विवरणप्रमेयसङ्ग्रहः
अथ चतुर्थं सूत्रम्
प्रथमं वर्णकम्
तृतीयसूत्रे ब्रह्मणि वेदान्ताः प्रमाणमिति प्रतिज्ञातं चतुर्थसूत्रे तत्प्रामाण्यमुपपाद्यते । ननु सूत्रकारवचनविरोधाद्भूतवस्तुप्रतिपादनायोगात्प्रयोजनशून्यत्वादनधिगतार्थत्वाभावाच्च न ब्रह्मणि वेदान्तप्रामाण्यं सम्भवति । सूत्रकारो हि जैमिनिः “आम्नायस्य क्रियार्थत्वात्” इति सूत्रेणाऽक्रियार्थानां वेदान्तानामानर्थक्यमेवाऽऽह । यद्यप्यादिमध्यावसानेषु वेदान्तानां ब्रह्मैक्यतात्पर्यदर्शनाद् नाऽऽनर्थक्यसम्भवस्तथापि न प्रामाण्यं घटते । ब्रह्मबोधका वेदान्ता न प्रमाणम्, मानान्तरयोग्यत्वे सति मानान्तरानुपलभ्यस्य ब्रह्मणो बोधकत्वात्, यथा स्पर्शयोग्यस्य स्पर्शाऽनुपलभ्यस्य चित्रगतनिम्नोन्नतभावस्य बोधकं चाक्षुषज्ञानम् । न च विशेषणासिद्धिः, ब्रह्म मानान्तरयोग्यम्, परिनिष्ठितवस्तुत्वाद्, घटादिवत् । न च ब्रह्मैकप्रमाणवेद्यम्, परिनिष्ठितत्वात्, गन्धादिवदिति वाच्यम्, चक्षुःस्पर्शनग्राह्येषु घटादिद्रव्येष्वनैकान्त्यात् । तथापि प्राभाकराभिमतं कार्यं प्रमाणान्तरयोग्यम्, तुच्छव्यावृत्तत्वाद्, घटवत्, इत्याभाससमानत्वमिति चेद्, न; परिनिष्ठितत्वस्योपाधित्वात् । अनुमेयभविष्यद्वृष्ट्यादौ परिनिष्ठितत्वाभावान्न साध्यव्याप्तिरिति चेद्, एवमपि प्रमाणान्तरयोग्यत्वं प्रति प्रतियोग्यपेक्षस्य तुच्छव्यावृत्तत्वस्य प्रयोजकत्वे गौरवं तन्निरपेक्षस्य परिनिष्ठितत्वस्य प्रयोजकत्वे लाघवमिति नाऽस्त्येव साम्यम् । ब्रह्म शब्दैकगम्यम्, रूपादिभिर्व्याप्तिग्रहादिभिश्च हीनत्वात्, परकीयकार्यवत्, इति चेद्, न; अनुभवगम्यताया अपि भवद्भिरङ्गीकारात् । एवं च सति प्रथमानुमाने हेतुगतं मानान्तरानुपलभ्यस्येति विशेषणमसिद्धमिति चेद्, न; अनुमातॄणां ब्रह्मानुभवासिद्धौ विशेषणासिद्धेः । अतः प्रथमानुमानेन संवादकमूलप्रमाणरहितानां वेदान्तानामप्रामाण्यं सिद्ध्यति । अपौरुषेयवचसां न मूलप्रमाणापेक्षेति चेत्, सत्यम्; तथापि “अहं मनुष्यः” इति प्रत्यक्षेण बाधितत्वात् “आदित्यो यूपः” इतिवदप्रामाण्यमेव । उक्तप्रत्यक्षस्य दोषजन्यत्वेन श्रुत्यबाधकत्वेऽपि सिद्धे ब्रह्मणि प्रवृत्तिनिवृत्तिसाध्येष्टप्राप्त्यनिष्टपरिहाररूपप्रयोजनासम्भवात् तात्पर्यरहिता वेदान्ता नैव प्रामाण्यं लभन्ते ।
अथोच्येत – न प्रयोजनं तात्पर्यं वा प्रामाण्यप्रयोजकं किन्त्वनवगतार्थबोधकत्वमिति । एवमपि मानान्तरायोग्यं कार्यमेव वेदः प्रमापयतु न तु तद्योग्यं सिद्धं ब्रह्म । तस्मादनर्थका वेदान्ताः । अध्ययनविधिपरिगृहीतानामप्रामाण्यमयुक्तमिति चेत्, तर्हि कर्तृरूपस्य जीवस्य देवतारूपस्य ब्रह्मणश्च प्रकाशकत्वेन क्रियाविधिशेषत्वमस्तु, तथा च मन्त्रार्थवादादिवत्प्रामाण्यं सेत्स्यतीति । ब्रह्मविधायकत्वेनैव प्रामाण्यमस्त्विति चेद्, न; क्रियाविषयस्य विधेः परिनिष्ठितवस्तुन्यसम्भवात् । ननु न तावद्वेदान्ता एकस्य विधेः शेषभूताः, “सोऽरोदीत्” इत्यादिवत्प्रकरणपाठाभावात् । नाऽपि सर्वविधिसमूहस्य, भिन्नवस्तु प्रतिपादकानां सर्वविधीनामेकवाक्यत्वाभावात् । न च धर्मसामान्यमेकमेव सर्वविधिभिः प्रतिपाद्यमिति वाच्यम्, सामान्यस्याऽनुष्ठानानर्हत्वात् । अथोच्येत यथा सर्वक्रतुसम्बन्धिन्या जुह्वाः प्रकृतिद्रव्यं समर्पयत्पर्णमयीवाक्यमनारभ्याधीतमपि सर्वक्रतुवाक्यानां प्रत्येकं शेषभावं भजते तथा कर्तुः समर्पका वेदान्ता अपीति । नैतत्सारम्; निर्विशेषप्रधानैर्वेदान्तैरात्मनि स्तूयमाने प्रतिपाद्यमाने वा कर्मप्रवृत्तावनुपयोगात् । न चोपयोगः कल्पयितुं शक्यः, कर्तृत्वादिसर्वविशेषनिराकरणस्य प्रवृत्तिविरोधित्वात् । तस्मान्न क्रियाविधिशेषा वेदान्ताः ।
एवं तर्हि सगुणोपासनाविधिशेषा भवन्तु, न चैवं मन्तव्यम्; उपासनाविधिशेषैरपि वेदान्तैः सर्वज्ञत्वादिगुणविशिष्टं जगत्कारणं परिनिष्ठितं ब्रह्मस्वरूपं न सिध्यति संवादकमूलप्रमाणाभावात् । अत उपास्याऽसिद्धौ कथमुपासनाविधिः दूरे तच्छेषत्वं वेदान्तानामिति अनुमानादनिर्दिष्टविशेषे जगत्कारणेऽवगते तस्योपासनाविधौ नित्यशुद्धबुद्धसत्यज्ञानानन्तत्वाद्युपास्यगुणारोपेण वेदान्तानामन्वयात् । ननु वेदान्तानामुपासनाविधिपरत्वेन देवताकाण्डेऽन्वयस्तावन्नाऽस्ति प्रकरणभेदात्; स्वकाण्डे तु वस्तुमात्रपर्यवसायिनि न कोऽपि विधिः श्रूयते । न च कल्पयितुं शक्यते, “पूषा प्रविष्टभागः” इत्यादौ द्रव्यदेवतासम्बन्धवदत्र विधिकल्पकस्याऽश्रुतत्वादिति चेद्, मैवम्; अध्ययनविधिपरिग्रहेण प्रामाण्यं परिकल्प्य तत्प्रामाण्यान्यथानुपपत्त्योपासनाविधेः कल्पयितुं शक्यत्वात् । फलं च “एतावदरे खल्वमृतत्वम्” इत्याद्यर्थवादगतं मोक्षरूपमवगन्तव्यम् । तस्मान्न ब्रह्मणि वेदान्ताः प्रमाणम्, किन्तूपासनायाम् ।
इत्येवं पूर्वपक्षे प्राप्ते सूत्रकार आह – “तत्तु समन्वयात्” इति । तु शब्देन पूर्वपक्षो निषिध्यते । तदिति स्वपक्षे प्रतिज्ञा – तद् ब्रह्म वेदान्तैः प्रमीयते इत्यर्थः । कुतः ? वेदान्तानां ब्रह्मणि तात्पर्येण सम्यगन्वितत्वात् । तात्पर्यं हि पुरुषधर्मः, स च कथं वेदान्तानां स्यादिति चेद्, मैवम्; न हि विवक्षैव तात्पर्यम्, सत्यामपि विवक्षायामप्रयुक्ते शब्दे तात्पर्यव्यवहाराभावात् । नाऽपि पुरुषप्रयोगमातत्रम्, उन्मत्तप्रयोगे तदभावात् । अतस्तदर्थप्रमितिशेषत्वं तात्पर्यम् । तच्च शब्दधर्म एव । न च तस्मिन्नपि विवक्षैव तत्प्रयोजिकेति वाच्यम्, केवलव्यतिरेकाभावात् । सत्यपि तदर्थ्ये विवक्षाभावापराधेन तात्पर्याभावादर्शनात् । न च विवक्षाव्यतिरेकेण तात्पर्यगमकाभावः, उपक्रमादीनां भावात् । न च प्रमेयस्य कार्यत्वमेव तात्पर्यगमकम्, “ पुत्रस्ते जातः” इत्यादिष्वसत्यपि कार्यत्वे तात्पर्यदर्शनात् । तत्राऽपि तात्पर्यादेव प्रमेयस्य कार्यपर्यवसानमनुमीयतामिति चेद्, न; कार्यत्वप्रमितितात्पर्ययोरन्योन्याश्रयप्रसङ्गात् । कार्यविषयप्रमितौ सत्यां तत्प्रमितिजननसामर्थ्यलक्षणं तात्पर्यं सिध्यति, सिद्धे च तस्मिंस्तत्प्रमितिसिद्धिरिति । ननु तात्पर्याभावः प्रतीतिप्रतिबन्धकः, “विषं भुङ्क्ष्व” इत्यादौ वाक्यादेव प्राप्ताया विषयभोजनप्रमितेस्तात्पर्याभावेन प्रतिबध्यमानत्वात् । तत्प्रतिबन्धनिवारकं च तात्पर्यम् । तथा च प्रथमतो वाक्यादेव कार्यप्रमितौ सत्यां पश्चात्तथैव कार्यप्रमित्या प्रतिबन्धनिरासितात्पर्यमप्यस्तीत्यवगम्यते । न पुनस्तात्पर्येण कार्यप्रमितिर्भाव्यते ततो नाऽन्योन्याश्रय इति चेत्, सत्यम्; तथापि कार्यत्वं न तात्पर्यलिङ्गम्, “जर्तिलयवाग्वा वा जुहुयात्”, “गवीधुकयवाग्वा वा” इत्यादिषु सत्यपि कार्ये तात्पर्याभावात् । “अनाहुतिर्वै जर्तिलाश्च गवीधुकाश्च” इत्युत्तरवाक्येनाऽरण्यतिलानां गवीधुकानां च निराकरणात् । तस्मादुपक्रमादीन्येव तात्पर्यलिङ्गानि,
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिश्चये ॥
इत्युक्तत्वात् । प्रसिद्धानि हि सर्वेष्वपि वेदान्तेषु ब्रह्मण उपक्रमादीनि । ततस्तात्पर्येण वेदान्ता ब्रह्मणि समन्विताः ।
अन्वयस्य सम्यक्त्वं नामेतरवैलक्षण्येनाऽर्थप्रतिपादनम् । इतरत्र हि “गामानय” इत्यादिशब्दाः क्रियाकारकसंसर्गं प्रतिपादयन्ति । “उद्भिदा यजेत” इत्यत्रोद्भिद्यागशब्दयोरेकार्थत्वेऽपि नियोगाकाङ्क्षा विद्यते । “नीलमुत्पलम्” इत्यत्र गुणगुणिनोर्भेदाभेदौ प्रतिपाद्यौ । एकार्थप्रतिपादकेष्वप्यन्येषु शब्देषु लिङ्गसङ्ख्ये अवर्जनीये । वेदान्तास्तु न तथा संसर्गं वा साकाङ्क्षार्थं वा भेदाभेदौ वा लिङ्गसङ्ख्याविशिष्टं वा प्रतिपादयन्ति, किन्त्वभिधावृत्त्या लक्षणयोपाधिद्वारा वाऽखण्डैकरसमेव जगत्कारणसामान्यानुवादेन प्रतिपादयन्ति । तत्र ज्ञानशब्दोऽनेकविकारयुक्तान्तःकरणवृत्तिप्रतिबिम्बितचैतन्ये व्युत्पन्नः । आनन्दशब्दश्च शुद्धसात्त्विकान्तःकरणवृत्त्यभिव्यक्तायामत्यनुकूलतया स्फुरन्त्यां कस्याञ्चिद्व्यक्तौ लोके प्रसिद्धः । तावेतौ ज्ञानानन्दशब्दौ वाक्यान्तरेण नित्यत्वप्रतिपादकेन विरोधाद् वृत्त्यंशं परित्यज्याऽनुकूलतया स्फुरन्तीं व्यक्तिं प्रतिपादयतः । तथा च वृत्तित्यागांशे लक्षणा, इतरांशे तु मुख्यवृत्तिः । एकसत्यानन्तशब्दाः स्वगतभेदाभावमिथ्यात्वाभावसजातीयविजातीयद्वितीयाभावाभिधानद्वारेण तत्र लक्षणया वर्तन्ते । सर्वज्ञः सर्वशक्तिरित्यादिशब्दाश्चाऽनिर्वचनीयप्रपञ्चोपाधितया तत्र वर्तन्ते । “अयमात्मा ब्रह्म”, “तत्त्वमसि” इत्यादिशब्दाश्च भागत्यागलक्षणया ब्रह्मण्येव वर्तन्ते । तदेवं सर्वे वेदान्ता अखण्डैकरसब्रह्मप्रतिपादकाः ।
ननु सत्यज्ञानादिशब्दानां भिन्नार्थत्वे कथमखण्डैकरसे वृत्तिः ? एकार्थत्वे पुनरुक्तिप्रसङ्गः, नैष दोषः; तात्पर्येण प्रतिपाद्यस्यैकत्वेऽपि व्यावर्त्त्यानामसत्यजडादीनामनिर्वचनीयार्थानामनेकत्वात् । न चाऽनिर्वचनीयपदार्थेन तदभावेन वा परमार्थभावरूपाद्वैतस्य काचित् क्षतिरस्ति । तस्मात् तत्त्वमस्यादिमहावाक्यानि “सोऽयं देवदत्तः” इत्यादिवाक्यवदखण्डैकरसं प्रतिपादयन्ति । तथाहि – एकं देवदत्तमेकस्मिन् देशे काले च द्वौ पुरुषौ दृष्टवन्तौ, पुनर्देशकालान्तरे तमेव तावेव ददृशतुः । तयोर्मध्ये “सोऽयं देवदत्तः” इति प्रत्यभिजानात्येकः । अपरस्तु पूर्वदृष्टाद् देवदत्ताद्भिन्नं पश्चाद् दृष्टं मन्यते । तं प्रत्यभिज्ञाहीनमितरो बोधयति “सोऽयं देवदत्तः” इति । तत्र बोधयित्वा स्पष्टं भेदेन प्रतीयमानयोस्तत्तद्देशकालयोस्तद्विशिष्टयोर्वा देवदत्तयोरैक्यं न प्रत्यभिजानाति, विरोधात्; किन्तु विशिष्टद्वयोपलक्षित एको देवदत्तः प्रत्यभिज्ञागोचरः । तत्र प्रत्यभिज्ञानं देवदत्तस्वरूपपैक्यम् । विशिष्टाभिधायिभ्यां “सोऽयम्” इति पदाभ्यां स्वार्थैकदेशपरित्यागेनैकदेशलक्षणया परस्मै प्रतिपादयति ।
ननु “सोऽयम्” इति पदार्थयोर्यद्देवदत्तैक्यं तदेव वाक्येनाऽपि प्रतिपाद्यते उताऽन्यत् ? आद्येऽनुवादप्रसङ्गः । न द्वितीयः; ऐक्यान्तरस्याऽभावादिति चेद्, न; प्रत्यभिज्ञाया अप्यनेन न्यायेनाऽप्रामाण्यप्रसङ्गात् । अभिज्ञावगतस्यैवैक्यस्य बोधनेऽनुवादकत्वम्, ऐक्यान्तरं तु नाऽस्तीत्यत्रापि सुवचत्वात् । एकस्य कालद्वयसम्बन्धः प्रत्यभिज्ञाप्रमेयमिति चेद्,न; तस्याऽप्यभिज्ञाद्वयेनैव सिद्धत्वात् । अथ प्रत्यभिज्ञानस्याऽनधिगतार्थगन्तृत्वाभावेऽपि भेदभ्रमव्युदासित्वादभिज्ञाभ्यां भेदभ्रमाव्युदासिनीभ्यां फलतो विशेषसद्भावत् प्रामाण्यं तर्हि “सोऽयम्” इति वाक्यस्याऽप्येवमेव पदाभ्यां विशेषसद्भावात् प्रामाण्यमस्तु । एवं च तत्त्वमसिवाक्यमपि त्वम्पदार्थे कर्तृत्वाद्यंशं विरोधिनं परित्यज्य साक्षिमात्रमुपादाय तत्पदार्थे परोक्षाद्यंशपरित्यागेनाऽवशिष्टेन चिन्मात्रेणैक्यं पदार्थप्रतीतिसमये प्रतिपन्नमपि भेदभ्रमव्युदासाय प्रतिपादयति । तदयं प्रयोगः – तत्त्वमस्यादिवाक्यं अखण्डार्थनिष्ठम्, कार्यकरणव्यतिरिक्तद्रव्यनिष्ठत्वे सति समानाधिकरणत्वात्, सोऽयं देवदत्त इति वाक्यवद् इति ।
