अद्वैतशारदा

विवरणप्रमेयसङ्ग्रहः

अथ तृतीयं सूत्रम्

प्रथमं वर्णकम्

द्वितीयसूत्रे ब्रह्मणो लक्ष­ण­द्व­य­म­भि­हि­तम् । इदानीं सूत्रकारेण ब्रह्मणः सर्वज्ञत्वे हेतुरुच्यते – “शास्त्र­यो­नि­त्वात्” इति । पूर्वसूत्र एव श्रुति­यु­क्तिभ्यां सर्व­ज्ञ­त्व­सा­ध­ना­द्व्य­र्थ­मे­त­दिति चेद्, मैवम्;
“शब्दो­पा­दा­न­भा­वाद् ध्वनि­ग­त­वि­ष­य­द्यो­त­ना­श­क्त­योऽन्त-
र्बह्मण्येव स्युर­ग्ने­र्वि­ष­य­वि­ष­यिणी दीपशक्तिः खलूच्चैः ।
द्रष्टुश्च ज्ञानशक्तिर्ननु न करणता किन्तु दीपप्रभाव-
त्संयु­क्त­द्यो­त­नै­वे­त्य­प­र­मिह पुनः साध्यते सर्ववित्त्वम् ॥”
अयमर्थः – साधितमपि पुन­र्हे­त्व­न्त­रेण दृढीक्रियते । न च पुन­रु­क्ति­प्र­सङ्गः, जग­त्क­र्तृ­त्व­श­ङ्क­याऽऽ­क्षिप्ते सर्वज्ञत्वे समाधीयमानत्वात् । विमतं ब्रह्म वेद­ग­त­स­र्व­वि­ष­य­प्र­का­श­न­श­क्त्या­धारः, वेदो­पा­दा­न­त्वाद्, यथा दीप­ग­त­प्र­का­श­न­श­क्त्या­धारो दीपो­पा­दा­न­भू­तोऽ­ग्नि­रिति हि प्रयोगः । यद्यपि वेदे कर­ण­श­क्ति­र­प्यस्ति, तथापि चेतनत्वाद् ब्रह्मणो ज्ञान­श­क्ति­रे­वाऽ­नु­मेया । न हि चेतनस्य कर्तुः करणशक्तिः सम्भाव्यते । न चोपा­दा­नो­पा­दे­ययोः सर्व­श­क्त्य­नु­गत्या भाव्यमिति नियमोऽस्ति, अग्नि­का­र्य­भू­तायां प्रभायां प्रका­श­श­क्ते­रे­वाऽ­नु­ग­माद् दाह­श­क्ते­र­न­नु­ग­मात् । एवं वेदोपादानेऽपि ब्रह्मणि बोध­श­क्ति­रे­वाऽ­नु­ग­च्छतु को विरोध इति । न च वेदस्य सर्वप्रकाशकत्वे विवदितव्यम्, पुरा­णा­द्य­ने­क­वि­द्यो­प­बृं­हि­तेन वेदे­नाऽ­वि­ष­यी­कृ­तस्य वस्तुनः सत्त्वे मानाभावात् । न च वेदो­पा­दा­न­त्व­म­सि­द्धम्, वेदस्य नाम­रू­प­प्र­प­ञ्चा­न्तः­पा­ति­त्वा­न्ना­म­रू­प­प्र­प­ञ्चो­पा­दा­न­त्वस्य च ब्रह्मणि सर्वो­प­नि­ष­त्सि­द्ध­त्वात् । ननु ब्रह्म न वेदोपादानम्, वेदो­क्ता­खि­ला­भि­ज्ञ­त्वात्, ऋष्यादिवत्, इति चेद्, न; वेदो­क्त­मा­त्रा­भि­ज्ञ­त्व­स्यो­पा­धि­त्वात् । ब्रह्म तु वेदो­क्ता­द­प्य­धिकं जानाति । तथाहि – वेदः स्ववि­ष­य­वि­ज्ञा­ना­द­प्य­धि­क­वि­ष­य­वि­त्प्र­णीतः, वाक्य­प्र­मा­ण­त्वात्, पाणि­नि­प्र­णी­त­शा­स्त्र­वत् । सम्भाव्यते ह्येतत्साध्यम्, लोके वागविषयस्यापि क्षीर­गु­डा­दि­मा­धु­र्य­वि­शे­ष­स्याऽ­नु­भ­व­ग­म्य­त्वात् । तथा च वेदस्य व्यव­हा­र्य­स­र्व­व­स्तु­प्र­का­श­क­त्वा­त्स­र्व­ज्ञ­त्वम् । वेदोपादानं ब्रह्म तु व्यवहारातीतं निजस्वरूपमपि स्वचै­त­न्ये­नाऽ­भि­व्य­न­क्तीति निर­ति­श­य­स­र्व­ज्ञम् । अथ वेदोऽपि ब्रह्मस्वरूपं लक्षणया प्रकाशयेत् तथापि वेदः किञ्चि­न्मु­ख्य­यैव वृत्त्या प्रकाशयति किञ्चिल्लक्षणया किञ्चि­त्सा­मा­न्येन किञ्चिद्विशेषेण । ब्रह्म तु सर्वं सर्वात्मना प्रकाशयतीति वेदा­द­प्य­धि­का­भि­ज्ञ­मेव ।

