विवरणप्रमेयसङ्ग्रहः
अथ द्वितीयं सूत्रम्
प्रथमं वर्णकम्
“अथातो ब्रह्मजिज्ञासा” इत्यत्र ब्रह्म ज्ञातुकामेन ज्ञानोपायभूतमिदं विचारशास्त्रं श्रोतव्यमिति प्रतिज्ञातम्, जिज्ञासापदस्य ज्ञानेच्छालक्षणस्वार्थापरित्यागेनाऽन्तर्णीतविचारलक्षकत्वात् । प्रतिज्ञाते च ब्रह्मविचारे तदङ्गानि लक्षणप्रमाणयुक्तिसाधनफलान्यप्यर्थात्प्रतिज्ञातान्येवेति लक्षणादिप्रतिपादको वक्ष्यमाणः सूत्रसन्दर्भः सङ्गच्छतेतराम् । अन्यथा ज्ञानेच्छामपुरुषतन्त्रां कर्त्तव्यत्वेन प्रतिज्ञायेच्छानुपयुक्तानि लक्षणादीनि प्रतिपादयतः सूत्रकृतो महदकौशलमापद्येत । यद्यपि साध्यसिद्धेः साधनाद्यधीनत्वात् साधनादीन्येव प्रथमं विचार्याणि, तथापि तानि ब्रह्मप्रमाणं ब्रह्मयुक्तिर्ब्रह्मसाधनं ब्रह्मप्रमितिरिति ब्रह्मविशिष्टत्वेन ब्रह्मस्वरूपनिर्णयसापेक्षाण्युपसर्जनानि च । अतो निरपेक्षं प्रधानं च ब्रह्मस्वरूपं भगवान् सूत्रकारः प्रथमं लक्षयति – “जन्माद्यस्य यतः” इति ।
नन्वज्ञाते स्वरूपे लक्षणं ज्ञाते वा ? नाऽज्ञाते, किमस्य लक्ष्यस्य लक्षणमिति जिज्ञासानुदयात् । अस्येदं लक्षणमिति लक्ष्यलक्षणसम्बन्धापरिज्ञानाच्च । नाऽपि ज्ञाते, वैयर्थ्यात् । किञ्च स्वरूपलक्षणमुच्यते तटस्थलक्षणं वा ? नाऽऽद्यः, जन्मादिकारणत्वस्य सप्रतियोगिकस्य स्वरूपत्वायोगात् । स्वरूपत्वे च सविशेषत्वप्रसङ्गात् । नाऽपि द्वितीयः, स्वरूपलक्षणेन विना तटस्थलक्षणमात्रेण स्वरूपप्रतीत्ययोगात् । अन्यत्र च स्वरूपलक्षणस्याऽप्रसिद्धेः । अथञ्चित्तत्प्रसिद्धावप्यस्य तटस्थलक्षणस्याऽतिव्याप्तिः, प्रधानादावपि जगत्कारणत्वसम्भवात् । अतोऽनेन सूत्रेण किं प्रतिपाद्यत इति ? अत्र ब्रूमः –
जगज्जन्मस्थितिध्वंसा यतः सिध्यन्ति कारणात् ।
तत् स्वरूपतटस्थाभ्यां लक्षणाभ्यां प्रदर्श्यते ॥
अधीतवेदान्तस्य विदितपदपदार्थसम्बन्धस्याऽऽपाततो ब्रह्मस्वरूपं ज्ञात्वा विशेषतो ज्ञातुमाकाङ्क्षतः कॢप्तलक्ष्यलक्षणसम्बन्धत्वेन सार्थकमेवेदं लषणाभिधानम् । तत्र तावज्जन्मादिकारणत्वं मायाविशिष्टब्रह्मणः स्वरूपलक्षणत्वेऽप्यविरुद्धम् । शुद्धब्रह्मणस्तु तत् तटस्थलक्षणम् । स्वरूपलक्षणं तु तस्य “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादिश्रुतिषु प्रसिद्धम् । न चोक्तलक्षणस्याऽतिव्याप्तिः, प्रधानादेर्जगत्कारणत्वस्य निराकरिष्यमाणत्वात् । अतिव्याप्त्यादिदोषपरिहारेण लक्षणनिर्णयायाऽत्रैवाऽर्थात्सूत्रिते प्रमाणयुक्ती इत्यवगन्तव्यम् । अध्यायद्वये तयोरेव प्रमानयुक्त्योः सूत्रकारेण प्रपञ्चयिष्यमाणत्वात् । ननु जन्मादीत्यस्मिन् बहुव्रीहौ स्थितिप्रलययोरन्यपदार्थत्वात् पुल्लिङ्गद्विवचनेन भवितव्यम् ? न भवितव्यम्,जन्मनोऽप्यन्यपदार्थत्वेन विवक्षितत्वात् । न चैवं सत्येकस्यैव जन्मनो विशेष्यत्वविशेषणत्वप्रसङ्गः, जन्मादि त्रयस्य विशेष्यत्वेन विवक्षित्वात् । अत एव न पुल्लिङ्गबहुवचनप्राप्तिरपि । यदद्यप्यनादौ संसारे न जन्मनो वस्तुत आदित्वं, तथापि जनित्वा स्थित्वा प्रलीयते इति व्यावहारिकीं लोकप्रसिद्धिमुपजीव्य “यतो वा इमानि भूतानि जायन्ते” इति श्रुतौ जन्मन आदित्वनिर्देशस्तमुपजीव्याऽयं सौत्रोऽपि निर्देश उपपन्नः । अस्येति सूत्रप्रतीकेन प्रत्यक्षादिप्रतीतं कृत्स्नं जगदभिधीयते, इदमः सर्वनामत्वात् । अन्यत्रेवाऽत्र सङ्कोचकस्य प्रकरणादेरभावात् । अत एव षष्ठीविभक्त्या जन्मादीनां जागतश्च सर्व एवेह सम्बन्धो विवक्ष्यते । न च जगदाश्रितानां जन्मादीनां गृहाश्रितकाकवल्लक्ष्यसम्बन्धरहितत्वादलक्षणत्वमिति वाच्यम्, शुद्धब्रह्मसम्बन्धाभावेऽपि मायाविशिष्टकारणब्रह्मसम्बन्धित्वात् । यत इत्यनेन हि सूत्रपदेन कारणमेव निर्दिश्यते, न तु शुद्धम् ।
ननु कारणत्वमपि न लक्ष्यान्तर्गतम् । कारणत्वं हि नानाविधकार्यगोचरक्रियावेशात्मत्वं तत्प्रसवशक्त्यात्मकत्वं वा । न च तदुभयं जिज्ञास्ये विशुद्धे ब्रह्मण्यन्तर्भवितुमर्हति, ततः कारणसम्बन्धिनो जन्मादेरलक्षणत्वमिति चेद्, मैवम्; काकाधिकरणत्ववदुपपत्तेः । काकाधिकरणत्वं हि न गृहेऽन्तर्भवति । तथा च सति काकविगमे गृहैकदेशभङ्गबुद्धिप्रसङ्गात् । अतो गृहस्याऽधिकरणत्वं नामौपाधिको धर्मः, स च परिशेषाल्लक्षणे एवाऽन्तर्भवति । तन्निरूपकस्य काकस्य यथा लक्षणत्वं तथा ब्रह्मणोऽपि कारणत्वमौपाधिको धर्मो लक्षणान्तःपाती । तन्निरूपकस्य जन्मादेर्लक्षणत्वे का तव हानिः ?
ननु लक्षणान्तःपातित्वेन ब्रह्मण्यङ्गीक्रियमाणं कारणत्वं कीदृशम् ? किं निमित्तत्वमेव उतोपादानत्वमेव अथोभयम् ? न तावत् प्रथमद्वितीयौ, उपादानस्य निमित्तस्य वाऽन्यस्याऽवश्याङ्गीकर्तव्यत्वेन ब्रह्मणि बृहत्यर्थान्वयाभावात् श्रुत्युक्तानन्त्यभङ्गप्रसङ्गात् । नाऽपि तृतीयः, एकस्योभयकारणत्वे प्रमाणाभावात् । न ह्यत्राऽनुमानं सम्भवति । तथा हि – भूतभौतिकं जगत् पक्षीक्रियते भूतमात्रं वा ? आद्ये भागे बाधः, भौतिकेष्वभिन्ननिमित्तोपादानवत्त्वसाध्यवैपरीत्यदर्शनात् । न द्वितीयः, घटादिष्वेव कार्यत्वहेतोरनैकान्तिकत्वात् । अतो न कारणत्वं लक्षणमिति चेद्, मैवम्; सूत्रगतया “यतः” इति पञ्चम्या द्विविधकारणत्वस्य विवक्षितत्वात् । जायमानवस्तुप्रकृतौ हेतौ च पञ्चमीविधानात् । न च तन्तुष्वनेकेषु प्रकृतित्वदर्शनादेकस्य ब्रह्मणः प्रकृतित्वासम्भव इति वाच्यम्, तत्र किं महाभूतप्रकृतित्वं न सम्भवति भौतिकप्रकृतित्वं वा ? नाऽऽद्यः, महाभूतानि सत्ताप्रकृतिकानि, तदनुरक्तत्वाद्, यो यदनुरक्तः स तत्प्रकृतिकः, यथा तन्त्वनुरक्तस्तन्तुप्रकृतिकः पटः । सत्तायाश्चैकत्वं लोकवदेवाऽसत प्रसिद्धम्, दिक्कालादिषु द्रव्यत्वजात्यनुगमेऽप्यतत्प्रकृतिकत्वादनैकान्तिकतेति चेद्, न; वेदान्तिभिर्द्रव्यत्वादीनामपि प्रकृतित्वाङ्गीकारात् । सत्ताया एव ह्यौपाधिका भेदा द्रव्यत्वादयो न स्वतन्त्राः । अतो न पृथिव्यादौ सत्ताद्रव्यत्वोभयप्रकृतित्वप्रसङ्गः । नाऽपि द्वितीयः; भौतिकेष्वपि सत्तानुरक्तेषु भूतद्वारा भूतानुगतसत्ताया एव लाघवन्यायेन मूलप्रकृतित्वाङ्गीकारात् । न च प्रकृतेरेव निमित्तत्वे मानासम्भवः, विमतं जगद् अभिन्ननिमित्तोपादानकम्, प्रेक्षापूर्वजनितत्वाद् आत्मगतसुखदुःखरागद्वेषादिवत् । अज्ञानोपादानकदोषनिमित्तकशुक्तिरजतव्यावृत्तये प्रेक्षापूर्वेत्युक्तम् । घटादीनामपि पक्षत्वान्नाऽनैकान्तिकता । कुलालाद्याकारेण ब्रह्मण एव निमित्तत्वाद् न भागे बाधोऽपि । अदृष्टादिनिमित्तभेददर्शनात्साध्यवैकल्यमिति चेद्, न; उपादानाधिष्ठात्रोरेवैकत्वानुमानात् । तथा च सति जगत्यपि ब्रह्मव्यतिरिक्तस्याऽदृष्टस्य निमित्तत्वं प्रसज्येतेति चेद्, एवं तर्ह्यदृष्टोपहितस्याऽत्मन एव सुखादिनिमित्तत्वं द्रष्टव्यम् । अथ कुतर्कोपहतमतिः सन्नस्मिन्ननुमानेऽत्यन्तं न प्रीयसे, तर्हि सृष्टिवाक्यप्रसिद्धमेकस्योभयकारणत्वं लक्षणत्वेन निर्दिश्यते । सृष्टिवाक्यं च “तदैक्षत” इति निमित्तत्वम् “बहु स्याम्” इत्युपादानत्वं च प्रतिपादयतीति सन्तोष्टव्यम् ।
