विवरणप्रमेयसङ्ग्रहः
अथ तृतीयं सूत्रम्
प्रथमं वर्णकम्
द्वितीयसूत्रे ब्रह्मणो लक्षणद्वयमभिहितम् । इदानीं सूत्रकारेण ब्रह्मणः सर्वज्ञत्वे हेतुरुच्यते – “शास्त्रयोनित्वात्” इति । पूर्वसूत्र एव श्रुतियुक्तिभ्यां सर्वज्ञत्वसाधनाद्व्यर्थमेतदिति चेद्, मैवम्;
“शब्दोपादानभावाद् ध्वनिगतविषयद्योतनाशक्तयोऽन्त-
र्बह्मण्येव स्युरग्नेर्विषयविषयिणी दीपशक्तिः खलूच्चैः ।
द्रष्टुश्च ज्ञानशक्तिर्ननु न करणता किन्तु दीपप्रभाव-
त्संयुक्तद्योतनैवेत्यपरमिह पुनः साध्यते सर्ववित्त्वम् ॥”
अयमर्थः – साधितमपि पुनर्हेत्वन्तरेण दृढीक्रियते । न च पुनरुक्तिप्रसङ्गः, जगत्कर्तृत्वशङ्कयाऽऽक्षिप्ते सर्वज्ञत्वे समाधीयमानत्वात् । विमतं ब्रह्म वेदगतसर्वविषयप्रकाशनशक्त्याधारः, वेदोपादानत्वाद्, यथा दीपगतप्रकाशनशक्त्याधारो दीपोपादानभूतोऽग्निरिति हि प्रयोगः । यद्यपि वेदे करणशक्तिरप्यस्ति, तथापि चेतनत्वाद् ब्रह्मणो ज्ञानशक्तिरेवाऽनुमेया । न हि चेतनस्य कर्तुः करणशक्तिः सम्भाव्यते । न चोपादानोपादेययोः सर्वशक्त्यनुगत्या भाव्यमिति नियमोऽस्ति, अग्निकार्यभूतायां प्रभायां प्रकाशशक्तेरेवाऽनुगमाद् दाहशक्तेरननुगमात् । एवं वेदोपादानेऽपि ब्रह्मणि बोधशक्तिरेवाऽनुगच्छतु को विरोध इति । न च वेदस्य सर्वप्रकाशकत्वे विवदितव्यम्, पुराणाद्यनेकविद्योपबृंहितेन वेदेनाऽविषयीकृतस्य वस्तुनः सत्त्वे मानाभावात् । न च वेदोपादानत्वमसिद्धम्, वेदस्य नामरूपप्रपञ्चान्तःपातित्वान्नामरूपप्रपञ्चोपादानत्वस्य च ब्रह्मणि सर्वोपनिषत्सिद्धत्वात् । ननु ब्रह्म न वेदोपादानम्, वेदोक्ताखिलाभिज्ञत्वात्, ऋष्यादिवत्, इति चेद्, न; वेदोक्तमात्राभिज्ञत्वस्योपाधित्वात् । ब्रह्म तु वेदोक्तादप्यधिकं जानाति । तथाहि – वेदः स्वविषयविज्ञानादप्यधिकविषयवित्प्रणीतः, वाक्यप्रमाणत्वात्, पाणिनिप्रणीतशास्त्रवत् । सम्भाव्यते ह्येतत्साध्यम्, लोके वागविषयस्यापि क्षीरगुडादिमाधुर्यविशेषस्याऽनुभवगम्यत्वात् । तथा च वेदस्य व्यवहार्यसर्ववस्तुप्रकाशकत्वात्सर्वज्ञत्वम् । वेदोपादानं ब्रह्म तु व्यवहारातीतं निजस्वरूपमपि स्वचैतन्येनाऽभिव्यनक्तीति निरतिशयसर्वज्ञम् । अथ वेदोऽपि ब्रह्मस्वरूपं लक्षणया प्रकाशयेत् तथापि वेदः किञ्चिन्मुख्ययैव वृत्त्या प्रकाशयति किञ्चिल्लक्षणया किञ्चित्सामान्येन किञ्चिद्विशेषेण । ब्रह्म तु सर्वं सर्वात्मना प्रकाशयतीति वेदादप्यधिकाभिज्ञमेव ।