ननु वेदस्य ब्रह्मणा प्रणयनं नामो­च्चा­र­ण­मात्रं चेदुपाध्यायवद् ब्रह्माऽ­स­र्वज्ञं स्यात् । अर्थं बुद्ध्वा रचितव्ये व्याक­र­णा­दि­व­द्वेदः परुषेयः स्यात् । अथ मन्यसे प्रमा­णा­न्त­रे­णाऽ­र्थ­मु­प­लभ्य विवक्षित्वा रचिता व्याकरणादयो माना­न्त­र­सा­पे­क्ष­तया पौरुषेया भवन्तु नाम वेदस्य तु नित्य­ज्ञा­न­ज­न्य­नि­त्ये­च्छा­वता ईश्वरेण रचितस्य माना­न्त­र­नि­र­पे­क्षस्य कथं पौरुषेयत्वमिति । नैतत्सारम्, तादृगीश्वरे प्रमाणाभावात् । अनु­मा­ना­ना­मी­श्व­रा­सा­ध­क­त्वस्य पूर्वसूत्रे दर्शितत्वात् । आगमस्तत्साधक इति चेद्, न; उक्तेश्वरसिद्धौ तत्प्रो­क्ता­ग­म­प्रा­मा­ण्य­सिद्धिः, तत्सिद्धौ चोक्ते­श्व­र­सि­द्धि­रि­त्य­न्यो­न्या­श्र­य­त्वात् । वेद­स्याऽ­न­पे­क्ष­त्वा­देव प्रामाण्यं नेश्व­र­प्रो­क्त­त्वाद् अतो नेतरेतराश्रय इति चेद्, एवमपीश्वरेच्छा नित्या ज्ञानजन्या चेति व्याह­ति­र्दु­ष्प­रि­हरा । अथाऽर्थं बुद्ध्वा रचित्वे समेऽपि व्याकरणादीनां वक्त्र­भि­प्रा­य­प्र­यु­क्त­त्वा­त्पौ­रु­षे­यत्वं वेदानां त्वध्य­य­न­वि­धि­प्र­यु­क्त­त्वा­द­पौ­रु­षे­य­तेति चेद्, न; विमता वेदा वक्त्र­भि­प्रा­य­प्र­युक्ता नाऽध्य­य­न­वि­धि­प्र­युक्ता वा, अर्थं बुद्ध्वा रचितत्वाद्, व्याकरणादिवदिति पौरुषेयताया दुर्वारत्वात् । न च वेदानां चैत­न्या­ख्य­नि­र्वि­क­ल्प­क­ज्ञा­न­पू­र्व­कत्वं व्याक­र­णा­दि­वै­ष­म्य­मिति वाच्यम्, चैत­न्य­स्या­प्य­भि­ल­षि­त­सा­ध­नो­प­रागे सविकल्पकत्वात् ।

