अद्वैतशारदा

विवरणप्रमेयसङ्ग्रहः

अथ चतुर्थं सूत्रम्

प्रथमं वर्णकम्

तृतीयसूत्रे ब्रह्मणि वेदान्ताः प्रमाणमिति प्रतिज्ञातं चतुर्थसूत्रे तत्प्रा­मा­ण्य­मु­प­पा­द्यते । ननु सूत्र­का­र­व­च­न­वि­रो­धा­द्भू­त­व­स्तु­प्र­ति­पा­द­ना­यो­गा­त्प्र­यो­ज­न­शू­न्य­त्वा­द­न­धि­ग­ता­र्थ­त्वा­भा­वाच्च न ब्रह्मणि वेदा­न्त­प्रा­माण्यं सम्भवति । सूत्रकारो हि जैमिनिः “आम्नायस्य क्रिया­र्थ­त्वात्” इति सूत्रे­णाऽ­क्रि­या­र्थानां वेदा­न्ता­ना­मा­न­र्थ­क्य­मे­वाऽऽह । यद्य­प्या­दि­म­ध्या­व­सा­नेषु वेदान्तानां ब्रह्मै­क्य­ता­त्प­र्य­द­र्श­नाद् नाऽऽन­र्थ­क्य­स­म्भ­व­स्त­थापि न प्रामाण्यं घटते । ब्रह्मबोधका वेदान्ता न प्रमाणम्, माना­न्त­र­यो­ग्यत्वे सति माना­न्त­रा­नु­प­ल­भ्यस्य ब्रह्मणो बोधकत्वात्, यथा स्पर्शयोग्यस्य स्पर्शाऽ­नु­प­ल­भ्यस्य चित्र­ग­त­नि­म्नो­न्न­त­भा­वस्य बोधकं चाक्षुषज्ञानम् । न च विशेषणासिद्धिः, ब्रह्म माना­न्त­र­यो­ग्यम्, परि­नि­ष्ठि­त­व­स्तु­त्वाद्, घटादिवत् । न च ब्रह्मै­क­प्र­मा­ण­वे­द्यम्, परि­नि­ष्ठि­त­त्वात्, गन्धादिवदिति वाच्यम्, चक्षुः­स्प­र्श­न­ग्रा­ह्येषु घटा­दि­द्र­व्ये­ष्व­नै­का­न्त्यात् । तथापि प्राभाकराभिमतं कार्यं प्रमा­णा­न्त­र­यो­ग्यम्, तुच्छ­व्या­वृ­त्त­त्वाद्, घटवत्, इत्या­भा­स­स­मा­न­त्व­मिति चेद्, न; परि­नि­ष्ठि­त­त्व­स्यो­पा­धि­त्वात् । अनु­मे­य­भ­वि­ष्य­द्वृ­ष्ट्यादौ परि­नि­ष्ठि­त­त्वा­भा­वान्न साध्य­व्या­प्ति­रिति चेद्, एवमपि प्रमा­णा­न्त­र­यो­ग्यत्वं प्रति प्रति­यो­ग्य­पे­क्षस्य तुच्छ­व्या­वृ­त्त­त्वस्य प्रयोजकत्वे गौरवं तन्निरपेक्षस्य परि­नि­ष्ठि­त­त्वस्य प्रयोजकत्वे लाघवमिति नाऽस्त्येव साम्यम् । ब्रह्म शब्दैकगम्यम्, रूपा­दि­भि­र्व्या­प्ति­ग्र­हा­दि­भिश्च हीनत्वात्, परकीयकार्यवत्, इति चेद्, न; अनुभवगम्यताया अपि भव­द्भि­र­ङ्गी­का­रात् । एवं च सति प्रथमानुमाने हेतुगतं माना­न्त­रा­नु­प­ल­भ्य­स्येति विशे­ष­ण­म­सि­द्ध­मिति चेद्, न; अनुमातॄणां ब्रह्मा­नु­भ­वा­सिद्धौ विशेषणासिद्धेः । अतः प्रथमानुमानेन संवा­द­क­मू­ल­प्र­मा­ण­र­हि­तानां वेदा­न्ता­ना­म­प्रा­माण्यं सिद्ध्यति । अपौरुषेयवचसां न मूल­प्र­मा­णा­पे­क्षेति चेत्, सत्यम्; तथापि “अहं मनुष्यः” इति प्रत्यक्षेण बाधितत्वात् “आदित्यो यूपः” इति­व­द­प्रा­मा­ण्य­मेव । उक्त­प्र­त्य­क्षस्य दोषजन्यत्वेन श्रुत्य­बा­ध­क­त्वेऽपि सिद्धे ब्रह्मणि प्रवृ­त्ति­नि­वृ­त्ति­सा­ध्ये­ष्ट­प्रा­प्त्य­नि­ष्ट­प­रि­हा­र­रू­प­प्र­यो­ज­ना­स­म्भ­वात् तात्पर्यरहिता वेदान्ता नैव प्रामाण्यं लभन्ते ।

अथोच्येत – न प्रयोजनं तात्पर्यं वा प्रामा­ण्य­प्र­यो­जकं किन्त्व­न­व­ग­ता­र्थ­बो­ध­क­त्व­मिति । एवमपि मानान्तरायोग्यं कार्यमेव वेदः प्रमापयतु न तु तद्योग्यं सिद्धं ब्रह्म । तस्मादनर्थका वेदान्ताः । अध्य­य­न­वि­धि­प­रि­गृ­ही­ता­ना­म­प्रा­मा­ण्य­म­यु­क्त­मिति चेत्, तर्हि कर्तृरूपस्य जीवस्य देवतारूपस्य ब्रह्मणश्च प्रकाशकत्वेन क्रिया­वि­धि­शे­ष­त्व­मस्तु, तथा च मन्त्रा­र्थ­वा­दा­दि­व­त्प्रा­माण्यं सेत्स्यतीति । ब्रह्म­वि­धा­य­क­त्वे­नैव प्रामा­ण्य­म­स्त्विति चेद्, न; क्रियाविषयस्य विधेः परि­नि­ष्ठि­त­व­स्तु­न्य­स­म्भ­वात् । ननु न तावद्वेदान्ता एकस्य विधेः शेषभूताः, “सोऽरोदीत्” इत्या­दि­व­त्प्र­क­र­ण­पा­ठा­भा­वात् । नाऽपि सर्व­वि­धि­स­मू­हस्य, भिन्नवस्तु प्रतिपादकानां सर्व­वि­धी­ना­मे­क­वा­क्य­त्वा­भा­वात् । न च धर्म­सा­मा­न्य­मे­क­मेव सर्वविधिभिः प्रतिपाद्यमिति वाच्यम्, सामा­न्य­स्याऽ­नु­ष्ठा­ना­न­र्ह­त्वात् । अथोच्येत यथा सर्व­क्र­तु­स­म्ब­न्धिन्या जुह्वाः प्रकृतिद्रव्यं सम­र्प­य­त्प­र्ण­म­यी­वा­क्य­म­ना­र­भ्या­धी­त­मपि सर्व­क्र­तु­वा­क्यानां प्रत्येकं शेषभावं भजते तथा कर्तुः समर्पका वेदान्ता अपीति । नैतत्सारम्; निर्वि­शे­ष­प्र­धा­नै­र्वे­दा­न्तै­रा­त्मनि स्तूयमाने प्रतिपाद्यमाने वा कर्म­प्र­वृ­त्ता­व­नु­प­यो­गात् । न चोपयोगः कल्पयितुं शक्यः, कर्तृ­त्वा­दि­स­र्व­वि­शे­ष­नि­रा­क­र­णस्य प्रवृ­त्ति­वि­रो­धि­त्वात् । तस्मान्न क्रियाविधिशेषा वेदान्ताः ।

एवं तर्हि सगु­णो­पा­स­ना­वि­धि­शेषा भवन्तु, न चैवं मन्तव्यम्; उपा­स­ना­वि­धि­शे­षै­रपि वेदान्तैः सर्व­ज्ञ­त्वा­दि­गु­ण­वि­शिष्टं जगत्कारणं परिनिष्ठितं ब्रह्मस्वरूपं न सिध्यति संवा­द­क­मू­ल­प्र­मा­णा­भा­वात् । अत उपास्याऽसिद्धौ कथमुपासनाविधिः दूरे तच्छेषत्वं वेदान्तानामिति अनु­मा­ना­द­नि­र्दि­ष्ट­वि­शेषे जगत्कारणेऽवगते तस्योपासनाविधौ नित्य­शु­द्ध­बु­द्ध­स­त्य­ज्ञा­ना­न­न्त­त्वा­द्यु­पा­स्य­गु­णा­रो­पेण वेदा­न्ता­ना­म­न्व­यात् । ननु वेदा­न्ता­ना­मु­पा­स­ना­वि­धि­प­र­त्वेन देव­ता­का­ण्डेऽ­न्व­य­स्ता­व­न्नाऽस्ति प्रकरणभेदात्; स्वकाण्डे तु वस्तु­मा­त्र­प­र्य­व­सा­यिनि न कोऽपि विधिः श्रूयते । न च कल्पयितुं शक्यते, “पूषा प्रविष्टभागः” इत्यादौ द्रव्य­दे­व­ता­स­म्ब­न्ध­व­दत्र विधि­क­ल्प­क­स्याऽ­श्रु­त­त्वा­दिति चेद्, मैवम्; अध्य­य­न­वि­धि­प­रि­ग्र­हेण प्रामाण्यं परिकल्प्य तत्प्रा­मा­ण्या­न्य­था­नु­प­प­त्त्यो­पा­स­ना­विधेः कल्पयितुं शक्यत्वात् । फलं च “एतावदरे खल्वमृतत्वम्” इत्या­द्य­र्थ­वा­द­गतं मोक्ष­रू­प­म­व­ग­न्त­व्यम् । तस्मान्न ब्रह्मणि वेदान्ताः प्रमाणम्, किन्तूपासनायाम् ।

इत्येवं पूर्वपक्षे प्राप्ते सूत्रकार आह – “तत्तु समन्वयात्” इति । तु शब्देन पूर्वपक्षो निषिध्यते । तदिति स्वपक्षे प्रतिज्ञा – तद् ब्रह्म वेदान्तैः प्रमीयते इत्यर्थः । कुतः ? वेदान्तानां ब्रह्मणि तात्पर्येण सम्य­ग­न्वि­त­त्वात् । तात्पर्यं हि पुरुषधर्मः, स च कथं वेदान्तानां स्यादिति चेद्, मैवम्; न हि विवक्षैव तात्पर्यम्, सत्यामपि विव­क्षा­या­म­प्र­युक्ते शब्दे तात्प­र्य­व्य­व­हा­रा­भा­वात् । नाऽपि पुरु­ष­प्र­यो­ग­मा­त­त्रम्, उन्मत्तप्रयोगे तदभावात् । अत­स्त­द­र्थ­प्र­मि­ति­शे­षत्वं तात्पर्यम् । तच्च शब्दधर्म एव । न च तस्मिन्नपि विवक्षैव तत्प्रयोजिकेति वाच्यम्, केव­ल­व्य­ति­रे­का­भा­वात् । सत्यपि तदर्थ्ये विव­क्षा­भा­वा­प­रा­धेन तात्प­र्या­भा­वा­द­र्श­नात् । न च विव­क्षा­व्य­ति­रे­केण तात्प­र्य­ग­म­का­भावः, उपक्रमादीनां भावात् । न च प्रमेयस्य कार्यत्वमेव तात्पर्यगमकम्, “ पुत्रस्ते जातः” इत्या­दि­ष्व­स­त्यपि कार्यत्वे तात्प­र्य­द­र्श­नात् । तत्राऽपि तात्पर्यादेव प्रमेयस्य कार्य­प­र्य­व­सा­न­म­नु­मी­य­ता­मिति चेद्, न; कार्य­त्व­प्र­मि­ति­ता­त्प­र्य­यो­र­न्यो­न्या­श्र­य­प्र­स­ङ्गात् । कार्य­वि­ष­य­प्र­मितौ सत्यां तत्प्र­मि­ति­ज­न­न­सा­म­र्थ्य­ल­क्षणं तात्पर्यं सिध्यति, सिद्धे च तस्मिं­स्त­त्प्र­मि­ति­सि­द्धि­रिति । ननु तात्पर्याभावः प्रती­ति­प्र­ति­ब­न्धकः, “विषं भुङ्क्ष्व” इत्यादौ वाक्यादेव प्राप्ताया विष­य­भो­ज­न­प्र­मि­ते­स्ता­त्प­र्या­भा­वेन प्रति­ब­ध्य­मा­न­त्वात् । तत्प्र­ति­ब­न्ध­नि­वा­रकं च तात्पर्यम् । तथा च प्रथमतो वाक्यादेव कार्यप्रमितौ सत्यां पश्चात्तथैव कार्यप्रमित्या प्रति­ब­न्ध­नि­रा­सि­ता­त्प­र्य­म­प्य­स्ती­त्य­व­ग­म्यते । न पुनस्तात्पर्येण कार्य­प्र­मि­ति­र्भा­व्यते ततो नाऽन्योन्याश्रय इति चेत्, सत्यम्; तथापि कार्यत्वं न तात्प­र्य­लि­ङ्गम्, “जर्तिलयवाग्वा वा जुहुयात्”, “गवीधुकयवाग्वा वा” इत्यादिषु सत्यपि कार्ये तात्पर्याभावात् । “अनाहुतिर्वै जर्तिलाश्च गवीधुकाश्च” इत्यु­त्त­र­वा­क्ये­नाऽ­र­ण्य­ति­लानां गवीधुकानां च निराकरणात् । तस्मा­दु­प­क्र­मा­दी­न्येव तात्प­र्य­लि­ङ्गानि,
उप­क्र­मो­प­सं­हा­रा­व­भ्या­सोऽ­पू­र्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिश्चये ॥
इत्युक्तत्वात् । प्रसिद्धानि हि सर्वेष्वपि वेदान्तेषु ब्रह्मण उपक्रमादीनि । ततस्तात्पर्येण वेदान्ता ब्रह्मणि समन्विताः ।

अन्वयस्य सम्यक्त्वं नामे­त­र­वै­ल­क्ष­ण्ये­नाऽ­र्थ­प्र­ति­पा­द­नम् । इतरत्र हि “गामानय” इत्यादिशब्दाः क्रिया­का­र­क­सं­सर्गं प्रतिपादयन्ति । “उद्भिदा यजेत” इत्य­त्रो­द्भि­द्या­ग­श­ब्द­यो­रे­का­र्थ­त्वेऽपि नियोगाकाङ्क्षा विद्यते । “नीलमुत्पलम्” इत्यत्र गुण­गु­णि­नो­र्भे­दा­भेदौ प्रतिपाद्यौ । एका­र्थ­प्र­ति­पा­द­के­ष्व­प्य­न्येषु शब्देषु लिङ्गसङ्ख्ये अवर्जनीये । वेदान्तास्तु न तथा संसर्गं वा साकाङ्क्षार्थं वा भेदाभेदौ वा लिङ्ग­स­ङ्ख्या­वि­शिष्टं वा प्रतिपादयन्ति, किन्त्व­भि­धा­वृत्त्या लक्ष­ण­यो­पा­धि­द्वारा वाऽखण्डैकरसमेव जग­त्का­र­ण­सा­मा­न्या­नु­वा­देन प्रतिपादयन्ति । तत्र ज्ञान­श­ब्दोऽ­ने­क­वि­का­र­यु­क्ता­न्तः­क­र­ण­वृ­त्ति­प्र­ति­बि­म्बि­त­चै­तन्ये व्युत्पन्नः । आनन्दशब्दश्च शुद्ध­सा­त्त्वि­का­न्तः­क­र­ण­वृ­त्त्य­भि­व्य­क्ता­या­म­त्य­नु­कू­ल­तया स्फुरन्त्यां कस्या­ञ्चि­द्व्यक्तौ लोके प्रसिद्धः । तावेतौ ज्ञानानन्दशब्दौ वाक्यान्तरेण नित्य­त्व­प्र­ति­पा­द­केन विरोधाद् वृत्त्यंशं परि­त्य­ज्याऽ­नु­कू­ल­तया स्फुरन्तीं व्यक्तिं प्रतिपादयतः । तथा च वृत्तित्यागांशे लक्षणा, इतरांशे तु मुख्यवृत्तिः । एक­स­त्या­न­न्त­शब्दाः स्वग­त­भे­दा­भा­व­मि­थ्या­त्वा­भा­व­स­जा­ती­य­वि­जा­ती­य­द्वि­ती­या­भा­वा­भि­धा­न­द्वा­रेण तत्र लक्षणया वर्तन्ते । सर्वज्ञः सर्व­श­क्ति­रि­त्या­दि­श­ब्दा­श्चाऽ­नि­र्व­च­नी­य­प्र­प­ञ्चो­पा­धि­तया तत्र वर्तन्ते । “अयमात्मा ब्रह्म”, “तत्त्वमसि” इत्यादिशब्दाश्च भागत्यागलक्षणया ब्रह्मण्येव वर्तन्ते । तदेवं सर्वे वेदान्ता अख­ण्डै­क­र­स­ब्र­ह्म­प्र­ति­पा­दकाः ।

ननु सत्य­ज्ञा­ना­दि­श­ब्दानां भिन्नार्थत्वे कथमखण्डैकरसे वृत्तिः ? एकार्थत्वे पुन­रु­क्ति­प्र­सङ्गः, नैष दोषः; तात्पर्येण प्रति­पा­द्य­स्यै­क­त्वेऽपि व्याव­र्त्त्या­ना­म­स­त्य­ज­डा­दी­ना­म­नि­र्व­च­नी­या­र्था­ना­म­ने­क­त्वात् । न चाऽनि­र्व­च­नी­य­प­दा­र्थेन तदभावेन वा पर­मा­र्थ­भा­व­रू­पा­द्वै­तस्य काचित् क्षतिरस्ति । तस्मात् तत्त्व­म­स्या­दि­म­हा­वा­क्यानि “सोऽयं देवदत्तः” इत्या­दि­वा­क्य­व­द­ख­ण्डै­क­रसं प्रतिपादयन्ति । तथाहि – एकं देव­द­त्त­मे­क­स्मिन् देशे काले च द्वौ पुरुषौ दृष्टवन्तौ, पुन­र्दे­श­का­ला­न्तरे तमेव तावेव ददृशतुः । तयोर्मध्ये “सोऽयं देवदत्तः” इति प्रत्य­भि­जा­ना­त्येकः । अपरस्तु पूर्वदृष्टाद् देव­द­त्ता­द्भिन्नं पश्चाद् दृष्टं मन्यते । तं प्रत्य­भि­ज्ञा­ही­न­मि­तरो बोधयति “सोऽयं देवदत्तः” इति । तत्र बोधयित्वा स्पष्टं भेदेन प्रती­य­मा­न­यो­स्त­त्त­द्दे­श­का­ल­यो­स्त­द्वि­शि­ष्ट­योर्वा देवदत्तयोरैक्यं न प्रत्यभिजानाति, विरोधात्; किन्तु विशि­ष्ट­द्व­यो­प­ल­क्षित एको देवदत्तः प्रत्य­भि­ज्ञा­गो­चरः । तत्र प्रत्यभिज्ञानं देव­द­त्त­स्व­रू­प­पै­क्यम् । विशि­ष्टा­भि­धा­यिभ्यां “सोऽयम्” इति पदाभ्यां स्वार्थै­क­दे­श­प­रि­त्या­गे­नै­क­दे­श­ल­क्ष­णया परस्मै प्रतिपादयति ।

ननु “सोऽयम्” इति पदा­र्थ­यो­र्य­द्दे­व­द­त्तैक्यं तदेव वाक्येनाऽपि प्रतिपाद्यते उताऽन्यत् ? आद्येऽ­नु­वा­द­प्र­सङ्गः । न द्वितीयः; ऐक्या­न्त­र­स्याऽ­भा­वा­दिति चेद्, न; प्रत्यभिज्ञाया अप्यनेन न्याये­नाऽ­प्रा­मा­ण्य­प्र­स­ङ्गात् । अभि­ज्ञा­व­ग­त­स्यै­वै­क्यस्य बोध­नेऽ­नु­वा­द­क­त्वम्, ऐक्यान्तरं तु नाऽस्ती­त्य­त्रापि सुवचत्वात् । एकस्य कालद्वयसम्बन्धः प्रत्य­भि­ज्ञा­प्र­मे­य­मिति चेद्,न; तस्याऽ­प्य­भि­ज्ञा­द्व­ये­नैव सिद्धत्वात् । अथ प्रत्य­भि­ज्ञा­न­स्याऽ­न­धि­ग­ता­र्थ­ग­न्तृ­त्वा­भा­वेऽपि भेद­भ्र­म­व्यु­दा­सि­त्वा­द­भि­ज्ञाभ्यां भेद­भ्र­मा­व्यु­दा­सि­नीभ्यां फलतो विशेषसद्भावत् प्रामाण्यं तर्हि “सोऽयम्” इति वाक्य­स्याऽ­प्ये­व­मेव पदाभ्यां विशेषसद्भावात् प्रामाण्यमस्तु । एवं च तत्त्व­म­सि­वा­क्य­मपि त्वम्पदार्थे कर्तृत्वाद्यंशं विरोधिनं परित्यज्य साक्षि­मा­त्र­मु­पा­दाय तत्पदार्थे परो­क्षा­द्यं­श­प­रि­त्या­गे­नाऽ­व­शि­ष्टेन चिन्मा­त्रे­णैक्यं पदा­र्थ­प्र­ती­ति­स­मये प्रतिपन्नमपि भेद­भ्र­म­व्यु­दा­साय प्रतिपादयति । तदयं प्रयोगः – तत्त्व­म­स्या­दि­वाक्यं अख­ण्डा­र्थ­नि­ष्ठम्, कार्य­क­र­ण­व्य­ति­रि­क्त­द्र­व्य­नि­ष्ठत्वे सति समा­ना­धि­क­र­ण­त्वात्, सोऽयं देवदत्त इति वाक्यवद् इति ।

