अद्वैतशारदा

विवरणप्रमेयसङ्ग्रहः

अथ द्वितीयं सूत्रम्

प्रथमं वर्णकम्

“अथातो ब्रह्मजिज्ञासा” इत्यत्र ब्रह्म ज्ञातुकामेन ज्ञानो­पा­य­भू­त­मिदं विचारशास्त्रं श्रोतव्यमिति प्रतिज्ञातम्, जिज्ञासापदस्य ज्ञाने­च्छा­ल­क्ष­ण­स्वा­र्था­प­रि­त्या­गे­नाऽ­न्त­र्णी­त­वि­चा­र­ल­क्ष­क­त्वात् । प्रतिज्ञाते च ब्रह्मविचारे तदङ्गानि लक्ष­ण­प्र­मा­ण­यु­क्ति­सा­ध­न­फ­ला­न्य­प्य­र्था­त्प्र­ति­ज्ञा­ता­न्ये­वेति लक्ष­णा­दि­प्र­ति­पा­दको वक्ष्यमाणः सूत्रसन्दर्भः सङ्गच्छतेतराम् । अन्यथा ज्ञाने­च्छा­म­पु­रु­ष­तन्त्रां कर्त्तव्यत्वेन प्रति­ज्ञा­ये­च्छा­नु­प­यु­क्तानि लक्षणादीनि प्रतिपादयतः सूत्रकृतो महदकौशलमापद्येत । यद्यपि साध्यसिद्धेः साध­ना­द्य­धी­न­त्वात् साधनादीन्येव प्रथमं विचार्याणि, तथापि तानि ब्रह्मप्रमाणं ब्रह्म­यु­क्ति­र्ब्र­ह्म­सा­धनं ब्रह्म­प्र­मि­ति­रिति ब्रह्म­वि­शि­ष्ट­त्वेन ब्रह्म­स्व­रू­प­नि­र्ण­य­सा­पे­क्षा­ण्यु­प­स­र्ज­नानि च । अतो निरपेक्षं प्रधानं च ब्रह्मस्वरूपं भगवान् सूत्रकारः प्रथमं लक्षयति – “जन्माद्यस्य यतः” इति ।

नन्वज्ञाते स्वरूपे लक्षणं ज्ञाते वा ? नाऽज्ञाते, किमस्य लक्ष्यस्य लक्षणमिति जिज्ञासानुदयात् । अस्येदं लक्षणमिति लक्ष्य­ल­क्ष­ण­स­म्ब­न्धा­प­रि­ज्ञा­नाच्च । नाऽपि ज्ञाते, वैयर्थ्यात् । किञ्च स्वरू­प­ल­क्ष­ण­मु­च्यते तटस्थलक्षणं वा ? नाऽऽद्यः, जन्मा­दि­का­र­ण­त्वस्य सप्रतियोगिकस्य स्वरू­प­त्वा­यो­गात् । स्वरूपत्वे च सवि­शे­ष­त्व­प्र­स­ङ्गात् । नाऽपि द्वितीयः, स्वरूपलक्षणेन विना तट­स्थ­ल­क्ष­ण­मा­त्रेण स्वरू­प­प्र­ती­त्य­यो­गात् । अन्यत्र च स्वरू­प­ल­क्ष­ण­स्याऽ­प्र­सिद्धेः । अथ­ञ्चि­त्त­त्प्र­सि­द्धा­व­प्यस्य तट­स्थ­ल­क्ष­ण­स्याऽ­ति­व्याप्तिः, प्रधानादावपि जग­त्का­र­ण­त्व­स­म्भ­वात् । अतोऽनेन सूत्रेण किं प्रतिपाद्यत इति ? अत्र ब्रूमः –
जग­ज्ज­न्म­स्थि­ति­ध्वंसा यतः सिध्यन्ति कारणात् ।
तत् स्वरू­प­त­ट­स्थाभ्यां लक्षणाभ्यां प्रदर्श्यते ॥
अधीतवेदान्तस्य विदि­त­प­द­प­दा­र्थ­स­म्ब­न्ध­स्याऽऽ­पा­ततो ब्रह्मस्वरूपं ज्ञात्वा विशेषतो ज्ञातु­मा­का­ङ्क्षतः कॢप्त­ल­क्ष्य­ल­क्ष­ण­स­म्ब­न्ध­त्वेन सार्थकमेवेदं लषणाभिधानम् । तत्र ताव­ज्ज­न्मा­दि­का­र­णत्वं माया­वि­शि­ष्ट­ब्र­ह्मणः स्वरू­प­ल­क्ष­ण­त्वेऽ­प्य­वि­रु­द्धम् । शुद्ध­ब्र­ह्म­णस्तु तत् तटस्थलक्षणम् । स्वरूपलक्षणं तु तस्य “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादिश्रुतिषु प्रसिद्धम् । न चोक्त­ल­क्ष­ण­स्याऽ­ति­व्याप्तिः, प्रधा­ना­दे­र्ज­ग­त्का­र­ण­त्वस्य निरा­क­रि­ष्य­मा­ण­त्वात् । अति­व्या­प्त्या­दि­दो­ष­प­रि­हा­रेण लक्ष­ण­नि­र्ण­या­याऽ­त्रै­वाऽ­र्था­त्सू­त्रिते प्रमाणयुक्ती इत्यवगन्तव्यम् । अध्यायद्वये तयोरेव प्रमानयुक्त्योः सूत्रकारेण प्रप­ञ्च­यि­ष्य­मा­ण­त्वात् । ननु जन्मा­दी­त्य­स्मिन् बहुव्रीहौ स्थिति­प्र­ल­य­यो­र­न्य­प­दा­र्थ­त्वात् पुल्लि­ङ्ग­द्वि­व­च­नेन भवितव्यम् ? न भवि­त­व्य­म्,ज­न्म­नोऽ­प्य­न्य­प­दा­र्थ­त्वेन विवक्षितत्वात् । न चैवं सत्येकस्यैव जन्मनो विशे­ष्य­त्व­वि­शे­ष­ण­त्व­प्र­सङ्गः, जन्मादि त्रयस्य विशेष्यत्वेन विवक्षित्वात् । अत एव न पुल्लि­ङ्ग­ब­हु­व­च­न­प्रा­प्ति­रपि । यदद्यप्यनादौ संसारे न जन्मनो वस्तुत आदित्वं, तथापि जनित्वा स्थित्वा प्रलीयते इति व्यावहारिकीं लोक­प्र­सि­द्धि­मु­प­जीव्य “यतो वा इमानि भूतानि जायन्ते” इति श्रुतौ जन्मन आदि­त्व­नि­र्दे­श­स्त­मु­प­जी­व्या‍ऽयं सौत्रोऽपि निर्देश उपपन्नः । अस्येति सूत्रप्रतीकेन प्रत्य­क्षा­दि­प्र­तीतं कृत्स्नं जगदभिधीयते, इदमः सर्वनामत्वात् । अन्यत्रेवाऽत्र सङ्कोचकस्य प्रक­र­णा­दे­र­भा­वात् । अत एव षष्ठीविभक्त्या जन्मादीनां जागतश्च सर्व एवेह सम्बन्धो विवक्ष्यते । न च जगदाश्रितानां जन्मादीनां गृहा­श्रि­त­का­क­व­ल्ल­क्ष्य­स­म्ब­न्ध­र­हि­त­त्वा­द­ल­क्ष­ण­त्व­मिति वाच्यम्, शुद्ध­ब्र­ह्म­स­म्ब­न्धा­भा­वेऽपि माया­वि­शि­ष्ट­का­र­ण­ब्र­ह्म­स­म्ब­न्धि­त्वात् । यत इत्यनेन हि सूत्रपदेन कारणमेव निर्दिश्यते, न तु शुद्धम् ।

ननु कारणत्वमपि न लक्ष्या­न्त­र्ग­तम् । कारणत्वं हि नाना­वि­ध­का­र्य­गो­च­र­क्रि­या­वे­शा­त्मत्वं तत्प्र­स­व­श­क्त्या­त्म­कत्वं वा । न च तदुभयं जिज्ञास्ये विशुद्धे ब्रह्म­ण्य­न्त­र्भ­वि­तु­म­र्हति, ततः कारणसम्बन्धिनो जन्मा­दे­र­ल­क्ष­ण­त्व­मिति चेद्, मैवम्; काका­धि­क­र­ण­त्व­व­दु­प­पत्तेः । काकाधिकरणत्वं हि न गृहेऽन्तर्भवति । तथा च सति काकविगमे गृहै­क­दे­श­भ­ङ्ग­बु­द्धि­प्र­स­ङ्गात् । अतो गृह­स्याऽ­धि­क­र­णत्वं नामौपाधिको धर्मः, स च परिशेषाल्लक्षणे एवाऽन्तर्भवति । तन्निरूपकस्य काकस्य यथा लक्षणत्वं तथा ब्रह्मणोऽपि कारणत्वमौपाधिको धर्मो लक्षणान्तःपाती । तन्निरूपकस्य जन्मा­दे­र्ल­क्ष­णत्वे का तव हानिः ?

ननु लक्ष­णा­न्तः­पा­ति­त्वेन ब्रह्म­ण्य­ङ्गी­क्रि­य­माणं कारणत्वं कीदृशम् ? किं निमित्तत्वमेव उतोपादानत्वमेव अथोभयम् ? न तावत् प्रथमद्वितीयौ, उपादानस्य निमित्तस्य वाऽन्य­स्याऽ­व­श्या­ङ्गी­क­र्त­व्य­त्वेन ब्रह्मणि बृह­त्य­र्था­न्व­या­भा­वात् श्रुत्यु­क्ता­न­न्त्य­भ­ङ्ग­प्र­स­ङ्गात् । नाऽपि तृतीयः, एक­स्यो­भ­य­का­र­णत्वे प्रमाणाभावात् । न ह्यत्राऽनुमानं सम्भवति । तथा हि – भूतभौतिकं जगत् पक्षीक्रियते भूतमात्रं वा ? आद्ये भागे बाधः, भौति­के­ष्व­भि­न्न­नि­मि­त्तो­पा­दा­न­व­त्त्व­सा­ध्य­वै­प­री­त्य­द­र्श­नात् । न द्वितीयः, घटादिष्वेव कार्य­त्व­हे­तो­र­नै­का­न्ति­क­त्वात् । अतो न कारणत्वं लक्षणमिति चेद्, मैवम्; सूत्रगतया “यतः” इति पञ्चम्या द्विवि­ध­का­र­ण­त्वस्य विवक्षितत्वात् । जाय­मा­न­व­स्तु­प्र­कृतौ हेतौ च पञ्चमीविधानात् । न च तन्तुष्वनेकेषु प्रकृ­ति­त्व­द­र्श­ना­दे­कस्य ब्रह्मणः प्रकृ­ति­त्वा­स­म्भव इति वाच्यम्, तत्र किं महा­भू­त­प्र­कृ­तित्वं न सम्भवति भौति­क­प्र­कृ­तित्वं वा ? नाऽऽद्यः, महाभूतानि सत्ता­प्र­कृ­ति­कानि, तदनुरक्तत्वाद्, यो यदनुरक्तः स तत्प्रकृतिकः, यथा तन्त्व­नु­र­क्त­स्त­न्तु­प्र­कृ­तिकः पटः । सत्ता­या­श्चै­कत्वं लोकवदेवाऽसत प्रसिद्धम्, दिक्कालादिषु द्रव्य­त्व­जा­त्य­नु­ग­मेऽ­प्य­त­त्प्र­कृ­ति­क­त्वा­द­नै­का­न्ति­क­तेति चेद्, न; वेदा­न्ति­भि­र्द्र­व्य­त्वा­दी­ना­मपि प्रकृ­ति­त्वा­ङ्गी­का­रात् । सत्ताया एव ह्यौपाधिका भेदा द्रव्यत्वादयो न स्वतन्त्राः । अतो न पृथिव्यादौ सत्ता­द्र­व्य­त्वो­भ­य­प्र­कृ­ति­त्व­प्र­सङ्गः । नाऽपि द्वितीयः; भौतिकेष्वपि सत्तानुरक्तेषु भूतद्वारा भूतानुगतसत्ताया एव लाघवन्यायेन मूल­प्र­कृ­ति­त्वा­ङ्गी­का­रात् । न च प्रकृतेरेव निमित्तत्वे मानासम्भवः, विमतं जगद् अभि­न्न­नि­मि­त्तो­पा­दा­न­कम्, प्रेक्षा­पू­र्व­ज­नि­त­त्वाद् आत्म­ग­त­सु­ख­दुः­ख­रा­ग­द्वे­षा­दि­वत् । अज्ञा­नो­पा­दा­न­क­दो­ष­नि­मि­त्त­क­शु­क्ति­र­ज­त­व्या­वृ­त्तये प्रेक्षा­पू­र्वे­त्यु­क्तम् । घटादीनामपि पक्ष­त्वा­न्नाऽ­नै­का­न्ति­कता । कुलालाद्याकारेण ब्रह्मण एव निमित्तत्वाद् न भागे बाधोऽपि । अदृ­ष्टा­दि­नि­मि­त्त­भे­द­द­र्श­ना­त्सा­ध्य­वै­क­ल्य­मिति चेद्, न; उपा­दा­ना­धि­ष्ठा­त्रो­रे­वै­क­त्वा­नु­मा­नात् । तथा च सति जगत्यपि ब्रह्म­व्य­ति­रि­क्त­स्याऽ­दृ­ष्टस्य निमित्तत्वं प्रसज्येतेति चेद्, एवं तर्ह्य­दृ­ष्टो­प­हि­त­स्याऽ­त्मन एव सुखा­दि­नि­मि­त्तत्वं द्रष्टव्यम् । अथ कुतर्कोपहतमतिः सन्न­स्मि­न्न­नु­मा­नेऽ­त्यन्तं न प्रीयसे, तर्हि सृष्टि­वा­क्य­प्र­सि­द्ध­मे­क­स्यो­भ­य­का­र­णत्वं लक्षणत्वेन निर्दिश्यते । सृष्टिवाक्यं च “तदैक्षत” इति निमित्तत्वम् “बहु स्याम्” इत्युपादानत्वं च प्रतिपादयतीति सन्तोष्टव्यम् ।

