अन्वेषणम् - फलितांशः

५२ फलितांशाः

ब्रह्मसूत्रभाष्यम्प्रथमोऽध्यायः प्रथमः पादः सूत्रम् ४ - भाष्यम्

………परिशिष्टधर्मजिज्ञासेति, ‘अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा’ (जै. सू. ४ । ११) इतिवत् । ब्रह्मात्मैक्यावगतिस्त्वप्रतिज्ञातेति तदर्थो युक्तः शास्त्रारम्भः — ‘अथातो ब्रह्मजिज्ञासा’ इति । तस्मात्………

अग्रे पठन्तु...

अद्वैतसिद्धिःप्रथमः परिच्छेदःअथाहमर्थस्यानात्मत्वोपपत्तिः

………, येनाहंपदस्य निष्कृष्टाहंकारचैतन्यपरत्वं स्यात् । सर्वगतत्वं चानेकेष्वपि संभवत्येव । भूमात्मोपदेशाभ्यामेव ब्रह्मात्मैक्यसिद्ध्या मध्ये अहंकारोपदेशवैयर्थ्यं चेति—निरस्तम् । ‘स भगवः कस्मिन् प्रतिष्ठित' इति………

अग्रे पठन्तु...

शास्त्रसिद्धान्तलेशसङ्ग्रहःद्वितीयपरिच्छेदःदृष्टिसृष्टिवादनिरूपणम्

………‘आत्मन आकाशः सम्भूतः’ (तै.उ. २ । १) इत्यादिश्रुतिः । निष्प्रपञ्चब्रह्मात्मैक्यावलम्बनेत्यवेहि । अध्यारोपापवादाभ्यां निष्प्रपञ्चब्रह्मप्रतिपत्तिर्भवतीति तत्प्रतिपत्त्युपायतया श्रुतिषु सृष्टिप्रलयोपन्यासः , न तात्पर्येण इति भाष्याद्युद्घोषः । व्यर्थस्तर्हि तात्पर्याभावे वियत्प्राणपादयोर्वियदादिसर्गतत्क्रमादिविषयश्रुतीनां परस्परविरोधपरिहाराय यत्नः । न व्यर्थः । न्यायव्युत्पत्त्यर्थम् अभ्युपेत्यतात्पर्यं तत्प्रवृत्तेः । उक्तं हि शास्त्रदर्पणे−‘श्रुतीनां सृष्टितात्पर्यं स्वीकृत्येदमिहेरितम् ।ब्रह्मात्मैक्यपरत्वात्तु तासां तन्नैव विद्यते ।’ (१ । ४ । ४)………

अग्रे पठन्तु...

शास्त्रसिद्धान्तलेशसङ्ग्रहःद्वितीयपरिच्छेदःउक्तव्यवस्थोपपादकोपाधिभेदविचारः

………। तस्मात् परमते ब्रह्मजीवयोर्विभुत्वाणुत्वव्यवस्थित्यसिद्धेः ततो भेदसिद्धिप्रत्याशा दूरादपनेया । अस्मन्मते ब्रह्मात्मैक्यपरमहावाक्यानुरोधेन अवान्तरवाक्यानां नेयत्वात् ‘स्वरूपेण जीवस्य विभुत्वम् औपाधिकरूपेण परिच्छेदः’ इत्यादिप्रकारेण जीवब्रह्मभेदप्रापकश्रुतीनामुपपादनं………

अग्रे पठन्तु...

शास्त्रसिद्धान्तलेशसङ्ग्रहःतृतीयपरिच्छेदःविद्यार्थकर्मसु अधिकारिविचारः

………इति चेतिहासपुराणाधिगमे चातुर्वर्ण्याधिकारस्मरणात् वेदपूर्वस्तु नास्त्यधिकारः शूद्राणामिति स्थितम् - इति अपशूद्राधिकरणोपसंहारभष्ये ब्रह्मात्मैक्यपरपुराणादिश्रवणे विद्यासाधनेऽधिकारस्य दर्शितत्वात्; विद्योत्पत्तियोग्यविमलदेवशरीरनिष्पादनद्वारा मुक्त्यर्थं भविष्यतीति त्रैवर्णिकानां क्रममुक्तिफलकसगुणविद्यार्थकर्मानुष्ठानवत् वेदान्तश्रवणयोग्यत्रैवर्णिकशरीरनिष्पादनद्वारा विद्योत्पत्त्यर्थत्वं………

अग्रे पठन्तु...