ननु मृद्घटो नील­मु­त्प­ल­मि­त्यादौ पदार्थयोः प्रत्ये­क­म­सा­धा­र­ण­मै­क्य­मे­कै­क­प­द­प्र­मेयं पदा­र्थ­यो­रि­त­रे­त­रैक्यं तु वाक्य­प्र­मे­य­मि­त्य­न­धि­ग­ता­र्थ­ग­न्तृ­त्वा­देव यथा वाक्यप्रामाण्यं तथाऽत्राप्यस्तु । तथा च भेद­भ्र­म­व्यु­दा­स­मा­त्र­वि­शे­षात् प्रामा­ण्य­मि­त्येषा कष्टकल्पना न भविष्यतीति चेद्, न; वैषम्यात् । तत्र हि कार्य­का­र­ण­यो­र्द्र­व्य­गु­ण­योश्च भिन्नयोरैक्यं प्रतिपाद्यते “व्यवहारे भाट्टनयः” इति न्यायेन भेदा­भे­दा­भ्यु­प­ग­मात् । अत्र त्वखण्डैकरसं प्रतिपाद्यत इत्यस्ति महद्वैषम्यम् । अत्र केचिदाहुः – “य आत्मनि तिष्ठन्न” “एष त आत्मा सर्वान्तरः” इत्या­दि­शा­स्त्रा­ज्जी­व­ब्र­ह्म­णो­रपि भेदा­भे­दा­व­भ्यु­पेयौ । अन्यथा पदा­र्थ­वा­क्या­र्थयोः साङ्कर्यादिति, ते प्रष्टव्याः – तत्र भेदो ज्ञानेन निवर्त्यते न वेति ? न चेन्मोक्षो न स्यात् । निवर्त्त्यते चेत्, तदाऽपि भेदाभेदविषयमेव ज्ञानं तन्निवर्तकम् उताऽ­भे­द­मा­त्र­वि­षयं ज्ञानान्तरम् । नाऽऽद्यः, ज्ञानस्य स्ववि­ष­य­नि­रा­स्य­त्वा­यो­गात् । न द्वितीयः, अभे­द­ज्ञा­न­ज­न­क­प्र­मा­णा­भा­वात् । त्वन्मते शास्त्रस्य भेदा­भे­द­वि­ष­य­त्वात् । शास्त्र­ज­न्य­भे­दा­भे­द­ज्ञा­ना­भ्या­सा­द­भे­द­ज्ञानं जायत इति चेद्, एवमपि ज्ञान­नि­व­र्त्त्यत्वे भेदस्य मिथ्यात्वं स्यात् । ज्ञानेनाऽज्ञानं निवर्त्यते, भेदस्तु कर्म­भि­र्वि­न­श्य­तीति चेद्, न; “ब्रह्म वेद ब्रह्मैव भवति” इत्ये­व­का­रा­भि­धे­य­भे­द­नि­रा­सस्य ज्ञान­प्र­यु­क्त­त्वा­व­ग­मात् । अथ ज्ञान­प्रा­ग­भा­व­व­द्भे­दस्य ज्ञान­नि­व­र्त्त्य­त्वेऽपि न मिथ्यात्वं तथापि किं येनैवाऽऽकारेण जीवस्य ब्रह्मणो भेद­स्ते­नै­वाऽ­भे­दोऽपि उताऽऽकारान्तरेण ? आद्ये भेद­नि­वृ­त्ता­व­भे­दोऽपि निवर्तेत, तत्प्र­यो­ज­का­का­र­स्यै­क्यात् । द्वितीये निर­व­य­व­ब्र­ह्म­भू­तस्य जीवस्य धर्मभूतो भेदो न तावत्कर्मणा निवर्तयितुं शक्यते । ज्ञानेन तन्निवृत्तावपि यदि तेन भेदेनोपलक्षितो जीवस्तदा ब्रह्मैव जीवः स्यात् । अथ भेद­वि­शि­ष्ट­स्तर्हि भेदनाशे जीवोऽपि नश्येत् । अथ विशि­ष्टा­का­र­ना­शेऽपि विशेष्यांशो जीवो ब्रह्मैक्यरूपं मोक्षमनुभवेत्, तर्हि संसारदशायामपि ब्रह्म­ता­दा­त्म्या­पन्नः स एव विशेष्यांशो जीव इत्यभ्युपेयम्; संसा­र­मो­क्ष­यो­र्वै­य­धि­क­र­ण्या­यो­गात् । एते­नै­त­द­प्य­पास्तं यद­मृ­ता­न­न्दे­नो­च्यते न युग­प­ज्जी­व­ब्र­ह्म­णो­र्भे­दा­भेदौ विरोधात्, किन्तु पदा­र्थ­त्व­द­शा­या­म­ति­रेको वाक्या­र्थ­त्व­द­शायां चाऽखण्डत्वमिति । “एक­धै­वा­नु­द्र­ष्टव्यं नेह नानाऽस्ति किञ्चन” इत्या­दि­श्रु­ति­वि­रो­धश्च । न च “य आत्मनि तिष्ठन्” इत्या­दि­श्रु­ति­र्भे­दा­भेदौ प्रतिपादयति, किन्तु भ्रान्ति­प्र­सिद्धं भेद­म­नू­द्याऽ­भे­द­मेव बोधयति । कथं तर्हि पदा­र्थ­वा­क्या­र्थयोः साङ्कर्यपरिहार इति चेद्, उच्यते – तत्र न तावत् पदवाच्यस्य वाक्यार्थेन साङ्क­र्य­प्र­स­ङ्गोऽस्ति । वाच्य­स्याऽ­वि­द्या­क­ल्पि­तो­पा­धि­वि­शि­ष्ट­त्वात् । पदलक्ष्यस्य तु वाक्या­र्थ­त्व­मि­ष्ट­मेव । तस्मा­न्म­हा­वा­क्य­स्याऽ­ख­ण्डा­र्थ­तायां न कदाचिदनुपपत्तिः । तथा “सत्यं ज्ञानमनन्तं ब्रह्म” इत्या­द्य­वा­न्त­र­वा­क्य­म­प्य­ख­ण्डा­र्थ­नि­ष्ठम्, लक्ष­ण­वा­क्य­त्वात्, प्रकृ­ष्ट­प्र­का­श­श्चन्द्र इति वाक्यवत् । तत्र कश्चि­च्च­न्द्र­प्रा­ति­प­दि­का­र्था­न­भिज्ञः कञ्चित्पप्रच्छ अस्मिन् ज्योतिर्मण्डले कश्चन्द्रो नामेति ? सोऽपि चन्द्र­प्र­ति­पा­दि­क­मा­त्रा­र्थ­वि­व­क्षया प्रयुङ्क्ते प्रकृ­ष्ट­प्र­का­श­श्चन्द्र इति । तत्र प्रकाशशब्दः प्रका­श­त्व­सा­मा­न्या­भि­धा­न­मु­खेन लक्षणया व्यक्तिविशेषे वर्तते । प्रकृष्टशब्दश्च प्रक­र्ष­गु­णा­भि­धा­न­मु­खेन लक्षणया प्रकाशविशेषे वर्तते । तत्र गुण­सा­मा­न्य­यो­श्च­न्द्र­प­दा­न­भि­धे­य­त्वा­त्त­दु­भयं व्युदस्य तत्स­म­वा­यि­प्र­का­श­वि­शेष एव चन्द्र­प­दा­भि­धे­य­तया समर्प्यत इति प्रकृ­ष्ट­प्र­का­श­च­न्द्र­श­ब्दा­ना­मे­का­र्थता सिध्यति । न चैवं पद­द्व­य­वै­य­र्थ्यम्, अप्र­का­श­मे­घा­दि­व्या­वृत्तौ प्रका­श­प­द­स्याऽ­ल्प­प्र­का­श­न­क्ष­त्रा­दि­व्या­वृत्तौ प्रकर्षपदस्य चोपयोगात् । एवं सत्य­ज्ञा­ना­दि­वा­क्येऽ­प्य­ख­ण्डा­र्थता योजनीया ।

यत्तूक्तं ब्रह्मणः परि­नि­ष्ठि­त­व­स्तु­तया माना­न्त­र­यो­ग्य­स्याऽपि माना­न्त­रे­णाऽ­नु­प­ल­भ्य­मा­न­त्वा­त्त­द्बो­ध­कानां वेदान्तानां चित्र­ग­त­नि­म्नो­न्न­त­भा­व­बो­ध­क­च­क्षु­र्व­द­प्रा­मा­ण्य­मिति । तत्र वक्तव्यं किं प्रमा­णा­न्त­र­यो­ग्यत्वे सति तदनुत्पत्तौ विषयस्याऽभावे निश्चिते तत्र शब्द­मि­थ्या­त्व­मा­श­ङ्क्यते किं वा प्रमा­णा­न्त­र­सं­भि­न्ना­र्थ­वि­ष­य­त्वात् पौरु­षे­य­व­चो­व­त्सा­पेक्षं प्रामाण्यमिति उत प्रमा­णा­न्त­र­यो­ग्या­र्थ­वि­ष­य­तया तत्सि­द्धा­र्था­नु­वा­दा­श­ङ्केति ? नाऽऽद्यः, माना­न्त­रा­नु­द­य­मा­त्रेण तथात्वे सर्व­त्राऽ­ति­प्र­स­ङ्गात् । पौरुषेयवचसां माना­न्त­र­सा­पे­क्ष­त्वेऽपि वेद­व­च­स­स्त­द­यो­गात् । न द्वितीयः, माना­न्त­र­स­म्भि­न्ना­र्थ­त्वा­भा­वात् । विमतं वेदान्तवाक्यं माना­न्त­र­स­म्भि­न्ना­र्थम्, भूता­र्थ­वि­ष­य­त्वाद् नदी­ती­र­फ­ल­स­त्ता­वा­क्य­व­दिति चेद्, न; पौरु­षे­य­व­च­न­त्व­स्यो­पा­धि­त्वात् । अनु­भू­ता­र्थ­स्मृ­ति­व­दिति निदर्शनेऽपि स्वार्थ­प्र­वृ­त्त­ज्ञा­ना­न्त­र­ज­न्य­त्व­मु­पाधिः । न हि वेदवाक्यं माना­न्त­रे­णाऽ­र्थ­मु­प­लभ्य विरचितं येन साधनव्यापकता स्यात् । अथ मन्यसे – वेदान्तवाक्यस्य भूता­र्थ­वि­ष­य­त्वा­न्मा­ना­न्त­र­यो­ग्या­र्थत्वं साधयित्वा तेन च सम्भिन्नार्थता साधनीयेति, तर्हि विधिवाक्यानामपि तुच्छ­व्या­वृ­त्ता­र्थ­त्वा­न्मा­ना­न्त­र­यो­ग्य­वि­ष­य­तया संभिन्नार्थता केन वार्यते ? न च विधि­वा­क्य­त्वा­देव माना­न्त­र­यो­ग्या­र्थ­त्वा­भावः, लौकि­क­वि­धि­वा­क्येषु माना­न्त­र­यो­ग्या­र्थ­त्व­द­र्श­नात् । तत्राऽपि तदयोग्यार्थत्वे कार्य­स­म्ब­न्ध­ग्र­ह­णा­स­म्भ­वा­द्वे­देऽपि तत्प्र­ति­प­त्तिर्न स्यात् । अथ वैदिककार्यस्य काल­त्र­या­ती­त­स्व­भा­व­त्वाद् न मानान्तरयोग्यता तर्हि ब्रह्मणोऽपि रूपा­दि­ही­न­स्व­भा­व­त्वा­देव मानान्तरयोग्यता न भविष्यति । अस्ति ब्रह्मणि मानान्तरं स्वरू­प­चै­त­न्या­ख्य­मिति चेद्, न; तस्यैव ब्रह्मत्वाद् । स्वरूपचैतन्यस्य ब्रह्म­प्र­मा­प­क­त्वेऽपि तत्स­म्भि­न्ना­र्थ­त्व­मा­त्रेण न तत्सा­पे­क्ष­त्व­दोषः । स्वप्र­का­श­पु­रु­षा­न्त­र­सं­वे­द­न­गो­च­रा­नु­मा­नस्य तत्सा­पे­क्ष­त्व­दो­षा­द­र्श­नात् । नाऽपि तृतीयः, स्पर्श­ज्ञा­न­यो­ग्य­द्र­व्य­वि­ष­यस्य चक्षु­षोऽ­नु­वा­द­क­त्वा­द­र्श­नात् । शब्द एवेयमनुवादकतेति चेत्, तथापि विधिवाक्ये तामाशङ्कां कथं परिहरिष्यसि । लौकिकस्य विध्यर्थस्य माना­न्त­र­यो­ग्य­त्वेऽपि वैदिकस्य तदयोग्यत्वादिति चेद्, भूतार्थेऽपि तत्समानम् । न च शब्द­स्यै­वा­नु­वा­द­क­त्व­श­ङ्केति नियन्तुं शक्यम्, शब्दावगतेऽर्थे माना­न्त­र­मे­वाऽ­नु­वा­द­क­मि­त्य­स्याऽपि सुवचत्वात् । तस्मा­द्भू­ता­र्थ­नि­ष्ठ­मपि वैदिकं वचो निरपेक्षं प्रमाणम् ।

ननु सर्व­त्रो­त्त­म­वृद्धो माना­न्त­रे­णाऽ­र्थ­मु­प­लभ्य तत्र शब्दं प्रयुङ्क्ते । मध्यमवृद्धश्च तस्मा­च्छ­ब्दा­त्त­म­र्थ­म­व­गत्य तत्र प्रवर्तते । तां च प्रवृ­त्ति­मु­प­लभ्य बालो व्युत्पद्यते यथाव्युत्पत्ति च शब्दस्य बोधकत्वम् । ततो माना­न्त­र­स­म्भि­न्न­स्यै­वाऽ­र्थस्य शब्दप्रमेयतया कथं वचसो निरपेक्षं प्रामाण्यम् ? नैष दोषः; बालो हि स्वयं मानासम्भिन्नं घटा­दि­प्र­मे­य­मात्रं प्रत्य­क्षा­दि­भि­र­व­गत्य तत्र प्रवर्तमानः स्वदृष्टान्तेन मध्य­म­वृ­द्ध­स्याऽपि माना­न्त­रा­मि­श्रि­त­शु­द्ध­प्र­मे­य­ज्ञा­न­पू­र्विकां प्रवृत्तिमनुमाय तस्मिन् प्रमेयमात्रे शब्द­स्यो­त्त­म­वृ­द्ध­प्र­यु­क्तस्य साम­र्थ्य­म­व­ग­च्छति । न च वाच्यं कार्यस्य केवलस्य शब्द­श­क्ति­वि­ष­य­त्वेऽपि सिद्धार्थस्य माना­न्त­र­सं­भि­न्न­स्यैव तद्विषयतेति । तत्र तावत् कार्य­वा­क्य­ग­त­सि­द्ध­प­दानि माना­न्त­रा­स­म्भि­न्नेऽर्थे शक्तिमन्ति कार्य­वा­क्य­ग­त­त्वात्, कार्यपदवत् । तथा च तद्दृ­ष्टा­न्ते­ने­त­रे­षा­मपि सिद्धपदानां तत्साधनीयम् । यत्तू­त्त­म­वृ­द्ध­स्याऽ­र्थो­प­ल­ब्धि­हे­तु­भूतं मानान्तरं तद्वि­व­क्षो­त्पा­द­न­द्वारा शब्दप्रयोगे हेतुर्न तु शब्द­प्र­मे­येऽ­न्त­र्भ­वति तच्च बाल­स्त­दाऽ­व­ग­मि­ष्यति यदा स्वय­मु­त्त­म­वृद्धो भूत्वा शब्दप्रयोगं करिष्यति ।

अत्र केचिच्चोदयन्ति – व्यर्थोऽयं व्युत्प­त्ति­नि­रू­प­ण­प्र­यासः । शब्द­स्याऽ­र्था­सं­स्प­र्शि­त्वात् । नह्यङ्गुल्यग्रे हस्तियूथशतमास्त इत्यादिशब्दैः कश्चिदर्थः प्रमीयते । यत्राऽ­प्या­प्त­वाक्ये प्रमीयते तत्राऽपि माना­न्त­र­नि­ब­न्धना सा प्रमितिर्न शब्दनिबन्धनेति । तदेतच्चोद्यं प्राभाकरः परिहरति । यद्यपि पौरु­षे­य­वा­क्यै­र्ना­भि­धे­य­सं­सर्गः प्रमीयते तथाप्येवमयं पुरुषो वेदेति वक्तृ­ज्ञा­न­वि­शेषः प्रमीयते एव । अङ्गु­ल्य­ग्रा­दि­वा­क्ये­ष्व­प्य­व्य­भि­चा­रात् । स च ज्ञानविशेषो ज्ञेयविशेषं कल्पयतीति । सोऽयं परि­हा­रोऽ­नु­प­पन्नः, वैयधिकरण्यात् । शब्द­स्याऽ­र्था­सं­स्प­र्शित्वे चोदिते लिङ्गस्य तत्सं­स्प­र्शित्वं प्रतिपाद्यत इति किं केन सङ्गच्छेत । वक्तृ­ज्ञा­न­द्वारा शब्दा­र्थ­सं­स्पर्शः प्रतिपाद्यत इति चेद्, न; वक्तृज्ञानस्य शब्द­प्र­मे­य­त्वा­यो­गात् । “गामानय” इत्यादिवाक्येषु वक्तृ­ज्ञा­न­वा­च­क­प­दा­भा­वात् । वाक्यार्थस्य पदा­र्था­न­ति­रे­कात् । अतिरेकेऽपि किं वक्तृ­ज्ञा­न­मात्रं वाक्यार्थ उत ज्ञेयविशिष्टम् । आद्ये लौकि­क­वा­क्या­द­प्र­मिते ज्ञेये व्यवहारो न स्यात् । ततो व्युत्प­त्त्य­भा­वा­द्वै­दि­क­वा­क्य­स्याऽ­प्य­बो­ध­क­त्व­प्र­सङ्गः । द्वितीये ज्ञेयमेव वाक्यात् प्रमीयताम्, वक्तृज्ञानस्य शब्द­प्र­यो­ग­ल­क्ष­ण­लि­ङ्गा­नु­मे­य­त­याऽ­न्य­था­सिद्धेः । ननु ज्ञेय­म­प्य­न्य­था­सि­द्धम्, श्रोता हि पदेभ्यः पदार्थानवगत्य नूनमेषां संसर्गोऽस्तीति सह­प्र­यो­ग­ब­ला­दु­त्प्रे­क्षत इति चेद्, मैवम्; उत्प्रेक्षाया एवाऽत्र वाक्य­ज­न्य­प्र­मि­ति­त्वात् । न ताव­दि­य­मु­त्प्रेक्षा स्मृति­सं­श­य­वि­प­र्या­से­ष्व­न्त­र्भ­वति, संस्का­र­ज­न्य­त्व­को­टि­द्व­य­बा­धा­ना­म­भा­वात् । प्रमितित्वेऽपि प्रत्य­क्षा­दि­का­र­णा­न्त­रा­भा­वाद् वाक्यजन्यत्वं परिशिष्यते । न च वक्तृ­ज्ञा­ने­नाऽ­नु­मि­तेन ज्ञेय­म­न्त­रे­णाऽ­नु­प­प­द्य­मा­नेन पदार्थसंसर्गः कल्पयितुं शक्यः, तथा सति वेदे वक्तु­र­भा­वा­त्सं­स­र्ग­प्र­मि­त्य­सिद्धेः । तस्माच्छाब्दमेव संसर्गज्ञानम् । अङ्गु­ल्य­ग्रा­दि­वा­क्यानां त्वना­प्त­सं­स­र्गा­द­र्था­स्प­र्शि­त्वम् । अर्थ­सं­स्प­र्शि­नोऽपि प्रत्यक्षस्य कारणदोषे सति शुक्त्या­द्य­र्था­सं­स्प­र्शि­त्व­द­र्श­नात् । न ह्यपौ­रु­षे­य­स्याऽ­द्वै­ता­ग­मस्य कश्चि­द्दो­ष­सं­सर्गः सम्भवति येनाऽ­र्था­सं­स्प­र्शि­त्व­मा­श­ङ्क्येत । यदि द्वैतावभासीनि प्रत्य­क्षा­दी­नीति तेन विरुध्येरन् तदा तान्येव बाध्यन्ताम् । “इन्द्रो मायाभिः” इत्यादिना माया­ख्य­दो­ष­ज­न्य­त्व­श्र­व­णात् । दोषजन्यत्वेऽपि स्वप्न­व­द्व्य­व­हा­रा­वि­सं­वादे प्रामाण्यलाभात् । अद्वैतागमोऽपि प्रत्य­क्षा­दि­वि­ष­यस्य द्वैतस्य तत्त्वांशमेव बाधते न व्यव­हा­र­सं­वा­दां­शम् । एवं च सति यथा मायाकार्याणामपि प्रत्यक्षादीनां स्वस्वविषयेषु व्याव­हा­रि­क­प­दा­र्थेषु प्रामाण्यं तथै­वाऽ­द्वै­ता­ग­मस्य माया­का­र्य­त्वेऽ­प्य­द्वैते स्वविषये प्रामाण्यं किं न स्यात् ? न चैवं शुक्ति­र­ज­ता­दि­ज्ञा­नेऽ­ति­प्र­सङ्गः शङ्कनीयः, तत्राऽपि यावद्बाधं प्रातिभासिकेषु रजतादिषु ज्ञानस्य स्वतः प्रामा­ण्या­नि­वा­र­णात्, अन्यथा प्रवृ­त्त्य­नु­प­पत्तेः । विशे­ष­द­र्श­न­का­ली­न­बा­ध­प­र्या­लो­च­न­यै­वाऽ­प्रा­मा­ण्य­व्य­व­हा­रात् । न चाऽद्वै­त­ज्ञा­नस्य कदा­चि­द्बा­धोऽस्ति, येनै­ता­दृ­श­म­प्रा­मा­ण्य­मु­च्येत ।

ननु चित्र­ग­त­नि­म्नो­न्न­त­वि­ष­य­चा­क्षु­ष­ज्ञा­नस्य विष­य­ग­त­श्या­मा­दि­रे­खा­स­न्नि­वे­श­वि­शे­षा­ख्या­द्दो­षा­द­प्रा­माण्यं यथा दृष्टं तथाऽ­त्रा­प्य­द्वै­ता­ख्या­द्वि­ष­य­दो­षा­द­प्रा­मा­ण्य­मिति चेद्, न; तत्राऽपि स्पर्श­ज्ञा­न­बा­धा­दे­वाऽ­प्रा­मा­ण्यात् । अन­धि­ग­ता­र्थ­ग­न्तृ­त्व­ल­क्ष­णस्य प्रामाण्यस्य न संवादापेक्षा शङ्कितुमपि शक्या । न चाऽऽम्नायस्य सर्वस्य क्रिया­र्थ­त्वा­द्वि­धि­वा­क्या­ना­मेव प्रामाण्यमिति वाच्यम्, इत­रे­त­रा­श्र­य­त्वात् । विधिवाक्यानामेव प्रामाण्ये सिद्धे सर्व­स्याऽऽ­म्ना­यस्य क्रिया­र्थ­त्व­सि­द्धि­स्त­त्सिद्धौ चेतरसिद्धिरिति । न च प्रवृ­त्ति­नि­वृ­त्ति­सा­ध्य­यो­रि­ष्ट­प्रा­प्त्य­नि­ष्ट­प­रि­हा­र­यो­र­भा­वा­द­पु­रु­षार्थे ब्रह्मणि कथं वेदा­न्त­प्रा­मा­ण्य­मिति शङ्कनीयम्; लोको हीष्ट­प्रा­प्त्य­नि­ष्ट­प­रि­हा­रा­वेव साक्षात् प्रार्थयते न प्रवृ­त्ति­नि­वृत्ती, तयो­रा­या­सा­त्म­क­त्वात् । अप्रा­प्त­ग्रा­मा­दि­प्रा­प्ता­व­प­रि­हृ­त­रो­गा­दि­प­रि­हारे चाऽऽया­स­म­न्त­रे­णाऽ­भि­ल­षि­त­सि­द्ध्य­भा­वा­दा­यासं पुरुषः सहेताऽपि, यत्र तु प्राप्तमेव कण्ठ­चा­मी­क­रा­दि­क­म­जा­नानः पुरुषः पुनः प्राप्तुमिच्छति परिहृतमेव च रज्जुसर्पादिकं परिजिहीर्षति तत्र ज्ञान­मा­त्रा­द­भी­ष्ट­सिद्धौ कुत आयासं सहेत । न हि तत्राऽ‍ऽ­या­सोऽ­पे­क्ष्यते, प्रत्युत ज्ञाने सति पूर्वोऽप्यायासः परिह्रियते । एवं च सति नित्यप्राप्तस्य ब्रह्मणः प्राप्तौ नित्यनिवृत्तस्य संसारस्य परिहारे च हेतुभूतं तत्त्वज्ञानं जनयतां वेदान्तानां कुतोऽ­पु­रु­षा­र्थ­प­र्य­व­सा­यि­त्व­शङ्का । तस्मा­द्वे­दा­न्तानां ब्रह्मणि प्रामाण्यं केनाऽपि वारयितुं न शक्यम् । किञ्च, पुरुषार्थस्य प्रामा­ण्य­प्र­यो­ज­कत्वे नित्य­नै­मि­त्ति­क­वा­क्यानां प्रामाण्यं गुरुमते दुःसम्पादम् । न हि तत्र फलमस्ति, किन्त्वनुष्ठाने प्रयास एव, अननुष्ठाने तु प्रत्यवायः स्पष्टः । तत उभ­य­थाऽ­प्य­न­र्थ­हे­तूनां तेषां कथं प्रामा­ण्य­सिद्धिः । तस्मा­त्प्र­त्य­क्षा­दि­व­च्छ­ब्द­स्याऽ­प्य­न­धि­ग­ता­बा­धि­ता­स­न्दि­ग्धा­र्थ­बो­ध­क­त्व­मात्रं प्रामा­ण्य­नि­मि­त्तम् । तच्च कार्य­ब्र­ह्म­वा­क्ययोः समानम् । तथा च सति पूर्वपक्षिणा वेदा­न्ता­ना­म­प्रा­मा­ण्य­सि­द्धये महता प्रयासेन यद्वि­धि­प­र­त्व­क­ल्पनं तदकाण्डे ताण्डवितम्, तस्मात्सिद्धं ब्रह्मणि वेदान्तानां प्रामाण्यमिति ।