अत्र केचित् श्रुतेः स्वतः प्रामा­ण्या­त्त­था­भू­तैव ब्रह्मणः प्रप­ञ्चा­प­त्ति­रिति परि­णा­म­वा­द­म­व­ता­र­यन्ति । तत्र तथाभूतत्वं नाम किं सत्य­श­ब्दा­भि­धे­यत्वं किं वा स्वोपा­धा­व­भा­व­व्या­वृ­त्त­त्वम् उत स्वाश्र­यो­पा­धा­व­बा­ध्य­त्वम् अथवा स्वरू­पे­णाऽ­बा­ध्य­त्वम् ? नाऽद्यः, स्वप्नसृष्टेः सत्य­श­ब्दा­भि­धे­य­ता­प्र­स­ङ्गात् । तद्बुद्धेरपि स्वतः प्रामा­ण्य­प्रा­प्ते­र्दु­र्वा­र­त्वात् । अथ तत्र दोषादप्रामाण्यं श्रुतेस्तु नैवमिति मन्यसे एवमपीदं रजतं मिथ्या, बाध्य­त्वा­दि­त्य­नु­मा­न­प्र­मा­ण­गम्ये रजते सत्यत्वं प्रसज्येत । न द्वितीयः, मायावादिभिरपि श्रुत्या­दि­प्र­ति­प­न्न­सृष्टेः स्वाधिष्ठाने ब्रह्म­ण्य­भा­व­व्या­वृ­त्त­त्वा­ङ्गी­का­रात् । न तृतीयः, कल्पितानां प्रति­बि­म्ब­श्या­म­त्व­घ­टा­का­श­प­रि­च्छि­न्न­त्वा­दी­ना­मौ­पा­धि­क­ध­र्मा­णा­मपि स्वाश्र­यो­पा­धा­व­बा­ध्य­त्वात् । न चतुर्थः, सृष्टेरपि पर­मा­र्थ­स­त्य­त्वां­शे­नैव बाध्यत्वं न स्वरू­पे­णे­त्य­ङ्गी­का­रात् । सृष्टेः सत्यत्वाभावे सृष्टि­श्रु­ते­र­प्रा­माण्यं स्याद् इति चेद्, न; सृष्टि­स्व­रू­प­मा­त्र­प्र­मा­णयो प्रवृत्तयाः श्रुतेः सृष्टि­स्व­रू­प­स­द्भा­व­मा­त्रेण प्रामा­ण्यो­प­पत्तौ तत्सत्यताया अप्रयोजकत्वात् । न हि रूपप्रमापकस्य चक्षुषः शब्दा­भा­वा­द­प्रा­माण्यं भवति, प्रमा­ण­त्वा­प­रा­ध­मा­त्रेण सत्यतायां तात्पर्यकल्पने स्वप्न­वि­ष­य­सृ­ष्टि­श्रु­ते­रपि तथात्वं स्यात् । प्रयोजनशून्यता तूभयत्र समाना दुःख­त­त्सा­ध­नां­शेऽ­न­र्थ­हे­तुत्वं च समम् । सृष्टि­स­त्य­ता­प्र­ति­पा­दने कर्मकाण्डस्य प्रत्य­क्षा­देर्वा प्रामा­ण्य­सिद्धिः प्रयोजनमिति चेद्, न; तत्प्रामाण्यस्य जग­न्नि­त्य­त्व­वा­दि­मी­मां­स­क­म­तेऽ­प्यु­प­पत्तौ परि­णा­म­वा­दाऽ­न­व­ता­रात् । मतान्तरेष्वपि सृष्टि­श्रु­त्य­व­ग­मात् प्रागेव लोक­व्य­व­हा­रा­त्त­त्प्रा­माण्यं सिद्धम् । ततो निष्प्रयोजनैव सृष्टिश्रुतिः स्यात् । अस्मन्मते तु माना­न्त­राऽ­न­व­ग­ता­ख­ण्डै­क­र­स­ब्र­ह्मा­व­ग­माय महा­वा­क्य­प्र­वृत्तिः । सृष्टि­श्रु­तिस्तु –
“अध्या­रो­पा­प­वा­दाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ।
नाऽन्यत्र कारणात्कार्यं न चेत्तत्र क्व तद्भवेत् ॥”
इति न्याये­नाऽ­ख­ण्डै­क­र­स­त्व­प्र­ति­पा­द­ना­येति न वैयर्थ्यं किञ्चित् । ननु यथा “इदं रजतम्” इति ज्ञानस्य प्रतीतितो रज­त­स्व­रू­प­मा­त्र­गो­च­र­त्वेऽपि वस्तुतो रज­ता­भा­स­गो­च­र­त्वे­नाऽ­प्रा­माण्यं तथा श्रौत­सृ­ष्टि­ज्ञा­न­स्याऽ­पीति चेद्, न; तत्र यथा रज­ता­भा­सा­द­न्य­न्मु­ख्य­र­जतं लोके प्रसिद्धं तद्वदत्र सृष्ट्यन्तरस्य मुख्य­स्याऽ­भा­वा­त्तस्या एव मुख्य­सृ­ष्टि­त्वेन तद्गोचरज्ञानस्य मुख्य­र­ज­त­ज्ञा­न­वत् प्रामा­ण्यो­प­पत्तेः । न च पार­मा­र्थि­क­ब्र­ह्मणो मिथ्या­भू­त­प्र­प­ञ्च­भा­वा­प­त्ति­वि­रोध इति वाच्यम्, देवदत्तस्य मायया मिथ्या­व्या­घ्रा­दि­भा­वा­प­त्ति­द­र्श­नात् । न च मिथ्याकार्ये सृष्टि­श­ब्द­प्र­यो­गा­नु­प­पत्तिः, “माया ह्येषा मया सृष्टा” इत्या­दि­प्र­यो­ग­द­र्श­नात् । न च सृष्टि­मि­थ्यात्वे मानाभावः, श्रुति­स्मृ­ति­प्र­त्य­क्षा­नु­मा­ना­र्था­प­त्तीनां सत्त्वात् । “मायां तु प्रकृतिं विद्याद्”, “मम माया दुरत्यया” इति श्रुतिस्मृती अनि­र्व­च­नी­य­मा­या­त्म­कत्वं सृष्टेर्दर्शयतः । घटा­द्य­भा­व­ग्रा­हि­प्र­त्य­क्ष­मपि सृष्टे­र्मि­थ्यात्वं दर्शयति । यथा “इदं रजतम्” इत्य­त्रे­द­न्तो­पाधौ प्रतिपन्नस्य सत्येव तदुपाधौ “नेदं रजतम्” इति बाधः तथा “अस्ति घटः” इत्य­त्राऽ­स्त्य­र्थो­पाधौ प्रतिपन्नस्य घटस्य तदुपाधावेव नाऽस्तीति प्रत्यक्षेणैव बाधो दृश्यते । ननु देशकालविशेषे तदु­पा­धि­का­स्त्यर्थे वा घटस्य निषेधो नाऽस्त्य­र्थ­मात्रे, ततो देशान्तरे कालान्तरे च घटस्य सद्भाव इति चेद्, न; यदा देशकालौ निषिध्येते तदा देश­का­ला­न्त­रा­भावे न केव­लाऽ­स्त्य­र्थ­स्यै­वो­पा­धित्वं वाच्यम्, निरु­पा­धि­क­नि­षे­धा­यो­गात् । ततस्तत्र कॢप्तो­पा­धे­र्घ­टा­दि­नि­षे­ध­स­म्भवे सत्य­न्यो­पा­धि­क­ल्पने गौरवप्रसङ्गः । न चैव­मे­वाऽ­स्त्य­र्थ­नि­षे­धेऽ­स्त्य­र्था­न्त­रा­भा­वा­न्नि­षे­ध्य­स्याऽ­नु­पा­धि­त्वा­न्नि­रु­पा­धि­क­नि­षे­धोऽ­ङ्गी­क्रि­यते इति वाच्यम्, अस्त्य­र्थ­स्याऽ­नु­या­यिनो निषेधाभावात् । तस्मादस्त्यर्थे ब्रह्मणि घटाद्यभावबोधकं प्रत्यक्षं मिथ्यात्वे मानम् । यस्त्वभावस्य षष्ठ­मा­न­ग­म्य­त्व­माह तं प्रत्ये­कै­का­भा­व­वि­शि­ष्ट­व­स्त्व­न्त­र­प्र­त्यक्षं वा षष्ठमानमेव वा मिथ्यात्वं बोधयतु ।

अनुमानान्यपि तद्बो­ध­का­न्यु­च्यन्ते – विमता विकाराः स्वानु­स्यू­तै­क­व­स्तुनि कल्पिताः, प्रत्ये­क­मे­क­स्व­भा­वा­नु­वि­द्ध­त्वाद् विभक्तत्वाच्च, चन्द्र­स्व­भा­वा­नु­वि­द्ध­च­न्द्र­क­ल्पि­त­ज­ल­च­न्द्र­भे­द­वत् । शून्यवादिनं प्रति सिद्ध­सा­ध­न­ता­प­रि­हा­राय वस्तुनीति पदम् । अनेकेषु विषयेषु विज्ञानाकारः कल्पित इति वादिनं प्रत्येकेति । क्षणिकैकज्ञाने सर्वं कल्पितमिति वादिनं प्रति स्वानुस्यूतेति । वना­का­रा­नु­वि­द्धेषु तत्राऽकल्पितेषु तरु­ष्व­नै­का­न्ति­क­त्व­व्या­वृ­त्तये प्रत्येकमिति । भेदः कल्पितो जडत्वात्, कार्यत्वात्, रजतवत्; भेदत्वात् चन्द्रभेदवत्; प्रति­प­न्नो­पा­धा­व­स्थू­ला­दि­वाक्यैः प्रति­षि­ध्य­मा­न­त्वात्, देहात्मभाववत्; विरो­धि­का­र­ण­स्व­भा­वाऽ­नु­प­म­र्देन विरो­धि­का­र्या­प­त्ति­ल­क्ष­ण­त्वाद्, माया­वि­व्या­घ्र­वत्; प्रलयावस्थायां सह कालेन स्वोपाधौ शून्यत्वाद्, देहात्मभाववत् । प्रलयकाले एव शून्यत्वं न स्वोपा­धा­वि­त्या­श­ङ्का­व्यु­दा­साय सह कालेनेत्युक्तम् । अर्थापत्तिरपि – प्रपञ्चस्य मिथ्या­त्व­म­न्त­रे­णाऽ­नु­प­पन्नौ जन्मविनाशौ, अमि­थ्या­भू­त­यो­र्ब्र­ह्म­शू­न्य­यो­र्ज­न्म­वि­ना­शा­द­र्श­नात् । न चैवं प्रप­ञ्च­मि­थ्या­त्वा­ङ्गी­कारे ब्रह्म­ज्ञा­न­स्याऽपि प्रप­ञ्च­ज्ञा­न­व­न्मि­थ्या­त्व­म­नु­मी­यते इति वाच्यम्, स्वरूपतो मिथ्या­त्वा­ङ्गी­का­राद् । विषयतो मिथ्यात्वं तु “तत्सत्यं स आत्मा” इति वचनविरुद्धम् । नन्व­स्थू­ला­दि­वाक्यैः स्थूला­दि­व्य­ति­रि­क्त­रू­प­म­प्य­स्तीति प्रतिपाद्यते, न तु स्थूलादिरूपं निषिध्यते, ततः प्रति­षि­ध्य­मा­न­त्व­मिति हेतुरसिद्ध इति चेत्, स्थूल­प्र­प­ञ्च­ता­दा­त्म्य­वति ब्रह्म­ण्य­न्य­रू­प­वि­व­क्ष­याऽ­प्येवं प्रति­षे­धा­नु­प­पत्तेः; न हि शुक्लायां गवि क्षीरसम्पत्तिं विवक्षन्न शुक्ला गौरिति प्रयुङ्क्ते, किं तर्हि क्षीरसम्पन्ना गौरिति । ततः स्थूला­दि­प्र­पञ्चं निषिध्यैव रूपान्तरं प्रतिपाद्यते इत्य­ङ्गी­क­र्त­व्यम् । तर्का­प्र­ति­ष्ठा­नान्न मिथ्या­त्वा­नु­मा­न­मिति चेद्, न; विचा­र­शा­स्त्रा­ना­र­म्भ­प्र­स­ङ्गात् । न हि श्रुत्य­र्थ­नि­र्णा­य­क­त­र्क­प्र­द­र्श­नाय विचा­र­शा­स्त्रा­रम्भः, किन्तु पर­की­य­त­र्क­नि­रा­क­र­णा­यैव । ब्रह्म तु श्रुति­मा­त्र­सि­द्ध­मिति चेत्, तर्हि “असद्वा इदम्” “सदेव सोम्येदम्” इत्या­दि­श्रु­ति­द्व­य­सा­म­र्थ्यात् कारणस्य सदसत्त्वे स्याताम् । सर्वशक्तित्वाद् ब्रह्मणः सर्वमुपपन्नमिति चेद्, न; तथा सति कदा­चि­च्छू­न्य­त्व­स्याऽपि प्रसङ्गात् । सर्वशक्तित्वं तु श्रुत्य­नु­सा­रे­णै­वाऽ­व­ग­न्त­व्यम् । श्रुत्यर्थश्च तद­नु­सा­रि­त­र्का­न्नि­श्चे­तव्यः । अतोऽनुमानमपि श्रुत्यविरोधि प्रप­ञ्च­मि­थ्यात्वं साधयिष्यत्येव । न च “सन् घटः” इत्यादि सद्बु­द्ध्य­नु­ग­म­वि­रोधः, अनुगतसत्ताया अधिष्ठानत्वाद् घटा­दि­वि­शे­षा­णा­मेव मिथ्यात्वात् । तस्मादश्रौतः परिणामवाद इति सिद्धम् ।