नन्वपौरुषेया वेदाः प्रवाहाविच्छेदे सत्य­स्म­र्य­मा­न­क­र्तृ­क­त्वा­दा­त्म­व­दिति चेत्, किमत्र स्मर­णा­गो­च­र­क­र्तृ­कत्वं हेतुः उताऽ­प्र­मी­य­मा­ण­क­र्तृ­क­त्वम् ? आद्यो जीर्ण­कू­पा­दा­व­नै­का­न्तिकः । द्विती­योऽ­सिद्धः, वेदो विशि­ष्ट­ब­हु­ज्ञ­पु­रु­ष­प्र­णीतः, बह्व­र्थ­वि­ष­य­वा­क्य­प्र­मा­ण­त्वाद्, भारतवत्; “स इदं सर्वमसृजत ऋचो यजूंषि सामानि” इत्य­नु­मा­ना­ग­माभ्यां वेदे कर्तुः प्रमीयमाणत्वात् । एवं तर्हि वेदस्य पौरु­षे­य­त्व­प्र­सङ्ग इष्ट इति चेद्, न; प्रामा­ण्य­भ­ङ्ग­प्र­स­ङ्गात् । न ताव­न्नि­त्ये­च्छा­दि­म­दी­श्व­र­र­चि­त­त्वात् प्रामाण्यम्, दूषितत्वात् । नापि महाजनपरिग्रहाद् देहा­त्म­भा­व­च­न्द्र­प्रा­दे­श­मा­त्र­त्वा­दीनां महा­ज­न­प­रि­गृ­ही­ता­ना­मे­वाऽ­प्रा­मा­ण्य­द­र्श­नात् । स्मृति­पु­रा­ण­पि­त्रा­दि­वा­क्य­व­द­र्थस्य माना­न्त­र­सि­द्ध­तया प्रामाण्यं स्यादिति चेद्, मैवम्; किं वेदार्थभूतौ धर्माधर्मौ प्रत्य­क्षे­णाऽ­नु­भूतौ उताऽगमान्तरेण । न चरमः, अनवस्थानात् । प्रथमेऽपि न हि ताव­द­स्म­दा­दि­प्र­त्य­क्षेण धर्मा­ध­र्मा­वु­प­ल­भा­महे । नापि योगिप्रत्यक्षं तद्ग्राहकम्, तस्य स्ववि­ष­य­रू­पा­दि­ष्वे­वाऽ­ति­श­य­क­र­त्वात् । न चाऽऽत्मसमवेततया धर्माधर्मौ मान­स­प्र­त्य­क्षा­विति वाच्यम्, वेदसृष्टिकाले धर्मा­ध­र्म­यो­र्भा­वि­नो­र­व­र्त­मा­न­त्वात् । पूर्व­क­ल्पा­नु­ष्ठितौ धर्माधर्मौ तदा वर्तेते एवेति चेद्, न; पूर्व­वे­द­सृ­ष्टा­वपि तथे­त्य­न­व­स्था­या­म­न्ध­प­र­म्प­रा­प्र­स­ङ्गात् । तस्मा­त्पौ­रु­षे­यत्वे वेदस्य प्रामाण्यं दुःसम्पादम् । अत एव सुगता आर्ह­ता­श्चाऽ­प्र­माणं वेदमाहुरिति चेद्, न; तेषां स्वाग­मे­ष्व­प्रा­मा­ण्य­प्र­स­ङ्गात् । अत एव लोकायत आगममात्रं नेच्छतीति चेद्,न; तस्य वाक्य­मा­त्रा­प्रा­माण्ये वादानधिकारः, लौकि­क­वा­क्य­प्रा­माण्ये किमपराद्धं वेदवाक्यैः । तदेवं पौरुषेयत्वे वेदस्येष्टं प्रामाण्यं प्रभज्येत ? अपौरुषेयत्वे ब्रह्मणः उपा­ध्या­य­व­द­स­र्व­ज्ञत्वं प्रसज्येतेति ।

