अन्वेषणम् - फलितांशः

५१ फलितांशाः

ब्रह्मसूत्रभाष्यम्प्रथमोऽध्यायः प्रथमः पादः सूत्रम् ४ - भाष्यम्

………(न्या. सू. १ । १ । २) इति । मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति । न चेदं ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपम् — यथा ‘अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयति’ (बृ. उ. ३ । १ । ९) इति । न चाध्यासरूपम् — यथा ‘मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) ‘आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इति च मनआदित्यादिषु ब्रह्मदृष्ट्यध्यासः । नापि विशिष्टक्रियायोगनिमित्तम् ‘वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) ‘प्राणो वाव संवर्गः’ (छा. उ. ४ । ३ । ३) इतिवत् । नाप्याज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम् । सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञानेऽभ्युपगम्यमाने, ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येत । ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः’ (मु. उ. २ । २ । ९) इति चैवमादीन्यविद्यानिवृत्तिफलश्रवणान्युपरुध्येरन् । ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति चैवमादीनि तद्भावापत्तिवचनानि सम्पदादिरूपत्वे न सामञ्जस्येनोपपद्येरन् । तस्मान्न सम्पदादिरूपं ब्रह्मात्मैकत्वविज्ञानम् । अतो न पुरुषव्यापारतन्त्रा ब्रह्मविद्या । किं तर्हि ?………

अग्रे पठन्तु...

ब्रह्मसूत्रभाष्यम्द्वितीयोऽध्यायः प्रथमः पादः सूत्रम् १४ - भाष्यम्

………ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनम् , एवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते, प्रमाणाभावात् ; कूटस्थब्रह्मात्मैकत्वविज्ञानादेव हि फलं दर्शयति शास्त्रम् — ‘ स एष नेति………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्चतुर्थोऽध्यायःश्लोक २५ - भाष्यम्

………सोपाधिकस्य आत्मनः निरुपाधिकेन परब्रह्मस्वरूपेणैव यद्दर्शनं स तस्मिन् होमः तं कुर्वन्ति ब्रह्मात्मैकत्वदर्शननिष्ठाः संन्यासिनः इत्यर्थः ॥ २५ ॥ ………

अग्रे पठन्तु...

श्रीमद्भगवद्गीताभाष्यम्षष्ठोऽध्यायःश्लोक २९ - भाष्यम्

………योगयुक्तात्मा समाहितान्तःकरणः सर्वत्र समदर्शनः सर्वेषु ब्रह्मादिस्थावरान्तेषु विषमेषु सर्वभूतेषु समं निर्विशेषं ब्रह्मात्मैकत्वविषयं दर्शनं ज्ञानं यस्य स सर्वत्र समदर्शनः ॥ २९ ॥………

अग्रे पठन्तु...

बृहदारण्यकोपनिषद्भाष्यम्प्रथमोऽध्यायःप्रथमं ब्राह्मणम्

………। १) इत्येवमाद्या वाजसनेयिब्राह्मणोपनिषत् । तस्या इयमल्पग्रन्था वृत्तिः आरभ्यते, संसारव्याविवृत्सुभ्यः संसारहेतुनिवृत्तिसाधनब्रह्मात्मैकत्वविद्याप्रतिपत्तये । सेयं ब्रह्मविद्या उपनिषच्छब्दवाच्या, तत्पराणां सहेतोः संसारस्यात्यन्तावसादनात् ; उपनिपूर्वस्य………

अग्रे पठन्तु...

मुण्डकोपनिषद्भाष्यम्प्रथमं मुण्डकम्प्रथमः खण्डः

………। ६) इति च ब्रुवन्दर्शयति । विद्याकर्मविरोधाच्च । न हि ब्रह्मात्मैकत्वदर्शनेन सह कर्म स्वप्नेऽपि सम्पादयितुं शक्यम् ; विद्यायाः कालविशेषाभावादनियतनिमित्तत्वाच्च कालसङ्कोचानुपपत्तेः………

अग्रे पठन्तु...

ऐतरेयोपनिषद्भाष्यम्प्रथमः अध्यायःप्रथमः खण्डः

………अविरुद्धमात्मज्ञानमिति, तत्सविशेषनिर्विशेषात्मविषयतया प्रत्युक्तम् ; उत्तरत्र व्याख्याने च दर्शयिष्यामः । अतः केवलनिष्क्रियब्रह्मात्मैकत्वविद्याप्रदर्शनार्थमुत्तरो ग्रन्थ आरभ्यते ॥ ………

अग्रे पठन्तु...