ननु मृद्घटो नीलमुत्पलमित्यादौ पदार्थयोः प्रत्येकमसाधारणमैक्यमेकैकपदप्रमेयं पदार्थयोरितरेतरैक्यं तु वाक्यप्रमेयमित्यनधिगतार्थगन्तृत्वादेव यथा वाक्यप्रामाण्यं तथाऽत्राप्यस्तु । तथा च भेदभ्रमव्युदासमात्रविशेषात् प्रामाण्यमित्येषा कष्टकल्पना न भविष्यतीति चेद्, न; वैषम्यात् । तत्र हि कार्यकारणयोर्द्रव्यगुणयोश्च भिन्नयोरैक्यं प्रतिपाद्यते “व्यवहारे भाट्टनयः” इति न्यायेन भेदाभेदाभ्युपगमात् । अत्र त्वखण्डैकरसं प्रतिपाद्यत इत्यस्ति महद्वैषम्यम् । अत्र केचिदाहुः – “य आत्मनि तिष्ठन्न” “एष त आत्मा सर्वान्तरः” इत्यादिशास्त्राज्जीवब्रह्मणोरपि भेदाभेदावभ्युपेयौ । अन्यथा पदार्थवाक्यार्थयोः साङ्कर्यादिति, ते प्रष्टव्याः – तत्र भेदो ज्ञानेन निवर्त्यते न वेति ? न चेन्मोक्षो न स्यात् । निवर्त्त्यते चेत्, तदाऽपि भेदाभेदविषयमेव ज्ञानं तन्निवर्तकम् उताऽभेदमात्रविषयं ज्ञानान्तरम् । नाऽऽद्यः, ज्ञानस्य स्वविषयनिरास्यत्वायोगात् । न द्वितीयः, अभेदज्ञानजनकप्रमाणाभावात् । त्वन्मते शास्त्रस्य भेदाभेदविषयत्वात् । शास्त्रजन्यभेदाभेदज्ञानाभ्यासादभेदज्ञानं जायत इति चेद्, एवमपि ज्ञाननिवर्त्त्यत्वे भेदस्य मिथ्यात्वं स्यात् । ज्ञानेनाऽज्ञानं निवर्त्यते, भेदस्तु कर्मभिर्विनश्यतीति चेद्, न; “ब्रह्म वेद ब्रह्मैव भवति” इत्येवकाराभिधेयभेदनिरासस्य ज्ञानप्रयुक्तत्वावगमात् । अथ ज्ञानप्रागभाववद्भेदस्य ज्ञाननिवर्त्त्यत्वेऽपि न मिथ्यात्वं तथापि किं येनैवाऽऽकारेण जीवस्य ब्रह्मणो भेदस्तेनैवाऽभेदोऽपि उताऽऽकारान्तरेण ? आद्ये भेदनिवृत्तावभेदोऽपि निवर्तेत, तत्प्रयोजकाकारस्यैक्यात् । द्वितीये निरवयवब्रह्मभूतस्य जीवस्य धर्मभूतो भेदो न तावत्कर्मणा निवर्तयितुं शक्यते । ज्ञानेन तन्निवृत्तावपि यदि तेन भेदेनोपलक्षितो जीवस्तदा ब्रह्मैव जीवः स्यात् । अथ भेदविशिष्टस्तर्हि भेदनाशे जीवोऽपि नश्येत् । अथ विशिष्टाकारनाशेऽपि विशेष्यांशो जीवो ब्रह्मैक्यरूपं मोक्षमनुभवेत्, तर्हि संसारदशायामपि ब्रह्मतादात्म्यापन्नः स एव विशेष्यांशो जीव इत्यभ्युपेयम्; संसारमोक्षयोर्वैयधिकरण्यायोगात् । एतेनैतदप्यपास्तं यदमृतानन्देनोच्यते न युगपज्जीवब्रह्मणोर्भेदाभेदौ विरोधात्, किन्तु पदार्थत्वदशायामतिरेको वाक्यार्थत्वदशायां चाऽखण्डत्वमिति । “एकधैवानुद्रष्टव्यं नेह नानाऽस्ति किञ्चन” इत्यादिश्रुतिविरोधश्च । न च “य आत्मनि तिष्ठन्” इत्यादिश्रुतिर्भेदाभेदौ प्रतिपादयति, किन्तु भ्रान्तिप्रसिद्धं भेदमनूद्याऽभेदमेव बोधयति । कथं तर्हि पदार्थवाक्यार्थयोः साङ्कर्यपरिहार इति चेद्, उच्यते – तत्र न तावत् पदवाच्यस्य वाक्यार्थेन साङ्कर्यप्रसङ्गोऽस्ति । वाच्यस्याऽविद्याकल्पितोपाधिविशिष्टत्वात् । पदलक्ष्यस्य तु वाक्यार्थत्वमिष्टमेव । तस्मान्महावाक्यस्याऽखण्डार्थतायां न कदाचिदनुपपत्तिः । तथा “सत्यं ज्ञानमनन्तं ब्रह्म” इत्याद्यवान्तरवाक्यमप्यखण्डार्थनिष्ठम्, लक्षणवाक्यत्वात्, प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवत् । तत्र कश्चिच्चन्द्रप्रातिपदिकार्थानभिज्ञः कञ्चित्पप्रच्छ अस्मिन् ज्योतिर्मण्डले कश्चन्द्रो नामेति ? सोऽपि चन्द्रप्रतिपादिकमात्रार्थविवक्षया प्रयुङ्क्ते प्रकृष्टप्रकाशश्चन्द्र इति । तत्र प्रकाशशब्दः प्रकाशत्वसामान्याभिधानमुखेन लक्षणया व्यक्तिविशेषे वर्तते । प्रकृष्टशब्दश्च प्रकर्षगुणाभिधानमुखेन लक्षणया प्रकाशविशेषे वर्तते । तत्र गुणसामान्ययोश्चन्द्रपदानभिधेयत्वात्तदुभयं व्युदस्य तत्समवायिप्रकाशविशेष एव चन्द्रपदाभिधेयतया समर्प्यत इति प्रकृष्टप्रकाशचन्द्रशब्दानामेकार्थता सिध्यति । न चैवं पदद्वयवैयर्थ्यम्, अप्रकाशमेघादिव्यावृत्तौ प्रकाशपदस्याऽल्पप्रकाशनक्षत्रादिव्यावृत्तौ प्रकर्षपदस्य चोपयोगात् । एवं सत्यज्ञानादिवाक्येऽप्यखण्डार्थता योजनीया ।
यत्तूक्तं ब्रह्मणः परिनिष्ठितवस्तुतया मानान्तरयोग्यस्याऽपि मानान्तरेणाऽनुपलभ्यमानत्वात्तद्बोधकानां वेदान्तानां चित्रगतनिम्नोन्नतभावबोधकचक्षुर्वदप्रामाण्यमिति । तत्र वक्तव्यं किं प्रमाणान्तरयोग्यत्वे सति तदनुत्पत्तौ विषयस्याऽभावे निश्चिते तत्र शब्दमिथ्यात्वमाशङ्क्यते किं वा प्रमाणान्तरसंभिन्नार्थविषयत्वात् पौरुषेयवचोवत्सापेक्षं प्रामाण्यमिति उत प्रमाणान्तरयोग्यार्थविषयतया तत्सिद्धार्थानुवादाशङ्केति ? नाऽऽद्यः, मानान्तरानुदयमात्रेण तथात्वे सर्वत्राऽतिप्रसङ्गात् । पौरुषेयवचसां मानान्तरसापेक्षत्वेऽपि वेदवचसस्तदयोगात् । न द्वितीयः, मानान्तरसम्भिन्नार्थत्वाभावात् । विमतं वेदान्तवाक्यं मानान्तरसम्भिन्नार्थम्, भूतार्थविषयत्वाद् नदीतीरफलसत्तावाक्यवदिति चेद्, न; पौरुषेयवचनत्वस्योपाधित्वात् । अनुभूतार्थस्मृतिवदिति निदर्शनेऽपि स्वार्थप्रवृत्तज्ञानान्तरजन्यत्वमुपाधिः । न हि वेदवाक्यं मानान्तरेणाऽर्थमुपलभ्य विरचितं येन साधनव्यापकता स्यात् । अथ मन्यसे – वेदान्तवाक्यस्य भूतार्थविषयत्वान्मानान्तरयोग्यार्थत्वं साधयित्वा तेन च सम्भिन्नार्थता साधनीयेति, तर्हि विधिवाक्यानामपि तुच्छव्यावृत्तार्थत्वान्मानान्तरयोग्यविषयतया संभिन्नार्थता केन वार्यते ? न च विधिवाक्यत्वादेव मानान्तरयोग्यार्थत्वाभावः, लौकिकविधिवाक्येषु मानान्तरयोग्यार्थत्वदर्शनात् । तत्राऽपि तदयोग्यार्थत्वे कार्यसम्बन्धग्रहणासम्भवाद्वेदेऽपि तत्प्रतिपत्तिर्न स्यात् । अथ वैदिककार्यस्य कालत्रयातीतस्वभावत्वाद् न मानान्तरयोग्यता तर्हि ब्रह्मणोऽपि रूपादिहीनस्वभावत्वादेव मानान्तरयोग्यता न भविष्यति । अस्ति ब्रह्मणि मानान्तरं स्वरूपचैतन्याख्यमिति चेद्, न; तस्यैव ब्रह्मत्वाद् । स्वरूपचैतन्यस्य ब्रह्मप्रमापकत्वेऽपि तत्सम्भिन्नार्थत्वमात्रेण न तत्सापेक्षत्वदोषः । स्वप्रकाशपुरुषान्तरसंवेदनगोचरानुमानस्य तत्सापेक्षत्वदोषादर्शनात् । नाऽपि तृतीयः, स्पर्शज्ञानयोग्यद्रव्यविषयस्य चक्षुषोऽनुवादकत्वादर्शनात् । शब्द एवेयमनुवादकतेति चेत्, तथापि विधिवाक्ये तामाशङ्कां कथं परिहरिष्यसि । लौकिकस्य विध्यर्थस्य मानान्तरयोग्यत्वेऽपि वैदिकस्य तदयोग्यत्वादिति चेद्, भूतार्थेऽपि तत्समानम् । न च शब्दस्यैवानुवादकत्वशङ्केति नियन्तुं शक्यम्, शब्दावगतेऽर्थे मानान्तरमेवाऽनुवादकमित्यस्याऽपि सुवचत्वात् । तस्माद्भूतार्थनिष्ठमपि वैदिकं वचो निरपेक्षं प्रमाणम् ।
ननु सर्वत्रोत्तमवृद्धो मानान्तरेणाऽर्थमुपलभ्य तत्र शब्दं प्रयुङ्क्ते । मध्यमवृद्धश्च तस्माच्छब्दात्तमर्थमवगत्य तत्र प्रवर्तते । तां च प्रवृत्तिमुपलभ्य बालो व्युत्पद्यते यथाव्युत्पत्ति च शब्दस्य बोधकत्वम् । ततो मानान्तरसम्भिन्नस्यैवाऽर्थस्य शब्दप्रमेयतया कथं वचसो निरपेक्षं प्रामाण्यम् ? नैष दोषः; बालो हि स्वयं मानासम्भिन्नं घटादिप्रमेयमात्रं प्रत्यक्षादिभिरवगत्य तत्र प्रवर्तमानः स्वदृष्टान्तेन मध्यमवृद्धस्याऽपि मानान्तरामिश्रितशुद्धप्रमेयज्ञानपूर्विकां प्रवृत्तिमनुमाय तस्मिन् प्रमेयमात्रे शब्दस्योत्तमवृद्धप्रयुक्तस्य सामर्थ्यमवगच्छति । न च वाच्यं कार्यस्य केवलस्य शब्दशक्तिविषयत्वेऽपि सिद्धार्थस्य मानान्तरसंभिन्नस्यैव तद्विषयतेति । तत्र तावत् कार्यवाक्यगतसिद्धपदानि मानान्तरासम्भिन्नेऽर्थे शक्तिमन्ति कार्यवाक्यगतत्वात्, कार्यपदवत् । तथा च तद्दृष्टान्तेनेतरेषामपि सिद्धपदानां तत्साधनीयम् । यत्तूत्तमवृद्धस्याऽर्थोपलब्धिहेतुभूतं मानान्तरं तद्विवक्षोत्पादनद्वारा शब्दप्रयोगे हेतुर्न तु शब्दप्रमेयेऽन्तर्भवति तच्च बालस्तदाऽवगमिष्यति यदा स्वयमुत्तमवृद्धो भूत्वा शब्दप्रयोगं करिष्यति ।
अत्र केचिच्चोदयन्ति – व्यर्थोऽयं व्युत्पत्तिनिरूपणप्रयासः । शब्दस्याऽर्थासंस्पर्शित्वात् । नह्यङ्गुल्यग्रे हस्तियूथशतमास्त इत्यादिशब्दैः कश्चिदर्थः प्रमीयते । यत्राऽप्याप्तवाक्ये प्रमीयते तत्राऽपि मानान्तरनिबन्धना सा प्रमितिर्न शब्दनिबन्धनेति । तदेतच्चोद्यं प्राभाकरः परिहरति । यद्यपि पौरुषेयवाक्यैर्नाभिधेयसंसर्गः प्रमीयते तथाप्येवमयं पुरुषो वेदेति वक्तृज्ञानविशेषः प्रमीयते एव । अङ्गुल्यग्रादिवाक्येष्वप्यव्यभिचारात् । स च ज्ञानविशेषो ज्ञेयविशेषं कल्पयतीति । सोऽयं परिहारोऽनुपपन्नः, वैयधिकरण्यात् । शब्दस्याऽर्थासंस्पर्शित्वे चोदिते लिङ्गस्य तत्संस्पर्शित्वं प्रतिपाद्यत इति किं केन सङ्गच्छेत । वक्तृज्ञानद्वारा शब्दार्थसंस्पर्शः प्रतिपाद्यत इति चेद्, न; वक्तृज्ञानस्य शब्दप्रमेयत्वायोगात् । “गामानय” इत्यादिवाक्येषु वक्तृज्ञानवाचकपदाभावात् । वाक्यार्थस्य पदार्थानतिरेकात् । अतिरेकेऽपि किं वक्तृज्ञानमात्रं वाक्यार्थ उत ज्ञेयविशिष्टम् । आद्ये लौकिकवाक्यादप्रमिते ज्ञेये व्यवहारो न स्यात् । ततो व्युत्पत्त्यभावाद्वैदिकवाक्यस्याऽप्यबोधकत्वप्रसङ्गः । द्वितीये ज्ञेयमेव वाक्यात् प्रमीयताम्, वक्तृज्ञानस्य शब्दप्रयोगलक्षणलिङ्गानुमेयतयाऽन्यथासिद्धेः । ननु ज्ञेयमप्यन्यथासिद्धम्, श्रोता हि पदेभ्यः पदार्थानवगत्य नूनमेषां संसर्गोऽस्तीति सहप्रयोगबलादुत्प्रेक्षत इति चेद्, मैवम्; उत्प्रेक्षाया एवाऽत्र वाक्यजन्यप्रमितित्वात् । न तावदियमुत्प्रेक्षा स्मृतिसंशयविपर्यासेष्वन्तर्भवति, संस्कारजन्यत्वकोटिद्वयबाधानामभावात् । प्रमितित्वेऽपि प्रत्यक्षादिकारणान्तराभावाद् वाक्यजन्यत्वं परिशिष्यते । न च वक्तृज्ञानेनाऽनुमितेन ज्ञेयमन्तरेणाऽनुपपद्यमानेन पदार्थसंसर्गः कल्पयितुं शक्यः, तथा सति वेदे वक्तुरभावात्संसर्गप्रमित्यसिद्धेः । तस्माच्छाब्दमेव संसर्गज्ञानम् । अङ्गुल्यग्रादिवाक्यानां त्वनाप्तसंसर्गादर्थास्पर्शित्वम् । अर्थसंस्पर्शिनोऽपि प्रत्यक्षस्य कारणदोषे सति शुक्त्याद्यर्थासंस्पर्शित्वदर्शनात् । न ह्यपौरुषेयस्याऽद्वैतागमस्य कश्चिद्दोषसंसर्गः सम्भवति येनाऽर्थासंस्पर्शित्वमाशङ्क्येत । यदि द्वैतावभासीनि प्रत्यक्षादीनीति तेन विरुध्येरन् तदा तान्येव बाध्यन्ताम् । “इन्द्रो मायाभिः” इत्यादिना मायाख्यदोषजन्यत्वश्रवणात् । दोषजन्यत्वेऽपि स्वप्नवद्व्यवहाराविसंवादे प्रामाण्यलाभात् । अद्वैतागमोऽपि प्रत्यक्षादिविषयस्य द्वैतस्य तत्त्वांशमेव बाधते न व्यवहारसंवादांशम् । एवं च सति यथा मायाकार्याणामपि प्रत्यक्षादीनां स्वस्वविषयेषु व्यावहारिकपदार्थेषु प्रामाण्यं तथैवाऽद्वैतागमस्य मायाकार्यत्वेऽप्यद्वैते स्वविषये प्रामाण्यं किं न स्यात् ? न चैवं शुक्तिरजतादिज्ञानेऽतिप्रसङ्गः शङ्कनीयः, तत्राऽपि यावद्बाधं प्रातिभासिकेषु रजतादिषु ज्ञानस्य स्वतः प्रामाण्यानिवारणात्, अन्यथा प्रवृत्त्यनुपपत्तेः । विशेषदर्शनकालीनबाधपर्यालोचनयैवाऽप्रामाण्यव्यवहारात् । न चाऽद्वैतज्ञानस्य कदाचिद्बाधोऽस्ति, येनैतादृशमप्रामाण्यमुच्येत ।
ननु चित्रगतनिम्नोन्नतविषयचाक्षुषज्ञानस्य विषयगतश्यामादिरेखासन्निवेशविशेषाख्याद्दोषादप्रामाण्यं यथा दृष्टं तथाऽत्राप्यद्वैताख्याद्विषयदोषादप्रामाण्यमिति चेद्, न; तत्राऽपि स्पर्शज्ञानबाधादेवाऽप्रामाण्यात् । अनधिगतार्थगन्तृत्वलक्षणस्य प्रामाण्यस्य न संवादापेक्षा शङ्कितुमपि शक्या । न चाऽऽम्नायस्य सर्वस्य क्रियार्थत्वाद्विधिवाक्यानामेव प्रामाण्यमिति वाच्यम्, इतरेतराश्रयत्वात् । विधिवाक्यानामेव प्रामाण्ये सिद्धे सर्वस्याऽऽम्नायस्य क्रियार्थत्वसिद्धिस्तत्सिद्धौ चेतरसिद्धिरिति । न च प्रवृत्तिनिवृत्तिसाध्ययोरिष्टप्राप्त्यनिष्टपरिहारयोरभावादपुरुषार्थे ब्रह्मणि कथं वेदान्तप्रामाण्यमिति शङ्कनीयम्; लोको हीष्टप्राप्त्यनिष्टपरिहारावेव साक्षात् प्रार्थयते न प्रवृत्तिनिवृत्ती, तयोरायासात्मकत्वात् । अप्राप्तग्रामादिप्राप्तावपरिहृतरोगादिपरिहारे चाऽऽयासमन्तरेणाऽभिलषितसिद्ध्यभावादायासं पुरुषः सहेताऽपि, यत्र तु प्राप्तमेव कण्ठचामीकरादिकमजानानः पुरुषः पुनः प्राप्तुमिच्छति परिहृतमेव च रज्जुसर्पादिकं परिजिहीर्षति तत्र ज्ञानमात्रादभीष्टसिद्धौ कुत आयासं सहेत । न हि तत्राऽऽयासोऽपेक्ष्यते, प्रत्युत ज्ञाने सति पूर्वोऽप्यायासः परिह्रियते । एवं च सति नित्यप्राप्तस्य ब्रह्मणः प्राप्तौ नित्यनिवृत्तस्य संसारस्य परिहारे च हेतुभूतं तत्त्वज्ञानं जनयतां वेदान्तानां कुतोऽपुरुषार्थपर्यवसायित्वशङ्का । तस्माद्वेदान्तानां ब्रह्मणि प्रामाण्यं केनाऽपि वारयितुं न शक्यम् । किञ्च, पुरुषार्थस्य प्रामाण्यप्रयोजकत्वे नित्यनैमित्तिकवाक्यानां प्रामाण्यं गुरुमते दुःसम्पादम् । न हि तत्र फलमस्ति, किन्त्वनुष्ठाने प्रयास एव, अननुष्ठाने तु प्रत्यवायः स्पष्टः । तत उभयथाऽप्यनर्थहेतूनां तेषां कथं प्रामाण्यसिद्धिः । तस्मात्प्रत्यक्षादिवच्छब्दस्याऽप्यनधिगताबाधितासन्दिग्धार्थबोधकत्वमात्रं प्रामाण्यनिमित्तम् । तच्च कार्यब्रह्मवाक्ययोः समानम् । तथा च सति पूर्वपक्षिणा वेदान्तानामप्रामाण्यसिद्धये महता प्रयासेन यद्विधिपरत्वकल्पनं तदकाण्डे ताण्डवितम्, तस्मात्सिद्धं ब्रह्मणि वेदान्तानां प्रामाण्यमिति ।