ननु वेदस्य ब्रह्मणा प्रणयनं नामोच्चारणमात्रं चेदुपाध्यायवद् ब्रह्माऽसर्वज्ञं स्यात् । अर्थं बुद्ध्वा रचितव्ये व्याकरणादिवद्वेदः परुषेयः स्यात् । अथ मन्यसे प्रमाणान्तरेणाऽर्थमुपलभ्य विवक्षित्वा रचिता व्याकरणादयो मानान्तरसापेक्षतया पौरुषेया भवन्तु नाम वेदस्य तु नित्यज्ञानजन्यनित्येच्छावता ईश्वरेण रचितस्य मानान्तरनिरपेक्षस्य कथं पौरुषेयत्वमिति । नैतत्सारम्, तादृगीश्वरे प्रमाणाभावात् । अनुमानानामीश्वरासाधकत्वस्य पूर्वसूत्रे दर्शितत्वात् । आगमस्तत्साधक इति चेद्, न; उक्तेश्वरसिद्धौ तत्प्रोक्तागमप्रामाण्यसिद्धिः, तत्सिद्धौ चोक्तेश्वरसिद्धिरित्यन्योन्याश्रयत्वात् । वेदस्याऽनपेक्षत्वादेव प्रामाण्यं नेश्वरप्रोक्तत्वाद् अतो नेतरेतराश्रय इति चेद्, एवमपीश्वरेच्छा नित्या ज्ञानजन्या चेति व्याहतिर्दुष्परिहरा । अथाऽर्थं बुद्ध्वा रचित्वे समेऽपि व्याकरणादीनां वक्त्रभिप्रायप्रयुक्तत्वात्पौरुषेयत्वं वेदानां त्वध्ययनविधिप्रयुक्तत्वादपौरुषेयतेति चेद्, न; विमता वेदा वक्त्रभिप्रायप्रयुक्ता नाऽध्ययनविधिप्रयुक्ता वा, अर्थं बुद्ध्वा रचितत्वाद्, व्याकरणादिवदिति पौरुषेयताया दुर्वारत्वात् । न च वेदानां चैतन्याख्यनिर्विकल्पकज्ञानपूर्वकत्वं व्याकरणादिवैषम्यमिति वाच्यम्, चैतन्यस्याप्यभिलषितसाधनोपरागे सविकल्पकत्वात् ।
नन्वपौरुषेया वेदाः प्रवाहाविच्छेदे सत्यस्मर्यमानकर्तृकत्वादात्मवदिति चेत्, किमत्र स्मरणागोचरकर्तृकत्वं हेतुः उताऽप्रमीयमाणकर्तृकत्वम् ? आद्यो जीर्णकूपादावनैकान्तिकः । द्वितीयोऽसिद्धः, वेदो विशिष्टबहुज्ञपुरुषप्रणीतः, बह्वर्थविषयवाक्यप्रमाणत्वाद्, भारतवत्; “स इदं सर्वमसृजत ऋचो यजूंषि सामानि” इत्यनुमानागमाभ्यां वेदे कर्तुः प्रमीयमाणत्वात् । एवं तर्हि वेदस्य पौरुषेयत्वप्रसङ्ग इष्ट इति चेद्, न; प्रामाण्यभङ्गप्रसङ्गात् । न तावन्नित्येच्छादिमदीश्वररचितत्वात् प्रामाण्यम्, दूषितत्वात् । नापि महाजनपरिग्रहाद् देहात्मभावचन्द्रप्रादेशमात्रत्वादीनां महाजनपरिगृहीतानामेवाऽप्रामाण्यदर्शनात् । स्मृतिपुराणपित्रादिवाक्यवदर्थस्य मानान्तरसिद्धतया प्रामाण्यं स्यादिति चेद्, मैवम्; किं वेदार्थभूतौ धर्माधर्मौ प्रत्यक्षेणाऽनुभूतौ उताऽगमान्तरेण । न चरमः, अनवस्थानात् । प्रथमेऽपि न हि तावदस्मदादिप्रत्यक्षेण धर्माधर्मावुपलभामहे । नापि योगिप्रत्यक्षं तद्ग्राहकम्, तस्य स्वविषयरूपादिष्वेवाऽतिशयकरत्वात् । न चाऽऽत्मसमवेततया धर्माधर्मौ मानसप्रत्यक्षाविति वाच्यम्, वेदसृष्टिकाले धर्माधर्मयोर्भाविनोरवर्तमानत्वात् । पूर्वकल्पानुष्ठितौ धर्माधर्मौ तदा वर्तेते एवेति चेद्, न; पूर्ववेदसृष्टावपि तथेत्यनवस्थायामन्धपरम्पराप्रसङ्गात् । तस्मात्पौरुषेयत्वे वेदस्य प्रामाण्यं दुःसम्पादम् । अत एव सुगता आर्हताश्चाऽप्रमाणं वेदमाहुरिति चेद्, न; तेषां स्वागमेष्वप्रामाण्यप्रसङ्गात् । अत एव लोकायत आगममात्रं नेच्छतीति चेद्,न; तस्य वाक्यमात्राप्रामाण्ये वादानधिकारः, लौकिकवाक्यप्रामाण्ये किमपराद्धं वेदवाक्यैः । तदेवं पौरुषेयत्वे वेदस्येष्टं प्रामाण्यं प्रभज्येत ? अपौरुषेयत्वे ब्रह्मणः उपाध्यायवदसर्वज्ञत्वं प्रसज्येतेति ।
अत्रोच्यते – पौरुषेयत्वं तावन्न सहामहे । तथाहि – किं शब्दार्थतत्सम्बन्धानां परुषेयत्वमुत क्रमावस्थितवाक्यानाम् । आद्येऽपि न तावज्जीवाः कर्तारः । तथा सति कश्चित्सागरं विवक्षित्वा मेरुशब्दमपि वाचकत्वेन प्रयुञ्जीत, स्वतन्त्रत्वात् । नापीश्वरः कर्ता, कल्पादिषु शब्दार्थसम्बन्धव्यवहारः पूर्वपूर्वव्यवहारपरम्पराधीनः, अभिधानाभिधेयव्यवहारत्वाद्, इदानीन्तनव्यवहारवत्, इत्यनादित्वानुमानात् । न च डित्थादिसाङ्केतिकशब्देष्वनेकान्तः, तेषां गव्यादिशब्दवदभिधानाभासत्वात् । न द्वितीयः, सृष्टिकालीनं वेदाध्ययनं पूर्ववेदाध्ययनानुस्मृतिनिबन्धनम्, वेदाध्ययनत्वाद्, इदानीन्तनवेदाध्ययनवत्, इत्यनादित्वसिद्धेः । न चैवं सर्वेष्वपि ग्रन्थेष्विदमनादित्वं सुसाधमिति वाच्यम्, तैस्तैरेव ग्रन्थैस्तत्कर्तॄणां प्रतिपादनात् तदागमविरोधात् । इहाऽपि श्रुत्यैव वेदस्य कर्ता प्रतिपाद्यते इति चेत्, किं हिरण्यगर्भविषयया “इदं सर्वमसृजत ऋचो यजूंषि” इत्यादिश्रुत्या किं वेश्वरविषयया “अस्य महतो भूतस्य निःश्वसितम्, इत्यादिश्रुत्या ? नाऽऽद्यः, “यो ब्रह्माणं विदधाति” इत्यादिश्रुतौ हिरण्यगर्भोत्पत्तेः प्रागेव वेदसद्भावावगमात् । सतामेव वेदानां हिरण्यगर्भबुद्धौ प्राथमिकमाविर्भावमभिप्रेत्याऽसृजतेति श्रुतिरप्युपपन्ना । न द्वितीयः; उपादानप्रकरणपठिता सा श्रुतिः ईश्वरस्य वेदोपादानत्वमेव ब्रूते न तु वेदकर्तृत्वमपि । ईश्वरोपादानत्वमपौरुषेयत्वं च विरुद्धमिति चेद्, न; एतादृशापौरुषेयत्वस्याऽङ्गीकृतत्वात् । भारतादीनां व्यासादिभिर्मानान्तरेणाऽर्थं बुद्ध्वा रचितत्वं पौरुषेयत्वम् । ततो मूलप्रमाणापेक्षं तत्प्रामाण्यम् । वेदो नार्थं बुद्ध्वा रचितः, असर्वज्ञवचनत्वाभावे सति धर्माधर्मब्रह्मप्रमाणत्वात्, परपरिकल्पितेश्वरबुद्धिवत् । तथा च ब्रह्मकार्यस्याऽपि वेदस्य स्वतःसिद्धप्रामाण्ये न काचिद्धानिः ।