इति श्रीवि­द्या­र­ण्य­मु­नि­प्र­णीते विव­र­ण­प्र­मे­य­स­ङ्ग्रहे चतुर्थसूत्रे प्रथमं वर्णकं समाप्तम् ।

द्वितीयं वर्णकम्

शब्दानां सिद्धार्थे शक्ति­म­ङ्गी­कृ­त्याऽपि ब्रह्मणि वेदा­न्त­प्रा­माण्यं न सम्भवतीति ये मन्यन्ते तेषां मतं पूर्ववर्णके निरस्तम् । ये पुनः कार्या­न्वि­त­स्वार्थे एव शब्दशक्तिरिति मन्यमानाः कार्यशेषतयैव ब्रह्म वेदान्तैः प्रमीयते इति कथयन्ति, तेषां मतमस्मिन्वर्णके निरस्यते । ते ह्येवमाहुः – उत्तमवृद्धेन गामा­न­ये­त्यु­क्तेऽ­न­न्तरं मध्यमवृद्धेन क्रियमाणं गवानयनं व्युप्ति­त्सु­र्बालो गवानयनकार्यमनेन वाक्येन बोधितमित्यवगत्य पुनरश्वमानय गां बधा­ने­त्या­दि­प्र­यो­गे­ष्वा­वा­पो­द्धा­रा­भ्या­मे­कै­कस्य पदस्य कार्या­न्वि­त­स्वार्थे सामर्थ्यं प्रतिपद्यते । न चेष्टसाधने व्युत्पत्तिः सम्भवति, अतीते इष्टसाधनादौ मध्य­म­वृ­द्ध­प्र­वृ­त्त्य­भा­वात् । कृतियोग्ये इष्टसाधने प्रवृ­त्ति­र­स्तीति चेत्, तर्ह्य­व्य­भि­चा­रा­त्का­र्य­मेव व्युत्प­त्ति­प्र­यो­जकं भविष्यति । अव्य­भि­चा­रि­त्व­मा­त्रेण कार्यस्य प्रयोजकत्वे कार्य­ग­त­लौ­कि­क­त्व­स्या­प्य­व्य­भि­चा­राद् व्युत्पत्तौ प्रयोजकत्वं प्रसज्येत । तथा च वेदे नियो­ग­प्र­ति­प­त्तिर्न स्यादिति चेद्, न; कार्यं परि­त्य­ज्याऽ­न्वि­त­स्वा­र्थ­मा­त्रस्य प्रयो­ज­क­त्वा­ङ्गी­कारे केनाऽन्वित इति साका­ङ्क्ष­त्व­प्र­स­ङ्गात् । न च लौकि­क­त्व­प­रि­त्यागे बाधोऽस्ति । ननु सिद्धपदानां कार्या­न्वि­त­स्वा­र्थ­स­म्भ­वेऽपि कार्यपदस्य न तत्सम्भवः कार्या­न्त­रा­भा­वा­दिति चेद्, न; धात्वर्थस्याऽपि कार्यतया तदन्वितयोगे कार्यपदस्य व्युत्पत्तेः । यद्यपि लोके “फलितो द्रुमः” इत्यादिवाक्यानि कार्यरहितान्यपि प्रयुज्यन्ते तथापि तत्र “तं पश्य” इत्या­दि­का­र्या­ध्या­हा­रोऽ­व­ग­न्तव्यः, कार्यान्विते व्युत्पन्नस्य पदस्य कार्य­म­न्त­रे­णाऽ­बो­ध­क­त्वात् । अतः प्रवृ­त्ति­नि­वृ­त्ति­सा­ध्य­प्र­यो­ज­न­म­न्त­रेण वाक्य­प्र­यो­गा­नु­प­प­त्ते­र्नि­यो­ग­निष्ठा वेदान्ताः । न च रज्जु­स­र्प­क­ण्ठ­चा­मी­क­रा­दा­विव तत्त्व­ज्ञा­न­मा­त्रेण प्रयो­ज­न­मु­प­ल­भा­महे । न चैत­च्छा­स्त्री­यम्, तथा सति श्रव­णो­त्त­र­का­ली­न­यो­र्म­न­न­नि­दि­ध्या­स­न­यो­र­वि­धि­प्र­स­ङ्गात् । न च सर्वस्य वेदस्य विधिनिष्ठत्वे सत्येकैव मीमांसा षोडशलक्षणी स्यादिति शङ्कनीयम्, क्रिया­वि­धि­प्र­ति­प­त्ति­वि­धि­रू­पाभ्यां तद्भेदसिद्धेः । यानि वेदान्तवाक्यानि ब्रह्म­स्व­रू­प­प्र­ति­पा­द­कानि “सदेव सोम्येदम्” इत्यादीनि तानि सर्वाणि “सोऽन्वे­ष्टव्यः” इत्यादिविधिषु कोऽसा­वा­त्मे­त्या­का­ङ्क्षायां तच्छे­ष­त­यै­वाऽऽ­त्म­वि­शेषं समर्पयन्ति । तस्मा­द­न­न्य­शे­षा­द्वि­ती­य­प्र­ति­पा­द­कत्वं वेदान्तानां नाऽस्तीति ।

अत्रोच्यते – न ताव­न्नि­यो­ग­ब्र­ह्मणी उभे अपि वेदान्तैः प्रमातुं शक्येते, विरु­द्ध­त्रि­क­द्व­या­प­त्ति­प्र­स­ङ्गात् । तच्च प्रथ­म­सू­त्र­द्वि­ती­य­व­र्णके विस्तृतम् । नाऽपि नियोगमात्रं प्रमातुं शक्यम्, विधेयानिरूपणात् । न तावच्छाब्दं ब्रह्मज्ञानं विधेयम्, तस्याऽऽ­पा­ति­क­स्याऽ­ध्य­य­ना­देव निष्पत्तेः । निर्णयश्च विचारजन्यः । अन्य­थाऽ­ग्नि­हो­त्रा­दि­ज्ञा­न­स्याऽपि तद्वाक्याध्ययन तद्वि­चा­रा­भ्या­म­सि­द्धि­प्र­स­ङ्गात् । नाऽपि शब्दावगते ब्रह्मणि स्मृतिसन्तानो विधेयः, तद्वि­धे­र­दृ­ष्ट­फ­लत्वे स्वर्गा­दि­व­न्मो­क्ष­स्याऽपि कर्म­ज­न्य­त्वे­नाऽ­नि­त्य­त्व­प्र­स­ङ्गात् । अथाऽ­ङ्ग­म­र्द­न­प्र­वा­हेण शरीरे सुख­प्र­वा­हो­त्प­त्ति­व­द­भी­ष्ट­ब्र­ह्म­वि­ष­य­स्मृ­ति­स­न्ता­ने­नाऽपि सुखसन्तानो दृष्टफलं भवेत्, तर्ह्य­न्व­य­व्य­ति­रे­काभ्यां तत्सि­द्धे­र्वि­धि­वै­य­र्थ्यम् । अस्तु तर्हि स्मर्यमाणस्य साक्षात्करणं स्मृति­स­न्ता­न­विधेः प्रयोजनमिति चेत्, तदापि किं स्मृतिसन्तानः स्वयमेव साक्षात्कारं जनयेत् उताऽदृष्टद्वारा अथवा विज्ञा­ना­न्त­र­द्वारा ? नाऽऽद्यः, न हि स्मृतिरूपस्य परोक्षज्ञानस्य सन्तानो विष­य­सा­क्षा­त्कारं जनयितुमुत्सहते । अन्य­थाऽ­नु­मा­न­ज्ञा­न­स­न्ता­नोऽ­प्य­नु­मे­य­सा­क्षा­त्का­र­मु­त्पा­द­येत् । द्वितीयेऽपि न तावत् स्मृति­स­न्ता­न­ज­न्य­म­दृ­ष्ट­मात्रं साक्षा­त्क­रो­त्पा­दने प्रभवति; साक्षात्कारस्य प्रमा­ण­ज­न्य­त्वात् । प्रमा­ण­स्याऽ­प्य­दृ­ष्ट­स­ह­का­रित्वे प्रमाणेनैव साक्षा­त्का­रो­त्प­त्ता­व­दृ­ष्ट­वै­य­र्थ्यम् । न तृतीयः, स्मृति­स­न्ता­न­जन्यं तद्वि­ज्ञा­ना­न्तरं स्वयमेव साक्षा­त्का­र­ज­न­कम् उताऽ­दृ­ष्ट­द्वा­रे­त्यादि विक­ल्प­दो­ष­प्र­स­ङ्गात् ।

ननु तर्हि शब्दावगते ब्रह्मणि ध्यानं विधीयताम् । न च स्मृतिसन्तान एव ध्यानम्, स्मृतिसन्तानस्य वस्तुगोचरत्वाद् ध्यान­स्याऽ­रो­पि­त­वि­ष­य­त­याऽपि सम्भवात् । न च प्रयोजनाभावः, ब्रह्मा­प­रो­क्षस्य प्रयोजनत्वात् । दृश्यते हि ध्याना­भ्या­स­प्र­च­य­सा­म­र्थ्या­न्मृ­त­पु­त्रा­द्या­प­रो­क्ष्यम् । न च तद्वदेव ब्रह्माऽऽ­प­रो­क्ष्यस्य भ्रान्त­त्व­प्र­सङ्गः, शब्द­प्र­मा­ण­सं­वा­द­स­द्भा­वात् । स्वप्न­व­स्तु­सा­क्षा­त्का­र­स्याऽपि कस्य­चि­ज्जा­ग­र­ण­ज्ञा­न­सं­वादे प्रामा­ण्य­द­र्श­नात्, नैतत्सारम्; स्वतः­प्रा­मा­ण्य­हा­नि­प्र­स­ङ्गात् । न च स्वप्ने चक्षु­रा­दि­प्र­वृ­त्ति­म­न्त­रेण वस्तु­सा­क्षा­त्कारः सम्भवति । जागरणसंवादस्तु सादृ­श्या­दु­प­प­द्यते । अथ स्मृति­स­न्ता­न­ध्या­न­यो­र­वि­धे­य­त्वेऽपि शाब्द­ज्ञा­ना­द­न्य­देव ज्ञानमलौकिकं श्रव­ण­म­न­ना­दि­क­र­णकं वेदा­नु­व­च­ना­दी­ति­क­र्त­व्य­ताकं ब्रह्मा­प­रो­क्ष्य­फ­लकं मोक्षकामः कुर्यादिति विधीयत इति चेद्, मैवम्; वेदान्तानां ब्रह्मप्रमापके विधेयज्ञाने प्रामा­ण्य­क­ल्प­नाद् ब्रह्मण्येव साक्षा­त्प्रा­मा­ण्य­क­ल्प­नाया लघीयस्त्वात् । न च विधि­सं­स्प­र्शित्वं प्रामा­ण्य­का­र­णम्, किन्तु प्रमितिजननम् । अन्यथा अग्नि­हो­त्रा­दि­वाक्यं दर्श­पू­र्ण­मा­स­वि­धि­नि­ष्ठ­मपि स्याद्, विधि­सं­स्प­र्शा­वि­शे­षात् । प्रमितिश्च सत्य­ज्ञा­ना­दि­वा­क्येभ्यो ब्रह्मण्येव जायते, न विधौ । न च लौकिकात् प्रामा­ण्या­द­न्य­देव वैदिकं प्रामाण्यं विधिसंसृष्टमिति शङ्कनीयम्, यथा शब्दार्था य एव लौकिकास्त एव वैदिकास्तथा प्रामा­ण्य­स्याऽपि लोक­वे­द­यो­रे­क­त्वात् । तदेवं वेदान्तेषु न किञ्चिद्विधेयं निरूपयितुं शक्यम् ।

नाऽपि नियोगः सुनिरूपः । लोके ह्याचार्यः शिष्यं नियुङ्क्ते इत्या­दा­वु­त्कृ­ष्टस्य पुरु­ष­स्याऽ­व­र­पु­रु­ष­प्रे­र­णा­त्म­कोऽ­भि­प्रा­य­भेदो नियो­ग­त्वे­नाऽ­भि­मतः । न चाऽसावपौरुषेये वेदे सम्भवति । ननु नियोगो नाम प्रवर्तकः, प्रवर्त्तकत्वं कार्य­बु­द्धि­गम्ये वस्तुनि प्रतिष्ठितमिति चेत्, किमिदं कार्यं नाम किं कृतिसंसृष्टं किं वा कृतियोग्यम् अथवा कृतियोग्यत्वे सति क्रिया­का­र­क­फ­ल­वि­ल­क्षणं किञ्चिदलौकिकम् ? नाऽऽद्यः, कृतिर्हि पुरु­ष­प्र­वृत्तिः, कार्यं च प्रवृ­त्ति­नि­मि­त्तम् । न च प्रवृ­त्ति­सं­सृ­ष्टस्य प्रवृ­त्ति­नि­मि­त्तत्वं सम्भवति । अंशतः, आत्माश्रयत्वात् । न द्वितीयः; दुःखसाधनानामपि कृतियोग्यतया कार्यत्वे सति प्रव­र्त­क­त्व­प्र­स­ङ्गात् । न तृतीयः, तस्य प्रत्य­क्षा­द्य­गो­च­रस्य व्युत्प­त्त्य­यो­ग्यस्य शब्द­प्र­ति­पा­द्य­त्वा­स­म्भ­वात् । न च परा­भि­म­त­का­र्या­न­ङ्गी­कारे प्रवर्तकाभावः, कृति­यो­ग्ये­ष्ट­सा­ध­नस्य प्रवर्तकत्वात् । कृति­यो­ग्य­त्व­वि­शे­ष­णो­पा­दा­नान्न चन्द्रोदयादौ व्यभिचारः । यद्यपि कृतियोग्यस्य फलस्याऽपि प्रव­र्त­क­त्व­मस्ति, तथापि बालस्य व्युत्प­त्ति­नि­मि­त्त­तया मध्य­म­वृ­द्ध­प्र­वृ­त्ति­हे­तु­भूतं गवा­न­य­ना­दि­ल­क्ष­ण­मि­ष्ट­सा­ध­न­मेव । अतश्च येयं महता प्रयासेन कार्य­व्यु­त्पत्तिः साधिता सा नाऽस्मा­क­म­निष्टा, इष्टसाधनस्यैव कृतियोग्यस्य कार्य­त्वा­भ्यु­प­ग­मात् । एकमेव हि वस्तु­कृ­ति­नि­रू­प्य­तया कार्य­मि­त्यु­च्यते इष्टनिरूप्यतया चेष्टसाधनमिति । न च परा­भि­म­ता­लौ­कि­क­कार्ये इवेष्टसाधनेऽपि कृति­यो­ग्येऽ­न­नु­भूते प्रमाणाभावः शङ्कनीयः, अती­ते­ष्व­न्न­पा­ना­दि­ष्व­न्व­य­व्य­ति­रे­का­भ्या­मि­ष्ट­सा­ध­न­त्व­म­व­ग­त्याऽ­ना­ग­ते­ष्वपि तेषु तदनुमानात् । न चैवं पर­की­य­का­र्य­म­नु­मातुं शक्यम्, अलौ­कि­क­त्व­व्या­घा­तात् । तस्मात् कृति­यो­ग्ये­ष्ट­सा­ध­न­मेव विध्यर्थो न तु नियोगः । न चैतादृशोऽपि विधि­र्वे­दा­न्तेषु सम्भवति । तत्राऽ­वि­द्या­नि­वृ­त्ति­ल­क्षणो मोक्ष इष्टस्तस्य च साधनं ब्रह्मा­त्मै­क्य­त­त्त्व­ज्ञा­नम् । सोऽयं साध्यसाधनभावो लोकसिद्धः । शुक्ति­त्व­ज्ञा­नेन तद­वि­द्या­नि­वृ­त्ति­द­र्श­नात् । अत­स्त­द्वि­धि­प­रत्वे वेदा­न्ता­ना­म­नु­वा­द­क­त्व­प्र­सङ्गः । ननु सिद्धे व्युत्प­त्त्य­भा­वाद् ब्रह्मपरत्वमपि न सम्भवतीति चेद्, न; “प्रभि­न्न­क­म­लो­दरे मधूनि मधुकरः पिबति” इत्या­दा­व­प्र­सि­द्ध­म­धु­क­र­प­दा­र्थस्य पुरुषस्य प्रसि­द्ध­प­द­स­म­भि­व्या­हा­रेण सिद्धार्थेऽपि व्युत्प­त्ति­द­र्श­नात् । न च तत्र कार्याध्याहारः कल्पनीयः, प्रयो­ज­न­प्र­मा­ण­यो­र­भा­वात् । न च व्युत्पत्तेः कार्याव्यभिचारः प्रयोजनम्, तस्यै­वाऽ­द्या­प्य­स­म्प्र­ति­पत्तेः । तस्माद् ब्रह्मण्येव वेदा­न्त­प्रा­मा­ण्यम् ।

अत्र केचिन्मन्यन्ते – न खलु जीव­ब्र­ह्म­णो­रै­क्य­मस्ति, “यदतः परो दिवो ज्योति­र्दी­प्यते” इति ज्योतिः­श­ब्दा­भि­धे­यस्य ब्रह्मणो ब्रह्मा­ण्डा­द्ब­हि­र­व­स्था­न­श्र­व­णात् । यदि सर्वगत्वश्रुतिः कुप्येत, तर्हि सर्वत्र वर्तमानमपि ब्रह्म जीवैर्वा प्रपञ्चेन वा न संस्पृश्यते, “असङ्गो ह्ययं पुरुषः” इति श्रुतेः । “अहं ब्रह्मास्मि” इति श्रुति­स्त्वा­रो­पि­त­ता­दा­त्म्य­रू­पे­णो­पा­सनं विदधाति । तस्मा­च्चो­पा­स­ना­न्मोक्षः फलिष्यति यागादिव स्वर्गः । न च वेदा­न्ता­ना­मु­पा­स­ना­वि­धि­प­रत्वे ब्रह्म­स्व­रू­पा­सिद्धिः, देव­ता­धि­क­र­ण­न्या­येन माना­न्त­र­सि­द्धि­वि­रो­ध­यो­र­भावे स्वार्थेऽपि प्रामा­ण्य­स­म्भ­वात् । न च जीवाद्भिन्ने ब्रह्म­ण्य­द्वै­त­श्रु­ति­व्या­कोपः, तस्याः श्रुते­र्वि­का­रा­ती­त­ब्र­ह्म­वि­ष­य­त्वात् । तस्य चैक­त्वा­भ्यु­प­ग­मात् । न च नैयोगिकफलत्वे मोक्षस्य स्वर्गा­दि­व­द­नि­त्यता, “न स पुनरावर्तते” इति श्रुत्याऽ­नु­मा­नस्य बाधादिति ।

नैतत्सारम्, आद्यन्तशून्यस्य मोक्ष­स्यो­पा­स­ना­त्म­क­क्रि­या­सा­ध्य­त्वा­यो­गात् । “विमुक्तश्च विमुच्यते”, “ब्रह्मैव सन् ब्रह्माप्येति” इत्या­दि­श्रु­ति­र्मो­क्ष­स्याऽ­ना­दि­ता­माह । “विद्य­याऽ­मृ­त­म­श्नुते”, “ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मेति” इत्यादिका चाऽविनाशितां प्रतिपादयति । तथा तदनुग्राहको न्यायोऽ­प्य­नु­स­न्धेयः । सादित्वे च मोक्ष­स्याऽ­न्त­वत्त्वं स्यात् । अन्तवत्त्वे च पुन­र्ब­न्धा­न्मो­क्ष­श­ब्द­स्यो­प­च­रि­ता­र्थ­त्व­प्र­सङ्गः । तथा क्रिया­सा­ध्य­त्वेऽ­भ्यु­द­य­फ­ल­व­च्छ­री­रे­न्द्रि­या­दि­स­म्बन्ध उपचयापचयत्वं च केन वार्येत । कर्मफलस्य वैचि­त्र्य­द­र्श­ना­च्छ­री­रा­दि­र­हितो मोक्षोऽपि तत्फलं भविष्यतीति चेद्, न; शरी­रा­दि­रा­हि­त्यस्य स्वाभाविकत्वात् । तथा हि – न तावदात्मनो देहेन संयोग उपपद्यते, निरवयवत्वात् । नाऽपि समवायः, देहं प्रति सम­वा­यि­का­र­ण­त्वा­भा­वात् सामा­न्या­दि­रू­प­त्वा­भा­वाच्च । एवं तादा­त्म्या­दि­नि­रा­क­र­ण­मू­ह्यम् । ततो वास्त­व­स­म्ब­न्धा­भावे सत्यशरीरत्वं स्वाभाविकं सशरीरत्वं तु मिथ्या­ज्ञा­न­कृ­त­मि­त्य­भ्यु­पे­यम् ।

न च मिथ्याज्ञानं कर्म­भि­र्नि­व­र्तते ? नाऽप्यशरीर एव मोक्षः कर्मभिरन्यथा परिणम्यत इति वक्तुं शक्यम्, कूटस्थस्य परिणामायोगात् । नन्वे­व­म­प्यु­पा­स­ना­सा­ध्य­त्व­मा­त्रेण मोक्षस्य कथ­मु­प­च­या­दि­प्रा­प्ति­रिति चेद्, उच्यते – तत्रोपासनस्य स्वरूपतः सङ्ख्यातः कालतो वा परिमितिरस्ति न वा? न चेत्, तर्ह्य­नि­र्धा­रि­त­वि­शे­ष­स्यो­पा­स­न­स्याऽ­नु­ष्ठा­न­म­शक्यं स्यात् । अस्ति चेत्, तर्हि सा प्रदर्शनीया ? न हि साङ्ग­द­र्श­पू­र्ण­मा­स­प­रि­मि­ति­व­दे­ता­व­दि­द­मि­त्यु­पा­स­ना­स्व­रू­प­प­रि­मितिः प्रदर्शयितुं शक्यते । न च सङ्ख्यातः परिमाणमस्ति । सहस्रं लक्षं वा प्रत्ययानां मोक्ष­सा­ध­न­मि­त्ये­ता­दृ­शस्य निया­म­क­स्याऽ­द­र्श­नात् । नाऽपि कालतः परिमाणमस्ति, एकं शतं सहस्रं वा संव­त्स­रा­णा­मु­पा­सी­नस्य मोक्ष इति निय­म­प्र­मा­णा­भा­वात् । मरणमेवाऽवधिरिति चेत्, तथापि दर्श­पू­र्ण­मा­स­व­दे­का­कारा साधनपरिमितिर्न लभ्यते । एकेन दशभिः शतेन सहस्रेण वा कालेन कस्यचिन्मरणात् पुरु­ष­भे­दे­षू­प­च­या­प­च­य­प्र­स­ङ्गात् । उपा­स्या­प­रो­क्ष्य­म­व­धि­रिति चेत्, तथापि कस्य­चि­त्के­न­चि­त्का­ले­नाऽऽ­प­रो­क्ष्या­त्सा­ध­नो­प­च­या­प­चयौ तदवस्थावेव । अतस्तत्फले मोक्षेऽ­प्यु­प­च­या­प­चयौ दुर्वारौ । लोके वेदे च क्रिया­ता­र­त­म्यात् तत्फलेऽपि तारतम्यदर्शनात् । न चोपा­स­नै­क­रू­प्या­भा­वेऽपि फलैकरूप्यं शास्त्रा­द्भ­वि­ष्य­तीति शङ्कनीयम्, शास्त्र­स्याऽ­न्य­थाऽ­नु­प­पत्तौ न्याय­वि­रु­द्ध­क­ल्प­ना­यो­गात् । अतो “यत्कृतकं तदनित्यम्” इत्या­दि­न्या­या­नु­सा­रे­णाऽ­नि­त्य­त्वा­दिकं मोक्षस्य प्राप्नोति ।

