्ति­हे­तु­तया स्वर्गे समुच्चीयन्ते तथा नित्य­नै­मि­त्ति­क­क­र्माणि ज्ञानो­त्प­त्ति­हे­तु­तया मोक्षे समुच्चीयन्ते । ननु तर्हि प्रोक्षणादिवदेव गुणकर्मत्वं प्राप्तं ततो न कदाचिदपि स्वत­न्त्र­फ­ल­त्व­सि­द्धि­रिति चेद्, न; व्रीहिवदत्र संस्क्रि­य­मा­ण­स्याऽऽ­त्मनो विधे­य­गु­ण­त्वा­भा­वेन तत्प्राप्तेः । न हि प्रमाणतन्त्रं ब्रह्मज्ञानं विधातुं शक्यम्, येनाऽऽत्मनो विधेयगुणता स्यात् । नन्वेवं सति संस्कारकर्मता नित्य­नै­मि­त्ति­क­योर्न स्याद्, विहि­ता­ङ्ग­द्र­व्य­सं­स्का­र­क­र्म­ण्येव तत्प्र­सि­द्धे­रिति चेद्, मैवम्; अवि­हि­त­भो­ज­ना­ङ्ग­द­धि­सं­स्का­रेऽपि प्रसिद्धेः । ननु यदि नित्यकर्मणां ब्रह्म­ज्ञा­ने­ति­क­र्त­व्यता, तथा सति विधि­वा­क्य­नि­र्दिष्टं करणत्वं न सिध्येत्, प्रधा­नो­प­स­र्ज­न­रू­पयोः कर­णे­ति­क­र्त­व्य­त­यो­रे­क­त्रा­स­म्भ­वात् । यदि च नेतिकर्त्तव्यता तदा दध्या­दि­सं­स्का­र­व­द­न्या­र्थ­द्र­व्य­सं­स्का­र­रू­पता न सिध्येदिति चेद्, नैष दोषः; उभ­य­थाऽ­प्य­वि­रो­धात् । न तावदेकस्य कर­ण­त्व­मि­ति­क­र्त­व्यत्वं च न संभवति, “अग्निं चित्वा सौत्रामण्या यजेत”, “वाज­पे­ये­नेष्ट्वा बृहस्पतिसवेन यजेत” इत्यत्र सौत्रा­म­णी­बृ­ह­स्प­ति­स­व­यो­र­न्यत्र करणतया स्वत­न्त्र­वि­ध्य­न्त­र­वि­हि­त­यो­र­प्य­ग्नि­च­य­न­वा­ज­पे­ये­ति­क­र्त­व्य­ता­द­र्श­नात् । तत्र कर­णे­ति­क­र्त­व्य­वि­धि­वा­क्य­प्र­मा­ण­भे­दा­द्युक्तं सौत्रा­म­ण्या­दे­रु­भ­या­र्थ­त्व­मिति चेत्, तर्ह्यत्रापि नित्य­वि­धि­सा­म­र्थ्यात् संस्का­र­स्मृ­त्य­नु­मि­त­श्रु­ति­सा­म­र्थ्या­च्चो­भ­या­र्थत्वं कल्प्यताम् । नाप्य­नि­ति­क­र्त­व्यस्य संस्का­र­रू­प­त्वा­सिद्धिः । आधा­न­स्या­नि­ति­क­र्त­व्य­स्यैव संस्कारत्वात् ।

ननु कर्मणां ज्ञानसाधनत्वे यावज्ज्ञानोदयं तद­नु­ष्ठा­ना­द्वि­वि­दि­षा­सं­न्यासो न सिध्येदिति चेद, न; चित्तस्य शुद्धिद्वारा प्रत्य­क्‌प्र­व­ण­तायां सम्पन्नायां तद­नु­ष्ठा­नो­प­र­मा­ङ्गी­का­रा­वि­रो­धात् । तदुक्तम् – “प्रत्य­क्‌प्र­व­णतां बुद्धेः कर्मा­ण्यु­त्पाद्य शुद्धितः । कृता­र्था­न्य­स्त­मा­यान्ति प्रावृडन्ते घना इव ।।” इति । तदेवं संस्कारपक्षे कर्मणां ब्रह्म­ज्ञा­नो­प­योगः सिद्धः । अथ विवि­दि­पा­प­क्षेऽपि सोऽभिधीयते । “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इति श्रूयते । तत्राऽऽ­त्म­त­त्त्वा­प­रो­क्षा­नु­भ­व­स्ता­व­दि­ष्य­मा­ण­तया स्वर्गा­दि­व­द्भा­व­ना­सा­ध्योऽ­व­ग­म्यते, पुरुषार्थत्वात् । न च शाब्द­ज्ञा­न­स्ये­ष्य­मा­णत्वं शङ्कनीयम्, सञ्जाते शाब्दज्ञाने तत्र कामनानुदयात् । असञ्जाते तु विषयानवगमादेव तत्र सुतरां कामनाऽसम्भवात् । अपरोक्षानुभवे तु संभवत्येव कामना । शाब्द­ज्ञा­नो­त्पत्तौ विषयस्य सामान्यतः प्रसिद्धत्वात् । यदा तु शब्द एवाऽ­प­रो­क्ष­ज्ञा­नस्य जनकस्तदाऽपि तस्य चञ्च­ल­त्वा­न्नि­श्चलं ज्ञानं कामयितव्यमेव । तत्र यज्ञा­दी­ना­मा­ख्या­ता­भि­हि­त­भा­व­ना­क­र­ण­त­याऽ­व­ग­ता­ना­मि­ष्य­मा­णेन साध्ये­नै­वाऽ­न्व­या­द्य­ज्ञा­दीनि ब्रह्मा­नु­भ­व­सा­ध­न­त­याऽ­व­ग­तानि । न चेच्छा­मा­त्रे­णाऽ­न्वयः, तस्या असाध्यत्वात् । तत­श्चाऽऽ­त्मा­नु­भ­व­कामो यज्ञा­दी­न्य­नु­ति­ष्ठे­दिति विधिः परिणम्यते । न च “विविदिषन्ति” इति वर्त­मा­न­ता­वि­रोधः, लेट्परिग्रहेण विध्यधिगमात् । न च नित्यस्य यज्ञा­दे­र्ब्र­ह्मा­नु­भ­व­का­मेन कथं सम्बन्ध इति वाच्यम्, स्वर्ग­का­म­स­म्ब­न्धा­दु­प­पत्तेः । ननु विमता ज्ञानहेतवो यज्ञादिभ्यो भिन्नाः, प्रक­र­णा­न्त­र­वि­हि­त­त्वाद्, यथा कुण्डपायिनामयने मास­म­ग्नि­हो­त्रम्; कुण्डपायिनामयनं नाम संवत्सरसत्रम् । तत्र हि “मासमग्निहोत्रं जुहोति” इति विहितस्य प्रक­र­णा­न्त­र­वि­हि­तात् प्रसि­द्धा­ग्नि­हो­त्रा­द्भेदो निर्णी­त­स्त­थाऽ­त्रापि । नैतद्युक्तम्, वैषम्यात् । दृष्टान्ते न ताव­द­ग्नि­हो­त्र­शब्दः प्रसि­द्धा­ग्नि­हो­त्र­प­रा­म­र्श­स­म­र्थ­स्त­स्याऽ­लौ­कि­का­भि­धा­न­स्याऽऽ­ख्या­त­प­र­त­न्त्र­त­याऽऽ­ख्या­तो­क्ता­र्था­भि­धा­यि­त्वात् । नाप्या­ख्या­त­श­ब्द­स्तत्र समर्थः, स्वप्र­क­र­ण­प­ठि­तो­प­स­द्भि­र्मा­स­गु­णेन च विशिष्टे कर्मविशेषे सति तं विहाय प्रकरणान्तरस्य परामर्शायोगात् । दार्ष्टान्तिके त्वध्य­य­न­य­ज्ञ­दा­न­त­पो­ना­श­क­श­ब्दानां लौकिकाभिधानतया स्वातन्त्र्यात् प्रदे­शा­न्त­र­वि­हि­ता­ग्नि­हो­त्रा­दि­प­रा­म­र्शो­प­पत्तौ तान्येव कर्माणि संयोगभेदेन विधीयन्त इत्युपपद्यते । नन्वेवमपि ब्रह्मज्ञानस्य दृष्ट­प्र­मा­ण­सा­म­ग्री­ज­न्यस्य नाऽदृ­ष्टा­पेक्षा, सति प्रमाकरणे यज्ञा­दि­ज­न्या­दृ­ष्टा­भा­वा­प­रा­धेन ज्ञाना­नु­द­या­द­र्श­ना­दिति चेद्, न; शास्त्रै­क­स­मा­धि­ग­म्येऽर्थे केव­ल­व्य­ति­रे­का­भा­व­स्याऽ­दो­ष­त्वात् । यत्त्वात्र समुच्चयवादिनो मन्यन्ते – न कर्माणि ज्ञानसाधनानि, प्रमा­ण­रू­प­त्वा­भा­वात् । किन्तु मोक्षसाधनानीति, तदसत्; “यज्ञेन विविदिषन्ति” इति श्रुत­ज्ञा­न­क­र­ण­त्व­वि­रो­धात् । यदि साक्षात् करणत्वं न सम्भवेत्, तदाऽ­न्तः­क­र­ण­शु­द्धि­द्वारा तत्कल्पनीयम् । लोके “काष्ठैः पचति” इत्यादौ परम्परया साधनेऽपि कर­ण­वि­भ­क्ति­द­र्श­नात् । वेदेऽपि स्वर्गं प्रति कारणत्वेन श्रुतस्य यागा­दे­र­पू­र्व­द्वारा कारणत्वकल्पनात् । न त्वेवमत्र वाक्ये मोक्षसाधनता प्रतीयते, प्रत्युत “न कर्मणा न प्रजया” इत्या­दि­वा­क्या­न्तरे कर्मणां मोक्षसाधनता प्रतिषिध्यते । अतस्तेषां ज्ञानहेतुतैव । ननु विशुद्धिद्वारेण ज्ञानहेतुत्वे संस्का­र­वि­वि­दि­षा­प­क्षयोः को भेदः ? उच्यते – श्रव­ण­म­न­न­नि­दि­ध्या­स­ना­भ्या­सा­दि­स­ह­का­रि­का­र­ण­स­म्प­त्ता­वेव संस्कारो विज्ञानं साधयति, तदभावे सत्यभ्युदयमेव । विविदिषायां तु विज्ञानस्य कर्मफलत्वात् फल­प­र्य­न्त­सा­ध­नानि सम्पाद्याऽपि विज्ञानं जनयतीति विशेषः । तदेवं पक्षद्वयेऽपि कर्मद्वारा पूर्व­त­न्त्र­स्याऽ­पे­क्षि­त­त्वा­त्त­दा­न­न्त­र्य­म­थ­श­ब्दार्थ इति, नैतत् सारम्, जन्मा­न्त­रा­नु­ष्ठि­तै­रपि कर्म­भि­र­न्तः­क­र­ण­शुद्धौ ज्ञानो­द­य­स­म्भ­वात् । अथ मतम् – ऋणापाकरणायेह जन्मनि कर्माऽ­नु­ष्ठा­त­व्यम् ।
“ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो वजत्यघः ॥”
इति स्मृतेरिति, तदसत्; “यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्” इति प्रत्य­क्ष­श्रुत्या बाधितत्वात् । तदुक्तम् –
“प्रत्य­क्ष­वे­द­व­च­न­प्रा­मा­ण्या­पा­श्र­या­दतः ।
आदौ संन्या­सं­सि­द्धे­रृ­णा­नीति ह्यपस्मृतिः ॥” इति ।
“जायमानो वै ब्राह्म­ण­स्त्रि­भि­रृ­ण­वान् जायते” इति श्रुति­र­प्य­स्तीति चेद्, न; तस्या हृद­या­द्य­व­दा­न­शे­षा­र्थ­वा­द­त्वात् । न चाऽसौ भूतार्थवादः, न्यायविरोधात् । ऋणशब्देनात्र किं पुत्र­य­ज्ञ­ब्र­ह्म­च­र्या­ण्ये­वो­च्यन्ते किं वा तद्विधयः ? तत्र न तावज्जायमानस्य पुत्रा­दि­स­म्बन्धो युज्यते, योग्या­नु­प­ल­ब्धि­वि­रो­धात् । नाऽपि तद्वि­धि­स­म्बन्धः, विधि­प्र­ति­प­त्ति­सा­म­र्थ्य­वि­क­ल­स्याऽ­धि­का­रा­भा­वात् । सामर्थ्यस्य चाऽधि­का­र­वि­शे­ष­ण­त्वात् । अथ “गृहस्थो जाय­मा­न­स्त्रि­भि­रृ­ण­वान् जायते” इति व्याख्यायेत, एवमपि “गृहा­त्प्र­व्र­जेत्” इति विधिविरोधः पूर्वो­क्त­न्या­य­वि­रो­धश्च दुर्वारः । न हि विवाहदिने एव पुत्र­स­म्ब­न्ध­स्त­दु­त्पा­द­न­सा­मर्थ्यं वोपलभ्यते । न च जन्मारभ्य पुत्रा­द्य­धि­का­र­स­म्पत्तेः प्राग्वि­रो­धि­वि­ध्य­न्त­र­स­म्ब­न्ध­प­रि­हा­रा­र्थ­मिदं वचनमिति वक्तुं शक्यम्, पूर्वोक्त संन्यासविरोधात् । “तस्मादेष वा अनृणो यः पुत्री यज्वा ब्रह्मचर्यवासी यद­व­दा­नै­रे­वा­व­द­यते तद­व­दा­ना­ना­म­व­दा­न­त्वम्” इत्येतदन्तमिदं वच­न­म­भू­ता­र्थ­वा­द­मा­त्रम् ।

ननु “ब्रह्मचर्यं समाप्य गृही भवेत्” इति विधिना विरोधे कथं ब्रह्मचर्यादेव संन्यासो विधीयते । मैवम्, संन्या­स­गा­र्ह­स्थ्य­यो­र्वि­र­क्ताऽ­वि­र­क्त­वि­ष­य­भे­देन व्यवस्थितत्वात् । यस्तु संन्यासस्य कर्मा­न­धि­कृ­ता­न्ध­प­ङ्ग्वा­दि­वि­ष­य­तया व्यवस्थां मन्यते, स वक्तव्यः किं विधिपर्यालोचनया इदमवगम्यते उत कल्प्यते ? नाद्यः, “ब्रह्मचर्यादेव प्रव्रजेत्” इति वचनस्य कर्मा­धि­कृ­ता­न­धि­कृ­त­सा­धा­र­ण्येन प्रतीतेः । अधिकृतानां गार्ह­स्थ्य­वि­धा­ना­द­न­धि­कृ­ते­ष्वेव तद्वचनं पर्यवस्यतीति चेद् न, “अथ पुनर्व्रती वाऽव्रती वा स्नातको वाऽस्नातको वा उत्स­न्ना­ग्नि­र­न­ग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्” इत्युत्तरवाक्ये कर्म­स्व­धि­कृ­ता­ना­म­न­धि­कृ­तानां च मुखत एव संन्या­स­धि­का­रि­त्वे­नो­पा­दा­नात् । न चैवं सन्यासस्य सर्वा­धि­का­र­प्र­सङ्गः, विर­क्ते­र्नि­या­म­क­त्वात् । अविरक्तस्य त्वन्धादेरपि संन्यासे पाति­त्य­प­र्य­व­सा­नात् । “यस्तु प्रव्रजितो भूत्वा” इत्यादिना विषयसेवाया निषेधात् । नाऽपि द्वितीयः, कल्पकाभावात् । अथ मन्यसे – इन्द्रियाणि विद्यमानान्यपि संन्यासिना निरोद्धव्यानि, ततो वर­मि­न्द्रि­य­वि­क­ल­स्यैव तदधिकार इति, तत्र किमङ्गभूते संन्या­सेऽ­नु­प­यो­गा­दि­न्द्रि­याणां निरोधः किं वाऽङ्गि­न्या­त्म­ज्ञा­नेऽ­नु­प­यो­गाद् उत विप­री­त­प्र­वृ­त्ती­ना­मपि जनकत्वात् ? नाऽऽद्यः, “दृष्टिपूतं न्यसेत्पादम्” “पर्य­टे­त्की­ट­व­द्भूमौ” इत्या­दि­सं­न्या­स­ध­र्म­नि­र्वा­हा­ये­न्द्रि­या­णा­मु­प­यु­क्त­त्वात् । न द्वितीयः; “शरीरं मे विचर्षणं जिह्वा मे” इत्या­दि­नाऽऽ­त्म­ज्ञा­नाय शरी­रे­न्द्रि­या­दि­पा­ट­वस्य प्रार्थ्य­मा­न­त्वात् । तृतीये तु विप­री­त­प्र­वृ­त्ति­मात्रं परित्याज्यम्, नेन्द्रि­य­स्व­रू­पम् । का तर्ह्य­वि­र­क्ता­ना­म­न्ध­प­ङ्ग्वा­दी­ना­मा­ज्या­वे­क्ष­ण­वि­ष्णु­क्र­मा­द्यु­पे­त­क­र्म­स्व­न­धि­कृ­तानां गतिरिति चेत्, पुत्रो­त्पा­द­न­ब्र­ह्म­य­ज्ञा­दि­क­र्मा­न्त­रा­धि­कार इति ब्रूमः; अत आत्म­ज्ञा­न­प्र­क­र­ण­प­ठिते तदङ्गभूते संन्यासे शरीरादिपाटवोऽपि तस्य विरक्तस्यैव मुख्याधिकारः । ननु पूर्वं संस्का­र­वि­वि­दि­षा­प­क्षा­वुक्तौ, तत्र नित्य­क­र्म­णा­मा­त्म­ज्ञा­ना­ङ्ग­त्व­मु­क्त­मि­दानीं तत्त्या­ग­स्याऽ­ङ्ग­त्व­मिति पूर्वापरविरोध इति चेद्, न; उभ­यो­र­प्य­ङ्ग­त्वात् । न चोभ­यो­र्वि­रु­द्ध­यो­रे­के­नाऽ­नु­ष्ठा­ना­स­म्भवः, कालभेदेन तदुपपत्तेः । आ चित्तशुद्धि कर्मा­ण्य­नु­ष्ठे­यानि तत उपरि तानि संन्यसितव्यानि । एकफलत्वं च कर्म­त­त्सं­न्या­स­यो­र्द्वा­र­भे­दा­दु­प­प­द्यते । कर्माणि हि चित्त­शु­द्धि­द्वा­राऽऽ­त्म­ज्ञानं प्रत्या­रा­दु­प­का­र­काणि । संन्या­स­स्त्व­न­न्य­व्या­पा­र­तया श्रव­णा­दि­नि­ष्पा­द­न­द्वा­रेण संनिपत्योपकरोति । यस्तु भास्करः सन्ध्या­व­न्द­ना­दि­नि­त्य­क­र्म­ण­स्त­द­ङ्ग­भू­तो­प­वी­तस्य च त्यागं नेच्छति, सोऽप­रि­चि­त­शा­स्त्र­वृ­त्ता­न्त­त्वा­दु­पे­क्ष­णीयः । “यज्ञं यज्ञोपवीतं च त्यक्त्वा गूढ­श्च­रे­न्मुनिः” इति यज्ञो­प­वी­ता­दि­त्या­गस्य साक्षा­द्वि­हि­त­त्वात् । न च पूर्वो­प­वी­त­त्या­गेऽ­प्य­न्य­स्वी­कारः शङ्कनीयः; जाबालश्रुतावपि “अयज्ञोपवीती कथं ब्राह्मणः” इति प्रश्नपूर्वकम् “इदमेवाऽस्य तद्यज्ञोपवीतं य आत्मा” इत्येवकारेण बाह्ययज्ञोपवीतं व्याव­र्त्त्याऽऽ­त्मन एव यज्ञो­प­वी­त­त्व­स­म्पा­द­नात् । तदे­व­मा­त्म­ज्ञा­ना­धि­का­रिणः संन्यासस्य विहि­त­त्वा­त्त­द्वि­रो­धिन्याः ऋण­त्र­य­श्रु­ते­र­भू­ता­र्थ­वा­द­त्वात् कर्मद्वाराऽपि पूर्व­त­न्त्रा­पे­क्षाया असिद्धौ न धर्म­वि­चा­रा­न­न्त­र्य­म­प्य­थ­श­ब्दा­र्थ­ता­म­र्हति ।