ननु प्रमाणदृष्टवादी ह्याप्तः, तददृष्टस्योत्प्रेक्षितस्य च वक्ता नाऽऽप्तः । तथा च वेदो न प्रमाणम्, आप्ताप्रणीतवाक्यत्वाद्, उन्मत्तवाक्यवत्, इति चेद्, मैवम्; वेदः प्रमाणम्, अनाप्ताप्रणीतवाक्यत्वात्, मन्वादिवाक्यवत्, इत्यपि प्रयोगात् । कथं तर्हि निर्णय इत्युच्यते – प्रामाण्यं स्वतः सिद्धमप्रामाण्यं तु कारणदोषादिति ह्यस्मत्सिद्धान्तः । अत्रोन्मत्तवाक्यस्य भ्रान्त्योत्प्रेक्षया वा दुष्टं ज्ञानं मूलम्, इत्यप्रामाण्यमुचितम् । मन्वादिवाक्यस्य स्वत एव प्रामाण्ये सत्याप्तप्रणीतत्वाख्यो गुणोऽपि प्रतिबन्धककारणदोषनिवारकतयोपयुज्यते । वेदस्य तु प्रतिबन्धासम्भवादन्तरेणैव गुणं स्वतः प्रामाण्यं सिध्यति । नन्वाप्तप्रयोगानपेक्षत्वे स्मर्यमाणेनाऽपि घटशब्देन घटः प्रमीयेत ? प्रमीयतां नाम, यत्र-कुत्रचित् पुरोवर्तिनि तु घटरहिते स्थले प्रमाणान्तरविरोधात् न प्रमास्यते । अथ मतं कस्यचित्कदाचिदसति प्रमाणान्तरोदये तस्मिन्नपि स्थले घटः स्मर्यमाणशब्दात् प्रमीयते, तर्ह्याप्तप्रयोग एव प्रामाण्ये हेतुरस्तु । स च प्रयोगो द्वेधा निष्पद्यते – मन्वादिवाक्यानि मानान्तरेणाऽर्थमुपलभ्य प्रयुक्तानि । वेदवाक्यानि पूर्वपूर्वप्रयोगाननुस्मृत्य प्रयुक्तानि । उन्मत्तवाक्यानि पुनस्तदुभयाभावादप्रमाणान्येव । नन्वेवं वेदे प्रामाण्यमन्धपरम्पराग्रस्तं भवेदिति चेत्तर्ह्येवं व्यवस्थाऽस्तु । स्मर्यमानशब्देभ्यस्तात्पर्याभावान्नाऽर्थप्रमितिः । वेदे पुनरध्ययनविधितात्पर्यादाप्तप्रयोगाभावेऽपि प्रमितिरुत्पत्स्यत इति । न चाऽध्ययनविधिवाक्यस्य तात्पर्याभावादप्रामाण्यं शङ्कनीयम्, स्वेनैव तात्पर्यसिद्धेः । न चैवमात्माश्रयो दोषः, शब्दशब्दवत्स्वपरनिर्वाहकेष्वविरोधात् । अतो ब्रह्मवद्वेदस्याऽपि पर्यालोचनायामनादित्वं पर्यवस्यति, न तु कालिदासादिग्रन्थवत्पौरुषेयत्वम् । न चाऽनादित्वेऽपि पुराणवाक्यवदन्यथासन्निवेशप्रणयनं शङ्कनीयम्, नियतक्रमविशिष्टानामेव वर्णपदवाक्यप्रकरणकाण्डादीनां वेदशब्दवाच्यानां कल्पादिप्रलययोरप्याविर्भावतिरोभावमात्रभाजां कूटस्थनित्यत्वाङ्गीकारात् । तर्हि वेदो न ब्रह्मोपादानः, अनादित्वात्, कूटस्थनित्यत्वाच्च, ब्रह्मवदिति चेद्, स्वतन्त्रत्वोपाधिहतत्वात् । वेदस्तु ब्रह्मपरतन्त्रः, ब्रह्मण्यारोपितत्वाद्, यथा रज्ज्वामारोपितो रज्जुतन्त्रः सर्पः ।