इति श्रीविद्यारण्यमुनिप्रणीते विवरणप्रमेयसङ्ग्रहे चतुर्थसूत्रे प्रथमं वर्णकं समाप्तम् ।
द्वितीयं वर्णकम्
शब्दानां सिद्धार्थे शक्तिमङ्गीकृत्याऽपि ब्रह्मणि वेदान्तप्रामाण्यं न सम्भवतीति ये मन्यन्ते तेषां मतं पूर्ववर्णके निरस्तम् । ये पुनः कार्यान्वितस्वार्थे एव शब्दशक्तिरिति मन्यमानाः कार्यशेषतयैव ब्रह्म वेदान्तैः प्रमीयते इति कथयन्ति, तेषां मतमस्मिन्वर्णके निरस्यते । ते ह्येवमाहुः – उत्तमवृद्धेन गामानयेत्युक्तेऽनन्तरं मध्यमवृद्धेन क्रियमाणं गवानयनं व्युप्तित्सुर्बालो गवानयनकार्यमनेन वाक्येन बोधितमित्यवगत्य पुनरश्वमानय गां बधानेत्यादिप्रयोगेष्वावापोद्धाराभ्यामेकैकस्य पदस्य कार्यान्वितस्वार्थे सामर्थ्यं प्रतिपद्यते । न चेष्टसाधने व्युत्पत्तिः सम्भवति, अतीते इष्टसाधनादौ मध्यमवृद्धप्रवृत्त्यभावात् । कृतियोग्ये इष्टसाधने प्रवृत्तिरस्तीति चेत्, तर्ह्यव्यभिचारात्कार्यमेव व्युत्पत्तिप्रयोजकं भविष्यति । अव्यभिचारित्वमात्रेण कार्यस्य प्रयोजकत्वे कार्यगतलौकिकत्वस्याप्यव्यभिचाराद् व्युत्पत्तौ प्रयोजकत्वं प्रसज्येत । तथा च वेदे नियोगप्रतिपत्तिर्न स्यादिति चेद्, न; कार्यं परित्यज्याऽन्वितस्वार्थमात्रस्य प्रयोजकत्वाङ्गीकारे केनाऽन्वित इति साकाङ्क्षत्वप्रसङ्गात् । न च लौकिकत्वपरित्यागे बाधोऽस्ति । ननु सिद्धपदानां कार्यान्वितस्वार्थसम्भवेऽपि कार्यपदस्य न तत्सम्भवः कार्यान्तराभावादिति चेद्, न; धात्वर्थस्याऽपि कार्यतया तदन्वितयोगे कार्यपदस्य व्युत्पत्तेः । यद्यपि लोके “फलितो द्रुमः” इत्यादिवाक्यानि कार्यरहितान्यपि प्रयुज्यन्ते तथापि तत्र “तं पश्य” इत्यादिकार्याध्याहारोऽवगन्तव्यः, कार्यान्विते व्युत्पन्नस्य पदस्य कार्यमन्तरेणाऽबोधकत्वात् । अतः प्रवृत्तिनिवृत्तिसाध्यप्रयोजनमन्तरेण वाक्यप्रयोगानुपपत्तेर्नियोगनिष्ठा वेदान्ताः । न च रज्जुसर्पकण्ठचामीकरादाविव तत्त्वज्ञानमात्रेण प्रयोजनमुपलभामहे । न चैतच्छास्त्रीयम्, तथा सति श्रवणोत्तरकालीनयोर्मनननिदिध्यासनयोरविधिप्रसङ्गात् । न च सर्वस्य वेदस्य विधिनिष्ठत्वे सत्येकैव मीमांसा षोडशलक्षणी स्यादिति शङ्कनीयम्, क्रियाविधिप्रतिपत्तिविधिरूपाभ्यां तद्भेदसिद्धेः । यानि वेदान्तवाक्यानि ब्रह्मस्वरूपप्रतिपादकानि “सदेव सोम्येदम्” इत्यादीनि तानि सर्वाणि “सोऽन्वेष्टव्यः” इत्यादिविधिषु कोऽसावात्मेत्याकाङ्क्षायां तच्छेषतयैवाऽऽत्मविशेषं समर्पयन्ति । तस्मादनन्यशेषाद्वितीयप्रतिपादकत्वं वेदान्तानां नाऽस्तीति ।
अत्रोच्यते – न तावन्नियोगब्रह्मणी उभे अपि वेदान्तैः प्रमातुं शक्येते, विरुद्धत्रिकद्वयापत्तिप्रसङ्गात् । तच्च प्रथमसूत्रद्वितीयवर्णके विस्तृतम् । नाऽपि नियोगमात्रं प्रमातुं शक्यम्, विधेयानिरूपणात् । न तावच्छाब्दं ब्रह्मज्ञानं विधेयम्, तस्याऽऽपातिकस्याऽध्ययनादेव निष्पत्तेः । निर्णयश्च विचारजन्यः । अन्यथाऽग्निहोत्रादिज्ञानस्याऽपि तद्वाक्याध्ययन तद्विचाराभ्यामसिद्धिप्रसङ्गात् । नाऽपि शब्दावगते ब्रह्मणि स्मृतिसन्तानो विधेयः, तद्विधेरदृष्टफलत्वे स्वर्गादिवन्मोक्षस्याऽपि कर्मजन्यत्वेनाऽनित्यत्वप्रसङ्गात् । अथाऽङ्गमर्दनप्रवाहेण शरीरे सुखप्रवाहोत्पत्तिवदभीष्टब्रह्मविषयस्मृतिसन्तानेनाऽपि सुखसन्तानो दृष्टफलं भवेत्, तर्ह्यन्वयव्यतिरेकाभ्यां तत्सिद्धेर्विधिवैयर्थ्यम् । अस्तु तर्हि स्मर्यमाणस्य साक्षात्करणं स्मृतिसन्तानविधेः प्रयोजनमिति चेत्, तदापि किं स्मृतिसन्तानः स्वयमेव साक्षात्कारं जनयेत् उताऽदृष्टद्वारा अथवा विज्ञानान्तरद्वारा ? नाऽऽद्यः, न हि स्मृतिरूपस्य परोक्षज्ञानस्य सन्तानो विषयसाक्षात्कारं जनयितुमुत्सहते । अन्यथाऽनुमानज्ञानसन्तानोऽप्यनुमेयसाक्षात्कारमुत्पादयेत् । द्वितीयेऽपि न तावत् स्मृतिसन्तानजन्यमदृष्टमात्रं साक्षात्करोत्पादने प्रभवति; साक्षात्कारस्य प्रमाणजन्यत्वात् । प्रमाणस्याऽप्यदृष्टसहकारित्वे प्रमाणेनैव साक्षात्कारोत्पत्तावदृष्टवैयर्थ्यम् । न तृतीयः, स्मृतिसन्तानजन्यं तद्विज्ञानान्तरं स्वयमेव साक्षात्कारजनकम् उताऽदृष्टद्वारेत्यादि विकल्पदोषप्रसङ्गात् ।
ननु तर्हि शब्दावगते ब्रह्मणि ध्यानं विधीयताम् । न च स्मृतिसन्तान एव ध्यानम्, स्मृतिसन्तानस्य वस्तुगोचरत्वाद् ध्यानस्याऽरोपितविषयतयाऽपि सम्भवात् । न च प्रयोजनाभावः, ब्रह्मापरोक्षस्य प्रयोजनत्वात् । दृश्यते हि ध्यानाभ्यासप्रचयसामर्थ्यान्मृतपुत्राद्यापरोक्ष्यम् । न च तद्वदेव ब्रह्माऽऽपरोक्ष्यस्य भ्रान्तत्वप्रसङ्गः, शब्दप्रमाणसंवादसद्भावात् । स्वप्नवस्तुसाक्षात्कारस्याऽपि कस्यचिज्जागरणज्ञानसंवादे प्रामाण्यदर्शनात्, नैतत्सारम्; स्वतःप्रामाण्यहानिप्रसङ्गात् । न च स्वप्ने चक्षुरादिप्रवृत्तिमन्तरेण वस्तुसाक्षात्कारः सम्भवति । जागरणसंवादस्तु सादृश्यादुपपद्यते । अथ स्मृतिसन्तानध्यानयोरविधेयत्वेऽपि शाब्दज्ञानादन्यदेव ज्ञानमलौकिकं श्रवणमननादिकरणकं वेदानुवचनादीतिकर्तव्यताकं ब्रह्मापरोक्ष्यफलकं मोक्षकामः कुर्यादिति विधीयत इति चेद्, मैवम्; वेदान्तानां ब्रह्मप्रमापके विधेयज्ञाने प्रामाण्यकल्पनाद् ब्रह्मण्येव साक्षात्प्रामाण्यकल्पनाया लघीयस्त्वात् । न च विधिसंस्पर्शित्वं प्रामाण्यकारणम्, किन्तु प्रमितिजननम् । अन्यथा अग्निहोत्रादिवाक्यं दर्शपूर्णमासविधिनिष्ठमपि स्याद्, विधिसंस्पर्शाविशेषात् । प्रमितिश्च सत्यज्ञानादिवाक्येभ्यो ब्रह्मण्येव जायते, न विधौ । न च लौकिकात् प्रामाण्यादन्यदेव वैदिकं प्रामाण्यं विधिसंसृष्टमिति शङ्कनीयम्, यथा शब्दार्था य एव लौकिकास्त एव वैदिकास्तथा प्रामाण्यस्याऽपि लोकवेदयोरेकत्वात् । तदेवं वेदान्तेषु न किञ्चिद्विधेयं निरूपयितुं शक्यम् ।
नाऽपि नियोगः सुनिरूपः । लोके ह्याचार्यः शिष्यं नियुङ्क्ते इत्यादावुत्कृष्टस्य पुरुषस्याऽवरपुरुषप्रेरणात्मकोऽभिप्रायभेदो नियोगत्वेनाऽभिमतः । न चाऽसावपौरुषेये वेदे सम्भवति । ननु नियोगो नाम प्रवर्तकः, प्रवर्त्तकत्वं कार्यबुद्धिगम्ये वस्तुनि प्रतिष्ठितमिति चेत्, किमिदं कार्यं नाम किं कृतिसंसृष्टं किं वा कृतियोग्यम् अथवा कृतियोग्यत्वे सति क्रियाकारकफलविलक्षणं किञ्चिदलौकिकम् ? नाऽऽद्यः, कृतिर्हि पुरुषप्रवृत्तिः, कार्यं च प्रवृत्तिनिमित्तम् । न च प्रवृत्तिसंसृष्टस्य प्रवृत्तिनिमित्तत्वं सम्भवति । अंशतः, आत्माश्रयत्वात् । न द्वितीयः; दुःखसाधनानामपि कृतियोग्यतया कार्यत्वे सति प्रवर्तकत्वप्रसङ्गात् । न तृतीयः, तस्य प्रत्यक्षाद्यगोचरस्य व्युत्पत्त्ययोग्यस्य शब्दप्रतिपाद्यत्वासम्भवात् । न च पराभिमतकार्यानङ्गीकारे प्रवर्तकाभावः, कृतियोग्येष्टसाधनस्य प्रवर्तकत्वात् । कृतियोग्यत्वविशेषणोपादानान्न चन्द्रोदयादौ व्यभिचारः । यद्यपि कृतियोग्यस्य फलस्याऽपि प्रवर्तकत्वमस्ति, तथापि बालस्य व्युत्पत्तिनिमित्ततया मध्यमवृद्धप्रवृत्तिहेतुभूतं गवानयनादिलक्षणमिष्टसाधनमेव । अतश्च येयं महता प्रयासेन कार्यव्युत्पत्तिः साधिता सा नाऽस्माकमनिष्टा, इष्टसाधनस्यैव कृतियोग्यस्य कार्यत्वाभ्युपगमात् । एकमेव हि वस्तुकृतिनिरूप्यतया कार्यमित्युच्यते इष्टनिरूप्यतया चेष्टसाधनमिति । न च पराभिमतालौकिककार्ये इवेष्टसाधनेऽपि कृतियोग्येऽननुभूते प्रमाणाभावः शङ्कनीयः, अतीतेष्वन्नपानादिष्वन्वयव्यतिरेकाभ्यामिष्टसाधनत्वमवगत्याऽनागतेष्वपि तेषु तदनुमानात् । न चैवं परकीयकार्यमनुमातुं शक्यम्, अलौकिकत्वव्याघातात् । तस्मात् कृतियोग्येष्टसाधनमेव विध्यर्थो न तु नियोगः । न चैतादृशोऽपि विधिर्वेदान्तेषु सम्भवति । तत्राऽविद्यानिवृत्तिलक्षणो मोक्ष इष्टस्तस्य च साधनं ब्रह्मात्मैक्यतत्त्वज्ञानम् । सोऽयं साध्यसाधनभावो लोकसिद्धः । शुक्तित्वज्ञानेन तदविद्यानिवृत्तिदर्शनात् । अतस्तद्विधिपरत्वे वेदान्तानामनुवादकत्वप्रसङ्गः । ननु सिद्धे व्युत्पत्त्यभावाद् ब्रह्मपरत्वमपि न सम्भवतीति चेद्, न; “प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति” इत्यादावप्रसिद्धमधुकरपदार्थस्य पुरुषस्य प्रसिद्धपदसमभिव्याहारेण सिद्धार्थेऽपि व्युत्पत्तिदर्शनात् । न च तत्र कार्याध्याहारः कल्पनीयः, प्रयोजनप्रमाणयोरभावात् । न च व्युत्पत्तेः कार्याव्यभिचारः प्रयोजनम्, तस्यैवाऽद्याप्यसम्प्रतिपत्तेः । तस्माद् ब्रह्मण्येव वेदान्तप्रामाण्यम् ।
अत्र केचिन्मन्यन्ते – न खलु जीवब्रह्मणोरैक्यमस्ति, “यदतः परो दिवो ज्योतिर्दीप्यते” इति ज्योतिःशब्दाभिधेयस्य ब्रह्मणो ब्रह्माण्डाद्बहिरवस्थानश्रवणात् । यदि सर्वगत्वश्रुतिः कुप्येत, तर्हि सर्वत्र वर्तमानमपि ब्रह्म जीवैर्वा प्रपञ्चेन वा न संस्पृश्यते, “असङ्गो ह्ययं पुरुषः” इति श्रुतेः । “अहं ब्रह्मास्मि” इति श्रुतिस्त्वारोपिततादात्म्यरूपेणोपासनं विदधाति । तस्माच्चोपासनान्मोक्षः फलिष्यति यागादिव स्वर्गः । न च वेदान्तानामुपासनाविधिपरत्वे ब्रह्मस्वरूपासिद्धिः, देवताधिकरणन्यायेन मानान्तरसिद्धिविरोधयोरभावे स्वार्थेऽपि प्रामाण्यसम्भवात् । न च जीवाद्भिन्ने ब्रह्मण्यद्वैतश्रुतिव्याकोपः, तस्याः श्रुतेर्विकारातीतब्रह्मविषयत्वात् । तस्य चैकत्वाभ्युपगमात् । न च नैयोगिकफलत्वे मोक्षस्य स्वर्गादिवदनित्यता, “न स पुनरावर्तते” इति श्रुत्याऽनुमानस्य बाधादिति ।
नैतत्सारम्, आद्यन्तशून्यस्य मोक्षस्योपासनात्मकक्रियासाध्यत्वायोगात् । “विमुक्तश्च विमुच्यते”, “ब्रह्मैव सन् ब्रह्माप्येति” इत्यादिश्रुतिर्मोक्षस्याऽनादितामाह । “विद्ययाऽमृतमश्नुते”, “ब्रह्मसंस्थोऽमृतत्वमेति” इत्यादिका चाऽविनाशितां प्रतिपादयति । तथा तदनुग्राहको न्यायोऽप्यनुसन्धेयः । सादित्वे च मोक्षस्याऽन्तवत्त्वं स्यात् । अन्तवत्त्वे च पुनर्बन्धान्मोक्षशब्दस्योपचरितार्थत्वप्रसङ्गः । तथा क्रियासाध्यत्वेऽभ्युदयफलवच्छरीरेन्द्रियादिसम्बन्ध उपचयापचयत्वं च केन वार्येत । कर्मफलस्य वैचित्र्यदर्शनाच्छरीरादिरहितो मोक्षोऽपि तत्फलं भविष्यतीति चेद्, न; शरीरादिराहित्यस्य स्वाभाविकत्वात् । तथा हि – न तावदात्मनो देहेन संयोग उपपद्यते, निरवयवत्वात् । नाऽपि समवायः, देहं प्रति समवायिकारणत्वाभावात् सामान्यादिरूपत्वाभावाच्च । एवं तादात्म्यादिनिराकरणमूह्यम् । ततो वास्तवसम्बन्धाभावे सत्यशरीरत्वं स्वाभाविकं सशरीरत्वं तु मिथ्याज्ञानकृतमित्यभ्युपेयम् ।
न च मिथ्याज्ञानं कर्मभिर्निवर्तते ? नाऽप्यशरीर एव मोक्षः कर्मभिरन्यथा परिणम्यत इति वक्तुं शक्यम्, कूटस्थस्य परिणामायोगात् । नन्वेवमप्युपासनासाध्यत्वमात्रेण मोक्षस्य कथमुपचयादिप्राप्तिरिति चेद्, उच्यते – तत्रोपासनस्य स्वरूपतः सङ्ख्यातः कालतो वा परिमितिरस्ति न वा? न चेत्, तर्ह्यनिर्धारितविशेषस्योपासनस्याऽनुष्ठानमशक्यं स्यात् । अस्ति चेत्, तर्हि सा प्रदर्शनीया ? न हि साङ्गदर्शपूर्णमासपरिमितिवदेतावदिदमित्युपासनास्वरूपपरिमितिः प्रदर्शयितुं शक्यते । न च सङ्ख्यातः परिमाणमस्ति । सहस्रं लक्षं वा प्रत्ययानां मोक्षसाधनमित्येतादृशस्य नियामकस्याऽदर्शनात् । नाऽपि कालतः परिमाणमस्ति, एकं शतं सहस्रं वा संवत्सराणामुपासीनस्य मोक्ष इति नियमप्रमाणाभावात् । मरणमेवाऽवधिरिति चेत्, तथापि दर्शपूर्णमासवदेकाकारा साधनपरिमितिर्न लभ्यते । एकेन दशभिः शतेन सहस्रेण वा कालेन कस्यचिन्मरणात् पुरुषभेदेषूपचयापचयप्रसङ्गात् । उपास्यापरोक्ष्यमवधिरिति चेत्, तथापि कस्यचित्केनचित्कालेनाऽऽपरोक्ष्यात्साधनोपचयापचयौ तदवस्थावेव । अतस्तत्फले मोक्षेऽप्युपचयापचयौ दुर्वारौ । लोके वेदे च क्रियातारतम्यात् तत्फलेऽपि तारतम्यदर्शनात् । न चोपासनैकरूप्याभावेऽपि फलैकरूप्यं शास्त्राद्भविष्यतीति शङ्कनीयम्, शास्त्रस्याऽन्यथाऽनुपपत्तौ न्यायविरुद्धकल्पनायोगात् । अतो “यत्कृतकं तदनित्यम्” इत्यादिन्यायानुसारेणाऽनित्यत्वादिकं मोक्षस्य प्राप्नोति ।