अत्रोच्यते – पौरुषेयत्वं तावन्न सहामहे । तथाहि – किं शब्दा­र्थ­त­त्स­म्ब­न्धानां परुषेयत्वमुत क्रमा­व­स्थि­त­वा­क्या­नाम् । आद्येऽपि न तावज्जीवाः कर्तारः । तथा सति कश्चित्सागरं विवक्षित्वा मेरुशब्दमपि वाचकत्वेन प्रयुञ्जीत, स्वतन्त्रत्वात् । नापीश्वरः कर्ता, कल्पादिषु शब्दा­र्थ­स­म्ब­न्ध­व्य­व­हारः पूर्व­पू­र्व­व्य­व­हा­र­प­र­म्प­रा­धीनः, अभि­धा­ना­भि­धे­य­व्य­व­हा­र­त्वाद्, इदा­नी­न्त­न­व्य­व­हा­र­वत्, इत्य­ना­दि­त्वा­नु­मा­नात् । न च डित्था­दि­सा­ङ्के­ति­क­श­ब्दे­ष्व­ने­कान्तः, तेषां गव्या­दि­श­ब्द­व­द­भि­धा­ना­भा­स­त्वात् । न द्वितीयः, सृष्टिकालीनं वेदाध्ययनं पूर्व­वे­दा­ध्य­य­ना­नु­स्मृ­ति­नि­ब­न्ध­नम्, वेदा­ध्य­य­न­त्वाद्, इदा­नी­न्त­न­वे­दा­ध्य­य­न­वत्, इत्य­ना­दि­त्व­सिद्धेः । न चैवं सर्वेष्वपि ग्रन्थे­ष्वि­द­म­ना­दित्वं सुसाधमिति वाच्यम्, तैस्तैरेव ग्रन्थै­स्त­त्क­र्तॄणां प्रतिपादनात् तदागमविरोधात् । इहाऽपि श्रुत्यैव वेदस्य कर्ता प्रतिपाद्यते इति चेत्, किं हिर­ण्य­ग­र्भ­वि­ष­यया “इदं सर्वमसृजत ऋचो यजूंषि” इत्यादिश्रुत्या किं वेश्वरविषयया “अस्य महतो भूतस्य निःश्वसितम्, इत्यादिश्रुत्या ? नाऽऽद्यः, “यो ब्रह्माणं विदधाति” इत्यादिश्रुतौ हिर­ण्य­ग­र्भो­त्पत्तेः प्रागेव वेद­स­द्भा­वा­व­ग­मात् । सतामेव वेदानां हिर­ण्य­ग­र्भ­बुद्धौ प्राथ­मि­क­मा­वि­र्भा­व­म­भि­प्रे­त्याऽ­सृ­ज­तेति श्रुति­र­प्यु­प­पन्ना । न द्वितीयः; उपा­दा­न­प्र­क­र­ण­प­ठिता सा श्रुतिः ईश्वरस्य वेदोपादानत्वमेव ब्रूते न तु वेदकर्तृत्वमपि । ईश्व­रो­पा­दा­न­त्व­म­पौ­रु­षे­यत्वं च विरुद्धमिति चेद्, न; एता­दृ­शा­पौ­रु­षे­य­त्व­स्याऽ­ङ्गी­कृ­त­त्वात् । भारतादीनां व्यासा­दि­भि­र्मा­ना­न्त­रे­णाऽर्थं बुद्ध्वा रचितत्वं पौरुषेयत्वम् । ततो मूल­प्र­मा­णा­पेक्षं तत्प्रामाण्यम् । वेदो नार्थं बुद्ध्वा रचितः, अस­र्व­ज्ञ­व­च­न­त्वा­भावे सति धर्मा­ध­र्म­ब्र­ह्म­प्र­मा­ण­त्वात्, पर­प­रि­क­ल्पि­ते­श्व­र­बु­द्धि­वत् । तथा च ब्रह्म­का­र्य­स्याऽपि वेदस्य स्वतः­सि­द्ध­प्रा­माण्ये न काचिद्धानिः ।