ननु यदि धर्म­ब्र­ह्म­वि­चा­र­यो­र्हे­तु­हे­तु­म­द्भा­वे­नाऽऽ­न­न्तर्यं न सम्भवति, तर्हि तयो­रा­न­न्त­र्य­मा­त्रो­प­ल­क्षि­त­क्र­म­म­थ­शब्दः प्रतिपादयतु । “हृद­य­स्याऽ­ग्रेऽ­व­द्य­त्यथ जिह्वाया अथ वक्षसः” इत्य­त्राऽ­थ­श­ब्दस्य क्रम­प्र­ति­पा­द­क­त्व­द­र्श­ना­दिति चेत्, तत्र वक्तव्यम् – किमथशब्दः स्वयमेव क्रमं प्रतिपादयति आहोस्वित् प्रमा­णा­न्त­र­प्र­ति­प­न्न­क्र­मा­पे­क्षि­त­न्यायं सूचयति ? नाऽऽद्यः; स्वयं न्याय­सू­त्रा­न्तः­पा­ति­त्वात् । न द्वितीयः; क्रम­बो­ध­क­प्र­मा­णा­स­म्भ­वात् । क्रमो ह्येककर्तृकाणां बहूनां युग­प­द­नु­ष्ठा­ना­स­म्भ­वेऽ­पे­क्ष्यते । एककर्तृकत्वं चाऽङ्गा­ङ्गि­नोर्वा बहू­ना­म­ङ्गा­ना­मे­का­ङ्गि­स­म्ब­न्धिनां बाऽधि­का­रा­न्त­र­प्र­यु­क्त्यु­प­जी­विनां वा भवति । न चाऽत्र तेषामन्यतमत्वे श्रुत्यादि प्रमाणमस्ति । यद्यपि ज्योति­ष्टो­मा­दा­व­धि­कृ­त­स्यै­वाऽ­ङ्गा­व­ब­द्धो­पा­स­ने­ष्व­धि­का­र­स्त­थापि न नः काचिद्धानिः, उपासनानां धर्म­वि­शे­षा­णा­मे­वाऽ­स्मिन् शास्त्रे प्रासङ्गिकी सङ्ग­ति­रि­त्यु­क्त­त्वात् शास्त्र­ता­त्प­र्य­वि­ष­य­ब्र­ह्म­ज्ञा­न­स्याऽ­धि­का­र­त्वा­भा­वात् । ननु यथाऽऽ­ग्ने­या­दीनां षण्णां यागा­ना­म­ङ्गा­ङ्गि­त्वा­दि­पू­र्वो­क्त­त्रै­वि­ध्या­भा­वेऽपि फलैक्यात् कर्त्रैक्यं क्रमश्च तथा धर्म­ब्र­ह्म­वि­चा­रयोः स्यादिति चेद्, न; तयोः फलैक्ये मानाभावात् । “विद्यां चाविद्यां च यस्तद्वेदोभयं सह” इति समुच्चयविधिरेव मानमिति चेद्, न; “अविद्यया मृत्युं तीर्त्वा विद्य­याऽऽ­मृ­त­म­श्नुते” इत्य­वि­द्या­ख्यस्य कर्मणो विद्यायाश्च वाक्यशेषे फलभेदावगमात् । “तेनैव ब्रह्म­वि­त्पु­ण्य­कृ­त्तै­ज­सश्च” इति वचनं समु­च्च­य­वि­धा­य­क­मिति चेद्, मैवम्; नाऽत्र ज्ञान­क­र्म­णो­रे­क­स्मिन् पुरुषे समुच्चयविधिः, किन्तु ब्रह्म­वि­त्पु­ण्य­कृ­तो­रु­भयोः पुरुषयोर्योगे (मार्गे) समुच्चयविधिः अन्वाचयार्थेन चकारेण प्रत्येकं निर­पे­क्ष­मा­र्गा­न्व­यो­प­पत्तेः । ब्रह्म­वि­च्छ­ब्दे­नाऽत्र सगु­ण­ब्र­ह्मो­पा­स­कोऽ­भि­धी­यते, निर्गु­ण­ब्र­ह्म­विद उत्तरमार्गेण गमनाभावात् । पुण्यकृच्छब्देन च प्रती­को­पा­स­कोऽ­भि­प्रेतः; केवलकर्मिणां धूमा­दि­मा­र्ग­श्र­व­णात् । ततो ब्रह्म­वि­त्पु­ण्य­कृ­तो­रा­वि­द्यु­ल्लो­क­मु­त्त­र­मार्गे गमनसमुच्चयपरं वचनम् । न च “तान्याचरथ नियतं सत्यकामाः” इत्यत्र ज्ञान­क­र्म­स­मु­च्च­य­विधिः सुसम्पादः, केवलकर्मणामेव श्रवणात् । न च सत्यशब्दो ब्रह्मपरः, “एष वः पुण्यः सुकृतो ब्रह्मलोकः” इति वाक्यशेषे सत्य­लो­का­भि­धा­नात् । न च “सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन” इत्ययं समुच्चयविधिः । नह्यत्र तपः­श­ब्दोऽ­ग्नि­हो­त्रा­दि­क­मा­चष्टे, किन्तु ध्यानम्; “मन­स­श्चे­न्द्रि­याणां चैकाग्र्यं परमं तपः” इति स्मृतेः । तस्मान्न ज्ञान­क­र्म­स­मु­च्चये मानमस्ति । प्रत्युत “नास्त्यकृतः कृतेन” “न कर्मणा न प्रजया” इत्यादिना कर्मणः साक्षा­न्मो­क्ष­सा­ध­नता निषिध्यते । न च केवलकर्मण एव प्रतिषेध इति वाच्यम्, समु­च्च­य­वि­धा­यि­प्र­मा­णा­भावे सर्वकर्मणां प्रति­षे­धो­प­पत्तेः; अन्यथा ज्ञानाङ्गतया सर्व­क­र्म­सं­न्या­स­वि­धानं नोपपद्येत । संन्या­सा­श्र­म­धर्मैः समु­च्च­योऽ­स्त्विति चेद्, न; तद्धर्माणां ध्यानादीनां ज्ञान­स्व­रू­पो­प­का­रि­त्वात् फल­स­मु­च्च­या­नु­प­पत्तेः । नित्य­क­र्म­वि­धा­ना­नु­प­प­त्ति­रेव ज्ञानसहकारितया नित्यकर्मणाम् मोक्षफलत्वं कल्पयतीति चेद्, न; प्राभाकरमते तेषां फल­नि­र­पे­क्ष­त्वात् । भाट्टपक्षे विश्व­जि­न्न्या­येन स्वर्गकल्पनात् । वेदान्तिपक्षे संस्का­र­वि­वि­दि­ष­यो­रु­क्त­त्वात् । ब्रह्म­ज्ञा­न­मे­वे­ति­क­र्त्त­व्य­तया कर्मणां मोक्षसाधनत्वं कल्पयतीति चेद्, न; शमा­दि­रू­पे­ति­क­र्त्त­व्य­ता­न्त­रस्य सद्भावात् । “यज्ञेन विविदिषन्ति” इति विध्युद्देशे करणतया प्रसिद्धानां कर्मणामिति कर्त्तव्यतायां विधिविरोधाच्च । कथञ्चित्तेषां मोक्ष­सा­ध­न­त्व­क­ल्प­नेऽ­प्यु­दि­ता­नु­दि­त­हो­म­वद् ज्ञान­क­र्म­णो­र्वि­कल्प एव किं न स्यात् ? तथा च न समुच्चयसिद्धिः । न च समुच्चयवादिना मोक्षे कर्मणोऽध्यासः सुनिरूपः, न तावद् ब्रह्मा­त्मै­कत्वं तत्साध्यम्, तस्य सिद्ध­स्व­भा­व­त्वात् । नाऽप्य­वि­द्या­त­त्का­र्य­नि­वृ­त्ति­स्त­त्साध्या, “तरति शोकमात्मवित्” इत्यादौ तन्नि­वृ­त्ते­र्ज्ञा­न­सा­ध्य­त्व­श्र­व­णात् । किं च समुच्चयवादिमते विज्ञानसाध्यमपि फलं न भवति । किं कर्मो­पा­धि­नि­वृ­त्ति­र्ज्ञा­न­फ­लम्, किं वा मिथ्या­ध्या­स­नि­वृत्तिः, उत तत्प्र­वा­ह­नि­वृत्तिः, अथवा मिथ्या­ज्ञा­न­सं­स्का­र­नि­वृत्तिः, आहोस्विद् ब्रह्म­स्व­रू­प­प्र­का­श­नम् ? नाऽऽद्यः; कर्मोपाधीनां सत्यवस्तुतया ज्ञाना­नि­व­र्त्य­त्वात् । न द्वितीयः; मिथ्याध्यासस्य क्षणि­क­त्वा­त्स्व­य­मेव निवृत्तेः । न तृतीयः, प्रवाहस्य प्रवा­हि­नि­वृ­त्ति­म­न्त­रेण पृथ­गु­च्छे­दा­भा­वात् । न चतुर्थः, रज­ता­दि­सं­स्का­रस्य शुक्त्या­दि­ज्ञा­न­नि­व­र्त्त्य­त्वा­द­र्श­नात् । ज्ञाना­भ्या­स­सं­स्का­राद् निवृत्तौ संस्कार एव मुक्तिहेतुः स्यात् । ततो “ज्ञानादेव कैवल्यम्” इति शास्त्रं विरुध्येत । न पञ्चमः, ब्रह्मणः स्वप्रकाशत्वात् । यत्तु भास्करेण प्रलपितं समु­च्च­य­सा­म­र्थ्या­देव धर्मा­व­बो­धा­न­न्तरं ब्रह्मावबोध इति, तत्स­मु­च्च­य­नि­रा­क­र­णा­देव निराकृतम् । सत्यपि वा समुच्चये तत्कथं सिध्येत्, वैप­री­त्य­प्र­स­ङ्गस्य तव दुर्वारत्वात् । तथा हि – ज्ञान­व­तै­वाऽ­नु­ष्ठि­तानि कर्माणि मोक्षं साधयन्तीति प्रथमं ब्रह्मा­व­बो­ध­मु­त्पाद्य तद्बोधवतैव ब्रह्मचारिणा धर्मविचारिणा धर्मविचारादि सर्वं कर्तुं युक्तमिति विपरीत एव क्रमः स्यात् । कर्मानुष्ठानस्य ब्रह्मा­व­बो­धो­त्त­र­का­ल­भा­वि­त्वेऽपि धर्मविचारः पूर्वमेव क्रियतामिति चेद्, न; तथा सत्यादावेव मुमु­क्षो­रा­ध­र्म­वि­चा­र­प­रि­स­मा­प्ते­र­नु­ष्ठी­य­मा­ना­श्र­म­क­र्म­णा­मा­न­र्थ­क्य­प्र­स­ङ्गात् । न तावत् तेषां भोगः फलम्, पुरुषस्य भोगा­द्वि­र­क्त­त्वात् । नाऽपि मुक्तिः, ज्ञानाभावेन तस्यामवस्थायां समुच्चयाभावात् । अपू­र्वा­द्वा­रे­णो­प­का­र­कत्वे जन्मा­न्त­रा­नु­ष्ठि­त­क­र्म­भि­रेव तत्सिद्धौ कृतमिह जन्मनि कर्मानुष्ठानेन । न च धर्मविचारात् पूर्वं मुमुक्षुत्वमेव नाऽस्ति, दृश्यन्ते हि बाल्यमारभ्य मुमुक्षवः । न च मुमु­क्ष्व­मु­मु­क्षु­सा­धा­र­ण­त्वा­द्ध­र्म­वि­चार एव प्रथमं कर्त्तव्य इति वाच्यम्, त्वन्मते काम्य­मा­न­मो­क्ष­हे­तु­त्वेन साधा­र­ण­त्वा­सिद्धेः । अथ नित्या­ध्य­य­न­वि­धि­प्र­यो­ज्य­त्वा­द्ध­र्म­वि­चारः साधारणः, तदापि न तस्य प्राथम्यनियमः; काम्य­मा­न­ब्र­ह्म­वि­चा­रा­न­न्त­र­मपि नित्य­क­र्म­वि­चा­रो­प­पत्तेः । यद्य­ध्य­य­ना­न­न्त­र­मेव कर्म­वि­चा­रा­न­नु­ष्ठाने प्रत्य­वा­य­स्त­दाऽपि तत्परिहारायैकं कर्मवाक्यं ब्रह्मबोधात् प्राग्वि­चा­र­यि­त­व्यम्, अन्यत्तु पश्चात् । तथा सति विदु­षाऽ­नु­ष्ठी­य­मा­नानां ब्रह्म­चा­रि­ध­र्मा­णा­मपि मोक्ष­सा­ध­न­त्व­ला­भात् । अग्नि­हो­त्रा­दि­ध­र्मा­णा­मेव मोक्षसाधनत्वं न ब्रह्म­चा­रि­ध­र्मा­णा­मिति चेद्, वेदानुवचनादिषु प्रत्येकं निर­पे­क्ष­क­र­ण­वि­भ­क्ति­श्र­व­णाद् ब्रह्म­चा­रि­णोऽ­ध्य­य­न­स्याऽपि मोक्ष­सा­ध­न­त्वो­प­पत्तेः। अत एव श्रुति­र्ब्र­ह्म­च­र्या­देव संन्यासं विधत्ते । तेन ब्रह्म­चा­रि­ध­र्माणां संन्यासधर्माणां वा ज्ञाने समुच्चयोपपत्तौ त्वन्म­तेऽ­ग्नि­हो­त्रा­दी­ना­म­न­नु­ष्ठा­न­मेव प्रसज्येत । किं च क्रतुविधय एव धर्म­वि­चा­र­प्र­यो­जकाः, न त्वध्ययनविधिः । अन्यथा ब्रह्म­वि­चा­र­स्याऽ­प्य­ध्य­य­न­वि­धि­प्र­यो­ज्य­त्व­प्र­स­ङ्गात् । “श्रोतव्यः” इति विध्यन्तरं तत्प्र­यो­ज­क­म­स्तीति चेद्, न; धर्मविचारे कॢप्त­प्र­व­र्त­क­भा­वे­नाऽ­ध्य­य­न­वि­धि­नैव ब्रह्म­वि­चा­र­स्याऽपि प्रयोगसम्भवे “श्रोतव्यः” इति विधेरपि प्रव­र्त­क­त्व­क­ल्पने गौरवात् । ब्रह्मविचारस्य काम्यत्वान्न नित्या­ध्य­य­न­वि­धि­प्र­यो­ज्य­तेति चेद्, न; काम्य­क्र­तु­वि­चा­रस्य तत्प्र­यो­ज्य­ता­ङ्गी­का­रात् । न च वाच्यं धर्मविचारादपि ब्रह्मविचारे शम­द­मो­प­स­द­ना­द्य­ङ्गा­धि­क्या­द्वि­ध्य­न्त­र­प्र­यो­ज्य­तेति, एक­स्यै­वाऽ­ध्य­य­न­वि­धे­र्न्यू­ना­धि­काङ्गौ धर्म­ब्र­ह्म­वि­चारौ प्रति प्रयो­ज­क­त्व­स­म्भ­वात् । एक एव हि दर्श­पू­र्ण­मा­स­विधिः पुरो­डा­श­ह­वि­ष्का­व­ग्ने­या­ग्नी­षो­मी­य­या­गा­व­व­घा­ता­द्य­ङ्ग­स­हितं [तौ?] तद्रहितं चाऽऽज्य­ह­वि­ष्क­मु­पां­शु­याजं प्रवर्तयति । ननु विधिर्हि सर्व­त्रो­पा­दे­य­स्यै­वाऽ­नु­ष्ठा­पकः, शम­द­मा­द­य­स्त्व­नु­पा­देयाः, ब्रह्म­वि­चा­रा­धि­का­रि­वि­शे­ष­ण­त्वात्, ततो नाऽध्य­य­न­वि­धि­स्त­द­नु­ष्ठा­पक इति चेद्, न; अध्य­य­न­वि­ध्य­धि­का­रिण उपनीयतस्यैव तत्प्रयुक्ते ब्रह्म­वि­चा­रेऽ­प्य­धि­का­रि­तया शमा­दी­ना­म­त­द्वि­शे­ष­ण­त्वात् । अन्यथा श्रवणविधेरपि तदनुष्ठापकता न स्यात् । तदेवं भास्क­रा­दि­स­मु­च्च­य­वा­दि­म­ता­ना­म­ने­कधा दुष्टत्वाद् धर्म­ब्र­ह्म­वि­चा­रयोः फलैक्यायोगान्न कर्त्रैक्यमिति न तत्प्र­यु­क्त­क्र­मा­र्थोऽ­थ­शब्दः । नन्वेवमपि पूर्वतन्त्रे द्वादशभिरपि लक्षणैर्धर्म एको जिज्ञास्यस्तत्र यथा लक्षणानां क्रमनियमस्तथा पूर्वो­त्त­र­त­न्त्र­यो­रपि जिज्ञास्यैक्ये क्रम­नि­य­मा­र्थोऽ­थ­शब्दः स्यादिति चेद्, न; फल­व­ज्जि­ज्ञा­स्य­स्थाऽपि भिन्नत्वात् । यथा पूर्व­त­न्त्रेऽ­नु­ष्ठा­ना­पे­क्षोऽ­भ्यु­दयः फलम्, तथोत्तरतन्त्रे चाऽनु­ष्ठा­ना­न­पेक्षं निःश्रेयसमिति फलभेदः । तथा पूर्वतन्त्रे पुरु­ष­व्या­पा­र­तन्त्रो ज्ञान­द­शा­या­म­वि­द्य­मानो धर्मो जिज्ञास्यः, उत्तरतन्त्रे पुरु­ष­व्या­पा­रा­न­पेक्षं ज्ञानकालेऽपि विद्यमानं ब्रह्म जिज्ञास्यम्, अतो वेदा­र्थ­त्वा­का­रे­णै­क्येऽपि जिज्ञास्यभेदो न वारयितुं शक्यः । प्रमाणैक्ये प्रमेयभेदो न युक्त इति चेद्, न; प्रमा­णै­क्या­सिद्धेः । न हि धर्मे ब्रह्मणि वा वेदो वेदाकारेणैव प्रमाणम्, किन्तु चोदनाकारेण धर्मं बोधयति वेदा­न्त­वा­क्य­रू­पेण च ब्रह्मस्वरूपम् । तत्र चोदनेति शब्दभावनां कुर्वाणः शब्दोऽभिधीयते । सा च चोदना अंश­त्र­य­वि­शि­ष्टा­म­र्थ­भा­वनां कुर्वती तदनवरोधे पुरु­ष­प्र­वृ­त्त्य­यो­गात् प्रुष­प्रे­र­णा­र्थ­मे­वाऽ­र्थ­भा­वनां प्रतिपादयति । वेदान्तवाक्यं पुनर्बोधयत्येव, न तु ब्रह्मणि तद्बोधे वा पुरुषं प्रेरयति, ब्रह्म­णोऽ­का­र्य­स्याऽ­पु­रु­ष­प्र­वृ­त्त्य­यो­गात् पुरु­ष­प्रे­र­णा­र्थ­मे­वाऽ­र्थ­भा­वनां प्रतिपादयति । वेदान्तवाक्यं पुनर्बोधयत्येव, न तु ब्रह्मणि तद्बोधे वा पुरुषं प्रेरयति, ब्रह्म­णोऽ­का­र्य­स्याऽ­पु­रु­ष­त­न्त्र­त्वाद् बोधस्य च प्रमा­ण­प्र­मे­य­त­न्त्रस्य पुरु­षे­च्छा­प्र­य­त्ना­न­धी­न­त्वात् । अनि­च्छ­तोऽ­प्र­य­त­मा­न­स्यापि दुर्ग­न्धा­दि­ज्ञा­न­द­र्श­नात् । तदेवं धर्म­ब्र­ह्म­णो­स्त­त्प्र­मा­ण­यो­श्चाऽ­त्य­न्त­वि­ल­क्ष­ण­त्वा­न्नाऽत्र जिज्ञा­स्यै­क्य­प्र­यु­क्त­मपि क्रममथशब्दो वक्तुमर्हति । तस्मा­दा­न­न्त­र्या­भि­धा­न­मु­खेन पुष्क­ल­का­र­ण­रू­पस्य शास्त्री­य­स्याऽ­धि­का­रि­वि­शे­ष­णस्य सूच­ना­यै­वाऽ­थ­शब्दः । तच्चाऽ­धि­का­रि­वि­शे­षणं चतुर्धा शास्त्रे प्रसिद्धं नित्याऽ­नि­त्य­व­स्तु­वि­वेकः, इहाऽ­मु­त्रा­र्थ­फ­ल­भो­ग­वि­रागः, शम­द­मा­दि­सा­ध­न­स­म्पद्, मुमुक्षुत्वं चेति । तत्र “सोऽन्वे­ष्टव्यः” इति विधिप्रकरणे “तद्यथेह कर्मचितो लोकः क्षीयते” इत्यादिना नित्या­नि­त्य­व­स्तु­वि­वेको दर्शितः । श्रव­ण­वि­धि­प्र­क­रणे च “आत्मनस्तु कामाय सर्वं प्रियं भवति” इती­हा­मु­त्रा­र्थ­फ­ल­भो­ग­वि­रागो दर्शितः । “आत्म­न्ये­वा­त्मानं पश्येत्” इति दर्श­न­वि­धि­प्र­क­रणे “शान्तो दान्तः” इत्यादिना शमादयो दर्शिताः । “तद्वि­जि­ज्ञा­सस्व” इति विचा­र­वि­धि­प्र­क­रणे “वरुणं पितरमुपससार” इति गुरूपसदनं दर्शितम् । न च मुमु­क्षु­त्व­प्रा­प­क­प्र­मा­णा­भावः, सर्वत्र हि फलश्रुतयः काम­नो­त्पा­द­न­द्वा­रेण मुमु­क्षो­र­धि­का­र­प्र­द­र्श­नार्थाः; अन्यथा साध­ना­नु­ष्ठा­ना­देव फल­सि­द्धे­स्त­त्सं­की­र्त­न­वै­फ­ल्यात् । यद्यपि शमादयो ज्ञान­वि­धि­प्र­क­रणे पठितास्तथापि तेषां विचा­रा­धि­का­रि­वि­शे­ष­ण­त्व­वि­रु­द्धम् । ज्ञानस्य विधातुमशक्यतया तत्साधनस्य विचारस्यैव तत्र विधेयत्वात् । एवमपि प्रतिशास्त्रं विचा­र­वि­धे­र्भि­न्न­त्वा­त्तत्र च तान्य­धि­का­रि­वि­शे­ष­णा­न्यपि व्यवतिष्ठन्ते, न तु समुच्चीयन्त इति चेद्, न; सर्व­शा­खा­प्र­त्य­य­न्या­येन विचा­र­वि­धे­रे­क­त्वात् । नानाशाखासु श्रूयमाणस्य ज्योति­ष्टो­मा­दि­क­र्मणः शाखाभेदेन भेदावाप्तौ "एकं वा संयो­ग­रू­प­चो­द­ना­ख्या­वि­शे­षात्” इति सूत्रेण सिद्धान्तितम् । तत्र यथा फलसंयोगस्य द्रव्य­दे­व­ता­ल­क्ष­ण­रू­पस्य “यजेत” इत्यादिचोदनाया ज्योति­ष्टो­मा­दि­सं­ज्ञा­याश्च सर्व­त्राऽ­वि­शे­षेण कर्मैक्यं तथा विचारोऽपि सर्वत्रैक एव । स चैको विचा­र­वि­धि­र­धि­का­र­मी­क्ष­माणः प्रक­र­ण­सा­म­र्थ्यात् फल­स­ङ्की­र्त­न­वै­फ­ल्य­प­रि­हा­राच्च वर्णि­त­ध­र्म­क­ला­प­म­धि­का­र­नि­मि­त्त­त्वेन स्वीकरोति । निरधिकारस्य विधेः प्रवृ­त्ति­प­र्य­न्त­त्वा­यो­गात् । नन्वेषु वाक्येषु विचा­र­प­दा­भा­वा­द्वि­चा­रोऽ­भि­धी­यत इति कथमवगम्यते ? उच्यते – “स विजि­ज्ञा­सि­तव्यः” “तद्वि­जि­ज्ञ­सस्व” इत्य­त्राऽ­न्त­र्णीतो विचारो विधीयते, इष्य­मा­ण­ज्ञा­न­स्ये­च्छा­याश्च विधेयत्वायोगात् । “श्रोतव्यः” इत्यत्र स्वयमेव विचारो विहितः । “पश्येत्” इत्यत्र तु पूर्वमेवोक्तम् । तस्मात् सर्वत्र मन­न­नि­दि­ध्या­स­ना­भ्या­म­ङ्गाभ्यां श्रवणं नामाऽङ्गि विधीयते इति सिद्धम् । ननु सर्वत्र फलसाधनविधौ फलकामनैव पुष्क­ला­धि­का­र­नि­मि­त्त­मि­त्य­त्रापि मुमु­क्ष­त्व­मे­वाऽ­धि­का­रि­वि­शे­षणं शमदमादिकं त्वनुष्ठेयतया प्रयाजादिवत् फलोपकार्य्यङ्गं भविष्यतीति चेत्, सत्यम्; अङ्ग­स्याऽ­प्य­धि­का­रि­वि­शे­ष­णत्वं न विरुध्यते, शमादिगुणको भूत्वा पश्ये­दि­त्या­दि­लि­ङ्गात् । शास्त्रै­क­ग­म्यस्य युक्त्याऽ­प­ला­पा­यो­गात् । अङ्गभूताया अपि दीक्षाया उत्त­र­क्र­त्व­धि­का­र­नि­मि­त्त­ता­द­र्श­नात् । यद्यपि मुमुक्षुत्वे सत्य­न्य­ध­र्मा­भा­वा­प­रा­धेन प्रवृत्त्यभावो न दृष्टचरस्तथापि मुमु­क्षु­त्व­स्व­रू­पो­पा­धि­त्वा­द­न्ये­षा­म­धि­का­र­नि­मि­त्त­त्व­म­नि­वा­र्यम् । न हि नित्या­नि­त्य­व­स्तु­वि­वे­का­भावे सती­हाऽ­मृ­त्रा­र्थ­फ­ल­भो­ग­वि­राग उपपद्यते । नाऽपि तस्मिन्नसति शमादियुक्तत्वेन मुमुक्षुत्वं सम्भवति । अतः पूर्वपूर्व उत्तरोत्तरस्य स्वरूपोपाधिः ।