एवं च सति विव­र्त्त­वा­दा­भि­प्रा­ये­णैव ब्रह्मणः श्रुतौ द्विवि­ध­का­र­ण­त्व­मु­क्तम् । तच्च कारणत्वं तटस्थलक्षणत्वेन यद्यपि लक्ष्याद् ब्रह्मणः पृथग्भूतं तथापि तस्य मिथ्यात्वान्न लक्ष्य­स्याऽ­द्वि­ती­य­त्व­वि­रोधः । न च सत्यस्यैव लक्षणत्वं न मिथ्याभूतस्येति वाच्यम्, असाधारणसम्बन्धो हि लक्ष­ण­त्व­प्र­यो­जको न लक्षणसत्यत्वम् । सत्या­ना­म­प्य­स­म्ब­द्धानां काकादीनां गृहो­प­ल­क्ष­ण­त्वा­द­र्श­नात् । असत्यानामपि सम्बद्धानां रजतादीनां “यद्र­ज­त­मि­त्य­भात् सा शक्तिः” इत्यादौ शुक्त्या­दि­ल­क्ष­क­त्वात् । अस्ति चाऽत्र प्रप­ञ्च­ब्र­ह्म­णो­र्वा­स्त­व­स­म्ब­न्धा­भा­वेऽ­प्या­ध्या­सि­क­स्ता­दा­त्म्य­स­म्बन्धः । अतः प्रप­ञ्च­ज­न्मा­दि­का­र­ण­त्वेन तटस्थेन जिज्ञा­स्य­वि­शु­द्ध­ब्र­ह्म­स्व­रूपं निर्वि­घ्न­मु­प­ल­क्ष्यते । न चोक्तलक्षणेन प्रधानादीनि लक्षयितुं शक्यन्ते, तेषां सर्व­ज्ञ­त्व­स­र्व­श­क्ति­त्वा­भा­वात्; सर्व­ज्ञ­त्व­स­र्व­श­क्ति­त्व­योश्च सूत्र­स्थ­य­च्छ­ब्देन विवक्षितत्वात् । सा च विवक्षा सूत्र­ग­ते­दं­श­ब्दा­र्थ­भू­त­का­र्य­प्र­प­ञ्च­प­र्या­लो­च­नया लभ्यते । तं च प्रपञ्चं वादिनः स्वप्र­क्ति­या­नु­सा­रेण विभजन्ति । तथाहि – द्रव्य­गु­ण­क­र्म­सा­मा­न्या­नीति वार्तिककारीयाः । कार्य­का­र­ण­यो­ग­वि­धि­दुः­खा­न्त­श­ब्द­वाच्या जग­दी­श्व­र­स­मा­धि­त्रि­प­व­ण­स्ना­ना­द्य­नु­ष्ठा­न­मोक्षाः पञ्चेति शैवाः । द्रव्य­गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­स­म­वायाः षडिति वैशेषिकाः । जीवा­जी­वाऽऽ­स्र­व­सं­व­र­नि­र्ज­र­ब­न्ध­मोक्षाः सप्तेति क्षपणकाः । तत्र बद्धो मुक्तो नित्य­सि­द्ध­श्चेति त्रिविधो जीवपदार्थः । पुद्गलास्तिकायो धर्मा­स्ति­का­योऽ­ध­र्मा­स्ति­काय आका­शा­स्ति­का­य­श्चे­त्य­जी­व­प­दा­र्थ­श्च­तु­र्विधः । आस्रावयति पुरुषं ज्ञानजननेन विष­ये­ष्वि­न्द्रि­य­प्र­वृ­त्ति­रा­स्रवः, स्रोतसो द्वारं संवृणोतीति शमदमरूपा प्रवृत्तिः संवरः, निश्शेषेण पुण्यापुण्ये सुखदुःखोपभोगेन जरयतीति तप्त­शि­ला­रो­ह­णा­दि­नि­र्जरः, अष्टविधं कर्म बन्धः, अलोकाकाशे सततोर्ध्वगमनं मोक्षः । द्रव्य­गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­पा­र­त­न्त्र्य­श­क्ति­नि­योगा अष्टाविति चिरन्तना प्राभाकराः; द्रव्य­गु­ण­क­र्म­सा­मा­न्य­स­म­वा­य­श­क्ति­स­ङ्ख्या­सा­दृ­श्या­न्य­ष्टा­वि­त्या­धु­निकाः । प्रमा­ण­प्र­मे­य­सं­श­य­प्र­यो­ज­न­दृ­ष्टा­न्त­सि­द्धा­न्ता­व­य­व­त­र्क­नि­र्ण­य­वा­द­ज­ल्प­वि­त­ण्डा­हे­त्वा­भा­स­च्छ­ल­जा­ति­नि­ग्र­ह­स्था­नानि षोडशेति नैयायिकाः । एका­द­शे­न्द्रि­य­प­ञ्च­प्रा­ण­प­ञ्च­भू­ता­ह­ङ्का­र­म­ह­द­व्य­क्त­पु­रुषाः पञ्चविंशतिरिति साङ्ख्याः । वेदान्तिनस्तु “त्रयं वा इदं नामरूपं कर्म”, “नामरूपे व्याकरवाणि” इति श्रुति­द्व­य­मा­श्रित्य त्रैविध्यं द्वैविध्यं वाऽङ्गी­कु­र्वन्ति ।

युक्त­श्चाऽन्त्यः पक्षः, स्रष्टुः सृज्य­गो­च­र­ना­म­रू­पयोः प्रथमं बुद्ध्यारोहात् । लोके घटं चिकीर्षौ कुलाले तद्दर्शनात् । मूलकारणमपि नामरूपाभ्यां स्वबुद्ध्यारूढं सृजति, स्रष्टृत्वात्, कुलालवत् । एतावता जगद् बुद्धि­म­च्चे­त­न­का­र्य­मिति लभ्यते । न च जीवकार्यत्वं शङ्कनीयम्, कर्तृ­त्व­भो­क्तृ­त्व­वि­शि­ष्टानां नामरूपात्मकानां सर्वजीवानां कार्या­न्तः­पा­ति­त्वात् । न च जगत्कारणस्य सर्वज्ञत्वे विवदितव्यम्, जगतः प्रति­नि­य­त­दे­श­का­ल­नि­मि­त्त­क्रि­या­फ­ला­श्र­य­त्वात् । प्रति­नि­य­त­दे­शो­त्पादाः कृष्णमृगादयः। प्रति­नि­य­त­का­लो­त्पादाः कोकिलादयः । प्रति­नि­य­त­नि­मित्ता नवा­म्बु­द­ना­द­स­म्भवा बलाकागर्भादयः । प्रतिनियतक्रिया ब्राह्मणानां याजनादयः । प्रतिनियतफलं ब्रह्मलोके सुखं नरके दुःख­मि­त्यु­दा­हा­र्यम् । तामीदृशीं निय­ति­म­सा­ङ्क­र्येण कथमसर्वज्ञः सम्पादयेत् । नाऽपि सर्वशक्तित्वे विवदितव्यम्, जगतो मन­साऽ­प्य­चि­न्त्य­र­च­ना­रू­प­त्वात् । नह्येकस्या अपि शरीररचनाया विवि­ध­ना­डी­जा­ला­दि­स­न्नि­वे­श­वि­शि­ष्टाया रूपं मनसाऽपि शक्यं चिन्तयितुं दूरे जगद्रचनायाः । तदीदृशं जगत् कथ­म­स­र्व­श­क्ति­र्वि­र­च­येत् ? तदेवं सूत्र­ग­त­य­च्छ­ब्दे­नैव सर्वज्ञत्वं सर्वशक्तित्वं च विवक्षितम् । सूत्रं चोप­ल­क्ष­ण­प्र­ति­पा­द­क­मेवं योजनीयम् – अस्योक्तविधस्य जगतो जन्मादि यतः सर्वज्ञात् सर्वशक्तेः कारणाद् भवति तत्कारणं ब्रह्मेति ।

नन्वत्र सूत्रे ब्रह्म­स्व­रू­प­ल­क्षणं नोक्तम्, न च तदन्तरेण स्वरूपमवगम्यते प्रकृ­ष्ट­प्र­का­श­त्म­त्व­म­नुक्त्वा “शाखाग्रे चन्द्रः” इत्येवोक्ते चन्द्र­स्व­रू­पा­न­व­ग­मात् । यच्छब्देन तदुक्तमिति चेत्, तत् किं सर्वशक्तित्वम् उत सर्वज्ञत्वम् ? नाऽऽद्यः; प्रधानादावपि तत्सम्भवात् । न द्वितीयः, सर्वोपाधिकस्य तस्य शुद्ध­ब्र­ह्म­स्व­रू­प­त्वा­यो­गात् । सर्वज्ञत्वं च दुर्भणम् । किं षड्भिः प्रमाणैः सर्वज्ञत्वम् उत प्रत्यक्षेणैव ? आद्येऽपि न तावद् युगपत् सर्वज्ञत्वम्, प्रत्य­क्षा­दी­ना­म­यु­ग­पत् प्रवृत्तेः । क्रमेण सर्वज्ञत्वेऽपि तत्किं सर्वापरोक्ष्यम् उत सर्व­ज्ञा­न­मा­त्रम् ? नाऽऽद्यः, नित्या­नु­मे­या­ना­मा­प­रो­क्ष्या­नु­प­पत्तेः । न द्वितीयः; अस्माकमपि षड्भिः प्रमाणैः क्रमेण सर्व­ज्ञ­त्व­प्र­स­ङ्गात् । प्रत्यक्षेणैव सर्वज्ञत्वमपि किं बाह्येन उत मानसेन अथवा साक्षि­प्र­त्य­क्षेण ? नाऽऽद्यः; बाह्ये­न्द्रि­याणां देश­का­ल­वि­प्र­कृ­ष्टा­र्थेषु साक्षा­त्स­म्ब­न्धा­भा­वात् । परम्परया सम्ब­न्धेऽ­स्मा­क­मपि सर्व­ज्ञ­त्व­प्र­स­ङ्गात् । द्वितीयेऽपि किं केवलेन मनसा उत योगा­भ्या­स­ज­न्या­ति­श­य­यु­क्तेन अथवा सर्व­वि­ष­य­सं­स्का­र­यु­क्तेन ? नाऽऽद्यः, केवलमनसो बहि­र­स्वा­त­न्त्र्यात् । न द्वितीयः, अतिशयस्य स्वविषय एव प्रभवात् । मार्जा­रा­दि­दृ­ष्टी­ना­मपि योग्य­रू­पे­ष्वे­वाऽ­ति­श­य­व­त्त्व­द­र्श­नात् । न तृतीयः, प्रथमतः सर्वग्रहणाभावे तत्र संस्कारायोगात् । क्रमेण सर्वग्रहणे सति तत्सं­स्का­र­क­ल्प­नेऽ­प्य­ती­ता­ना­ग­त­व­र्त­मा­ना­र्था­ना­म­न­न्ता­ना­मि­य­त्ता­न­व­धा­र­णात् सर्व­ग्र­ह­णा­नु­प­पत्तिः । न च साक्षि­प्र­त्य­क्षेण सर्वज्ञता, प्रदी­प­प्र­भा­व­त्त­स्याऽ­ती­ता­ना­ग­ता­र्थ­ग्रा­हि­त्वा­भा­वात् । तस्मान्नाऽस्ति सर्वज्ञ इति ।