यत्तू­क्त­म­पु­न­रा­वृ­त्ति­श्रु­ति­बा­धि­तोऽयं न्याय इति, तदसत् । तत्र किं “ब्रह्म लोक­म­भि­स­म्प­द्यते” “न स पुनरावर्तते” इत्येषा श्रुतिर्बाधिका उत “एषैव देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्त” इत्येषा श्रुतिः ? नाऽऽद्यः, अप्र­स­क्त­प्र­ति­षे­धात् । न हि ब्रह्म­लो­का­भि­स­म्प­त्ति­स­मये पुनरावृत्तिः प्रसक्ता, अथ न स पुनरावर्तिष्यत इति वाक्यार्थः कल्प्येत, तन्न; “तद्यथेह कर्मजितः” इत्या­दि­श्रु­त्याऽ­नु­मा­नेन च विरोधे सति श्रुता­र्थ­प­रि­त्या­गे­नाऽ­श्रु­ता­र्थ­क­ल्प­ना­स­म्भ­वात् । द्वितीये त्विममिति विशेषणं मानवान्तरे पुनरावृत्तिं दर्शयति । नन्वस्मिन् कल्पेऽनावृत्तिं प्रतिपादयतो वाक्यस्य कल्पान्तरे पुन­रा­वृ­त्ति­प्र­ति­पा­द­नेऽपि तात्पर्ये वाक्यभेद इति चेद्, न; पुन­रा­वृ­त्ते­रा­र्थि­क­त्वात् । अन्यथा सर्वत्र सवि­शे­ष­ण­वा­क्ये­ष्वस्य चोद्यस्य दुष्परिहरत्वात् । नन्वेषा श्रुतिः कल्पे कल्पे प्रवर्तमाना तत्र तत्राऽऽवृत्तिं निषेधति ततोऽ­र्था­द­ना­वृ­त्ते­रा­त्य­न्ति­क­त्व­सि­द्धि­रिति चेद्, न; प्रति­प­त्तृ­भे­दात् । अस्मिन् कल्पे प्रति­प­न्ना­ना­मा­गा­मि­कल्पे पुन­रा­वृ­त्ति­स्तत्र प्रतिपन्नानां तत उपरिकल्पे पुन­रा­वृ­त्ति­रि­त्य­भ्यु­पे­यम् । अन्यथा विशे­ष­ण­वै­य­र्थ्यात् ।

नन्वस्तु तर्ह्यनित्य एव मोक्षः, अनित्यस्याऽपि स्वर्गादेः पुरु­षा­र्थ­त्व­द­र्श­नात् । तथा चोपा­स­न­क्रि­या­साध्यो मोक्षो भविष्यतीति चेत्, किं न्याया­नु­सा­रे­णै­व­मु­च्यते किं वा श्रुत्यनुसारेण ? नाऽऽद्यः, न्याय­वि­त्त्वा­भि­मा­नि­भि­रेव साङ्ख्य­यो­ग­वै­शे­षि­क­नै­या­यि­क­बौ­द्धा­दिभिः सर्वैः स्वस्व­प्र­क्रि­या­नु­सा­रे­णाऽ­ना­दि­मि­थ्या­ज्ञा­नस्य तत्त्वज्ञानेन निवृत्तौ मोक्षो भवति स च नित्य इत्ये­वाऽ­ङ्गी­का­रात् । न द्वितीयः, “य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति”, “तद्धै­त­त्प­श्य­न्नृ­षि­र्वा­म­देवः प्रतिपेदे”, “त्वं हि नः पिता योऽस्मा­क­म­वि­द्यायाः परं पारं तारयसि”, “भूयाश्चान्ते विश्व­मा­या­नि­वृत्तिः”, “य एत­द्वि­दु­र­मृ­तास्ते भवन्ति” इत्याद्याः श्रुतयो ब्रह्मा­त्म­त्व­द­र्श­न­स­म­का­ल­मे­वाऽ­वि­द्या­नि­वृ­त्ता­व­वि­ना­शिनं मोक्षं दर्शयन्त्यो न क्रिया­नु­प्र­वे­श­श­ङ्का­मपि सहन्ते ।

ननु अहं “ब्रह्मास्मि” इत्यादिशास्त्रं न ब्रह्मा­त्मै­क­त्व­परं किन्तु जीवविलक्षणे प्रमा­णा­न्त­रा­वि­रुद्धे ब्रह्मणि शास्त्र­प्र­ति­पन्ने सम्प­द­ध्या­स­क्रि­या­यो­ग­सं­स्का­रे­ष्व­न्य­त­म­म­परं भविष्यति । तत्र सम्पद् नामाल्पे वस्तुन्यालम्बने मह­द्व­स्तु­द­र्श­नम् । यथाऽल्पे मनसि वृत्त्य­न­न्त­त्व­सा­म्ये­नाऽ­न­न्त­वि­श्वे­दे­व­स­म्पा­दनं कृत्वा अनन्तलोकजयः । “अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयति” इति श्रुतेः । तथा जीवे चिद्रूपसाम्येन ब्रह्म­रू­प­स­म्पा­दनं कृत्वा ब्रह्म­फ­ल­म­वा­प्यते । अध्या­स­स्त्व­न्य­स्मि­न्न­न्य­त्व­दृष्टिः । यथा “आदित्यो ब्रह्म” इति श्रुति­व­शा­द­ब्र­ह्म­रूप आदित्ये ब्रह्म­दृ­ष्टि­स्त­थाऽ­त्रा­प्य­ब्र­ह्म­रूपे जीवे ब्रह्मदृष्टिः । तत्राऽऽ­ल­म्ब­न­म­वि­द्य­मा­न­समं कृत्वा सम्पाद्यस्यैव प्राधान्येन चिन्तनं सम्पद्, आलम्बनस्यैव प्राधान्येन चिन्तनमध्यास इति तद्विवेकः । क्रियायोगस्तु यथा “वायुर्वाव संवर्गः” इति श्रुता­व­ग्न्या­दीन् संवृणोतीति संव­र­ण­क्रि­या­स­म्ब­न्धाद् द्वयोः संव­र्ग­गु­ण­त्वे­नो­पा­सनं तथा जीवस्य स्वगतेन बृहत्यर्थयोगेन ब्रह्म­गु­ण­त­यो­पा­स­नम् । संस्कारश्च कर्माङ्गस्य व्रीह्याज्यादेः प्रोक्ष­णा­वे­क्ष­णा­दिना यथा भवति तथा कर्तृतया कर्म­गु­ण­भू­त­स्याऽऽ­त्मनो ब्रह्मदृष्ट्या संस्कारः क्रियत इति ।

नैतत्सारम्; किं जीव­ब्र­ह्म­भे­द­प्र­ति­भा­स­वि­रो­ध­भ­यात् सम्पदादिपरत्वं वेदान्तानां कल्प्यते ? किं वा जीवब्रह्मैक्ये तात्पर्याभावाद् ? उत फलानुसारात् ? नाऽऽद्यः, अभेदेऽपि बिम्ब­प्र­ति­बि­म्ब­व­द्भे­द­प्र­ति­भा­सो­प­पत्तेः । न द्वितीयः, “अहं ब्रह्मास्मि” इत्यु­क्त­स्यै­क्यस्य “स एष इह प्रविष्टः” इति प्रवेशार्थवादेन “अथ योऽन्यां देव­ता­मु­पा­स्तेऽ­न्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेद” इति भेदनिन्दया चोपपादितत्वात् । एवं सर्वं­श्रु­ति­ष्व­प्यै­क्य­ता­त्प­र्य­लि­ङ्ग­प्र­वे­शा­दि­क­म­व­ग­न्त­व्यम् । न तृतीयः, अवि­द्या­नि­वृ­त्ति­ब्र­ह्मा­त्म­भा­वश्च फलं श्रूयते । न च सम्पदादिपरत्वे तदुपपद्यते, सम्प­दा­दी­ना­म­य­था­व­स्तु­त्वे­नाऽ­प्र­मा­ण­ज्ञा­ना­ना­म­वि­द्या­नि­व­र्त­क­त्वा­स­म्भ­वात् । अन्य­स्याऽऽ­न्या­त्म­त्व­वि­रो­धाच्च । तस्मादैक्यपरं शास्त्रम् ।

अत्र कश्चिदाह – ब्रह्मणो भिन्नाभिन्नौ जीवः । ततश्च ब्रह्मणो नित्यमुक्तता जीवस्य नित्यबुद्धता च व्यवस्थामश्नुते । अत्यन्ताभेदे तु ब्रह्मैव स्वसंसराय कथं जगदुत्पादयेत् । विरुद्धा च विशु­द्ध­स्याऽ­शु­द्ध­ता­प्र­ति­प­त्ति­रिति । अत्रोच्यते – न तावत् जीव­ब्र­ह्म­णो­र्जा­ति­व्य­क्ति­भावो गुणगुणिभावः कार्यकारणभावो विशि­ष्ट­स्व­रू­प­त्व­मं­शां­शि­भावो वा विद्यते, मानाभावात् । न च तदभावे क्वचिद्भेदाभेदौ दृश्येते, “ममैवांशो जीवलोके” इति­स्मृ­ते­रं­शां­शि­तेति चेद्, न; “निष्कलम्” इति निरं­श­त्व­प्र­ति­पा­द­क­श्रु­ति­वि­रो­धात् । “पादोऽस्य विश्वा भूतानि” इति श्रुति­र्ना­शां­शि­भावं ब्रूते, किन्तु ब्रह्मा­न­न्त्य­प्र­ति­पा­द­नाय जीव­स्याऽ­ल्प­ता­मा­त्र­माह । अन्यथा सांशस्य ब्रह्मणो घटा­दि­व­द­व­य­वा­र­भ्य­त्व­प्र­स­ङ्गात् । ननु स्वाभाविकी निरवयवता बुद्ध्या­द्यु­पा­धि­नि­मित्तं सांशत्वमिति नोक्तदोष इति चेद्, एवमपि वास्तवभेदो न सिध्येत् । न हि निरवयवमाकाशं खड्ग­धा­रा­दि­भि­र्व­स्तुतो भेत्तुं शक्यम् । अथाऽ­न्तः­क­र­णो­पा­धीनां वस्तुतो ब्रह्म­वि­दा­र­ण­सा­म­र्थ्य­मस्ति तर्हि ब्रह्म स्वस्याऽनर्थाय कथमुपाधीन् सृजेत् । न च जीवार्था तत्सृष्टिः, तत्सृष्टेः प्राग् जीव­वि­भा­गा­सिद्धेः । न च कर्मा­वि­द्या­सं­स्कारा अन्तः­क­र­णो­त्पत्तेः प्राग्विद्यमाना अपि जीवं विभजन्ते, अन्तः­क­र­ण­द्र­व्य­स्यैव जीवो­पा­धि­त्वा­ङ्गी­का­रात् । ननु नील­पी­ता­दि­व­द्भेदः स्वाभाविको द्रव्य­त्वा­दि­जा­ति­नि­ब­न्ध­न­श्चाऽ­भेद इति चेत्, तर्हि “अयमात्मा ब्रह्म” इति सामानाधिकरण्यं न स्यात्, नीलं पीतमिति सामा­ना­धि­क­र­ण्या­भा­वात् । अथ न निष्पन्नो भेदो नाऽप्यनादिः किन्तू­पा­धि­नि­ब­न्धनः केवलं ब्रह्मणि प्रकाशते । स तर्ह्य­त­स्मिं­स्त­दा­रोपो विभ्रम एव स्यात् । प्रामाणिकस्य भेदस्य कथं विभ्रमत्वमिति चेद्, न; जीवब्रह्मभेदे प्रत्य­क्षा­दी­ना­म­प्र­स­रात् । आगमस्तु न भेदं प्रतिपादयति प्रत्युत “एष त आत्माऽ­न्त­र्या­म्य­मृत” इत्यभेदं प्रतिपाद्य “नान्योऽतोऽस्ति द्रष्टा” इति भेदं प्रतिषेधति । न च संसा­रि­त्वा­सं­सा­रि­त्व­व्य­व­स्था­नु­प­प­त्ति­र्भेदे मानम्, अभे­द­स्याऽ­प्य­ङ्गी­कृ­त­त्वेऽ­नाऽ­व्य­व­स्था­ता­द­व­स्थ्यात् । न ह्याकाशं घटेनाऽवच्छिद्य तद­न्त­र्धू­मा­दि­स­मा­वेशे सत्याकाशस्य धूमादिसंयोगः परिहर्तुं शक्यते, घटा­व­च्छि­न्न­भा­ग­स­हि­त­स्यै­वाऽऽ­का­श­त्वात् । अथाऽपि भेदांशमुपजीव्य व्यवस्थोच्येत तर्ह्य­स्म­न्म­तेऽपि ब्रह्म­ण्य­वि­द्या­दि­सं­स­र्गा­सं­स­र्गाभ्यां व्यवस्था किं न स्यात् । एकस्मिन्नेव वस्तुनि संसर्गस्य भावाभावौ विरुद्धाविति चेद्, न; भेदस्य भावाभावयोरेकत्र त्वयाऽ­भ्यु­प­ग­मात् । अभेदो नाम न भेदाभावः, किन्त्वै­क्याख्यं धर्मान्तरमिति चेत्, तथापि भेदाभेदौ विरुद्धावेव पर­स्प­र­नि­व­र्त­क­त्वात् । “अहं मनुष्यः” इति प्रतीतं देहात्मैक्यं “नाऽहं मनुष्योऽपि तु ब्रह्मास्मि” इत्यनेन देहात्मभेदभानेन निवर्तते । तथा द्वौ चन्द्राविति प्रतीतो भेद­श्च­न्द्रै­क्य­ज्ञा­नेन निवर्तते । अतो विरोधभीतस्त्वं कथं भेदा­भे­दा­व­ङ्गी­कु­र्वीथाः । तदङ्गीकारे वा ब्रह्म­ण्य­वि­द्या­सं­स­र्गेण तयो­र्बि­म्ब­प्र­ति­बि­म्ब­दृ­ष्टा­न्ते­नो­प­पा­द­यितुं सुशकयोः कस्तव प्रद्वेषः । न चांशभूते जीवे संसारिणि सत्यंशिनो ब्रह्मणस्तदभावे तवाऽस्ति कश्चिद् दृष्टान्तः । न हि वस्त्रैकदेशे देहैकदेशे वा चण्डा­ल­सू­ति­का­दि­भि­रु­प­स्पृष्टे कृत्स्नौ वस्त्र­दे­हा­व­प्र­क्षा­ल­नीयौ भवतः । अतो न त्वन्मते ब्रह्म­णोऽ­सं­सा­रित्वं प्रत्युत सर्वजीवैः सर्वप्रपञ्चेन चाऽभिन्नतया सर्वं दोषजातं स्वात्मन्येव ब्रह्म पश्येत् । तथा च तादृ­श­ब्र­ह्म­प्रा­प्ते­र­पु­रु­षा­र्थ­तया शास्त्रा­र­म्भा­दि­क­म­नु­प­पन्नं स्यात् । न हि ज्ञान­ध्या­ना­दिभिः स्वोपाधौ कथ­ञ्चि­त्प्र­वि­ला­पि­तेऽ­प्य­शे­ष­जी­वो­पा­धयः प्रविलापयितुं शक्यन्ते येन ब्रह्मणि सर्वो दोषः परिह्रियेत । अस्मन्मते तु ब्रह्मणि न कश्चिद्दोषः, प्रति­बि­म्ब­श्या­म­त्वा­दीनां बिम्ब­स­म्ब­न्धा­द­र्श­नात् । तत्त्वज्ञानेन सर्वो­पा­धि­वि­नि­र्मो­क्ष­श्चो­प­प­द्यते । स्वप्न­क­ल्पि­त­व­स्तूनां सर्वेषामपि प्रबोधे निवृ­त्ति­द­र्श­नात् । शुक­वा­म­दे­वा­दि­त­त्त्व­ज्ञा­नेन सर्वो­पा­धि­नि­वृ­त्ता­वि­दानीं संसारानुपलब्धिः प्रसज्येतेति चेद्, न; त्वत्पक्षेऽपि समानत्वात् । एकैकस्य जीव­स्यै­कै­क­स्मिन् कल्पे मुक्ता­व­प्य­न­न्त­जी­वा­ना­म­ती­ता­न­न्त­क­ल्पेषु मुक्तौ कथं संसार उपलभ्येत । अनु­भ­व­म­व­ल­म्ब्ये­दा­नी­न्त­न­सं­सा­र­स­मा­धा­न­मु­भयोः समानम् । उप­प­त्ति­स्त्वे­का­त्म­वा­दि­भि­र­स्मा­भि­रेव कथञ्चिद्वक्तुं शक्यते । तथा हि – यस्त्वं मां प्रति बन्ध­मो­क्ष­व्य­वस्थां पृच्छसि स त्वमेक एव सर्व­क­ल्प­ना­धि­ष्ठा­न­भू­त­श्चि­दे­क­रस आत्मा त्वदन्ये मुक्ता मुच्यमाना मोक्ष्यमाणाश्च सर्वे जीवा­स्त्व­द­वि­द्यया स्वप्ने इव कल्पिताः । वाम­दे­वा­दि­मु­क्ति­श्रु­तिश्च त्वत्प्ररोचनाय ब्रह्म­वि­द्या­प्र­शं­सार्था । एवं च सति कस्य बन्ध­मो­क्षा­वि­त्येष सन्देहस्तव तावत् संसारदशायां मोक्षदशायां वा न जायते । एवं प्रत्येकं तत्त­त्पु­रु­ष­दृष्ट्या स स एवाऽऽत्मेति गुरु­शा­स्त्राभ्यां बोधिते सति न कस्याऽपि सन्देह उदेतीति किम­त्राऽ­नु­प­प­न्नम् । अतोऽ­ख­ण्डै­क­र­सा­त्म­वा­देऽ­नु­प­प­त्त्य­भा­वात् तत्तत्परेण शास्त्रे­णाऽऽ­त्म­तत्त्वे बोधिते सद्य एवाऽ­वि­द्या­त­त्का­र्ययोः स्वप्नवत् प्रविलीनयोः सतोरद्वितीये ब्रह्मणि सम्प­दा­दि­रू­पे­णो­पा­स्ति­क्रि­यायाः कोऽवसरः । अत एव श्रुतिर्ब्रह्मण उपास्यत्वं निषेधति - “यन्मनसा न मुनते येनाहुर्मनो मतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” इति । न च वेद्य­त्व­व­दु­पा­स्य­त्व­मपि स्यादिति मन्तव्यम्, "अन्यदेव तद्विदितादथो अविदितादधि” इति श्रुत्या वेद्यत्वस्याऽपि निषेधात् । अवे­द्य­त्वेऽ­प्य­ख­ण्डै­क­र­स­ब्र­ह्मा­का­रा­न्तः­क­र­ण­वृत्त्या चैत­न्या­भि­व्य­क्ति­यु­क्तया शास्त्रजन्यया विद्य­याऽ­वि­द्या­त­त्क­र्य­नि­वृ­त्ते­र्ब्र­ह्मणः शास्त्र­वे­द्य­त्व­मु­प­च­र्यते । एतां वृत्तिं प्रति सन्नि­धि­मा­त्रे­णाऽ­ख­ण्डै­क­र­स­त्व­ल­क्ष­ण­स्वा­का­र­स­म­र्प­क­तया स्वस्वा­का­र­स­म­र्प­क­घ­टा­दि­व­द्वृ­त्ति­व्या­प्य­त्व­ल­क्षणं विषयत्वं ब्रह्म­णोऽ­भि­प्रेत्य “मन­सै­वा­नु­द्र­ष्ट­व्यम्”, “एषोऽणुरात्मा वेदितव्यः”, "तं त्वौपनिषदं पुरुषम्" इत्याद्याः श्रुतयः प्रवृत्ताः । जडेषु घटादिष्विव प्रमा­ण­कृ­त­स्फु­र­णा­ति­श­यस्य स्वप्रकाशे ब्रह्म­ण्य­स­म्भ­वात् फल­व्या­प्य­त्वा­भा­व­ल­क्ष­ण­म­वि­ष­यत्वं च “यतो वाचो निवर्तन्ते” इत्याद्याः श्रुतयः प्रत्यपीपदन् । न चाऽत्राऽत्यन्तं फलाभावः, अन्तः­क­र­ण­वृ­त्त्य­भि­व्य­क्त­त्वो­पा­धिना ब्रह्म­चै­त­न्य­स्यैव फलत्वोपचारात् । घटा­दि­ष्व­प्य­स्यैव फलत्वव्यवहारात् । तदुक्तम् –
“परा­ग­र्थ­प्र­मे­येषु या फलत्वेन सम्मता ।
संवित् सैवेह मेयोऽर्थो वेदा­न्तो­क्ति­प्र­मा­णतः ॥” इति ।
अतो ब्रह्म­चै­त­न्य­मु­पा­न्त्य­क्ष­णेऽ­व­च्छि­न्न­तया फलावस्थं भूत्वा चरमक्षणे स्वावच्छेदिकां वृत्तिं निवर्तयति । तत उप­र्य­व­च्छे­द­का­भा­वात् फलावस्थतां परित्यज्य निर्वि­क­ल्प­क­चै­त­न्य­मात्रं मोक्षदशायां परिशिष्यते । एवं च सति नित्यमुक्तं ब्रह्मैव स्वावि­द्या­दि­प्र­ति­बि­म्बितं सज्जी­व­भा­व­मा­पाद्य संसरति स्वविद्यया च विमुच्यत इत्युक्तं भवति ।