अत्र केचित् श्रुतेः स्वतः प्रामाण्यात्तथाभूतैव ब्रह्मणः प्रपञ्चापत्तिरिति परिणामवादमवतारयन्ति । तत्र तथाभूतत्वं नाम किं सत्यशब्दाभिधेयत्वं किं वा स्वोपाधावभावव्यावृत्तत्वम् उत स्वाश्रयोपाधावबाध्यत्वम् अथवा स्वरूपेणाऽबाध्यत्वम् ? नाऽद्यः, स्वप्नसृष्टेः सत्यशब्दाभिधेयताप्रसङ्गात् । तद्बुद्धेरपि स्वतः प्रामाण्यप्राप्तेर्दुर्वारत्वात् । अथ तत्र दोषादप्रामाण्यं श्रुतेस्तु नैवमिति मन्यसे एवमपीदं रजतं मिथ्या, बाध्यत्वादित्यनुमानप्रमाणगम्ये रजते सत्यत्वं प्रसज्येत । न द्वितीयः, मायावादिभिरपि श्रुत्यादिप्रतिपन्नसृष्टेः स्वाधिष्ठाने ब्रह्मण्यभावव्यावृत्तत्वाङ्गीकारात् । न तृतीयः, कल्पितानां प्रतिबिम्बश्यामत्वघटाकाशपरिच्छिन्नत्वादीनामौपाधिकधर्माणामपि स्वाश्रयोपाधावबाध्यत्वात् । न चतुर्थः, सृष्टेरपि परमार्थसत्यत्वांशेनैव बाध्यत्वं न स्वरूपेणेत्यङ्गीकारात् । सृष्टेः सत्यत्वाभावे सृष्टिश्रुतेरप्रामाण्यं स्याद् इति चेद्, न; सृष्टिस्वरूपमात्रप्रमाणयो प्रवृत्तयाः श्रुतेः सृष्टिस्वरूपसद्भावमात्रेण प्रामाण्योपपत्तौ तत्सत्यताया अप्रयोजकत्वात् । न हि रूपप्रमापकस्य चक्षुषः शब्दाभावादप्रामाण्यं भवति, प्रमाणत्वापराधमात्रेण सत्यतायां तात्पर्यकल्पने स्वप्नविषयसृष्टिश्रुतेरपि तथात्वं स्यात् । प्रयोजनशून्यता तूभयत्र समाना दुःखतत्साधनांशेऽनर्थहेतुत्वं च समम् । सृष्टिसत्यताप्रतिपादने कर्मकाण्डस्य प्रत्यक्षादेर्वा प्रामाण्यसिद्धिः प्रयोजनमिति चेद्, न; तत्प्रामाण्यस्य जगन्नित्यत्ववादिमीमांसकमतेऽप्युपपत्तौ परिणामवादाऽनवतारात् । मतान्तरेष्वपि सृष्टिश्रुत्यवगमात् प्रागेव लोकव्यवहारात्तत्प्रामाण्यं सिद्धम् । ततो निष्प्रयोजनैव सृष्टिश्रुतिः स्यात् । अस्मन्मते तु मानान्तराऽनवगताखण्डैकरसब्रह्मावगमाय महावाक्यप्रवृत्तिः । सृष्टिश्रुतिस्तु –
“अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ।
नाऽन्यत्र कारणात्कार्यं न चेत्तत्र क्व तद्भवेत् ॥”
इति न्यायेनाऽखण्डैकरसत्वप्रतिपादनायेति न वैयर्थ्यं किञ्चित् । ननु यथा “इदं रजतम्” इति ज्ञानस्य प्रतीतितो रजतस्वरूपमात्रगोचरत्वेऽपि वस्तुतो रजताभासगोचरत्वेनाऽप्रामाण्यं तथा श्रौतसृष्टिज्ञानस्याऽपीति चेद्, न; तत्र यथा रजताभासादन्यन्मुख्यरजतं लोके प्रसिद्धं तद्वदत्र सृष्ट्यन्तरस्य मुख्यस्याऽभावात्तस्या एव मुख्यसृष्टित्वेन तद्गोचरज्ञानस्य मुख्यरजतज्ञानवत् प्रामाण्योपपत्तेः । न च पारमार्थिकब्रह्मणो मिथ्याभूतप्रपञ्चभावापत्तिविरोध इति वाच्यम्, देवदत्तस्य मायया मिथ्याव्याघ्रादिभावापत्तिदर्शनात् । न च मिथ्याकार्ये सृष्टिशब्दप्रयोगानुपपत्तिः, “माया ह्येषा मया सृष्टा” इत्यादिप्रयोगदर्शनात् । न च सृष्टिमिथ्यात्वे मानाभावः, श्रुतिस्मृतिप्रत्यक्षानुमानार्थापत्तीनां सत्त्वात् । “मायां तु प्रकृतिं विद्याद्”, “मम माया दुरत्यया” इति श्रुतिस्मृती अनिर्वचनीयमायात्मकत्वं सृष्टेर्दर्शयतः । घटाद्यभावग्राहिप्रत्यक्षमपि सृष्टेर्मिथ्यात्वं दर्शयति । यथा “इदं रजतम्” इत्यत्रेदन्तोपाधौ प्रतिपन्नस्य सत्येव तदुपाधौ “नेदं रजतम्” इति बाधः तथा “अस्ति घटः” इत्यत्राऽस्त्यर्थोपाधौ प्रतिपन्नस्य घटस्य तदुपाधावेव नाऽस्तीति प्रत्यक्षेणैव बाधो दृश्यते । ननु देशकालविशेषे तदुपाधिकास्त्यर्थे वा घटस्य निषेधो नाऽस्त्यर्थमात्रे, ततो देशान्तरे कालान्तरे च घटस्य सद्भाव इति चेद्, न; यदा देशकालौ निषिध्येते तदा देशकालान्तराभावे न केवलाऽस्त्यर्थस्यैवोपाधित्वं वाच्यम्, निरुपाधिकनिषेधायोगात् । ततस्तत्र कॢप्तोपाधेर्घटादिनिषेधसम्भवे सत्यन्योपाधिकल्पने गौरवप्रसङ्गः । न चैवमेवाऽस्त्यर्थनिषेधेऽस्त्यर्थान्तराभावान्निषेध्यस्याऽनुपाधित्वान्निरुपाधिकनिषेधोऽङ्गीक्रियते इति वाच्यम्, अस्त्यर्थस्याऽनुयायिनो निषेधाभावात् । तस्मादस्त्यर्थे ब्रह्मणि घटाद्यभावबोधकं प्रत्यक्षं मिथ्यात्वे मानम् । यस्त्वभावस्य षष्ठमानगम्यत्वमाह तं प्रत्येकैकाभावविशिष्टवस्त्वन्तरप्रत्यक्षं वा षष्ठमानमेव वा मिथ्यात्वं बोधयतु ।
अनुमानान्यपि तद्बोधकान्युच्यन्ते – विमता विकाराः स्वानुस्यूतैकवस्तुनि कल्पिताः, प्रत्येकमेकस्वभावानुविद्धत्वाद् विभक्तत्वाच्च, चन्द्रस्वभावानुविद्धचन्द्रकल्पितजलचन्द्रभेदवत् । शून्यवादिनं प्रति सिद्धसाधनतापरिहाराय वस्तुनीति पदम् । अनेकेषु विषयेषु विज्ञानाकारः कल्पित इति वादिनं प्रत्येकेति । क्षणिकैकज्ञाने सर्वं कल्पितमिति वादिनं प्रति स्वानुस्यूतेति । वनाकारानुविद्धेषु तत्राऽकल्पितेषु तरुष्वनैकान्तिकत्वव्यावृत्तये प्रत्येकमिति । भेदः कल्पितो जडत्वात्, कार्यत्वात्, रजतवत्; भेदत्वात् चन्द्रभेदवत्; प्रतिपन्नोपाधावस्थूलादिवाक्यैः प्रतिषिध्यमानत्वात्, देहात्मभाववत्; विरोधिकारणस्वभावाऽनुपमर्देन विरोधिकार्यापत्तिलक्षणत्वाद्, मायाविव्याघ्रवत्; प्रलयावस्थायां सह कालेन स्वोपाधौ शून्यत्वाद्, देहात्मभाववत् । प्रलयकाले एव शून्यत्वं न स्वोपाधावित्याशङ्काव्युदासाय सह कालेनेत्युक्तम् । अर्थापत्तिरपि – प्रपञ्चस्य मिथ्यात्वमन्तरेणाऽनुपपन्नौ जन्मविनाशौ, अमिथ्याभूतयोर्ब्रह्मशून्ययोर्जन्मविनाशादर्शनात् । न चैवं प्रपञ्चमिथ्यात्वाङ्गीकारे ब्रह्मज्ञानस्याऽपि प्रपञ्चज्ञानवन्मिथ्यात्वमनुमीयते इति वाच्यम्, स्वरूपतो मिथ्यात्वाङ्गीकाराद् । विषयतो मिथ्यात्वं तु “तत्सत्यं स आत्मा” इति वचनविरुद्धम् । नन्वस्थूलादिवाक्यैः स्थूलादिव्यतिरिक्तरूपमप्यस्तीति प्रतिपाद्यते, न तु स्थूलादिरूपं निषिध्यते, ततः प्रतिषिध्यमानत्वमिति हेतुरसिद्ध इति चेत्, स्थूलप्रपञ्चतादात्म्यवति ब्रह्मण्यन्यरूपविवक्षयाऽप्येवं प्रतिषेधानुपपत्तेः; न हि शुक्लायां गवि क्षीरसम्पत्तिं विवक्षन्न शुक्ला गौरिति प्रयुङ्क्ते, किं तर्हि