ननु रज्जुसर्पवद्वेदस्य कथं मिथ्यात्वमुच्यते ? निर्वक्तुमशक्यत्वादिति ब्रूमः । तथाहि – किं वर्णमात्रं वेदः किं वा क्रमसहिता वर्णाः ? नाऽऽद्यः अक्रमव्युत्क्रमोच्चारितेषु वर्णेषु वेदबुद्ध्यभावात् । द्वितीयेऽपि स क्रमः किं वर्णनिष्ठ उच्चारणनिष्ठो वा उपलब्धिनिष्ठो वा ? वर्णनिष्ठत्वेऽपि तावत्क्रमो न देशकृतः सम्भवति, वर्णानां सर्वगतत्वात् । नाऽपि कालकृतः, नित्यत्वात् । नाऽपि वस्तुकृतः, विरोधात् । नह्येकदैव राजा जारेति जकारस्य पूर्वापरभावो युक्तः । नाऽप्युच्चारणनिष्ठः क्रमो वर्णेषूपरज्यते, उच्चारणतत्क्रमयोः श्रोत्राविषयत्वात् । वेदस्तु वर्णात्मा श्रोत्रग्राह्यः । उपलब्धिनिष्ठोऽपि किं वर्णानां धर्म उत वर्णेष्वारोप्यते किं वा वर्णानामुपलक्षणम् ? नाऽऽद्यः; अन्यनिष्ठस्याऽन्यधर्मत्वानुपपत्तेः । द्वितीयेऽप्यख्यातिवादिनः क्रममात्रस्य वा वर्णमात्रस्य वा वेदशब्दानर्हत्वात् विशिष्टप्रत्ययस्यानङ्गीकाराद् अविवेकमात्रमेव वेद इति अर्थावबोधो न स्यात् । अन्यथाख्यातौ पुनर्विशिष्टप्रत्ययस्याऽनङ्गीकाराद्, (अविवेकमात्रत्वात्) विशिष्टार्थस्य चाऽभावात् ज्ञानातिरिक्तो वेदो न स्यात् । न तृतीयः, क्रमविशिष्टवर्णप्रत्ययस्य प्रत्यक्षत्वात् । अतोऽनिर्वचनीयो वेदः । अनिर्वचनीयस्यापि तुच्छव्यावृत्तत्वात् देहात्मवदर्थक्रियासामर्थ्यमविरुद्धम् । तदेवं ब्रह्मविवर्ततयाऽकार्यस्याऽपि वेदस्याऽनादित्वकूटस्थनित्यत्वाभ्यां मानान्तरादर्थोपलब्धिपूर्वकपुरुषेच्छाधीननिष्पाद्यत्वाभावान्न पौरुषेयत्वदोषः, सर्वार्थप्रकाशकवेदोपादानस्य ब्रह्मणः उपाध्यायवैलक्षण्यादसर्वज्ञत्वदोषोऽपि न । न च ब्रह्मणः सर्वप्रकाशस्य सर्वसंसर्गित्वादेव सर्वज्ञतासिद्धौ वेदोपादानत्वेन तत्साधनं व्यर्थमिति वाच्यम्, वाय्वाकाशरसगन्धादिसंसर्गिणः सवितृकिरणस्य तत्प्रकाशकत्वादर्शनात् । तस्मात् सर्वार्थप्रकाशनसमर्थसर्ववेदोपादानतयैव सर्वज्ञत्वं साधनीयमिति सूत्रकाराभिप्रायः ।
इति श्रीविद्यारण्यमुनिप्रणीते विवरणप्रमेयसङ्ग्रहे तृतीयसूत्रस्य प्रथमं वर्णकं समाप्तम् ।