अत्रोच्यते – सर्व­वि­ष­या­का­र­धा­रिषु मायापरिणामेषु प्रतिबिम्बितं चैतन्यं सर्वानुभव इत्युच्यते । तस्य च विष­यै­रा­ध्या­सि­क­स­म्ब­न्धा­द्व­र्त­मा­न­काले तावत् सर्वज्ञत्वं सिद्धम् । अतीतविषयाणां तद­व­च्छि­न्न­मा­या­वृ­त्तीनां तद­व­च्छि­न्ना­नु­भ­वानां च निवृत्तौ तत्सं­स्का­रा­द­स्म­दा­दि­ष्वि­वाऽ­ती­त­वि­षयाः स्मृतिरूपा मायापरिणामा भवन्ति । तत्प्र­ति­बि­म्बि­ता­नु­भ­वे­नाऽ­ती­त­वि­ष­य­ज्ञ­त्व­मपि सिध्यति । तथा सृष्टेः प्रागपि स्रक्ष्य­मा­ण­प­दा­र्था­व­धा­र­णस्य कुलालादिषु दृष्ट­त्वा­दा­गा­मि­स­र्व­वि­ष­य­ज्ञा­न­मपि स्वमा­या­प­रि­णा­म­व­शाद् भविष्यतीति युक्ता सर्वज्ञता । न चाऽत्र मानाभावः; “यः सर्वज्ञः” इति श्रुतेः । न च स्वरू­प­ल­क्ष­ण­त्वा­स­म्भवः, लक्ष­णा­भि­धा­ना­व­सरे सर्वज्ञशब्देन सर्व­प्र­का­श­क­त्वो­प­ल­क्षि­त­शु­द्ध­चै­त­न्य­मा­त्रस्य विवक्षितत्वात् । तदेवं जन्म­स्थि­ति­ना­शा­ख्य­वि­का­र­त्र­य­का­र­णस्य ब्रह्मणः सूत्र एव स्वरूपलक्षणमपि सिद्धम् । यद्यपि वृद्धि­प­रि­णा­मा­प­क्ष­या­स्त्रयो भावविकारा जन्म­स्थि­ति­ना­श­व्य­ति­रे­केण प्रसि­द्धा­स्त­थापि वृद्धिर्जायते वृद्धिस्तिष्ठति वृद्धि­र्न­श्य­ती­त्ये­व­मेव वृद्ध्यादयो निरूप्यन्ते नाऽन्यथा । ततो वृद्ध्यादीनां जन्मा­द्य­न्त­र्भा­वान्न सूत्र­ग­ता­दि­श­ब्देन पृथग् ग्रहणम् । न च निरु­क्त­का­र­प­ठि­त­ष­ड्भा­व­वि­का­र­ग्र­हणे सति नाऽस्त्य­न्त­र्भा­व­प्र­यास इति वाच्यम्, तदा ह्यार्पे­य­वा­क्यस्य न तावदनुमानादि मूलम्, अस्माकमपि तत्सम्भवेन तद्वा­क्य­वै­य­र्थ्यात् । नाऽपि प्रत्यक्षम्, ब्रह्म­ज­न्य­म­हा­भू­त­वि­का­राणां श्रुति­म­न्त­रे­णाऽ­प्र­त्य­क्ष­त्वात् । भौतिकविकारा एव मुनिना प्रोक्ता इति चेत्, तर्हि तेषामिह ग्रहणे भौति­क­का­र­ण­भू­त­प­ञ्च­क­मेव ब्रह्मत्वेन सूत्रे लक्षितमिति बुद्धिः स्यात् । अतः श्रुत्युक्ता जन्मादयस्त्रय एवाऽत्र ग्राह्याः । न हि श्रुति­र्मू­ल­प्र­मा­ण­म­पे­क्षते, येनोक्तदोषः स्याद्, अतो यत्कि­ञ्चि­ज्ज­न्म­व­द्भू­त­भौ­तिकं तस्य सर्वस्य मूलकारणत्वेन श्रुत्युक्तं ब्रह्मैवाऽत्र लक्षि­त­मि­त्य­व­ग­म्यते । नन्वेवमपि सूत्रे श्रुत्युक्तं जन्मैव सूत्र्यतां ताव­तै­वो­क्ता­र्थ­सि­द्धे­रिति चेद्, न; केव­ल­नि­मि­त्त­का­र­ण­त्व­श­ङ्का­व्यु­दा­सा­र्थ­त्वात् स्थितिप्रलययोः । नह्यनुपादाने केवलनिमित्ते स्थितिप्रलयौ सम्भवतः । यद्यपि जन्म­स्थि­ति­प्र­लया निरु­क्त­का­रे­णाऽ­प्यु­क्ता­स्त­थापि न तद्वचनद्वारा श्रुतिमूलत्वं सूत्रस्य कल्पनीयम् । सूत्राणां साक्षा­च्छ्रु­त्य­र्थ­नि­र्ण­य­प­र­त्वात् । अन्यथा ऋषिवाक्यान्येव वक्ष्य­मा­ण­सू­त्रै­रु­दा­हृत्य निर्णीयेरन् । तस्मात् “यतो वा इमानि भूतानि जायन्ते” इत्ये­त­च्छ्रु­त्यु­क्ता­नेव जन्म­स्थि­ति­ना­शान् साक्षात् सूत्रे निर्दि­श्य­त­त्का­रणं ब्रह्मेति लक्ष्यते ।

ननु कथं ब्रह्मणः कारणत्वम्, किं ब्रह्म पूर्वरूपं परित्यज्य रूपान्तरेण परिणमते उताऽपरित्यज्य विवर्तते ? आद्ये सृष्टेरुपरि ज्ञाना­न­न्द­रू­पस्य ब्रह्मण उच्छेदः स्यात् । अथ जगद्रूपेण परिणतं तद् ब्रह्म पुनरपि प्रलयावस्थायां ज्ञाना­न­न्द­ब्र­ह्म­रू­पेण परिणमेत तथापि तस्य ब्रह्मणः पुन­र्ज­ग­दा­का­र­प­रि­णा­म­स्व­भा­वि­त्वा­द­नि­र्मो­क्ष­प्र­सङ्गः । न च सृष्टिश्रुतिः परिणामे प्रमाणम्, तस्याः सृष्टि­मा­त्रो­प­क्षी­णायाः पूर्व­रू­प­प­रि­त्या­गा­प­रि­त्या­ग­यो­स्ता­ट­स्थ्यात् । न च श्रुत्यन्तरं परिणामे सम्भवति, “अज आत्मा महान् ध्रुवः” इति ध्रुवशब्देन परि­णा­म­वि­रु­द्ध­कौ­ट­स्थ्या­भि­धा­नात् । कूटस्थत्वं च ब्रह्मणो निर­व­य­व­त्वा­दु­प­प­न्नम् ।

ननु निरवयवमपि परिणमत एव । तथा हि – हेम­ग­त­रु­च­का­दि­प­रि­णामः परम्परया पर­मा­णु­प­र्य­व­सायी, अव­य­व­वृ­त्ति­त्वात्, संयोगवत् । संयोगो ह्यव­य­व्ये­क­दे­श­स­म­वेतः परम्परया निर­व­य­व­प­र­मा­णु­सं­यो­ग­पु­रः­सरः प्रसिद्ध इति । तत्र वक्तव्यं कोऽयं परिणाम इति । मृत्पिण्डस्य घटरूपापत्ताविव स्वावयवानां पूर्व­सं­यो­गा­त्सं­यो­गा­न्त­रा­पत्त्या संमू­र्छि­ता­व­यत्वं परिणामः, तक्रा­द्या­त­ञ्च­ना­व­य­व­सं­यो­गेन क्षीरस्य दधि­भा­व­व­द­व­य­वा­न्त­र­सं­यो­गेन सम्मू­र्छि­ता­व­य­वत्वं वा, यूनो वृद्ध­त्व­व­द­व­स्था­न्तरं वा, काष्ठस्य स्तम्भा­द्या­प­त्ति­व­द­न्य­था­भावो वा, अणो­र­ण्व­न्त­र­सं­यो­गेन द्व्यणु­का­प­त्ति­व­द्व­स्त्व­न्त­र­सं­योगो वा, उदकस्य नदी­भा­व­व­त्प­रि­स्पन्दो वा । पक्वफलस्य वर्णान्तरवद् गुणान्तरोदयो वा, उपा­दा­ना­नु­र­क्त­द्र­व्या­न्त­रो­त्प­त्तिर्वा ? न तावत् प्रथमद्वितीयौ, निरवयवस्य तादृ­श­प­रि­णा­मा­नु­प­पत्तेः । नाऽपि तृतीयचतुर्थौ, तथा सति जगदाकारपरिणामे पुन­र्ब्र­ह्म­भा­वा­नु­प­प­त्ता­व­नि­र्मो­क्ष­प्र­सङ्गः । न हि वृद्धः कदाचिदपि युवा भवति । नाऽपि स्तम्भा वृक्षरूपेण प्ररोहेयुः । क्वचि­त्पु­नः­प्र­रो­हेऽपि दृश्यत इति चेत्, तर्हि मोक्षस्यापि तथा पुनः परिणामरूपत्वे सत्यनित्यत्वं दुर्वारं स्यात् । नाऽपि पञ्च­म­ष­ष्ठ­स­प्तमाः, परि­णा­म­ल­क्ष­ण­स्याऽ­ति­व्याप्तेः । वस्त्व­न्त­र­सं­यो­गि­न्या­काशे परिस्पन्दमाने भ्रमरे लौहित्योदयवति च पटे द्रव्य­प­रि­णा­म­बु­द्ध्य­भा­वात् । नाऽप्यष्टमः, अवयविनस्तथा परि­णा­मेऽ­प्य­व­य­व­प­रि­णा­मस्य दुर्भणत्वात् । किं हेमावयवानां रुचकरूपेण परिणामः किं वा रुच­को­प­यु­क्त­द्र­व्या­न्त­र­रू­पेण उत रुच­को­प­यु­क्ता­व­स्था­न्त­र­रू­पेण । न तावद् द्वितीयतृतीयौ, रुचकव्यतिरेकेण तदु­प­यु­क्त­द्र­व्या­न्त­रा­व­स्था­न्त­र­यो­र­द­र्श­नात् । नाऽपि प्रथमः, रुच­क­स्याऽ­व­य­वि­का­र्य­त्वात् । अवयवकार्यत्वे चाऽऽर­म्भ­वा­द­प्र­स­ङ्गात् । न चाऽवयवानां रुच­का­नु­ग­मा­नु­प­पत्तिः, अवयविद्वारा तदुपपत्तेः । न चाऽऽश्रयावयवेषु विका­र­म­न्त­रे­णाऽऽ­श्रि­ता­व­य­विनि विका­रा­नु­प­पत्तिः, परमाणौ असतोरेव जन्म­वि­ना­श­यो­र्द्व्य­णुके दर्शनात् । जन्म­वि­ना­श­व्य­ति­रि­क्त­ध­र्मस्य तथात्वमिति चेद्, न; कपालेष्वसत्या एव घट­त्व­जा­ते­र्घ­ट­स­म­वे­त­त्वात् । व्याप­का­ना­म­व­य­वा­ना­म­व­स्था­न्त­र­म­न्त­रेण व्याप्य­स्याऽ­व­य­वि­नोऽ­व­स्था­न्तरं नोपपन्नमिति चेद्, न; व्याप­क­यो­र्जा­ति­गु­ण­यो­र­व­स्था­न्त­रा­भा­वेऽपि व्याप्यद्रव्ये तद्दर्शनात् । अस्तु वाऽवयवानां परि­णा­म­स्त­था­प्य­व­य­वि­प­रि­णा­म­प्र­यु­क्त­त्वा­न्नाऽऽसौ ब्रह्मपरिणामस्य दृष्टान्तः । न हि ब्रह्मावयवकं परिणामि किञ्चिदस्ति, यत्प्रयुक्तो ब्रह्मपरिणामः स्यात् । निर­व­य­व­त्वा­द­व­य­वि­दृ­ष्टा­न्ते­नाऽपि न ब्रह्मणः परिणामसिद्धिः ।

यत्तु निरवयवसंयोगवत् परिणाम इति, तत्राऽपि किं दृश्य­मा­ना­व­य­वि­सं­यो­गस्य पर­मा­णु­स­म­वे­त­त्व­मु­च्यते उत पर­मा­णु­सं­यो­ग­पू­र्व­कत्वं कल्प्यते ? नाऽऽद्यः, पर­मा­णु­ग­त­रू­पा­दि­व­द­प्र­त्य­क्ष­त्व­प्र­स­ङ्गात् । न द्वितीयः, अवयविन्येव घट­त्व­जा­ति­स­म­वा­य­वत् संयोगोपपत्तेः । अवयवानां संयो­गेऽ­नु­ग­म­स्त्व­व­य­वि­द्वा­राऽ­न्य­था­सिद्धः । संयो­ग­स्याऽ­व­य­वि­वृ­त्तित्वे कृत्स्न­व्या­पि­त्व­प्र­स­ङ्गे­नाऽ­व­य­वे­ष्वेव वृत्तिरिति चेत्, तर्ह्यवयविनां तन्तूनां संयोगासम्भवेन पटा­ना­र­म्भ­प्र­सङ्गः । कृत्स्न­व्या­पित्वं तु तार्किकं प्रत्य­व­य­वा­वृ­त्ति­प­र­मा­णु­सं­यो­गो­दा­ह­र­णेन परिहर्तव्यम् । अन्या­न्प्र­त्या­का­श­वर्ती शब्द उदाहार्यः । तस्मान्न संयो­ग­दृ­ष्टा­न्तेन निर­व­य­व­प­रि­णा­मोऽ­नु­मातुं शक्यः ।