कठोपनिषद्भाष्यम्प्रथमोऽध्यायःप्रथमा वल्लीमन्त्र २० - भाष्यम्

………वस्तु नात्मतत्त्वविषययाथात्म्यविज्ञानम् । अतो विधिप्रतिषेधार्थविषयस्य आत्मनि क्रियाकारकफलाध्यारोपणलक्षणस्य स्वाभाविकस्याज्ञानस्य संसारबीजस्य निवृत्त्यर्थं तद्विपरीतब्रह्मात्मैकत्वविज्ञानं क्रियाकारकफलाध्यारोपणशून्यमात्यन्तिकनिःश्रेयसप्रयोजनं वक्तव्यमित्युत्तरो ग्रन्थ आरभ्यते । तमेतमर्थं द्वितीयवरप्राप्त्याप्यकृतार्थत्वं तृतीयवरगोचरमात्मज्ञानमन्तरेणेत्याख्यायिकया प्रपञ्जयति………

अग्रे पठन्तु...

विवेकचूडामणिःश्लोक ५८

………न योगेन न साङ्ख्येन कर्मणा नो न विद्यया । ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा ॥ ५८ ॥ ………

अग्रे पठन्तु...

विवेकचूडामणिःश्लोक २०४

………विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा । ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ॥ २०४ ॥ ………

अग्रे पठन्तु...

विवेकचूडामणिःश्लोक २८४

………तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः । ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ॥ २८४ ॥ ………

अग्रे पठन्तु...

सर्ववेदान्तसिद्धान्तसारसङ्ग्रहःश्लोक

………ब्रह्मात्मैकत्वविज्ञानं सन्तः प्राहुः प्रयोजनम् । येन निःशेषसंसारबन्धात्सद्यः प्रमुच्यते ॥ १० ॥ ………

अग्रे पठन्तु...

सर्ववेदान्तसिद्धान्तसारसङ्ग्रहःश्लोक

………ब्रह्मात्मैकत्वविज्ञानाद्यद्विद्वान्मोक्तुमिच्छति । संसारपाशबन्धं तन्मुमुक्षुत्वं निगद्यते ॥ २२६ ॥ ………

अग्रे पठन्तु...

सर्ववेदान्तसिद्धान्तसारसङ्ग्रहःश्लोक

………वाक्ये तत्त्वमसीत्यत्र ब्रह्मात्मैकत्वबोधके । परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः ॥ ७४६ ॥ ………

अग्रे पठन्तु...

भाष्यरत्नप्रभाव्याख्या

……… ननु ब्रह्मात्मैकत्वविज्ञानमपि भेदज्ञानवन्न प्रमा, सम्पदादिरूपत्वेन भ्रान्तित्वादित्यत आह - न चेदमित्यादिना ।………

अग्रे पठन्तु...

भाष्यरत्नप्रभाव्याख्या

……… प्रतिज्ञाचतुष्टये हेतुमाह - सम्पदादीति । उपक्रमादिलिङ्गैर्ब्रह्मात्मैकत्ववस्तुनि प्रमितिहेतुर्यः समानाधिकरणवाक्यानां पदनिष्ठः समन्वयस्तात्पर्यं निश्चितं तत्पीड्येत । किं च………

अग्रे पठन्तु...

भाष्यरत्नप्रभाव्याख्या

……… किञ्च ब्रह्मात्मैकत्वपरत्वे ग्रन्थे भेदवादिनां प्रधानस्यावकाशो नास्तीत्याह शरीरेत्यादिना । भोगो वेदना………

अग्रे पठन्तु...

भामतीव्याख्या

………चाविद्या रागाद्युपजननक्रमेण दृष्टेनैव संसारस्य परमं निदानम् । सा च तत्त्वज्ञानेन ब्रह्मात्मैकत्वविज्ञानेनैवावगतिपर्यन्तेन विरोधिना निवर्त्यते । ततोऽविद्यानिवृत्त्या ब्रह्मरूपाविर्भावो मोक्षः । न तु………

अग्रे पठन्तु...

भामतीव्याख्या

………द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेत” इति न्यायादत आह - न चेदं ब्रह्मात्मैकत्वविज्ञानमिति । ………

अग्रे पठन्तु...