क्षीरसम्पन्ना गौरिति । ततः स्थूलादिप्रपञ्चं निषिध्यैव रूपान्तरं प्रतिपाद्यते इत्यङ्गीकर्तव्यम् । तर्काप्रतिष्ठानान्न मिथ्यात्वानुमानमिति चेद्, न; विचारशास्त्रानारम्भप्रसङ्गात् । न हि श्रुत्यर्थनिर्णायकतर्कप्रदर्शनाय विचारशास्त्रारम्भः, किन्तु परकीयतर्कनिराकरणायैव । ब्रह्म तु श्रुतिमात्रसिद्धमिति चेत्, तर्हि “असद्वा इदम्” “सदेव सोम्येदम्” इत्यादिश्रुतिद्वयसामर्थ्यात् कारणस्य सदसत्त्वे स्याताम् । सर्वशक्तित्वाद् ब्रह्मणः सर्वमुपपन्नमिति चेद्, न; तथा सति कदाचिच्छून्यत्वस्याऽपि प्रसङ्गात् । सर्वशक्तित्वं तु श्रुत्यनुसारेणैवाऽवगन्तव्यम् । श्रुत्यर्थश्च तदनुसारितर्कान्निश्चेतव्यः । अतोऽनुमानमपि श्रुत्यविरोधि प्रपञ्चमिथ्यात्वं साधयिष्यत्येव । न च “सन् घटः” इत्यादि सद्बुद्ध्यनुगमविरोधः, अनुगतसत्ताया अधिष्ठानत्वाद् घटादिविशेषाणामेव मिथ्यात्वात् । तस्मादश्रौतः परिणामवाद इति सिद्धम् ।
एवं च सति विवर्त्तवादाभिप्रायेणैव ब्रह्मणः श्रुतौ द्विविधकारणत्वमुक्तम् । तच्च कारणत्वं तटस्थलक्षणत्वेन यद्यपि लक्ष्याद् ब्रह्मणः पृथग्भूतं तथापि तस्य मिथ्यात्वान्न लक्ष्यस्याऽद्वितीयत्वविरोधः । न च सत्यस्यैव लक्षणत्वं न मिथ्याभूतस्येति वाच्यम्, असाधारणसम्बन्धो हि लक्षणत्वप्रयोजको न लक्षणसत्यत्वम् । सत्यानामप्यसम्बद्धानां काकादीनां गृहोपलक्षणत्वादर्शनात् । असत्यानामपि सम्बद्धानां रजतादीनां “यद्रजतमित्यभात् सा शक्तिः” इत्यादौ शुक्त्यादिलक्षकत्वात् । अस्ति चाऽत्र प्रपञ्चब्रह्मणोर्वास्तवसम्बन्धाभावेऽप्याध्यासिकस्तादात्म्यसम्बन्धः । अतः प्रपञ्चजन्मादिकारणत्वेन तटस्थेन जिज्ञास्यविशुद्धब्रह्मस्वरूपं निर्विघ्नमुपलक्ष्यते । न चोक्तलक्षणेन प्रधानादीनि लक्षयितुं शक्यन्ते, तेषां सर्वज्ञत्वसर्वशक्तित्वाभावात्; सर्वज्ञत्वसर्वशक्तित्वयोश्च सूत्रस्थयच्छब्देन विवक्षितत्वात् । सा च विवक्षा सूत्रगतेदंशब्दार्थभूतकार्यप्रपञ्चपर्यालोचनया लभ्यते । तं च प्रपञ्चं वादिनः स्वप्रक्तियानुसारेण विभजन्ति । तथाहि – द्रव्यगुणकर्मसामान्यानीति वार्तिककारीयाः । कार्यकारणयोगविधिदुःखान्तशब्दवाच्या जगदीश्वरसमाधित्रिपवणस्नानाद्यनुष्ठानमोक्षाः पञ्चेति शैवाः । द्रव्यगुणकर्मसामान्यविशेषसमवायाः षडिति वैशेषिकाः । जीवाजीवाऽऽस्रवसंवरनिर्जरबन्धमोक्षाः सप्तेति क्षपणकाः । तत्र बद्धो मुक्तो नित्यसिद्धश्चेति त्रिविधो जीवपदार्थः । पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेत्यजीवपदार्थश्चतुर्विधः । आस्रावयति पुरुषं ज्ञानजननेन विषयेष्विन्द्रियप्रवृत्तिरास्रवः, स्रोतसो द्वारं संवृणोतीति शमदमरूपा प्रवृत्तिः संवरः, निश्शेषेण पुण्यापुण्ये सुखदुःखोपभोगेन जरयतीति तप्तशिलारोहणादिनिर्जरः, अष्टविधं कर्म बन्धः, अलोकाकाशे सततोर्ध्वगमनं मोक्षः । द्रव्यगुणकर्मसामान्यविशेषपारतन्त्र्यशक्तिनियोगा अष्टाविति चिरन्तना प्राभाकराः; द्रव्यगुणकर्मसामान्यसमवायशक्तिसङ्ख्यासादृश्यान्यष्टावित्याधुनिकाः । प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानि षोडशेति नैयायिकाः । एकादशेन्द्रियपञ्चप्राणपञ्चभूताहङ्कारमहदव्यक्तपुरुषाः पञ्चविंशतिरिति साङ्ख्याः । वेदान्तिनस्तु “त्रयं वा इदं नामरूपं कर्म”, “नामरूपे व्याकरवाणि” इति श्रुतिद्वयमाश्रित्य त्रैविध्यं द्वैविध्यं वाऽङ्गीकुर्वन्ति ।
युक्तश्चाऽन्त्यः पक्षः, स्रष्टुः सृज्यगोचरनामरूपयोः प्रथमं बुद्ध्यारोहात् । लोके घटं चिकीर्षौ कुलाले तद्दर्शनात् । मूलकारणमपि नामरूपाभ्यां स्वबुद्ध्यारूढं सृजति, स्रष्टृत्वात्, कुलालवत् । एतावता जगद् बुद्धिमच्चेतनकार्यमिति लभ्यते । न च जीवकार्यत्वं शङ्कनीयम्, कर्तृत्वभोक्तृत्वविशिष्टानां नामरूपात्मकानां सर्वजीवानां कार्यान्तःपातित्वात् । न च जगत्कारणस्य सर्वज्ञत्वे विवदितव्यम्, जगतः प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयत्वात् । प्रतिनियतदेशोत्पादाः कृष्णमृगादयः। प्रतिनियतकालोत्पादाः कोकिलादयः । प्रतिनियतनिमित्ता नवाम्बुदनादसम्भवा बलाकागर्भादयः । प्रतिनियतक्रिया ब्राह्मणानां याजनादयः । प्रतिनियतफलं ब्रह्मलोके सुखं नरके दुःखमित्युदाहार्यम् । तामीदृशीं नियतिमसाङ्कर्येण कथमसर्वज्ञः सम्पादयेत् । नाऽपि सर्वशक्तित्वे विवदितव्यम्, जगतो मनसाऽप्यचिन्त्यरचनारूपत्वात् । नह्येकस्या अपि शरीररचनाया विविधनाडीजालादिसन्निवेशविशिष्टाया रूपं मनसाऽपि शक्यं चिन्तयितुं दूरे जगद्रचनायाः । तदीदृशं जगत् कथमसर्वशक्तिर्विरचयेत् ? तदेवं सूत्रगतयच्छब्देनैव सर्वज्ञत्वं सर्वशक्तित्वं च विवक्षितम् । सूत्रं चोपलक्षणप्रतिपादकमेवं योजनीयम् – अस्योक्तविधस्य जगतो जन्मादि यतः सर्वज्ञात् सर्वशक्तेः कारणाद् भवति तत्कारणं ब्रह्मेति ।
नन्वत्र सूत्रे ब्रह्मस्वरूपलक्षणं नोक्तम्, न च तदन्तरेण स्वरूपमवगम्यते प्रकृष्टप्रकाशत्मत्वमनुक्त्वा “शाखाग्रे चन्द्रः” इत्येवोक्ते चन्द्रस्वरूपानवगमात् । यच्छब्देन तदुक्तमिति चेत्, तत् किं सर्वशक्तित्वम् उत सर्वज्ञत्वम् ? नाऽऽद्यः; प्रधानादावपि तत्सम्भवात् । न द्वितीयः, सर्वोपाधिकस्य तस्य शुद्धब्रह्मस्वरूपत्वायोगात् । सर्वज्ञत्वं च दुर्भणम् । किं षड्भिः प्रमाणैः सर्वज्ञत्वम् उत प्रत्यक्षेणैव ? आद्येऽपि न तावद् युगपत् सर्वज्ञत्वम्, प्रत्यक्षादीनामयुगपत् प्रवृत्तेः । क्रमेण सर्वज्ञत्वेऽपि तत्किं सर्वापरोक्ष्यम् उत सर्वज्ञानमात्रम् ? नाऽऽद्यः, नित्यानुमेयानामापरोक्ष्यानुपपत्तेः । न द्वितीयः; अस्माकमपि षड्भिः प्रमाणैः क्रमेण सर्वज्ञत्वप्रसङ्गात् । प्रत्यक्षेणैव सर्वज्ञत्वमपि किं बाह्येन उत मानसेन अथवा साक्षिप्रत्यक्षेण ? नाऽऽद्यः; बाह्येन्द्रियाणां देशकालविप्रकृष्टार्थेषु साक्षात्सम्बन्धाभावात् । परम्परया सम्बन्धेऽस्माकमपि सर्वज्ञत्वप्रसङ्गात् । द्वितीयेऽपि किं केवलेन मनसा उत योगाभ्यासजन्यातिशययुक्तेन अथवा सर्वविषयसंस्कारयुक्तेन ? नाऽऽद्यः, केवलमनसो बहिरस्वातन्त्र्यात् । न द्वितीयः, अतिशयस्य स्वविषय एव प्रभवात् । मार्जारादिदृष्टीनामपि योग्यरूपेष्वेवाऽतिशयवत्त्वदर्शनात् । न तृतीयः, प्रथमतः सर्वग्रहणाभावे तत्र संस्कारायोगात् । क्रमेण सर्वग्रहणे सति तत्संस्कारकल्पनेऽप्यतीतानागतवर्तमानार्थानामनन्तानामियत्तानवधारणात् सर्वग्रहणानुपपत्तिः । न च साक्षिप्रत्यक्षेण सर्वज्ञता, प्रदीपप्रभावत्तस्याऽतीतानागतार्थग्राहित्वाभावात् । तस्मान्नाऽस्ति सर्वज्ञ इति ।