यत्तूक्तमपुनरावृत्तिश्रुतिबाधितोऽयं न्याय इति, तदसत् । तत्र किं “ब्रह्म लोकमभिसम्पद्यते” “न स पुनरावर्तते” इत्येषा श्रुतिर्बाधिका उत “एषैव देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्त” इत्येषा श्रुतिः ? नाऽऽद्यः, अप्रसक्तप्रतिषेधात् । न हि ब्रह्मलोकाभिसम्पत्तिसमये पुनरावृत्तिः प्रसक्ता, अथ न स पुनरावर्तिष्यत इति वाक्यार्थः कल्प्येत, तन्न; “तद्यथेह कर्मजितः” इत्यादिश्रुत्याऽनुमानेन च विरोधे सति श्रुतार्थपरित्यागेनाऽश्रुतार्थकल्पनासम्भवात् । द्वितीये त्विममिति विशेषणं मानवान्तरे पुनरावृत्तिं दर्शयति । नन्वस्मिन् कल्पेऽनावृत्तिं प्रतिपादयतो वाक्यस्य कल्पान्तरे पुनरावृत्तिप्रतिपादनेऽपि तात्पर्ये वाक्यभेद इति चेद्, न; पुनरावृत्तेरार्थिकत्वात् । अन्यथा सर्वत्र सविशेषणवाक्येष्वस्य चोद्यस्य दुष्परिहरत्वात् । नन्वेषा श्रुतिः कल्पे कल्पे प्रवर्तमाना तत्र तत्राऽऽवृत्तिं निषेधति ततोऽर्थादनावृत्तेरात्यन्तिकत्वसिद्धिरिति चेद्, न; प्रतिपत्तृभेदात् । अस्मिन् कल्पे प्रतिपन्नानामागामिकल्पे पुनरावृत्तिस्तत्र प्रतिपन्नानां तत उपरिकल्पे पुनरावृत्तिरित्यभ्युपेयम् । अन्यथा विशेषणवैयर्थ्यात् ।
नन्वस्तु तर्ह्यनित्य एव मोक्षः, अनित्यस्याऽपि स्वर्गादेः पुरुषार्थत्वदर्शनात् । तथा चोपासनक्रियासाध्यो मोक्षो भविष्यतीति चेत्, किं न्यायानुसारेणैवमुच्यते किं वा श्रुत्यनुसारेण ? नाऽऽद्यः, न्यायवित्त्वाभिमानिभिरेव साङ्ख्ययोगवैशेषिकनैयायिकबौद्धादिभिः सर्वैः स्वस्वप्रक्रियानुसारेणाऽनादिमिथ्याज्ञानस्य तत्त्वज्ञानेन निवृत्तौ मोक्षो भवति स च नित्य इत्येवाऽङ्गीकारात् । न द्वितीयः, “य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति”, “तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे”, “त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि”, “भूयाश्चान्ते विश्वमायानिवृत्तिः”, “य एतद्विदुरमृतास्ते भवन्ति” इत्याद्याः श्रुतयो ब्रह्मात्मत्वदर्शनसमकालमेवाऽविद्यानिवृत्तावविनाशिनं मोक्षं दर्शयन्त्यो न क्रियानुप्रवेशशङ्कामपि सहन्ते ।
ननु अहं “ब्रह्मास्मि” इत्यादिशास्त्रं न ब्रह्मात्मैकत्वपरं किन्तु जीवविलक्षणे प्रमाणान्तराविरुद्धे ब्रह्मणि शास्त्रप्रतिपन्ने सम्पदध्यासक्रियायोगसंस्कारेष्वन्यतममपरं भविष्यति । तत्र सम्पद् नामाल्पे वस्तुन्यालम्बने महद्वस्तुदर्शनम् । यथाऽल्पे मनसि वृत्त्यनन्तत्वसाम्येनाऽनन्तविश्वेदेवसम्पादनं कृत्वा अनन्तलोकजयः । “अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयति” इति श्रुतेः । तथा जीवे चिद्रूपसाम्येन ब्रह्मरूपसम्पादनं कृत्वा ब्रह्मफलमवाप्यते । अध्यासस्त्वन्यस्मिन्नन्यत्वदृष्टिः । यथा “आदित्यो ब्रह्म” इति श्रुतिवशादब्रह्मरूप आदित्ये ब्रह्मदृष्टिस्तथाऽत्राप्यब्रह्मरूपे जीवे ब्रह्मदृष्टिः । तत्राऽऽलम्बनमविद्यमानसमं कृत्वा सम्पाद्यस्यैव प्राधान्येन चिन्तनं सम्पद्, आलम्बनस्यैव प्राधान्येन चिन्तनमध्यास इति तद्विवेकः । क्रियायोगस्तु यथा “वायुर्वाव संवर्गः” इति श्रुतावग्न्यादीन् संवृणोतीति संवरणक्रियासम्बन्धाद् द्वयोः संवर्गगुणत्वेनोपासनं तथा जीवस्य स्वगतेन बृहत्यर्थयोगेन ब्रह्मगुणतयोपासनम् । संस्कारश्च कर्माङ्गस्य व्रीह्याज्यादेः प्रोक्षणावेक्षणादिना यथा भवति तथा कर्तृतया कर्मगुणभूतस्याऽऽत्मनो ब्रह्मदृष्ट्या संस्कारः क्रियत इति ।
नैतत्सारम्; किं जीवब्रह्मभेदप्रतिभासविरोधभयात् सम्पदादिपरत्वं वेदान्तानां कल्प्यते ? किं वा जीवब्रह्मैक्ये तात्पर्याभावाद् ? उत फलानुसारात् ? नाऽऽद्यः, अभेदेऽपि बिम्बप्रतिबिम्बवद्भेदप्रतिभासोपपत्तेः । न द्वितीयः, “अहं ब्रह्मास्मि” इत्युक्तस्यैक्यस्य “स एष इह प्रविष्टः” इति प्रवेशार्थवादेन “अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद” इति भेदनिन्दया चोपपादितत्वात् । एवं सर्वंश्रुतिष्वप्यैक्यतात्पर्यलिङ्गप्रवेशादिकमवगन्तव्यम् । न तृतीयः, अविद्यानिवृत्तिब्रह्मात्मभावश्च फलं श्रूयते । न च सम्पदादिपरत्वे तदुपपद्यते, सम्पदादीनामयथावस्तुत्वेनाऽप्रमाणज्ञानानामविद्यानिवर्तकत्वासम्भवात् । अन्यस्याऽऽन्यात्मत्वविरोधाच्च । तस्मादैक्यपरं शास्त्रम् ।
अत्र कश्चिदाह – ब्रह्मणो भिन्नाभिन्नौ जीवः । ततश्च ब्रह्मणो नित्यमुक्तता जीवस्य नित्यबुद्धता च व्यवस्थामश्नुते । अत्यन्ताभेदे तु ब्रह्मैव स्वसंसराय कथं जगदुत्पादयेत् । विरुद्धा च विशुद्धस्याऽशुद्धताप्रतिपत्तिरिति । अत्रोच्यते – न तावत् जीवब्रह्मणोर्जातिव्यक्तिभावो गुणगुणिभावः कार्यकारणभावो विशिष्टस्वरूपत्वमंशांशिभावो वा विद्यते, मानाभावात् । न च तदभावे क्वचिद्भेदाभेदौ दृश्येते, “ममैवांशो जीवलोके” इतिस्मृतेरंशांशितेति चेद्, न; “निष्कलम्” इति निरंशत्वप्रतिपादकश्रुतिविरोधात् । “पादोऽस्य विश्वा भूतानि” इति श्रुतिर्नाशांशिभावं ब्रूते, किन्तु ब्रह्मानन्त्यप्रतिपादनाय जीवस्याऽल्पतामात्रमाह । अन्यथा सांशस्य ब्रह्मणो घटादिवदवयवारभ्यत्वप्रसङ्गात् । ननु स्वाभाविकी निरवयवता बुद्ध्याद्युपाधिनिमित्तं सांशत्वमिति नोक्तदोष इति चेद्, एवमपि वास्तवभेदो न सिध्येत् । न हि निरवयवमाकाशं खड्गधारादिभिर्वस्तुतो भेत्तुं शक्यम् । अथाऽन्तःकरणोपाधीनां वस्तुतो ब्रह्मविदारणसामर्थ्यमस्ति तर्हि ब्रह्म स्वस्याऽनर्थाय कथमुपाधीन् सृजेत् । न च जीवार्था तत्सृष्टिः, तत्सृष्टेः प्राग् जीवविभागासिद्धेः । न च कर्माविद्यासंस्कारा अन्तःकरणोत्पत्तेः प्राग्विद्यमाना अपि जीवं विभजन्ते, अन्तःकरणद्रव्यस्यैव जीवोपाधित्वाङ्गीकारात् । ननु नीलपीतादिवद्भेदः स्वाभाविको द्रव्यत्वादिजातिनिबन्धनश्चाऽभेद इति चेत्, तर्हि “अयमात्मा ब्रह्म” इति सामानाधिकरण्यं न स्यात्, नीलं पीतमिति सामानाधिकरण्याभावात् । अथ न निष्पन्नो भेदो नाऽप्यनादिः किन्तूपाधिनिबन्धनः केवलं ब्रह्मणि प्रकाशते । स तर्ह्यतस्मिंस्तदारोपो विभ्रम एव स्यात् । प्रामाणिकस्य भेदस्य कथं विभ्रमत्वमिति चेद्, न; जीवब्रह्मभेदे प्रत्यक्षादीनामप्रसरात् । आगमस्तु न भेदं प्रतिपादयति प्रत्युत “एष त आत्माऽन्तर्याम्यमृत” इत्यभेदं प्रतिपाद्य “नान्योऽतोऽस्ति द्रष्टा” इति भेदं प्रतिषेधति । न च संसारित्वासंसारित्वव्यवस्थानुपपत्तिर्भेदे मानम्, अभेदस्याऽप्यङ्गीकृतत्वेऽनाऽव्यवस्थातादवस्थ्यात् । न ह्याकाशं घटेनाऽवच्छिद्य तदन्तर्धूमादिसमावेशे सत्याकाशस्य धूमादिसंयोगः परिहर्तुं शक्यते, घटावच्छिन्नभागसहितस्यैवाऽऽकाशत्वात् । अथाऽपि भेदांशमुपजीव्य व्यवस्थोच्येत तर्ह्यस्मन्मतेऽपि ब्रह्मण्यविद्यादिसंसर्गासंसर्गाभ्यां व्यवस्था किं न स्यात् । एकस्मिन्नेव वस्तुनि संसर्गस्य भावाभावौ विरुद्धाविति चेद्, न; भेदस्य भावाभावयोरेकत्र त्वयाऽभ्युपगमात् । अभेदो नाम न भेदाभावः, किन्त्वैक्याख्यं धर्मान्तरमिति चेत्, तथापि भेदाभेदौ विरुद्धावेव परस्परनिवर्तकत्वात् । “अहं मनुष्यः” इति प्रतीतं देहात्मैक्यं “नाऽहं मनुष्योऽपि तु ब्रह्मास्मि” इत्यनेन देहात्मभेदभानेन निवर्तते । तथा द्वौ चन्द्राविति प्रतीतो भेदश्चन्द्रैक्यज्ञानेन निवर्तते । अतो विरोधभीतस्त्वं कथं भेदाभेदावङ्गीकुर्वीथाः । तदङ्गीकारे वा ब्रह्मण्यविद्यासंसर्गेण तयोर्बिम्बप्रतिबिम्बदृष्टान्तेनोपपादयितुं सुशकयोः कस्तव प्रद्वेषः । न चांशभूते जीवे संसारिणि सत्यंशिनो ब्रह्मणस्तदभावे तवाऽस्ति कश्चिद् दृष्टान्तः । न हि वस्त्रैकदेशे देहैकदेशे वा चण्डालसूतिकादिभिरुपस्पृष्टे कृत्स्नौ वस्त्रदेहावप्रक्षालनीयौ भवतः । अतो न त्वन्मते ब्रह्मणोऽसंसारित्वं प्रत्युत सर्वजीवैः सर्वप्रपञ्चेन चाऽभिन्नतया सर्वं दोषजातं स्वात्मन्येव ब्रह्म पश्येत् । तथा च तादृशब्रह्मप्राप्तेरपुरुषार्थतया शास्त्रारम्भादिकमनुपपन्नं स्यात् । न हि ज्ञानध्यानादिभिः स्वोपाधौ कथञ्चित्प्रविलापितेऽप्यशेषजीवोपाधयः प्रविलापयितुं शक्यन्ते येन ब्रह्मणि सर्वो दोषः परिह्रियेत । अस्मन्मते तु ब्रह्मणि न कश्चिद्दोषः, प्रतिबिम्बश्यामत्वादीनां बिम्बसम्बन्धादर्शनात् । तत्त्वज्ञानेन सर्वोपाधिविनिर्मोक्षश्चोपपद्यते । स्वप्नकल्पितवस्तूनां सर्वेषामपि प्रबोधे निवृत्तिदर्शनात् । शुकवामदेवादितत्त्वज्ञानेन सर्वोपाधिनिवृत्ताविदानीं संसारानुपलब्धिः प्रसज्येतेति चेद्, न; त्वत्पक्षेऽपि समानत्वात् । एकैकस्य जीवस्यैकैकस्मिन् कल्पे मुक्तावप्यनन्तजीवानामतीतानन्तकल्पेषु मुक्तौ कथं संसार उपलभ्येत । अनुभवमवलम्ब्येदानीन्तनसंसारसमाधानमुभयोः समानम् । उपपत्तिस्त्वेकात्मवादिभिरस्माभिरेव कथञ्चिद्वक्तुं शक्यते । तथा हि – यस्त्वं मां प्रति बन्धमोक्षव्यवस्थां पृच्छसि स त्वमेक एव सर्वकल्पनाधिष्ठानभूतश्चिदेकरस आत्मा त्वदन्ये मुक्ता मुच्यमाना मोक्ष्यमाणाश्च सर्वे जीवास्त्वदविद्यया स्वप्ने इव कल्पिताः । वामदेवादिमुक्तिश्रुतिश्च त्वत्प्ररोचनाय ब्रह्मविद्याप्रशंसार्था । एवं च सति कस्य बन्धमोक्षावित्येष सन्देहस्तव तावत् संसारदशायां मोक्षदशायां वा न जायते । एवं प्रत्येकं तत्तत्पुरुषदृष्ट्या स स एवाऽऽत्मेति गुरुशास्त्राभ्यां बोधिते सति न कस्याऽपि सन्देह उदेतीति किमत्राऽनुपपन्नम् । अतोऽखण्डैकरसात्मवादेऽनुपपत्त्यभावात् तत्तत्परेण शास्त्रेणाऽऽत्मतत्त्वे बोधिते सद्य एवाऽविद्यातत्कार्ययोः स्वप्नवत् प्रविलीनयोः सतोरद्वितीये ब्रह्मणि सम्पदादिरूपेणोपास्तिक्रियायाः कोऽवसरः । अत एव श्रुतिर्ब्रह्मण उपास्यत्वं निषेधति - “यन्मनसा न मुनते येनाहुर्मनो मतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” इति । न च वेद्यत्ववदुपास्यत्वमपि स्यादिति मन्तव्यम्, "अन्यदेव तद्विदितादथो अविदितादधि” इति श्रुत्या वेद्यत्वस्याऽपि निषेधात् । अवेद्यत्वेऽप्यखण्डैकरसब्रह्माकारान्तःकरणवृत्त्या चैतन्याभिव्यक्तियुक्तया शास्त्रजन्यया विद्ययाऽविद्यातत्कर्यनिवृत्तेर्ब्रह्मणः शास्त्रवेद्यत्वमुपचर्यते । एतां वृत्तिं प्रति सन्निधिमात्रेणाऽखण्डैकरसत्वलक्षणस्वाकारसमर्पकतया स्वस्वाकारसमर्पकघटादिवद्वृत्तिव्याप्यत्वलक्षणं विषयत्वं ब्रह्मणोऽभिप्रेत्य “मनसैवानुद्रष्टव्यम्”, “एषोऽणुरात्मा वेदितव्यः”, "तं त्वौपनिषदं पुरुषम्" इत्याद्याः श्रुतयः प्रवृत्ताः । जडेषु घटादिष्विव प्रमाणकृतस्फुरणातिशयस्य स्वप्रकाशे ब्रह्मण्यसम्भवात् फलव्याप्यत्वाभावलक्षणमविषयत्वं च “यतो वाचो निवर्तन्ते” इत्याद्याः श्रुतयः प्रत्यपीपदन् । न चाऽत्राऽत्यन्तं फलाभावः, अन्तःकरणवृत्त्यभिव्यक्तत्वोपाधिना ब्रह्मचैतन्यस्यैव फलत्वोपचारात् । घटादिष्वप्यस्यैव फलत्वव्यवहारात् । तदुक्तम् –
“परागर्थप्रमेयेषु या फलत्वेन सम्मता ।
संवित् सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः ॥” इति ।
अतो ब्रह्मचैतन्यमुपान्त्यक्षणेऽवच्छिन्नतया फलावस्थं भूत्वा चरमक्षणे स्वावच्छेदिकां वृत्तिं निवर्तयति । तत उपर्यवच्छेदकाभावात् फलावस्थतां परित्यज्य निर्विकल्पकचैतन्यमात्रं मोक्षदशायां परिशिष्यते । एवं च सति नित्यमुक्तं ब्रह्मैव स्वाविद्यादिप्रतिबिम्बितं सज्जीवभावमापाद्य संसरति स्वविद्यया च विमुच्यत इत्युक्तं भवति ।