वेदान्तपरिभाषाप्रयोजनम्

………। नान्यः पन्था विद्यतेऽयनाय" इतिश्रुतेः, अज्ञाननिवृत्तेः ज्ञानैकसाध्यत्वनियमाच्च । तच्च ज्ञानं ब्रह्मात्मैक्यगोचरम् , " अभयं वै जनक प्राप्तोऽसि ।", ………

अग्रे पठन्तु...

विवेकचूडामणिःश्लोक ३७९

………लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् । ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्यानिशंब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भ्रमैः ॥ ३७९ ॥ ………

अग्रे पठन्तु...

विवेकचूडामणिःश्लोक ४५४

………प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयः प्राक्सञ्चितागामिनाम् । ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिता - स्तेषां तत्त्रितयं न हि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥ ४५४ ॥ ………

अग्रे पठन्तु...

भाष्यरत्नप्रभाव्याख्या

………भेदस्तादात्म्यम् । तत्र मनुष्योऽहमित्यैक्यांशभानं ममेदमिति भेदांशरूपसंसर्गभानमिति भेदः । एवं सामग्रीसत्त्वादनुभवसत्त्वादध्यासोऽस्तीत्यतो ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनयोः सत्त्वात्शास्त्रमारम्भणीयमिति सिद्धान्तभाष्यतात्पर्यम् । ………

अग्रे पठन्तु...

भाष्यरत्नप्रभाव्याख्या

……… कर्तृत्वाद्यनर्थहेतोरध्यासस्य समूलस्यात्यन्तिकनाशो मोक्षः स केनेत्यत आह - आत्मेति । ब्रह्मात्मैक्यसाक्षात्कारस्य प्रतिपत्तिः श्रवणादिभिरप्रतिबन्धेन लाभस्तस्या इत्यर्थः । ………

अग्रे पठन्तु...

भाष्यरत्नप्रभाव्याख्या

………- सर्व इति । आरभ्यन्ते अधीत्य विचार्यन्ते इत्यर्थः । विचारितवेदान्तानां ब्रह्मात्मैक्यं विषयः, मोक्षः फलमित्युक्तं भवति । अर्थात्तद्विचारात्मकशास्त्रस्यापि ते एव विषयप्रयोजने………

अग्रे पठन्तु...

भाष्यरत्नप्रभाव्याख्या

………मीमांसा तस्यामित्यर्थः । उपास्तीनां चित्तैकाग्र्यद्वारात्मैक्यज्ञानार्थत्वात्तद्वाक्यानामपि महातात्पर्यमैक्ये इति वक्ष्यते । एवमध्यासोक्त्या ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनवत्वाच्छास्त्रमारम्भणीयमिति दर्शितम् ॥ ॥ इति प्रथमवर्णकम् ॥………

अग्रे पठन्तु...

भाष्यरत्नप्रभाव्याख्या

………श्रद्धा तदाश्रयणात्तस्य स्वार्थः सेत्स्यति किं ब्रह्मविचारारम्भेणेत्यत आह - तत्राविचार्येति । ब्रह्मात्मैक्यविज्ञानादेव मुक्तिरिति वस्तुगतिः । मतान्तराश्रयणे तदभावान्मोक्षसिद्धिः । किञ्चात्मानमन्यथा ज्ञात्वा तत्पापेन………

अग्रे पठन्तु...

भाष्यरत्नप्रभाव्याख्या

………। ब्रह्मणो विधिस्पर्शो शास्त्रपृथक्त्वं न स्यात् , कार्यविलक्षणानधिगतविषयलाभात् । नहि ब्रह्मात्मैक्यं भेदप्रमाणे जाग्रति विधिपरवाक्याल्लब्धुं शक्यम् । न वा तद्विना विधेरनुपपत्तिः………

अग्रे पठन्तु...

भाष्यरत्नप्रभाव्याख्या

……… वाक्यस्य ब्रह्मात्मैक्यपरत्वे हेत्वन्तरमाह पत्यादीति । ………

अग्रे पठन्तु...