अत्रोच्यते – सर्वविषयाकारधारिषु मायापरिणामेषु प्रतिबिम्बितं चैतन्यं सर्वानुभव इत्युच्यते । तस्य च विषयैराध्यासिकसम्बन्धाद्वर्तमानकाले तावत् सर्वज्ञत्वं सिद्धम् । अतीतविषयाणां तदवच्छिन्नमायावृत्तीनां तदवच्छिन्नानुभवानां च निवृत्तौ तत्संस्कारादस्मदादिष्विवाऽतीतविषयाः स्मृतिरूपा मायापरिणामा भवन्ति । तत्प्रतिबिम्बितानुभवेनाऽतीतविषयज्ञत्वमपि सिध्यति । तथा सृष्टेः प्रागपि स्रक्ष्यमाणपदार्थावधारणस्य कुलालादिषु दृष्टत्वादागामिसर्वविषयज्ञानमपि स्वमायापरिणामवशाद् भविष्यतीति युक्ता सर्वज्ञता । न चाऽत्र मानाभावः; “यः सर्वज्ञः” इति श्रुतेः । न च स्वरूपलक्षणत्वासम्भवः, लक्षणाभिधानावसरे सर्वज्ञशब्देन सर्वप्रकाशकत्वोपलक्षितशुद्धचैतन्यमात्रस्य विवक्षितत्वात् । तदेवं जन्मस्थितिनाशाख्यविकारत्रयकारणस्य ब्रह्मणः सूत्र एव स्वरूपलक्षणमपि सिद्धम् । यद्यपि वृद्धिपरिणामापक्षयास्त्रयो भावविकारा जन्मस्थितिनाशव्यतिरेकेण प्रसिद्धास्तथापि वृद्धिर्जायते वृद्धिस्तिष्ठति वृद्धिर्नश्यतीत्येवमेव वृद्ध्यादयो निरूप्यन्ते नाऽन्यथा । ततो वृद्ध्यादीनां जन्माद्यन्तर्भावान्न सूत्रगतादिशब्देन पृथग् ग्रहणम् । न च निरुक्तकारपठितषड्भावविकारग्रहणे सति नाऽस्त्यन्तर्भावप्रयास इति वाच्यम्, तदा ह्यार्पेयवाक्यस्य न तावदनुमानादि मूलम्, अस्माकमपि तत्सम्भवेन तद्वाक्यवैयर्थ्यात् । नाऽपि प्रत्यक्षम्, ब्रह्मजन्यमहाभूतविकाराणां श्रुतिमन्तरेणाऽप्रत्यक्षत्वात् । भौतिकविकारा एव मुनिना प्रोक्ता इति चेत्, तर्हि तेषामिह ग्रहणे भौतिककारणभूतपञ्चकमेव ब्रह्मत्वेन सूत्रे लक्षितमिति बुद्धिः स्यात् । अतः श्रुत्युक्ता जन्मादयस्त्रय एवाऽत्र ग्राह्याः । न हि श्रुतिर्मूलप्रमाणमपेक्षते, येनोक्तदोषः स्याद्, अतो यत्किञ्चिज्जन्मवद्भूतभौतिकं तस्य सर्वस्य मूलकारणत्वेन श्रुत्युक्तं ब्रह्मैवाऽत्र लक्षितमित्यवगम्यते । नन्वेवमपि सूत्रे श्रुत्युक्तं जन्मैव सूत्र्यतां तावतैवोक्तार्थसिद्धेरिति चेद्, न; केवलनिमित्तकारणत्वशङ्काव्युदासार्थत्वात् स्थितिप्रलययोः । नह्यनुपादाने केवलनिमित्ते स्थितिप्रलयौ सम्भवतः । यद्यपि जन्मस्थितिप्रलया निरुक्तकारेणाऽप्युक्तास्तथापि न तद्वचनद्वारा श्रुतिमूलत्वं सूत्रस्य कल्पनीयम् । सूत्राणां साक्षाच्छ्रुत्यर्थनिर्णयपरत्वात् । अन्यथा ऋषिवाक्यान्येव वक्ष्यमाणसूत्रैरुदाहृत्य निर्णीयेरन् । तस्मात् “यतो वा इमानि भूतानि जायन्ते” इत्येतच्छ्रुत्युक्तानेव जन्मस्थितिनाशान् साक्षात् सूत्रे निर्दिश्यतत्कारणं ब्रह्मेति लक्ष्यते ।
ननु कथं ब्रह्मणः कारणत्वम्, किं ब्रह्म पूर्वरूपं परित्यज्य रूपान्तरेण परिणमते उताऽपरित्यज्य विवर्तते ? आद्ये सृष्टेरुपरि ज्ञानानन्दरूपस्य ब्रह्मण उच्छेदः स्यात् । अथ जगद्रूपेण परिणतं तद् ब्रह्म पुनरपि प्रलयावस्थायां ज्ञानानन्दब्रह्मरूपेण परिणमेत तथापि तस्य ब्रह्मणः पुनर्जगदाकारपरिणामस्वभावित्वादनिर्मोक्षप्रसङ्गः । न च सृष्टिश्रुतिः परिणामे प्रमाणम्, तस्याः सृष्टिमात्रोपक्षीणायाः पूर्वरूपपरित्यागापरित्यागयोस्ताटस्थ्यात् । न च श्रुत्यन्तरं परिणामे सम्भवति, “अज आत्मा महान् ध्रुवः” इति ध्रुवशब्देन परिणामविरुद्धकौटस्थ्याभिधानात् । कूटस्थत्वं च ब्रह्मणो निरवयवत्वादुपपन्नम् ।
ननु निरवयवमपि परिणमत एव । तथा हि – हेमगतरुचकादिपरिणामः परम्परया परमाणुपर्यवसायी, अवयववृत्तित्वात्, संयोगवत् । संयोगो ह्यवयव्येकदेशसमवेतः परम्परया निरवयवपरमाणुसंयोगपुरःसरः प्रसिद्ध इति । तत्र वक्तव्यं कोऽयं परिणाम इति । मृत्पिण्डस्य घटरूपापत्ताविव स्वावयवानां पूर्वसंयोगात्संयोगान्तरापत्त्या संमूर्छितावयत्वं परिणामः, तक्राद्यातञ्चनावयवसंयोगेन क्षीरस्य दधिभाववदवयवान्तरसंयोगेन सम्मूर्छितावयवत्वं वा, यूनो वृद्धत्ववदवस्थान्तरं वा, काष्ठस्य स्तम्भाद्यापत्तिवदन्यथाभावो वा, अणोरण्वन्तरसंयोगेन द्व्यणुकापत्तिवद्वस्त्वन्तरसंयोगो वा, उदकस्य नदीभाववत्परिस्पन्दो वा । पक्वफलस्य वर्णान्तरवद् गुणान्तरोदयो वा, उपादानानुरक्तद्रव्यान्तरोत्पत्तिर्वा ? न तावत् प्रथमद्वितीयौ, निरवयवस्य तादृशपरिणामानुपपत्तेः । नाऽपि तृतीयचतुर्थौ, तथा सति जगदाकारपरिणामे पुनर्ब्रह्मभावानुपपत्तावनिर्मोक्षप्रसङ्गः । न हि वृद्धः कदाचिदपि युवा भवति । नाऽपि स्तम्भा वृक्षरूपेण प्ररोहेयुः । क्वचित्पुनःप्ररोहेऽपि दृश्यत इति चेत्, तर्हि मोक्षस्यापि तथा पुनः परिणामरूपत्वे सत्यनित्यत्वं दुर्वारं स्यात् । नाऽपि पञ्चमषष्ठसप्तमाः, परिणामलक्षणस्याऽतिव्याप्तेः । वस्त्वन्तरसंयोगिन्याकाशे परिस्पन्दमाने भ्रमरे लौहित्योदयवति च पटे द्रव्यपरिणामबुद्ध्यभावात् । नाऽप्यष्टमः, अवयविनस्तथा परिणामेऽप्यवयवपरिणामस्य दुर्भणत्वात् । किं हेमावयवानां रुचकरूपेण परिणामः किं वा रुचकोपयुक्तद्रव्यान्तररूपेण उत रुचकोपयुक्तावस्थान्तररूपेण । न तावद् द्वितीयतृतीयौ, रुचकव्यतिरेकेण तदुपयुक्तद्रव्यान्तरावस्थान्तरयोरदर्शनात् । नाऽपि प्रथमः, रुचकस्याऽवयविकार्यत्वात् । अवयवकार्यत्वे चाऽऽरम्भवादप्रसङ्गात् । न चाऽवयवानां रुचकानुगमानुपपत्तिः, अवयविद्वारा तदुपपत्तेः । न चाऽऽश्रयावयवेषु विकारमन्तरेणाऽऽश्रितावयविनि विकारानुपपत्तिः, परमाणौ असतोरेव जन्मविनाशयोर्द्व्यणुके दर्शनात् । जन्मविनाशव्यतिरिक्तधर्मस्य तथात्वमिति चेद्, न; कपालेष्वसत्या एव घटत्वजातेर्घटसमवेतत्वात् । व्यापकानामवयवानामवस्थान्तरमन्तरेण व्याप्यस्याऽवयविनोऽवस्थान्तरं नोपपन्नमिति चेद्, न; व्यापकयोर्जातिगुणयोरवस्थान्तराभावेऽपि व्याप्यद्रव्ये तद्दर्शनात् । अस्तु वाऽवयवानां परिणामस्तथाप्यवयविपरिणामप्रयुक्तत्वान्नाऽऽसौ ब्रह्मपरिणामस्य दृष्टान्तः । न हि ब्रह्मावयवकं परिणामि किञ्चिदस्ति, यत्प्रयुक्तो ब्रह्मपरिणामः स्यात् । निरवयवत्वादवयविदृष्टान्तेनाऽपि न ब्रह्मणः परिणामसिद्धिः ।
यत्तु निरवयवसंयोगवत् परिणाम इति, तत्राऽपि किं दृश्यमानावयविसंयोगस्य परमाणुसमवेतत्वमुच्यते उत परमाणुसंयोगपूर्वकत्वं कल्प्यते ? नाऽऽद्यः, परमाणुगतरूपादिवदप्रत्यक्षत्वप्रसङ्गात् । न द्वितीयः, अवयविन्येव घटत्वजातिसमवायवत् संयोगोपपत्तेः । अवयवानां संयोगेऽनुगमस्त्ववयविद्वाराऽन्यथासिद्धः । संयोगस्याऽवयविवृत्तित्वे कृत्स्नव्यापित्वप्रसङ्गेनाऽवयवेष्वेव वृत्तिरिति चेत्, तर्ह्यवयविनां तन्तूनां संयोगासम्भवेन पटानारम्भप्रसङ्गः । कृत्स्नव्यापित्वं तु तार्किकं प्रत्यवयवावृत्तिपरमाणुसंयोगोदाहरणेन परिहर्तव्यम् । अन्यान्प्रत्याकाशवर्ती शब्द उदाहार्यः । तस्मान्न संयोगदृष्टान्तेन निरवयवपरिणामोऽनुमातुं शक्यः ।