नन्वेवं जीवस्यैव ब्रह्मत्वे “तत्त्वमसि” आदिमहावाक्येषु पदद्वयस्य पुनरुक्तिः स्यात्, तत्परिहाराय भेदाभेदावभ्युपेयाविति चेद्, न; तथा सति वाक्यार्थज्ञानेन शरीरेन्द्रियादिसंसारस्य निवृत्त्यसिद्धेः । तथाहि – किमुपपत्तितस्तन्निवृत्तिः साध्यते ? उत “भिद्यते हृदयग्रन्थिः” इत्याद्यागमात् ? नाऽऽद्यः, त्वन्मते देहादिविशिष्टस्यैव जीवस्य ब्रह्मणा सह भेदाभेदयोर्वास्तवयोर्महावाक्यार्थतया तद्गोचरज्ञानेन देहादिनिवृत्त्ययोगात् । न द्वितीयः, वर्तमानापदेशिन आगमस्य योग्यानुपलब्धिविरोधेऽर्थवादत्वात् । अथ मोक्षदशायां देहादिनिवृत्तावागमस्य तात्पर्यं तथापि यदि मोक्षदशायां जीवस्य भेदांशो न निवर्तेत तदा तन्निर्वाहाय देहेन्द्रियान्तःकरणाद्युपाधिरप्यभ्युपेयः । ततो न संसाराद्विशेषः । यदि च भेदांशनिवृत्तिः, तदापि न तत्त्वज्ञानात्तन्निवृत्तिः, तस्य स्वविषयानिवर्तकत्वात् । त्वन्मते भेदस्याऽपि तत्त्वज्ञानविषयत्वात् । नाऽपि कर्मभिस्तन्निवृत्तिः; आगमविरोधात् । आगमस्य सार्वकालिकभेदाभेदप्रतिपादकत्वाङ्गीकारात् । न च भेदाभेदवादे तत्त्वंपदार्थौ सुनिरूपौ, तत्र कोऽसौ त्वंपदार्थो जीवः ? किं भेदाभेदाभ्यामंशभ्यामंशी किं वांशद्वयसमुदाय उतांशद्वयमेव ? आद्येऽपि यद्यभेदांशो ब्रह्म तदा ब्रह्मणो जीवांशत्वं जीवस्य च सावयवत्वमापद्येत । अथाऽभेदांशो न ब्रह्म तर्ह्यत्यन्तभेद एव स्यात् । न द्वितीयः; जीवस्याऽवस्तुत्वप्रसङ्गत् । समुदायिव्यतिरिक्तसमुदायानिरूपणात् । तृतीयेऽपि किमभेदांश एव जीवः किं वा भेदांश एव उतांशद्वयं प्रत्येकम् अथवांशद्वयं परस्परमभिन्नम् आहोस्वित्परस्परमपि भिन्नाभिन्नम् ? नाऽऽद्यः, ब्रह्मण एव जीवत्वप्रसङ्गात् । न द्वितीयः, अत्यन्तभेदप्रसङ्गात् । तथा च तत्त्वज्ञानेन मोक्षादिव्यवहारासिद्धिः । न तृतीयः, जीवद्वयप्रसङ्गात् । न चतुर्थः, तदा ब्रह्मैव जीव इति बन्धमोक्षव्यवहारासिद्धेः । न पञ्चमः, भेदाभेदानवस्थाप्रसङ्गात् । कस्य चाऽयं शास्त्रोपदेशः । न तावदभेदांशस्योपदेशः, ब्रह्मस्वरूपतया तस्योपदेशानपेक्षत्वात् । नाऽपि भेदांशस्योपदेशः । “अहं ब्रह्मास्मि” इति प्रतिपत्त्ययोगात् । मोक्षावस्थायामभिन्नतया युज्यते सा प्रतिपत्तिरिति चेद्, न भेदांशस्य पुनरभेदः सम्भवति, विरोधात् । अविद्यादिदोषोऽपि न तावदभेदांशस्य युक्तः, ब्रह्मण्येव प्रसङ्गात् । नाऽपि भेदांशस्य, उपाधिजननात् प्राग्भेदाभावत् । अथोपाधिमनपेक्ष्य स्वत एव भिन्नोंऽशोंऽशी वा जीवस्तथापि तदंशविनाशे जीवविनाशात् कस्य मोक्ष उपदिश्येत, अभेदांशस्य ब्रह्मणो नित्यमुक्तत्वात् । मोक्षोऽपि भिन्नाभिन्नश्चेत् तर्हि “ब्रह्म वेद ब्रह्मैव भवति” इत्येवकारविरोधः संसारादविशेषश्च स्यात् । न च स्वर्गनरकबन्धमोक्षादिव्यवस्थासिद्धये भेदाभेदावपेक्षितौ, भेदेनैव कथञ्चित्तत्सिद्धेः । न च तावेकत्र युक्तौ । भेदस्य धर्मिप्रतियोगिसपेक्षत्वादभिन्ने चैकस्मिन् वस्तुनि तदयोगात् । शास्त्रं पुनर्नान्योऽतोऽस्ति द्रष्टा इति भेदोपमर्देनैष त आत्मेत्यभेदमेव प्रतिपादयति, न तु भेदाभेदौ । अथ जीवब्रह्मणोः स्वभावाद्भेदः स त्वद्रव्यत्वादिसामान्यमेव दर्शयति । सर्वव्यापी सर्वभूतान्तरात्मेति विकारसंस्पर्शपरिहारायैवं कल्प्यत, इति चेद्, न; विकारान्तर्वर्तित्वेऽप्यसङ्गस्वभावतया तत्संस्पर्शाभावात् । अन्यथा मध्यमपरिमाणत्वेन सावयवत्वप्रसङ्गात् ।
“ब्रह्मविदाप्नोति परम्” इत्यादिप्राप्तिश्रुतिबलाद् ब्रह्मणो दूरदेशवर्तित्वमिति चेत्, काऽसौ प्राप्तिः । न तावद् ब्रह्मभावः, दूषितत्वात् । नाऽपि जीवब्रह्मभ्यामारभ्यमाणं द्रव्यान्तरम्, मोक्षस्य विनाशित्वप्रसङ्गात् । मोक्षस्य नित्यत्वाद् ब्रह्मणः सर्वगतत्वाङ्गीकारे सावयवत्वायोगाद् द्रव्यान्तरारम्भकत्वमेव न स्यात् । जीवब्रह्मणोः सम्बन्धः प्राप्तिरिति चेद्, मैवम्; न तावत् तादात्म्यम्, अणुमहतोर्विरुद्धयोस्तदयोगात् । नाऽपि समवायादिः, भिन्नद्रव्ययोः संयोगातिरिक्तसम्बन्धाभावात् । संयोगस्य च विप्रयोगावसानतया पुनरावृत्तिप्राप्तेः । शास्त्रबलादपुनरावृत्तिरिति चेत्, तर्हि “स स्वराड् भवति” इति ब्रह्मप्राप्त्यनन्तरं स्वराड्भावप्राप्तिश्रवणादनेकेश्वराः प्रसज्येरन् । तस्माद् ब्रह्मप्राप्तिश्रुतिरविद्यानिवृत्तौ जीवस्य स्वरूपभूतब्रह्माभिव्यक्तिविषया ।
कथं तर्हि “तयोर्ध्वमायन्नमृतत्वमेति” इति मूर्धन्यया नाड्या गमनं मोक्षाय श्रूयत इति चेद्, मैवम्; नाऽमृतत्वं नाम मोक्षः, किन्तूत्तमलोके चिरकालावस्थानम् । “अाभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते” इति स्मृतेः । अन्यथा मूर्धन्यनाड्या निर्गच्छतां प्रतीकोपासकानामपि मोक्षप्रसङ्गात् । न चैतदिष्टम्, तेषामाविद्युल्लोकमेव गमनमित्येकस्मिन्नधिकरणे निर्णीतत्वात् । अथाऽपि “स एव तान् ब्रह्म गमयति” इति श्रुत्या कश्चिदमानवः पुरुषः सम्मुखमागत्य ब्रह्मोपासकान् गृहीत्वा विद्युल्लोकादुपरितनान् वरुणेन्द्रप्रजापतिलोकानतिक्रम्य ब्रह्म प्रापयतीत्येवं गमनमेव मोक्षाय प्रतीयत इति चेद्, न; तस्य गमनस्य कार्यब्रह्मविषयत्वात् । न च बृहत्यर्थानुगमात् परमेव ब्रह्माऽत्र ग्राह्यमिति शङ्कनीयम्, ब्रह्मशब्दस्य कार्यब्रह्मणि रूढत्वात् । रूढिश्च योगवृत्तेर्बलीयसी, शीघ्रप्रतिपत्तिहेतुत्वात् । परब्रह्मण्यपि रूढिरस्तीति चेत्, तथापि श्रुत्यन्तरे समानप्रकरणे “ब्रह्म लोकान् गमयति” इति भोगभूमिविशेषवाचिलोकशब्दश्रवणादन्यास्वपि शाखासु तटाकाश्वत्थराजगृहद्वारपालवेश्मसभापर्यङ्कादीनां भोग्यवस्तूनां प्रतीयमानत्वात् कार्यब्रह्मैवेति निश्चीयते । किञ्चाऽर्चिरादिमार्गेण गच्छतां निर्गुणब्रह्मप्राप्तिश्चेत्तर्हि पञ्चाग्निविद्यावतां गृहस्थानामपि सा स्यात् । न च “स एतान् ब्रह्म गमयति” इत्येतच्छब्दः पञ्चाग्निविद्व्यतिरिक्तान् परमृशतीति युक्तं वक्तुम्, पञ्चाग्निविदामेव प्राधान्येन प्रकृतत्वात् तेषामनिर्दिष्टफलत्वप्रसङ्गात् । किञ्च, ब्रह्मोपासनानां सर्वेषामपि यद्येकरूपं फलं तदा गुणोपचयापचयाभ्यामुपासनोपचयापचयौ व्यर्थौ स्याताम् । तथा च कर्मभूयस्त्वात् फलभूयस्त्वमिति न्यायविरोधः । अथोपचयापचयवत्तत्फलं तर्हि न विकारासंस्पर्शिब्रह्मप्राप्तिः, तत्र तदभावात् । किञ्च, वैश्वानरोपासनफलं त्रैलोक्यशरीरापत्तिर्यदीष्यते तदा विकारासंसृष्टेर्ब्रह्मणि कथं तदुपपद्येत । अथ नेष्यते, तदा “तं यथा यथोपासते तदेव भवति” इति श्रुतिविरोधः स्यात् । किञ्च पित्रादिसङ्कल्पैर्विकारासंसृष्टे ब्रह्मण्युपभोगो न स्यात् चेत्, पित्रादिसङ्कल्पश्रुतिविरोधः ।
स्याच्चेद्विकरावर्ति ब्रह्म पित्रादियुक्तं स्यात् । किञ्च, विकारावर्तिब्रह्मप्राप्तोऽपि “ब्रह्मैवैति मनसैतान् कामान् पश्यन् रमते तेन पितृलोकेन सम्पन्नो महीयते” इत्यादिश्रुतौ ब्रह्मण एव भोगः साधनैर्दर्शितः स्यात् । तथा चाऽऽप्तकामता विरुध्येत । स्वार्थप्रयुक्ता च सृष्टिः स्यात् । अथोच्येत न पित्रादिसङ्कल्पैर्ब्रह्मणि भोगोऽभिधीयते, किन्तु ब्रह्मानन्दे निखिलविषयानन्दान्तर्भावादैश्वर्यविशेष उपचर्यत इति, तन्न; बह्वीनां श्रुतीनामुपचारकल्पनायोगात् । तन्निर्णायकचतुर्थाध्यायचतुर्थपदवैफल्यप्रसङ्गाच्च । किञ्च, विकारावर्तिब्रह्मप्राप्तस्य लिङ्गशरीरमस्ति चेत्, कलाप्रलयश्रुतिर्बाध्येत । नाऽस्ति चेद्, “मनसैतान्” इति श्रुतिर्बाध्येत । किञ्च, तस्य लिङ्गशरीरविलयनिमित्तं विद्यैव चेत्, तर्ह्युत्क्रान्तिकाले विलयः स्यात् । लिङ्गशरीरारम्भककर्मणः क्षीणत्वात् । अमानवपुरुषकरसंस्पर्शश्चेत्, तदापि विद्युल्लोके स्यात् । उभयथाऽपि न ब्रह्माण्डादुपरि लिङ्गशरीरविलयः । किञ्चौपाधिकजीवपक्षे जीवस्य न विकारावर्तिब्रह्मगमनं सम्भवति । निरवयवावच्छेदस्य घटाकशस्येवोद्धृत्याऽऽनयनायोगात् । उद्धरणे च ब्रह्मशून्योऽयं प्रदेशः स्यात् । उपरिष्टाच्च ब्रह्मोपचयः प्राप्नुयात् । तस्मात् उपाधिगमनादात्मनि गमनविभ्रमः । ननूपाधेरपि गमनं न सम्भवति, तदुपादानस्य ब्रह्मणश्चलनशून्यत्वात् । न हि मृदि निश्चलायां घटस्य गमनमस्तीति चेद्, एवं तर्हि स्वाप्नगमनवत् मायाविजृम्भितो गमनादिप्रतिभासः । तदेवमाप्तिरपि क्रियापूर्विका परब्रह्मणि नोपपद्यत इति सिद्धम् ।
संस्कृतिपक्षेऽपि न तावद् ब्रह्मणि गुणाधानलक्षणः संस्कारः सम्भवति, अनाधेयातिशयरूपत्वात् । नाऽपि दोषापनयनलक्षणः, नित्यशुद्धस्वभावे दोषाभावात् । अथ मन्यसे निर्मलस्वभावेऽपि दर्पणेऽन्यसम्पर्ककृतमलस्याऽपनयनं यथा निघर्षणक्रियया भवति, तथाऽऽत्मन्यप्यविद्याकृतदोषस्याऽपनयनं क्रिययाऽस्त्विति; तत्र वक्तव्यम् – किमात्माश्रितया क्रियया दोषापनयः किं वाऽन्याश्रितया ? नाऽऽद्यः, स्वर्गगते निरवयव आत्मनि क्रियानुपपत्तेः । न द्वितीयः, प्रत्यगात्मनोऽन्यद्रव्यैः संयोगाभावेन तात्तदाश्रितक्रियां प्रत्यविषयत्वात् । अथाऽऽत्मनि परिस्पन्दपरिणामयोरभावेऽपि मन्त्रदेवताभिधानाद्विषनिरासवदीश्वराभिधानाद्दोषापनयः स्यादिति चेद्, न; तस्य दोषस्य पारमार्थिकत्वे स्वाश्रयविकारमन्तरेणाऽपसारणायोगात् । न चाऽऽत्मनो विकारः सम्भवति, “अविकार्योऽयमुच्यते” इति स्मृतेः । दोषस्याऽविद्यात्मकत्वे विद्ययैव निवृत्तिः स्यान्न तु क्रियया । ननु शास्त्रीयैः स्नानाचमनादिकर्मभिरात्मनो गुणाधानलक्षणः संस्कारः श्रूयत इति चेद्, अन्तःकरणविशिष्टस्यैवाऽऽत्मनस्तच्छ्रवणात् । न हि निरुपाधिकस्याऽऽत्मनो धर्माधर्माननुतिष्ठतस्तत्फलं सम्भवति । तस्मान्न संस्कृतिरप्यात्मनि सम्भवति । ततश्चोत्पत्त्यादिचतुर्विधफलस्य मोक्षे दुःसम्पादत्वात् तदतिरेकेणाऽन्यस्य क्रियाफलस्याऽभावाच्च विज्ञानस्यैव मोक्षो गोचरो न क्रिययाः । ननु ज्ञानमपि ध्यानवत् मानसक्रियेति चेद्, न; फलतः कारणतश्च ज्ञानक्रिययोर्वैलक्षण्यात् । वस्तुस्फुरणं हि ज्ञानफलं तच्चाऽऽत्मस्वरूपत्वादजन्यम् । तज्जन्मप्रतिभासस्तु तदभिव्यञ्जकान्तःकरणवृत्तिजन्मोपाधिकः । न चैवं ध्यानक्रियाफलमजन्यम्, गरुडदेवतादिध्यानाद्विषनिर्हरणवश्याकर्षणादिफलस्य पूर्वमविद्यमानस्यैव जन्मदर्शनात् । कारणं च ध्यानक्रियायाश्चोदनाजन्यपुरुषेच्छापूर्वकः प्रयत्नो न विषयसद्भावः, असत्यपि विषये विधितो योषिदग्न्यादिध्यानदर्शनात् । ज्ञानं तु प्रमाणप्रमेयजन्यं न पुरुषेच्छामनुवर्तते, अनिच्छतोऽपि दुर्गन्धादिज्ञानदर्शनात् । यद्यप्यनुमानशब्दादिषु ज्ञानस्य न प्रमेयजन्यत्वनियमः, अतीतानागतवस्तुज्ञानेषु तदसम्भवात्, तथापि लिङ्गशब्दादितन्त्रमेव तत्राऽपि ज्ञानम्, न पुरुषेच्छातन्त्रमिति क्रियातो विलक्षणमेव ।
ननु संयोगविभागपरम्पराव्यतिरेकेण क्रियैव नाऽस्ति, यतो वैलक्षण्यं ज्ञानस्योपपाद्येत । सर्वत्र संयोगविभागपरम्परावति हि श्येनादौ चलतीति प्रत्ययो जायते । न चैवं स्थाणावपि श्येनसंयोगविभागवति चलनप्रत्ययः प्रसज्येतेति वाच्यम्, आकाशप्रदेशविशेषसंयोगविभागं प्रत्येव तदङ्गीकारात् । न हि स्थाणुराकाशप्रदेशविशेषैः संयुज्यते विभज्यते वा । तस्मादतिप्रसङ्गाभावान्नाऽस्ति संयोगविभागप्रचयातिरेकिणी क्रियेति चेद्, मैवम्; बहुलान्धकारावृते नभस्यप्रतीयमाने तत्प्रदेशविशेषसंयोगविभागानामप्यप्रतीतौ खद्योतो चलतीति प्रत्ययसद्भावात् । तस्मात् संयोगाद्यतिरिक्ता क्रिया प्रत्यक्षसिद्धा । प्राभाकरस्तु क्रियाया नित्यानुमेयतां मन्वान इत्थं प्रयुङ्क्ते – “विमतावाद्यसंयोगविभागौ, स्वाश्रयगतेनाऽव्यवहितपूर्वक्षणोत्पन्नेनाऽतिशयेन जन्यौ, व्यवस्थितद्रव्ये कादाचित्कत्वात्, संयोगविभागजन्यकार्यवत्” इति । तत्र योऽसावतिशयः स एव क्रिया भविष्यति । ईश्वरेच्छया सिद्धसाधनता मा भूदित्युत्पन्नेनेत्युक्तम् । आत्ममनःसंयोगजन्यादृष्टव्यवच्छेदायाऽव्यवहितपूर्वक्षणेति । द्रव्येण सहोत्पन्ने शौक्ल्यादावनैकान्तिकत्वव्यवच्छेदाय व्यवस्थिते द्रव्ये इति । मैवम्; किमत्र सयोगिनोर्द्वयोरप्यतिशयः साध्यते किं वाऽन्यतरस्मिन्नेव उताऽविशेषितमतिशयमात्रम् ? नाऽऽद्यः, श्येनस्थाणुसंयोगादावभावात्, तस्याऽन्यतरकर्मजन्यत्वात् । न द्वितीयः, उभयकर्मजन्ये मल्लमेषसंयोगादौ साध्यासम्भवात् । तृतीयेऽपि किमसौ क्रियाख्योऽतिशयः स्थिरादेव द्रव्यादुत्पद्यते उताऽतिशयान्तरात् ? आद्ये संयोगविभागयोरेव तस्माद् द्रव्यादुत्पत्तिरस्तु किमनेनाऽतिशयेन । द्वितीयेऽनवस्थापातः ।