नन्वेवं जीवस्यैव ब्रह्मत्वे “तत्त्वमसि” आदिमहावाक्येषु पदद्वयस्य पुनरुक्तिः स्यात्, तत्परिहाराय भेदा­भे­दा­व­भ्यु­पे­या­विति चेद्, न; तथा सति वाक्या­र्थ­ज्ञा­नेन शरी­रे­न्द्रि­या­दि­सं­सा­रस्य निवृ­त्त्य­सिद्धेः । तथाहि – किमु­प­प­त्ति­त­स्त­न्नि­वृत्तिः साध्यते ? उत “भिद्यते हृदयग्रन्थिः” इत्याद्यागमात् ? नाऽऽद्यः, त्वन्मते देहा­दि­वि­शि­ष्ट­स्यैव जीवस्य ब्रह्मणा सह भेदा­भे­द­यो­र्वा­स्त­व­यो­र्म­हा­वा­क्या­र्थ­तया तद्गोचरज्ञानेन देहा­दि­नि­वृ­त्त्य­यो­गात् । न द्वितीयः, वर्तमानापदेशिन आगमस्य योग्या­नु­प­ल­ब्धि­वि­रो­धेऽ­र्थ­वा­द­त्वात् । अथ मोक्षदशायां देहा­दि­नि­वृ­त्ता­वा­ग­मस्य तात्पर्यं तथापि यदि मोक्षदशायां जीवस्य भेदांशो न निवर्तेत तदा तन्निर्वाहाय देहे­न्द्रि­या­न्तः­क­र­णा­द्यु­पा­धि­र­प्य­भ्यु­पेयः । ततो न संसाराद्विशेषः । यदि च भेदां­श­नि­वृत्तिः, तदापि न तत्त्व­ज्ञा­ना­त्त­न्नि­वृत्तिः, तस्य स्ववि­ष­या­नि­व­र्त­क­त्वात् । त्वन्मते भेदस्याऽपि तत्त्व­ज्ञा­न­वि­ष­य­त्वात् । नाऽपि कर्म­भि­स्त­न्नि­वृत्तिः; आगमविरोधात् । आगमस्य सार्व­का­लि­क­भे­दा­भे­द­प्र­ति­पा­द­क­त्वा­ङ्गी­का­रात् । न च भेदाभेदवादे तत्त्वंपदार्थौ सुनिरूपौ, तत्र कोऽसौ त्वंपदार्थो जीवः ? किं भेदा­भे­दा­भ्या­मं­श­भ्या­मंशी किं वांशद्वयसमुदाय उतांशद्वयमेव ? आद्येऽपि यद्यभेदांशो ब्रह्म तदा ब्रह्मणो जीवांशत्वं जीवस्य च साव­य­व­त्व­मा­प­द्येत । अथाऽभेदांशो न ब्रह्म तर्ह्यत्यन्तभेद एव स्यात् । न द्वितीयः; जीव­स्याऽ­व­स्तु­त्व­प्र­स­ङ्गत् । समु­दा­यि­व्य­ति­रि­क्त­स­मु­दा­या­नि­रू­प­णात् । तृतीयेऽपि किमभेदांश एव जीवः किं वा भेदांश एव उतांशद्वयं प्रत्येकम् अथवांशद्वयं परस्परमभिन्नम् आहो­स्वि­त्प­र­स्प­र­मपि भिन्नाभिन्नम् ? नाऽऽद्यः, ब्रह्मण एव जीव­त्व­प्र­स­ङ्गात् । न द्वितीयः, अत्य­न्त­भे­द­प्र­स­ङ्गात् । तथा च तत्त्वज्ञानेन मोक्षा­दि­व्य­व­हा­रा­सिद्धिः । न तृतीयः, जीव­द्व­य­प्र­स­ङ्गात् । न चतुर्थः, तदा ब्रह्मैव जीव इति बन्ध­मो­क्ष­व्य­व­हा­रा­सिद्धेः । न पञ्चमः, भेदा­भे­दा­न­व­स्था­प्र­स­ङ्गात् । कस्य चाऽयं शास्त्रोपदेशः । न ताव­द­भे­दां­श­स्यो­प­देशः, ब्रह्मस्वरूपतया तस्यो­प­दे­शा­न­पे­क्ष­त्वात् । नाऽपि भेदांशस्योपदेशः । “अहं ब्रह्मास्मि” इति प्रति­प­त्त्य­यो­गात् । मोक्षा­व­स्था­या­म­भि­न्न­तया युज्यते सा प्रतिपत्तिरिति चेद्, न भेदांशस्य पुनरभेदः सम्भवति, विरोधात् । अवि­द्या­दि­दो­षोऽपि न तावदभेदांशस्य युक्तः, ब्रह्मण्येव प्रसङ्गात् । नाऽपि भेदांशस्य, उपाधिजननात् प्राग्भेदाभावत् । अथो­पा­धि­म­न­पेक्ष्य स्वत एव भिन्नोंऽशोंऽशी वा जीवस्तथापि तदंशविनाशे जीवविनाशात् कस्य मोक्ष उपदिश्येत, अभेदांशस्य ब्रह्मणो नित्य­मु­क्त­त्वात् । मोक्षोऽपि भिन्ना­भि­न्न­श्चेत् तर्हि “ब्रह्म वेद ब्रह्मैव भवति” इत्येवकारविरोधः संसारादविशेषश्च स्यात् । न च स्वर्ग­न­र­क­ब­न्ध­मो­क्षा­दि­व्य­व­स्था­सि­द्धये भेदा­भे­दा­व­पे­क्षितौ, भेदेनैव कथ­ञ्चि­त्त­त्सिद्धेः । न च तावेकत्र युक्तौ । भेदस्य धर्मि­प्र­ति­यो­गि­स­पे­क्ष­त्वा­द­भिन्ने चैकस्मिन् वस्तुनि तदयोगात् । शास्त्रं पुन­र्ना­न्योऽ­तोऽस्ति द्रष्टा इति भेदोपमर्देनैष त आत्मेत्यभेदमेव प्रतिपादयति, न तु भेदाभेदौ । अथ जीवब्रह्मणोः स्वभावाद्भेदः स त्वद्र­व्य­त्वा­दि­सा­मा­न्य­मेव दर्शयति । सर्वव्यापी सर्व­भू­ता­न्त­रा­त्मेति विका­र­सं­स्प­र्श­प­रि­हा­रा­यैवं कल्प्यत, इति चेद्, न; विका­रा­न्त­र्व­र्ति­त्वेऽ­प्य­स­ङ्ग­स्व­भा­व­तया तत्सं­स्प­र्शा­भा­वात् । अन्यथा मध्य­म­प­रि­मा­ण­त्वेन साव­य­व­त्व­प्र­स­ङ्गात् ।

“ब्रह्म­वि­दा­प्नोति परम्” इत्या­दि­प्रा­प्ति­श्रु­ति­ब­लाद् ब्रह्मणो दूर­दे­श­व­र्ति­त्व­मिति चेत्, काऽसौ प्राप्तिः । न तावद् ब्रह्मभावः, दूषितत्वात् । नाऽपि जीव­ब्र­ह्म­भ्या­मा­र­भ्य­माणं द्रव्यान्तरम्, मोक्षस्य विना­शि­त्व­प्र­स­ङ्गात् । मोक्षस्य नित्यत्वाद् ब्रह्मणः सर्व­ग­त­त्वा­ङ्गी­कारे सावयवत्वायोगाद् द्रव्या­न्त­रा­र­म्भ­क­त्व­मेव न स्यात् । जीवब्रह्मणोः सम्बन्धः प्राप्तिरिति चेद्, मैवम्; न तावत् तादात्म्यम्, अणु­म­ह­तो­र्वि­रु­द्ध­यो­स्त­द­यो­गात् । नाऽपि समवायादिः, भिन्नद्रव्ययोः संयो­गा­ति­रि­क्त­स­म्ब­न्धा­भा­वात् । संयोगस्य च विप्र­यो­गा­व­सा­न­तया पुन­रा­वृ­त्ति­प्राप्तेः । शास्त्र­ब­ला­द­पु­न­रा­वृ­त्ति­रिति चेत्, तर्हि “स स्वराड् भवति” इति ब्रह्म­प्रा­प्त्य­न­न्तरं स्वरा­ड्भा­व­प्रा­प्ति­श्र­व­णा­द­ने­के­श्वराः प्रसज्येरन् । तस्माद् ब्रह्म­प्रा­प्ति­श्रु­ति­र­वि­द्या­नि­वृत्तौ जीवस्य स्वरू­प­भू­त­ब्र­ह्मा­भि­व्य­क्ति­वि­षया ।

कथं तर्हि “तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति” इति मूर्धन्यया नाड्या गमनं मोक्षाय श्रूयत इति चेद्, मैवम्; नाऽमृतत्वं नाम मोक्षः, किन्तूत्तमलोके चिरकालावस्थानम् । “अाभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते” इति स्मृतेः । अन्यथा मूर्धन्यनाड्या निर्गच्छतां प्रती­को­पा­स­का­ना­मपि मोक्षप्रसङ्गात् । न चैतदिष्टम्, तेषा­मा­वि­द्यु­ल्लो­क­मेव गम­न­मि­त्ये­क­स्मि­न्न­धि­क­रणे निर्णीतत्वात् । अथाऽपि “स एव तान् ब्रह्म गमयति” इति श्रुत्या कश्चिदमानवः पुरुषः सम्मुखमागत्य ब्रह्मोपासकान् गृहीत्वा विद्यु­ल्लो­का­दु­प­रि­त­नान् वरु­णे­न्द्र­प्र­जा­प­ति­लो­का­न­ति­क्रम्य ब्रह्म प्रापयतीत्येवं गमनमेव मोक्षाय प्रतीयत इति चेद्, न; तस्य गमनस्य कार्य­ब्र­ह्म­वि­ष­य­त्वात् । न च बृह­त्य­र्था­नु­ग­मात् परमेव ब्रह्माऽत्र ग्राह्यमिति शङ्कनीयम्, ब्रह्मशब्दस्य कार्यब्रह्मणि रूढत्वात् । रूढिश्च योग­वृ­त्ते­र्ब­ली­यसी, शीघ्र­प्र­ति­प­त्ति­हे­तु­त्वात् । परब्रह्मण्यपि रूढिरस्तीति चेत्, तथापि श्रुत्यन्तरे समानप्रकरणे “ब्रह्म लोकान् गमयति” इति भोग­भू­मि­वि­शे­ष­वा­चि­लो­क­श­ब्द­श्र­व­णा­द­न्या­स्वपि शाखासु तटा­का­श्व­त्थ­रा­ज­गृ­ह­द्वा­र­पा­ल­वे­श्म­स­भा­प­र्य­ङ्का­दीनां भोग्यवस्तूनां प्रतीयमानत्वात् कार्य­ब्र­ह्मै­वेति निश्चीयते । किञ्चाऽ­र्चि­रा­दि­मा­र्गेण गच्छतां निर्गु­ण­ब्र­ह्म­प्रा­प्ति­श्चे­त्तर्हि पञ्चा­ग्नि­वि­द्या­वतां गृहस्थानामपि सा स्यात् । न च “स एतान् ब्रह्म गमयति” इत्येतच्छब्दः पञ्चा­ग्नि­वि­द्व्य­ति­रि­क्तान् परमृशतीति युक्तं वक्तुम्, पञ्चा­ग्नि­वि­दा­मेव प्राधान्येन प्रकृतत्वात् तेषा­म­नि­र्दि­ष्ट­फ­ल­त्व­प्र­स­ङ्गात् । किञ्च, ब्रह्मोपासनानां सर्वेषामपि यद्येकरूपं फलं तदा गुणो­प­च­या­प­च­या­भ्या­मु­पा­स­नो­प­च­या­प­चयौ व्यर्थौ स्याताम् । तथा च कर्मभूयस्त्वात् फलभूयस्त्वमिति न्यायविरोधः । अथो­प­च­या­प­च­य­व­त्त­त्फलं तर्हि न विका­रा­सं­स्प­र्शि­ब्र­ह्म­प्राप्तिः, तत्र तदभावात् । किञ्च, वैश्वा­न­रो­पा­स­न­फलं त्रैलो­क्य­श­री­रा­प­त्ति­र्य­दी­ष्यते तदा विका­रा­सं­सृ­ष्टे­र्ब्र­ह्मणि कथं तदुपपद्येत । अथ नेष्यते, तदा “तं यथा यथोपासते तदेव भवति” इति श्रुतिविरोधः स्यात् । किञ्च पित्रा­दि­स­ङ्क­ल्पै­र्वि­का­रा­सं­सृष्टे ब्रह्मण्युपभोगो न स्यात् चेत्, पित्रा­दि­स­ङ्क­ल्प­श्रु­ति­वि­रोधः ।

स्याच्चे­द्वि­क­रा­वर्ति ब्रह्म पित्रादियुक्तं स्यात् । किञ्च, विका­रा­व­र्ति­ब्र­ह्म­प्रा­प्तोऽपि “ब्रह्मैवैति मनसैतान् कामान् पश्यन् रमते तेन पितृलोकेन सम्पन्नो महीयते” इत्यादिश्रुतौ ब्रह्मण एव भोगः साधनैर्दर्शितः स्यात् । तथा चाऽऽप्तकामता विरुध्येत । स्वार्थ­प्र­युक्ता च सृष्टिः स्यात् । अथोच्येत न पित्रा­दि­स­ङ्क­ल्पै­र्ब्र­ह्मणि भोगोऽभिधीयते, किन्तु ब्रह्मानन्दे निखि­ल­वि­ष­या­न­न्दा­न्त­र्भा­वा­दै­श्व­र्य­वि­शेष उपचर्यत इति, तन्न; बह्वीनां श्रुती­ना­मु­प­चा­र­क­ल्प­ना­यो­गात् । तन्नि­र्णा­य­क­च­तु­र्था­ध्या­य­च­तु­र्थ­प­द­वै­फ­ल्य­प्र­स­ङ्गाच्च । किञ्च, विका­रा­व­र्ति­ब्र­ह्म­प्रा­प्तस्य लिङ्गशरीरमस्ति चेत्, कला­प्र­ल­य­श्रु­ति­र्बा­ध्येत । नाऽस्ति चेद्, “मनसैतान्” इति श्रुतिर्बाध्येत । किञ्च, तस्य लिङ्ग­श­री­र­वि­ल­य­नि­मित्तं विद्यैव चेत्, तर्ह्यु­त्क्रा­न्ति­काले विलयः स्यात् । लिङ्ग­श­री­रा­र­म्भ­क­क­र्मणः क्षीणत्वात् । अमा­न­व­पु­रु­ष­क­र­सं­स्प­र्श­श्चेत्, तदापि विद्युल्लोके स्यात् । उभयथाऽपि न ब्रह्मा­ण्डा­दु­परि लिङ्गशरीरविलयः । किञ्चौ­पा­धि­क­जी­व­पक्षे जीवस्य न विका­रा­व­र्ति­ब्र­ह्म­ग­मनं सम्भवति । निर­व­य­वा­व­च्छे­दस्य घटा­क­श­स्ये­वो­द्धृ­त्याऽऽ­न­य­ना­यो­गात् । उद्धरणे च ब्रह्मशून्योऽयं प्रदेशः स्यात् । उपरिष्टाच्च ब्रह्मोपचयः प्राप्नुयात् । तस्मात् उपा­धि­ग­म­ना­दा­त्मनि गमनविभ्रमः । ननूपाधेरपि गमनं न सम्भवति, तदुपादानस्य ब्रह्म­ण­श्च­ल­न­शू­न्य­त्वात् । न हि मृदि निश्चलायां घटस्य गमनमस्तीति चेद्, एवं तर्हि स्वाप्नगमनवत् मायाविजृम्भितो गमनादिप्रतिभासः । तदेवमाप्तिरपि क्रियापूर्विका परब्रह्मणि नोपपद्यत इति सिद्धम् ।

संस्कृ­ति­प­क्षेऽपि न तावद् ब्रह्मणि गुणाधानलक्षणः संस्कारः सम्भवति, अना­धे­या­ति­श­य­रू­प­त्वात् । नाऽपि दोषापनयनलक्षणः, नित्य­शु­द्ध­स्व­भावे दोषाभावात् । अथ मन्यसे निर्म­ल­स्व­भा­वेऽपि दर्प­णेऽ­न्य­स­म्प­र्क­कृ­त­म­ल­स्याऽ­प­न­यनं यथा निघर्षणक्रियया भवति, तथाऽऽ­त्म­न्य­प्य­वि­द्या­कृ­त­दो­ष­स्याऽ­प­न­यनं क्रिय­याऽ­स्त्विति; तत्र वक्तव्यम् – किमात्माश्रितया क्रियया दोषापनयः किं वाऽन्याश्रितया ? नाऽऽद्यः, स्वर्गगते निरवयव आत्मनि क्रियानुपपत्तेः । न द्वितीयः, प्रत्य­गा­त्म­नोऽ­न्य­द्रव्यैः संयोगाभावेन तात्त­दा­श्रि­त­क्रियां प्रत्य­वि­ष­य­त्वात् । अथाऽऽत्मनि परि­स्प­न्द­प­रि­णा­म­यो­र­भा­वेऽपि मन्त्र­दे­व­ता­भि­धा­ना­द्वि­ष­नि­रा­स­व­दी­श्व­रा­भि­धा­ना­द्दो­षा­प­नयः स्यादिति चेद्, न; तस्य दोषस्य पारमार्थिकत्वे स्वाश्र­य­वि­का­र­म­न्त­रे­णाऽ­प­सा­र­णा­यो­गात् । न चाऽऽत्मनो विकारः सम्भवति, “अवि­का­र्योऽ­य­मु­च्यते” इति स्मृतेः । दोष­स्याऽ­वि­द्या­त्म­कत्वे विद्ययैव निवृत्तिः स्यान्न तु क्रियया । ननु शास्त्रीयैः स्नाना­च­म­ना­दि­क­र्म­भि­रा­त्मनो गुणाधानलक्षणः संस्कारः श्रूयत इति चेद्, अन्तः­क­र­ण­वि­शि­ष्ट­स्यै­वाऽऽ­त्म­न­स्त­च्छ्र­व­णात् । न हि निरु­पा­धि­क­स्याऽऽ­त्मनो धर्मा­ध­र्मा­न­नु­ति­ष्ठ­त­स्त­त्फलं सम्भवति । तस्मान्न संस्कृ­ति­र­प्या­त्मनि सम्भवति । तत­श्चो­त्प­त्त्या­दि­च­तु­र्वि­ध­फ­लस्य मोक्षे दुःसम्पादत्वात् तद­ति­रे­के­णाऽ­न्यस्य क्रिया­फ­ल­स्याऽ­भा­वाच्च विज्ञानस्यैव मोक्षो गोचरो न क्रिययाः । ननु ज्ञानमपि ध्यानवत् मानसक्रियेति चेद्, न; फलतः कारणतश्च ज्ञान­क्रि­य­यो­र्वै­ल­क्ष­ण्यात् । वस्तुस्फुरणं हि ज्ञानफलं तच्चाऽऽ­त्म­स्व­रू­प­त्वा­द­ज­न्यम् । तज्ज­न्म­प्र­ति­भा­सस्तु तद­भि­व्य­ञ्ज­का­न्तः­क­र­ण­वृ­त्ति­ज­न्मो­पा­धिकः । न चैवं ध्यान­क्रि­या­फ­ल­म­ज­न्यम्, गरु­ड­दे­व­ता­दि­ध्या­ना­द्वि­ष­नि­र्ह­र­ण­व­श्या­क­र्ष­णा­दि­फ­लस्य पूर्व­म­वि­द्य­मा­न­स्यैव जन्मदर्शनात् । कारणं च ध्यान­क्रि­या­या­श्चो­द­ना­ज­न्य­पु­रु­षे­च्छा­पू­र्वकः प्रयत्नो न विषयसद्भावः, असत्यपि विषये विधितो योषि­द­ग्न्या­दि­ध्या­न­द­र्श­नात् । ज्ञानं तु प्रमा­ण­प्र­मे­य­जन्यं न पुरु­षे­च्छा­म­नु­व­र्तते, अनिच्छतोऽपि दुर्ग­न्धा­दि­ज्ञा­न­द­र्श­नात् । यद्य­प्य­नु­मा­न­श­ब्दा­दिषु ज्ञानस्य न प्रमे­य­ज­न्य­त्व­नि­यमः, अती­ता­ना­ग­त­व­स्तु­ज्ञा­नेषु तदसम्भवात्, तथापि लिङ्ग­श­ब्दा­दि­त­न्त्र­मेव तत्राऽपि ज्ञानम्, न पुरु­षे­च्छा­त­न्त्र­मिति क्रियातो विलक्षणमेव ।

ननु संयो­ग­वि­भा­ग­प­र­म्प­रा­व्य­ति­रे­केण क्रियैव नाऽस्ति, यतो वैलक्षण्यं ज्ञान­स्यो­प­पा­द्येत । सर्वत्र संयो­ग­वि­भा­ग­प­र­म्प­रा­वति हि श्येनादौ चलतीति प्रत्ययो जायते । न चैवं स्थाणावपि श्येन­सं­यो­ग­वि­भा­ग­वति चलनप्रत्ययः प्रसज्येतेति वाच्यम्, आका­श­प्र­दे­श­वि­शे­ष­सं­यो­ग­वि­भागं प्रत्येव तदङ्गीकारात् । न हि स्थाणु­रा­का­श­प्र­दे­श­वि­शेषैः संयुज्यते विभज्यते वा । तस्मा­द­ति­प्र­स­ङ्गा­भा­वा­न्नाऽस्ति संयो­ग­वि­भा­ग­प्र­च­या­ति­रे­किणी क्रियेति चेद्, मैवम्; बहु­ला­न्ध­का­रा­वृते नभस्यप्रतीयमाने तत्प्र­दे­श­वि­शे­ष­सं­यो­ग­वि­भा­गा­ना­म­प्य­प्र­तीतौ खद्योतो चलतीति प्रत्य­य­स­द्भा­वात् । तस्मात् संयो­गा­द्य­ति­रिक्ता क्रिया प्रत्यक्षसिद्धा । प्राभाकरस्तु क्रियाया नित्यानुमेयतां मन्वान इत्थं प्रयुङ्क्ते – “विम­ता­वा­द्य­सं­यो­ग­वि­भागौ, स्वाश्र­य­ग­ते­नाऽ­व्य­व­हि­त­पू­र्व­क्ष­णो­त्प­न्ने­नाऽ­ति­श­येन जन्यौ, व्यव­स्थि­त­द्रव्ये कादा­चि­त्क­त्वात्, संयो­ग­वि­भा­ग­ज­न्य­का­र्य­वत्” इति । तत्र योऽसावतिशयः स एव क्रिया भविष्यति । ईश्वरेच्छया सिद्धसाधनता मा भूदि­त्यु­त्प­न्ने­ने­त्यु­क्तम् । आत्म­म­नः­सं­यो­ग­ज­न्या­दृ­ष्ट­व्य­व­च्छे­दा­याऽ­व्य­व­हि­त­पू­र्व­क्ष­णेति । द्रव्येण सहोत्पन्ने शौक्ल्या­दा­व­नै­का­न्ति­क­त्व­व्य­व­च्छे­दाय व्यवस्थिते द्रव्ये इति । मैवम्; किमत्र सयो­गि­नो­र्द्व­यो­र­प्य­ति­शयः साध्यते किं वाऽन्य­त­र­स्मि­न्नेव उताऽ­वि­शे­षि­त­म­ति­श­य­मा­त्रम् ? नाऽऽद्यः, श्येन­स्था­णु­सं­यो­गा­दा­व­भा­वात्, तस्याऽ­न्य­त­र­क­र्म­ज­न्य­त्वात् । न द्वितीयः, उभयकर्मजन्ये मल्लमेषसंयोगादौ साध्यासम्भवात् । तृतीयेऽपि किमसौ क्रिया­ख्योऽ­ति­शयः स्थिरादेव द्रव्या­दु­त्प­द्यते उताऽ­ति­श­या­न्त­रात् ? आद्ये संयोगविभागयोरेव तस्माद् द्रव्या­दु­त्प­त्ति­रस्तु किमनेनाऽतिशयेन । द्विती­येऽ­न­व­स्था­पातः ।