ननु कथं ब्रह्मणो निरवयवत्वम्, येन परिणामो निराक्रियेत ? सावयवत्वस्य दुर्भणत्वाच्छ्रुतेश्चेति वदामः । सावयवत्वे किमवयवावयविनोरुभयोरपि स्वप्रकाशत्वम् उताऽन्यतरस्यैव ? आद्ये तयोरितरेतराविषयत्वान्न केनचिदपि सावयवत्वं प्रतीयात् । द्वितीये घटात्मनोरिव तयोर्नाशंशिभावसिद्धिः । श्रुतिश्च “निष्कलं निष्क्रियं शान्तम्” इति क्रियावयवशून्यतामाह । नियन्तृत्वादिक्रियापि श्रूयत इति चेत्, तर्हि तत्त्वतो निष्क्रियत्वं मायया सक्रियत्वमिति व्यवस्थाऽस्तु; “मायाभिः पुरुरूप ईयते” इति विनिगमश्रुतेः । निर्व्यापारस्य चेतनस्य सुषुप्ते पुरुषार्थत्वानुभवेन निष्क्रियत्वस्य तात्त्विकत्वोपपत्तेः । न च ब्रह्मप्रवृत्तेर्मायिकत्वे युक्त्यभावः, स्वप्रवृत्तिवन्निष्प्रयोजनत्वेन मिथ्यात्वोपपत्तेः । तदेवं निरवयवं ब्रह्म न परिणमते, किन्तु विवर्तते इति द्वितीयपक्षोऽङ्गीकार्यः । तस्मिन्नपि पक्षे पूर्वरूपमपरित्यजतो ब्रह्मणो निर्विकारत्वाज्जगद्रूपेण विकरिष्यमाणं वस्त्वन्तरं किञ्चिदङ्गीकार्यम् । तत्किं माया उताऽन्यत् ? नाऽन्यत्, ब्रह्ममायाभ्यां व्यतिरिक्तस्य कार्यत्वेन मूलकारणत्वायोगात् ।
मायापक्षेऽपि किं “माया प्रज्ञा तथा मेधा” इत्याभिधानमनुसृत्य मायाशब्देन पज्ञोच्यते उत पामरप्रसिद्ध्या मन्त्रौषधादिः अथवा स्वकीयपण्डितम्मन्यत्वेन जडात्मिका काचित्पारमार्थिकशक्तिः किं वा “नाऽसदासीत्” इत्यादिशास्त्रानुसारतोऽनिर्वचनीयशक्तिः ? आद्येऽपि न तावत् “प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म” इति श्रुत्युक्तब्रह्मचैतन्यरूपप्रज्ञाया मायात्वं सम्भवति, “भूयश्चान्ते विश्वमायानिवृत्तिः”, “दैवी ह्येषा गुणमयी”, “माययाऽपहृतज्ञाना” इति शास्त्रेण मायाया निवर्त्यत्वगुणमयत्वप्रज्ञानावरणत्वाभिधानात्, चैतन्यस्य तदसम्भवात् । नाऽपि “धीः प्रज्ञा शेमुषी मतिः” इत्यभिधानोक्ताया बुद्धिरूपप्रज्ञाया मायात्वम्, बुद्धेरुपादानत्वायोगात् । न द्वितीयः, न हि लोके मन्त्रौषधादौ मायाशब्दः प्रयुज्यते, किं तर्हि तत्कार्ये गन्धर्वनगरादौ बाधिते । न तृतीयः, पारमार्थिकशक्तौ प्रमाणाभावात् । चतुर्थेऽप्यनिर्वचनीया सा माया किं जगत उपादानं किं वा जगदुत्पत्तौ कारणमिति विवेक्तव्यम् ? तत्र “मायां तु प्रकृतिं विद्यात्” इति श्रुतेरुपादानत्वं युक्तम् । न च “प्रक्रियते अनया” इति प्रकृतिशब्दः करणे व्युत्पादनीयः, उपादाने रूढत्वात्, रूढेश्च प्राबल्यात् । “इन्द्रो मायाभिः” इति तृतीया श्रुत्या करणत्वमिति चेद्, न; तत्राऽऽत्मनो बहुत्वापत्तावेव करणत्वश्रवणात् । तावता च प्रपञ्चोपादानत्वे का हानिः ? “आत्मन आकाशः सम्भूतः” इति पञ्चम्या प्रकृतित्वमात्मनः श्रूयते, ततो न मायोपादानमिति चेद्, न; निमित्तेऽपि पञ्चमीसम्भवात् । न च मायैव निमित्तमस्त्विति वाच्यम्,जाड्यरूपेण मायायाः प्रपञ्चेऽनुगतत्वात् । आत्माऽपि सत्तारूपेण स्फूर्तिरूपेण वाऽनुगत इति चेद्, एवं तर्ह्यात्मा माया चेत्युभयम् उपादानमस्तु । तथा च मायायामतिव्याप्तेन जगज्जन्मादिकारणत्वलक्षणेन विशुद्धं ब्रह्म न सिध्यति । अत्रोच्यते – एकस्य कार्यस्य परस्परनिरपेक्षोपादानद्वयाऽसम्भवान्माया ब्रह्म च मिलित्वैकमेवोपादानमिति वाच्यम् । तत्र त्रैविध्यं सम्भवति – रज्ज्वा संयुक्तसूत्रद्वयवत् समप्रधानभावेनोभयमपि जगत उपादानम् । तत्र सत्तास्फूर्त्यंशयोर्ब्रह्मण उपयोगः । जाड्यविकारांशयोस्तु मायाया इति केचिदाहुः ।
“देवात्मशक्तिम्” इति श्रुतिबलान्मायाख्या शक्तिरेव साक्षादुपादानम् । शक्तेश्च नियमेन शक्तिमत्पारतन्त्र्यात् शक्तिमति ब्रह्मण्यप्यर्थाद् उपादानत्वं पर्यवस्यतीत्यन्ये । आरोपिताया मायाया अधिष्ठानब्रह्मस्वरूपमन्तरेण वस्तुतः स्वरूपान्तराभावाद् मायाया एव साक्षादुपादानत्वेऽपि तदधिष्ठानत्वेन ब्रह्मणोऽप्युपादानत्वमवर्जनीयमित्यपरे । आद्ये पक्षे मायाविशिष्टब्रह्मणो मुख्योपादानत्वं द्वितीयतृतीययोस्तु मायाया एव । पक्षत्रयेऽपि विशुद्धब्रह्मण औपचारिकमेवोपादानत्वम् । तत्र मुख्योपादानस्य जगत्कारणत्वं स्वरूपलक्षणम् । औपचारिकोपादानस्य तु तत्तटस्थलक्षणम् । तथा सति किं स्वरूपलक्षणत्वेनाऽभिप्रेतं जगत्कारणत्वं मायायामतिव्याप्तं किं वा तटस्थलक्षणत्वेन ? नाऽऽद्यः, मायाया लक्ष्यान्तः पातित्वात् । न द्वितीयः, जगत्कारणत्वस्य तटस्थलक्षणरूपेण मायायामवृत्तेः । तस्माज्जगत्कारणत्वरूपतटस्थलक्षणेन ज्ञानानन्दादिरूपस्वरूपलक्षणेन च विशुद्धब्रह्मसिद्धिः ।
ननु न तावत् पृथिव्याद्युपादानत्वं ब्रह्मलक्षणम्, पृथिव्यादीनामुत्पत्त्यदर्शनात् । नाऽपि घटाद्युपादानत्वम्, घटादीनां पृथिव्यादिकार्यत्वादिति चेद्, मैवम्; विमताः पृथिव्यप्तेजोवायवः जायन्ते, पृथिव्यप्तेजोवायुबुद्धिगोचरत्वात्, सम्प्रतिपन्नपृथिव्यप्तेजोवायुभागवत् । आकाशकालदिगादयो जायन्ते, विभक्तत्वाद्, घटादिवत् । ननु प्रत्यनुमानमस्ति – पृथिव्यादयो न जायन्ते, महाभूतत्वात्, आकाशवत् । आकाशश्च न जायते, निरवयवद्रव्यत्वात्, आत्मवत्, इति चेद्, मैवम्; सामान्यविषयान्महाभूतत्वहेतोरपि विशेषविषयस्य पृथिवीबुद्धिगोचरत्वस्य बलीयस्त्वाद् । तदुक्तं भट्टाचार्यैः –
“बाधः सामान्यशस्त्रस्य विशेषविषयाद्यथा ।
अनुमानान्तरैरेवमनुमानस्य बाधनम् ॥” इति ।
आकाशजन्माभावानुमाने श्रुतिविरोधः साधनविकलश्च दृष्टान्तः, निर्गुणात्मनि गुणवत्त्वलक्षणस्य द्रव्यत्वस्याऽभावात् । तस्मात् जायमानपृथिव्यादिकृत्स्नजगदुपादानत्वं ब्रह्मलक्षणम् ।