अथ मतं भूमिपादयोः संयोगः पादाश्रितकर्मणा जायते । तच्च कर्म न कर्मान्तरेण जायते, किन्तु प्रयत्नवदात्मपादसंयोगेन, ततो नाऽनवस्थेति, तर्हि प्रयत्नवदात्मपादसंयोगस्यैव भूपादसंयोगारम्भकत्वमित्यपि वक्तुं शक्यतया न कर्म सिध्येत्, तस्मान्नाऽनुमेया क्रिया किन्तु प्रत्यक्षैव । न च क्षणिकस्य कर्मणः कथमिन्द्रियसंयोगज्ञानलक्षणक्षणद्वयावस्थानमिति वाच्यम्, शब्दविद्युदादिवदविरोधात् । अतश्च प्रत्यक्षसिद्धक्रियातो वैलक्षण्यं ज्ञानस्योपपन्नम् । नन्वन्तःकरणपरिणामरूपत्वाद् ज्ञानमपि क्रियैव । सत्यम्, तथापि ध्यानवत्पुरुषतन्त्रत्वाभावाद्विधियोग्यक्रियातो वैलक्षण्यमस्त्येव । यथा योषित्यग्निध्यानं विधिजन्यपुरुषेच्छावशात् कर्तुमकर्तुमन्यथा वा कर्तुं शक्यम्, न तथा प्रसिद्धेऽग्नावग्निज्ञानं विधातुं पुरुषेच्छयाऽनुष्ठातुं वा शक्यम् । सत्यामपीच्छायां मनःसहकृतस्य चक्षुषः स्पर्शनेन्द्रियस्य वाऽग्निसंयोगमन्तरेण तज्ज्ञानानुदयात् । सति तु तत्संयोगे विनाऽपीच्छां ज्ञानोदयात् । अन्यथाकरणं तु दूरापास्तम् । न हि पुरोवस्थितोऽग्निर्निपुणतरेणाऽपि स्तम्भाद्याकारेणाऽवगन्तुं शक्यते । कथं तर्हि रज्जौ सर्पज्ञानमिति चेत्, तस्य ज्ञानाभासत्वात् । न च सोऽप्याभासः पुरुषतन्त्रः अनिच्छतः कम्पमानस्याऽपि जायमानत्वात् । ननु लोकेऽमुमग्निं पश्येति केचनेद्विहिते सत्यन्योऽपि स्वेच्छया तदभिमुखो भूत्वा तं पश्यति असत्यां त्विच्छायां विमुखो भूत्वा चक्षुषी निमील्य वा न पश्यति तथा शास्त्रवशादाहवनीयाद्यग्नीन् करणाद्युपेतानवलोकयति ।
अतः कथं पुरुषस्य ज्ञानविषयकरणाऽकरणाऽन्यथाकरणेषु स्वातन्त्र्याभावः । उच्यते – अाभिमुख्यवैमुख्ये दर्शनादर्शनयोः सामग्र्यौ । तत्र तत्सम्पादनलक्षणक्रियायामेव पुरुषस्य स्वातन्त्र्यं न ज्ञानाज्ञानयोः । अतः पश्येत्युक्ते सामग्रीं सम्पादयेत्ययमर्थः सम्पद्यते । यदि ज्ञानं पुरुषप्रयत्नजन्यं स्यात् तदा धारावाहिकद्वितीयतृतीयादिज्ञानानामुत्पत्तिर्न स्यात् । प्रथमज्ञानस्यैव प्रयत्ननान्तरीयकत्वात् । न हि प्रयत्नजन्यगमनादिक्रियायाः परम्परा सकृत्प्रयत्नमत्रादुत्पद्यमाना दृश्यते । अथ बाणविमोकचक्रभ्रमणादौ प्रथमप्रयत्नादेव क्रियापरम्परा जायत इत्युच्येत, तन्न; तत्रोत्तरोत्तरक्रियाणां वेगाख्यसंस्कारजन्यत्वात् । न च धारावाहिकज्ञानेषु तथा संस्कारोऽस्ति । न च प्रथमज्ञानजन्यसंस्कारादुत्तरोत्तरज्ञानपरम्परा जायतामिति वाच्यम्; तथा सति स्मृतित्वप्रसङ्गात् । स्मृतित्वे चेन्द्रियसंयोगाद्यनपेक्षत्वप्रसङ्गः । तस्मात् द्वितीयतृतीयादिज्ञनानां प्रमाणतन्त्रत्वात् प्रथमज्ञानस्याऽपि तथात्वे वक्तव्ये प्रयत्नान्वयव्यतिरेकौ प्रमाणसामग्रीसम्पादनविषयतयोपपद्येते । एवं स्मृतिज्ञानमपि संस्कारोद्बोधाधीनं न पुरुषप्रयत्नाधीनम्, सदृशदर्शनाददृष्टवशाद्वा संस्कारोद्बोधे प्रयत्नमन्तरेणाऽप्यनिष्टविषयस्मृतिदर्शनात् । यदि क्वचित् स्मृतिविशेषे प्रयत्नापेक्षा दृश्येत तदाऽपि प्रयत्नेन चिन्तापरपर्यायचित्तैकाग्र्यमेव जायते, न तु स्मृतिः । तेन चैकाग्र्येण संस्कार उद्बोध्यते । तदुक्तम् – “सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः” इति ।
यत्तु शास्त्रवशादाहवनीयादीनां शरीरावलोकनम्, तन्नाऽस्ति क्वचिदाहवनीयदेवताया मूर्तिरिति योऽयं परोक्षः प्रत्ययो मूर्तिविशेषविषयः स न पुरुषतन्त्रः, विनैव प्रयत्नं मूर्तिविशेषवाचिशब्दैरेव जायमानत्वात् । यच्च पुरोवर्त्यङ्गाराणां तन्मूर्तिविशेषाकारेण भावनं तन्न ज्ञानम्, अयथावस्तुत्वात् । न चाऽयथावस्तुत्वे कथं शास्त्रीयत्वमिति वाच्यम्, न हि शास्त्रमङ्गाराणां हस्तपादादीनवयवान् प्रतिपादयति । तथा सति प्रत्यक्षविरोधप्रसङ्गात्, किन्तर्ह्ययथावस्तुगोचरेणाऽपि भावनेन फलविशेषः साध्य इति प्रतिपादयति । न चाऽसौ साध्यसाधनभावो मिथ्या ततो भावनस्याऽयथावस्तुत्वेऽपि न शास्त्रस्य काचिद्धानिः । भावनस्य च पुरुषतन्त्रत्वमस्माभिरभ्युपेयत एव, तस्य ध्यानक्रियारूपत्वात् । ननु ध्यानमप्यनुभवतन्त्रमेव धारावाहिकस्मृतिज्ञानरूपत्वादिति चेद्, न; अननुभूते स्मृत्ययोगात् । न हि योषिदादेरग्न्यादिरूपत्वं किञ्चिदनुभूतम् । ननु “योषा वाव गौतमाग्निः” इत्यागमात्तदनुभव इति वाच्यम्, किमस्मादागमात् प्रमितिर्जायते किं वा विपर्ययानुभवः ? आद्ये योषिदग्नित्वप्रमितिपरेणाऽनेन वाक्येन ध्यानविधिर्न सिध्येत् । अथ विधिपरमेतद्वाक्यं तदा न योषिदग्नित्वं प्रमीयते । उभयपरत्वे वाक्यभेदो विरुद्धत्रिकद्वयापत्तिश्च । योषिदग्नित्वप्रमितौ प्रत्यक्षविरोधश्च । न द्वितीयः, दोषरहितस्याऽऽगमवाक्यस्य विपर्ययानुभवहेतुत्वायोगात् । तस्मान्नैतेन वाक्येन प्रसिद्धयोर्योषिदग्न्योस्तदात्म्यमनुभवितं शक्यम्, किं तर्हि यथा दर्शपूर्णमासादिरूपायाः शारीरक्रियायाः स्वर्गसाधनत्वं तद्वाक्यात् प्रमीयते तथाऽस्मादपिवाक्यात् कस्याश्चिन्मानसक्रियायाः फलविशेषसाधनत्वं प्रमीयते तर्हि योषिदग्निपदद्वयं व्यर्थं स्यादिति चेद्, न; क्रियाभाजो मनस आकारविशेषसमर्पकत्वात् । यथा “गोकर्णाकरेण पाणिनाऽऽचामेत्” इत्यत्र गोशब्दः कर्णशब्दो वाऽऽचमनाङ्गस्य पाणेः स्वार्थसदृशाकारं केवलं समर्पयतो न तु प्रसिद्धमर्थं प्रतिपादयतः तथा योषिदग्निशब्दावपि प्रसिद्धस्वार्थमस्पृशन्तावेव तत्सदृशाकारं मनसो ध्यानाङ्गस्य किं न समर्पयेताम् ? न च योषिदग्नितादात्म्यस्याऽत्यन्तमप्रसिद्धत्वात् तत्सदृशाकारसमर्पणमयुक्तमिति वाच्यम् । किं शब्दस्याऽत्यन्ताविद्यमानाकारसमर्पकत्वाभावः किं वा मनसस्तदाकारभाक्त्वाभावः ? उभयमपि वक्तुमशक्यम्, यतो नरस्य विषाणस्य चाऽत्यन्ताविद्यमानमेव सम्बन्धाकारं नरविषाणशब्दः समर्पयन्नुपलभ्यते मनश्च तमाकारं भजते । ततश्च श्रुतिसमर्पिताकारविशिष्टाया मानसाक्रियायाः प्रवाहो ध्यानं न तु स्मृतिप्रवाहः । नन्वविद्यमानविषये ध्यानस्मृतिप्रवाहयोरसाङ्कर्येऽपि विद्यमानविषये चतुर्भुजधारिविष्ण्वादौ शास्त्रेणाऽनुभूते विधीयमानं ध्यानं न स्मृतिप्रवाहाद्विशिष्यत इति चेद्, न; परोक्षत्वेनाऽनुभूताया मूर्तेरपरोक्षशालग्रामप्रतिमादावनुसन्धानस्य विहितस्य प्रागनुभूतताभावेन स्मृतित्वायोगात् । अपरोक्षतयाऽनुभूतेष्वपि वस्तुषु स्मृतिर्ध्यानाद्विशिष्यते । तद्यथा – बाल्ये पठित्वा वेदं चिरकालव्यवधाने सति पुनः पर्यालोचयन्नेकैकस्मिन् वाक्ये चिरं चित्तैकाग्र्यं कृत्वा तत्तद्वाक्यं यथापठितमेवाऽवगच्छति सैषा स्मृतिः । न चाऽत्र पुरुषः स्वतन्त्रः, प्रयत्नेन चित्तैकाग्र्ये सम्पादितेऽपि कस्मिंश्चिद् वाक्यविशेषे स्मृत्यनुदयात् । न च स्मर्यमाणमपि वाक्यमन्यथा स्मर्तुं शक्यम्, अवेदवाक्यत्वप्रसङ्गात् । नाऽपि स्वेच्छावशादस्मर्त्तुं शक्यम्; अनिच्छतो शौचावसरेऽपि कदाचिद्वेदवाक्यस्मृतेरनिवार्यत्वात् । अतः कर्तुमकर्तुमन्यथा वा कर्तुमशक्या यथानुभूतं वस्त्वविलङ्घयन्ती तत्संस्कारोद्बोधमत्राधीना स्मृतिरित्युच्यते । ध्यानं त्वनुभूतेऽननुभूते वा वस्तुनि विद्यमानानामविद्यमानानां वा धर्माणां निरङ्कुशं कल्पनं यल्लोके मनोराज्यमिति प्रसिद्धम् । न च तत्र पुरुषः परतन्त्रः, स्वेच्छामनोभ्यां विना साधनान्तराऽनपेक्षणात् । तर्ह्ययथाशास्त्रमपि देवतादिध्यानं स्वेच्छानुसारेण प्रसज्येतेति चेत्, सत्यम्; तत्केन निवार्यते । न हि मनोराज्यं राजादिना शास्त्रेण वा निवारयितुं शक्यते, परन्तु शास्त्रोक्तध्याने शास्त्रीयः फलविशेषो भवति नेतरत्र, अदृष्टे साध्यसाधनसम्बन्धे शास्त्रस्य नियामकत्वात् । न च शास्त्रमप्ययथावस्तुगोचरध्यानेन कथं फलविशेषं प्रतिपादयतीति वाच्यम्, न हि वयं शास्त्रं पर्यनुयोक्तुं प्रभवामः, शास्त्रस्याऽचिन्त्यमहिमत्वात् । अन्यथा क्वाऽऽहुतिप्रक्षेपः क्व वा स्वर्गः कामत्रोपपत्तिमद्राक्षीः ? अथाऽपि श्रद्धाजाड्येन योषिदग्न्यात्मिकां काञ्चिद्देवतां परिकल्प्य तद्ध्यानस्य वस्तुविषयत्वं ब्रूषे तर्ह्यादित्यो यूपो यजमानः प्रस्तर इत्यादावपि तत्तद्रूपां देवतां प्रकल्प्य स्वार्थे प्रामाण्यं प्रसज्येत । प्रत्यक्षविरोधस्तु भवतोऽपि समानः । न चैवमिन्द्रादिदेवतनामप्यपलापः, तत्प्रतिपादकमन्त्रार्थवादानां मानान्तरविरोधाभावात् । ननु सर्वेष्वपि वस्तुष्वभिमानिन्यो देवताः सन्ति “मृदब्रवीत्”, “आपोऽब्रुवन्” इत्यादौ सूत्रकारेण तदङ्गीकारादिति चेत्, तर्ह्यत्राऽप्यग्न्यभिमनिनी काचिद्देवता योषिदभिमानिनी चाऽपरेति देवताद्वयमस्तु । न च ते देवते अत्र ध्येये किन्तु योषिदग्नितादात्म्यम् । न च तादात्म्यस्यावस्तवस्याभिमानिनी देवता सम्भवति, नरविषाणादावतिप्रसङ्गात् । न च योषिदग्निनामिका काचिद्देवता स्यादिति मन्तव्यम्, नाममात्रत्वे योषिदवयवेषु यथायोगमग्न्यवयवसम्पादनवैफल्यात् । सम्पाद्यते हि तथा श्रुतौ “यषा वाव गौतमाग्निस्तस्या उपस्थ एव समिल्लोमानि धूूमो योनिरर्चिः” इत्यादिना । अथैतद्ध्यानफलप्रदाता परमेश्वर एतद्देवता भविष्यति तथापि नासावत्र ध्येयः । नहि सर्वान्तर्यामिणो जगदीश्वरस्याऽतिजुगुप्सितयोषिदवयवरूपेण ध्यानमुचितम् । परमेश्वरस्य सर्वात्मकत्वादविरोध इति चेत्, तर्हि “तं यथायथोपासते तदेव भवति” इत्यनया न्यानुगृहीतया श्र्यत्योपास्याकारप्राप्तेः फलत्वावगमादुपासकस्याऽत्र जुगुप्सितयोषिदवयवत्वप्राप्तावग्निरूपत्वप्राप्तौ वा सत्यामनर्थफलैव पञ्चाग्निविद्या स्यात् । अथ विशेषशास्त्रबलादत्र ब्रह्मलोकप्राप्तिः फलं तर्हि तद्बलादेव विनाऽप्युपास्यदेवतामवस्तुविषयेण ध्यानेन फलसिद्धौ शास्त्रभक्तंमन्येन त्वया ध्यानस्य वस्तुविषयतायां नाऽत्यन्तमभिनिवेष्टव्यम् ।
अथोच्येत ।
“उपपापेषु सर्वेषु पातकेषु महत्सु च ।
प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥”
इति स्मृतौ यथावस्तुविषयध्यानमवगम्यते इति । तत्र किं ध्यातृदृष्ट्या वस्तुविषयत्वं शास्त्रदृष्ट्या वा ? आद्येऽपि यदि ध्याता ब्रह्मात्मत्वं जानाति तदा नाऽसौ प्रायश्चित्तेऽधिकरोति, पातकादिसम्बन्धाभावात् । अथ न जानाति तदाऽसावात्मानमन्तःकरणविशिष्टतया ब्रह्मस्वरूपं च परोक्षतयाऽवगच्छन्नहं ब्रह्मास्मीति ध्यानं कथं वस्तुविषयं मन्येत । न द्वितीयः, ध्याता ह्यन्तःकरणविशिष्टस्याऽऽत्मनो ब्रह्मत्वं ध्यायति । यद्यपि तत्राऽन्तःकरणांशं विहाय चिदंशस्य ब्रह्मत्वं शास्त्रसंवादि तथाऽपि न तावता ध्यानस्य वस्तुविषयत्वम् । अन्यथाऽनेन न्यायेनांशतः संवादिनां शुक्तिरजतादिज्ञानानां यादृच्छिकसंवादिलिङ्गाभासादिजन्यज्ञानानां च वस्तुविषयत्वेन प्रामाण्यप्रसङ्गात् ।
ननु विदितब्रह्मात्मतत्त्वानामपि “ब्रह्मध्यानं करिष्यामः” इति व्यवहारदर्शनाद्ध्यानस्य वस्तुविषयत्वमिति चेद्, न; प्रबलपूर्ववासनया प्रच्युते ब्रह्मात्मत्वानुभवे तस्यामेवाऽवस्थायामेवं व्यवहारात् । न हि ब्रह्मात्मत्वमनुभवन्त एवं व्यवहर्तुमर्हन्ति । न हि लोके देवदत्तः स्वस्य मनुष्यत्वमनुभवन् मनुष्यत्वं ध्यायामि ध्यास्यामीति वा व्यवहरति । ननु “ध्यायति प्रोषितनाथा पतिम्” इत्यत्र वस्तुविषयेऽपि ध्यानव्यवहारोऽस्तीति चेद्, न; तत्र ध्यानशब्दस्य पूर्वानुभूतपतिविषयस्मरणलक्षकत्वात् । यद्वा विरहातुरा मनोराज्यं करोतीति मुख्यमेव ध्यानमस्तु । तस्मादवस्तुविषये ध्याने पुरुषस्य स्वच्छन्दप्रवृत्तौ कः प्रतिबन्धः ? ननु सकृत्प्रयत्नमात्रेण घटिकामात्रं ध्यानानुवृत्तिरुपलभ्यते, तत्र प्राथमिकमनोव्यापारं परित्यज्येतरेषां मनोव्यापाराणां प्रयत्ननिरपेक्षत्वाद् धारावाहिकज्ञानन्यायेन तन्निरपेक्षत्वे प्राथमिकस्याऽपि प्राप्ते सति सामग्रीसम्पादन एव प्रयत्न उपक्षीयतां तथा च ज्ञानाद् ध्यानस्य पुरुषतन्त्रत्वकृतं वैषम्यं न भविष्यतीति चेत्, किमिदानीमेवाऽऽरभ्याऽभ्यस्यतामपि सकृत्प्रयत्नाद् ध्यानानुवृत्तिः किं वा पट्वभ्यासवतामेव ? नाऽऽद्यः, अनुभवविरोधात् । न द्वितीयः, प्रतिमनोव्यापारं विद्यमानानामेव पृथक्प्रयत्नानामभ्यासपाटवाभिभूततयाऽनभिमन्यमानत्वात् । यथा बालस्यैकहायनस्य प्राथमिकगमनाभ्यावसरे प्रतिपादविन्यासं पृथक्प्रयत्नोऽभिव्यज्यते न तथा पुनः शीघ्रगमने तदभिव्यक्तिरस्ति । न चाऽत्र पुनः पृथक्प्रयत्नाभावः, विषमस्थले व्यवधानपतनादिना तदभिव्यक्तेः । एवं ध्यानाभ्यासपाटवोपेतस्याऽपि प्राथमिकध्यानानुसारेण प्रयत्नविशेषा अवगन्तव्याः । अथवा यथा वक्रबाणे वेगरहितेऽप्यृजूकृते तस्मिन्नेव वेगस्तथाऽभ्यासात् प्राग्वेगशून्येऽपि ध्यानाभ्यासादृजूकृते मनसि वेगाख्यः संस्कारः कल्प्यताम् । अस्मिन्नपि पक्षे ध्यानस्य