भामतीव्याख्या

……… कुतः, सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञान इति । दर्शपूर्णमासप्रकरणे हि समाम्नातमाज्यावेक्षणं तदङ्गभूताज्यसंस्कार इति युज्यते ।………

अग्रे पठन्तु...

भामतीव्याख्या

………तदेवं द्विविधोऽयमात्माभिमानो लोकयात्रां वहति । तदसत्त्वे तु न लोकयात्रा, नापि ब्रह्मात्मैकत्वानुभवः, तदुपायस्य श्रवणमननादेरभावात् । ………

अग्रे पठन्तु...

न्यायनिर्णयव्याख्या

……… तन्निराकरणं किमर्थमित्याशङ्क्य ब्रह्मात्मैकत्वं दृढीकर्तुमित्याह - वेदान्तेति । ………

अग्रे पठन्तु...

पञ्चपादिका

………तदेवं स्वयञ्ज्योतिष एव सतो जीवस्य कार्यकरणसङ्घातव्यतिरिक्ततायाः तथा अनवभासदर्शनात् ’मनुष्योऽहमि’ति चाध्यासोपलब्धेः ब्रह्मात्मैकत्वस्यापि तत्स्वरूपस्यानवभासनं पूर्वकालकोटिरहितप्रकाशाच्छादिततमोनिमित्तं श्रुति तदर्थापत्तिसमर्पितं, तन्निमित्ताहङ्काराध्यासश्च सम्भाव्यते । अनादित्वाच्च पूर्वदृष्टत्वं………

अग्रे पठन्तु...

पञ्चपादिका

………; अपेक्षितत्वात् , इतरस्य पुर्नन्यायकलापस्य न ब्रह्मजिज्ञासायामुपयोगोस्ति, यतो न निरस्ताशेषप्रपञ्चं ब्रह्मात्मैकत्वं प्रतिज्ञातं तत्र । न तत्प्रतिपादने तत्प्रतिपादनसामर्थ्ये वा शब्दानां कश्चित्………

अग्रे पठन्तु...

पञ्चपादिका

………इतश्चैतदेवम् , अन्येऽपि न्यायविदो मिथ्याज्ञानापाये तदनन्तरं दुःखाभावं निर्वाणं दर्शयन्ति मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति, न क्रियातः । कथं गम्यते ? ‘इन्द्रो मायाभिः पुरुरूप………

अग्रे पठन्तु...

पञ्चपादिका

………आज्यस्येवावेक्षणम् ॥ अत्रोत्तरम् — सम्पदादिरूपे हीत्यादि ॥ तथा सति तत्त्वमस्यादिवाक्यानां निरुपचरितब्रह्मात्मैकत्वावगमपरः पदसमन्वयो विना कारणेन स्वेच्छामात्रेण सम्पदादिपरः परिकल्प्येत । तदवगमनिमित्तं च………

अग्रे पठन्तु...

पञ्चपादिका

………, अपि तु प्रमाणवस्तुपरतन्त्रत्वम् , एवं सम्यग्ज्ञानत्वोपपत्तेरग्नाविवाग्निज्ञानस्य । एवं सति ब्रह्मात्मैकत्वविज्ञानस्यापि यथाभूतवस्तुविषयत्वान्न चोदनाजन्यत्वम् । अतो न विधेरत्रावकाशः ॥ ………

अग्रे पठन्तु...

वक्तव्यकाशिका

………। भाष्यजन्यप्रमितिफलविशिष्टतया भाष्यस्य प्रयोजनमध्यास इत्यध्यास उच्यते । तन्त्रशब्देन लक्षणया तन्त्रार्थरूपब्रह्मात्मैकत्वमुच्यतेअत्रार्थेति, तन्त्र्यत इति तन्त्रमिति योगवृत्त्या वा तदेवोच्यत इति ………

अग्रे पठन्तु...

वक्तव्यकाशिका

……… मुक्तिफलान्येव इति । परम्परया ब्रह्मात्मैकत्वावगति हेतुतया मुक्तिफलान्येवेत्यर्थः । ………

अग्रे पठन्तु...

वक्तव्यकाशिका

……… ब्रह्मात्मैकत्वबन्धनिवृत्त्योः वेदान्तं प्रति विषयप्रयोजनत्वमस्तु विचारशास्त्रस्य विषयादि न लभ्यत इत्याशङ्क्य तस्यापि………

अग्रे पठन्तु...