ननु वादिनो जगदुपादाने विप्रतिपद्यन्ते । तथाहि – विमताः सर्वे विकाराः, सुखदुःखमोहसामान्यप्रकृतिकाः, तदन्वितस्वभावत्वाद्, ये यदन्वितस्वभावास्ते तत्प्रकृतिकाः, यथा मृदन्विता मृत्प्रकृतिकाः शरावादयः । तथा विमताः सर्वविकारा अविभक्तैकप्रकृतिकाः, परिमितत्वात् अनेकत्वात् विकारवच्च, शरावादिवत्, इति साङ्ख्याः प्रधानं जगदुपादानमनुमिमते । विमतं कार्यद्रव्यं स्वपरिमाणादणुतरपरिमाणारब्धम्, कार्यद्रव्यत्वात्, पटवत् इति परमाणूंस्तद्वादिनः कल्पयन्ति । सर्वं कार्यमभावपुरःसरम्, योग्यत्वे सत्यनुपलभ्यमानपूर्वावस्थत्वात्, व्यतिरेके परपरिकल्पितात्मवत्, इति शून्यं शून्यवादिनो वदन्ति । योगाः शैवाश्च स्वकीयागमसामर्थ्याद्धिरण्यगर्भं पशुपतिं चाऽऽहुरिति । तदयुक्तम् – आन्तराणां सुखादीनां बाह्यानां घटादीनां च प्रत्यक्षतो भेदप्रतीतौ सुखदुःखमोहसामान्यान्वितत्वहेतोरसिद्धत्वात् । घटादिविकाराः सुखदुःखमोहात्मकाः, स्वाभिव्यञ्जकचित्तोपाधौ सुखाद्याकारप्रतिभासहेतुत्वाद्, यथा दर्पणोपाधौ मुखाकारप्रतिभासहेतुर्मुखात्मको बिम्ब इति हेतुसिद्धिरिति चेद्, न; तथा सत्येकमेव पदार्थमुपलभमानस्य युगपत्सुखादित्रितयोपलम्भप्रसङ्गात् । अदृष्टवशादेकोपलम्भ इति चेद्, न; अदृष्टेन वस्तुसामर्थ्यनियमायोगात् । नह्यदृष्टवशात् पाषाणो मृदुर्भवति । अदृष्टस्य वस्तुसामर्थ्यानियामकत्वेऽप्युपलम्भनियामकत्वमस्त्येवेति चेद्, एवमपि सुखादिसामान्यान्वितत्वहेतुरनैकान्तिकः । शुक्लादिगुणैर्घटत्वादिसामान्यैश्चाऽऽन्वितानां द्रव्याणां तत्प्रकृतित्वादर्शनात् । परिमितत्वमपि वस्तुकृतं चेत्, प्रधानपुरुषयोर्नित्ययोरनैकान्तिकता । देशकालकृतं चेद्, घटहिमकरकादिषु प्रत्यक्षदृष्टभिन्नप्रकृतिकेष्वनेकान्तम् । एतेनाऽनेकत्वविकारत्वहेतू व्याख्यातौ । कार्यद्रव्यत्वं च दीर्घविस्तीर्णदुकूलद्वयारब्धे सङ्कुचिते रज्जुद्रव्येऽनैकान्तिकम् । अथ दुकूलद्वयसंयोगमन्तरेण रज्जुद्रव्यं नामाऽन्यन्नाऽस्ति तथापि तत्प्रत्यनुमानग्रस्तम् । विमतं द्व्यणुकं सावयवारब्धम्, सावयवत्वाद्, घटवत् इति हि प्रतिप्रयोगः । शून्यवादिनोऽपि घटस्य पूर्वावस्थारूपा मृत् प्रत्यक्षोपलब्धेत्यसिद्धो हेतुः । योगशैवागमास्तु वेदविरोधादप्रमाणम् ।
ननु वादिनां प्रमाणानुपपत्तावपि न प्रमेयानुपपत्तिः, न हि चक्षुरुपद्रवमात्रेण दृश्यरूपादिहानिर्दृष्टेति चेद्, न; प्रमेयस्याऽप्यन्यदीयस्य दुर्निरूपत्वात् । किं केवलं प्रधानादि जगत्कारणम् उतेश्वराधिष्ठितम् ? नाऽऽद्यः; अचेतनस्य प्रतिनियतरचनानुपपत्तेः । द्वितीयेऽपि तस्येश्वरस्य श्रुतिसिद्धत्वे ब्रह्मवादप्रसङ्गः । अनुमानगम्यत्वे कुलालादिदृष्टान्तेनैव परिच्छिन्नज्ञानशक्तित्वं स्यात् । अथ कुलालादिवदनेकत्वाभावादेकस्य सर्वजगत्स्रष्टुस्तस्य सर्वज्ञत्वसर्वशक्तित्वे अर्थात् भविष्यतः । एवमपि विमतं जगज्जीवेश्वराभ्यामुत्पद्यते, कार्यत्वाद्, घटादिवत्, इत्यतिप्रसङ्गो दुर्वारः । अदृष्टद्वारा जीवस्याऽपि जगत्कर्तृत्वादिष्टापत्तिरिति चेत्, तर्हि घटादिवैलक्षण्याय पृथिव्यादौ कर्तृत्रयं प्रसज्येत । शून्यस्य तु निरुपाख्यत्वान्न जगदुपादानत्वसम्भावनाऽप्यस्ति, जगतः सदन्वयात् । सदन्वयः संवृत्तिकल्पित इति चेद्, एवमपि त्वन्मते निरन्वयविनाशवतः पूर्वकल्पस्य संस्करासम्भवेन तत्सदृशो वर्तमानकल्प इति नियमो न स्यात् । ततश्च कर्मतत्फलतत्प्रमाणव्यवहारोच्छेदः । विशिष्टसन्निवेशयुक्तदेवादिभावकामनयाऽनुष्ठितकर्मणां कल्पान्तरे तथाविधवेदादिरूपानुत्पत्तेः कर्मोच्छेदः । अत्यन्तपुण्यकारिण आकल्पं स्वर्गमनुभूय कल्पान्तरे पूर्वजातिस्मरणपूर्वकं जन्म श्रुतौ फलत्वेन श्रुतं तच्च फलं निरन्वयविनाशे संस्काराभावान्न सम्भवेत् । तथा पूर्ववेदस्य निरन्वयविनाशे सति धर्मस्य मानान्तरागम्यत्वेन तद्गोचरनूतनपदरचनायाः पुरुषैः कर्तुमशक्यतया धर्मप्रमाणमप्युच्छिद्येत । तदङ्गीकारे च तथैव तदभिमतकर्मतत्फलतत्प्रमाणानामप्युच्छेदः स्यात् । सर्वं कार्यं स्वभावादेवोत्पद्यत इति बार्हस्पत्यो मन्यते । स प्रतिवक्तव्यः – किं स्वयमेव स्वस्य निमित्तमित्यर्थः, किं वा निर्निमित्तमुत्पद्यत इति ? नाऽऽद्यः, आत्माश्रयत्वात् । द्वितीये घटस्य भावाभावौ युगपत्स्याताम्, क्रमकारिनिमित्तनिरपेक्षत्वात् । अथ मन्यसे त्वन्मतेऽपि तस्य निमित्तस्य क्रमकारित्वं स्वाभाविकं चेत्स्वभाववादः । निमित्तान्तरसापेक्षत्वेऽनवस्थापातः । कालभेदेन तस्यैव क्रमकार्यवस्थाङ्गीकारेऽपि स कालक्रमः स्वाभाविकश्चेत् स्वभाववादः । निमित्तान्तरापेक्षश्चेदनवस्थेति । तदसत्; किमनेनाऽवस्थापादनेन वस्तूनां सामर्थ्यस्य निमित्तान्तरनिरपेक्षत्वमुच्यते किं वा सति वस्तूनां सामर्थ्ये निमित्तान्तरानुसरणं व्यर्थमिति ? आद्योऽङ्गीकृत एव । द्वितीयेऽपि किं निमित्तान्तरापेक्षत्वं न प्रतीयत इत्युच्यते किं वा प्रतीतमपि दुर्निरूपमिति ? नाऽऽद्यः, प्रत्यक्षविरोधात् । घटमारभमाणस्य कुम्भकारस्य दण्डचक्राद्यपेक्षायाः प्रत्यक्षसिद्धत्वात् । न द्वितीयः, सर्वानिर्वाच्यत्ववादिनो दुर्निरूपत्वस्याऽलङ्कारत्वात् । भूतचतुष्टयमेव तत्त्वं प्रत्यक्षमेवैकं प्रमाणं स्वभाववाद एव पारमार्थिक इति मन्यमानस्य तत्र प्रतिज्ञातार्थे हेतूपन्यासे सनिमित्तत्वप्रसङ्गः । अनुपन्यासे च प्रतिज्ञातार्थसिद्धिः । प्रतीतिमात्रशरणत्वे चाऽनिर्वचनीयवादापातः । तदेवं वस्त्वन्तरस्य कारणत्वसम्भावनानिराकरणे पारिशेष्यादस्मदुक्तः सर्वज्ञः सर्वशक्तिरीश्वर एव कारणमित्येतादृशी युक्तिरपि ब्रह्मस्वरूपनिर्णयायाऽनेनैव सूत्रेण तन्त्रेणाऽऽवृत्त्या वा सूत्रितेति द्रष्टव्यम् । अनया च युक्त्या यथोक्तब्रह्मसम्भावनायां पश्चादागमेन तत्साधयितुं शक्यम् । यथाऽहुः –
“सम्भावितः प्रतिज्ञायां पक्षः साध्येत हेतुना ।
न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः ॥” इति ।
नन्वनुमानादेव यथोक्तेश्वरसिद्धो किमाभ्यां युक्त्यागमाभ्याम् । न च सत्यागमेऽनुमानप्रयासवैयर्थ्यमिति वाच्यम्, “यतो वा” इत्याद्यागमस्याऽनुमानसिद्धार्थानुवादकत्वात् । अनुमानं चैवं प्रयोज्यम् – विमतं जगद् उपादानोपकरणाद्यखिलाभिज्ञकर्तृकम्, कार्यत्वाद्, गृहवत्, इति वैशेषिकैरुच्यत इति चेद्, न; विमतं जगद्बहुकर्तृकमसर्वज्ञकर्तृकं वेत्यतिप्रसङ्गस्याऽपि तद्वत्सुसाधत्वात् । ज्ञानैश्वर्यशक्तय उत्कृष्यमाणाः क्वचित्पर्यवसिताः, उत्कृष्यमाणधर्मत्वात्, परिमाणवत्, इति साङ्ख्या योगाश्च वदन्तीति चेद्, न; निरीश्वरवादिनां देवादिभिः सिद्धसाधनत्वात् । सर्वविषयज्ञानैश्वर्यशक्तिमति पर्यवसितत्वसाधनेऽपि गुरुत्वरागद्वेषदुःखादिष्वनैकान्तिकता । पुण्यपापफलं कर्म तत्फलाद्यभिज्ञेन प्रदीयते, कर्मफलत्वात्, सेवाफलवत्, इति नैयायिका अनुमिमत इति चेद्,न; देवादिभिरेव सिद्धसाधनत्वात् । अतः सम्भावनाबुद्धिहेतुत्वेनाऽऽगमोपकारिणीमस्मदुक्तां युक्तिमेवाऽज्ञानाद् वैशेषिकादयोऽनुमानं मन्यन्ते । न हि