ननु कथं ब्रह्मणो निरवयवत्वम्, येन परिणामो निराक्रियेत ? सावयवत्वस्य दुर्भ­ण­त्वा­च्छ्रु­ते­श्चेति वदामः । सावयवत्वे किम­व­य­वा­व­य­वि­नो­रु­भ­यो­रपि स्वप्रकाशत्वम् उताऽन्यतरस्यैव ? आद्ये तयो­रि­त­रे­त­रा­वि­ष­य­त्वान्न केनचिदपि सावयवत्वं प्रतीयात् । द्वितीये घटात्मनोरिव तयो­र्ना­शं­शि­भा­व­सिद्धिः । श्रुतिश्च “निष्कलं निष्क्रियं शान्तम्” इति क्रिया­व­य­व­शू­न्य­ता­माह । निय­न्तृ­त्वा­दि­क्रि­यापि श्रूयत इति चेत्, तर्हि तत्त्वतो निष्क्रियत्वं मायया सक्रियत्वमिति व्यवस्थाऽस्तु; “मायाभिः पुरुरूप ईयते” इति विनिगमश्रुतेः । निर्व्यापारस्य चेतनस्य सुषुप्ते पुरु­षा­र्थ­त्वा­नु­भ­वेन निष्क्रियत्वस्य तात्त्वि­क­त्वो­प­पत्तेः । न च ब्रह्म­प्र­वृ­त्ते­र्मा­यि­कत्वे युक्त्यभावः, स्वप्र­वृ­त्ति­व­न्नि­ष्प्र­यो­ज­न­त्वेन मिथ्या­त्वो­प­पत्तेः । तदेवं निरवयवं ब्रह्म न परिणमते, किन्तु विवर्तते इति द्विती­य­प­क्षोऽ­ङ्गी­कार्यः । तस्मिन्नपि पक्षे पूर्व­रू­प­म­प­रि­त्य­जतो ब्रह्मणो निर्वि­का­र­त्वा­ज्ज­ग­द्रू­पेण विकरिष्यमाणं वस्त्वन्तरं किञ्चि­द­ङ्गी­का­र्यम् । तत्किं माया उताऽन्यत् ? नाऽन्यत्, ब्रह्ममायाभ्यां व्यतिरिक्तस्य कार्यत्वेन मूल­का­र­ण­त्वा­यो­गात् ।

मायापक्षेऽपि किं “माया प्रज्ञा तथा मेधा” इत्या­भि­धा­न­म­नु­सृत्य मायाशब्देन पज्ञोच्यते उत पामरप्रसिद्ध्या मन्त्रौषधादिः अथवा स्वकी­य­प­ण्डि­त­म्म­न्य­त्वेन जडात्मिका काचि­त्पा­र­मा­र्थि­क­शक्तिः किं वा “नाऽसदासीत्” इत्या­दि­शा­स्त्रा­नु­सा­र­तोऽ­नि­र्व­च­नी­य­शक्तिः ? आद्येऽपि न तावत् “प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म” इति श्रुत्यु­क्त­ब्र­ह्म­चै­त­न्य­रू­प­प्र­ज्ञाया मायात्वं सम्भवति, “भूयश्चान्ते विश्व­मा­या­नि­वृत्तिः”, “दैवी ह्येषा गुणमयी”, “माय­याऽ­प­हृ­त­ज्ञाना” इति शास्त्रेण मायाया निव­र्त्य­त्व­गु­ण­म­य­त्व­प्र­ज्ञा­ना­व­र­ण­त्वा­भि­धा­नात्, चैतन्यस्य तदसम्भवात् । नाऽपि “धीः प्रज्ञा शेमुषी मतिः” इत्य­भि­धा­नो­क्ताया बुद्धि­रू­प­प्र­ज्ञाया मायात्वम्, बुद्धे­रु­पा­दा­न­त्वा­यो­गात् । न द्वितीयः, न हि लोके मन्त्रौषधादौ मायाशब्दः प्रयुज्यते, किं तर्हि तत्कार्ये गन्धर्वनगरादौ बाधिते । न तृतीयः, पारमार्थिकशक्तौ प्रमाणाभावात् । चतु­र्थेऽ­प्य­नि­र्व­च­नीया सा माया किं जगत उपादानं किं वा जगदुत्पत्तौ कारणमिति विवेक्तव्यम् ? तत्र “मायां तु प्रकृतिं विद्यात्” इति श्रुते­रु­पा­दा­नत्वं युक्तम् । न च “प्रक्रियते अनया” इति प्रकृतिशब्दः करणे व्युत्पादनीयः, उपादाने रूढत्वात्, रूढेश्च प्राबल्यात् । “इन्द्रो मायाभिः” इति तृतीया श्रुत्या करणत्वमिति चेद्, न; तत्राऽऽत्मनो बहुत्वापत्तावेव करणत्वश्रवणात् । तावता च प्रप­ञ्चो­पा­दा­नत्वे का हानिः ? “आत्मन आकाशः सम्भूतः” इति पञ्चम्या प्रकृ­ति­त्व­मा­त्मनः श्रूयते, ततो न मायोपादानमिति चेद्, न; निमित्तेऽपि पञ्चमीसम्भवात् । न च मायैव निमि­त्त­म­स्त्विति वाच्य­म्,जा­ड्य­रू­पेण मायायाः प्रप­ञ्चेऽ­नु­ग­त­त्वात् । आत्माऽपि सत्तारूपेण स्फूर्तिरूपेण वाऽनुगत इति चेद्, एवं तर्ह्यात्मा माया चेत्युभयम् उपादानमस्तु । तथा च माया­या­म­ति­व्या­प्तेन जग­ज्ज­न्मा­दि­का­र­ण­त्व­ल­क्ष­णेन विशुद्धं ब्रह्म न सिध्यति । अत्रोच्यते – एकस्य कार्यस्य पर­स्प­र­नि­र­पे­क्षो­पा­दा­न­द्व­याऽ­स­म्भ­वा­न्माया ब्रह्म च मिलि­त्वै­क­मे­वो­पा­दा­न­मिति वाच्यम् । तत्र त्रैविध्यं सम्भवति – रज्ज्वा संयु­क्त­सू­त्र­द्व­य­वत् सम­प्र­धा­न­भा­वे­नो­भ­य­मपि जगत उपादानम् । तत्र सत्ता­स्फू­र्त्यं­श­यो­र्ब्र­ह्मण उपयोगः । जाड्य­वि­का­रां­श­योस्तु मायाया इति केचिदाहुः ।

“देवा­त्म­श­क्तिम्” इति श्रुति­ब­ला­न्मा­याख्या शक्तिरेव साक्षादुपादानम् । शक्तेश्च नियमेन शक्ति­म­त्पा­र­त­न्त्र्यात् शक्तिमति ब्रह्म­ण्य­प्य­र्थाद् उपादानत्वं पर्य­व­स्य­ती­त्यन्ये । आरोपिताया मायाया अधि­ष्ठा­न­ब्र­ह्म­स्व­रू­प­म­न्त­रेण वस्तुतः स्वरू­पा­न्त­रा­भा­वाद् मायाया एव साक्षा­दु­पा­दा­न­त्वेऽपि तदधिष्ठानत्वेन ब्रह्म­णोऽ­प्यु­पा­दा­न­त्व­म­व­र्ज­नी­य­मि­त्य­परे । आद्ये पक्षे माया­वि­शि­ष्ट­ब्र­ह्मणो मुख्योपादानत्वं द्विती­य­तृ­ती­य­योस्तु मायाया एव । पक्षत्रयेऽपि विशुद्धब्रह्मण औप­चा­रि­क­मे­वो­पा­दा­न­त्वम् । तत्र मुख्योपादानस्य जगत्कारणत्वं स्वरूपलक्षणम् । औप­चा­रि­को­पा­दा­नस्य तु तत्तटस्थलक्षणम् । तथा सति किं स्वरू­प­ल­क्ष­ण­त्वे­नाऽ­भि­प्रेतं जगत्कारणत्वं माया­या­म­ति­व्याप्तं किं वा तटस्थलक्षणत्वेन ? नाऽऽद्यः, मायाया लक्ष्यान्तः पातित्वात् । न द्वितीयः, जगत्कारणत्वस्य तटस्थलक्षणरूपेण मायायामवृत्तेः । तस्मा­ज्ज­ग­त्का­र­ण­त्व­रू­प­त­ट­स्थ­ल­क्ष­णेन ज्ञाना­न­न्दा­दि­रू­प­स्व­रू­प­ल­क्ष­णेन च विशु­द्ध­ब्र­ह्म­सिद्धिः ।

ननु न तावत् पृथि­व्या­द्यु­पा­दा­नत्वं ब्रह्मलक्षणम्, पृथि­व्या­दी­ना­मु­त्प­त्त्य­द­र्श­नात् । नाऽपि घटा­द्यु­पा­दा­न­त्वम्, घटादीनां पृथि­व्या­दि­का­र्य­त्वा­दिति चेद्, मैवम्; विमताः पृथि­व्य­प्ते­जो­वा­यवः जायन्ते, पृथि­व्य­प्ते­जो­वा­यु­बु­द्धि­गो­च­र­त्वात्, सम्प्र­ति­प­न्न­पृ­थि­व्य­प्ते­जो­वा­यु­भा­ग­वत् । आकाशकालदिगादयो जायन्ते, विभक्तत्वाद्, घटादिवत् । ननु प्रत्य­नु­मा­न­मस्ति – पृथिव्यादयो न जायन्ते, महाभूतत्वात्, आकाशवत् । आकाशश्च न जायते, निर­व­य­व­द्र­व्य­त्वात्, आत्मवत्, इति चेद्, मैवम्; सामा­न्य­वि­ष­या­न्म­हा­भू­त­त्व­हे­तो­रपि विशेषविषयस्य पृथि­वी­बु­द्धि­गो­च­र­त्वस्य बलीयस्त्वाद् । तदुक्तं भट्टाचार्यैः –
“बाधः सामा­न्य­श­स्त्रस्य विशेषविषयाद्यथा ।
अनु­मा­ना­न्त­रै­रे­व­म­नु­मा­नस्य बाधनम् ॥” इति ।
आका­श­ज­न्मा­भा­वा­नु­माने श्रुतिविरोधः साधनविकलश्च दृष्टान्तः, निर्गुणात्मनि गुण­व­त्त्व­ल­क्ष­णस्य द्रव्य­त्व­स्याऽ­भा­वात् । तस्मात् जाय­मा­न­पृ­थि­व्या­दि­कृ­त्स्न­ज­ग­दु­पा­दा­नत्वं ब्रह्मलक्षणम् ।