अथ मतं भूमिपादयोः संयोगः पादाश्रितकर्मणा जायते । तच्च कर्म न कर्मान्तरेण जायते, किन्तु प्रय­त्न­व­दा­त्म­पा­द­सं­यो­गेन, ततो नाऽनवस्थेति, तर्हि प्रय­त्न­व­दा­त्म­पा­द­सं­यो­ग­स्यैव भूपा­द­सं­यो­गा­र­म्भ­क­त्व­मि­त्यपि वक्तुं शक्यतया न कर्म सिध्येत्, तस्मा­न्नाऽ­नु­मेया क्रिया किन्तु प्रत्यक्षैव । न च क्षणिकस्य कर्मणः कथ­मि­न्द्रि­य­सं­यो­ग­ज्ञा­न­ल­क्ष­ण­क्ष­ण­द्व­या­व­स्था­न­मिति वाच्यम्, शब्द­वि­द्यु­दा­दि­व­द­वि­रो­धात् । अतश्च प्रत्य­क्ष­सि­द्ध­क्रि­यातो वैलक्षण्यं ज्ञान­स्यो­प­प­न्नम् । नन्व­न्तः­क­र­ण­प­रि­णा­म­रू­प­त्वाद् ज्ञानमपि क्रियैव । सत्यम्, तथापि ध्यान­व­त्पु­रु­ष­त­न्त्र­त्वा­भा­वा­द्वि­धि­यो­ग्य­क्रि­यातो वैल­क्ष­ण्य­म­स्त्येव । यथा योषि­त्य­ग्नि­ध्यानं विधि­ज­न्य­पु­रु­षे­च्छा­व­शात् कर्तु­म­क­र्तु­म­न्यथा वा कर्तुं शक्यम्, न तथा प्रसि­द्धेऽ­ग्ना­व­ग्नि­ज्ञानं विधातुं पुरु­षे­च्छ­याऽ­नु­ष्ठातुं वा शक्यम् । सत्यामपीच्छायां मनःसहकृतस्य चक्षुषः स्पर्श­ने­न्द्रि­यस्य वाऽग्नि­सं­यो­ग­म­न्त­रेण तज्ज्ञा­ना­नु­द­यात् । सति तु तत्संयोगे विनाऽपीच्छां ज्ञानोदयात् । अन्यथाकरणं तु दूरापास्तम् । न हि पुरो­व­स्थि­तोऽ­ग्नि­र्नि­पु­ण­त­रे­णाऽपि स्तम्भा­द्या­का­रे­णाऽ­व­गन्तुं शक्यते । कथं तर्हि रज्जौ सर्पज्ञानमिति चेत्, तस्य ज्ञानाभासत्वात् । न च सोऽप्याभासः पुरुषतन्त्रः अनिच्छतः कम्पमानस्याऽपि जायमानत्वात् । ननु लोकेऽमुमग्निं पश्येति केचनेद्विहिते सत्यन्योऽपि स्वेच्छया तदभिमुखो भूत्वा तं पश्यति असत्यां त्विच्छायां विमुखो भूत्वा चक्षुषी निमील्य वा न पश्यति तथा शास्त्र­व­शा­दा­ह­व­नी­या­द्य­ग्नीन् कर­णा­द्यु­पे­ता­न­व­लो­क­यति ।

अतः कथं पुरुषस्य ज्ञान­वि­ष­य­क­र­णाऽ­क­र­णाऽ­न्य­था­क­र­णेषु स्वात­न्त्र्या­भावः । उच्यते – अाभि­मु­ख्य­वै­मुख्ये दर्शनादर्शनयोः सामग्र्यौ । तत्र तत्स­म्पा­द­न­ल­क्ष­ण­क्रि­या­या­मेव पुरुषस्य स्वातन्त्र्यं न ज्ञानाज्ञानयोः । अतः पश्येत्युक्ते सामग्रीं सम्पा­द­ये­त्य­य­मर्थः सम्पद्यते । यदि ज्ञानं पुरु­ष­प्र­य­त्न­जन्यं स्यात् तदा धारा­वा­हि­क­द्वि­ती­य­तृ­ती­या­दि­ज्ञा­ना­ना­मु­त्प­त्तिर्न स्यात् । प्रथमज्ञानस्यैव प्रय­त्न­ना­न्त­री­य­क­त्वात् । न हि प्रय­त्न­ज­न्य­ग­म­ना­दि­क्रि­यायाः परम्परा सकृ­त्प्र­य­त्न­म­त्रा­दु­त्प­द्य­माना दृश्यते । अथ बाण­वि­मो­क­च­क्र­भ्र­म­णादौ प्रथ­म­प्र­य­त्ना­देव क्रियापरम्परा जायत इत्युच्येत, तन्न; तत्रो­त्त­रो­त्त­र­क्रि­याणां वेगा­ख्य­सं­स्का­र­ज­न्य­त्वात् । न च धारा­वा­हि­क­ज्ञा­नेषु तथा संस्कारोऽस्ति । न च प्रथ­म­ज्ञा­न­ज­न्य­सं­स्का­रा­दु­त्त­रो­त्त­र­ज्ञा­न­प­र­म्परा जायतामिति वाच्यम्; तथा सति स्मृति­त्व­प्र­स­ङ्गात् । स्मृतित्वे चेन्द्रि­य­सं­यो­गा­द्य­न­पे­क्ष­त्व­प्र­सङ्गः । तस्मात् द्विती­य­तृ­ती­या­दि­ज्ञ­नानां प्रमा­ण­त­न्त्र­त्वात् प्रथ­म­ज्ञा­न­स्याऽपि तथात्वे वक्तव्ये प्रय­त्ना­न्व­य­व्य­ति­रेकौ प्रमा­ण­सा­म­ग्री­स­म्पा­द­न­वि­ष­य­त­यो­प­प­द्येते । एवं स्मृतिज्ञानमपि संस्का­रो­द्बो­धा­धीनं न पुरु­ष­प्र­य­त्ना­धी­नम्, सदृ­श­द­र्श­ना­द­दृ­ष्ट­व­शाद्वा संस्कारोद्बोधे प्रय­त्न­म­न्त­रे­णाऽ­प्य­नि­ष्ट­वि­ष­य­स्मृ­ति­द­र्श­नात् । यदि क्वचित् स्मृतिविशेषे प्रयत्नापेक्षा दृश्येत तदाऽपि प्रयत्नेन चिन्ता­प­र­प­र्या­य­चि­त्तै­का­ग्र्य­मेव जायते, न तु स्मृतिः । तेन चैकाग्र्येण संस्कार उद्बोध्यते । तदुक्तम् – “सदृ­शा­दृ­ष्ट­चि­न्ताद्याः स्मृतिबीजस्य बोधकाः” इति ।

यत्तु शास्त्र­व­शा­दा­ह­व­नी­या­दीनां शरीरावलोकनम्, तन्नाऽस्ति क्वचि­दा­ह­व­नी­य­दे­व­ताया मूर्तिरिति योऽयं परोक्षः प्रत्ययो मूर्ति­वि­शे­ष­वि­षयः स न पुरुषतन्त्रः, विनैव प्रयत्नं मूर्ति­वि­शे­ष­वा­चि­श­ब्दै­रेव जायमानत्वात् । यच्च पुरो­व­र्त्य­ङ्गा­राणां तन्मू­र्ति­वि­शे­षा­का­रेण भावनं तन्न ज्ञानम्, अयथावस्तुत्वात् । न चाऽयथावस्तुत्वे कथं शास्त्री­य­त्व­मिति वाच्यम्, न हि शास्त्र­म­ङ्गा­राणां हस्त­पा­दा­दी­न­व­य­वान् प्रतिपादयति । तथा सति प्रत्य­क्ष­वि­रो­ध­प्र­स­ङ्गात्, किन्त­र्ह्य­य­था­व­स्तु­गो­च­रे­णाऽपि भावनेन फलविशेषः साध्य इति प्रतिपादयति । न चाऽसौ साध्यसाधनभावो मिथ्या ततो भाव­न­स्याऽ­य­था­व­स्तु­त्वेऽपि न शास्त्रस्य काचिद्धानिः । भावनस्य च पुरु­ष­त­न्त्र­त्व­म­स्मा­भि­र­भ्यु­पे­यत एव, तस्य ध्यान­क्रि­या­रू­प­त्वात् । ननु ध्यान­म­प्य­नु­भ­व­त­न्त्र­मेव धारा­वा­हि­क­स्मृ­ति­ज्ञा­न­रू­प­त्वा­दिति चेद्, न; अननुभूते स्मृत्ययोगात् । न हि योषि­दा­दे­र­ग्न्या­दि­रू­पत्वं किञ्चिदनुभूतम् । ननु “योषा वाव गौतमाग्निः” इत्या­ग­मा­त्त­द­नु­भव इति वाच्यम्, किमस्मादागमात् प्रमितिर्जायते किं वा विपर्ययानुभवः ? आद्ये योषि­द­ग्नि­त्व­प्र­मि­ति­प­रे­णाऽ­नेन वाक्येन ध्यानविधिर्न सिध्येत् । अथ विधि­प­र­मे­त­द्वाक्यं तदा न योषिदग्नित्वं प्रमीयते । उभयपरत्वे वाक्यभेदो विरु­द्ध­त्रि­क­द्व­या­प­त्तिश्च । योषि­द­ग्नि­त्व­प्र­मितौ प्रत्य­क्ष­वि­रो­धश्च । न द्वितीयः, दोष­र­हि­त­स्याऽऽ­ग­म­वा­क्यस्य विप­र्य­या­नु­भ­व­हे­तु­त्वा­यो­गात् । तस्मान्नैतेन वाक्येन प्रसि­द्ध­यो­र्यो­षि­द­ग्न्यो­स्त­दा­त्म्य­म­नु­भ­वितं शक्यम्, किं तर्हि यथा दर्श­पू­र्ण­मा­सा­दि­रू­पायाः शारीरक्रियायाः स्वर्गसाधनत्वं तद्वाक्यात् प्रमीयते तथाऽ­स्मा­द­पि­वा­क्यात् कस्या­श्चि­न्मा­न­स­क्रि­यायाः फलविशेषसाधनत्वं प्रमीयते तर्हि योषि­द­ग्नि­प­द­द्वयं व्यर्थं स्यादिति चेद्, न; क्रियाभाजो मनस आका­र­वि­शे­ष­स­म­र्प­क­त्वात् । यथा “गोकर्णाकरेण पाणिनाऽऽचामेत्” इत्यत्र गोशब्दः कर्णशब्दो वाऽऽचमनाङ्गस्य पाणेः स्वार्थ­स­दृ­शा­कारं केवलं समर्पयतो न तु प्रसिद्धमर्थं प्रतिपादयतः तथा योषि­द­ग्नि­श­ब्दा­वपि प्रसि­द्ध­स्वा­र्थ­म­स्पृ­श­न्ता­वेव तत्सदृशाकारं मनसो ध्यानाङ्गस्य किं न समर्पयेताम् ? न च योषि­द­ग्नि­ता­दा­त्म्य­स्याऽ­त्य­न्त­म­प्र­सि­द्ध­त्वात् तत्स­दृ­शा­का­र­स­म­र्प­ण­म­यु­क्त­मिति वाच्यम् । किं शब्द­स्याऽ­त्य­न्ता­वि­द्य­मा­ना­का­र­स­म­र्प­क­त्वा­भावः किं वा मन­स­स्त­दा­का­र­भा­क्त्वा­भावः ? उभयमपि वक्तुमशक्यम्, यतो नरस्य विषाणस्य चाऽत्य­न्ता­वि­द्य­मा­न­मेव सम्बन्धाकारं नरविषाणशब्दः सम­र्प­य­न्नु­प­ल­भ्यते मनश्च तमाकारं भजते । ततश्च श्रुति­स­म­र्पि­ता­का­र­वि­शि­ष्टाया मानसाक्रियायाः प्रवाहो ध्यानं न तु स्मृतिप्रवाहः । नन्व­वि­द्य­मा­न­वि­षये ध्यान­स्मृ­ति­प्र­वा­ह­यो­र­सा­ङ्क­र्येऽपि विद्यमानविषये चतु­र्भु­ज­धा­रि­वि­ष्ण्वादौ शास्त्रे­णाऽ­नु­भूते विधीयमानं ध्यानं न स्मृति­प्र­वा­हा­द्वि­शि­ष्यत इति चेद्, न; परो­क्ष­त्वे­नाऽ­नु­भू­ताया मूर्ते­र­प­रो­क्ष­शा­ल­ग्रा­म­प्र­ति­मा­दा­व­नु­स­न्धा­नस्य विहितस्य प्राग­नु­भू­त­ता­भा­वेन स्मृति­त्वा­यो­गात् । अप­रो­क्ष­त­याऽ­नु­भू­ते­ष्वपि वस्तुषु स्मृति­र्ध्या­ना­द्वि­शि­ष्यते । तद्यथा – बाल्ये पठित्वा वेदं चिरकालव्यवधाने सति पुनः पर्या­लो­च­य­न्ने­कै­क­स्मिन् वाक्ये चिरं चित्तैकाग्र्यं कृत्वा तत्तद्वाक्यं यथा­प­ठि­त­मे­वाऽ­व­ग­च्छति सैषा स्मृतिः । न चाऽत्र पुरुषः स्वतन्त्रः, प्रयत्नेन चित्तैकाग्र्ये सम्पादितेऽपि कस्मिंश्चिद् वाक्यविशेषे स्मृत्यनुदयात् । न च स्मर्यमाणमपि वाक्यमन्यथा स्मर्तुं शक्यम्, अवे­द­वा­क्य­त्व­प्र­स­ङ्गात् । नाऽपि स्वेच्छा­व­शा­द­स्मर्त्तुं शक्यम्; अनिच्छतो शौचावसरेऽपि कदा­चि­द्वे­द­वा­क्य­स्मृ­ते­र­नि­वा­र्य­त्वात् । अतः कर्तु­म­क­र्तु­म­न्यथा वा कर्तुमशक्या यथानुभूतं वस्त्व­वि­ल­ङ्घ­यन्ती तत्सं­स्का­रो­द्बो­ध­म­त्रा­धीना स्मृति­रि­त्यु­च्यते । ध्यानं त्वनु­भू­तेऽ­न­नु­भूते वा वस्तुनि विद्य­मा­ना­ना­म­वि­द्य­मा­नानां वा धर्माणां निरङ्कुशं कल्पनं यल्लोके मनोराज्यमिति प्रसिद्धम् । न च तत्र पुरुषः परतन्त्रः, स्वेच्छा­म­नोभ्यां विना साध­ना­न्त­राऽ­न­पे­क्ष­णात् । तर्ह्य­य­था­शा­स्त्र­मपि देवतादिध्यानं स्वेच्छानुसारेण प्रसज्येतेति चेत्, सत्यम्; तत्केन निवार्यते । न हि मनोराज्यं राजादिना शास्त्रेण वा निवारयितुं शक्यते, परन्तु शास्त्रो­क्त­ध्याने शास्त्रीयः फलविशेषो भवति नेतरत्र, अदृष्टे साध्य­सा­ध­न­स­म्बन्धे शास्त्रस्य नियामकत्वात् । न च शास्त्र­म­प्य­य­था­व­स्तु­गो­च­र­ध्या­नेन कथं फलविशेषं प्रतिपादयतीति वाच्यम्, न हि वयं शास्त्रं पर्यनुयोक्तुं प्रभवामः, शास्त्र­स्याऽ­चि­न्त्य­म­हि­म­त्वात् । अन्यथा क्वाऽऽहु­ति­प्र­क्षेपः क्व वा स्वर्गः काम­त्रो­प­प­त्ति­म­द्राक्षीः ? अथाऽपि श्रद्धाजाड्येन योषि­द­ग्न्या­त्मिकां काञ्चिद्देवतां परिकल्प्य तद्ध्यानस्य वस्तुविषयत्वं ब्रूषे तर्ह्यादित्यो यूपो यजमानः प्रस्तर इत्यादावपि तत्तद्रूपां देवतां प्रकल्प्य स्वार्थे प्रामाण्यं प्रसज्येत । प्रत्य­क्ष­वि­रो­धस्तु भवतोऽपि समानः । न चैव­मि­न्द्रा­दि­दे­व­त­ना­म­प्य­प­लापः, तत्प्र­ति­पा­द­क­म­न्त्रा­र्थ­वा­दानां माना­न्त­र­वि­रो­धा­भा­वात् । ननु सर्वेष्वपि वस्तु­ष्व­भि­मा­निन्यो देवताः सन्ति “मृदब्रवीत्”, “आपोऽब्रुवन्” इत्यादौ सूत्रकारेण तदङ्गीकारादिति चेत्, तर्ह्य­त्राऽ­प्य­ग्न्य­भि­म­निनी काचिद्देवता योषिदभिमानिनी चाऽपरेति देवताद्वयमस्तु । न च ते देवते अत्र ध्येये किन्तु योषि­द­ग्नि­ता­दा­त्म्यम् । न च तादा­त्म्य­स्या­व­स्त­व­स्या­भि­मा­निनी देवता सम्भवति, नर­वि­षा­णा­दा­व­ति­प्र­स­ङ्गात् । न च योषिदग्निनामिका काचिद्देवता स्यादिति मन्तव्यम्, नाममात्रत्वे योषिदवयवेषु यथा­यो­ग­म­ग्न्य­व­य­व­स­म्पा­द­न­वै­फ­ल्यात् । सम्पाद्यते हि तथा श्रुतौ “यषा वाव गौत­मा­ग्नि­स्तस्या उपस्थ एव समिल्लोमानि धूूमो योनिरर्चिः” इत्यादिना । अथै­त­द्ध्या­न­फ­ल­प्र­दाता परमेश्वर एतद्देवता भविष्यति तथापि नासावत्र ध्येयः । नहि सर्वा­न्त­र्या­मिणो जग­दी­श्व­र­स्याऽ­ति­जु­गु­प्सि­त­यो­षि­द­व­य­व­रू­पेण ध्यानमुचितम् । परमेश्वरस्य सर्वा­त्म­क­त्वा­द­वि­रोध इति चेत्, तर्हि “तं यथायथोपासते तदेव भवति” इत्यनया न्यानुगृहीतया श्र्यत्यो­पा­स्या­का­र­प्राप्तेः फल­त्वा­व­ग­मा­दु­पा­स­क­स्याऽत्र जुगु­प्सि­त­यो­षि­द­व­य­व­त्व­प्रा­प्ता­व­ग्नि­रू­प­त्व­प्राप्तौ वा सत्यामनर्थफलैव पञ्चाग्निविद्या स्यात् । अथ विशे­ष­शा­स्त्र­ब­ला­दत्र ब्रह्म­लो­क­प्राप्तिः फलं तर्हि तद्बलादेव विनाऽ­प्यु­पा­स्य­दे­व­ता­म­व­स्तु­वि­ष­येण ध्यानेन फलसिद्धौ शास्त्र­भ­क्तं­म­न्येन त्वया ध्यानस्य वस्तुविषयतायां नाऽत्य­न्त­म­भि­नि­वे­ष्ट­व्यम् ।

अथोच्येत ।
“उपपापेषु सर्वेषु पातकेषु महत्सु च ।
प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥”
इति स्मृतौ यथा­व­स्तु­वि­ष­य­ध्या­न­म­व­ग­म्यते इति । तत्र किं ध्यातृदृष्ट्या वस्तुविषयत्वं शास्त्रदृष्ट्या वा ? आद्येऽपि यदि ध्याता ब्रह्मात्मत्वं जानाति तदा नाऽसौ प्राय­श्चि­त्तेऽ­धि­क­रोति, पात­का­दि­स­म्ब­न्धा­भा­वात् । अथ न जानाति तदाऽ­सा­वा­त्मा­न­म­न्तः­क­र­ण­वि­शि­ष्ट­तया ब्रह्मस्वरूपं च परो­क्ष­त­याऽ­व­ग­च्छ­न्नहं ब्रह्मास्मीति ध्यानं कथं वस्तुविषयं मन्येत । न द्वितीयः, ध्याता ह्यन्तः­क­र­ण­वि­शि­ष्ट­स्याऽऽ­त्मनो ब्रह्मत्वं ध्यायति । यद्यपि तत्राऽ­न्तः­क­र­णांशं विहाय चिदंशस्य ब्रह्मत्वं शास्त्रसंवादि तथाऽपि न तावता ध्यानस्य वस्तुविषयत्वम् । अन्यथाऽनेन न्यायेनांशतः संवादिनां शुक्ति­र­ज­ता­दि­ज्ञा­नानां यादृ­च्छि­क­सं­वा­दि­लि­ङ्गा­भा­सा­दि­ज­न्य­ज्ञा­नानां च वस्तुविषयत्वेन प्रामा­ण्य­प्र­स­ङ्गात् ।

ननु विदि­त­ब्र­ह्मा­त्म­त­त्त्वा­ना­मपि “ब्रह्मध्यानं करिष्यामः” इति व्यव­हा­र­द­र्श­ना­द्ध्या­नस्य वस्तु­वि­ष­य­त्व­मिति चेद्, न; प्रब­ल­पू­र्व­वा­स­नया प्रच्युते ब्रह्मा­त्म­त्वा­नु­भवे तस्या­मे­वाऽ­व­स्था­या­मेवं व्यवहारात् । न हि ब्रह्मा­त्म­त्व­म­नु­भ­वन्त एवं व्यव­ह­र्तु­म­र्हन्ति । न हि लोके देवदत्तः स्वस्य मनु­ष्य­त्व­म­नु­भ­वन् मनुष्यत्वं ध्यायामि ध्यास्यामीति वा व्यवहरति । ननु “ध्यायति प्रोषितनाथा पतिम्” इत्यत्र वस्तुविषयेऽपि ध्यान­व्य­व­हा­रोऽ­स्तीति चेद्, न; तत्र ध्यानशब्दस्य पूर्वा­नु­भू­त­प­ति­वि­ष­य­स्म­र­ण­ल­क्ष­क­त्वात् । यद्वा विरहातुरा मनोराज्यं करोतीति मुख्यमेव ध्यानमस्तु । तस्मा­द­व­स्तु­वि­षये ध्याने पुरुषस्य स्वच्छ­न्द­प्र­वृत्तौ कः प्रतिबन्धः ? ननु सकृ­त्प्र­य­त्न­मा­त्रेण घटिकामात्रं ध्याना­नु­वृ­त्ति­रु­प­ल­भ्यते, तत्र प्राथ­मि­क­म­नो­व्या­पारं परि­त्य­ज्ये­त­रेषां मनोव्यापाराणां प्रय­त्न­नि­र­पे­क्ष­त्वाद् धारा­वा­हि­क­ज्ञा­न­न्या­येन तन्निरपेक्षत्वे प्राथमिकस्याऽपि प्राप्ते सति सामग्रीसम्पादन एव प्रयत्न उपक्षीयतां तथा च ज्ञानाद् ध्यानस्य पुरु­ष­त­न्त्र­त्व­कृतं वैषम्यं न भविष्यतीति चेत्, किमि­दा­नी­मे­वाऽऽ­र­भ्याऽ­भ्य­स्य­ता­मपि सकृत्प्रयत्नाद् ध्यानानुवृत्तिः किं वा पट्वभ्यासवतामेव ? नाऽऽद्यः, अनुभवविरोधात् । न द्वितीयः, प्रति­म­नो­व्या­पारं विद्यमानानामेव पृथ­क्प्र­य­त्ना­ना­म­भ्या­स­पा­ट­वा­भि­भू­त­त­याऽ­न­भि­म­न्य­मा­न­त्वात् । यथा बालस्यैकहायनस्य प्राथ­मि­क­ग­म­ना­भ्या­व­सरे प्रति­पा­द­वि­न्यासं पृथ­क्प्र­य­त्नोऽ­भि­व्य­ज्यते न तथा पुनः शीघ्रगमने तद­भि­व्य­क्ति­रस्ति । न चाऽत्र पुनः पृथ­क्प्र­य­त्ना­भावः, विषमस्थले व्यवधानपतनादिना तदभिव्यक्तेः । एवं ध्याना­भ्या­स­पा­ट­वो­पे­त­स्याऽपि प्राथ­मि­क­ध्या­ना­नु­सा­रेण प्रयत्नविशेषा अवगन्तव्याः । अथवा यथा वक्रबाणे वेग­र­हि­तेऽ­प्यृ­जू­कृते तस्मिन्नेव वेग­स्त­थाऽ­भ्या­सात् प्राग्वे­ग­शू­न्येऽपि ध्याना­भ्या­सा­दृ­जू­कृते मनसि वेगाख्यः संस्कारः कल्प्यताम् । अस्मिन्नपि पक्षे ध्यानस्य प्रय­त्न­त­न्त्रत्वं नाऽपैति । बाण इव गम­न­स्याऽ­प्या­द्य­क्रि­ययाः प्रय­त्न­ना­न्त­री­य­क­त्वात् । न चैवं धारा­वा­हि­क­ज्ञा­नेषु पृथक्प्रयत्नाः कल्पयितुं शक्यन्ते । यथाऽ­न­भ्य­स्त­वि­षये ध्याने प्राथमिके द्वयो­र्द्व­यो­रा­वृ­त्त्यो­र्मध्ये किञ्चित् किञ्चि­द्व्य­व­धानं पृथ­क्प्र­य­त्न­ग­म­क­मस्ति न तथा प्राथमिकेऽपि धारावाहिकज्ञाने तदस्ति । प्रमा­प्र­मे­य­स­म्ब­न्ध­जन्ये तस्मिन् बाल­वृ­द्ध­यो­र्वि­शे­षाऽ­द­र्श­नात् । अथ द्विती­य­तृ­ती­या­दि­ज्ञा­ना­का­र­प­रि­णा­म­प­र­म्प­रा­नि­र्वा­हाय मनसि वेगः कथञ्चित् कल्प्येत तथाप्यज्ञानस्य प्रय­त्न­ना­न्त­री­य­क­त्वा­भा­वान्न ज्ञानं पुरुषतन्त्रम् । न हि ज्ञानं प्रय­त्ना­न­न्त­र­मेव जायते, किन्तु तेन प्रयत्नेन प्रमा­णा­दि­सा­मग्र्यां सम्पादितायां पश्चादुत्पद्यते तथाऽज्ञाने निवृत्तिरपि न प्रय­त्ना­न­न्त­र­भा­विनी, किं तर्हि प्रयत्नेन विरो­धि­सा­मग्र्यां सम्पादितायां पश्चान्निवर्तते । एवं च सामग्र्याः प्रय­त्न­त­न्त्रत्वे सति ज्ञानमेव पुरुषेण कर्तुमकर्तुं वा शक्यमिति वदिनां विभ्रमः । अन्यथाकरणं तु ज्ञान­स्याऽ­त्य­न्त­म­ना­श­ङ्क­नी­य­मि­त्युक्तं पुरस्तात् । न च ध्यानमपि प्रय­त्न­स­म्पा­दि­त­सा­म­ग्री­तन्त्रं न प्रय­त्न­त­न्त्र­मिति वक्तुं शक्यम्, प्रय­त्ना­ति­रि­क्त­सा­म­ग्र्य­भा­वात् । अतो ध्यान­स्याऽ­न्य­व्य­व­धा­न­म­न्त­रेण साक्षादेव करणाकरणे सुशके । अन्यथाकरणं तु निरङ्कुशं सम्भवति । तदेवमजन्यफलं वस्तुविषयं प्रमाणजन्यं ज्ञानं जन्यफलं वस्तुनिरपेक्षं पुरु­षे­च्छा­प्र­य­त्न­मा­त्र­जन्यं ध्यानमिति ज्ञान­ध्या­न­यो­र्मा­न­स­त्वेन समयोरपि फलतो विषयतः कारणतश्च महद्वैलक्षण्यं सिद्धम् । एवं च सत्य­पु­रु­ष­त­न्त्र­त­याऽ­नु­ष्ठा­तु­म­शक्यं ब्रह्मज्ञानं विधियोग्यं न भवतीति “आत्मा वा अरे द्रष्टव्यः” इति तव्य­प्र­त्य­योऽ­र्हा­र्थोऽ­व­ग­न्तव्यः । कथं तर्ह्या­त्म­न्ये­वाऽऽ­त्मानं पश्येदिति दर्शनविधिरिति चेद्, दर्श­न­सा­ध­न­भू­ता­न्त­र्मु­ख­त्वा­दि­वि­धि­त्वेन व्याख्येय इति ब्रूमः । व्याख्यातं चाऽस्म­भि­र्वि­चा­र­वि­धि­प­र­त्वेन प्रथ­म­सू­त्र­तृ­ती­य­व­र्णके । तदेवं मोक्ष­प­र्या­लो­च­नया उत्प­त्त्या­द्य­यो­ग्य­ब्र­ह्म­प­र्या­लो­च­नया ज्ञान­प­र्या­लो­च­नया च विध्य­स­म्भ­वा­द­हे­या­नु­पा­दे­या­त्म­तत्त्वे वेदान्ताः पर्य­व­स्य­न्ती­त्य­भ्यु­पे­यम् ।