नन्वेवं सति न कस्याऽपि स्वरूपं सिध्येद्, मूलकारणस्य नित्या­नि­त्य­व­स्तु­वि­वे­क­स्याऽ­स­म्भ­वात् । न हि नित्यं नाम किञ्चिदस्ति यस्याऽ­नि­त्या­द्वि­वेकः स्यात् । न च सर्वानित्यत्वे मानाभावः, विमतं सर्वमनित्यम्, सत्त्वाद्, घटादिवत्, इति चेद्, मैवम्; कार्य­जा­त­स्यो­त्प­त्ति­वि­ना­शा­भ्या­मे­वो­पा­दा­न­स्यै­क­स्याऽ­नादेः कूट­स्थ­स्याऽ­व­धि­भू­तस्य नित्यत्वसिद्धेः । तथा हि न तावत् कार्यं निरु­पा­दा­न­मु­प­प­द्यते, अनुभवविरोधात् । अत उपा­दा­न­म­ङ्गी­का­र्यम् । उपादानत्वं च कार्यान्तरस्य न सम्भवति । तथा सति कार्या­नु­ग­त­स्यै­वो­पा­दा­न­त्व­नि­य­मात् पूर्व­पू­र्व­का­र्या­नु­वे­ध­स्यो­त्त­रो­त्त­र­का­र्येऽ­भ्यु­प­ग­न्त­व्य­त्वा­च्च­रमे कार्येऽ­न­न्त­पू­र्व­का­र्या­णा­म­नु­गतिः प्रसज्येत । न चैवमुपलभ्यते अतोऽनाद्येव तदुपादानम् । तस्य चैकस्यैव सर्व­का­र्यो­त्पा­द­क­त्व­स­म्भ­वेऽ­ने­क­त्व­क­ल्पने गौर­वा­दे­क­त्व­म­भ्यु­पे­यम्, कूटस्थत्वं चाऽवि­का­रि­त्वाद्, विकारित्वे च कार्य­त्व­प्र­स­ङ्गात् । तच्च कूटस्थवस्तु विनश्यतो विका­र­जा­त­स्याऽ­वधिः । अन्यथा निरवधिकविनाशे सत्यु­पा­दा­ना­स­म्भ­वा­द्व­र्त­मा­न­सृ­ष्टि­रेव न सिध्येत् । अतः कूटस्थं वस्तु नित्यमिति नित्या­नि­त्य­व­स्तु­वि­वे­क­सिद्धौ तत्कार्यो मुमु­क्षु­त्वान्तो धर्मकलापोऽपि सिध्य­न्नाऽ­धि­का­रिणं ब्रह्मविचारे प्रवर्तयति । यस्तू­क्त­सा­ध­न­स­म्प­द्वि­र­हेऽपि दैववशात् कुतूहलाद्वा बहु­श्रु­त­त्व­बुद्ध्या वा तत्र प्रवर्तते, स प्रवृ­त्तोऽ­प्य­न­न्त­र्मु­ख­चेता बहि­रे­वाऽ­भि­नि­वि­श­मानो निर्विचिकित्सं ब्रह्मा­त्म­त्वे­नाऽ­व­गन्तुं न शक्नोति । तस्मा­द्व­र्णि­त­व­स्तु­क­ला­पा­न­न्त­र्य­म­थ­श­ब्दार्थः । अत्र भास्करः प्रललाप, विचा­र­क­र्त्त­व्यतां प्रतिपद्यमानस्य किल सूत्रकारस्य शमादयो न बुद्धिसमारूढाः । न चाऽबु­द्धि­स­मा­रू­ढ­म­र्थ­म­धि­का­रि­वि­शे­ष­ण­त­यो­पा­दा­तु­म­र्हति; धर्मविचारस्तु बुद्ध्या­रू­ढोऽ­धि­का­रि­वि­शे­ष­ण­त­यो­पा­दी­यत इति । नैतद्युक्तम्; शमादीनां विचा­र­वि­धि­प्र­क­र­ण­प­ठि­त­तया सन्नि­हि­त­त­रा­णा­म­बु­द्ध्या­रो­हा­यो­गात् । न च तेषा­म­त्राऽ­नु­प­योगः; विधि­प्र­यु­क्ता­धि­का­र्य­नु­ब­न्धान्तः पातित्वात् । दर्शि­त­श्चाऽ­न्व­य­व्य­ति­रे­काभ्यां तेषां विचारोपयोगः । न च तथा धर्मविचारः सन्निहिततरः । भिन्न­प्र­क­र­णो­पा­त्त­ध­र्म­वि­ष­य­त्वात् । नाऽप्य­सा­व­त्रो­प­यु­ज्यत इति पूर्वमेव समर्थितम् । तस्मादस्मादुक्त एवाऽथशब्दार्थ इति सिद्धम् । अतः शब्दो हेत्वर्थः । नन्वथशब्द एवा‌ऽऽ­न­न्त­र्या­भि­धा­न­मु­खेन हेतुतया पूर्ववृत्तमर्थं गमयतीत्युक्तं तेन पुनरुक्तिः । न च वाच्यं हेतुत्वं नाऽथ­श­ब्दे­नाऽ­भि­धी­यते किन्त्वर्थात् प्रतीयते । अत्र त्वतः शब्देनाऽभिधीयते तेन न पुनरुक्तिरिति । अर्थात् प्रतीतस्याऽपि तात्प­र्य­वि­ष­य­त­याऽ­थ­श­ब्दा­र्थ­त्वाद् “यत्परः शब्दः स शब्दार्थः” इति न्यायात् । न चाऽथ­श­ब्द­स्याऽऽ­न­न्त­र्य­मात्रे विधेये तात्पर्यं सम्भवति, वैय­र्थ्य­प्र­स­ङ्गात् । तस्मा­दा­र्थि­केऽपि हेतु­त्वेऽ­थ­श­ब्दस्य तात्पर्ये सत्यथातःशब्दयोः पुन­रु­क्ति­र्दु­ष्प­रि­हरा । नैष दोषः; अथशब्देन साधनचतुष्टयस्य विचारहेतुत्वे परिगृहीते तस्याऽ­नि­र्वा­हा­श­ङ्कायां तन्निराकरणेन हेतु­त्व­नि­र्वा­हा­याऽतः शब्दोपादानात् । तथाहि स्वर्गादीनां कृत­क­त्व­प­रि­च्छि­न्न­त्वा­दि­हे­तु­भि­र­नि­त्य­त्व­म­नु­माय तस्मा­द­नि­त्या­न्नित्यं विवेक्तव्यम् । न चाऽयं विवेकः सुलभः, उक्तहेतूनां प्रध्वं­स­प­र­मा­ण्वा­दा­व­नै­का­न्ति­क­त्वात् । नित्यत्वं च कर्मफलस्य श्रूयते – “अक्षय्यं ह वै चातु­र्मा­स्य­या­जिनः सुकृतं भवति” इत्यादौ । अतः कथं पुरुषार्थात् कर्मफलात् विर­ज्याऽ­पु­रु­षार्थे ब्रह्मज्ञाने पुरुषाः प्रवर्तेरन् । यद्यपि ब्रह्म­ण्या­न­न्दोऽस्ति तथापि नाऽसौ जीवेनोपभोक्तुं शक्यः, स्वाश्र­य­सु­खो­प­ल­ब्धे­रे­वो­प­भो­ग­त्वात् । न च ब्रह्मधर्मस्य सुखस्य जीवा­श्र­य­त­यो­प­लब्धिः सम्भवति, लोकेऽ­न्य­सु­ख­स्याऽ­न्या­श्र­य­त्वा­द­र्श­नात् । अथ सुखा­प­रो­क्ष्य­मा­त्र­स्यो­प­भो­गत्वे व्यभिचाराभावात् स्वाश्रयविशेषणं व्यर्थमिति मन्यसे, एवमपि जीव­ब्र­ह्म­णो­र्भेदे ब्रह्मा­न­न्दा­प­रो­क्ष्य­म­नु­प­प­न्नम्, पुरु­षा­न्त­रा­न­न्द­स्याऽऽ­प­रो­क्ष्या­द­र्श­नात् । जीव­ब्र­ह्म­णो­र­भे­द­स्त्व­नु­भ­व­वि­रुद्धः, अतो मोक्षा­न्नि­रा­न­न्दा­द्वि­र­ज्याऽ­ल्प­दुः­ख­मि­श्रि­तेऽपि विषयानन्दे पुरुषः प्रवर्तते, “नह्य­जी­र्ण­भ­या­दा­हा­र­प­रि­त्यागः, किन्तु प्रति­वि­धा­त­व्यम्” इति न्याया­दि­त्य­थ­श­ब्द­प­रि­गृ­ही­तोऽर्थो न निर्व­ह­ती­त्या­श­ङ्क्येत; सेयमाशङ्का न कर्तव्या, यस्माद्वेद एव ब्रह्म­व्य­ति­रि­क्त­पु­रु­षा­र्थ­जा­त­स्याऽ­नि­त्यतां दर्शयति – “तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते” इत्यादिः । न चेयं सामा­न्य­श्रु­ति­श्चा­तु­र्मा­स्या­दि­वि­शे­ष­श्रु­ति­वि­ष­या­द­न्य­त्रैव व्यवतिष्ठतामिति वाच्यम्, तत्र ताव­च्चा­तु­र्मा­स्य­श्रुतिः सुकृ­त­स्यै­वाऽ­क्ष­यत्वं ब्रूते न तत्फलस्य । न च सुकृ­ता­क्ष­य­क­थ­न­मु­खेन तत्फलाक्षयत्वे वाक्य­ता­त्प­र्य­मिति कल्पयितुं शक्यम्, प्रमाणविरोधात् । परि­च्छि­न्न­त्वा­दि­हे­तुभिः फला­नि­त्य­त्वा­नु­मा­नात् । न च तेषा­म­नै­का­न्ति­क­त्वम्, परमाण्वादावपि नित्य­त्वा­स­म्प्र­ति­पत्तेः । न चाऽक्षये सुकृते सति तत्फलस्य क्षयानुपपत्तिः, अनु­प­भो­ग­व­दु­प­पत्तेः । सत्येव हि सुकृते क्वचित् फलं नोपभुज्यते, “कदाचित् सुकृतं कर्म कूटस्थमिव तिष्ठति” इति स्मृतेः । तथा फलस्य क्षयोऽपि किं न स्यात् ? नापि “हिरण्यदा अमृतत्वं भजन्ते” इत्या­दि­श्रु­त्य­न्त­रेषु फलनित्यत्वं सुसंपादम् । अत्राऽ­प्य­नु­मा­ना­नु­गृ­ही­तया सामान्यश्रुत्या विरोधस्य तादवस्थ्यात् । तस्मा­न्नि­त्या­नि­त्य­व­स्तु­वि­वे­क­पू­र्व­म­नि­त्येभ्यो ब्रह्म­व्य­ति­रि­क्त­पु­रु­षार्थे वैरा­ग्य­मु­प­प­न्नम् । न च ब्रह्मज्ञानं न पुरुषार्थः; आन­न्द­सा­क्षा­त्का­र­त्वात् । जीव­ब्र­ह्म­णो­र­भे­दस्य प्रथमवर्णके प्रति­बि­म्ब­दृ­ष्टा­न्तेन साधितत्वात् सम्भवत्येव तत्साक्षात्कारः । न च नित्ये जीवस्वरूपभूते ब्रह्मानन्दे विवदितव्यम्, जीवे पर­प्रे­मा­स्प­द­त्वस्य कदा­चि­द­प्य­न­पा­यात् । सुखसाधनानां तद­भि­व्य­क्ति­मा­त्रो­प­क्ष­यात् । अन्यथा साधनानां सुखं प्रति जन­क­त्व­म­भि­व्य­ञ्ज­कत्वं चेति गौरवात् । एवं च सकलविषयसुखानां ब्रह्मा­न­न्द­ले­श­तया परमानन्दरूपे ब्रह्मणि दुःखसागरात् संसारे उद्विग्नाः प्रवर्तन्ते । तदे­व­मु­क्त­श­ङ्का­नि­रा­क­र­णे­नाऽ­थ­श­ब्दा­र्थ­नि­र्वा­हा­याऽ­तः­शब्द इत्यनवद्यम् । ब्रह्म­जि­ज्ञा­सेति पदेन “ब्रह्मणो जिज्ञासा” इति षष्ठी­स­मा­सोऽ­व­ग­न्तव्यो न तु धर्माय जिज्ञासा धर्म­जि­ज्ञा­से­ति­व­च्च­तु­र्थी­स­मासः । तत्र ह्यन्त­र्णी­त­वि­चा­रा­र्थ­प्रा­धा­न्य­मा­श्रित्य प्रयोजनविवक्षया धर्मायेति चतुर्थीसमास आश्रितः । न हि विचारस्य यत्प्रयोजनं तदेव कर्म, येन धर्मस्येति कर्मणि षष्ठी प्राप्नुयात् । अत्र तु शब्दोपात्तं ज्ञाने­च्छा­प्रा­धा­न्य­मा­श्री­यते, इच्छायाश्च यदेव कर्म तदेव प्रयोजनम्, तेन कर्मणि षष्ठी तादर्थ्ये चतुर्थी च प्राप्ता । तत्र स्वरू­प­सि­द्ध­हे­तु­तया प्राधान्यात् कर्मणि षष्ठी­मे­वाऽऽ­श्रित्य समासो दर्शितः । अत्र वृत्तिकाराः – ब्रह्मशब्देन जाति­जी­व­क­म­ला­स­न­श­ब्द­रा­शी­ना­म­भि­धे­य­ता­मा­श­ङ्क्येत्थं निराकुर्वन्ति । न खलु जात्यादीनामत्र कर्तव्यतया कर्तृतया वाऽन्वयः सम्भवति । न तावद् ब्राह्मणजातेः कर्मत्वम्, प्रत्य­क्ष­सि­द्ध­तया जिज्ञा­स्य­त्वा­यो­गात् । नाऽपि कर्तृत्वम्, जिज्ञा­सा­या­स्त्रै­व­र्णि­का­धि­का­र­त्वात् । नाऽपि जीवो जिज्ञास्यः, अहं­प्र­त्य­य­सि­द्ध­त्वात् । यद्यपि तस्य कर्तृत्वमस्ति तथापि तदुपादानं व्यर्थम्, अन्यस्य कर्तृ­त्व­प्र­स­ङ्गा­भा­वात् । न च शब्द­रा­शे­र्वे­द­स्याऽ­चे­त­नस्य कर्तृत्वं सम्भवति, नाऽपि तस्य कर्मत्वम्, धर्म­जि­ज्ञा­सौ­त्प­त्ति­क­सू­त्राभ्यां तस्याऽ­र्थ­व­त्त्व­प्र­मा­ण­त्व­यो­र्नि­रू­पि­त­त्वात् । हिर­ण्य­ग­र्भ­स्यापि न जिज्ञास्यत्वं तत्पदादपि विरक्तस्य जिज्ञासोपदेशात् । न च तस्य कर्तृत्वम्, ज्ञानवैराग्ययोः सहसिद्धत्वादिति । सोऽयं वृत्ति­का­र­प्र­यासो व्यर्थः, “जन्माद्यस्य यतः” इति वक्ष्य­मा­ण­ल­क्ष­णस्य ब्रह्मणो जात्यादिशङ्काया अनुदयात् ।