ननु वादिनो जगदुपादाने विप्रतिपद्यन्ते । तथाहि – विमताः सर्वे विकाराः, सुख­दुः­ख­मो­ह­सा­मा­न्य­प्र­कृ­तिकाः, तद­न्वि­त­स्व­भा­व­त्वाद्, ये यद­न्वि­त­स्व­भा­वास्ते तत्प्रकृतिकाः, यथा मृदन्विता मृत्प्रकृतिकाः शरावादयः । तथा विमताः सर्वविकारा अवि­भ­क्तै­क­प्र­कृ­तिकाः, परिमितत्वात् अनेकत्वात् विकारवच्च, शरावादिवत्, इति साङ्ख्याः प्रधानं जग­दु­पा­दा­न­म­नु­मि­मते । विमतं कार्यद्रव्यं स्वप­रि­मा­णा­द­णु­त­र­प­रि­मा­णा­र­ब्धम्, कार्य­द्र­व्य­त्वात्, पटवत् इति पर­मा­णूं­स्त­द्वा­दिनः कल्पयन्ति । सर्वं कार्य­म­भा­व­पु­रः­स­रम्, योग्यत्वे सत्य­नु­प­ल­भ्य­मा­न­पू­र्वा­व­स्थ­त्वात्, व्यतिरेके पर­प­रि­क­ल्पि­ता­त्म­वत्, इति शून्यं शून्यवादिनो वदन्ति । योगाः शैवाश्च स्वकी­या­ग­म­सा­म­र्थ्या­द्धि­र­ण्य­गर्भं पशुपतिं चाऽऽहुरिति । तदयुक्तम् – आन्तराणां सुखादीनां बाह्यानां घटादीनां च प्रत्यक्षतो भेदप्रतीतौ सुख­दुः­ख­मो­ह­सा­मा­न्या­न्वि­त­त्व­हे­तो­र­सि­द्ध­त्वात् । घटादिविकाराः सुख­दुः­ख­मो­हा­त्मकाः, स्वाभि­व्य­ञ्ज­क­चि­त्तो­पाधौ सुखा­द्या­का­र­प्र­ति­भा­स­हे­तु­त्वाद्, यथा दर्पणोपाधौ मुखा­का­र­प्र­ति­भा­स­हे­तु­र्मु­खा­त्मको बिम्ब इति हेतुसिद्धिरिति चेद्, न; तथा सत्येकमेव पदा­र्थ­मु­प­ल­भ­मा­नस्य युग­प­त्सु­खा­दि­त्रि­त­यो­प­ल­म्भ­प्र­स­ङ्गात् । अदृ­ष्ट­व­शा­दे­को­प­लम्भ इति चेद्, न; अदृष्टेन वस्तु­सा­म­र्थ्य­नि­य­मा­यो­गात् । नह्यदृष्टवशात् पाषाणो मृदुर्भवति । अदृष्टस्य वस्तु­सा­म­र्थ्या­नि­या­म­क­त्वेऽ­प्यु­प­ल­म्भ­नि­या­म­क­त्व­म­स्त्ये­वेति चेद्, एवमपि सुखा­दि­सा­मा­न्या­न्वि­त­त्व­हे­तु­र­नै­का­न्तिकः । शुक्ला­दि­गु­णै­र्घ­ट­त्वा­दि­सा­मा­न्यै­श्चाऽऽ­न्वि­तानां द्रव्याणां तत्प्र­कृ­ति­त्वा­द­र्श­नात् । परिमितत्वमपि वस्तुकृतं चेत्, प्रधा­न­पु­रु­ष­यो­र्नि­त्य­यो­र­नै­का­न्ति­कता । देशकालकृतं चेद्, घटहिमकरकादिषु प्रत्य­क्ष­दृ­ष्ट­भि­न्न­प्र­कृ­ति­के­ष्व­ने­का­न्तम् । एते­नाऽ­ने­क­त्व­वि­का­र­त्व­हेतू व्याख्यातौ । कार्यद्रव्यत्वं च दीर्घ­वि­स्ती­र्ण­दु­कू­ल­द्व­या­रब्धे सङ्कुचिते रज्जु­द्र­व्येऽ­नै­का­न्ति­कम् । अथ दुकू­ल­द्व­य­सं­यो­ग­म­न्त­रेण रज्जुद्रव्यं नामाऽ­न्य­न्नाऽस्ति तथापि तत्प्र­त्य­नु­मा­न­ग्र­स्तम् । विमतं द्व्यणुकं सावयवारब्धम्, सावयवत्वाद्, घटवत् इति हि प्रतिप्रयोगः । शून्यवादिनोऽपि घटस्य पूर्वावस्थारूपा मृत् प्रत्य­क्षो­प­ल­ब्धे­त्य­सिद्धो हेतुः । योगशैवागमास्तु वेद­वि­रो­धा­द­प्र­मा­णम् ।

ननु वादिनां प्रमा­णा­नु­प­प­त्ता­वपि न प्रमे­या­नु­प­पत्तिः, न हि चक्षु­रु­प­द्र­व­मा­त्रेण दृश्य­रू­पा­दि­हा­नि­र्दृ­ष्टेति चेद्, न; प्रमे­य­स्याऽ­प्य­न्य­दी­यस्य दुर्निरूपत्वात् । किं केवलं प्रधानादि जगत्कारणम् उते­श्व­रा­धि­ष्ठि­तम् ? नाऽऽद्यः; अचेतनस्य प्रति­नि­य­त­र­च­ना­नु­प­पत्तेः । द्वितीयेऽपि तस्येश्वरस्य श्रुतिसिद्धत्वे ब्रह्म­वा­द­प्र­सङ्गः । अनुमानगम्यत्वे कुला­ला­दि­दृ­ष्टा­न्ते­नैव परि­च्छि­न्न­ज्ञा­न­श­क्तित्वं स्यात् । अथ कुला­ला­दि­व­द­ने­क­त्वा­भा­वा­दे­कस्य सर्व­ज­ग­त्स्र­ष्टु­स्तस्य सर्व­ज्ञ­त्व­स­र्व­श­क्तित्वे अर्थात् भविष्यतः । एवमपि विमतं जग­ज्जी­वे­श्व­रा­भ्या­मु­त्प­द्यते, कार्यत्वाद्, घटादिवत्, इत्यतिप्रसङ्गो दुर्वारः । अदृष्टद्वारा जीवस्याऽपि जग­त्क­र्तृ­त्वा­दि­ष्टा­प­त्ति­रिति चेत्, तर्हि घटा­दि­वै­ल­क्ष­ण्याय पृथिव्यादौ कर्तृत्रयं प्रसज्येत । शून्यस्य तु निरु­पा­ख्य­त्वान्न जग­दु­पा­दा­न­त्व­स­म्भा­व­नाऽ­प्यस्ति, जगतः सदन्वयात् । सदन्वयः संवृत्तिकल्पित इति चेद्, एवमपि त्वन्मते निरन्वयविनाशवतः पूर्वकल्पस्य संस्करासम्भवेन तत्सदृशो वर्तमानकल्प इति नियमो न स्यात् । ततश्च कर्म­त­त्फ­ल­त­त्प्र­मा­ण­व्य­व­हा­रो­च्छेदः । विशि­ष्ट­स­न्नि­वे­श­यु­क्त­दे­वा­दि­भा­व­का­म­न­याऽ­नु­ष्ठि­त­क­र्मणां कल्पान्तरे तथा­वि­ध­वे­दा­दि­रू­पा­नु­त्पत्तेः कर्मोच्छेदः । अत्य­न्त­पु­ण्य­का­रिण आकल्पं स्वर्गमनुभूय कल्पान्तरे पूर्व­जा­ति­स्म­र­ण­पू­र्वकं जन्म श्रुतौ फलत्वेन श्रुतं तच्च फलं निरन्वयविनाशे संस्काराभावान्न सम्भवेत् । तथा पूर्ववेदस्य निरन्वयविनाशे सति धर्मस्य माना­न्त­रा­ग­म्य­त्वेन तद्गो­च­र­नू­त­न­प­द­र­च­नायाः पुरुषैः कर्तुमशक्यतया धर्म­प्र­मा­ण­म­प्यु­च्छि­द्येत । तदङ्गीकारे च तथैव तद­भि­म­त­क­र्म­त­त्फ­ल­त­त्प्र­मा­णा­ना­म­प्यु­च्छेदः स्यात् । सर्वं कार्यं स्वभा­वा­दे­वो­त्प­द्यत इति बार्हस्पत्यो मन्यते । स प्रतिवक्तव्यः – किं स्वयमेव स्वस्य निमि­त्त­मि­त्यर्थः, किं वा निर्नि­मि­त्त­मु­त्प­द्यत इति ? नाऽऽद्यः, आत्माश्रयत्वात् । द्वितीये घटस्य भावाभावौ युगपत्स्याताम्, क्रम­का­रि­नि­मि­त्त­नि­र­पे­क्ष­त्वात् । अथ मन्यसे त्वन्मतेऽपि तस्य निमित्तस्य क्रमकारित्वं स्वाभाविकं चेत्स्वभाववादः । निमि­त्ता­न्त­र­सा­पे­क्ष­त्वेऽ­न­व­स्था­पातः । कालभेदेन तस्यैव क्रम­का­र्य­व­स्था­ङ्गी­का­रेऽपि स कालक्रमः स्वाभाविकश्चेत् स्वभाववादः । निमि­त्ता­न्त­रा­पे­क्ष­श्चे­द­न­व­स्थेति । तदसत्; किम­ने­नाऽ­व­स्था­पा­द­नेन वस्तूनां सामर्थ्यस्य निमि­त्ता­न्त­र­नि­र­पे­क्ष­त्व­मु­च्यते किं वा सति वस्तूनां सामर्थ्ये निमि­त्ता­न्त­रा­नु­स­रणं व्यर्थमिति ? आद्योऽङ्गीकृत एव । द्वितीयेऽपि किं निमि­त्ता­न्त­रा­पे­क्षत्वं न प्रतीयत इत्युच्यते किं वा प्रतीतमपि दुर्निरूपमिति ? नाऽऽद्यः, प्रत्य­क्ष­वि­रो­धात् । घटमारभमाणस्य कुम्भकारस्य दण्ड­च­क्रा­द्य­पे­क्षायाः प्रत्य­क्ष­सि­द्ध­त्वात् । न द्वितीयः, सर्वा­नि­र्वा­च्य­त्व­वा­दिनो दुर्नि­रू­प­त्व­स्याऽ­ल­ङ्का­र­त्वात् । भूतचतुष्टयमेव तत्त्वं प्रत्यक्षमेवैकं प्रमाणं स्वभाववाद एव पारमार्थिक इति मन्यमानस्य तत्र प्रतिज्ञातार्थे हेतूपन्यासे सनि­मि­त्त­त्व­प्र­सङ्गः । अनुपन्यासे च प्रति­ज्ञा­ता­र्थ­सिद्धिः । प्रती­ति­मा­त्र­श­र­णत्वे चा‍ऽनि­र्व­च­नी­य­वा­दा­पातः । तदेवं वस्त्वन्तरस्य कार­ण­त्व­स­म्भा­व­ना­नि­रा­क­रणे पारि­शे­ष्या­द­स्म­दुक्तः सर्वज्ञः सर्वशक्तिरीश्वर एव कार­ण­मि­त्ये­ता­दृशी युक्तिरपि ब्रह्म­स्व­रू­प­नि­र्ण­या­याऽ­ने­नैव सूत्रेण तन्त्रे­णाऽऽ­वृत्त्या वा सूत्रितेति द्रष्टव्यम् । अनया च युक्त्या यथो­क्त­ब्र­ह्म­स­म्भा­व­नायां पश्चादागमेन तत्साधयितुं शक्यम् । यथाऽहुः –
“सम्भावितः प्रतिज्ञायां पक्षः साध्येत हेतुना ।
न तस्य हेतु­भि­स्त्रा­ण­मु­त्प­त­न्नेव यो हतः ॥” इति ।