युक्तिरेवाऽनुमानम् । व्याप्त्याभासोऽनुपपत्त्याभास उदाहरणमात्रदर्शनं चेत्येतत्त्रयं सम्भावनाबुद्धिजनकत्वेन युक्तिरित्युच्यते, अव्यभिचरितव्याप्तिकमर्थनिश्चायकमनुमानम् । अतो वैशेषिकादिप्रयोगाणां सत्यप्यनुमानदोषे श्रुतिसिद्धब्रह्मणि सम्भावनाबुद्धिहेतुत्वेनाऽस्मदुक्तयुक्तित्वमविरुद्धम् । एवं तर्हि युक्तिव्याजेन वैशेषिकाद्यभिमतमनुमानमेव जन्मादिसूत्रे ब्रह्मनिश्चायकत्वेनोपन्यस्तमिति चेद्, अनुमानमात्रात्कारणसद्भावमात्रसिद्धावपि सत्यज्ञानादिरूपस्य ब्रह्मण आगममन्तरेणाऽसिद्धेरागमग्रथन एव सूत्रतात्पर्यात् । आगमवाक्यानि हि वक्ष्यमाणसूत्रैः उदाहृत्य तात्पर्यतो निर्णीयन्ते, ब्रह्मसाक्षात्कारस्य शब्दानुसारिभिर्न्यायैर्बह्मणि वेदान्तवाक्यतात्पर्यनिर्णयाधीनत्वात् । नह्यनुमानादिप्रमाणान्तरनिर्णेतॄणां वैशेषिकादीनां ब्रह्मावगतिर्दृश्यते । न चाऽपौरुषेयस्य पौरुषेयमनुमानं मूलमिति युक्तम् । न चैवमनुमानस्याऽत्यन्तानपेक्षा स्यादिति वाच्यम्, श्रुत्यर्थदार्ढ्याय श्रुत्यविरोधिन्यायस्याऽपेक्षितत्वात् । “पण्डितो मेधावी” इत्यादिश्रुत्यैवाऽऽगमस्य पुरुषबुद्धिसाहाय्यमङ्गीक्रियते, अन्यथाऽध्ययनादेव ब्रह्मावगतौ “आचार्यवान्पुरुषो वेद” इत्युक्तो गुरूपदेशनियमो व्यर्थः स्यात् । आचार्यो हि श्रुत्यनुसारिभिर्दृष्टान्तैः शिष्येभ्यः प्रत्ययदार्ढ्यमुत्पादयति । तच्च प्रत्ययदार्ढ्यं मननरूपत्वादवगतिहेतुः । एतदेव हि मननं यदाचार्ययुक्त्या स्वयुक्त्या च श्रौतप्रत्ययस्य दार्ढ्यापादनम् । मननस्य चाऽवगतिहेतुत्वं “मन्तव्यः” इति श्रुत्या सिद्धम् ।
ननु धर्मजिज्ञासायां वेदस्मृतीतिहासपुराणान्येव प्रमाणं नाऽनुमानादि । तत्राऽपि श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्या निर्णयहेतवः । पदान्तनिरपेक्षः शब्दः श्रुतिः । श्रौतस्याऽर्थस्याऽर्थान्तरेणाऽविनाभावो लिङ्गम् । अन्योन्याकाङ्क्षासंनिधियोग्यतावन्ति पदानि वाक्यम् । वाक्यद्वयसामर्थ्यमारभ्याधीतविषयं प्रकरणम् । क्रमवर्तिनां पदार्थानां क्रमवर्त्तिभिः पदार्थैर्यथाक्रमं सम्बन्धः स्थानम् । संज्ञासाम्यं समाख्या । तैरेव ब्रह्मनिर्णयोऽप्यस्त्विति चेद्, न; युक्त्यनुभवयोरपि ब्रह्मजिज्ञासायामपेक्षितत्वात् । युक्त्यपेक्षा पूर्वमेव प्रसाधिता । अनुभवो नाम ब्रह्मसाक्षात्कारफलकोऽन्तःकरणवृत्तिभेदः । न च तमन्तरेण ज्ञानाकाङ्क्षा निवर्तते । न च ब्रह्मस्वरूपमनुभवितुमयोग्यमिति शङ्कनीयम्, घटादिवत्सिद्धवस्तुत्वात् । विमतं ब्रह्मवाक्यमनुभवनिरपेक्षफलपर्यन्तज्ञानजनकम्, प्रमाणभूतवेदवाक्यत्वाद्, धर्मवाक्यवदिति चेद्, न; अनुभवायोग्यविषयत्वोपाधिहतत्वात् । न ह्यनुष्ठानसाध्यो धर्मोऽनुष्ठानात्पूर्वं वाक्यबोधावसरेऽनुभवितुं योग्यः । अनुष्ठानं तु विनाऽप्यनुभवं शाब्दज्ञानमात्रादेव सिध्यतीत्यनपेक्षित एव धर्मानुभवः ।
नन्वनुभवयोग्यत्वानुभवसापेक्षत्वाभ्यां विना ब्रह्मणो धर्मेण सह वैषम्यान्तरं नाऽस्ति प्रत्युत वेदप्रमेयत्वं सममेव । ततोऽनुभवकृतवैषम्यमपि मा भूदिति चेद्, न; धर्मब्रह्मणोः कर्तव्यसिद्धयोः पुरुषाधीनत्वानधीनत्वादिभूयोवैषम्यसम्भवात् । लोके तावद्देवदत्तोऽश्वेन गच्छति न च गच्छति पद्भ्यां वा गच्छतीति कर्तव्यस्य गमनस्य करणाकरणान्यथाकरणेषु पुरुषाधीनत्वं दृश्यते । तथा वेदेऽपि “अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णाति” इति करणाकरणे श्रूयेते । “उदिते जुहोत्यनुदिते जुहोति” इति करणान्यथाकरणे । “ज्योतिष्टोमेन यजेत”, “न कलञ्जं भक्षयेत्” इति विधिप्रतिषेधौ । “व्रीहिभिर्यजेत यवैर्वा” इतीच्छाविकल्पः । पठ्यागानां समुच्चयः । “न हिंस्यात्सर्वा भूतानि”, “अग्नीषोमीयं पशुमालभेत” इत्युत्सर्गापवादौ । प्रकृतेरतिदिष्टानां कुशमयबर्हिषां विकृतावुपदिष्टशरमयबर्हिर्भिर्बाधः । प्रकृतानां नारिष्टहोमानां वैकृतैः उपहोमैः समुच्चित्याऽनुष्ठानमभ्युच्चयः । “उदिते जुहोत्यनुदिते जुहोति” इति शाखाभेदेन व्यवस्थितविकल्पः । न चैवं सिद्धे ब्रह्मणि पुरुषाधीनत्वविधिप्रतिषेधेच्छाविकल्पसमुच्चयोत्सर्गापवादबाधाभ्युच्चयव्यवस्थितविकल्पादयः सम्भवेयुः । सिद्धवस्तुन्यपि स्थाणुर्वा पुरुषो वेति विकल्पोऽस्तीति चेत्, न; पुरुषेच्छाधीनत्वेनाऽवस्तुतन्त्रस्य तस्याऽसम्यक्त्वात् । “योषा वाव गोतमाग्निः” इत्यादौ पुरुषेच्छाधीनमवस्तुतन्त्रमेव ध्यानमागमिकं सम्यगुपलभ्यत इति चेद्, न; तस्य कर्तव्यगोचरत्वात् । अथाऽपि सिद्धवस्तुनः सम्यग्ज्ञानाधीनत्वात् सम्यग्ज्ञानस्य च प्रमातृपुरुषेच्छाधीनत्वाद्द्वस्त्वपि पुरुषाधीनं भविष्यतीति चेत्, न; सत्यामपि पुरुषेच्छायामिदं रजतमित्यत्र वस्त्वभावे सम्यग्ज्ञानादर्शनात् । तस्मात्सिद्धगोचरसम्यग्ज्ञानस्य वस्त्वेव प्रधानं प्रयोजकम् । तत्रैवं सति सिद्धगोचरं ब्रह्मज्ञानमपि वस्तुतन्त्रमेवेति न ज्ञानद्वाराऽपि ब्रह्मणः पुरुषाधीनत्वम् । अतो धर्मादत्यन्तं विलक्षणस्य सिद्धस्य ब्रह्मणो युक्ता युक्त्यनुभवापेक्षा ।
ननु ब्रह्मणः सिद्धवस्तुत्वेन घटादिवन्मानान्तरगोचरत्वज्जन्मादिसूत्रमनुमानोपन्यासार्थमेवाऽस्त्विति चेद्, मैवम्; न तावद् ब्रह्मवेदान्तानभिज्ञप्रत्यक्षगम्यम्, रूपादिहीनत्वात् । अनुमानमपि किं यत्कार्यं तत्सकारणमिति सामान्यव्याप्तिकम् उत यत्कार्यं तद् ब्रह्मकारणकमिति विशेषव्याप्तिकम् ? नाऽऽद्यः, तावता ब्रह्मासिद्धेः । द्वितीयेऽपि ब्रह्मण इन्द्रियविषयत्वेऽनुमानवैयर्थ्यं तदविषयत्वे व्याप्तिग्रहासिद्धिः ।
नन्वेवं सत्यनुमानच्छायोपजीवियुक्तीनामपि ब्रह्म गोचरो न स्यात्, सत्यमेवं तथापि शब्दावगम्ये ब्रह्मणि सम्भावनाबुद्धिहेतवो युक्तयः । तथा हि – मृदादिदृष्टान्तैरुपादानव्यतिरेकेण कार्यस्याऽनिरूपणादद्वितीयता सम्भाव्यते । स्फटिकलौहित्यदृष्टान्तेनाऽऽत्मनि कर्तृत्वादेरारोपितत्वम्, प्रतिबिम्बदृष्टान्तेन जीवब्रह्मैक्यम्, रज्जुसर्पदृष्टान्तेन ब्रह्मव्यतिरिक्तप्रपञ्चस्य स्वातन्त्र्याभावः, घटाकाशदृष्टान्तेनाऽसङ्गताद्वारेण विशुद्धाद्वितीयप्रत्यगात्मता, तप्तपरशुदृष्टान्तेन जीवब्रह्मैक्यसत्यता । तथा च विधिप्रतिषेधवाक्ययोः प्रवर्त्तकत्वनिवर्तकत्वाकाङ्क्षितस्तुतिनिन्दार्थवादवत् स्वरूपवाक्यस्य फलपर्यन्ततापेक्षितसम्भावनार्थवादतां श्रुतियुक्तयः प्रतिपद्यन्ते । अन्यथा निरर्थकास्ताः स्युः । तस्मादुपकारकयुक्तिसूचनापूर्वकं वेदान्तवाक्यप्रदर्शनार्थमेव सूत्रम् ।