ननु प्रमाणदृष्टवादी ह्याप्तः, तद­दृ­ष्ट­स्यो­त्प्रे­क्षि­तस्य च वक्ता नाऽऽप्तः । तथा च वेदो न प्रमाणम्, आप्ता­प्र­णी­त­वा­क्य­त्वाद्, उन्म­त्त­वा­क्य­वत्, इति चेद्, मैवम्; वेदः प्रमाणम्, अना­प्ता­प्र­णी­त­वा­क्य­त्वात्, मन्वा­दि­वा­क्य­वत्, इत्यपि प्रयोगात् । कथं तर्हि निर्णय इत्युच्यते – प्रामाण्यं स्वतः सिद्ध­म­प्रा­माण्यं तु कारणदोषादिति ह्यस्म­त्सि­द्धान्तः । अत्रो­न्म­त्त­वा­क्यस्य भ्रान्त्यो­त्प्रे­क्षया वा दुष्टं ज्ञानं मूलम्, इत्य­प्रा­मा­ण्य­मु­चि­तम् । मन्वादिवाक्यस्य स्वत एव प्रामाण्ये सत्या­प्त­प्र­णी­त­त्वाख्यो गुणोऽपि प्रति­ब­न्ध­क­का­र­ण­दो­ष­नि­वा­र­क­त­यो­प­यु­ज्यते । वेदस्य तु प्रति­ब­न्धा­स­म्भ­वा­द­न्त­रे­णैव गुणं स्वतः प्रामाण्यं सिध्यति । नन्वा­प्त­प्र­यो­गा­न­पे­क्षत्वे स्मर्यमाणेनाऽपि घटशब्देन घटः प्रमीयेत ? प्रमीयतां नाम, यत्र-कुत्रचित् पुरोवर्तिनि तु घटरहिते स्थले प्रमा­णा­न्त­र­वि­रो­धात् न प्रमास्यते । अथ मतं कस्य­चि­त्क­दा­चि­द­सति प्रमाणान्तरोदये तस्मिन्नपि स्थले घटः स्मर्य­मा­ण­श­ब्दात् प्रमीयते, तर्ह्या­प्त­प्र­योग एव प्रामाण्ये हेतुरस्तु । स च प्रयोगो द्वेधा निष्पद्यते – मन्वादिवाक्यानि माना­न्त­रे­णाऽ­र्थ­मु­प­लभ्य प्रयुक्तानि । वेदवाक्यानि पूर्व­पू­र्व­प्र­यो­गा­न­नु­स्मृत्य प्रयुक्तानि । उन्मत्तवाक्यानि पुन­स्त­दु­भ­या­भा­वा­द­प्र­मा­णा­न्येव । नन्वेवं वेदे प्रामा­ण्य­म­न्ध­प­र­म्प­रा­ग्रस्तं भवेदिति चेत्तर्ह्येवं व्यवस्थाऽस्तु । स्मर्य­मा­न­श­ब्दे­भ्य­स्ता­त्प­र्या­भा­वा­न्नाऽ­र्थ­प्र­मितिः । वेदे पुन­र­ध्य­य­न­वि­धि­ता­त्प­र्या­दा­प्त­प्र­यो­गा­भा­वेऽपि प्रमि­ति­रु­त्प­त्स्यत इति । न चाऽध्य­य­न­वि­धि­वा­क्यस्य तात्प­र्या­भा­वा­द­प्रा­माण्यं शङ्कनीयम्, स्वेनैव तात्पर्यसिद्धेः । न चैवमात्माश्रयो दोषः, शब्द­श­ब्द­व­त्स्व­प­र­नि­र्वा­ह­के­ष्व­वि­रो­धात् । अतो ब्रह्म­व­द्वे­द­स्याऽपि पर्या­लो­च­ना­या­म­ना­दित्वं पर्यवस्यति, न तु कालि­दा­सा­दि­ग्र­न्थ­व­त्पौ­रु­षे­य­त्वम् । न चाऽनादित्वेऽपि पुरा­ण­वा­क्य­व­द­न्य­था­स­न्नि­वे­श­प्र­ण­यनं शङ्कनीयम्, निय­त­क्र­म­वि­शि­ष्टा­ना­मेव वर्ण­प­द­वा­क्य­प्र­क­र­ण­का­ण्डा­दीनां वेद­श­ब्द­वा­च्यानां कल्पा­दि­प्र­ल­य­यो­र­प्या­वि­र्भा­व­ति­रो­भा­व­मा­त्र­भाजां कूट­स्थ­नि­त्य­त्वा­ङ्गी­का­रात् । तर्हि वेदो न ब्रह्मोपादानः, अनादित्वात्, कूट­स्थ­नि­त्य­त्वाच्च, ब्रह्मवदिति चेद्, स्वत­न्त्र­त्वो­पा­धि­ह­त­त्वात् । वेदस्तु ब्रह्म­प­र­तन्त्रः, ब्रह्म­ण्या­रो­पि­त­त्वाद्, यथा रज्ज्वामारोपितो रज्जुतन्त्रः सर्पः ।