नन्वनुमानादेव यथो­क्ते­श्व­र­सिद्धो किमाभ्यां युक्त्या­ग­मा­भ्याम् । न च सत्या­ग­मेऽ­नु­मा­न­प्र­या­स­वै­य­र्थ्य­मिति वाच्यम्, “यतो वा” इत्या­द्या­ग­म­स्याऽ­नु­मा­न­सि­द्धा­र्था­नु­वा­द­क­त्वात् । अनुमानं चैवं प्रयोज्यम् – विमतं जगद् उपा­दा­नो­प­क­र­णा­द्य­खि­ला­भि­ज्ञ­क­र्तृ­कम्, कार्यत्वाद्, गृहवत्, इति वैशेषिकैरुच्यत इति चेद्, न; विमतं जग­द्ब­हु­क­र्तृ­क­म­स­र्व­ज्ञ­क­र्तृकं वेत्य­ति­प्र­स­ङ्ग­स्याऽपि तद्व­त्सु­सा­ध­त्वात् । ज्ञानै­श्व­र्य­श­क्तय उत्कृष्यमाणाः क्वचि­त्प­र्य­व­सिताः, उत्कृ­ष्य­मा­ण­ध­र्म­त्वात्, परिमाणवत्, इति साङ्ख्या योगाश्च वदन्तीति चेद्, न; निरीश्वरवादिनां देवादिभिः सिद्धसाधनत्वात् । सर्व­वि­ष­य­ज्ञा­नै­श्व­र्य­श­क्ति­मति पर्य­व­सि­त­त्व­सा­ध­नेऽपि गुरु­त्व­रा­ग­द्वे­ष­दुः­खा­दि­ष्व­नै­का­न्ति­कता । पुण्यपापफलं कर्म तत्फ­ला­द्य­भि­ज्ञेन प्रदीयते, कर्मफलत्वात्, सेवाफलवत्, इति नैयायिका अनुमिमत इति चेद्,न; देवादिभिरेव सिद्धसाधनत्वात् । अतः सम्भा­व­ना­बु­द्धि­हे­तु­त्वे­नाऽऽ­ग­मो­प­का­रि­णी­म­स्म­दुक्तां युक्ति­मे­वाऽ­ज्ञा­नाद् वैशे­षि­का­द­योऽ­नु­मानं मन्यन्ते । न हि युक्ति­रे­वाऽ­नु­मा­नम् । व्याप्त्या­भा­सोऽ­नु­प­प­त्त्या­भास उदा­ह­र­ण­मा­त्र­द­र्शनं चेत्येतत्त्रयं सम्भा­व­ना­बु­द्धि­ज­न­क­त्वेन युक्ति­रि­त्यु­च्यते, अव्य­भि­च­रि­त­व्या­प्ति­क­म­र्थ­नि­श्चा­य­क­म­नु­मा­नम् । अतो वैशे­षि­का­दि­प्र­यो­गाणां सत्य­प्य­नु­मा­न­दोषे श्रुति­सि­द्ध­ब्र­ह्मणि सम्भा­व­ना­बु­द्धि­हे­तु­त्वे­नाऽ­स्म­दु­क्त­यु­क्ति­त्व­म­वि­रु­द्धम् । एवं तर्हि युक्तिव्याजेन वैशे­षि­का­द्य­भि­म­त­म­नु­मा­न­मेव जन्मादिसूत्रे ब्रह्म­नि­श्चा­य­क­त्वे­नो­प­न्य­स्त­मिति चेद्, अनु­मा­न­मा­त्रा­त्का­र­ण­स­द्भा­व­मा­त्र­सि­द्धा­वपि सत्य­ज्ञा­ना­दि­रू­पस्य ब्रह्मण आग­म­म­न्त­रे­णाऽ­सि­द्धे­रा­ग­म­ग्र­थन एव सूत्र­ता­त्प­र्यात् । आगमवाक्यानि हि वक्ष्य­मा­ण­सूत्रैः उदाहृत्य तात्पर्यतो निर्णीयन्ते, ब्रह्म­सा­क्षा­त्का­रस्य शब्दा­नु­सा­रि­भि­र्न्या­यै­र्ब­ह्मणि वेदा­न्त­वा­क्य­ता­त्प­र्य­नि­र्ण­या­धी­न­त्वात् । नह्य­नु­मा­ना­दि­प्र­मा­णा­न्त­र­नि­र्णे­तॄणां वैशेषिकादीनां ब्रह्मा­व­ग­ति­र्दृ­श्यते । न चाऽपौरुषेयस्य पौरुषेयमनुमानं मूलमिति युक्तम् । न चैव­म­नु­मा­न­स्याऽ­त्य­न्ता­न­पेक्षा स्यादिति वाच्यम्, श्रुत्य­र्थ­दा­र्ढ्याय श्रुत्य­वि­रो­धि­न्या­य­स्याऽ­पे­क्षि­त­त्वात् । “पण्डितो मेधावी” इत्या­दि­श्रु­त्यै­वाऽऽ­ग­मस्य पुरु­ष­बु­द्धि­सा­हा­य्य­म­ङ्गी­क्रि­यते, अन्य­थाऽ­ध्य­य­ना­देव ब्रह्मावगतौ “आचा­र्य­वा­न्पु­रुषो वेद” इत्युक्तो गुरूपदेशनियमो व्यर्थः स्यात् । आचार्यो हि श्रुत्य­नु­सा­रि­भि­र्दृ­ष्टान्तैः शिष्येभ्यः प्रत्य­य­दा­र्ढ्य­मु­त्पा­द­यति । तच्च प्रत्ययदार्ढ्यं मन­न­रू­प­त्वा­द­व­ग­ति­हेतुः । एतदेव हि मननं यदा­चा­र्य­युक्त्या स्वयुक्त्या च श्रौतप्रत्ययस्य दार्ढ्यापादनम् । मननस्य चाऽवगतिहेतुत्वं “मन्तव्यः” इति श्रुत्या सिद्धम् ।

ननु धर्मजिज्ञासायां वेद­स्मृ­ती­ति­हा­स­पु­रा­णा­न्येव प्रमाणं नाऽनुमानादि । तत्राऽपि श्रुति­लि­ङ्ग­वा­क्य­प्र­क­र­ण­स्था­न­स­माख्या निर्णयहेतवः । पदान्तनिरपेक्षः शब्दः श्रुतिः । श्रौत­स्याऽ­र्थ­स्याऽ­र्था­न्त­रे­णाऽ­वि­ना­भावो लिङ्गम् । अन्यो­न्या­का­ङ्क्षा­सं­नि­धि­यो­ग्य­ता­वन्ति पदानि वाक्यम् । वाक्य­द्व­य­सा­म­र्थ्य­मा­र­भ्या­धी­त­वि­षयं प्रकरणम् । क्रमवर्तिनां पदार्थानां क्रमवर्त्तिभिः पदा­र्थै­र्य­था­क्रमं सम्बन्धः स्थानम् । संज्ञासाम्यं समाख्या । तैरेव ब्रह्म­नि­र्ण­योऽ­प्य­स्त्विति चेद्, न; युक्त्य­नु­भ­व­यो­रपि ब्रह्म­जि­ज्ञा­सा­या­म­पे­क्षि­त­त्वात् । युक्त्यपेक्षा पूर्वमेव प्रसाधिता । अनुभवो नाम ब्रह्म­सा­क्षा­त्का­र­फ­ल­कोऽ­न्तः­क­र­ण­वृ­त्ति­भेदः । न च तमन्तरेण ज्ञानाकाङ्क्षा निवर्तते । न च ब्रह्म­स्व­रू­प­म­नु­भ­वि­तु­म­यो­ग्य­मिति शङ्कनीयम्, घटा­दि­व­त्सि­द्ध­व­स्तु­त्वात् । विमतं ब्रह्म­वा­क्य­म­नु­भ­व­नि­र­पे­क्ष­फ­ल­प­र्य­न्त­ज्ञा­न­ज­न­कम्, प्रमा­ण­भू­त­वे­द­वा­क्य­त्वाद्, धर्मवाक्यवदिति चेद्, न; अनु­भ­वा­यो­ग्य­वि­ष­य­त्वो­पा­धि­ह­त­त्वात् । न ह्यनु­ष्ठा­न­साध्यो धर्मोऽ­नु­ष्ठा­ना­त्पूर्वं वाक्य­बो­धा­व­स­रेऽ­नु­भ­वितुं योग्यः । अनुष्ठानं तु विनाऽप्यनुभवं शाब्द­ज्ञा­न­मा­त्रा­देव सिध्य­ती­त्य­न­पे­क्षित एव धर्मानुभवः ।

नन्व­नु­भ­व­यो­ग्य­त्वा­नु­भ­व­सा­पे­क्ष­त्वाभ्यां विना ब्रह्मणो धर्मेण सह वैषम्यान्तरं नाऽस्ति प्रत्युत वेदप्रमेयत्वं सममेव । ततोऽ­नु­भ­व­कृ­त­वै­ष­म्य­मपि मा भूदिति चेद्, न; धर्मब्रह्मणोः कर्तव्यसिद्धयोः पुरु­षा­धी­न­त्वा­न­धी­न­त्वा­दि­भू­यो­वै­ष­म्य­स­म्भ­वात् । लोके ताव­द्दे­व­द­त्तोऽ­श्वेन गच्छति न च गच्छति पद्भ्यां वा गच्छतीति कर्तव्यस्य गमनस्य कर­णा­क­र­णा­न्य­था­क­र­णेषु पुरुषाधीनत्वं दृश्यते । तथा वेदेऽपि “अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णाति” इति करणाकरणे श्रूयेते । “उदिते जुहोत्यनुदिते जुहोति” इति करणान्यथाकरणे । “ज्योतिष्टोमेन यजेत”, “न कलञ्जं भक्षयेत्” इति विधिप्रतिषेधौ । “व्रीहिभिर्यजेत यवैर्वा” इतीच्छाविकल्पः । पठ्यागानां समुच्चयः । “न हिंस्यात्सर्वा भूतानि”, “अग्नीषोमीयं पशुमालभेत” इत्यु­त्स­र्गा­प­वादौ । प्रकृ­ते­र­ति­दि­ष्टानां कुशमयबर्हिषां विकृ­ता­वु­प­दि­ष्ट­श­र­म­य­ब­र्हि­र्भि­र्बाधः । प्रकृतानां नारिष्टहोमानां वैकृतैः उपहोमैः समु­च्चि­त्याऽ­नु­ष्ठा­न­म­भ्यु­च्चयः । “उदिते जुहोत्यनुदिते जुहोति” इति शाखाभेदेन व्यव­स्थि­त­वि­कल्पः । न चैवं सिद्धे ब्रह्मणि पुरु­षा­धी­न­त्व­वि­धि­प्र­ति­षे­धे­च्छा­वि­क­ल्प­स­मु­च्च­यो­त्स­र्गा­प­वा­द­बा­धा­भ्यु­च्च­य­व्य­व­स्थि­त­वि­क­ल्पा­दयः सम्भवेयुः । सिद्धवस्तुन्यपि स्थाणुर्वा पुरुषो वेति विकल्पोऽस्तीति चेत्, न; पुरु­षे­च्छा­धी­न­त्वे­नाऽ­व­स्तु­त­न्त्रस्य तस्याऽ­स­म्य­क्त्वात् । “योषा वाव गोतमाग्निः” इत्यादौ पुरु­षे­च्छा­धी­न­म­व­स्तु­त­न्त्र­मेव ध्यानमागमिकं सम्यगुपलभ्यत इति चेद्, न; तस्य कर्त­व्य­गो­च­र­त्वात् । अथाऽपि सिद्धवस्तुनः सम्य­ग्ज्ञा­ना­धी­न­त्वात् सम्यग्ज्ञानस्य च प्रमा­तृ­पु­रु­षे­च्छा­धी­न­त्वा­द्द्व­स्त्वपि पुरुषाधीनं भविष्यतीति चेत्, न; सत्यामपि पुरु­षे­च्छा­या­मिदं रजतमित्यत्र वस्त्वभावे सम्य­ग्ज्ञा­ना­द­र्श­नात् । तस्मा­त्सि­द्ध­गो­च­र­स­म्य­ग्ज्ञा­नस्य वस्त्वेव प्रधानं प्रयोजकम् । तत्रैवं सति सिद्धगोचरं ब्रह्मज्ञानमपि वस्तु­त­न्त्र­मे­वेति न ज्ञानद्वाराऽपि ब्रह्मणः पुरुषाधीनत्वम् । अतो धर्मादत्यन्तं विलक्षणस्य सिद्धस्य ब्रह्मणो युक्ता युक्त्य­नु­भ­वा­पेक्षा ।

ननु ब्रह्मणः सिद्धवस्तुत्वेन घटा­दि­व­न्मा­ना­न्त­र­गो­च­र­त्व­ज्ज­न्मा­दि­सू­त्र­म­नु­मा­नो­प­न्या­सा­र्थ­मे­वाऽ­स्त्विति चेद्, मैवम्; न तावद् ब्रह्म­वे­दा­न्ता­न­भि­ज्ञ­प्र­त्य­क्ष­ग­म्यम्, रूपादिहीनत्वात् । अनुमानमपि किं यत्कार्यं तत्सकारणमिति सामा­न्य­व्या­प्ति­कम् उत यत्कार्यं तद् ब्रह्मकारणकमिति विशे­ष­व्या­प्ति­कम् ? नाऽऽद्यः, तावता ब्रह्मासिद्धेः । द्वितीयेऽपि ब्रह्मण इन्द्रि­य­वि­ष­य­त्वेऽ­नु­मा­न­वै­यर्थ्यं तदविषयत्वे व्याप्ति­ग्र­हा­सिद्धिः ।

नन्वेवं सत्य­नु­मा­न­च्छा­यो­प­जी­वि­यु­क्ती­ना­मपि ब्रह्म गोचरो न स्यात्, सत्यमेवं तथापि शब्दावगम्ये ब्रह्मणि सम्भा­व­ना­बु­द्धि­हे­तवो युक्तयः । तथा हि – मृदा­दि­दृ­ष्टा­न्तै­रु­पा­दा­न­व्य­ति­रे­केण कार्य­स्याऽ­नि­रू­प­णा­द­द्वि­ती­यता सम्भाव्यते । स्फटि­क­लौ­हि­त्य­दृ­ष्टा­न्ते­नाऽऽ­त्मनि कर्तृ­त्वा­दे­रा­रो­पि­त­त्वम्, प्रति­बि­म्ब­दृ­ष्टा­न्तेन जीव­ब्र­ह्मै­क्यम्, रज्जु­स­र्प­दृ­ष्टा­न्तेन ब्रह्म­व्य­ति­रि­क्त­प्र­प­ञ्चस्य स्वात­न्त्र्या­भावः, घटा­का­श­दृ­ष्टा­न्ते­नाऽ­स­ङ्ग­ता­द्वा­रेण विशु­द्धा­द्वि­ती­य­प्र­त्य­गा­त्मता, तप्त­प­र­शु­दृ­ष्टा­न्तेन जीव­ब्र­ह्मै­क्य­स­त्यता । तथा च विधि­प्र­ति­षे­ध­वा­क्ययोः प्रव­र्त्त­क­त्व­नि­व­र्त­क­त्वा­का­ङ्क्षि­त­स्तु­ति­नि­न्दा­र्थ­वा­द­वत् स्वरूपवाक्यस्य फल­प­र्य­न्त­ता­पे­क्षि­त­स­म्भा­व­ना­र्थ­वा­दतां श्रुतियुक्तयः प्रतिपद्यन्ते । अन्यथा निरर्थकास्ताः स्युः । तस्मा­दु­प­का­र­क­यु­क्ति­सू­च­ना­पू­र्वकं वेदा­न्त­वा­क्य­प्र­द­र्श­ना­र्थ­मेव सूत्रम् ।