भाष्यरत्नप्रभाव्याख्या

……… ब्रह्मात्मैक्येनियोगे च वेदान्तवाक्यस्य प्रामाण्यमाशङ्क्यार्थभेदाद्वाक्यभेदो विरुद्धार्थत्वादप्रामाण्यं चेति दूषयति - अथेत्यादिना ।………

अग्रे पठन्तु...

भाष्यरत्नप्रभाव्याख्या

………दर्शितः, इह सूत्रस्यैवाभ्यासाच्छास्त्रसमाप्तिर्द्येत्यत इत्याह - अनावृत्तिः शब्दादिति । एवं समन्वयोक्त्या ब्रह्मात्मैक्यस्य वेदान्तप्रमाणकत्वमवधारयितुं वाक्यार्थज्ञाने स्मृतितर्कादिसर्वप्रकारविरोधः परिहृतः, साधनसम्पत्तिश्च दर्शिता, तस्माद्विवेकादिसाधनसम्पन्नस्य श्रवणाद्यावृत्तिनिरस्तसमस्तप्रतिबन्धस्याखण्डात्मसम्बोधात्समूलबन्धध्वंसे सत्याविर्भूतनिष्कलङ्कानन्तस्वप्रकाशचिदानन्दात्मनावस्थानमिति………

अग्रे पठन्तु...

भामतीव्याख्या

……… न केवलं सिद्धरूपत्वाद्ब्रह्मात्मैक्यस्य धर्मादन्यत्वमपि तु तद्विरोधादपीत्युपसंहारव्याजेनाह - तस्मादहं ब्रह्मास्मीति । इतिकरणेन ज्ञानं परामृशति । विधयो हि धर्मे प्रमाणम् । ते च साध्यसाधनेतिकर्तव्यताभेदाधिष्ठाना धर्मोत्पादिनश्च तदधिष्ठाना न ब्रह्मात्मैक्ये सति प्रभवन्ति, विरोधादित्यर्थः । ………

अग्रे पठन्तु...

न्यायनिर्णयव्याख्या

……… प्रथमवर्णके विचारविधेर्ज्ञानव्यवधानेन विषयो ब्रह्मात्मैक्यं, बन्धध्वस्तिश्च फलं, इत्यध्यासोक्त्या साधितम् । इदानीं पूर्वमीमांसया वेदार्थमात्रोपाधौ प्रवृत्तया………

अग्रे पठन्तु...

न्यायनिर्णयव्याख्या

………तावदस्तीत्यनात्मन्यात्मेति दुःखेऽनित्येऽत्राणे सभये जुगुप्सिते हातव्ये यथाविषयं वेदितव्यम्‘ इत्यादिन्यायभाष्यदर्शनात् । तत्कथं ब्रह्मात्मैक्यज्ञानान्मिथ्याधीध्वस्तिरित्यत्र न्यायशास्त्रानुगुण्यं, तत्राह — मिथ्येति । भेददृष्टेरज्ञानविलासत्वान्मिथ्याज्ञानाप्रतिपक्षत्वात् , अद्वयब्रह्मात्मधीरेव तन्निवर्तिकेत्यावश्यकमित्यर्थः………

अग्रे पठन्तु...

न्यायनिर्णयव्याख्या

……… स्वातन्त्र्येण ब्रह्मात्मैक्यनिष्ठत्वे वेदान्तानां तदेव तात्त्विकमिति कथं द्वैतालम्बनस्य विधिकाण्डस्याध्यक्षादेश्च मानतेत्याशङ्क्योपसंहरन्परिहरति — तस्मादिति………

अग्रे पठन्तु...

न्यायनिर्णयव्याख्या

………सूक्ष्मत्वाद्दुर्ज्ञानं तत एव गूढमनुप्रविष्टं गहनतां गतमीश्वरं, अध्यात्मयोगः प्रत्यगात्मन्येव चित्तसमाधानं तत्सहकृताद्वाक्यादधिगमो ब्रह्मात्मैक्यव्यञ्जकचित्तवृत्तिविशेषस्तेनाहमेवेति निश्चित्य धीरो विद्वान्हर्षाद्युपलक्षितं संसारं त्यजतीत्यर्थः । ………

अग्रे पठन्तु...

न्यायनिर्णयव्याख्या

……… अवताराय । ब्रह्मात्मैक्यबुद्धेरिति शेषः । प्रतिपाद्ये ब्रह्मणि नास्ति भेदो न विगानमित्यर्थः ।………

अग्रे पठन्तु...