ननु रज्जु­स­र्प­व­द्वे­दस्य कथं मिथ्या­त्व­मु­च्यते ? निर्व­क्तु­म­श­क्य­त्वा­दिति ब्रूमः । तथाहि – किं वर्णमात्रं वेदः किं वा क्रमसहिता वर्णाः ? नाऽऽद्यः अक्र­म­व्यु­त्क्र­मो­च्चा­रि­तेषु वर्णेषु वेद­बु­द्ध्य­भा­वात् । द्वितीयेऽपि स क्रमः किं वर्णनिष्ठ उच्चारणनिष्ठो वा उपलब्धिनिष्ठो वा ? वर्ण­नि­ष्ठ­त्वेऽपि तावत्क्रमो न देशकृतः सम्भवति, वर्णानां सर्वगतत्वात् । नाऽपि कालकृतः, नित्यत्वात् । नाऽपि वस्तुकृतः, विरोधात् । नह्येकदैव राजा जारेति जकारस्य पूर्वापरभावो युक्तः । नाऽप्यु­च्चा­र­ण­निष्ठः क्रमो वर्णेषूपरज्यते, उच्चा­र­ण­त­त्क्र­मयोः श्रोत्रा­वि­ष­य­त्वात् । वेदस्तु वर्णात्मा श्रोत्रग्राह्यः । उप­ल­ब्धि­नि­ष्ठोऽपि किं वर्णानां धर्म उत वर्णे­ष्वा­रो­प्यते किं वा वर्णा­ना­मु­प­ल­क्ष­णम् ? नाऽऽद्यः; अन्य­नि­ष्ठ­स्याऽ­न्य­ध­र्म­त्वा­नु­प­पत्तेः । द्विती­येऽ­प्य­ख्या­ति­वा­दिनः क्रममात्रस्य वा वर्णमात्रस्य वा वेद­श­ब्दा­न­र्ह­त्वात् विशि­ष्ट­प्र­त्य­य­स्या­न­ङ्गी­का­राद् अविवेकमात्रमेव वेद इति अर्थावबोधो न स्यात् । अन्यथाख्यातौ पुन­र्वि­शि­ष्ट­प्र­त्य­य­स्याऽ­न­ङ्गी­का­राद्, (अवि­वे­क­मा­त्र­त्वात्) विशिष्टार्थस्य चाऽभावात् ज्ञानातिरिक्तो वेदो न स्यात् । न तृतीयः, क्रम­वि­शि­ष्ट­व­र्ण­प्र­त्य­यस्य प्रत्यक्षत्वात् । अतोऽनिर्वचनीयो वेदः । अनि­र्व­च­नी­य­स्यापि तुच्छ­व्या­वृ­त्त­त्वात् देहा­त्म­व­द­र्थ­क्रि­या­सा­म­र्थ्य­म­वि­रु­द्धम् । तदेवं ब्रह्म­वि­व­र्त­त­याऽ­का­र्य­स्याऽपि वेद­स्याऽ­ना­दि­त्व­कू­ट­स्थ­नि­त्य­त्वाभ्यां माना­न्त­रा­द­र्थो­प­ल­ब्धि­पू­र्व­क­पु­रु­षे­च्छा­धी­न­नि­ष्पा­द्य­त्वा­भा­वान्न पौरुषेयत्वदोषः, सर्वा­र्थ­प्र­का­श­क­वे­दो­पा­दा­नस्य ब्रह्मणः उपा­ध्या­य­वै­ल­क्ष­ण्या­द­स­र्व­ज्ञ­त्व­दो­षोऽपि न । न च ब्रह्मणः सर्वप्रकाशस्य सर्व­सं­स­र्गि­त्वा­देव सर्वज्ञतासिद्धौ वेदोपादानत्वेन तत्साधनं व्यर्थमिति वाच्यम्, वाय्वा­का­श­र­स­ग­न्धा­दि­सं­स­र्गिणः सवितृकिरणस्य तत्प्र­का­श­क­त्वा­द­र्श­नात् । तस्मात् सर्वा­र्थ­प्र­का­श­न­स­म­र्थ­स­र्व­वे­दो­पा­दा­न­त­यैव सर्वज्ञत्वं साधनीयमिति सूत्र­का­रा­भि­प्रायः ।

इति श्रीवि­द्या­र­ण्य­मु­नि­प्र­णीते विव­र­ण­प्र­मे­य­स­ङ्ग्रहे तृतीयसूत्रस्य प्रथमं वर्णकं समाप्तम् ।