ननु सर्वत्र वेदवाक्ये ब्रह्म­प­द­स्याऽ­प्र­सि­द्धा­र्थ­त्वान्न तत्पदं स्वार्थं विशेष्यत्वेन विशेषणत्वेन वा वाक्यार्थे समर्पयितुमलम् । ततः किं तद्वे­दा­न्त­वाक्यं यत्सूत्रे लिलक्षयिषितमिति । उच्यते – सत्य­ज्ञा­ना­न­न्ता­न­न्द­प्र­त्य­गा­त्म­स्व­रू­पस्य ब्रह्म­प­दा­र्थ­स्याऽ­प्र­सि­द्धा­वपि ब्रह्म­त्व­मा­त्रस्य बृहत्यर्थरूपस्य प्रसि­द्ध­त्वा­त्त­द­नु­वा­देन सत्या­दि­प­दा­र्थ­प­र­स्प­रा­न्व­य­सा­म­र्थ्या­द्वि­शिष्टं ब्रह्म प्रतिपत्तुं शक्यत इति लक्षणरूपेण ब्रह्म­स्व­रू­प­प्र­ति­पा­द­न­परं सत्यादिवाक्यम् । न च प्रमा­णा­न्त­र­सि­द्धस्य लक्ष­ण­त्वा­त्स­त्या­दी­ना­मपि लक्षणत्वे तद्वाक्यस्य प्रमा­णा­न्त­र­प्र­सि­द्धा­र्था­नु­वा­द­क­त्व­प्र­सङ्ग इति वाच्यम्, अर्था­ल्ल­क्ष­ण­त्वेऽपि माना­न्त­रा­न­व­ग­त­ब्र­ह्म­बो­ध­क­त्वेन साक्षा­त्प्र­मा­ण­रू­प­त्वात् । वाक्यं तु “यस्मादाकाशः सम्भूतः स आत्मा” “सत्यं ज्ञानमनन्तं ब्रह्म” इत्येवं स्वाध्या­य­पा­ठ­क्र­म­मु­ल्लङ्घ्य योजनीयम्, प्रसिद्धस्य कार­ण­त्व­स्याऽ­नु­वा­द्य­त्वात्; प्रसि­द्ध­म­नू­द्याऽ­प्र­सिद्धं प्रतिपाद्यत इत् न्यायात् । अन्या­न्य­प्यु­प­नि­ष­द्वा­क्या­न्येवं ब्रह्म­प्र­ति­पा­क­त्वेन योजनीयानि । तत्रैवं सति “भृगुर्वै वारुणिः” इत्यारभ्य “तद् ब्रह्म” इत्येतदन्तं वाक्यं सूत्र­द्व­य­स्यो­दा­ह­र­णम् । तत्राऽपि “भृगुः” इत्यादि “तद्वि­जि­ज्ञा­सस्व” इत्येतच्च प्रथमसूत्रस्य । तत्सू­त्र­प्र­ति­पा­द्य­यो­र­धि­का­र­नि­र्ण­य­ज्ञा­न­क­र्त­व्य­त­यो­स्त­स्मि­न्नु­दा­ह­र­णेऽ­नु­ग­मात् । “तद्वि­जि­ज्ञा­सस्व” इत्येतद्विहाय “यतो वा” इत्यादि “तद् ब्रह्म” इत्यन्तं वाक्यं द्विती­य­सू­त्रो­दा­ह­र­णम्, तयोः सूत्र­वा­क्य­यो­र­र्थै­क्या­नु­ग­मात् ।

ननु जगत्कारणे नानात्वस्याऽपि प्रतीतिरस्ति, यत इति तसिल्प्रत्ययस्य बहुत्वैकत्वयोः स्मरणात् । तथा च तदनुवादेन कथमद्वितीयं ब्रह्माऽत्र प्रतिपादनीयमिति । उच्यते – “येन जातानि” इति वाक्य­शे­षा­दे­क­त्व­वि­षय एव तसिल्प्रत्ययो निर्द्धार्यते । स च प्रत्ययः कारणैकत्वं प्रमापयति । यद्यपि यत इत्यत्र प्राति­प­दि­का­र्थस्य जग­त्का­र­ण­मा­त्र­स्याऽ­नु­मा­न­तोऽपि सिद्धे­र­नु­वा­द्यत्वं तथापि प्रत्य­या­र्थ­स्यै­क­त्वस्य माना­न्त­रा­सिद्धेः प्रत्ययस्य प्रमा­प­क­त्व­म­वि­रु­द्धम् । ननु किमेकत्वमत्र लक्षणं किं वा लक्ष्यम् उताऽन्यत् किञ्चित् ? आद्ये कारणत्वमेकत्वं चेति लक्षणद्वयं ब्रह्मणो व्यर्थं स्यात् । द्विती­य­तृ­ती­य­योस्तु वाक्य­भे­द­प्र­सङ्गः, एक­त्व­ब्र­ह्मा­ख्य­यो­र्द्वयोः प्रति­पा­द्य­त्वा­दिति चेद्, मैवम्; आद्ये कारणत्वं तट­स्थ­ल­क्ष­ण­मे­कत्वं स्वरूपलक्षणं चेत्युभयोः सार्थकत्वम् । द्वितीये कार­ण­म­नू­द्यै­क­त्व­वि­शिष्टं ब्रह्म विधीयत इति न वाक्यभेदः । तृतीये तु यत्कारणं तदेकमिति प्रथमं कार­ण­म­नू­द्यै­कत्वं विधाय पश्चाद्यदेकं कारणं तद् ब्रह्मेति कार­ण­मे­क­त्व­स­हि­त­म­नूद्य ब्रह्मत्वं बोध्यत इति वाक्यै­क­वा­क्य­त्वान्न वाक्यभेदः । तथा च सर्व­ज­ग­त्का­र­ण­स्यै­कत्वे सृज्य­गो­च­र­ज्ञा­न­शक्ती विहाय स्रष्टृ­त्वा­स­म्भ­वा­त्स­र्व­ज्ञ­त्व­स­र्व­श­क्तित्वे अप्यस्मिन्नेव वाक्ये कार­ण­स्याऽ­र्था­त्सि­द्ध्यतः ।

ननु “यो गोसदृशः स गवयशब्दवाच्यः” इतिवद्यदेवं कारणं तद् ब्रह्म­श­ब्द­वा­च्य­मिति संज्ञा­सं­ज्ञि­स­म्ब­न्ध­परं वाक्यं प्रतिभाति । तथा सति बृह­त्य­र्थ­रू­प­वस्तु प्रतिपादकं न स्यादिति चेद्, न; “तद्वि­जि­ज्ञा­सस्व” इति जिज्ञास्यत्वेन प्रतिज्ञाय कीदृशं तदि­त्या­का­ङ्क्षायां तद् बृह­त्य­र्थ­रू­प­मिति स्वरू­प­प्र­ति­पा­द­नात् । संज्ञा­सं­ज्ञि­स­म्ब­न्ध­स्त्वा­र्थिको भविष्यति । एवं च सत्येकं सर्वज्ञं सर्वशक्तिकं सर्व­तोऽ­न­व­च्छिन्नं च जगत्कारणं तच्च ब्रह्म­श­ब्दा­भि­धे­य­मिति वाक्यार्थः सम्पद्यते ।

ननु निरु­पा­धि­क­स्व­रू­प­क­थ­न­म­न्त­रेण सोपा­धि­क­ता­स­र्व­ज्ञ­त्वा­दयो धर्मा न प्रतीयन्ते, यतो यत्सुषिरं तदाकाशं प्रकृ­ष्ट­प्र­का­श­श्चन्द्र इतिवत् स्वरूपलक्षणमेव श्रुत्या किञ्चि­द्व­क्त­व्यम् । ब्रह्म­श­ब्दा­भि­धे­य­मेव स्वरूपलक्षणमिति चेद्, न; बृह­त्त्व­ध­र्म­मा­त्रा­भि­धा­नात् । यथा महान् घट इत्युक्ते महत्त्वस्य निरुपाधिः घटो धर्मितया प्रतीयते तथेहाऽपि वक्तव्यम् । सच्छब्दाभिधेयं लक्षणमिति चेद्, न; महा­सा­मा­न्य­मा­त्रा­भि­धा­नात् । यथा सन्नित्युक्ते घट इत्य­वा­न्त­र­सा­मा­न्य­व्य­क्ति­र­प­र्य­व­सा­न­त्वेन महा­सा­मा­न्ये­नाऽ­पे­क्ष्यते तथे­हा­प्य­वा­न्त­र­सा­मा­न्य­व्य­क्ति­र्व­क्तव्या । ज्ञानमेव बृह­त्त्व­स­र्व­ज्ञ­त्वा­दि­ध­र्म­व­त्तया निरु­पा­धि­ब्र­ह्म­स्व­रू­प­ल­क्ष­ण­मिति चेद्, न; वेदान्तिमते विज्ञानवत्वस्य सुख­दुः­ख­रा­ग­द्वे­षा­पे­क्षया महा­सा­मा­न्य­रू­प­त्वेन तत्राऽ­प्य­वा­न्त­र­सा­मा­न्या­धा­र­व्य­क्त्य­पे­क्षाया अनिर्वचनादिति । अत्रोच्यते – “आनन्दाद्ध्येव खलु” इति श्रुत्याऽऽनन्द एव निरु­पा­धि­ब्र­ह्म­रू­प­मिति निर्णीयते । श्रुत्यन्तरं च “यो वै भूमा तत्सुखम्” इति सुखस्यैव ब्रह्म­ध­र्म­त्व­माह । एवं तर्हि “विज्ञा­न­मा­न­न्दम्” इति सामा­ना­धि­क­र­ण्या­द्वि­ज्ञानं निरुपाधिकं ब्रह्मगुणः स्यादिति चेत्, तत्र वक्तव्यम् – किं विज्ञानानन्दयोः सामानाधिकरण्यं नीलोत्पलवद् गुण­गु­णि­भा­व­वि­व­क्षया किं वा द्रव्यं घट इति­व­त्प­रा­प­र­सा­मा­न्य­भा­व­वि­व­क्षया ? नाऽऽद्यः, “केवलो निर्गुणश्च” इति श्रुतेः । गुणस्य गुणिना भेदा­भे­द­यो­र­नि­रू­प­णा­दु­प­पन्नं निर्गुणत्वम् ।

अत्र भेदाभेदवादी न निर्गुणं द्रव्यमस्तीति जल्पति । मा भून्निर्गुणं द्रव्यम्, ब्रह्म तु न द्रव्यम्, प्रमाणाभावात् । सम­वा­यि­का­र­ण­त्वाद् द्रव्यमिति चेद्, न; आर­म्भ­वा­दा­न­भ्यु­प­ग­मात् । उपा­दा­न­का­र­ण­त्वात् द्रव्यमिति चेद्, न; गुणादीनामपि स्वग­त­ज्ञे­य­त्व­वा­च्य­त्वा­दि­ध­र्मो­पा­दा­न­त्वात् । गुणो नाम धर्मः, तथा च न निर्धर्मकः पदार्थोऽस्तीति चेद्, न; कस्य­चि­द्ध­र्म­स्यैव निर्धर्मकताया अङ्गी­का­र्य­त्वात् । अन्य­थाऽ­न­व­स्था­पत्तेः । तस्मान्न निर्गुणं ब्रह्मेति वचनं दर्श­न­प्र­द्वे­ष­मा­त्रम् । द्विती­य­प­क्षोऽ­ङ्गी­कृत एव । विज्ञानं सामान्यपरं तद्विशेष आनन्दः, स एव हि ब्रह्म । न च सर्व­ज्ञ­त्वा­द्वि­ती­य­त्वा­दि­धर्मैः सद्वितीयत्वम्, प्रप­ञ्चो­पा­धि­क­तया तेषा­म­नि­र्व­च­नी­य­त्वात् । विज्ञा­न­सा­मा­न्य­मपि दुःख­रा­गा­द्यु­पा­धि­क­त्वा­द­नि­र्व­च­नी­य­मेव । तादृ­श­सा­मा­न्या­धारे विज्ञा­न­प्र­यु­क्ता­र्थ­क्रि­या­का­रि­ण्या­नन्दे विज्ञा­न­व्य­व­हा­रोऽ­प्यु­प­पन्न एव । ननु यथा कल्पि­त­र­ज­त­त्वा­धा­र­भू­तायां शुक्तावमुख्यो रज­त­व्य­व­हा­र­स्त­थाऽऽ­नन्दे विज्ञानव्यवहारः स्यादिति चेद्, न; तद्वदत्र पार­मा­र्थि­क­सा­मा­न्या­न्त­रा­भा­वेन वैषम्यात् । तदेवं विज्ञानस्वभाव आनन्दो ब्रह्मेति स्वरूपलक्षणस्य श्रौत­त्वा­द­शे­ष­म­ति­म­ङ्ग­लम् ।
इति विव­र­ण­प्र­मे­य­स­ङ्ग्रहे द्वितीयसूत्रे प्रथमवर्णकं समाप्तम् ॥
इति विव­र­ण­प्र­मे­य­स­ङ्ग्रहे प्रथमसूत्रं समाप्तम् ॥