वक्तव्यकाशिका

……… भाष्यस्य तात्पर्यमाह - प्रतिज्ञातेऽर्थ इति । प्रथमसूत्रेणार्थात् सूत्रिते ब्रह्मात्मैकत्व इत्यर्थः । ………

अग्रे पठन्तु...

वक्तव्यकाशिका

……… अपर्यायशब्दवाच्यत्वात् भिन्नार्थत्वं स्यादित्याशङ्क्य ब्रह्मात्मैकत्वपरवाक्यजातस्यैकरसार्थवृत्तितायामुदाहरणमाह - सोऽयमित्यादीति । ………

अग्रे पठन्तु...

वक्तव्यकाशिका

……… ब्रह्मात्मैकत्वे प्रतिपाद्यमाने ज्ञानमात्रलभ्यः पुरुषार्थोऽस्तीत्याह - अनेकानर्थकलुषितमिवेति । ………

अग्रे पठन्तु...

वक्तव्यकाशिका

……… विधेयसद्भावमङ्गीकृत्य शब्दानां ध्यानविधिपरत्वे ब्रह्मात्मैकत्वं न सिध्यतीत्याह - अथापि भवत्विति । ………

अग्रे पठन्तु...

वक्तव्यकाशिका

……… ध्येयस्य तथात्व इति । ब्रह्मात्मैकत्वस्य सत्यत्व इत्यर्थः । ………

अग्रे पठन्तु...

वक्तव्यकाशिका

………। न च सम्पदादिपरत्वे तदुपपद्यते । अन्यस्यान्यात्मताविरोधादप्रमाणत्वाच्च । अतः फलवचनसामर्थ्यादपि ब्रह्मात्मैकत्वपरः पदसमन्वय इत्याह - तदवगमनिमित्तं चेति । ………

अग्रे पठन्तु...

आनन्दगिरिटीका (गीताभाष्य)

……… ननु - ब्रह्मात्मैकत्वज्ञानात् उत्तरकालमपि कर्ताऽहमित्यादिज्ञानोत्पत्तौ कर्मविधिः सावकाशः स्यात् इति, नेत्याह - नाहमिति । ………

अग्रे पठन्तु...

आनन्दगिरिटीका (ईशावास्य)

………तदसत् । न हि प्रकृतमित्येतावता सम्बध्यते किं चु सम्बन्धयोग्यम् । शुद्धब्रह्मात्मैकत्वविद्यायास्तु कर्तृत्वाद्यध्यासोपमर्दकत्वान्नास्ति कर्मसम्बन्धयोग्यता । किञ्च यस्मिन्निष्पन्नेऽपि फलस्य व्यवधानं सम्भाव्यते तस्यैव………

अग्रे पठन्तु...

आनन्दगिरिटीका (ईशावास्य)

………- अविद्याऽसम्भवादिति । चोदनाप्रयुक्तानुष्ठानं हि कर्म ज्ञानेन सह तव समुच्चिचीषितं ब्रह्मात्मैकत्वं तु साक्षादनुभवतो न चोदना सम्भवति कामाभावात्कामिनो हि सर्वाश्चोदनाः ।………

अग्रे पठन्तु...

आनन्दगिरिटीका (मुण्डक)

……… यदा ब्रह्मात्मैकत्वं विस्मरति तदोत्पन्नविद्योऽपि करिष्यति ततः समुच्चयः संभाव्यत इति न वाच्यमित्याह………

अग्रे पठन्तु...

आनन्दगिरिटीका (मुण्डक)

……… विचारासमर्थस्य प्रणवमवलम्ब्य ब्रह्मात्मैकत्वे चित्तसमाधानं क्रममुक्तिफलं दर्शयितुमुपक्रमते – कथं वेद्धव्यमित्यादिना । प्रणवो ब्रह्मेत्यभिध्यायत………

अग्रे पठन्तु...

आनन्दगिरिटीका (छान्दोग्य)

………सर्वांश्चेत्यादिवाक्यमाशङ्कोत्तरत्वेनोत्थाप्य व्याचष्टे – तद्युक्तमित्यादिना । यथोक्तं फलं तच्छब्दार्थः । प्रकरणं निर्विशेषब्रह्मात्मैकत्वज्ञानविषयम् ॥६॥ ॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य द्वादशः खण्डः ॥ ………

अग्रे पठन्तु...