नन्वेवमपि ब्रह्मण इति नेयं कर्मणि षष्ठी भवितुमर्हति, तथात्वे ब्रह्म­स्व­रू­प­मा­त्रस्य विचार्यत्वेन प्रति­ज्ञा­सि­द्धा­व­प्य­न्यस्य तदसिद्धेः । यदा तु सम्बन्धसामान्ये षष्ठी परिगृह्यते तदा ब्रह्म­स­म्ब­न्धिनां स्वरू­प­प्र­मा­ण­यु­क्ति­सा­ध­न­फ­लानां सर्वेषां विचारप्रतिज्ञा सिद्ध्यति । अथ मतम् – कर्मणि षष्ठ्यां सत्यां जिज्ञा­सा­पे­क्षितं जिज्ञास्यं निर्दिष्टं भवति नाऽन्यथा, न च तदन्तरेण जिज्ञासा सुनिरूपेति, तन्न; सम्ब­न्ध­सा­मा­न्य­ष­ष्ठी­प­क्षेऽपि ब्रह्मणः कर्मत्वलाभात् । न हि सामान्यं विशे­ष­प­र्य­व­सा­न­म­न्त­रेण व्यवहारमालम्बते । तत्र कोऽसौ विशेष इति वीक्षायां सकर्मिकायां जिज्ञा­सा­क्रि­यायां कर्म­का­र­क­स्याऽ­भ्य­र्हि­त­तया कर्मत्वं पर्यवस्यति । तस्मा­त्स­र्व­सं­ग्र­हाय सम्बन्धसामान्ये षष्ठी ग्राह्या न कर्मणीति चेद्, नाऽयं दोषः; कर्मणि षष्ठ्या प्रधाने जिज्ञा­सा­क­र्म­भूते ब्रह्मणि निर्दिष्टे तदपेक्षितानां प्रमा­णा­दी­ना­म­र्थ­सि­द्ध­तया पृथ­ग­व­क्त­व्य­त्वात् । न हि राजा गच्छतीत्युक्ते तद­पे­क्षि­त­प­रि­वा­रस्य गमनं पृथग्वक्तव्यं भवति । एवं चाऽस्मत्पक्षे मुखतः प्रधानविचारः प्रति­ज्ञा­य­तेऽ­र्थ­तोऽन्यः । त्वत्पक्षे तु वैपरीत्येन । ततोऽस्मत्पक्ष एव श्रेयान् । किं च साधिकारस्य विचारविधेः प्रतिपादके “तद्वि­जि­ज्ञा­सस्व” इति श्रुतिवाक्ये ब्रह्मणः कर्म­का­र­क­त्व­नि­र्दे­शात् सूत्रस्य च तदेकार्थतया सूत्रेऽपि ब्रह्मणः कर्मत्वमेव ग्राह्यम्, जिज्ञासापदेन ज्ञातुमिच्छा जिज्ञा­से­त्य­व­य­वार्थ उपादेयः । तथा चेच्छायाः फल­वि­ष­य­त्वा­न्नि­श्च­ला­प­रो­क्षा­व­ग­ति­फ­ल­प­र्य­न्तता सूत्रिता भवति । न च वाच्यं ब्रह्म­ण्य­व­ग­तेऽ­न­व­गते वा न ज्ञानेच्छा प्रसज्यत इति, परो­क्ष­त्वे­नाऽ­प्र­ति­ष्ठि­ता­प­रो­क्ष­त्वेन वाऽवगते निश्च­ला­प­रो­क्षा­व­ग­तये तदिच्छोपपतेः । ननु ज्ञानं नाम प्रमाणफलं संवेदनमिति सुग­त­प्रा­भा­क­र­वै­शे­षि­क­नै­या­यिकाः । संवि­ज्ज­न­क­प्र­मा­तृ­व्या­पार इति वार्तिककारीयाः । आत्म­चै­त­न्य­मे­वैति क्षप­ण­क­लौ­का­य­तिकाः । ज्ञायतेऽनेनेति कर­ण­व्यु­त्पत्त्या बुद्धि­वृ­त्ति­र्ज्ञा­नम्, भाव­व्यु­त्पत्त्या तु संवेदनमेवेति साङ्ख्य­वे­दा­न्तिनः । तत्र कीदृशं ज्ञानमिष्यत इति चेद्, उच्यते – न ताव­त्सु­ग­ता­दि­च­तु­ष्ट­यस्य लोकायतस्य च पक्ष उपपन्नः, तैर्जन्यस्याऽपि फलभूतसंवेदनस्य कर्तृ­व्या­पा­र­पू­र्व­क­त्वा­न­भ्यु­प­ग­मात्; विमतं कर्तृ­व्या­पा­र­पू­र्व­कम्, फलत्वाद्, ग्राम­प्रा­प्ति­व­दि­त्य­नु­मा­न­वि­रो­धात् । एतेन क्षप­ण­क­प­क्षोऽ­प्य­पास्तः । यद्यपि तत्पक्षे संवेदनं स्वरूपेणाऽजन्यं तथापि विष­या­व­भा­सि­त्वो­पा­धिना तज्ज­न्मा­भ्यु­पे­यम् । अन्यथा सर्वदा सर्व­वि­ष­या­व­भा­स­प्र­स­ङ्गात् । ननु सर्वगतस्य निर­व­य­व­स्याऽऽ­त्मनो न परि­स्प­न्द­प­रि­णामौ व्यापारौ युक्तौ । सत्यम्, अत एव वार्तिककारीयं मतमुपेक्षणीयम् । अस्मन्मते त्वध्या­स­प­रि­नि­ष्प­न्ना­न्तः­क­र­ण­स­म्पि­ण्डि­त­स्याऽऽ­त्मनो ज्ञाना­का­र­प­रि­णामो युज्यते । न च तादृगात्मनः संवेदनाकारेणैव परि­णा­मोऽ­स्त्विति वाच्यम्, संवेदनस्य स्वरूपतो नित्य­सि­द्ध­त्वात् । न चैवं संवे­द­न­स्याऽ­ज­न्यस्य फलत्वासम्भवः, तस्य जन्माङ्गीकारात् । यद्यप्यन्तः करणपरिणामाः सर्वेऽपि साक्षि­वे­द्य­त्वा­द­प­रो­क्षा­स्त­थापि विषयेण सहाऽ­प­रो­क्ष­हे­तु­र­न्तः­क­र­ण­प­रि­णा­मोऽ­प­रो­क्ष­ज्ञा­न­मि­त­र­त्प­रो­क्ष­मिति तद्विवेकः । तत्रै­ता­दृ­श­म­न्तः­क­र­ण­प­रि­णा­म­रू­प­म­प­रो­क्ष­ज्ञानं सूत्रेऽ­स्मि­न्नि­ष्य­मा­ण­तया निर्दिष्टम् ।

नन्वे­त­त्प्र­थ­म­सूत्रं यदि शास्त्रेऽ­न्त­र्भूतं तदानीमस्य स्वेनै­वाऽऽ­र­म्भ­सि­द्धा­वा­त्मा­श्र­य­ता­पत्तिः । अन्येन चेदनवस्था । अथाऽनन्तर्भूतं तर्ह्य­स्याऽ­ना­र­म्भ­प्र­सङ्ग इति चेद्, नैष दोषः; स्वाध्या­या­ध्य­य­ना­दा­पा­त­प्र­ति­पन्नः श्रवणविधिरेव स्वापे­क्षि­ता­नु­ब­न्ध­त्र­य­वि­चा­राय प्रथ­म­सू­त्र­मा­र­म्भ­यति । तथा च वक्ष्य­मा­ण­कृ­त्स्न­शा­स्त्र­प्र­यो­ज­क­वि­धि­नैव प्रयो­ज्य­त्वा­दस्य शास्त्रा­न्त­र्भावः । अपौ­रु­षे­य­वि­धि­प्र­यु­क्त­त्वा­न्नाऽ­न­वस्था । श्रवणविधिर्यदि स्वनिर्णयाय प्रथ­म­सू­त्र­मे­वा­र­म्भ­येत् तर्ह्यु­त्त­र­सू­त्र­स­न्द­र्भ­स्याऽऽ­र­म्भकं किं स्यादिति न शङ्कनीयम्, प्रथ­म­सू­त्र­नि­र्णी­तेन तेनैव विधिना तदारम्भोपपत्तेः । अत एव तद्वि­धि­नि­र्ण­यस्य सूत्रस्य शास्त्रादित्वं सम­न्व­या­द्य­ध्या­य­स­ङ्ग­ति­श्चाऽस्य सुलभा, श्रोत­व्या­दि­वा­क्यानां स्वार्थे समन्वयद्वारेण विचा­र्य­मा­ण­वे­दा­न्त­वा­क्या­ना­मपि ब्रह्मणि सम­न्व­य­नि­मि­त्त­त्वात् । अत्र च सूत्रेऽ­नु­वा­द­प­रि­हा­राय कर्त­व्य­प­द­म­ध्या­हृ­त्ये­ष्य­मा­ण­ज्ञा­नस्य फलभूतस्य स्वत एव सम्पा­द्य­त­याऽ­व­ग­तस्य विधेयत्वायोगात् । तदु­पा­य­म­न्त­र्णी­त­वि­चा­र­मु­प­लक्ष्य ब्रह्मज्ञानं प्रत्य­दृ­ष्ट­स्याऽपि साध­न­त्वा­द्वि­धि­मु­प­पा­द्ये­ष्ट­सा­ध­न­ता­वि­धि­पक्षं स्वीकृत्य मुमुक्षुणा ह्यानुभवाय विचारः कर्तव्य इति श्रौतो वाक्यार्थः कथनीयः । कथिते च तस्मिन् सम्ब­न्ध­वि­ष­य­प्र­यो­ज­ना­न्य­र्था­द­व­ग­म्यन्त इति स्थितम् ॥
इति विव­र­ण­प्र­मे­य­स­ङ्ग्रहे प्रथमसूत्रे तृतीयवर्णकं समाप्तम् ॥

अथ चतुर्थं वर्णकम्

तृतीयवर्णके सूत्र­प­द­वा­क्यार्थ ईरितः ।
अधिकार्यथशब्देन तत्र साक्षा­त्प्र­सा­धितः ॥ १ ॥

सूत्रितं त्रितयं त्वेतत्सम्बन्धो विषयः फलम् ।
चतुर्थे वर्णके सर्वं तदाक्षिप्य निरूप्यते ॥ २ ॥

प्रथमे वर्ण­केऽ­ध्या­स­मा­श्रि­त्यै­त­त्प्र­सा­धि­तम् ।
अस्मिंस्तु वर्णके साक्षा­त्त­दे­वा­क्षिप्य साध्यते ॥ ३ ॥