अथ द्वितीयं वर्णकम्

अथवा द्वितीयसूत्रे लक्ष­ण­म­भि­धा­याऽ­नेन प्रमाणं प्रतिज्ञायते – शास्त्र­यो­नि­त्वा­दिति, वेद­प्र­मा­ण­क­त्वा­दि­त्यर्थः । अने­का­र्थ­सू­च­कत्वं सूत्र­स्याऽ­ल­ङ्कारो न वाक्यदोषमावहति, विश्वतोमुखमिति सूत्रलक्षणे दर्शनात् । ब्रह्मप्रमापकं च वेदवाक्यं “यतो वा इमानि” इत्यादि । यद्य­प्ये­त­त्पू­र्व­सूत्र एवोदाहृतं तथा­प्ये­त­त्सू­त्र­वै­यर्थ्यं नाऽस्ति, एत­त्सू­त्र­प्र­ति­पाद्यं शास्त्रै­क­वे­द्यत्वं ब्रह्म­णोऽ­भि­लक्ष्य पूर्व­सू­त्र­स्याऽ‍ऽ­ग­म­ग्र­थने तात्प­र्या­भि­धा­नात् । अन्यथा पूर्वसूत्रस्य युक्त्यु­प­न्या­स­मात्रे तात्पर्यं को निवारयेत् ? युक्त्यु­प­न्या­स­मा­त्रत्वे च प्रतिकार्यं पृथ­क्का­र­ण­ज­न्य­ताया अपि सम्भ­वा­त्स­र्वज्ञं सर्वशक्ति ब्रह्म जग­त्का­र­ण­मि­त्य­य­मर्थो न सिद्ध्येत् । न च बृह­ते­र्धा­तो­र­र्था­नु­ग­मा­त्त­त्सिद्धिः, बृहत्यर्थवाचिनो ब्रह्म­श­ब्द­स्याऽपि वेद एव प्रयोगात् । न हि लोके जगत्कारणे ब्रह्मशब्दः प्रयुज्यते । अतो जन्माद्यस्य यतः शास्त्रै­क­प्र­माणं तद् ब्रह्मे­त्ये­ता­व­दि­द­मेकं सूत्रम्, तावता युक्ति­मा­त्र­श­ङ्का­नि­वृत्तेः । पृथक्करणं तु शास्त्रो­पा­दा­न­त्वेन सर्वज्ञत्वं सुसम्पादमिति व्याख्या­ना­न्त­रेण कथयितुम् । तस्मा­ज्ज­ग­ज्ज­न्मा­दि­नि­मि­त्तो­पा­दा­न­क­रणं सर्वज्ञं ब्रह्म शास्त्रै­क­ग­म्य­मिति सूत्रद्वयेन सिद्धम् । तत्र बिम्बस्थानीयं ब्रह्म माया­श­क्ति­म­त्का­रणं जीवाश्च प्रत्ये­क­म­वि­द्या­नु­बन्धा इति केचित् ।

माया­वि­द्या­प्र­ति­बि­म्बितं जगत्कारणं विशु­द्ध­ब्र­ह्मा­मृ­त­त्वा­ल­म्बनं जीवा­श्चाऽ­वि­द्या­नु­बन्धा इत्यन्ये । प्रथमे पक्षे माया­वि­द्य­यो­र्भेदः ब्रह्मणश्च न प्रतिबिम्बता द्वितीये तु तद्वैपरीत्यमिति विशेषः । ब्रह्म­सि­द्धि­का­रा­स्त्वे­व­माहुः – जीवा एव स्वाविद्यया प्रत्येकं प्रपञ्चाकारेण ब्रह्मणि विभ्राम्यन्ति, ब्रह्म तु मायाविशिष्टं बिम्बरूपं प्रतिबिम्बरूपं वा न जगत्कारणम् । यत्त्वया दृष्टं तन्मया दृष्टमिति संवादस्तु बहु­पु­रु­षा­व­ग­त­द्वि­ती­य­च­न्द्र­व­त्सा­दृ­श्या­दु­प­प­द्यते । स्वरू­पे­णाऽ­धि­ष्ठा­न­त्व­म­पेक्ष्य ब्रह्मणो जग­त्का­र­ण­त्व­व्य­प­देश इती­ष्ट­सि­द्धि­काराः प्रकारान्तरेण वर्णयन्ति । ब्रह्मैकमेव स्वाविद्यया जगदाकारेण विवर्तते स्वप्नादिवदिति । सर्वेऽप्येते सिद्धान्ताः, प्रक्रियायां तत्त्वावबोधाय कल्पितत्वादिति सर्वं निर्मलम् ।

इति श्रीवि­द्या­र­ण्य­मु­नि­प्र­णी­त­वि­व­र­ण­प्र­मे­य­स­ङ्ग्रहे तृतीयसूत्रस्य द्वितीयं वर्णकं समाप्तम् ।

इति तृतीयसूत्रम्