प्रयत्नतन्त्रत्वं नाऽपैति । बाण इव गमनस्याऽप्याद्यक्रिययाः प्रयत्ननान्तरीयकत्वात् । न चैवं धारावाहिकज्ञानेषु पृथक्प्रयत्नाः कल्पयितुं शक्यन्ते । यथाऽनभ्यस्तविषये ध्याने प्राथमिके द्वयोर्द्वयोरावृत्त्योर्मध्ये किञ्चित् किञ्चिद्व्यवधानं पृथक्प्रयत्नगमकमस्ति न तथा प्राथमिकेऽपि धारावाहिकज्ञाने तदस्ति । प्रमाप्रमेयसम्बन्धजन्ये तस्मिन् बालवृद्धयोर्विशेषाऽदर्शनात् । अथ द्वितीयतृतीयादिज्ञानाकारपरिणामपरम्परानिर्वाहाय मनसि वेगः कथञ्चित् कल्प्येत तथाप्यज्ञानस्य प्रयत्ननान्तरीयकत्वाभावान्न ज्ञानं पुरुषतन्त्रम् । न हि ज्ञानं प्रयत्नानन्तरमेव जायते, किन्तु तेन प्रयत्नेन प्रमाणादिसामग्र्यां सम्पादितायां पश्चादुत्पद्यते तथाऽज्ञाने निवृत्तिरपि न प्रयत्नानन्तरभाविनी, किं तर्हि प्रयत्नेन विरोधिसामग्र्यां सम्पादितायां पश्चान्निवर्तते । एवं च सामग्र्याः प्रयत्नतन्त्रत्वे सति ज्ञानमेव पुरुषेण कर्तुमकर्तुं वा शक्यमिति वदिनां विभ्रमः । अन्यथाकरणं तु ज्ञानस्याऽत्यन्तमनाशङ्कनीयमित्युक्तं पुरस्तात् । न च ध्यानमपि प्रयत्नसम्पादितसामग्रीतन्त्रं न प्रयत्नतन्त्रमिति वक्तुं शक्यम्, प्रयत्नातिरिक्तसामग्र्यभावात् । अतो ध्यानस्याऽन्यव्यवधानमन्तरेण साक्षादेव करणाकरणे सुशके । अन्यथाकरणं तु निरङ्कुशं सम्भवति । तदेवमजन्यफलं वस्तुविषयं प्रमाणजन्यं ज्ञानं जन्यफलं वस्तुनिरपेक्षं पुरुषेच्छाप्रयत्नमात्रजन्यं ध्यानमिति ज्ञानध्यानयोर्मानसत्वेन समयोरपि फलतो विषयतः कारणतश्च महद्वैलक्षण्यं सिद्धम् । एवं च सत्यपुरुषतन्त्रतयाऽनुष्ठातुमशक्यं ब्रह्मज्ञानं विधियोग्यं न भवतीति “आत्मा वा अरे द्रष्टव्यः” इति तव्यप्रत्ययोऽर्हार्थोऽवगन्तव्यः । कथं तर्ह्यात्मन्येवाऽऽत्मानं पश्येदिति दर्शनविधिरिति चेद्, दर्शनसाधनभूतान्तर्मुखत्वादिविधित्वेन व्याख्येय इति ब्रूमः । व्याख्यातं चाऽस्मभिर्विचारविधिपरत्वेन प्रथमसूत्रतृतीयवर्णके । तदेवं मोक्षपर्यालोचनया उत्पत्त्याद्ययोग्यब्रह्मपर्यालोचनया ज्ञानपर्यालोचनया च विध्यसम्भवादहेयानुपादेयात्मतत्त्वे वेदान्ताः पर्यवस्यन्तीत्यभ्युपेयम् ।
नन्वहंप्रत्ययावसेयात्मनः कर्माङ्गत्वात् तत्र पर्यवसितानां वेदान्तानामपि कर्मविधिवाक्यैरेकवाक्यता स्यादिति चेद्, न; अनन्यवेद्ये क्रियाकारकसंसर्गशून्य एवाऽऽत्मनि वेदान्तानां पर्यवसनात् । अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतमिति स्मृतिकारैः सर्वो वेदो धर्मे विनियुक्त इति चेद्, न; “तं त्वौपनिषदं पुरुशं पृच्छामि”, “सर्वे वेदा यत्पदमामनन्ति”, “वेदैश्च सर्वैरहमेव वेद्यः” इति श्रुतिस्मृतिवशात् पूर्वस्मृत्यर्थस्य निर्णेतव्यत्वात् ।
नन्वाम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामिति वदन् जैमिनिरित्थं मन्यते – उत्तमवृद्धोक्तशब्दश्रवणानन्तरं मध्यमवृद्धस्य प्रवृत्तिं दृष्ट्वा तया तस्य कार्यज्ञानमनुमाय कार्यान्वित एवाऽर्थे शब्दसामर्थ्यं व्युत्पित्सुर्जानाति । तथा च सिद्धवस्तुन्यगृहीतसामर्थ्यस्य शब्दस्य तद्बोधकत्वासम्भवाद्वेदान्तानामप्यद्वैतात्मतत्त्वबोधकत्वं नाऽस्तीति, मैवम्; किं भाट्टमतमवलम्ब्यैवमुच्यते किं वा प्राभाकरमतमवलम्ब्य ? नाऽऽद्यः । अभिहितान्वयवादी हि भाट्टः । स चैवं व्युत्पत्तिप्रक्रियां रचयति – उत्तमवृद्धेन वाक्ये प्रयुक्ते श्रोतुर्मध्यमवृद्धस्य प्रवृत्त्या विशिष्टसंसर्गज्ञानं शब्दकार्यत्वेनाऽनुमाय शब्दसमुदायस्यार्थसमुदाये सामर्थ्यं प्रतिपद्यते । तत्र गामानय गां बधानेत्यादिप्रयोगेष्वावपोद्धाराभ्यामानयनतत्संसर्गव्यभिचारेऽपि गोमात्रस्याऽन्वयाद् बन्धनेऽपि गोशब्दस्य गोमात्रे सम्बन्धं प्रतिपद्यते न त्वानयनतत्संसर्गयोर्व्यभिचरितयोः । एवं सर्वपदानां पदार्थस्वरूपमात्रेषु सामर्थ्यप्रतिपत्तेः संसर्गबोधः किंनिबन्धन इति वीक्षायामनन्यथासिद्धान्वयव्यतिरेकाभ्यां शब्दावगतपदार्थनिबन्धन इति कल्प्यते । ततः पदेभ्यः पदर्थाः पदार्थेभ्यः संसर्ग इत्यभिहितान्वय इति । एवं च सत्येतन्मतानुसारेण शब्दस्य न कार्यान्वितस्वार्थे सामर्थ्यं किन्तु स्वार्थमात्रे । ततः सूत्रगतानर्थक्यपदेनाऽक्रियार्थानां शब्दानां नाऽभिधेयाभावो वर्णयितुं शक्यः । अथ प्रयोजनाभावो वर्ण्येत, तन्न; सोऽरोदीदित्यादिवाक्यानां तथात्वेऽपि निरतिशयानन्दरूपब्रह्मप्रतिपादकानां वेदान्तानां निष्प्रयोजनत्वायोगात् ।
नन्वस्तु तर्हि द्वितीयः पक्षः, अन्विताभिधानवादिना प्रभाकरेण भाट्टवद्विरलपदार्थव्युत्पत्त्यनङ्गीकारात् । स ह्येवं व्युत्पत्तिप्रक्रियां रचयति – शुक्लां गामानय दण्डेनेति शब्दस्य श्रवणानन्तरं श्रोतुर्गवानयने प्रवृत्तिम्पलभ्य गवानयकर्त्तव्यताऽनेन श्रोत्रा शब्दात्प्रतिपन्नेति भूतार्थसंसृष्टे कार्ये शब्दसमुदायस्य सामर्थ्यं बालः प्रतिपद्यते । पुनश्च गां बधानाऽश्वमानयेत्यादिप्रयोगान्तरेषु गोशब्दस्याऽन्वये कार्यसंसृष्टगवाकृतेरन्वयात्तदुद्धारे च कार्यसंसृष्टगवाकृतेरेवोद्धारात् कार्यसंसृष्टायां गवि पदसामर्थ्यं कल्प्यते । आनयनतत्संसर्गव्यभिचारेऽपि कार्यसंसर्गाव्यभिचारात् । एवं च सति यथाऽभिहितान्वयवादे पदानां प्रथमावगतसंसर्गबुद्धिहेतुत्वस्याऽपवादो वाक्यवाक्यार्थयोर्मध्ये पदार्थतच्छक्तिव्यवधानगौरवं चेति दोषद्वयमस्ति न तथाऽन्विताभिधानवादे तदस्ति प्रत्युत पदानामेव संसर्गप्रतिपादने लाघवमिति । नैतत्सारम्, न हि प्रयोगभेदेषु कार्यसंसर्ग एव गवाकृतेर्नियमेन प्रतीयते, किन्तु गुणद्रव्यक्रियाकारकसंसर्गश्च । तथा हि – शुक्लां गामानयेत्यत्र गुणस्य जातियुक्तेन द्रव्येण सम्बन्धः द्रव्यस्य च विभक्त्यर्थेन कारकेण पुनश्च विभक्त्यर्थविशिष्टस्य द्रव्यस्य क्रियया क्रियायाश्च नियोगकार्येणेति व्यवहितः कार्यसम्बन्धः । तथा च सत्यव्यवहितसम्बन्धोपादानसिद्धयेऽन्यान्वितस्वार्थमात्रे शब्दसामर्थ्यमभ्युपेयम्, लाघवत् । अन्यथाऽनुवादप्रसङ्गात् । कार्यान्वितस्वार्थेषु प्रमाणान्तरगृहीतेषु शब्दसामर्थ्यं प्रतिपद्य पश्चाद् वाक्यप्रमणादपि तावन्मात्रप्रतिपत्तौ कथमनुवादो न भवेत् । न च कार्येण सर्वपदार्थानामव्यवहितः सम्बन्धोऽस्ति येन तत्संसृष्टे सामर्थ्यं स्यात् । अस्ति कार्यस्य सर्वपदर्थैः सम्बन्धः शेषशेषिलक्षण इति चेत्, तत्र कार्यस्य शेषिता नाम किं स्वामिता किं वाऽवयविता उत साध्यता अथवा परमसाध्यता ? नाऽऽद्यः, अचेतनस्य स्वामित्वायोगात् । न द्वितीयः, इतरपदार्थानां कार्यं प्रत्यवयवत्वाभावात्, न तृतीयः, क्रियाया एव सर्वत्र कारकसाध्यत्वात् । न चतुर्थः, स्वर्गादेरेव परमसाध्यत्वात् । अतः सर्वानुगतैकप्रयोजकलाभायाऽन्यान्विते सामर्थ्यमभ्युपेयम् । यदि कार्यान्विते सामर्थ्यं स्यात् तदा कार्यपदस्य तन्न सिद्ध्येत्, कार्यान्तराभावात् । अस्ति धात्वर्थलक्षणं कार्यान्तरमिति चेद्, न; धात्वर्थस्य प्रथमतः कार्यत्वाभावात् । नियोगकार्यस्य साध्यत्वसिद्ध्यर्थं धात्वर्थे विषयत्वेनाऽन्विते पश्चात् करणभूतस्य च तस्य धात्वर्थस्याऽनुष्ठेयतया कर्यत्वं न तु नियोगान्वयकाले । न चैकस्मिन् कार्यपदे व्यभिचारभयेन बहूनां पदानामव्यभिचरितकार्यान्वितार्थत्वहानमयुक्तमिति वाच्यम्, तथा सत्यर्थगतप्रमाणान्तरग्राह्यत्वस्याऽप्यव्यभिचारितया शब्दसामर्थ्यविषयत्वप्रसङ्गात् । अथोच्येत – अनन्यथासिद्धान्वयव्यतिरेकबलात् सर्वत्र शब्दवाच्यत्वं कल्पनीयम्, प्रमाणान्तरग्राह्यत्वस्याऽव्यभिचारित्वं तु प्रयोगनिमित्ततयाऽन्यथासिद्धम्; शब्दप्रयोगो हि प्रमाणान्तरगृहीत एवाऽर्थे सम्भवति नाऽन्यथा । तस्मान्नोक्तप्रसङ्ग इति । तर्हि कार्यस्याऽव्यभिचारित्वमप्यन्यथासिद्धम् । मध्यमवृद्धप्रवृत्तिदर्शनेन हि बालस्य व्युत्पत्तिर्भवति । न च कार्यज्ञानेन विना मध्यमवृद्धप्रवृत्तिः, अतः प्रवृत्तिरूपलिङ्गदर्शनहेतुकार्याव्यभिचारस्याऽन्यथासिद्धेर्न कार्यस्य सर्वपदसामर्थ्यविषयत्वम् । एवं च सति देवदत्तो भुक्त्वा निर्गत इत्येवमादिभिः कार्यशून्यैरपि वाक्यैर्लोके प्रतीयमानाऽर्थप्रमितिरुपपद्यते । न च कार्यरहितस्थले कथं व्युत्पत्तिरिति वाच्यम्, निघण्टुव्याकरणोपदेशैरपि व्युत्पत्तिसम्भवात् । तस्मात् कार्यमनपेक्ष्याऽन्यान्वितस्वार्थं पदान्यभिदधति ।
नन्वन्विताभिधानाङ्गीकारे गोशब्द आनयनबन्धनाद्यनेकप्रतियोगिकान्वयवत्स्वार्थमभिदध्याद् आनयशब्दश्च गवाश्वाद्यनेकप्रतियोगिकान्वयवत्स्वार्थम् । तथा च गामानयेति वाक्यस्याऽर्थो व्यवस्थितो न स्यादिति चेद्, मैवम्; गोशब्दार्थान्वयप्रतियोगिविशेषमानयशब्दो नियच्छति तथाऽऽनयशब्दार्थान्वयप्रतियोगिविशेषं गोपदमिति पदद्वयबलाद्वाक्यार्थव्यवस्थासिद्धेः । नन्वेवमपि गोपदस्याऽऽनयनसंसृष्टगोत्वमर्थः । आनयपदस्याऽपि गोत्वसंसृष्टमानयनमित्यर्थाधिक्याभावात् पदद्वयस्य पर्यायता स्यादिति चेद्, मैवम्; न हि गामिति पदमात्रादानयनान्वितत्वं गोः प्रतीयते आनयेति वा पदमात्रादानयनस्य गवान्वितत्वं किन्तु पदद्वयेन परस्परान्वितत्वं प्रतीयते, अतो नोक्तदोषः ।
ननु गोशब्दोच्चारणे कृते गवाकृतिरेव किमिति प्रतीयते न सामर्थ्यविषयीभूतं सर्वमिति । अव्यभिचारात्संस्कारभूयस्त्वाद्गवाकृतेरितरेषां व्यभिचारादिति ब्रूमः । ननु गोशब्देनाऽऽनयशब्देन च पूर्वापरीभावादर्थभेद इति वाच्यम्, आहिताग्न्यग्न्याहितशब्दयोरप्यर्थभेदप्रसङ्गात् । ननु गोशब्देन गोत्वेऽभिहिते तत्संसृष्टमानयनमितरेणाऽभिधीयते तथाऽऽनयशब्देनाऽऽनयनेऽभिहिते तत्संसृष्टं गोत्वं गोशब्देनाऽभिधीयत इत्यन्योन्याश्रयत्वमिति चेद्, नैष दोषः; तत्तत्पदश्रवणदशायां स सोऽर्थः प्रतीयते अन्त्यपदोच्चारणानन्तरं च युगपत्सर्वपदानि स्मर्यमाणानि सम्भूय स्वार्थन् पूर्वमभिहितानेवाऽन्योन्यसंसृष्टतया प्रतिपादयन्ति । तथा च कुत इतरेतराश्रयता । तदुक्तं शालिकनाथेन –
“पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् ।
न्यायसम्पादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ॥” इति ॥
न चैवमभिहितान्वयवादार्थादविशेषप्रसङ्गः, अभिहितान्वयवादे हि पदानि पदार्थानभिधायोपक्षीयन्ते पदार्थेभ्यो वाक्यार्थप्रतिपत्तिः । अन्विताभिधानवादे तु पदानामेव वाक्यार्थप्रतिपादकत्वमिति विशेषः । तस्मादन्विताभिधानवादे दोषाभावात् फलितो द्रुम इत्यादिकार्यशून्यवाक्यप्रयोगाणां च लोके भूयसामुपलम्भाद्वेदेऽपि “वषट्कर्तुः प्रथमभक्षः”, “तस्मात्पूपा प्रपिष्टभागः” इत्यादिकार्यरहितवाक्यानामुपलम्भादन्यान्वितस्वार्थमात्रे शब्दसामर्थ्यं सिद्धम् । यद्यपि तेषु वेदवाक्क्येषु कर्तव्य इति पदमध्याह्रियते तथाऽपि न वाक्यार्थप्रतिपत्तिसिद्धये तदध्याहारः, अन्तरेणाऽप्यध्याहारं तत्प्रतिपत्तेः । किन्तु अपूर्वार्थद्रव्यदेवतासम्बन्धावगमाधीनस्तदध्याहारः । यत्तु वृद्धव्यवहारानुसारिणा सूत्रकारेणैव कार्यान्वितस्वार्थे शब्दसामर्थ्यं दर्शितम् – “तद् भूतानां क्रियार्थेन समाम्नायः” इति, तत्र धर्मजिज्ञासोपक्रमात् प्रकृतोपयोगितया क्रियार्थतेत्युक्तम्,न तु सिद्धार्थे सामर्थ्याभावाभिप्रायेण, यतो भाष्यकारेणैव गुणगुण्यादीनां विशेषणविशेष्यादिभावेन समन्वयो दर्शितः । यदि जैमिनीयसूत्रं सिद्धार्थे शब्दसामर्थ्याभावपरं कल्प्येत तदानीमखण्डैकरसे ब्रह्मणि वेदान्तसमन्वयप्रतिपादकानि बादरायणसूत्राणि विरुध्येरन् ।
ननु “सत्यं ज्ञानम्” इत्यादिवेदान्तेषु प्रातिपदिकार्थानामेकरसब्रह्मपरतयाऽन्वयेऽपि प्रथमाविभक्त्यर्थस्य कारकतयाऽन्वये सति कथमखण्डैकरसत्वसिद्धिरिति चेद्, न; पाणिनिना प्रातिपदिकार्थमात्रे प्रथमाविभक्तेः स्मरणात् । तत्र लिङ्गसङ्ख्यादयस्त्वर्थात् प्रतीयमाना अपि “प्रज्ञानघन एव” इत्यादिश्रुतिविरोधादनिर्वचनीया भविष्यन्ति । ननु प्रथमान्तप्रयोगेष्वस्तिक्रियाध्याहारं कात्यायनः सस्मार, तथा च सत्यं ज्ञानमनन्तं ब्रह्माऽस्तीत्यध्याहारेऽखण्डत्वं भज्येतेति चेद्, मैवम्, “एते द्रुमाः फलिताः”, “अयं पुरुषो राजकीयः” इत्यादिप्रयोगेषु सम्बन्धमात्रपर्यवसायिष्वस्तिक्रियाध्याहारस्योपयोगाभावाद्यथा नाऽध्याहारस्तथाऽखण्डार्थपर्यवसायिषु वेदान्तेष्वप्यवगन्तव्यम् । किञ्च, क्रियायामत्यन्तभक्तेनाऽपि “ब्राह्मणो न हन्तव्यः” इत्यादिवाक्येषु भूतार्थे समन्वयो वक्तव्यः, क्रियायाश्चाऽत्राऽसम्भवात्, हननाभावस्य प्राप्तक्रियानिवृत्तिलक्षणत्वात् । न च निवृत्तेः क्रियात्वम्, औदासीन्यरूपत्वात् ।