ननु ब्रह्मस्वरूपं यदि मानान्तरेषु प्रतिपन्नं तदा नाऽस्य शास्त्रस्य विषयो भवितुमर्हति, अन­धि­ग­ता­र्थ­त्वा­भा­वात् । नापि तदवगमोऽस्य प्रयोजनम्, एत­च्छा­स्त्रा­त्प्रा­गेव सिद्धत्वात् । अथाऽप्रतिपन्नं तदाऽ­त्य­न्त­म­बु­द्ध्या­रू­ढे­नाऽ­र्थेन कथमिदं शास्त्रं सम्बध्येत । यद्यपि प्रत्य­क्षा­दि­क­म­त्य­न्ता­दृ­ष्ट­च­रे­णाऽ­प्य­र्थेन सम्बध्यमानं दृष्टं तथापि विचारात्मकस्य शास्त्रस्य न तत्संभवति । सर्वत्राऽऽपाततः प्रतिपन्नस्यैव विचा­र­स­म्ब­न्ध­द­र्श­ना­दिति चेत्, एवं तर्हि ब्रह्म­णोऽ­प्य­ध्य­य­ना­दा­पा­ता­प्र­ति­प­न्न­स्या­नि­र्णी­तस्य विषयस्य विचा­र­शा­स्त्र­स­म्बन्धे सति तदवगमः फलमिति न कोऽपि दोषः । ननु विष­य­प्र­यो­ज­न­स­म्बन्धा नाऽत्र प्रतिपादनीया वक्ष्य­मा­ण­स­म­न्व­या­ध्या­या­दि­भि­रेव तत्सिद्धेः । न च तदप्रतिपादने श्रोतॄ­णा­म­प्र­वृत्तिः, शास्त्र­प्र­णे­तृ­गौ­र­वा­देव विष­या­दि­स­द्भा­व­नि­श्च­येन प्रवृ­त्ति­स­म्भ­वात् । मैवम्, सामान्यतो विष­या­दि­स­त्त्व­नि­श्च­येऽपि स्वाभि­प्रे­त­प्र­यो­ज­न­वि­शे­षा­न­व­गमे प्रवृ­त्त्य­यो­गात् । ननु तर्हि प्रवृ­त्त्य­ङ्ग­तया प्रयोजनविशेष एव वक्तव्यो न विशेषसम्बन्धौ । अथ विषयोऽपि प्रयोजनसाधनतया प्रवृत्त्यङ्गं तथापि प्रयोजनावगमादेव सोऽवगम्यते, तत्सम्बन्धिन एव विषयत्वनियमात् । लोके द्वैधी­भा­वा­ख्य­प्र­यो­ज­न­स­म­वा­यिन एव काष्ठस्य च्छिदि­क्रि­या­वि­ष­य­त्वात् । विष­य­वि­ष­यि­प्र­तीतौ तत्सम्बन्धोऽपि प्रतीयत एवेति न सोऽपि पृथग्वक्तव्य इति चेत्, मैवम्; तत्र किं प्रयो­ज­न­वि­ष­य­स­म्ब­न्धानां स्वरू­प­तोऽ­त्य­न्त­भे­दा­भा­वात् पृथ­ग्व­क्त­व्य­त्वा­भावः, किं वाऽन्य­त­रा­भि­धा­ने­ने­त­र­यो­र­र्थ­सि­द्ध­त्वाद्, उत प्रत्येकमेव स्वातन्त्र्येण प्रवृ­त्ति­स­म­र्थ­तया सम्भूय प्रवृ­त्त्य­ङ्ग­त्वा­भा­वात् ? नाऽऽद्यः, पुरुषार्थरूपं प्रयोजनम्, अनन्यथासिद्धो विषयः, एत­त्प्र­ति­पा­द्यत्वं सम्बन्ध इत्येवमेषां भिन्नत्वात् । तत्र विष­य­त्व­म­न्य­यो­ग­व्या­वृ­त्ति­रू­प­म­यो­ग­व्या­वृ­त्ति­रू­पश्च सम्बन्ध इति तयोर्विवेकः । न द्वितीयः, सत्य­प्ये­क­स्मि­न्नि­त­रा­भा­व­द­र्श­ने­नाऽ­र्थ­सि­द्ध्य­यो­गात् । दृश्यते हि काकदन्तानां ग्रन्था­न्त­रे­णाऽ­सि­द्ध­तया विषयत्वे प्रतिपादयितुं शक्यतया सम्बन्धे च सत्यपि तद्विचारणायां प्रयोजनाभावः । तथा परि­प­क्व­क­द­ली­फ­ल­त्व­गु­त्पा­ट­ना­दिषु कुठारदात्रादिना साधयितुं शक्यतया सम्बन्धे पुरु­षै­र­पे­क्ष्य­तया प्रयोजने सत्यपि न कुठा­रा­दि­व्या­पा­र­वि­ष­य­त्व­मस्ति, अङ्गु­ल्या­दि­भि­रेव तदु­त्पा­ट­न­सिद्धेः । एव मेर्वा­दे­र­न्यै­रा­ना­नी­त­तया विषयभूतस्य सप्र­यो­ज­न­स्याऽ­प्य­स्म­दा­दि­क­र्तृ­का­न­य­न­व्या­पा­रेण न सम्बन्धं पश्यामः, अयोग्यत्वात् । तदेवं पर­स्प­र­व्य­भि­चा­रिषु नाऽस्त्य­र्थ­सि­द्धि­श­ङ्काऽपि । न तृतीयः, उक्त­त्र­य­मे­ल­न­म­न्त­रेण प्रवृ­त्त्य­भा­वात् । न हि काकदन्तविचारे कद­ली­फ­ला­द्यु­त्पा­ट­नाय कुठारादौ मेर्वाद्यानयने वा पुरु­ष­प्र­वृ­त्ति­रु­प­ल­भ्यते ।

स्यादेतत्, ब्रह्मस्वरूपं वेदान्तानामेव विषयो न विचा­र­शा­स्त्रस्य, प्रमा­ण­प्र­मे­या­दि­स­म्भा­व­ना­हे­तु­भू­त­न्या­यानां तद्विषयत्वात् । अत्र सिद्धा­न्ता­भि­ज्ञं­मन्यः परिजहार – विमतं विचारशास्त्रं वेदा­न्तै­र­भि­न्ना­र्थम्, तदि­ति­क­र्त­व्य­त्वाद्, यथा दर्श­पू­र्ण­मा­सा­भ्या­मे­क­वि­षयं तदितिकर्तव्यं प्रयाजादि यथा वा बीजेन सहैककार्यजनकं तत्सहकारिभूतं जलभूम्यादि । यद्यपि विचारशास्त्रेण न्याया एव साक्षा­त्प्र­ति­पा­द्य­माना उपलभ्यन्ते तथापि ब्रह्मणः परम्परया विषयत्वं भविष्यति; यथा छेत्तु­र्ह­स्त­व्या­पारः साक्षात् कुठारमेव विष­यी­कु­र्वा­णोऽपि परम्परया काष्ठमपि विषयीकरोति तद्वदिति । नाऽयं पण्डितंमन्यस्य परिहारः समीचीनः, विचारस्य वेदा­न्ते­ति­क­र्त­व्य­त्वा­सिद्धेः । यथा प्रया­जा­दे­रि­ति­क­र्त्त­व्य­ता­या­मा­गमो मानं यथा वा जलभूम्यादेः सह­का­रि­त्व­म­न्व­य­व्य­ति­रे­क­सिद्धं न तथा विचा­र­स्ये­ति­क­र्त­व्यत्वे किञ्चि­न्मा­न­मस्ति । न चेति­क­र्त­व्य­त्व­शू­न्यस्य वेदान्तशब्दस्य ब्रह्मावगमं प्रति कथं करणतेति शङ्कनीयम्, शब्दोपलब्धेः शक्ति­ज्ञा­न­सं­स्का­रस्य च तदि­ति­क­र्त­व्य­त्वात् । विचारोऽपि दोषनिराकरणेन ब्रह्म­प्र­मि­ति­हे­तु­तया शब्दं प्रति इतिकर्तव्यतां भजत्विति चेद्, न; वैदिकशब्दे दोषाभावात् । न चैवं विचा­र­वै­य­र्थ्यम्, पुरु­ष­दो­ष­नि­रा­स­हे­तु­त्वात् । पुरुषदोषश्च द्विविधः – शब्द­श­क्ति­ता­त्प­र्या­न्य­था­व­धा­रणं प्रत्य­क्षा­दि­वि­रो­ध­बु­द्धिश्च । तत्र लौकिकप्रयोगेषु ग्रामेऽ­स्मि­न्न­य­मेक एवाऽद्वितीयः प्रभुरित्यादिषु सजा­ती­य­मा­त्र­नि­वा­रणे शक्ति­ता­त्प­र्य­म­व­लोक्य वैदिकप्रयोगेऽपि तथैवाऽवधारयति । तदे­व­द­न्य­थाऽ­व­धा­रणं समन्वयविचारेण निरसिष्यते विरो­ध­बु­द्धि­श्चाऽ­वि­रो­ध­वि­चा­रेण । एवं च प्रतिबन्धनिवारण एवोपक्षीणस्य विचारस्य कथं ब्रह्म प्रमितिहेतुता ? तस्माद् न विचा­र­शा­स्त्र­वि­षयो ब्रह्मेति ।

अत्रोच्यते – शब्दा­दे­वो­त्प­न्न­मपि ब्रह्मज्ञानं प्रति­ब­न्ध­नि­वृत्तौ सत्यामेव प्रतितिष्ठति, न तु ततः पूर्वम् । तथा च प्रति­ब­न्ध­नि­रा­सिनो विचारस्य ब्रह्म­नि­र्ण­य­हे­तु­त्वाद् ब्रह्म­वि­ष­य­त्व­मु­प­प­द्यते । अत्र केचिदाहुः – विचा­रा­व­ग­म्य­ता­त्प­र्य­स्याऽ­र्थ­प्र­मि­ति­हे­तु­त्वा­द्वि­चा­रोऽ­प्य­र्थ­प्र­मि­ते­रेव हेतुर्न प्रति­ब­न्ध­नि­रा­स­स्येति । तदसत्, किं तात्प­र्य­म­वि­ज्ञा­त­मे­वाऽ­र्थ­प्र­मि­ति­हे­तु­रुत विज्ञातम् ? नाऽऽद्यः, सर्वत्र लौकिकवाक्येषु तात्प­र्या­व­ग­म­फ­ल­क­वि­चा­र­वै­य­र्थ्या­पा­तात् । अनवगतेऽपि तात्प­र्येऽ­न्य­था­प्र­ति­प­त्त्य­भा­वात् । द्वितीयेऽपि न तावत् तात्पर्यं पदार्थविषयम्, तस्य वाक्या­र्थ­प्र­ती­ता­व­नु­प­यो­गात् । वाक्या­र्थ­वि­ष­यत्वे चाऽन्यो­न्या­श्र­य­त्वम् – विष­य­भू­त­वा­क्या­र्थस्य विशेषणस्याऽवगतौ “तद्वि­शि­ष्ट­ता­त्प­र्या­व­ग­ति­स्ता­त्प­र्या­व­गतौ च वाक्या­र्थ­प्र­मि­ति­रिति । अथ मन्यसे – पदेभ्यः पदा­र्था­न­व­ग­म्याऽ­न­न्तरं नूनमेषां संसर्गोऽस्ति, सह प्रयु­ज्य­मा­न­त्वात्, इत्यु­त्प्रे­क्षया वाक्यार्थावगतौ नोक्तदोष इति । तदयुक्तम्, तत्र न तावदुत्प्रेक्षा स्मृतिः; अन­व­ग­ता­र्थ­ग­न्तृ­त्वात् । नाऽपि संशयः, कोटिद्वयाभावात् । नाऽपि विपर्ययः, बाधाभावात् । परि­शे­षा­च्छ­ब्द­जन्यो वाक्यार्थबोधः प्रमा­ण­मि­त्ये­वाऽ­भ्यु­पे­यम् । एवं च शब्दस्य तात्प­र्या­व­ग­म­म­न­पेक्ष्य प्रमापकत्वं पूर्वो­क्त­प­र­स्प­रा­श्र­यत्वं वा दुर्वारम् ।

ननु गवादिपदानां गोत्वा­दि­सा­मान्ये व्युत्प­त्ति­व­द्वा­क्या­ना­मपि वाक्या­र्थ­त्व­सा­मान्ये तात्पर्यम्, ततश्च सामान्यस्य पूर्वमेव ज्ञाततया तात्प­र्य­वि­शे­ष­ण­त्व­स­म्भ­वात् तद्विशिष्टं तात्प­र्य­म­व­ग­म्यते । तथा च न तात्पर्येण वाक्या­र्थ­वि­शे­ष­प्र­मितौ पूर्वोक्तदोष इति चेद्, न; वाक्या­र्थ­वि­शे­ष­ता­त्प­र्या­भा­व­प्र­स­ङ्गात् । अथ गोत्ववाचिनो गोशब्दस्य गोव्यक्तौ पर्यवसानवत् सामान्यगोचरमेव तात्पर्यं विशेषे पर्यवस्येद्, एवमपि न तात्प­र्य­म­र्थ­प्र­मि­ति­हेतुः । विमतो वाक्यार्थावगमः शब्द­श­क्ति­मा­त्र­नि­ब­न्धनः, शाब्द­ज्ञा­न­त्वात्, पदार्थज्ञानवत् । यदि च तात्पर्यं वाक्या­र्थ­प्र­मि­ति­हेतुः स्यात् तदा वाक्या­र्थोऽ­शाब्दः स्यात्, तात्प­र्या­मा­त्रात् तत्प्र­मि­ति­सिद्धेः । शब्दा­न्व­य­व्य­ति­रेकौ च शब्दस्य पदा­र्थ­प्र­द­र्श­न­मु­खेन तात्प­र्यो­पा­ध्यु­प­यो­गि­त­याऽ­प्यु­प­प­द्ये­या­ताम् । तस्मात् शाब्दत्वसिद्धये शब्द एवाऽ­र्थ­प्र­मि­ति­हेतुः, तात्पर्यबोधस्तु प्रति­ब­न्ध­नि­रा­सी­त्ये­वाऽ­भ्यु­पे­यम् । एवं च तात्प­र्य­हे­तो­र्वि­चा­र­स्याऽपि प्रति­ब­न्ध­नि­रा­सि­त्वा­दु­प­चा­रे­णैव ब्रह्मविषयत्वम् ।

ननूपचारेणाऽपि न ब्रह्मणो विचारविषयत्वं सम्भवति, आपा­त­प्र­सि­द्धे­रपि दुस्संपादत्वात् । न तावल्लोके प्रसिद्धम्, माना­न्त­रा­गो­च­र­त्वात् । नाऽपि वेदे तत्प्रसिद्धिः, तत्र ब्रह्म­श­ब्द­स्याऽ­न­व­धृ­ता­र्थ­त्वात् । “लोका­व­धृ­त­सा­मर्थ्यः शब्दो वेदेऽपि बोधकः” इति न्याये­नाऽ­व्यु­त्प­न्नस्य शब्दस्य वेदेऽ­प्य­बो­ध­क­त्वात् । मैवम्, वैदि­क­प्र­यो­गा­न्य­था­नु­प­पत्त्या ब्रह्म­श­ब्दा­र्थस्य कस्य­चि­त्स्व­र्गा­दि­वत् कल्प्यत्वात् । प्रसि­द्ध­प­द­स­म­भि­व्या­हा­रस्य स्वर्ग­ब्र­ह्म­वा­क्ययोः समानत्वात् । एवमपि ब्रह्म­श­ब्द­स्याऽ­र्थ­मात्रं सिध्यति न त्वर्थविशेष इति चेद्, न; प्रसि­द्ध­प­द­स­म­भि­व्या­हा­रेण तद­न्व­य­यो­ग्य­स्यै­वाऽ­र्थ­वि­शे­षस्य कल्प्यत्वात् । न च तस्मि­न्वि­व­क्षि­तेऽ­र्थ­वि­शेषे शब्दस्य वृत्त्यसम्भवः । रूढ्या तत्रावर्तमानमपि शब्द­म­व­य­वा­र्थ­व्यु­त्पा­द­नेन वर्तयितुं शक्यत्वात् । एतदर्थमेव सर्वत्र निग­म­नि­रु­क्त­व्या­क­र­णानां प्रवृत्तत्वात् । तथा चाऽत्र “सत्यं ज्ञानमनन्तं ब्रह्म” “अथातो ब्रह्मजिज्ञासा” इति श्रुति­सू­त्र­प्र­यो­गा­न्य­था­नु­प­पत्त्या बाधरहितं चिद्रू­प­म­न्त­शून्यं पुरु­षा­र्थ­प­र्य­व­सा­यि­तया जिज्ञास्यं वस्तु ब्रह्मशब्दार्थ इति कल्प्यते । ब्रह्मशब्दश्च बृह बृहि वृद्धा­वि­त्य­स्मा­द्धा­तो­र्नि­ष्पन्नो महत्त्वमाचष्टे । तच्च महत्त्वं संको­च­क­प्र­क­र­णो­प­प­द­यो­र­भा­वा­न्नि­र­ति­श­य­मेव सम्पद्यते । ततो देशतः कालतो वस्तु­त­श्चाऽ­न्त­शू­न्य­मि­त्युक्तं भवति । तथा बाध्य­त्व­ज­ड­त्वा­पु­रु­षा­र्थ­त्वा­दि­दो­ष­रा­हि­त्य­मपि महत्त्वमेव । लोके दोषरहितेषु गुणवत्सु पुरुषेषु महापुरुषा इति व्यवहारदर्शनात् । ततो व्युत्प­त्ति­व­शाद् यथोक्तेऽर्थे ब्रह्मशब्दो वर्त्तते । जाति­जी­व­क­म­ला­स­ना­दिषु यथो­क्ता­र्था­भा­वेऽपि रूढिवशाद् ब्रह्म­श­ब्द­वृ­त्ति­रु­प­प­द्यते । ननु बृंह­ति­धा­त्व­र्था­नु­ग­म­नेन किं सौत्रस्य ब्रह्म­श­ब्द­स्याऽर्थो वर्ण्यते किं वा श्रौतस्य ? नाऽऽद्यः; पौरु­षे­य­प्र­यो­गस्य मूल­प्र­मा­णा­पे­क्षस्य तदभावे निर्ण­या­नु­प­यो­गात् । अथ श्रुति­र्मू­ल­प्र­माणं तथाऽ­प्यु­त्त­र­सूत्रे जग­ज्ज­न्मा­दि­का­रणं ब्रह्मेति निर्णे­ष्य­मा­ण­त्वा­द­स्मिन् सूत्रे प्रयासो न कर्तव्यः । न द्वितीयः; “यतो वा इमानि भूतानि जायन्ते”, “तद्वि­जि­ज्ञा­सस्व”, “तद् ब्रह्म”, “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादिश्रुतौ स्वय­मे­वाऽ­र्थ­नि­र्ण­यात्; नैष दोषः, प्रथ­म­सू­त्र­प्र­वृ­त्ति­द­शा­या­म­नि­ष्प­न्नस्य द्वितीयसूत्रस्य तद­र्थ­नि­र्ण­य­हे­तु­त्वा­स­म्भ­वात् । श्रुतावपि पदा­र्थ­स्याऽ­न्यतः प्रसि­द्धि­म­न्त­रेण वाक्या­र्थ­प्र­मि­त्य­यो­गा­दु­भ­य­त्राऽपि धात्व­र्था­नु­ग­मे­नाऽ­र्थस्य वर्णनीयत्वात् । धात्वर्थानुगमः सम्भा­व­ना­मा­त्र­बु­द्धि­हे­तुर्न निर्णायक इति चेद्, मा भून्निर्णयः; सम्भा­वि­त­स्याऽ­नि­र्णी­त­स्यै­वाऽ­र्थ­स्याऽत्र जिज्ञा­सा­वि­ष­य­त्वे­नाऽ­पे­क्षि­त­त्वात् ।