आनन्दगिरिटीका (बृहदारण्यक)

………तत्राऽह — संसारहेत्विति । प्रमातृताप्रमुखः कर्तृत्वादिरनर्थः संसारस्तस्य हेतुरात्माविद्या तन्निवृत्तेः साधनं ब्रह्मात्मैकत्वविद्या तस्याः प्रतिपत्तिरप्रतिबद्धायाः प्राप्तिस्तदर्थं वृत्तिरारभ्यत इति योजना । एतदुक्तं भवति………

अग्रे पठन्तु...

आनन्दगिरिटीका (बृहदारण्यक)

……… ननूपनिषद्वाक्यं ब्रह्मात्मैकत्वं साक्षात्प्रतिपादयदर्थात्कर्मकाण्डप्रामाण्यविघातकमिति चेत्तत्र तदप्रामाण्यमनुपपत्तिलक्षणं विपर्यासलक्षणं वेति विकल्प्याऽऽद्यमनूद्य दूषयति — न………

अग्रे पठन्तु...

आनन्दगिरिटीका (बृहदारण्यक)

………। आर्यमर्यादां भिन्दानाश्चाटा विवक्ष्यन्ते । भटास्तु सेवका मिथ्याभाषिणस्तेषां सर्वेषां राजानस्तार्किकास्तैरप्रवेश्यमानाक्रमणीयमिदं ब्रह्मात्मैकत्वमिति यावत् । ………

अग्रे पठन्तु...

आनन्दगिरिटीका (माण्डूक्य)

………फलं ब्रह्मज्ञानस्येष्यते, न शास्त्रप्रकरणयोरित्याशङ्क्याऽऽह – साधनेति । सत्यं मोक्षस्य साधनं ब्रह्मात्मैकत्वज्ञानम् । तस्य जनकं शास्त्रादि । तद्भावेन ज्ञानव्यवधानेन मोक्षफलवद्भवति शास्त्रादीत्यर्थः………

अग्रे पठन्तु...

आनन्दगिरिटीका (तैत्तिरीय)

………दर्शयति । उत्तरत्र तत्कल्पनया बाह्यविषयासङ्गव्यपोहेन बुद्धेरात्मनि स्थिरीकरणार्थं नोपासनविधानमिह विवक्षितम् । उपक्रमोपसंहारयोर्ब्रह्मात्मैकत्वप्रतिपादनेनैवोपक्षयान्मध्ये ग्रन्थस्योपासनविधौ तात्पर्येण च वाक्यभेदप्रसङ्गादत एवाङ्गे स्तुतिः परार्थत्वादिति न्यायेन यथा………

अग्रे पठन्तु...

आनन्दगिरिटीका (तैत्तिरीय)

………क्वचित्काष्ठां प्राप्तः सातिशयत्वात्परिमाणवदिति ब्रह्मानन्दानुमानार्थो लौकिकोपन्यास इत्यर्थः । विषयेभ्यो व्यावृत्ता व्यावृत्तविषया अविषयब्रह्मात्मैकत्वदर्शिनस्तद्बुद्धिगोचर इत्यर्थः । ………

अग्रे पठन्तु...

वनमालाव्याख्या

………सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रुतेः ; स चात्यन्तिकः शरीरसम्बन्धाभावो ब्रह्मात्मैकत्वविद्यां विना कर्मभिरेव सिध्यति, किं विद्ययेति मीमांसकः शङ्कते — काम्येति ।………

अग्रे पठन्तु...

वनमालाव्याख्या

……… ननु ब्रह्मात्मैकत्वविज्ञानेनोत्कर्षाद्यपोहे सति किं फलतीत्याशङ्क्याह – स चेदिति । सवित्रादिद्वारा बुद्धिस्थः………

अग्रे पठन्तु...

वनमालाव्याख्या

………; नापि तत्प्राप्तिः सङ्क्रमणं प्राप्तेः सङ्क्रमणार्थताया निरसिष्यमाणत्वात् , किं तु ब्रह्मात्मैकत्वविज्ञानमात्रकृता भ्रमनिवृत्तिरत्र सङ्क्रमणम् , अतो नोक्तानुपपत्तिरित्यर्थः । ………

अग्रे पठन्तु...