नन्व­हं­प्र­त्य­या­व­से­या­त्मनः कर्माङ्गत्वात् तत्र पर्यवसितानां वेदान्तानामपि कर्म­वि­धि­वा­क्यै­रे­क­वा­क्यता स्यादिति चेद्, न; अनन्यवेद्ये क्रिया­का­र­क­सं­स­र्ग­शून्य एवाऽऽत्मनि वेदान्तानां पर्यवसनात् । अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतमिति स्मृतिकारैः सर्वो वेदो धर्मे विनियुक्त इति चेद्, न; “तं त्वौपनिषदं पुरुशं पृच्छामि”, “सर्वे वेदा यत्पदमामनन्ति”, “वेदैश्च सर्वैरहमेव वेद्यः” इति श्रुति­स्मृ­ति­व­शात् पूर्व­स्मृ­त्य­र्थस्य निर्णे­त­व्य­त्वात् ।

नन्वाम्नायस्य क्रिया­र्थ­त्वा­दा­न­र्थ­क्य­म­त­द­र्था­ना­मिति वदन् जैमिनिरित्थं मन्यते – उत्त­म­वृ­द्धो­क्त­श­ब्द­श्र­व­णा­न­न्तरं मध्यमवृद्धस्य प्रवृत्तिं दृष्ट्वा तया तस्य कार्य­ज्ञा­न­म­नु­माय कार्यान्वित एवाऽर्थे शब्दसामर्थ्यं व्युत्पि­त्सु­र्जा­नाति । तथा च सिद्ध­व­स्तु­न्य­गृ­ही­त­सा­म­र्थ्यस्य शब्दस्य तद्बो­ध­क­त्वा­स­म्भ­वा­द्वे­दा­न्ता­ना­म­प्य­द्वै­ता­त्म­त­त्त्व­बो­ध­कत्वं नाऽस्तीति, मैवम्; किं भाट्ट­म­त­म­व­ल­म्ब्यै­व­मु­च्यते किं वा प्राभा­क­र­म­त­म­व­लम्ब्य ? नाऽऽद्यः । अभिहितान्वयवादी हि भाट्टः । स चैवं व्युत्प­त्ति­प्र­क्रियां रचयति – उत्तमवृद्धेन वाक्ये प्रयुक्ते श्रोतु­र्म­ध्य­म­वृ­द्धस्य प्रवृत्त्या विशि­ष्ट­सं­स­र्ग­ज्ञानं शब्द­का­र्य­त्वे­नाऽ­नु­माय शब्द­स­मु­दा­य­स्या­र्थ­स­मु­दाये सामर्थ्यं प्रतिपद्यते । तत्र गामानय गां बधा­ने­त्या­दि­प्र­यो­गे­ष्वा­व­पो­द्धा­रा­भ्या­मा­न­य­न­त­त्सं­स­र्ग­व्य­भि­चा­रेऽपि गोमा­त्र­स्याऽ­न्व­याद् बन्धनेऽपि गोशब्दस्य गोमात्रे सम्बन्धं प्रतिपद्यते न त्वान­य­न­त­त्सं­स­र्ग­यो­र्व्य­भि­च­रि­तयोः । एवं सर्वपदानां पदा­र्थ­स्व­रू­प­मा­त्रेषु साम­र्थ्य­प्र­ति­पत्तेः संसर्गबोधः किंनिबन्धन इति वीक्षा­या­म­न­न्य­था­सि­द्धा­न्व­य­व्य­ति­रे­काभ्यां शब्दा­व­ग­त­प­दा­र्थ­नि­ब­न्धन इति कल्प्यते । ततः पदेभ्यः पदर्थाः पदार्थेभ्यः संसर्ग इत्यभिहितान्वय इति । एवं च सत्ये­त­न्म­ता­नु­सा­रेण शब्दस्य न कार्या­न्वि­त­स्वार्थे सामर्थ्यं किन्तु स्वार्थमात्रे । ततः सूत्र­ग­ता­न­र्थ­क्य­प­दे­नाऽ­क्रि­या­र्थानां शब्दानां नाऽभिधेयाभावो वर्णयितुं शक्यः । अथ प्रयोजनाभावो वर्ण्येत, तन्न; सोऽरो­दी­दि­त्या­दि­वा­क्यानां तथात्वेऽपि निर­ति­श­या­न­न्द­रू­प­ब्र­ह्म­प्र­ति­पा­द­कानां वेदान्तानां निष्प्र­यो­ज­न­त्वा­यो­गात् ।

नन्वस्तु तर्हि द्वितीयः पक्षः, अन्वि­ता­भि­धा­न­वा­दिना प्रभाकरेण भाट्ट­व­द्वि­र­ल­प­दा­र्थ­व्यु­त्प­त्त्य­न­ङ्गी­का­रात् । स ह्येवं व्युत्प­त्ति­प्र­क्रियां रचयति – शुक्लां गामानय दण्डेनेति शब्दस्य श्रवणानन्तरं श्रोतुर्गवानयने प्रवृ­त्ति­म्प­लभ्य गवा­न­य­क­र्त्त­व्य­ताऽ­नेन श्रोत्रा शब्दा­त्प्र­ति­प­न्नेति भूतार्थसंसृष्टे कार्ये शब्दसमुदायस्य सामर्थ्यं बालः प्रतिपद्यते । पुनश्च गां बधा­नाऽ­श्व­मा­न­ये­त्या­दि­प्र­यो­गा­न्त­रेषु गोश­ब्द­स्याऽ­न्वये कार्य­सं­सृ­ष्ट­ग­वा­कृ­ते­र­न्व­या­त्त­दु­द्धारे च कार्य­सं­सृ­ष्ट­ग­वा­कृ­ते­रे­वो­द्धा­रात् कार्य­सं­सृ­ष्टायां गवि पदसामर्थ्यं कल्प्यते । आन­य­न­त­त्सं­स­र्ग­व्य­भि­चा­रेऽपि कार्य­सं­स­र्गा­व्य­भि­चा­रात् । एवं च सति यथाऽ­भि­हि­ता­न्व­य­वादे पदानां प्रथ­मा­व­ग­त­सं­स­र्ग­बु­द्धि­हे­तु­त्व­स्याऽ­प­वादो वाक्य­वा­क्या­र्थ­यो­र्मध्ये पदा­र्थ­त­च्छ­क्ति­व्य­व­धा­न­गौ­रवं चेति दोषद्वयमस्ति न तथाऽ­न्वि­ता­भि­धा­न­वादे तदस्ति प्रत्युत पदानामेव संस­र्ग­प्र­ति­पा­दने लाघवमिति । नैतत्सारम्, न हि प्रयोगभेदेषु कार्यसंसर्ग एव गवाकृतेर्नियमेन प्रतीयते, किन्तु गुण­द्र­व्य­क्रि­या­का­र­क­सं­स­र्गश्च । तथा हि – शुक्लां गामानयेत्यत्र गुणस्य जातियुक्तेन द्रव्येण सम्बन्धः द्रव्यस्य च विभक्त्यर्थेन कारकेण पुनश्च विभ­क्त्य­र्थ­वि­शि­ष्टस्य द्रव्यस्य क्रियया क्रियायाश्च नियोगकार्येणेति व्यवहितः कार्यसम्बन्धः । तथा च सत्य­व्य­व­हि­त­स­म्ब­न्धो­पा­दा­न­सि­द्ध­येऽ­न्या­न्वि­त­स्वा­र्थ­मात्रे शब्द­सा­म­र्थ्य­म­भ्यु­पे­यम्, लाघवत् । अन्य­थाऽ­नु­वा­द­प्र­स­ङ्गात् । कार्या­न्वि­त­स्वा­र्थेषु प्रमा­णा­न्त­र­गृ­ही­तेषु शब्दसामर्थ्यं प्रतिपद्य पश्चाद् वाक्यप्रमणादपि ताव­न्मा­त्र­प्र­ति­पत्तौ कथमनुवादो न भवेत् । न च कार्येण सर्व­प­दा­र्था­ना­म­व्य­व­हितः सम्बन्धोऽस्ति येन तत्संसृष्टे सामर्थ्यं स्यात् । अस्ति कार्यस्य सर्वपदर्थैः सम्बन्धः शेषशेषिलक्षण इति चेत्, तत्र कार्यस्य शेषिता नाम किं स्वामिता किं वाऽवयविता उत साध्यता अथवा परमसाध्यता ? नाऽऽद्यः, अचेतनस्य स्वामि­त्वा­यो­गात् । न द्वितीयः, इतरपदार्थानां कार्यं प्रत्य­व­य­व­त्वा­भा­वात्, न तृतीयः, क्रियाया एव सर्वत्र कारकसाध्यत्वात् । न चतुर्थः, स्वर्गादेरेव परमसाध्यत्वात् । अतः सर्वा­नु­ग­तै­क­प्र­यो­ज­क­ला­भा­याऽ­न्या­न्विते साम­र्थ्य­म­भ्यु­पे­यम् । यदि कार्यान्विते सामर्थ्यं स्यात् तदा कार्यपदस्य तन्न सिद्ध्येत्, कार्या­न्त­रा­भा­वात् । अस्ति धात्वर्थलक्षणं कार्यान्तरमिति चेद्, न; धात्वर्थस्य प्रथमतः कार्यत्वाभावात् । नियोगकार्यस्य साध्य­त्व­सि­द्ध्यर्थं धात्वर्थे विष­य­त्वे­नाऽ­न्विते पश्चात् करणभूतस्य च तस्य धात्व­र्थ­स्याऽ­नु­ष्ठे­य­तया कर्यत्वं न तु नियोगान्वयकाले । न चैकस्मिन् कार्यपदे व्यभिचारभयेन बहूनां पदा­ना­म­व्य­भि­च­रि­त­का­र्या­न्वि­ता­र्थ­त्व­हा­न­म­यु­क्त­मिति वाच्यम्, तथा सत्य­र्थ­ग­त­प्र­मा­णा­न्त­र­ग्रा­ह्य­त्व­स्याऽ­प्य­व्य­भि­चा­रि­तया शब्द­सा­म­र्थ्य­वि­ष­य­त्व­प्र­स­ङ्गात् । अथोच्येत – अन­न्य­था­सि­द्धा­न्व­य­व्य­ति­रे­क­ब­लात् सर्वत्र शब्दवाच्यत्वं कल्पनीयम्, प्रमा­णा­न्त­र­ग्रा­ह्य­त्व­स्याऽ­व्य­भि­चा­रित्वं तु प्रयो­ग­नि­मि­त्त­त­याऽ­न्य­था­सि­द्धम्; शब्दप्रयोगो हि प्रमा­णा­न्त­र­गृ­हीत एवाऽर्थे सम्भवति नाऽन्यथा । तस्मा­न्नो­क्त­प्र­सङ्ग इति । तर्हि कार्य­स्याऽ­व्य­भि­चा­रि­त्व­म­प्य­न्य­था­सि­द्धम् । मध्य­म­वृ­द्ध­प्र­वृ­त्ति­द­र्श­नेन हि बालस्य व्युत्प­त्ति­र्भ­वति । न च कार्यज्ञानेन विना मध्य­म­वृ­द्ध­प्र­वृत्तिः, अतः प्रवृ­त्ति­रू­प­लि­ङ्ग­द­र्श­न­हे­तु­का­र्या­व्य­भि­चा­र­स्याऽ­न्य­था­सि­द्धेर्न कार्यस्य सर्व­प­द­सा­म­र्थ्य­वि­ष­य­त्वम् । एवं च सति देवदत्तो भुक्त्वा निर्गत इत्येवमादिभिः कार्यशून्यैरपि वाक्यैर्लोके प्रती­य­मा­नाऽ­र्थ­प्र­मि­ति­रु­प­प­द्यते । न च कार्यरहितस्थले कथं व्युत्पत्तिरिति वाच्यम्, निघ­ण्टु­व्या­क­र­णो­प­दे­शै­रपि व्युत्प­त्ति­स­म्भ­वात् । तस्मात् कार्य­म­न­पे­क्ष्याऽ­न्या­न्वि­त­स्वार्थं पदान्यभिदधति ।

नन्व­न्वि­ता­भि­धा­ना­ङ्गी­कारे गोशब्द आन­य­न­ब­न्ध­ना­द्य­ने­क­प्र­ति­यो­गि­का­न्व­य­व­त्स्वा­र्थ­म­भि­द­ध्याद् आनयशब्दश्च गवा­श्वा­द्य­ने­क­प्र­ति­यो­गि­का­न्व­य­व­त्स्वा­र्थम् । तथा च गामानयेति वाक्यस्याऽर्थो व्यवस्थितो न स्यादिति चेद्, मैवम्; गोश­ब्दा­र्था­न्व­य­प्र­ति­यो­गि­वि­शे­ष­मा­न­य­शब्दो नियच्छति तथाऽऽ­न­य­श­ब्दा­र्था­न्व­य­प्र­ति­यो­गि­वि­शेषं गोपदमिति पद­द्व­य­ब­ला­द्वा­क्या­र्थ­व्य­व­स्था­सिद्धेः । नन्वेवमपि गोप­द­स्याऽऽ­न­य­न­सं­सृ­ष्ट­गो­त्व­मर्थः । आनयपदस्याऽपि गोत्व­सं­सृ­ष्ट­मा­न­य­न­मि­त्य­र्था­धि­क्या­भा­वात् पदद्वयस्य पर्यायता स्यादिति चेद्, मैवम्; न हि गामिति पद­मा­त्रा­दा­न­य­ना­न्वि­तत्वं गोः प्रतीयते आनयेति वा पद­मा­त्रा­दा­न­य­नस्य गवान्वितत्वं किन्तु पदद्वयेन पर­स्प­रा­न्वि­तत्वं प्रतीयते, अतो नोक्तदोषः ।

ननु गोशब्दोच्चारणे कृते गवाकृतिरेव किमिति प्रतीयते न साम­र्थ्य­वि­ष­यी­भूतं सर्वमिति । अव्य­भि­चा­रा­त्सं­स्का­र­भू­य­स्त्वा­द्ग­वा­कृ­ते­रि­त­रेषां व्यभिचारादिति ब्रूमः । ननु गोश­ब्दे­नाऽऽ­न­य­श­ब्देन च पूर्वा­प­री­भा­वा­द­र्थ­भेद इति वाच्यम्, आहि­ता­ग्न्य­ग्न्या­हि­त­श­ब्द­यो­र­प्य­र्थ­भे­द­प्र­स­ङ्गात् । ननु गोशब्देन गोत्वेऽभिहिते तत्सं­सृ­ष्ट­मा­न­य­न­मि­त­रे­णाऽ­भि­धी­यते तथाऽऽ­न­य­श­ब्दे­नाऽऽ­न­य­नेऽ­भि­हिते तत्संसृष्टं गोत्वं गोश­ब्दे­नाऽ­भि­धी­यत इत्य­न्यो­न्या­श्र­य­त्व­मिति चेद्, नैष दोषः; तत्त­त्प­द­श्र­व­ण­द­शायां स सोऽर्थः प्रतीयते अन्त्य­प­दो­च्चा­र­णा­न­न्तरं च युगपत्सर्वपदानि स्मर्यमाणानि सम्भूय स्वार्थन् पूर्व­म­भि­हि­ता­ने­वाऽ­न्यो­न्य­सं­सृ­ष्ट­तया प्रतिपादयन्ति । तथा च कुत इतरेतराश्रयता । तदुक्तं शालिकनाथेन –
“पदजातं श्रुतं सर्वं स्मारि­ता­न­न्वि­ता­र्थ­कम् ।
न्याय­स­म्पा­दि­त­व्यक्ति पश्चा­द्वा­क्या­र्थ­बो­ध­कम् ॥” इति ॥
न चैव­म­भि­हि­ता­न्व­य­वा­दा­र्था­द­वि­शे­ष­प्र­सङ्गः, अभिहितान्वयवादे हि पदानि पदा­र्था­न­भि­धा­यो­प­क्षी­यन्ते पदार्थेभ्यो वाक्या­र्थ­प्र­ति­पत्तिः । अन्वि­ता­भि­धा­न­वादे तु पदानामेव वाक्या­र्थ­प्र­ति­पा­द­क­त्व­मिति विशेषः । तस्मा­द­न्वि­ता­भि­धा­न­वादे दोषाभावात् फलितो द्रुम इत्या­दि­का­र्य­शू­न्य­वा­क्य­प्र­यो­गाणां च लोके भूय­सा­मु­प­ल­म्भा­द्वे­देऽपि “वषट्कर्तुः प्रथमभक्षः”, “तस्मात्पूपा प्रपिष्टभागः” इत्या­दि­का­र्य­र­हि­त­वा­क्या­ना­मु­प­ल­म्भा­द­न्या­न्वि­त­स्वा­र्थ­मात्रे शब्दसामर्थ्यं सिद्धम् । यद्यपि तेषु वेदवाक्क्येषु कर्तव्य इति पदमध्याह्रियते तथाऽपि न वाक्या­र्थ­प्र­ति­प­त्ति­सि­द्धये तदध्याहारः, अन्त­रे­णाऽ­प्य­ध्या­हारं तत्प्रतिपत्तेः । किन्तु अपू­र्वा­र्थ­द्र­व्य­दे­व­ता­स­म्ब­न्धा­व­ग­मा­धी­न­स्त­द­ध्या­हारः । यत्तु वृद्ध­व्य­व­हा­रा­नु­सा­रिणा सूत्रकारेणैव कार्या­न्वि­त­स्वार्थे शब्दसामर्थ्यं दर्शितम् – “तद् भूतानां क्रियार्थेन समाम्नायः” इति, तत्र धर्म­जि­ज्ञा­सो­प­क्र­मात् प्रकृतोपयोगितया क्रिया­र्थ­ते­त्यु­क्तम्,न तु सिद्धार्थे साम­र्थ्या­भा­वा­भि­प्रा­येण, यतो भाष्यकारेणैव गुणगुण्यादीनां विशे­ष­ण­वि­शे­ष्या­दि­भा­वेन समन्वयो दर्शितः । यदि जैमिनीयसूत्रं सिद्धार्थे शब्द­सा­म­र्थ्या­भा­व­परं कल्प्येत तदानीमखण्डैकरसे ब्रह्मणि वेदा­न्त­स­म­न्व­य­प्र­ति­पा­द­कानि बादरायणसूत्राणि विरुध्येरन् ।

ननु “सत्यं ज्ञानम्” इत्या­दि­वे­दा­न्तेषु प्राति­प­दि­का­र्था­ना­मे­क­र­स­ब्र­ह्म­प­र­त­याऽ­न्व­येऽपि प्रथ­मा­वि­भ­क्त्य­र्थस्य कारकतयाऽन्वये सति कथ­म­ख­ण्डै­क­र­स­त्व­सि­द्धि­रिति चेद्, न; पाणिनिना प्राति­प­दि­का­र्थ­मात्रे प्रथमाविभक्तेः स्मरणात् । तत्र लिङ्ग­स­ङ्ख्या­द­य­स्त्व­र्थात् प्रतीयमाना अपि “प्रज्ञानघन एव” इत्या­दि­श्रु­ति­वि­रो­धा­द­नि­र्व­च­नीया भविष्यन्ति । ननु प्रथ­मा­न्त­प्र­यो­गे­ष्व­स्ति­क्रि­या­ध्या­हारं कात्यायनः सस्मार, तथा च सत्यं ज्ञानमनन्तं ब्रह्माऽ­स्ती­त्य­ध्या­हा­रेऽ­ख­ण्डत्वं भज्येतेति चेद्, मैवम्, “एते द्रुमाः फलिताः”, “अयं पुरुषो राजकीयः” इत्या­दि­प्र­यो­गेषु सम्ब­न्ध­मा­त्र­प­र्य­व­सा­यि­ष्व­स्ति­क्रि­या­ध्या­हा­र­स्यो­प­यो­गा­भा­वा­द्यथा नाऽध्या­हा­र­स्त­थाऽ­ख­ण्डा­र्थ­प­र्य­व­सा­यिषु वेदा­न्ते­ष्व­प्य­व­ग­न्त­व्यम् । किञ्च, क्रिया­या­म­त्य­न्त­भ­क्ते­नाऽपि “ब्राह्मणो न हन्तव्यः” इत्यादिवाक्येषु भूतार्थे समन्वयो वक्तव्यः, क्रिया­या­श्चाऽ­त्राऽ­स­म्भ­वात्, हननाभावस्य प्राप्त­क्रि­या­नि­वृ­त्ति­ल­क्ष­ण­त्वात् । न च निवृत्तेः क्रियात्वम्, औदा­सी­न्य­रू­प­त्वात् ।