अथ विवक्षितस्य ब्रह्म­श­ब्दा­र्थस्य निश्चिता प्रसि­द्धि­र­पे­क्ष्येत, तर्हि साऽपि सम्पाद्यते । आत्मा तावद् “अहमस्मि” इति सर्व­लो­क­प्र­त्यक्षः प्रतीयते, स एव हि ब्रह्म; “स वा अयमात्मा ब्रह्म” इति श्रुतेः । ततश्च प्रति­प­न्न­मु­द्दिश्य विचा­र­स­म्भ­वा­च्छ­क्य­प्र­ति­पा­द्य­त्व­ल­क्षणः सम्बन्धः सिध्यति । तथा चाऽत्य­न्ता­प्र­सि­द्ध्य­भा­वा­द्वि­ष­य­त्व­सिद्धिः । नन्वेवं तर्हि प्रत्य­क्ष­स्याऽपि गोच­र­त्वे­नाऽ­सा­धा­र­ण­त्वा­भा­वा­द्वि­ष­यत्वं न सिध्यतीति चेद्, अह­मि­त्या­त्म­त्व­सा­मा­न्या­का­रेण सर्व­प्र­त्य­क्ष­सि­द्धा­वपि तद्विशेषस्य विप्र­ति­प­द्य­मा­नस्य प्रत्य­क्ष­सि­द्ध्य­यो­गात् । यद्यप्यात्मनि वस्तुतो नाऽस्ति सामा­न्य­वि­शे­ष­भा­व­स्त­थापि यथा रज्जुद्रव्यस्य दण्ड­स­र्प­धा­रा­दा­व­नु­स्यू­त­रू­पेण प्रतीयमानत्वमेव सामान्यं तथाऽऽत्मनोऽपि शरी­रे­न्द्रि­य­म­नो­बु­द्धि­शू­न्य­क­र्तृ­भो­क्तृ­स­र्व­ज्ञ­ब्र­ह्मा­ख्य­प­दा­र्थेषु विप्र­ति­प­त्ति­स्क­न्धे­ष्व­नु­स्यू­त­त्वेन प्रतीयमानत्वं सामान्यं भविष्यति, प्रत्य­क्ष­सि­द्धेऽपि शरीराद्यर्थे प्रयु­ज्य­मा­न­स्याऽऽ­त्म­वा­चि­नोऽहं शब्दस्य गोश­ब्द­व­द­र्थ­वि­प्र­ति­प­त्ति­रु­प­प­द्यते । गोशब्दस्य हि प्रत्य­क्ष­सि­द्ध­व्य­क्त्या­कृ­ति­क्रि­या­गु­णा­द्य­र्थेषु प्रयुज्यमानस्य जातिरर्थत्वेन वैदिकैः प्रतिपन्ना, व्यक्तिः साङ्ख्यादिभिः, उभयं वैयाकरणैः, अव­य­व­सं­स्था­ना­ख्याऽऽ­कृ­ति­रा­र्ह­ता­दिभिः; त्रितयमपि नैयायिकैः । अथ गोशब्दस्य प्रयोगे जात्या­दी­ना­म­न्व­य­व्य­ति­रे­क­नि­य­मात् तदर्थत्वशङ्का, तर्ह्य­हं­श­ब्द­प्र­यो­गेऽपि शरी­रा­दी­ना­म­न्व­य­व्य­ति­रे­क­नि­य­मा­देव तद­र्थ­त्व­श­ङ्काऽस्तु । तत्र विचारविरहितं प्रत्यक्षमेव प्रमाणमाश्रित्य चेतयमानो देह आत्मेति शास्त्र­सं­स्का­र­व­र्जिता जनाः प्रतिपन्नाः । तथा भूत­च­तु­ष्ट­य­मा­त्र­त­त्त्व­वा­दिनो लौकायतिकाश्च “मनुष्योऽहं, जानामि” इति शरी­र­स्याऽ­हं­प्र­त्य­या­ल­म्ब­न­त्वेन ज्ञानाश्रयत्वेन चाऽव­ग­म्य­मा­न­त्वात् तदेवाऽऽत्मेति मन्यन्ते ।

अन्ये पुनरेवमाहुः – सत्यपि शरीरे चक्षु­रा­दि­भि­र्विना रूपा­दि­ज्ञा­ना­भा­वा­दि­न्द्रि­या­ण्येव चेतनानि । न चेन्द्रियाणां करणतया ज्ञाना­न्व­य­व्य­ति­रे­क­यो­र­न्य­था­सिद्धिः, कर­ण­त्व­क­ल्प­ना­दु­पा­दा­न­क­ल्प­न­स्याऽ­भ्य­र्हि­त­त्वात् । अतः काणोऽहं मूकोऽ­ह­मि­त्य­हं­प्र­त्य­या­ल­म्ब­नानि चेत­ना­नी­न्द्रि­याणि प्रत्ये­क­मा­त्म­त्वे­नाऽ­भ्यु­पे­यानि । शरीरे त्वहं­प्र­त्य­या­ल­म्ब­नत्वं चेतनत्वं चाऽऽत्म­भू­ते­न्द्रि­या­श्र­य­त्वा­द­न्य­था­सि­द्धम् । नन्वेकस्मिन् शरीरे बहू­ना­मि­न्द्रि­याणां चेतनत्वे “य एवाऽहं पूर्वं रूपमद्राक्षं स एवेदानीं शब्दं शृणोमि” इति प्रत्यभिज्ञा न स्यात् । तथा भोक्तृत्वं च रूपरसादिषु युगपदेव स्यान्न क्रमेणेति चेद्, मैवम्; न हि चेतनैकत्वं प्रत्य­भि­ज्ञा­क्र­म­भो­ग­यो­र्नि­मि­त्तम्, किन्त्वे­क­श­री­रा­श्र­य­त्व­मेव । ततो यथैकस्मिन् गेहे बहूनां पुरु­षा­णा­मे­कै­कस्य विवा­हेऽ­न्ये­षा­मु­प­स­र्ज­नत्वं तथा इन्द्रि­या­त्म­ना­म­प्ये­कै­क­स्यो­प­भो­ग­का­लेऽ­न्ये­षा­मु­प­स­र्ज­न­त्व­मिति ।

अन्ये तु मन्यन्ते – स्वप्ने चक्षु­रा­द्य­भा­वेऽपि केवले मनसि विज्ञा­ना­श्र­य­त्व­म­हं­प्र­त्य­या­ल­म्ब­नत्वं चोपलभ्यते । न च रूपादिज्ञानानां चक्षु­रा­द्या­श्र­य­त्वम्, तथा सति केवले मनसि रूपा­दि­स्मृ­त्य­नु­प­पत्तेः । ततः करणान्येव चक्षुरादीनि । अहंप्रत्ययस्तु तत्र कर्तृ­त्वो­प­चा­रात् सिध्यति । न चाऽने­का­त्म­स्वे­क­श­री­रा­श्र­य­त्व­मा­त्रेण प्रत्यभिज्ञा युज्यते, एक­प्रा­सा­द­मा­श्रि­ता­ना­मपि तत्प्रसङ्गात् । तस्मात् चक्षुरादि करणं शरीराद्याधारं मन एवाऽऽत्मेति । विज्ञा­न­वा­दि­नस्तु क्षणि­क­वि­ज्ञा­न­व्य­ति­रि­क्त­व­स्तुनः सद्भा­व­म­नु­भ­व­वि­रुद्धं मन्वानास्तस्यैव विज्ञा­न­स्याऽऽ­त्म­त्व­माहुः । प्रत्यभिज्ञा तु ज्वालायामिव सन्त­त­वि­ज्ञा­नो­द­य­सा­दृ­श्या­दु­प­प­द्यते । विज्ञानानां हेतु­फ­ल­स­न्ता­न­मा­त्रा­देव कर्म­ज्ञा­न­ब­न्ध­मो­क्षा­दि­सिद्धिः ।

माध्यमिकस्तु सुषुप्ते विज्ञा­न­स्याऽ­प्य­द­र्श­ना­च्छू­न्य­मे­वाऽऽ­त्म­त­त्त्व­मि­त्याह यदि सुषुप्ते विज्ञानप्रवाहः स्यात्तदा विषयावभासोऽपि प्रसज्येत, निरा­ल­म्ब­न­ज्ञा­ना­यो­गात् । जाग­र­ण­स्वा­प्न­ज्ञा­ना­ना­मेव सालम्बनत्वम्, न सौषु­प्ति­क­ज्ञा­ना­ना­मिति चेद्, न; विशेषाभावात् । विमतं सालम्बनम्, प्रत्ययत्वात्, संमतवत् । उत्थितस्य सौषु­प्त­वि­ष­य­स्मृ­त्य­भा­व­नि­य­मान्न तत्र विषय इति चेत्, तर्हि निय­मे­नाऽ­स्म­र्य­मा­ण­त्वा­देव तत्र ज्ञानमपि मा भूत् । न च शून्ये विवदितव्यम्, यथा सविकल्पकः स्ववि­ष­य­वि­प­री­त­नि­र्वि­क­ल्प­क­ज­न्य­स्तथा सत्प्रत्ययोऽपि स्ववि­प­री­त­प्र­त्य­य­जन्य इत्य­भ्यु­पे­य­त्वात् । एवं चोत्थाने सति जाय­मा­न­स्याऽ­ह­म­स्मीति सत्प्रत्ययस्य सम­न­न्त­र­पू­र्व­प्र­त्य­य­ल­क्ष­ण­का­र­ण­र­हि­तस्य वास्त­व­त्वा­यो­गा­च्छू­न्य­मेव तत्त्वमिति ।

अपरे पुनः शरी­रे­न्द्रि­य­म­नो­वि­ज्ञा­न­शू­न्य­व्य­ति­रिक्तं स्थायिनं संसारिणं कर्तारं भोक्ता­र­मा­त्मा­न­माहुः । न च शून्योऽहं प्रत्यय उपपद्यते, वन्ध्या­पु­त्रा­दा­वपि तत्प्रसङ्गात् । नाऽपि क्षणिकविज्ञाने क्रमभावी व्यवहारो युज्यते, सर्वो हि लोकोऽनुकूलं वस्तु प्रथमतो जानाति, तत इच्छति, ततः प्रयतते, तत­स्त­त्प्रा­प्नोति, ततः सुखं लभते । यद्ये­ता­दृ­श­मे­क­क­र्तृ­क­तया भासमानं व्यव­हा­र­मे­क­स­न्ता­न­व­र्त्तिनो बहव आत्मानः पर­स्प­र­वा­र्ता­न­भिज्ञा अपि निष्पादयन्ति, तदा­भि­न्न­स­न्ता­न­व­र्तिनः किं न निष्पादयेयुः । तस्मात् “य एवाऽहमिदं वस्त्वज्ञासिषं स एवे­दा­नी­मि­च्छामि” इत्या­द्य­बा­धि­त­प्र­त्य­भि­ज्ञा­नि­र्वा­हाय स्थाय्या­त्माऽऽ­भ्यु­पेयः । न चाऽसौ विज्ञानरूपः, अहं विज्ञा­न­मि­त्ये­क­त्वा­नु­भ­वा­भा­वात् । “ममेदं विज्ञानम्” इति हि सम्ब­न्धोऽ­नु­भू­यते । न चाऽयमनुभवो ममा­त्मे­ति­व­दौ­प­चा­रिकः, बाधाभावात् । एतेन शरी­रे­न्द्रि­य­म­न­सा­मा­त्मत्वं प्रयुक्तम् । तत्राऽपि सम्ब­न्ध­प्र­त्य­य­स्याऽ­नि­वा­र्य­त्वात्, अहमुल्लेखस्य तत्राऽ­ध्या­सि­क­त्वात् । स चाऽयमात्मा सादिः, शरी­रो­त्प­त्ति­स­म­न­न्त­र­मेव सुख­दुः­ख­प्रा­प्ति­म­व­लोक्य तद्धेतुभूतयोः पुण्यपापयोः कर्ता पूर्व­म­प्य­स्ती­त्य­व­ग­मात् । न चाऽयमनित्यः, विनाशानिरूपणात् । न तावत् स्वतो विनाशः, निर्हे­तु­क­वि­ना­श­स्याऽ­ति­प्र­स­ङ्गिनः सुग­त­व्य­ति­रि­क्तै­र­न­ङ्गी­का­रात् । नाऽपि परतः, निरवयवस्य विना­श­हे­तु­सं­स­र्गा­स­म्भ­वात् । सम्भवेऽपि वा न विनाशः सिध्येत् । कर्मनिमित्तो ह्यन्यसंसर्गः, स च तत्क­र्म­फ­लो­प­भो­गा­याऽऽ­त्म­नोऽ­व­स्थि­ति­मेव साधयेद्, न विनाशम् । तस्मा­द­ना­दे­र­वि­ना­शि­नोऽ­न­न्त­श­री­रेषु यातायातरूपः संसारः सिद्धः । निर्विकारस्य भोगा­स­म्भ­वा­द्वि­का­रस्य क्रिया­फ­ल­रू­प­स्याऽ­भ्यु­प­गमे क्रियावेशात्मकं कर्तृ­त्व­म­नि­वा­र्यम् । भोक्तृ­त्व­म­प्य­नु­भू­य­मानं शरीरादिषु विज्ञा­न­प­र्य­न्ते­ष्व­नु­प­प­न्न­त्वा­दु­क्ता­त्म­न्येव पर्यवस्यति । तथा हि – शरीरं तावत् पञ्च­भू­त­स­ङ्घा­त­रू­पम्, “पञ्चभूतात्मके तात ! शरीरे पञ्चतां गते” इत्या­दि­शा­स्त्रात् । यत्तु नैयायिको मन्यते – भूलोकवासिनां शरीरं पार्थिवमेव, तत्र क्लेद­ना­द्यु­प­ल­ब्धि­र्व­स्त्रा­दा­विव भूता­न्त­रो­प­ष्ट­म्भा­दिति, तदसत्; शोषादिना जलाद्यपगमेऽपि यथा वस्त्रा­दि­स्व­रू­पस्य नाऽपचयस्तथा क्लेद­न­पा­च­न­व्यू­ह­ना­व­का­शा­ना­म­प­ग­मेऽपि शरी­र­स्याऽ­प­च­या­भा­व­प्र­स­ङ्गात् ।

यच्च वैशेषिकैरुच्यते – पञ्च­भू­ता­त्म­कत्वे शरी­र­स्याऽ­प्र­त्य­क्ष­त्व­प्र­सङ्गः, वाय्वा­का­श­यो­र­प्र­त्य­क्ष­तया प्रत्य­क्षा­प्र­त्य­क्ष­वृ­त्ति­त्वा­दिति; तदप्ययुक्तम्, तथा सति सर्वा­व­य­वि­ना­म­प्र­त्य­क्ष­त्वा­पा­तात्, प्रत्य­क्षा­प्र­त्य­क्षा­व­य­व­वृ­त्ति­त्वात् । न हि सूक्ष्माः पर­भा­ग­स्थि­ता­श्चाऽ­व­य­वि­नोऽ­व­यवाः प्रत्य­क्षी­कर्तुं शक्यन्ते । तस्मा­द्भू­त­स­ङ्घातः शरीरम् । न च गन्धादिमतां तद्रहितानां च भूता­ना­मे­क­का­र्य­ज­न­कत्वं न स्यात्, पर­स्प­र­वि­रो­धा­दिति वाच्यम्, तथा सति नीला­दी­ना­मे­का­व­य­वि­ज­न­क­त्व­स्यै­क­चि­त्र­रू­पा­र­म्भ­क­त्वस्य चाऽस­म्भ­व­प्र­स­ङ्गात् । अनुभवबलादेव तत्र तथा स्वीकारे प्रकृतेऽपि तन्न दण्डवारितम् । तत्र शरीरस्य भोक्तृतां वदन्तो लोकायताः प्रष्टव्याः – किं व्यस्तानां भूतानां प्रत्येकं भोक्तृत्वम् उत समस्तानाम् ? आद्येऽपि न तावद्युगपत् सर्वेषां भोक्तृता, तदा स्वार्थ­प्र­वृ­त्तानां तेषा­म­न्यो­न्य­म­ङ्गा­ङ्गि­भा­वा­नु­प­पत्तौ सङ्घा­ता­प­त्त्य­भा­व­प्र­स­ङ्गात् । [न चान्त­रे­णा­ङ्गा­ङ्गि­भावं सङ्घा­त­स्यो­प­पत्तिः ।] अन्तरेण च सङ्घातं भोक्तृत्वे देहा­द्ब­हि­र­प्ये­कै­कस्य भूतस्य भोक्तृतोपलभ्येत । नाऽपि क्रमेण तेषां भोक्तृत्वम्, सङ्घा­ता­नु­प­प­त्ति­ता­व­द­व­स्थ्यात् । न च वर­वि­वा­हा­दि­न्या­येन गुणप्रधानभावेन तदुपपत्तिः, वैषम्यात् । यथा एकैकस्य वर­स्याऽ­सा­धा­र­ण­त्वे­नै­कैका कन्या भोग्या, न तथा चतुर्णां पृथि­व्य­प्ते­जो­वा­यूनां भोक्तॄणां रूप­र­स­ग­न्ध­स्पर्शा भोग्या व्यवस्थिताः तत्र कथं क्रमभोगः ? अथ कथ­ञ्चि­द्व्य­व­ति­ष्ठे­रन्, तदाऽपि युगपत् सर्व­वि­ष­य­स­न्नि­धाने सति क्रमानुपपत्तिः । यथैकस्मिन् मुहूर्ते प्रत्येकं भोग्य­क­न्या­व­स्तुनि सन्निहिते वरणां क्रमविवाहो गुणप्रधानतया सङ्घातो वा नाऽस्ति, तद्वत् । नाऽपि समस्तानां भोक्तृ­त्व­स­म्भवः, प्रत्ये­क­म­वि­द्य­मा­नस्य चैतन्यस्य सङ्घा­तेऽ­प्य­भा­वा­द्भो­गा­नु­प­पत्तेः । अथ मन्यसे – अग्नौ प्रक्षिप्तेषु तिलेष्वेकैकस्य ज्वाला­ज­न­क­त्वा­भा­वेऽपि तिलसमूहस्य यथा तज्जनकत्वं तथा सङ्घातस्य चैतन्यं स्यादिति, तदाऽपि सङ्घातापत्तौ हेतुर्वक्तव्यः । आगामिभोगादिति चेद्, न; यदि तावद्भोगस्य गुणभावस्तदा प्रधानानां भूतानामन्योन्यं गुण­प्र­धा­न­भा­व­र­हि­तानां कथं सङ्घातापत्तिः ? प्राधान्यं तु भोग­स्याऽ­नु­प­प­न्नम्, भोक्तृशेषत्वात् । न च वाच्यं शोषिणं भोगं प्रति शेषभूतयोः स्त्रीपुं­श­री­र­यो­र्भोक्त्रोः सङ्घा­ता­प­त्ति­र्दृ­ष्टेति, तत्राऽपि शरी­र­यो­र्भो­क्तृ­त्वा­स­म्प्र­ति­पत्तेः । ज्वालां प्रति तिलानां सङ्घा­ता­प­त्ति­रिति योऽयं दृष्टान्तः, सोऽपि तवाऽसिद्धः; सङ्घा­ता­नि­रू­प­णात् । न तावत् सङ्घातो नाम भोग­भो­गि­नो­र्व­न­व­दे­क­दे­श­ता­मा­त्रम्, तथा सति तेन न्यायेन व्यापिनां भूतानां सर्वत्र तत्स­त्त्वा­च्चै­त­न्य­भो­गयोः सार्व­त्रि­क­त्व­प्र­स­ङ्गात् । नाऽपि तदारब्धोऽवयवी सङ्घातः, तस्य भूतेभ्यो भेदे पञ्च­म­त्त्वा­भ्यु­प­ग­म­प्र­स­ङ्गात् । अभेदे भूतमात्रतया सङ्घातासम्भवात् । भेदा­भे­द­यो­श्चाऽ­न­ङ्गी­क­र­णात् । अथाऽवयविनः पारतन्त्र्यान्न पञ्च­म­त­त्त्वा­पत्तिः, तर्हि जलादेः पृथि­व्या­दि­त­न्त्र­त्वान्न तत्त्व­च­तु­ष्ट­य­मपि सिध्येत् ।न चैक­द्र­व्य­बु­द्ध्या­ल­म्ब­न­यो­ग्य­ता­पत्तिः सङ्घातः, वस्तु­तोऽ­ने­के­ष्वे­क­त्व­बु­द्धे­र्वि­भ्र­म­मा­त्र­त्वात् । न चैका­र्थ­क्रि­यायां युगपदन्वयः संघातः, तदानीं काष्ठाश्रयेण वह्निना वायुसमुद्भूतेन जले ताप्यमाने सति तत्र भूत­च­तु­ष्ट­य­स­ङ्घा­ता­द्भो­ग­प्र­स­ङ्गात् । न चाऽग्न्ययः पिण्डवत् संश्लेषः सङ्घातः, शरीरे वायोस्तथा संश्लेषाभावात् । वह्निव्याप्ते चाऽयःपिण्डे सन्तापितजले वायुसंयुक्ते भोगप्रसङ्गात् । न चोक्त­दो­ष­प­रि­हा­रा­यै­क­स्यैव भूतस्य भोक्तृत्वनियतिः शङ्कनीया, सर्व­सं­नि­धा­नेऽ­स्यैव भोग इत्य­नि­र्द्धा­र­णात् । यत्तु लौकायतैकदेशिनां मतद्वयम् – इन्द्रियाणां भोक्तृत्वं देहे­न्द्रि­य­स­ङ्घा­तस्य च भोक्तृत्वमिति, तदुक्तन्यायेन निराकरणीयम् ।