ननु सर्वत्र वेदवाक्ये ब्रह्मपदस्याऽप्रसिद्धार्थत्वान्न तत्पदं स्वार्थं विशेष्यत्वेन विशेषणत्वेन वा वाक्यार्थे समर्पयितुमलम् । ततः किं तद्वेदान्तवाक्यं यत्सूत्रे लिलक्षयिषितमिति । उच्यते – सत्यज्ञानानन्तानन्दप्रत्यगात्मस्वरूपस्य ब्रह्मपदार्थस्याऽप्रसिद्धावपि ब्रह्मत्वमात्रस्य बृहत्यर्थरूपस्य प्रसिद्धत्वात्तदनुवादेन सत्यादिपदार्थपरस्परान्वयसामर्थ्याद्विशिष्टं ब्रह्म प्रतिपत्तुं शक्यत इति लक्षणरूपेण ब्रह्मस्वरूपप्रतिपादनपरं सत्यादिवाक्यम् । न च प्रमाणान्तरसिद्धस्य लक्षणत्वात्सत्यादीनामपि लक्षणत्वे तद्वाक्यस्य प्रमाणान्तरप्रसिद्धार्थानुवादकत्वप्रसङ्ग इति वाच्यम्, अर्थाल्लक्षणत्वेऽपि मानान्तरानवगतब्रह्मबोधकत्वेन साक्षात्प्रमाणरूपत्वात् । वाक्यं तु “यस्मादाकाशः सम्भूतः स आत्मा” “सत्यं ज्ञानमनन्तं ब्रह्म” इत्येवं स्वाध्यायपाठक्रममुल्लङ्घ्य योजनीयम्, प्रसिद्धस्य कारणत्वस्याऽनुवाद्यत्वात्; प्रसिद्धमनूद्याऽप्रसिद्धं प्रतिपाद्यत इत् न्यायात् । अन्यान्यप्युपनिषद्वाक्यान्येवं ब्रह्मप्रतिपाकत्वेन योजनीयानि । तत्रैवं सति “भृगुर्वै वारुणिः” इत्यारभ्य “तद् ब्रह्म” इत्येतदन्तं वाक्यं सूत्रद्वयस्योदाहरणम् । तत्राऽपि “भृगुः” इत्यादि “तद्विजिज्ञासस्व” इत्येतच्च प्रथमसूत्रस्य । तत्सूत्रप्रतिपाद्ययोरधिकारनिर्णयज्ञानकर्तव्यतयोस्तस्मिन्नुदाहरणेऽनुगमात् । “तद्विजिज्ञासस्व” इत्येतद्विहाय “यतो वा” इत्यादि “तद् ब्रह्म” इत्यन्तं वाक्यं द्वितीयसूत्रोदाहरणम्, तयोः सूत्रवाक्ययोरर्थैक्यानुगमात् ।
ननु जगत्कारणे नानात्वस्याऽपि प्रतीतिरस्ति, यत इति तसिल्प्रत्ययस्य बहुत्वैकत्वयोः स्मरणात् । तथा च तदनुवादेन कथमद्वितीयं ब्रह्माऽत्र प्रतिपादनीयमिति । उच्यते – “येन जातानि” इति वाक्यशेषादेकत्वविषय एव तसिल्प्रत्ययो निर्द्धार्यते । स च प्रत्ययः कारणैकत्वं प्रमापयति । यद्यपि यत इत्यत्र प्रातिपदिकार्थस्य जगत्कारणमात्रस्याऽनुमानतोऽपि सिद्धेरनुवाद्यत्वं तथापि प्रत्ययार्थस्यैकत्वस्य मानान्तरासिद्धेः प्रत्ययस्य प्रमापकत्वमविरुद्धम् । ननु किमेकत्वमत्र लक्षणं किं वा लक्ष्यम् उताऽन्यत् किञ्चित् ? आद्ये कारणत्वमेकत्वं चेति लक्षणद्वयं ब्रह्मणो व्यर्थं स्यात् । द्वितीयतृतीययोस्तु वाक्यभेदप्रसङ्गः, एकत्वब्रह्माख्ययोर्द्वयोः प्रतिपाद्यत्वादिति चेद्, मैवम्; आद्ये कारणत्वं तटस्थलक्षणमेकत्वं स्वरूपलक्षणं चेत्युभयोः सार्थकत्वम् । द्वितीये कारणमनूद्यैकत्वविशिष्टं ब्रह्म विधीयत इति न वाक्यभेदः । तृतीये तु यत्कारणं तदेकमिति प्रथमं कारणमनूद्यैकत्वं विधाय पश्चाद्यदेकं कारणं तद् ब्रह्मेति कारणमेकत्वसहितमनूद्य ब्रह्मत्वं बोध्यत इति वाक्यैकवाक्यत्वान्न वाक्यभेदः । तथा च सर्वजगत्कारणस्यैकत्वे सृज्यगोचरज्ञानशक्ती विहाय स्रष्टृत्वासम्भवात्सर्वज्ञत्वसर्वशक्तित्वे अप्यस्मिन्नेव वाक्ये कारणस्याऽर्थात्सिद्ध्यतः ।
ननु “यो गोसदृशः स गवयशब्दवाच्यः” इतिवद्यदेवं कारणं तद् ब्रह्मशब्दवाच्यमिति संज्ञासंज्ञिसम्बन्धपरं वाक्यं प्रतिभाति । तथा सति बृहत्यर्थरूपवस्तु प्रतिपादकं न स्यादिति चेद्, न; “तद्विजिज्ञासस्व” इति जिज्ञास्यत्वेन प्रतिज्ञाय कीदृशं तदित्याकाङ्क्षायां तद् बृहत्यर्थरूपमिति स्वरूपप्रतिपादनात् । संज्ञासंज्ञिसम्बन्धस्त्वार्थिको भविष्यति । एवं च सत्येकं सर्वज्ञं सर्वशक्तिकं सर्वतोऽनवच्छिन्नं च जगत्कारणं तच्च ब्रह्मशब्दाभिधेयमिति वाक्यार्थः सम्पद्यते ।
ननु निरुपाधिकस्वरूपकथनमन्तरेण सोपाधिकतासर्वज्ञत्वादयो धर्मा न प्रतीयन्ते, यतो यत्सुषिरं तदाकाशं प्रकृष्टप्रकाशश्चन्द्र इतिवत् स्वरूपलक्षणमेव श्रुत्या किञ्चिद्वक्तव्यम् । ब्रह्मशब्दाभिधेयमेव स्वरूपलक्षणमिति चेद्, न; बृहत्त्वधर्ममात्राभिधानात् । यथा महान् घट इत्युक्ते महत्त्वस्य निरुपाधिः घटो धर्मितया प्रतीयते तथेहाऽपि वक्तव्यम् । सच्छब्दाभिधेयं लक्षणमिति चेद्, न; महासामान्यमात्राभिधानात् । यथा सन्नित्युक्ते घट इत्यवान्तरसामान्यव्यक्तिरपर्यवसानत्वेन महासामान्येनाऽपेक्ष्यते तथेहाप्यवान्तरसामान्यव्यक्तिर्वक्तव्या । ज्ञानमेव बृहत्त्वसर्वज्ञत्वादिधर्मवत्तया निरुपाधिब्रह्मस्वरूपलक्षणमिति चेद्, न; वेदान्तिमते विज्ञानवत्वस्य सुखदुःखरागद्वेषापेक्षया महासामान्यरूपत्वेन तत्राऽप्यवान्तरसामान्याधारव्यक्त्यपेक्षाया अनिर्वचनादिति । अत्रोच्यते – “आनन्दाद्ध्येव खलु” इति श्रुत्याऽऽनन्द एव निरुपाधिब्रह्मरूपमिति निर्णीयते । श्रुत्यन्तरं च “यो वै भूमा तत्सुखम्” इति सुखस्यैव ब्रह्मधर्मत्वमाह । एवं तर्हि “विज्ञानमानन्दम्” इति सामानाधिकरण्याद्विज्ञानं निरुपाधिकं ब्रह्मगुणः स्यादिति चेत्, तत्र वक्तव्यम् – किं विज्ञानानन्दयोः सामानाधिकरण्यं नीलोत्पलवद् गुणगुणिभावविवक्षया किं वा द्रव्यं घट इतिवत्परापरसामान्यभावविवक्षया ? नाऽऽद्यः, “केवलो निर्गुणश्च” इति श्रुतेः । गुणस्य गुणिना भेदाभेदयोरनिरूपणादुपपन्नं निर्गुणत्वम् ।
अत्र भेदाभेदवादी न निर्गुणं द्रव्यमस्तीति जल्पति । मा भून्निर्गुणं द्रव्यम्, ब्रह्म तु न द्रव्यम्, प्रमाणाभावात् । समवायिकारणत्वाद् द्रव्यमिति चेद्, न; आरम्भवादानभ्युपगमात् । उपादानकारणत्वात् द्रव्यमिति चेद्, न; गुणादीनामपि स्वगतज्ञेयत्ववाच्यत्वादिधर्मोपादानत्वात् । गुणो नाम धर्मः, तथा च न निर्धर्मकः पदार्थोऽस्तीति चेद्, न; कस्यचिद्धर्मस्यैव निर्धर्मकताया अङ्गीकार्यत्वात् । अन्यथाऽनवस्थापत्तेः । तस्मान्न निर्गुणं ब्रह्मेति वचनं दर्शनप्रद्वेषमात्रम् । द्वितीयपक्षोऽङ्गीकृत एव । विज्ञानं सामान्यपरं तद्विशेष आनन्दः, स एव हि ब्रह्म । न च सर्वज्ञत्वाद्वितीयत्वादिधर्मैः सद्वितीयत्वम्, प्रपञ्चोपाधिकतया तेषामनिर्वचनीयत्वात् । विज्ञानसामान्यमपि दुःखरागाद्युपाधिकत्वादनिर्वचनीयमेव । तादृशसामान्याधारे विज्ञानप्रयुक्तार्थक्रियाकारिण्यानन्दे विज्ञानव्यवहारोऽप्युपपन्न एव । ननु यथा कल्पितरजतत्वाधारभूतायां शुक्तावमुख्यो रजतव्यवहारस्तथाऽऽनन्दे विज्ञानव्यवहारः स्यादिति चेद्, न; तद्वदत्र पारमार्थिकसामान्यान्तराभावेन वैषम्यात् । तदेवं विज्ञानस्वभाव आनन्दो ब्रह्मेति स्वरूपलक्षणस्य श्रौतत्वादशेषमतिमङ्गलम् ।
इति विवरणप्रमेयसङ्ग्रहे द्वितीयसूत्रे प्रथमवर्णकं समाप्तम् ॥
इति विवरणप्रमेयसङ्ग्रहे प्रथमसूत्रं समाप्तम् ॥