अत्र प्राभाकर आह न तावत् प्रतिषेधवाचि नञ्पदं ब्राह्मणेन सम्बध्यते, प्रत्यक्षस्य ब्राह्मणस्य प्रतिषेधायोगात् । नाऽपि धात्वर्थेन हननेन । हन्तृमनसि प्रवृत्ततया हन­न­स्याऽ­भा­वा­स­म्भ­वात् । नाऽपि तव्य­प्र­त्य­या­र्थेन फलप्रार्थनया प्रवृत्तिहेतुना कार्यबुद्ध्या वा । त्रिविधस्याऽपि प्रत्य­या­र्थ­स्याऽत्र प्रत्यक्षस्य प्रति­षे­धा­न­र्ह­त्वात् । अतो यथा “नेक्षे­तो­द्य­न्त­मा­दि­त्यम्” इत्य­त्रे­क्ष­ण­वि­रो­ध्य­नी­क्ष­ण­स­ङ्क­ल्प­क्रिया विधीयते तथाऽत्राऽपि राग­प्रा­प्त­ह­न­न­वि­रो­ध्य­ह­न­न­स­ङ्क­ल्प­क्रिया विधीयत इति । तदेतदसारम्, नञ्पदस्याऽभावे मुख्यत्वात् । न च भावा­न्त­र­मे­वाऽ­भावः, तथा सत्यभावस्य प्रति­यो­गि­नि­र­पे­क्ष­त्व­प्र­स­ङ्गात् । ननु तद­न्य­त­द्वि­रो­धि­ना­वपि नञ्पदस्याऽर्थौ । तदुक्तम् –
“नाम­धा­त्व­र्थ­योगी तु नैव नञ् प्रतिषेधकः ।
वद­त्य­ब्रा­ह्म­णा­ध­र्मा­व­न्य­मा­त्र­वि­रो­धिनौ ॥” इति ।
मैवम्, तत्र नञ्पदस्य लाक्षणिकत्वात् । अन्य­थाऽ­ने­का­र्थ­त्व­स्याऽ­न्या­य्यस्य प्रसङ्गात् । नेक्षेतेत्यत्र तु प्रजा­प­ति­व्र­त­प्र­क­र­ण­त्वात् तदनुसारेण लाक्षणिकोऽपि विध्य­र्थोऽ­नु­ष्ठे­य­व्र­त­ला­भाय स्वीकृतः । न चाऽत्र तथा मुख्यमभावं परित्यज्य लाक्ष­णि­का­र्थ­स्वी­कारे किञ्चित् कारणमस्ति । न च हननाभाव एवाऽनुष्ठेय इति वाच्यम्, अनादेः प्रागभावस्य तदयोगात् । अन्यथा विधि­प्र­ति­षे­ध­वि­भा­ग­व्य­व­हारो लौकिको न सिद्ध्येत् । ननु नञ्पदार्थस्य धात्व­र्थे­नाऽ­न्वये सति हि हन­न­प्रा­ग­भा­वोऽ­त्राऽर्थो भवति । न च तदन्वयः सुलभः, प्रकृ­त्य­र्थ­स्यो­प­स­र्ज­न­त्वात् । अतः प्रधानेन प्रत्ययार्थेन नञर्थस्याऽन्वयो वाच्य इति चेद्, एवमपि नञ्पदस्य नाऽत्र प्रति­षे­ध­प­र­त्व­म­पैति । तव्यप्रत्ययो हि विधिं ब्रूते । विधि­र्ना­मे­ष्ट­सा­ध­नम् । ततश्च हननस्य यदिष्टसाधनत्वं पाम­र­दृ­ष्टि­सिद्धं पुरुषस्य प्रवर्तकं तदेव तव्य­प्र­त्य­ये­नाऽ­नूद्य प्रतिषिध्यते – ब्राह्म­ण­ह­न­न­मि­ष्ट­सा­धनं न भवतीति । न च प्रत्य­क्ष­मि­ष्ट­सा­ध­न­त्व­मिति वाच्यम्, अदृ­ष्टा­वि­रो­धि­दृ­ष्ट­प्र­यो­ज­न­स्ये­ष्ट­श­ब्दा­र्थ­त्वात् । हननस्य चाऽदृ­ष्ट­वि­रो­धि­त्वात् । नन्विह वाऽमुत्र वाऽनर्थहीनः पुरुषार्थः प्रपञ्चमध्ये नाऽस्ति, अत­श्चाऽ­दृ­ष्ट­वि­रो­धि­नोऽ­पी­ष्ट­त्व­म­स्त्विति चेत्, सत्य­मे­त­त्स­र्व­त्राऽ­र्थोऽ­न­र्थ­सं­युक्त इति, तथाप्यर्थाधिकः पुरु­षा­र्थोऽ­न­र्था­धि­कोऽ­पु­रु­षा­र्थैति तद्विभागः । तथा चाऽन­र्था­धि­क्या­द­पु­रु­षा­र्थ­भूतं ब्राह्मणहननं मुखतः प्रतिषिध्यते । हन­न­प्र­वृ­त्ति­हे­तु­भू­त­रा­गा­द्यु­द्बो­ध­नि­मि­त्त­प्र­ध्वं­सोऽ­नु­ष्ठेय इति त्वर्थात् प्रतीयते । न चाऽर्थिकोऽर्थो विधातुं शक्यः, अशाब्दत्वात् । यश्चाऽर्थादर्थो न स चोदनार्थ इति न्यायात् । अतो हननमिष्टं न भवति, किन्त्व­नि­ष्ट­मि­त्ये­ता­वति शास्त्रेण बोधिते सति हन­न­रा­ग­नि­मि­त्त­भूत इष्टत्वभ्रमो निरोद्धव्य इत्य­न्व­य­व्य­ति­रे­का­भ्या­मे­वाऽ­व­ग­म्यते । नन्वेवमप्यत्र तव्य­प्र­त्य­ये­नाऽ­पू­र्वा­भि­धा­ना­द­नु­ष्ठा­न­प­र­मे­वै­त­द्वा­क्य­मिति चेद्, न; माना­न्त­रा­ग­म्येऽ­पूर्वे सम्ब­न्ध­ग्र­हा­भा­वात् । आग­मा­दे­वाऽ­पू­र्व­म­व­गम्य तत्र सम्बन्धग्रहणे बकबन्धप्रयासः स्यात् । क्षणिकस्य यागस्य श्रुत­स्व­र्ग­सा­ध­न­त्वा­नु­प­पत्त्या तदवगतिरिति चेत्, तर्ह्य­पू­र्व­म­श­ब्दार्थः स्यात्; “अनन्यलभ्यः शब्दार्थः” इति नियमात् । अन्यथा शरी­रे­न्द्रि­य­वि­ष­य­स­म्ब­न्ध­म­न्त­रेण स्वर्गासिद्ध्या शरीरादीनामपि प्रत्ययार्थत्वं प्रसज्येत । तदेवं कार्या­न्वि­त­स्वार्थ एव शब्द­सा­म­र्थ्य­मि­त्य­भि­नि­वि­श­मा­ने­नाऽपि वाक्यानां भूता­र्थ­स­म­न्व­य­स्याऽ­भ्यु­पे­यत्वे किमपराद्धं वेदान्तैः ? न च वेदा­न्तै­र­व­ग­तेऽपि ब्रह्मणि विधिमन्तरेण फलाभाव इति शङ्कनीयम्, तत्त्वा­व­ग­मे­नाऽ­वि­द्यायां निवर्तितायां तत्कृ­त­श­री­रा­दि­स­म्ब­न्ध­नि­वृत्तेः फलत्वात् ।

कर्मकृतः शरीरसम्बन्धो नाऽविद्याकृत इति चेत्, किमात्मनः कर्म स्वाभाविकं किं वा शरीरकृतम् ? नाऽऽद्यः, चैतन्यस्य क्रिया­र­हि­त­त्वात् । न द्वितीयः, कर्म­श­री­र­यो­र­न्यो­न्या­श्र­य­त्व­प्र­स­ङ्गात् । कर्म­श­री­र­व्य­क्तीनां प्रवा­हा­ङ्गी­का­रा­न्नाऽ­न्यो­न्या­श्रय इति चेत्, तर्ह्य­न्ध­प­र­म्परा प्रसज्येत । बीजा­ङ्कु­रा­दि­व­द­वि­रोध इति चेद्, एवमपि पुत्रा­दि­स­म्ब­न्ध­वत् शरीरसम्बन्धस्य कर्म­मा­त्र­नि­मि­त्तत्वे पुत्रादाविव शरी­रेऽ­प्य­ह­म­भि­मा­नस्य गौणत्वं प्रसज्येत । न च तद्युक्तम्, सिंह­दे­व­द­त्त­यो­रिव शरीरात्मनोः प्रसि­द्ध­भे­दा­भा­वात् । अन्यथा पुत्रा­दि­श­री­रे­णेव स्वशरीरेणाऽपि प्रमा­तृ­त्वा­भा­व­प्र­स­ङ्गात् । तस्मान्न कर्मनिमित्तः शरी­रा­दि­स­म्बन्धः, किन्त्व­वि­द्या­कृतः । स च तत्त्व­ज्ञा­न­नि­वर्त्यः । अत एव श्रुति­स्त­त्त्व­द­र्शिनो यथापूर्वं संसारित्वं व्यावर्तयति – “स चक्षुरचक्षुरिव सकर्णोऽकर्ण इव” इत्यादिका । तर्हि तत्त्वज्ञाने सति सद्यः शरीरपातः स्यादिति चेद्, न; “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये” इति श्रुत्या प्रार­ब्ध­क­र्म­शे­ष­स­मा­प्ति­प­र्य­न्त­म­व­स्था­ना­व­ग­मात् । “क्षीयन्ते चाऽस्य कर्माणि” इति श्रुति­स्त्व­ना­र­ब्ध­क­र्म­वि­षया, “अपवादविषयं परित्यज्य सामान्यं प्रवर्तते” इति न्यायात् । यद्यपि तत्त्व­ज्ञा­न­म­शे­ष­क­र्मो­पा­दा­न­भू­ता­म­विद्यां निवर्तयति, तथापि प्रारब्धकर्मणो न निवर्तकम्, स्वयं तत्फलत्वात् । तदुक्तमाचार्यैः –
“आरब्धस्य फले ह्येते भोगो ज्ञानं च कर्मणः ।
अवि­रो­ध­स्त­यो­र्युक्तो वैधर्म्यं चेतरस्य तु ॥” इति ॥
न चैवं जीव­न्मु­क्त­स्याऽऽ­त्मै­क्या­नु­भ­व­द्वै­त­द­र्श­न­यो­र्वि­रु­द्धयोः साहित्यं प्रसज्येतेति मन्तव्यम्, न हि वयं तयोर्यौगपद्यं ब्रूमः, किन्तु पर्या­ये­णो­द्भ­वा­भि­भवौ । न च शरीरपातात् पूर्वमपरोक्षं तत्त्वज्ञानमेव नाऽस्ति, व्यासादीनां सशरीराणामेव तत्त्वदर्शनस्य पुरणेष्ववगमात् । ननु तत्त्व­द­र्शि­नोऽपि यथा कदाचिद् द्वैतदर्शनं तथा ज्योति­ष्टो­मा­दि­क­र्मा­नु­ष्ठा­न­मपि स्यादिति चेद्, न; अनुष्ठानस्य प्रति­नि­य­त­दे­श­का­ला­धि­का­र­क­र्तृ­प्र­ति­प­त्त्य­धी­न­त्वात् । तत्त्व­द­र्शि­न­स्त्वा­र­ब्ध­क­र्म­नि­मि­त्त­दो­षो­द्भ­वस्य देश­का­ल­नि­य­मा­भा­वेन प्रार­ब्धा­नु­ष्ठा­न­स­मा­प्ति­प­र्य­न्त­म­व­स्था­ना­यो­गात् । यथा­स­म्भ­व­म­नु­ष्ठा­न­मिति चेद्, न; पुनः पुन­स्त­त्त्व­द­र्श­ने­नाऽ­नु­ष्ठि­त­क­र्मणां बाधे सत्य­नु­ष्ठा­न­प्र­यो­ज­ना­भा­वात् । प्रत्य­ह­मु­प­ची­य­मा­न­दु­रि­त­नि­वृत्तिः प्रयोजनमिति चेद्, न; ज्ञानिन आगा­मि­दु­रि­ता­दि­स­म्ब­न्धा­स­म्भ­वात् । सम्भवे वा दैन­न्दि­न­त­त्त्व­द­र्श­ने­नैव तन्निवृत्तेः,
“अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥” इति स्मृतेः ।
तत्त्वदर्शिनः शास्त्र­नि­य­मा­भावे यथेष्टाचरणं स्यादिति चेद्, न; आचरणस्य हित­हि­त­प्रा­प्ति­प­रि­हा­र­प्रा­र्थ­ना­नि­मि­त्त­त्वात् । जीवन्मुक्तस्य तु स्वात्मन्येव निर­ति­श­या­न­न्द­म­शे­षा­न­र्थ­नि­वृत्तिं च साक्षादनुभवतः साध्य­पु­रु­षा­र्थ­प्रा­र्थ­ना­भा­वा­दा­च­र­ण­मेव नाऽस्ति कुतो यथे­ष्टा­च­र­ण­प्र­सङ्गः ? भिक्षा­ट­ना­दि­प्र­वृ­त्ति­स्त्वा­र­ब्ध­क­र्म­दो­ष­मूला । न च तद्वत्पुण्यपापे अप्यारब्धकर्मणा प्रव­र्ते­या­ता­मिति वाच्यम्, आरब्धकर्मणः फल­मा­त्र­हे­तु­त्वात् । पुण्यपापयोः पुन­र्नि­मि­त्त­म­वि­द्या­रा­गादि, तच्च तत्त्वज्ञानेन निवर्तितम् । न च मन­न­नि­दि­ध्या­स­नयोः प्रतिबन्दी ग्रह्या, तयोरपि श्रव­ण­व­दु­पा­य­त्वेन तत्त्वदर्शनात् प्रागे­वाऽ­नु­ष्ठे­य­त्वात् ।

ननु भेदा­भे­द­यो­रु­भ­यो­रपि वास्त­व­त्वा­न्नाऽ­द्वै­त­द­र्श­नेन द्वैतदर्शनं बाध्यते, येन कर्म­प्र­वृ­त्तिर्न सम्भवेत् । न च पूर्व­प­क्ष­सि­द्धा­न्ता­दि­नि­य­मस्य भेदाभेदवादिना वक्तु­म­श­क्य­त्वात् सर्व­सा­ङ्क­र्य­मिति शङ्कनीयम्, अद्वैतवादेऽपि समानत्वात् । मैवम्, अद्वैतवादे मायाकल्पितस्य प्रपञ्चस्य यथादर्शनमेव भेदेन व्यवस्थितत्वत् । ब्रह्मण एवाऽ­द्वि­ती­य­त्वात् । त्वन्मते तु साङ्कर्यं दुष्परिहरम् । न च व्यव­हा­र­सा­ङ्क­र्येऽ­प्य­दुष्टो मोक्ष इति वाच्यम्, तत्त्वदर्शनेन प्रप­ञ्चा­नि­वृत्तौ देहा­त्म­भा­व­सु­ख­दुः­खा­दे­र­प्य­बा­धा­द­नि­र्मो­क्ष­प्र­स­ङ्गात् । संसारदशायामेव भेदाभेदौ देहा­त्म­भा­वा­दि­श्चेति चेत्, तथापि भेदाभेदयोः परस्परविरोधः कथं परिह्रियेत । प्रामा­णि­क­त्वा­द­वि­रोध इति चेद्, न; किं “खण्डो गौः” इति प्रत्य­क्ष­ज्ञा­न­मे­क­मेव तत्र प्रमाणं किं वा “मुण्डो गौः” इत्यनेन सहितम् अथवा “स एवाऽयं गौः” इति तृती­य­ज्ञा­न­स­हि­तम् ? नाऽऽद्यः; खण्डो गौरित्यस्मिन् प्रत्यये भिन्नोऽ­भि­न्न­श्चेति प्रतिभासाभावात् । भेदा­भे­द­श­ब्दो­ल्ले­खा­भा­वेऽपि तत्प्र­ती­ति­र­स्त्ये­वेति चेद्, न; पर­स्प­रो­प­म­र्द­रू­प­यो­स्तयोः सह­प्र­ति­भा­सा­यो­गात् । अथ जाति­व्य­क्त्यो­र्भे­द­स्ता­व­द­भ्यु­पे­यत एव इत­रे­त­रा­त्म­त्वा­द­भे­दोऽ­प्य­ब्यु­पे­यत इति चेद्, न; भिन्न­यो­रि­त­रे­त­रा­त्मत्वे सम्प्र­ति­प­न्न­दृ­ष्टा­न्ता­भा­वात् । न द्वितीयः, खड्गो गौर्मुण्डो गौरि­त्य­न­यो­र्ज्ञा­नयोः सम्भूय प्रमात्वाभावात् । अथाऽपि प्रथमज्ञानेन यस्मिन् गोत्वे खण्डात्मकत्वं गृहीतं तस्मिन्नेव गोत्वे द्वितीयज्ञानेन खण्डत्वं निराकृत्य मुण्डत्वे गृही­तेऽ­र्था­द्भे­दा­भे­द­सि­द्धि­रिति चेद्, न; “स एवाऽयं गौः” इति प्रत्य­भि­ज्ञा­म­न्त­रे­णै­कस्य गोत्व­स्यो­भ­य­स­म्ब­न्धा­सिद्धेः । न तृतीयः, प्रत्य­य­द्व­य­स्यै­क­स्मि­न्नर्थे प्रामण्यायोगात् । न च प्रत्य­य­त्र­या­न्य­था­नु­प­पत्तिः प्रमाणम्, ह्रस्वोऽकारो दीर्घोऽकारः स एवाऽयमकार इति प्रत्ययत्रयस्य भेदा­भे­दा­व­न्त­रे­णौ­पा­धि­क­ह्र­स्व­दी­र्घ­त्वो­प­जी­व­ने­ना­प्य­प­पत्तेः । नन्वेवं भेदा­भे­द­यो­र­स­म्भ­वेऽ­प्या­त्मनि तौ स्यातामिति चेद्, न; तत्र भेदासिद्धेः । विवा­द­गो­च­रा­पन्नाः स्थाव­र­ज­ङ्ग­म­श­री­र­व्य­क्तयः प्रति­वा­दि­श­री­र­व्य­क्त्या­त्म­नै­वाऽऽ­त्म­वत्यः, शरी­र­व्य­क्ति­त्वात्, प्रति­वा­दि­श­री­र­व्य­क्ति­व­दि­त्ये­क­त्वा­नु­मा­नात् । अथाऽऽत्मानो भिन्नाः युग­प­ज्ज­न­न­म­र­णा­दि­वि­रु­द्ध­ध­र्मा­श्र­य­त्वा­द­ग्न्यु­द­का­दि­व­दिति चेद्, न; जननादीनां शरीराश्रयत्वेन हेत्वसिद्धेः । न चाऽऽत्मैकत्वे सुख­दुः­खा­दि­सा­ङ्क­र्य­प्र­सङ्गः, प्रतिबिम्बेषु सत्यप्येकत्वे वर्ण­सा­ङ्क­र्या­द­र्श­नात् । अन्यो­न्य­वृ­त्ता­न्ता­न­नु­स­न्धा­न­मपि शरी­र­भे­दा­दे­वो­प­प­द्यते, एक­स्याऽऽ­प्या­त्म­नोऽ­ती­त­श­री­रा­दि­ष्व­नु­स­न्धा­ना­द­र्श­नात् । न च जीवा­ना­म­न्यो­न्य­भे­दा­भा­वेऽपि जीव­ब्र­ह्म­णो­र्भेदः स्यादिति मन्तव्यम्, न तावदत्र प्रत्यक्षं क्रमते, जीव­ब्र­ह्म­णो­र­ती­न्द्रि­य­त्वात् । नाऽपि विरु­द्ध­ध­र्मा­श्र­य­त्व­हे­तुना अग्न्यु­द­का­दि­व­दिति चेद्, न; जननादीनां शरीराश्रये हेत्वसिद्धेः । नाऽपि निय­न्तृ­नि­य­न्त­व्यादि श्रौतलिङ्गं भेदे मानम्, “नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता” इत्या­दि­श्रु­ति­भि­स्तस्य बाधात् । नाऽपि “द्वा सुपर्णा” इति श्रुत्या भेदसिद्धिः,”स यश्चायं पुरुषे यश्चासावादित्ये स एकः” इत्या­द्ये­क­त्व­प्र­ति­पा­द­क­श्रु­ति­वि­रो­धात् । भ्रान्ति­सि­द्ध­द्वै­ता­नु­वा­दे­नाऽपि द्वित्व­श्रु­त्यु­प­पत्तेः । तस्मान्न भेदा­भे­दा­वि­त्य­द्वै­त­द­र्श­नेन द्वैतदर्शनस्य बाधः सिद्धः । ततश्च ब्रह्म­सा­क्षा­त्का­र­मा­त्रेण फलसिद्धेर्न वेदान्तेषु विधिगन्धोऽपि शङ्कनीयः । यदि स्यात्त­र्ह्ये­कैव षोडशलक्षणी धर्ममीमांसा प्रसज्येत । तथा च “अथातो ब्रह्मजिज्ञासा” इति पृथगारम्भो नोपपद्येत । शरीरेद्रियसध्या विधिभेदाः पूर्वमीमांसायां निरूपिताः, इह तु मानससाध्यो विधिर्निरूपित इति पृथगारम्भ इति चेत् ? तर्हि “अथाऽतः परि­शि­ष्ट­ध­र्म­जि­ज्ञासा” इत्ये­वाऽऽ­र­भ्येत, न त्वेवमारभ्यते । तस्मा­द्ध­र्म­ब्र­ह्म­भे­दा­दे­वाऽ­न­यो­र्मी­मां­स­यो­र्भेदः । तदेवं विधिशङ्काया अप्य­भा­वा­न्नि­र्विघ्नो ब्रह्मणि वेदान्तसमन्वय इत्य­शे­ष­म­ति­म­ङ्ग­लम् ।

सङ्गृहीतं विवरणं सहाऽ­ने­कै­र्नि­ब­न्धनैः ।
टीकायासं विना लोकाः क्रीडन्त्वत्र यथासुखम् ॥

महतां हृदयं बोद्धु­म­श­क्तोऽ­प्य­ति­भ­क्तितः ।
अकार्षं ग्रन्थमेतेन प्रकाशात्मा प्रसीदतु ॥

यद्वि­द्या­ती­र्थ­गु­रवे शुश्रूषाऽन्या न रोचते तस्मात् ।
अस्त्वेषा भक्तियुता श्रीवि­द्या­ती­र्थ­पा­दयोः सेवा ॥

इति श्रीवि­द्या­र­ण्य­मु­नि­प्र­णीते विव­र­ण­प्र­मे­य­स­ङ्ग्रहे चतुर्थसूत्रे द्वितीयवर्णकम् ।

समाप्तं चेदं सूत्रम् ।

समाप्तश्च विव­र­ण­प्र­मे­य­स­ङ्ग्रहः ।