ननु कानि पुनरिन्द्रियाणि येषां भोक्तृत्वं निराक्रियते । तत्र गोलकमात्राणीति सुगताः, तच्छक्तय इति मीमांसकाः, तद्व्य­ति­रि­क्तानि द्रव्या­न्त­रा­णी­त्यन्ये सर्वे वादिनः । न ताव­द्गो­ल­क­मा­त्रत्वं युक्तम्, कर्ण­श­ष्कु­ल्या­दि­वि­र­हि­णा­मपि सर्पादीनां शब्दा­द्यु­प­ल­ब्धि­स­द्भा­वात् । वृक्षाणां च सर्व­गो­ल­क­र­हि­तानां विष­यो­प­ल­म्भ­स­त्त्वात्, “तस्मात् पश्यन्ति पादपाः” इत्या­दि­शा­स्त्रात् । न च वृक्षा­णा­म­चे­त­न­त्वम्, हिंसाप्रतिषेधेन प्राणि­त्वा­व­ग­मात् । अत एव न गोल­क­श­क्ति­त्व­मि­न्द्रि­या­णाम् । अथ शक्ति­म­द्द्र­व्या­न्त­र­क­ल्प­नात् प्रति­प­न्न­स्था­नेषु शक्ति­मा­त्र­क­ल्पने लाघवं मन्यते, तर्ह्य­त्य­न्त­ला­घ­वा­दा­त्मन एव क्रम­का­रि­स­र्व­वि­ज्ञा­न­सा­मर्थ्यं कल्प्यताम्, किमे­भि­रि­न्द्रियैः ? न च सर्व­ग­त­स्याऽऽ­त्मनो गोल­क­प्र­दे­शे­ष्वेव ज्ञान­प­रि­णा­मोऽ­नु­प­पन्नः, त्वया तस्यैव शरी­र­प्र­दे­श­मात्रे ज्ञान­प­रि­णा­मा­ङ्गी­का­रात् । एवं चाऽनि­न्द्रि­ये­ष्वपि गोलकप्रदेशेषु ज्ञाना­न्व­य­व्य­ति­रेकौ शरी­र­द्र­व्या­न्य­था­सिद्धौ, ततो न मीमां­स­क­म­त­मु­प­प­न्नम् । सन्तु तर्हि द्रव्या­न्य­त­रा­णी­न्द्रि­याणि, तानि च गोल­क­वि­शे­ष­स­म्ब­न्धा­च्च­क्षु­रा­दि­श­ब्द­वा­च्या­नीति; तदप्ययुक्तम्, तेषु प्रमाणाभावात् । विमता रूपा­द्यु­प­ल­ब्धयः, करणपूर्विकाः, कर्तृ­व्या­पा­र­त्वाद्, छिदिक्रियावत्, इति चेद्, न; अनै­का­न्ति­क­त्वात् । करणप्रेरणलक्षणे कर्तृव्यापारे कर­णा­न्त­रा­भा­वात्, अन्य­थाऽ­न­व­स्था­नात् । “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च” इत्या­ग­म­ग­म्या­नी­न्द्रि­या­णीति चेद्, न; आग­म­सं­स्का­र­वि­र­हि­णा­म­पी­न्द्रि­य­प्र­ति­पत्तेः । न च मनो­व­त्सा­क्षि­वे­द्या­नी­न्द्रि­याणि, रूपा­दि­ज्ञा­नाख्यं लिङ्गमनपेक्ष्य साक्षिमात्रेण चक्षुरादीनां प्रति­प­त्ते­र­भा­वात् । तस्मान्न सन्त्ये­वे­न्द्रि­या­णीति ।

अत्रोच्यते – गोल­क­व्य­ति­रि­क्ता­नी­न्द्रि­या­ण्या­ग­मा­दे­वाऽ­व­ग­म्यन्ते । न हि तत्सं­स्का­र­हि­ता­स्तानि जानन्ति किन्तु गोलकान्येव । यत्तु तेषा­मि­न्द्रि­या­णा­म­ह­ङ्का­र­का­र्यत्वं साङ्ख्यैरुच्यते तत्र किम­ध्या­त्माऽ­ह­ङ्कारः कारणं किं वा कृत्स्न­का­र्य­व्या­पिनी काचि­द­ह­ङ्का­राख्या प्रकृतिः ? उभयत्राऽपि नाऽस्ति किमपि मानम् । अथ द्वितीयपक्षे नानापुराणवचनानि मानम्, तन्न, श्रुतिविरोधात् । “अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्” इत्यादिश्रुतौ भूत­वि­का­र­त्वा­व­ग­मात् । अतः पुरा­ण­व­च­ना­नी­न्द्रि­या­णा­म­ह­ङ्का­रा­धी­न­ता­मात्रं प्रतिपादयन्ति । यच्च शुष्क­ता­र्कि­कै­र्भौ­ति­क­त्व­मि­न्द्रि­या­णा­मु­क्तम्, तदप्ययुक्तम्; तैर्मानस्य वक्तु­म­श­क्य­त्वात् । इन्द्रियाणि भौतिकानि, सावयवत्वात्; सावयवत्वं च मध्य­म­प­रि­मा­ण­त्वा­दिति चेद्, न; इन्द्रि­या­णा­म­णु­प­रि­मा­ण­त्वेऽपि बाधाभावेन हेत्वसिद्धेः । विष­या­व­भा­स­स्याऽ­प्य­णु­त्व­प्र­सङ्गो बाध इति चेद्, न; त्वन्म­तेऽ­णु­प­रि­मा­णे­नाऽपि मनसा विस्तृतात्मादि वस्तु­द­र्श­न­स­द्भा­वात् । चक्षुः रूप­गु­ण­व­त्प्र­कृ­ति­कम्, रूपादिषु पञ्चसु मध्ये रूप­स्यै­वाऽ­भि­व्य­ञ्ज­क­त्वाद्, यद्यस्य निय­मे­नाऽ­भि­व्य­ञ्जकं तत् तद्गु­ण­व­त्प्र­कृ­ति­कम्, यथा रूपाभिव्यञ्जको रूपप्रकृतिको दीपः, एव­म­न्य­त्राऽ­प्यू­ह­नी­य­मिति चेद्, न; शब्द­स्यै­वाऽ­भि­व्य­ञ्जके श्रोत्रे शब्द­गु­ण­वा­दा­का­शा­ना­र­ब्धेऽ­नै­का­न्ति­क­त्वात् । कर्ण­श­ष्कु­ल्य­व­च्छि­न्ना­का­श­मा­त्रस्य त्वया श्रोत्र­त्वा­भ्यु­प­ग­मात् । विशेषव्याप्तौ नाऽनै­का­न्ति­क­तेति चेद्, एव­म­प्य­ति­प्र­सङ्गो दुर्वारः । रूपा­दि­च­तु­ष्ट­या­भि­व्य­ञ्ज­कस्य मनसो भूत­च­तु­ष्ट­या­र­भ्य­त्वस्य सुसाधकत्वात् । अभू­त­स्याऽ­प्या­त्मा­दे­र्ग्रा­ह­क­तया मनो न भूतारभ्यमिति चेत्, तर्हि सङ्ख्या­प­रि­मा­णा­दे­रपि ग्राहकतया चक्षुरादीनां भूतारभ्यत्वं न स्यात् । असा­धा­र­ण­वि­ष­या­र­भ्य­त्वा­ङ्गी­कारे सति भौति­क­त्व­सि­द्धि­रिति चेत्, तर्हि मनोऽ­प्य­सा­धा­र­ण­वि­ष­ये­णाऽऽ­त्म­नाऽऽ­र­भ्येत । एक­द्र­व्य­स्याऽऽ­त्मनः साव­य­व­द्र­व्या­ना­र­म्भ­क­त्वेऽपि निरवयवं मनोद्रव्यं प्रत्या­र­म्भ­कत्वं किं न स्यात् । तस्मान्न शुष्क­त­र्का­दि­न्द्रि­याणां भौति­क­त्व­रिद्धिः, किन्त्वागमादेव । तानि पुनरिन्द्रियाणि सर्वगतानीति योगाः प्रतिपेदिरे । तदपि मानहीनम् । आत्मे­न्द्रि­य­म­नांसि सर्वगतानि सर्वत्र - दृष्ट­का­र्य­त्वा­दा­का­श­वत्; दृश्यते हि ज्ञानं तत्कार्यं सर्वत्रेति चेद्, न; सर्वत्रेत्यनेन कृत्स्न­ज­ग­द्वि­व­क्षा­या­म­सि­द्धि­प्र­स­ङ्गात् । यत्र शरीरं तत्र सर्वत्रेति विवक्षायां शरीरे एवाऽ­नै­का­न्ति­क­त्वम्, दृश्यते हि यत्र शरीरं तत्र सर्वत्र शरीरकार्यम् । न च शरीरस्य सर्वगतत्वमस्ति । अथेन्द्रियाणि सर्वगतानि, परो­पा­धि­क­ग­म­न­त्वात्, आकाशवत्; यथाऽऽकाशस्य गमनं घटाद्युपाधिकं तथेन्द्रियाणां शरीरोपाधिकं गमनमिति चेद्, न; शरी­रा­व­य­वे­ष्व­नै­का­न्ति­क­त्वात् । प्राणोपाधिकं हि तेषां गमनम् । किञ्चे­न्द्रि­याणां सर्वगतत्वे युगपत् सर्व­वि­ष­यो­प­लब्धिः स्यात् । शरीर एव वृत्ति­ला­भा­न्नाऽयं दोष इति चेत्, तर्हि बहि­रि­न्द्रि­य­स­द्भा­व­क­ल्पना न प्रमा­ण­प्र­यो­ज­न­वती। तस्मा­द­स­र्व­ग­ता­नी­न्द्रि­याणि ।

यत्तु तान्य­प्रा­प्य­का­री­णीति सुगताः कल्पयन्ति, तदयुक्तम्; तत्र किं चक्षुः­श्रो­त्र­यो­रे­वाऽ­प्रा­प्य­का­रि­त्वम् उतेतरेषामपि ? न तावदितरेषाम्; दूरत एव स्पर्श­र­स­ग­न्धो­प­ल­ब्धि­प्र­स­ङ्गात् । नाऽपि प्रथमः, विमते चक्षुःश्रोत्रे प्राप्यकारिणी, बाह्ये­न्द्रि­य­त्वाद्, घ्राणादिवत्, तेज­स­स्त्व­ति­दू­र­शी­घ्र­ग­म­न­द­र्श­ना­दु­न्मी­ल­न­मा­त्रेण चक्षुषो ध्रुवा­दि­प्रा­प्ति­र­वि­रुद्धा । शब्दस्य च वीचिसन्तानवत् परम्परया श्रोत्रसमवायः प्राप्तिरिति यत्ता­र्कि­कै­रु­च्यते तदसत्, तथा सति “इह श्रोत्रे शब्दः” इति प्रतीयेत; प्रतीयते तु “तत्र शब्दः” इति । तस्माद्यथानुभवं श्रोत्रस्यैव तत्र गमनं कल्पनीयम् । तदेवं भौतिकानि परिच्छिन्नानि प्राप्य­का­री­णी­न्द्रि­याणि सन्तीति सिद्धम् । किं तर्हि मनो नाम यस्मि­न्नाऽ­त्म­त्व­म­परे लोकायतैकदेशिनो मन्यन्ते । नित्यं निर­व­य­व­म­णु­प­रि­माणं मन इति तार्किकाः । तत्र न तावन्नित्यम्, परि­च्छि­न्न­त्वाद्, घटवत् । विमतं नित्यम्, निर­व­य­व­द्र­व्य­त्वा­दा­त्म­वत्, इति चेद्, न; हेत्वसिद्धेः । विमतं सावयवम्, करणत्वात्, चक्षुरादिवत् । अन्यथा मनसोऽन्नमयत्वं श्रुत्युक्तं बाध्येत । कथं तर्हि मूर्त­द्र­व्या­ना­म­भि­घात इति चेद्, जीवनदशायां देहा­द्ब­हि­र्नि­र्ग­म­ना­भा­वा­दिति ब्रूमः । मरणदशायां तु साव­य­व­त्वे­नाऽ­भि­म­तानां चक्षु­रा­दी­ना­म­प्य­प्र­ति­घातो विद्यत एव । अत एव सावयवत्वात् संयो­ग­वि­भा­ग­व­त्त्वाच्च घटा­दि­व­न्नाऽ­णु­प­रि­मा­ण­त्वम् । सर्वगतत्वे च युगपत् सर्वे­न्द्रि­य­सं­यो­गात् सर्व­ज्ञा­न­प्र­सङ्गः । मध्यमपरिमाणत्वे तु न कोऽपि दोषः । तदाऽपि स्थूलसूक्ष्मेषु हस्ति­पु­त्ति­का­दि­दे­हेषु क्रमेण प्राप्यमाणेषु कथं तत्त­द्दे­ह­स­मा­न­त्वेन वृत्तिरिति चेद्, अव­य­वो­प­च­या­प­च­या­भ्या­मिति ब्रूमः । शाक्यास्तु समनन्तरप्रत्यय एवो­त्त­र­ज्ञा­न­क­र­ण­तया मन इति प्रतिपेदिरे, तदसङ्गतम्; व्याप्ति­म­न­पेक्ष्य केवलस्य पूर्व­ज्ञा­न­स्यो­त्त­र­ज्ञा­न­ज­न­क­त्वा­यो­गात् । लिङ्गज्ञानस्य व्याप्ति­सा­पे­क्ष­स्यैव लिङ्गि­ज्ञा­न­ज­न­क­त्व­द­र्श­नात् । शब्दज्ञानं व्याप्त्य­न­पे­क्ष­मे­वाऽ­र्थ­ज्ञा­न­ज­न­क­मिति चेद्, न; त्वन्मते शब्द­स्याऽ­नु­मा­ना­न्तः­पा­ति­तया तत्राऽपि व्याप्त्य­पे­क्ष­त्वात् । विशेषणज्ञानं व्याप्त्य­न­पे­क्ष­मेव विशि­ष्ट­ज्ञा­न­ज­न­क­मिति चेद्, न; विशिष्टज्ञानस्य सम्प्र­यो­ग­ज­न्य­त्वात् । अथ सम­न­न्त­रा­ती­त­प्र­त्यय उत्तरज्ञानं न जनयति किन्तु तस्याऽऽ­का­र­मात्रं समर्पयतीति चेद्, न; आका­रा­का­रि­णो­र­भे­दात् । आकारस्य स्वाभा­वि­क­त­याऽ­न्या­पे­क्षा­भा­वात् । तस्मादन्यदेव सावयवं मन इति सिद्धम् ।