अथ द्वितीयं वर्णकम्
अथवा द्वितीयसूत्रे लक्षणमभिधायाऽनेन प्रमाणं प्रतिज्ञायते – शास्त्रयोनित्वादिति, वेदप्रमाणकत्वादित्यर्थः । अनेकार्थसूचकत्वं सूत्रस्याऽलङ्कारो न वाक्यदोषमावहति, विश्वतोमुखमिति सूत्रलक्षणे दर्शनात् । ब्रह्मप्रमापकं च वेदवाक्यं “यतो वा इमानि” इत्यादि । यद्यप्येतत्पूर्वसूत्र एवोदाहृतं तथाप्येतत्सूत्रवैयर्थ्यं नाऽस्ति, एतत्सूत्रप्रतिपाद्यं शास्त्रैकवेद्यत्वं ब्रह्मणोऽभिलक्ष्य पूर्वसूत्रस्याऽऽगमग्रथने तात्पर्याभिधानात् । अन्यथा पूर्वसूत्रस्य युक्त्युपन्यासमात्रे तात्पर्यं को निवारयेत् ? युक्त्युपन्यासमात्रत्वे च प्रतिकार्यं पृथक्कारणजन्यताया अपि सम्भवात्सर्वज्ञं सर्वशक्ति ब्रह्म जगत्कारणमित्ययमर्थो न सिद्ध्येत् । न च बृहतेर्धातोरर्थानुगमात्तत्सिद्धिः, बृहत्यर्थवाचिनो ब्रह्मशब्दस्याऽपि वेद एव प्रयोगात् । न हि लोके जगत्कारणे ब्रह्मशब्दः प्रयुज्यते । अतो जन्माद्यस्य यतः शास्त्रैकप्रमाणं तद् ब्रह्मेत्येतावदिदमेकं सूत्रम्, तावता युक्तिमात्रशङ्कानिवृत्तेः । पृथक्करणं तु शास्त्रोपादानत्वेन सर्वज्ञत्वं सुसम्पादमिति व्याख्यानान्तरेण कथयितुम् । तस्माज्जगज्जन्मादिनिमित्तोपादानकरणं सर्वज्ञं ब्रह्म शास्त्रैकगम्यमिति सूत्रद्वयेन सिद्धम् । तत्र बिम्बस्थानीयं ब्रह्म मायाशक्तिमत्कारणं जीवाश्च प्रत्येकमविद्यानुबन्धा इति केचित् ।
मायाविद्याप्रतिबिम्बितं जगत्कारणं विशुद्धब्रह्मामृतत्वालम्बनं जीवाश्चाऽविद्यानुबन्धा इत्यन्ये । प्रथमे पक्षे मायाविद्ययोर्भेदः ब्रह्मणश्च न प्रतिबिम्बता द्वितीये तु तद्वैपरीत्यमिति विशेषः । ब्रह्मसिद्धिकारास्त्वेवमाहुः – जीवा एव स्वाविद्यया प्रत्येकं प्रपञ्चाकारेण ब्रह्मणि विभ्राम्यन्ति, ब्रह्म तु मायाविशिष्टं बिम्बरूपं प्रतिबिम्बरूपं वा न जगत्कारणम् । यत्त्वया दृष्टं तन्मया दृष्टमिति संवादस्तु बहुपुरुषावगतद्वितीयचन्द्रवत्सादृश्यादुपपद्यते । स्वरूपेणाऽधिष्ठानत्वमपेक्ष्य ब्रह्मणो जगत्कारणत्वव्यपदेश इतीष्टसिद्धिकाराः प्रकारान्तरेण वर्णयन्ति । ब्रह्मैकमेव स्वाविद्यया जगदाकारेण विवर्तते स्वप्नादिवदिति । सर्वेऽप्येते सिद्धान्ताः, प्रक्रियायां तत्त्वावबोधाय कल्पितत्वादिति सर्वं निर्मलम् ।
इति श्रीविद्यारण्यमुनिप्रणीतविवरणप्रमेयसङ्ग्रहे तृतीयसूत्रस्य द्वितीयं वर्णकं समाप्तम् ।
इति तृतीयसूत्रम्