अत्र प्राभाकर आह न तावत् प्रतिषेधवाचि नञ्पदं ब्राह्मणेन सम्बध्यते, प्रत्यक्षस्य ब्राह्मणस्य प्रतिषेधायोगात् । नाऽपि धात्वर्थेन हननेन । हन्तृमनसि प्रवृत्ततया हननस्याऽभावासम्भवात् । नाऽपि तव्यप्रत्ययार्थेन फलप्रार्थनया प्रवृत्तिहेतुना कार्यबुद्ध्या वा । त्रिविधस्याऽपि प्रत्ययार्थस्याऽत्र प्रत्यक्षस्य प्रतिषेधानर्हत्वात् । अतो यथा “नेक्षेतोद्यन्तमादित्यम्” इत्यत्रेक्षणविरोध्यनीक्षणसङ्कल्पक्रिया विधीयते तथाऽत्राऽपि रागप्राप्तहननविरोध्यहननसङ्कल्पक्रिया विधीयत इति । तदेतदसारम्, नञ्पदस्याऽभावे मुख्यत्वात् । न च भावान्तरमेवाऽभावः, तथा सत्यभावस्य प्रतियोगिनिरपेक्षत्वप्रसङ्गात् । ननु तदन्यतद्विरोधिनावपि नञ्पदस्याऽर्थौ । तदुक्तम् –
“नामधात्वर्थयोगी तु नैव नञ् प्रतिषेधकः ।
वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ॥” इति ।
मैवम्, तत्र नञ्पदस्य लाक्षणिकत्वात् । अन्यथाऽनेकार्थत्वस्याऽन्याय्यस्य प्रसङ्गात् । नेक्षेतेत्यत्र तु प्रजापतिव्रतप्रकरणत्वात् तदनुसारेण लाक्षणिकोऽपि विध्यर्थोऽनुष्ठेयव्रतलाभाय स्वीकृतः । न चाऽत्र तथा मुख्यमभावं परित्यज्य लाक्षणिकार्थस्वीकारे किञ्चित् कारणमस्ति । न च हननाभाव एवाऽनुष्ठेय इति वाच्यम्, अनादेः प्रागभावस्य तदयोगात् । अन्यथा विधिप्रतिषेधविभागव्यवहारो लौकिको न सिद्ध्येत् । ननु नञ्पदार्थस्य धात्वर्थेनाऽन्वये सति हि हननप्रागभावोऽत्राऽर्थो भवति । न च तदन्वयः सुलभः, प्रकृत्यर्थस्योपसर्जनत्वात् । अतः प्रधानेन प्रत्ययार्थेन नञर्थस्याऽन्वयो वाच्य इति चेद्, एवमपि नञ्पदस्य नाऽत्र प्रतिषेधपरत्वमपैति । तव्यप्रत्ययो हि विधिं ब्रूते । विधिर्नामेष्टसाधनम् । ततश्च हननस्य यदिष्टसाधनत्वं पामरदृष्टिसिद्धं पुरुषस्य प्रवर्तकं तदेव तव्यप्रत्ययेनाऽनूद्य प्रतिषिध्यते – ब्राह्मणहननमिष्टसाधनं न भवतीति । न च प्रत्यक्षमिष्टसाधनत्वमिति वाच्यम्, अदृष्टाविरोधिदृष्टप्रयोजनस्येष्टशब्दार्थत्वात् । हननस्य चाऽदृष्टविरोधित्वात् । नन्विह वाऽमुत्र वाऽनर्थहीनः पुरुषार्थः प्रपञ्चमध्ये नाऽस्ति, अतश्चाऽदृष्टविरोधिनोऽपीष्टत्वमस्त्विति चेत्, सत्यमेतत्सर्वत्राऽर्थोऽनर्थसंयुक्त इति, तथाप्यर्थाधिकः पुरुषार्थोऽनर्थाधिकोऽपुरुषार्थैति तद्विभागः । तथा चाऽनर्थाधिक्यादपुरुषार्थभूतं ब्राह्मणहननं मुखतः प्रतिषिध्यते । हननप्रवृत्तिहेतुभूतरागाद्युद्बोधनिमित्तप्रध्वंसोऽनुष्ठेय इति त्वर्थात् प्रतीयते । न चाऽर्थिकोऽर्थो विधातुं शक्यः, अशाब्दत्वात् । यश्चाऽर्थादर्थो न स चोदनार्थ इति न्यायात् । अतो हननमिष्टं न भवति, किन्त्वनिष्टमित्येतावति शास्त्रेण बोधिते सति हननरागनिमित्तभूत इष्टत्वभ्रमो निरोद्धव्य इत्यन्वयव्यतिरेकाभ्यामेवाऽवगम्यते । नन्वेवमप्यत्र तव्यप्रत्ययेनाऽपूर्वाभिधानादनुष्ठानपरमेवैतद्वाक्यमिति चेद्, न; मानान्तरागम्येऽपूर्वे सम्बन्धग्रहाभावात् । आगमादेवाऽपूर्वमवगम्य तत्र सम्बन्धग्रहणे बकबन्धप्रयासः स्यात् । क्षणिकस्य यागस्य श्रुतस्वर्गसाधनत्वानुपपत्त्या तदवगतिरिति चेत्, तर्ह्यपूर्वमशब्दार्थः स्यात्; “अनन्यलभ्यः शब्दार्थः” इति नियमात् । अन्यथा शरीरेन्द्रियविषयसम्बन्धमन्तरेण स्वर्गासिद्ध्या शरीरादीनामपि प्रत्ययार्थत्वं प्रसज्येत । तदेवं कार्यान्वितस्वार्थ एव शब्दसामर्थ्यमित्यभिनिविशमानेनाऽपि वाक्यानां भूतार्थसमन्वयस्याऽभ्युपेयत्वे किमपराद्धं वेदान्तैः ? न च वेदान्तैरवगतेऽपि ब्रह्मणि विधिमन्तरेण फलाभाव इति शङ्कनीयम्, तत्त्वावगमेनाऽविद्यायां निवर्तितायां तत्कृतशरीरादिसम्बन्धनिवृत्तेः फलत्वात् ।
कर्मकृतः शरीरसम्बन्धो नाऽविद्याकृत इति चेत्, किमात्मनः कर्म स्वाभाविकं किं वा शरीरकृतम् ? नाऽऽद्यः, चैतन्यस्य क्रियारहितत्वात् । न द्वितीयः, कर्मशरीरयोरन्योन्याश्रयत्वप्रसङ्गात् । कर्मशरीरव्यक्तीनां प्रवाहाङ्गीकारान्नाऽन्योन्याश्रय इति चेत्, तर्ह्यन्धपरम्परा प्रसज्येत । बीजाङ्कुरादिवदविरोध इति चेद्, एवमपि पुत्रादिसम्बन्धवत् शरीरसम्बन्धस्य कर्ममात्रनिमित्तत्वे पुत्रादाविव शरीरेऽप्यहमभिमानस्य गौणत्वं प्रसज्येत । न च तद्युक्तम्, सिंहदेवदत्तयोरिव शरीरात्मनोः प्रसिद्धभेदाभावात् । अन्यथा पुत्रादिशरीरेणेव स्वशरीरेणाऽपि प्रमातृत्वाभावप्रसङ्गात् । तस्मान्न कर्मनिमित्तः शरीरादिसम्बन्धः, किन्त्वविद्याकृतः । स च तत्त्वज्ञाननिवर्त्यः । अत एव श्रुतिस्तत्त्वदर्शिनो यथापूर्वं संसारित्वं व्यावर्तयति – “स चक्षुरचक्षुरिव सकर्णोऽकर्ण इव” इत्यादिका । तर्हि तत्त्वज्ञाने सति सद्यः शरीरपातः स्यादिति चेद्, न; “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये” इति श्रुत्या प्रारब्धकर्मशेषसमाप्तिपर्यन्तमवस्थानावगमात् । “क्षीयन्ते चाऽस्य कर्माणि” इति श्रुतिस्त्वनारब्धकर्मविषया, “अपवादविषयं परित्यज्य सामान्यं प्रवर्तते” इति न्यायात् । यद्यपि तत्त्वज्ञानमशेषकर्मोपादानभूतामविद्यां निवर्तयति, तथापि प्रारब्धकर्मणो न निवर्तकम्, स्वयं तत्फलत्वात् । तदुक्तमाचार्यैः –
“आरब्धस्य फले ह्येते भोगो ज्ञानं च कर्मणः ।
अविरोधस्तयोर्युक्तो वैधर्म्यं चेतरस्य तु ॥” इति ॥
न चैवं जीवन्मुक्तस्याऽऽत्मैक्यानुभवद्वैतदर्शनयोर्विरुद्धयोः साहित्यं प्रसज्येतेति मन्तव्यम्, न हि वयं तयोर्यौगपद्यं ब्रूमः, किन्तु पर्यायेणोद्भवाभिभवौ । न च शरीरपातात् पूर्वमपरोक्षं तत्त्वज्ञानमेव नाऽस्ति, व्यासादीनां सशरीराणामेव तत्त्वदर्शनस्य पुरणेष्ववगमात् । ननु तत्त्वदर्शिनोऽपि यथा कदाचिद् द्वैतदर्शनं तथा ज्योतिष्टोमादिकर्मानुष्ठानमपि स्यादिति चेद्, न; अनुष्ठानस्य प्रतिनियतदेशकालाधिकारकर्तृप्रतिपत्त्यधीनत्वात् । तत्त्वदर्शिनस्त्वारब्धकर्मनिमित्तदोषोद्भवस्य देशकालनियमाभावेन प्रारब्धानुष्ठानसमाप्तिपर्यन्तमवस्थानायोगात् । यथासम्भवमनुष्ठानमिति चेद्, न; पुनः पुनस्तत्त्वदर्शनेनाऽनुष्ठितकर्मणां बाधे सत्यनुष्ठानप्रयोजनाभावात् । प्रत्यहमुपचीयमानदुरितनिवृत्तिः प्रयोजनमिति चेद्, न; ज्ञानिन आगामिदुरितादिसम्बन्धासम्भवात् । सम्भवे वा दैनन्दिनतत्त्वदर्शनेनैव तन्निवृत्तेः,
“अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥” इति स्मृतेः ।
तत्त्वदर्शिनः शास्त्रनियमाभावे यथेष्टाचरणं स्यादिति चेद्, न; आचरणस्य हितहितप्राप्तिपरिहारप्रार्थनानिमित्तत्वात् । जीवन्मुक्तस्य तु स्वात्मन्येव निरतिशयानन्दमशेषानर्थनिवृत्तिं च साक्षादनुभवतः साध्यपुरुषार्थप्रार्थनाभावादाचरणमेव नाऽस्ति कुतो यथेष्टाचरणप्रसङ्गः ? भिक्षाटनादिप्रवृत्तिस्त्वारब्धकर्मदोषमूला । न च तद्वत्पुण्यपापे अप्यारब्धकर्मणा प्रवर्तेयातामिति वाच्यम्, आरब्धकर्मणः फलमात्रहेतुत्वात् । पुण्यपापयोः पुनर्निमित्तमविद्यारागादि, तच्च तत्त्वज्ञानेन निवर्तितम् । न च मनननिदिध्यासनयोः प्रतिबन्दी ग्रह्या, तयोरपि श्रवणवदुपायत्वेन तत्त्वदर्शनात् प्रागेवाऽनुष्ठेयत्वात् ।
ननु भेदाभेदयोरुभयोरपि वास्तवत्वान्नाऽद्वैतदर्शनेन द्वैतदर्शनं बाध्यते, येन कर्मप्रवृत्तिर्न सम्भवेत् । न च पूर्वपक्षसिद्धान्तादिनियमस्य भेदाभेदवादिना वक्तुमशक्यत्वात् सर्वसाङ्कर्यमिति शङ्कनीयम्, अद्वैतवादेऽपि समानत्वात् । मैवम्, अद्वैतवादे मायाकल्पितस्य प्रपञ्चस्य यथादर्शनमेव भेदेन व्यवस्थितत्वत् । ब्रह्मण एवाऽद्वितीयत्वात् । त्वन्मते तु साङ्कर्यं दुष्परिहरम् । न च व्यवहारसाङ्कर्येऽप्यदुष्टो मोक्ष इति वाच्यम्, तत्त्वदर्शनेन प्रपञ्चानिवृत्तौ देहात्मभावसुखदुःखादेरप्यबाधादनिर्मोक्षप्रसङ्गात् । संसारदशायामेव भेदाभेदौ देहात्मभावादिश्चेति चेत्, तथापि भेदाभेदयोः परस्परविरोधः कथं परिह्रियेत । प्रामाणिकत्वादविरोध इति चेद्, न; किं “खण्डो गौः” इति प्रत्यक्षज्ञानमेकमेव तत्र प्रमाणं किं वा “मुण्डो गौः” इत्यनेन सहितम् अथवा “स एवाऽयं गौः” इति तृतीयज्ञानसहितम् ? नाऽऽद्यः; खण्डो गौरित्यस्मिन् प्रत्यये भिन्नोऽभिन्नश्चेति प्रतिभासाभावात् । भेदाभेदशब्दोल्लेखाभावेऽपि तत्प्रतीतिरस्त्येवेति चेद्, न; परस्परोपमर्दरूपयोस्तयोः सहप्रतिभासायोगात् । अथ जातिव्यक्त्योर्भेदस्तावदभ्युपेयत एव इतरेतरात्मत्वादभेदोऽप्यब्युपेयत इति चेद्, न; भिन्नयोरितरेतरात्मत्वे सम्प्रतिपन्नदृष्टान्ताभावात् । न द्वितीयः, खड्गो गौर्मुण्डो गौरित्यनयोर्ज्ञानयोः सम्भूय प्रमात्वाभावात् । अथाऽपि प्रथमज्ञानेन यस्मिन् गोत्वे खण्डात्मकत्वं गृहीतं तस्मिन्नेव गोत्वे द्वितीयज्ञानेन खण्डत्वं निराकृत्य मुण्डत्वे गृहीतेऽर्थाद्भेदाभेदसिद्धिरिति चेद्, न; “स एवाऽयं गौः” इति प्रत्यभिज्ञामन्तरेणैकस्य गोत्वस्योभयसम्बन्धासिद्धेः । न तृतीयः, प्रत्ययद्वयस्यैकस्मिन्नर्थे प्रामण्यायोगात् । न च प्रत्ययत्रयान्यथानुपपत्तिः प्रमाणम्, ह्रस्वोऽकारो दीर्घोऽकारः स एवाऽयमकार इति प्रत्ययत्रयस्य भेदाभेदावन्तरेणौपाधिकह्रस्वदीर्घत्वोपजीवनेनाप्यपपत्तेः । नन्वेवं भेदाभेदयोरसम्भवेऽप्यात्मनि तौ स्यातामिति चेद्, न; तत्र भेदासिद्धेः । विवादगोचरापन्नाः स्थावरजङ्गमशरीरव्यक्तयः प्रतिवादिशरीरव्यक्त्यात्मनैवाऽऽत्मवत्यः, शरीरव्यक्तित्वात्, प्रतिवादिशरीरव्यक्तिवदित्येकत्वानुमानात् । अथाऽऽत्मानो भिन्नाः युगपज्जननमरणादिविरुद्धधर्माश्रयत्वादग्न्युदकादिवदिति चेद्, न; जननादीनां शरीराश्रयत्वेन हेत्वसिद्धेः । न चाऽऽत्मैकत्वे सुखदुःखादिसाङ्कर्यप्रसङ्गः, प्रतिबिम्बेषु सत्यप्येकत्वे वर्णसाङ्कर्यादर्शनात् । अन्योन्यवृत्तान्ताननुसन्धानमपि शरीरभेदादेवोपपद्यते, एकस्याऽऽप्यात्मनोऽतीतशरीरादिष्वनुसन्धानादर्शनात् । न च जीवानामन्योन्यभेदाभावेऽपि जीवब्रह्मणोर्भेदः स्यादिति मन्तव्यम्, न तावदत्र प्रत्यक्षं क्रमते, जीवब्रह्मणोरतीन्द्रियत्वात् । नाऽपि विरुद्धधर्माश्रयत्वहेतुना अग्न्युदकादिवदिति चेद्, न; जननादीनां शरीराश्रये हेत्वसिद्धेः । नाऽपि नियन्तृनियन्तव्यादि श्रौतलिङ्गं भेदे मानम्, “नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता” इत्यादिश्रुतिभिस्तस्य बाधात् । नाऽपि “द्वा सुपर्णा” इति श्रुत्या भेदसिद्धिः,”स यश्चायं पुरुषे यश्चासावादित्ये स एकः” इत्याद्येकत्वप्रतिपादकश्रुतिविरोधात् । भ्रान्तिसिद्धद्वैतानुवादेनाऽपि द्वित्वश्रुत्युपपत्तेः । तस्मान्न भेदाभेदावित्यद्वैतदर्शनेन द्वैतदर्शनस्य बाधः सिद्धः । ततश्च ब्रह्मसाक्षात्कारमात्रेण फलसिद्धेर्न वेदान्तेषु विधिगन्धोऽपि शङ्कनीयः । यदि स्यात्तर्ह्येकैव षोडशलक्षणी धर्ममीमांसा प्रसज्येत । तथा च “अथातो ब्रह्मजिज्ञासा” इति पृथगारम्भो नोपपद्येत । शरीरेद्रियसध्या विधिभेदाः पूर्वमीमांसायां निरूपिताः, इह तु मानससाध्यो विधिर्निरूपित इति पृथगारम्भ इति चेत् ? तर्हि “अथाऽतः परिशिष्टधर्मजिज्ञासा” इत्येवाऽऽरभ्येत, न त्वेवमारभ्यते । तस्माद्धर्मब्रह्मभेदादेवाऽनयोर्मीमांसयोर्भेदः । तदेवं विधिशङ्काया अप्यभावान्निर्विघ्नो ब्रह्मणि वेदान्तसमन्वय इत्यशेषमतिमङ्गलम् ।
सङ्गृहीतं विवरणं सहाऽनेकैर्निबन्धनैः ।
टीकायासं विना लोकाः क्रीडन्त्वत्र यथासुखम् ॥
महतां हृदयं बोद्धुमशक्तोऽप्यतिभक्तितः ।
अकार्षं ग्रन्थमेतेन प्रकाशात्मा प्रसीदतु ॥
यद्विद्यातीर्थगुरवे शुश्रूषाऽन्या न रोचते तस्मात् ।
अस्त्वेषा भक्तियुता श्रीविद्यातीर्थपादयोः सेवा ॥
इति श्रीविद्यारण्यमुनिप्रणीते विवरणप्रमेयसङ्ग्रहे चतुर्थसूत्रे द्वितीयवर्णकम् ।
समाप्तं चेदं सूत्रम् ।
समाप्तश्च विवरणप्रमेयसङ्ग्रहः ।