ननु कश्चाऽयं वास्तव आत्मा यो देहादिषु विज्ञानान्तेषु भ्रान्तै­र्वा­दि­भि­रा­रो­प्यते । तत्र सर्वगतोऽयं जीव आत्मेति केचित्, तदसत्; शुष्क­ता­र्कि­काणां साधकाभावात् । अथ मतम् – देहा­द्ब­हि­र­न्तश्च सर्वाणि भोग­सा­ध­ना­न्या­त्म­भो­गा­यैव व्याप्रियन्ते । तद्व्या­पा­र­श्चाऽ­दृ­ष्ट­व­दा­त्म­सं­यो­गा­पे­क्ष­स्त­तोऽसौ सर्वगत इति । तत्र किं यस्मि­न्नाऽऽ­त्म­प्र­दे­शेऽ­दृष्टं तत्प्रदेशे संयो­गोऽ­पे­क्ष्यते उताऽ­दृ­ष्टो­प­ल­क्षि­ता­त्म­सं­योगः ? नाऽऽद्यः, देहा­व­च्छि­न्ना­त्म­स­म­वे­ता­दृ­ष्टस्य स्वर्ग­भो­ग­हे­तु­त्वात् । न द्वितीयः, मोक्षेऽपि भोगप्रसङ्गात् । तस्मादागमादेव सर्व­ग­त­त्व­सिद्धिः । न चाऽयमात्मा जडः, प्रत्य­क्षा­नु­मा­ना­गमैः स्वप्र­का­श­त्वा­व­ग­मात् । तत्र प्रत्यक्षं सौषु­प्त­म­व­ग­न्त­व्यम् । अनुमानान्यपि आत्मा स्वप्रकाशः, स्वसत्तायां प्रका­श­व्य­ति­रे­क­र­हि­त­त्वात्, प्रदीपवत् संवेदनवच्च । तथा विष­य­प्र­का­श­क­र्तृ­त्वात्, प्रदीपवत् । विष­य­प्र­का­शा­श्र­य­त्वात्, आलोकवत् । अनि­न्द्रि­य­गो­च­रत्वे सत्य­प­रो­क्ष­त्वात् संवेदनवत् । आत्मा सति धर्मि­ण्य­ज­न्य­प्र­का­श­गुणः, प्रका­श­गु­ण­त्वात्, आदित्यवत् । आगमश्च – “अत्राऽयं पुरुषः स्वयंज्योतिः” इत्यादिः । स चाऽयमात्मा सर्वशरीरेष्वेक एव, सर्व­त्राऽ­ह­मि­त्ये­का­का­र­प्र­त्य­य­वे­द­नी­य­त्वाद्, गोत्ववत् । शरीराणां भिन्न­त्वा­दे­वाऽ­ती­त­श­री­रा­दा­विव न भोगा­नु­स­न्धा­न­प्र­सङ्गः । ननु तर्ह्यस्याऽपि मनुष्यशरीरस्य प्रतिक्षणं परि­णा­म­भे­दा­द्भेदे सत्य­त्राऽ­प्या­त्मनो भोगाननुसन्धानं प्रसज्येतेति चेद्, न; “तदेवेदं शरीरम्” इति प्रत्यभिज्ञया तदेकत्वावगमात् । न च ज्वाला­प्र­त्य­भि­ज्ञा­वद् भ्रान्तत्वम्, तत्र सूक्ष्मदर्शने प्रत्यक्षत एव ज्वालानां भेददर्शनात्; अत्र तदभावात् । तदेवमेकः स्वप्रकाश आत्मेति सिद्धान्तः । तमे­त­मा­त्मा­न­म­वै­दिका देहा­दि­बु­द्ध्य­न्त­प­दा­र्थ­रू­प­त्वेन प्रतिपन्नाः । मीमांसकादयस्तु तस्य देहादिव्यतिरेकं प्रतिपद्याऽपि कर्तारं भोक्तारं तमिच्छन्ति । तदेतत्साङ्ख्या न सहन्ते; न तावदात्मनः कर्तृत्वं स्वाभाविकम्, सर्वगतस्य निर­व­य­व­स्याऽऽ­त्मनः परि­स्प­न्द­प­रि­णा­म­ल­क्ष­ण­क्रि­या­वे­शा­यो­गात् । स्वाभाविकत्वे चैत­न्य­व­त्क्रि­या­वेशो न कदाचिदपि व्यभिचरेत् । नाऽपि कर्तृ­त्व­मा­ग­न्तु­कम्, निरवयवे कर्तृ­त्व­हे­तू­प­रा­गा­यो­गात् । नाऽपि बुद्धेः कर्तृ­त्व­मा­त्म­न्या­रो­प­यितुं शक्यम्, अख्यातिवादे भ्रान्त्यभावात् । तस्मान्नाऽस्ति कर्तृत्वम् । न चैवं भोक्तृ­त्व­म­पा­कर्तुं शक्यम्, न हि सुखदुःखान्वयो भोगः, येन कर्तृ­त्व­व­द्व्य­भि­च­रेत्, किन्तु चिद्रूपत्वेन दृश्यसाक्षित्वं भोक्तृत्वम् । तस्मा­द्भो­क्तै­वाऽऽ­त्मेति साङ्ख्यानां पक्षः । वैशे­षि­क­यो­ग­नै­या­यिका उक्ता­द्भो­क्तु­र्जी­वा­द­ति­रिक्तः सर्वज्ञः सर्व­श­क्ति­री­श्व­रोऽपि कश्चि­द­स्ती­त्य­नु­मि­मते । विमतं जगत् स्वरू­पो­पा­दा­ना­द्य­भि­ज्ञ­क­र्तृ­कम्, विवि­ध­का­र्य­त्वात्, प्रसादादिवत् । तत्र कल्प­ना­ला­घ­वे­नै­क­क­र्तृ­क­त्वो­पा­दा­नात् सर्व­ज्ञ­त्व­सि­द्धि­रिति वैशेषिकादयः । विमता ज्ञानै­श्व­र्य­श­क्तयः काञ्चित्परां काष्ठां प्राताः, सातिशयत्वात्, परिमाणवत् इति योगाः । विमतं धर्माधर्मफलं कर्म­त­त्फ­ल­त­द्भो­क्त्रा­द्य­भि­ज्ञेन दीयते, व्यव­हि­त­क­र्म­फ­ल­त्वात्, सेवाफलवत्, इति नैयायिकाः ।

नन्वी­क्ष­र­प­क्षो­प­न्यासो न युक्तः, यतोऽत्र जिज्ञास्ये प्रत्यगात्मरूपे ब्रह्मणि विप्र­ति­प­त्ति­र्द­र्श­यितुं प्रक्रान्ता । नैषदोषः; प्रत्यगात्मा तस्मा­दी­श्व­रा­द­न्योऽ­नन्यो वेति प्रत्य­गा­त्म­वि­प्र­ति­प­त्ता­वेव पर्यवसानात् । अत्र भास्कर आह – नेह प्रत्यगात्मा जिज्ञास्यते, येन तद्वि­प्र­ति­प­त्ति­रु­प­न्य­स्येत; किन्त्वीश्वर एव ब्रह्म­श­ब्दे­नो­द्दिश्य विचार्यते, जन्मादिसूत्रे जग­त्का­र­ण­त्व­ल­क्ष­णा­भि­धा­नात् । तस्य च लक्षणस्य प्रत्य­गा­त्म­न्य­स­म्भ­वा­द­नु­भ­व­वि­रो­धा­दिति । तत्र वक्तव्यमीश्वरो जग­त्का­र­णा­द­न्योऽ­नन्यो वेति । अन्यत्वे “प्रधानमेके परमाणूनपरे” इत्यादिना त्वच्छास्त्रे जग­त्का­र­ण­वि­प्र­ति­प­त्ति­प्र­द­र्श­न­म­स­म­ञ्जसं स्यात्, ईश्व­र­वि­प्र­ति­प­त्ते­रेव त्वया दर्शनीयत्वात् । अनन्यत्वे च त्वदीयः प्रधा­न­प­र­मा­ण्वा­दि­प­क्षो­प­न्यास ईश्वराभिप्रायः स्याद्, न च तद्युक्तम्; न हि वादिनः प्रधानमीश्वरः परमाणुर्वेश्वर इति विप्रतिपद्यन्ते । यद्यपि प्रत्यगात्मनि जगत्कारणत्वं पामरा नाऽनुभवन्ति, ताथापि श्रुति­स्मृ­ति­न्या­य­कु­शला अनुभवन्त्येव । एवं च श्रुत्या­दि­प्र­सि­द्ध­ज­ग­त्का­र­ण­त्व­ल­क्ष­णेन विप्र­ति­प­द्य­मा­न­प्र­त्य­गा­त्म­वि­शे­ष­स्व­रूपे ब्रह्मणि बोध्यमाने यज्जगत्कारणं तद् ब्रह्मे­त्ये­ता­दृशी वच­न­व्य­क्ति­र्द्वि­ती­य­सूत्रे युज्यतेतराम् । तथा पुरुषाणां क्लेश­क­र­दे­हा­दि­बु­द्ध्य­न्त­ब­न्ध­नि­व­र्त­नेन सत्य­ज्ञा­ना­न­न्ता­न­न्द­प्र­त्य­गा­त्म­ब्र­ह्म­स्व­रू­प­प­रि­शेषः फलिष्यति । त्वत्पक्षे तु जगत्कारणस्य विप्र­ति­प­द्य­मा­न­त्वा­त्त­द्वि­शेष एव ब्रह्मानुवादेन बोधनीयः । तथा च यद् ब्रह्म तज्ज­ग­त्का­र­ण­मि­त्येवं वचनव्यक्तिः सूत्र­स्याऽऽ­प­द्येत, पुरुषाणां च न किञ्चित् प्रयोजनं तद्बोधे स्यात् । न चोपासनं प्रयोजनम्, आरो­पि­त­रू­पे­णाऽ­प्यु­पा­स­न­स­म्भवे तत्प्र­ति­पा­द­न­वै­य­र्थ्यात् । तस्मादसङ्गतोऽयं भास्करपक्षः । पर­मा­र्थ­द­र्शि­नस्तु य ईश्वरः स एव प्रत्यगात्मेति मन्यन्ते । विमतौ जीवेश्वरौ वस्तुतो न भिन्नौ, उपा­धि­प­रा­म­र्श­म­न्त­रे­णाऽ­वि­भा­व्य­मा­न­भे­द­त्वाद्, बिम्ब­प्र­ति­बि­म्ब­वत् । अन्यथा ब्रह्मणि निर­ति­श­य­बृ­ह­त्य­र्था­न्वयो न सिद्ध्येत् । तस्य कृत्स्न­दे­श­का­ल­व्या­पि­त्वेऽपि जीवेभ्यो भिन्न­त्वा­द्व­स्तुतः सर्व­ग­त­त्वा­भा­वात् ।

ननु बृह­त्य­र्था­नु­ग­माय ब्रह्मणः सर्वा­त्म­क­त्वा­ङ्गी­कारे दुःखात्मकताया अप्य­ङ्गी­का­र्य­त्वा­द­पु­रु­षा­र्थता स्यात् । आन­न्द­रू­प­त्व­म­प्य­स्तीति पुरुषार्थतेति चेद्, मैवम्; न हि तृप्ति­हे­तु­रि­त्ये­ता­वता विषमिश्रितान्नं पुरुषैरर्थ्यते । “न लिप्यते लोकदुःखेन” इत्या­दि­शा­स्त्रान्न दुःखात्मकतेति चेद्, न; “आत्मैवेदं सर्वम्” इति सर्व­ता­दा­त्म्य­श्रुत्या सर्वो­पा­दा­न­त्व­ल­क्ष­ण­युक्त्या च तस्य बाधितत्वात् । अथै­क­दे­शि­म­त­मा­श्रित्य सर्व­ज्ञ­स्याऽ­ज्ञा­न­मि­थ्या­ज्ञा­ना­भा­वा­न्नाऽ­न­र्थ­स­म्बन्ध इति चेद्, न; तन्मते सर्व­प्र­प­ञ्च­ता­दा­त्म्यस्य वास्तवस्य जन­ना­याऽ­वि­द्या­द्य­न­पे­क्ष­णात् । अत एव तत्त्वज्ञाने सत्यप्यपायस्य दुःसम्पादत्वात् । अथाऽपि ब्रह्मणो धर्मा­ध­र्म­र­हि­त­त्वान्न दुःखा­दि­स­म्ब­न्ध­स्त­द­नु­भवो वा सम्भवतीति चेद्, न; दुःखा­दि­स­र्व­प्र­प­ञ्चो­पा­दा­न­तया तत्सम्बन्धस्य सर्वज्ञतया तदनुभवस्य चाऽवारणीयत्वात् । अथै­त­द्दो­ष­प­रि­जि­ही­र्षया कार्यप्रपञ्चाद् ब्रह्मणो भिन्नत्वं वा कारणाकारणरूपेण ब्रह्मद्वयं वाऽभ्युपगम्येत; तदा बृहत्यर्थो नाऽनुगच्छेत् । तस्मात् सर्वात्मकं सर्वज्ञं ब्रह्माऽ­पु­रु­षा­र्थ­तया न जिज्ञास्यमिति ।

अत्रोच्यते – भवेदयं दोषः पार­मा­र्थि­क­प्र­प­ञ्च­वादे, मायावादे तु न कोऽपि दोषः; वस्तुतो ब्रह्मणो निर्लेपत्वात् । तदेवं देहा­दि­नि­र्ले­प­ब्र­ह्मान्ताः पदार्था युक्तिं वाक्यं च समा­श्र­य­द्भि­र्वा­दिभिः प्रत्यगात्मतया विप्रतिपद्यन्ते । तत्र तत्र तन्मतसिद्धा युक्तिः पूर्वमेव दर्शिता । वाक्यं च “स वा एष पुरु­षोऽ­न्न­र­स­मयः”, “स वा अयमात्मा ब्रह्म”, “पृथिवीमय आपोमयो वायुमय आका­श­म­य­स्ते­जो­मयः” इत्यादिकं शरी­रा­त्म­वा­देऽ­व­ग­न्त­व्यम् । “ते ह वाचमूचुस्त्वं न उद्गायेति तथेति तेभ्यो वागुदगायत्” इत्या­दी­न्द्रि­या­त्म­वादे, “मन उदगायत्” इति मनआत्मवादे, “कतम आत्मेति योऽयं विज्ञानमयः” इत्यादि विज्ञा­ना­त्म­वादे, “असद्वा इदमग्र आसीत्” इति शून्यात्मवादे, “मन्ता बोद्धा कर्ता स्वप्ने जीवः सुखदुःखभोक्ता” इत्यादि कर्तृ­भो­क्त्रा­त्म­वादे, “तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्व­म­न­श्न­न्नन्यो अभिचाकशीति” इत्यादि साक्षि­त्व­ल­क्ष­ण­के­व­ल­भो­क्त्रा­त्म­वादे, “य आत्मनि तिष्ठ­न्ना­त्मा­न­म­न्तरो यमयति” इति तटस्थात्मवादे, निर्ले­प­ब्र­ह्मा­त्म­वादे तु सर्वाणि वेदा­न्त­वा­क्या­न्य­व­ग­न्त­व्यानि । तत्र निर्ले­प­ब्र­ह्मा­त्म­वा­दि­नाऽ­भि­हि­त­यो­र्यु­क्ति­वा­क्ययोः समी­ची­न­त्व­म­न्यो­क्त­यो­स्त्वा­भा­स­त्व­मि­त्ये­त­त्सू­त्र­कार एव तत्र तत्र स्पष्टीकरिष्यति । एवं च सत्ये­त­द्वि­चा­र­शा­स्त्र­म­श्रुत्वा पण्डितंमन्यतया देहा­दि­त­ट­स्थे­श्व­रा­न्ते­ष्व­प्य­न्य­तमं यं कञ्चि­दा­त्मा­न­म­व­ल­म्ब­मानो मुमुक्षुर्न मोक्षं प्राप्नुयात्, तत्त्व­ज्ञा­न­ल­भ्यस्य मोक्षस्य विपरीतज्ञानेन सम्पा­द­यि­तु­म­श­क्य­त्वात् । न च तस्य पापिष्ठस्य कदा­चि­न्नि­ष्कृ­ति­रस्ति । अतस्तस्य अन्य­था­प्र­ति­प­त्तिर्हि महत्तरं पापम्,
“योऽन्यथा सन्त­मा­त्मा­न­म­न्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरे­णाऽऽ­त्मा­प­हा­रिणा ॥”
इति न्यायात् । अतः सत्य­ज्ञा­ना­न­न्दा­दि­रू­प­स्याऽऽ­त्म­नोऽ­स­त्क­ल्प­ना­मा­पा­द­य­त­स्त­स्याऽऽ­त्म­घा­तिनः कष्ट­लो­क­प्राप्तिः श्रूयते –
“असुर्या नाम ते लोका अन्धेन तमसावृताः ।
तांस्ते प्रेत्या­भि­ग­च्छन्ति ये के चात्महनो जनाः ॥” इति ।

ननु ब्रह्मविचारेण तत्त्वज्ञाने निष्पन्नेऽपि न मोक्ष उपपद्यते, पृथि­व्या­दि­प्र­प­ञ्च­नि­वृ­त्ते­र­भा­वात्, नैष दोषः; सर्व­जी­व­सा­धा­र­णेषु पृथिव्यादिषु सत्स्व­प्य­न्तः­क­र­णा­ध्या­स­नि­वृत्तौ प्रमा­तृ­त्वा­भा­वा­दा­त्म­चै­त­न्यस्य स्वतो विष­यो­प­रा­गा­भा­वाद्वा एतद्दर्शनं न प्राप्नोति, निरि­न्द्रि­य­स्येव रूपा­दि­द­र्श­न­मि­त्येकः पक्षः । इतरस्तु सर्व­द्वै­त­नि­वृ­त्ति­पक्षः समन्वयसूत्रे वक्ष्यते । तदे­व­म­ह­मि­त्या­त्म­त्व­सा­मा­न्या­का­रेण सर्व­प्र­त्य­क्ष­सि­द्ध­स्याऽ­त्य­न्ता­प्र­सि­द्ध्य­भा­वा­द्वि­शे­षतो वादि­वि­प्र­ति­प­त्ति­वि­ष­य­स्याऽपि निष्प्र­प­ञ्च­ब्र­ह्म­रू­पेण विशेषेण शास्त्रा­न्त­रे­ष्व­सि­द्ध­त्वाच्च विषयत्वसिद्धिः । तस्य च ब्रह्मणोऽनेन शास्त्रेण प्रतिपादयितुं शक्यतया प्रति­पा­द्य­प्र­ति­पा­द­क­भा­व­ल­क्षणः सम्बन्धोऽपि सिद्ध इत्युभयस्याऽपि सिद्धे प्रयोजनस्य च मोक्ष­स्याऽ­भि­हि­त­त्वा­न्नि­ष्प्र­त्यूहो ब्रह्मविचारः कर्तव्य इत्य­शे­ष­म­ति­म­ङ्ग­लम् ।

इति विव­र­ण­प्र­मे­य­स­ङ्ग्रहे प्रथमसूत्रे चतुर्थवर्णकं समाप्तम् ॥