न्यायनिर्णयव्याख्या

………विरोधोऽस्ति न वेति तत्प्रामाणिकत्वभ्रान्तत्वाभ्यां सन्देहे पूर्वपक्षयति - सा चेति । माहेश्वरमतनिराकरणेन समन्वयविषयब्रह्मात्मैक्यस्यात्र दृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे तन्मतस्य प्रामाणिकत्वात्तद्विरोधे समन्वयासिद्धेर्ब्रह्मात्मैक्यासिद्धिः । सिद्धान्ते तस्य भ्रान्तत्वात्तद्विरोधस्याभासत्वे समन्वयसिद्धेरैक्यसिद्धिः । ………

अग्रे पठन्तु...

न्यायनिर्णयव्याख्या

……… आत्मनस्तु कामायेत्युपक्रम्यात्मा वा अरे द्रष्टव्य इति वाक्यं ब्रह्मोपदिदिक्षायां सत्याभेव ब्रह्मात्मैक्याभिप्रायमित्यत्र वाक्यशेषमाह - अस्येति । ………

अग्रे पठन्तु...

वक्तव्यकाशिका

………साक्षिण इति त्वम्पदार्थस्य शोधितरूपं निर्दिशति । साक्षिणे ब्रह्मण इति सामानाधिकरण्येन ब्रह्मात्मैक्यलक्षणविषयं दर्शयति | अनाद्यानन्देति प्राप्यब्रह्मणः आनन्दस्वरूपत्वकथनेन परमानन्दप्राप्तिलक्षणप्रयोजनमुपन्यस्यति । अभूतद्वैतजालाय साक्षिण………

अग्रे पठन्तु...

वक्तव्यकाशिका

……… सूत्रकारेण अध्यासात्मकत्वस्यात्रैव किमित्यनुक्तिरित्याशङ्क्य समन्वयाध्यायेन वेदान्तानां ब्रह्मात्मैक्ये समन्वये प्रतिपादिते पश्चादात्मनो ब्रह्मत्वप्रतिपादक श्रुतीनामात्मगतादिकर्तृत्वादिसाधकप्रमाणविरोध उद्भाविते कर्तृत्वादीनामध्यासात्मकत्वेनाभासत्वात् तद्विषयप्रतिभासस्य प्रमाणत्वं………

अग्रे पठन्तु...

वक्तव्यकाशिका

……… ब्रह्मगतप्रपञ्चनिवृत्तेः ब्रह्मात्मैक्यरूपविषयमात्रत्वेऽपि जीवस्यानर्थयोगित्वादेव अनर्थनिवृत्त्यभावात् न तस्याविषयान्तर्भाव इति तत्राह - तथा सति………

अग्रे पठन्तु...

वक्तव्यकाशिका

……… भवतु ब्रह्मात्मैक्यज्ञानोदयनान्तरीयकतया बन्धनिरासनिष्पत्तिः । निरासप्रतीतिः कथं स्यादित्याशङ्क्य साप्यैक्यप्रतीतिनान्तरीयकेत्याह – तदेवमिति ।………

अग्रे पठन्तु...

वक्तव्यकाशिका

……… प्रतिज्ञातार्थसिद्धय इति । वेदान्तानां बन्धनिवृत्तिः ब्रह्मात्मैक्यं च विषयप्रयोजन इति प्रतिज्ञातार्थसिद्धय इत्यर्थः । ………

अग्रे पठन्तु...

वक्तव्यकाशिका

………प्रत्यक्त्वस्य, विशेषणत्वेन देहादीनां विप्रतिपत्तेरतो ब्रह्मणः सामान्यप्रसिद्धेरनूद्य प्रतिपादनसम्भवात् सम्बन्धः सम्भवति । ब्रह्मात्मैक्यमिति विशेषरूपस्य अन्येनाप्रमिततया अपूर्वत्वेन शास्त्रं प्रति विषयत्वं च विद्यत इति………

अग्रे पठन्तु...

वक्तव्यकाशिका

……… स्वरूपवाक्यानामपीति । ब्रह्मात्मैक्यप्रतिपादकवाक्यानामपीत्यर्थः । ………

अग्रे पठन्तु...

आनन्दगिरिटीका (गीताभाष्य)

………तेषामयनमधिष्ठानं तत्पदवाच्यं परं ब्रह्म । तथा च कल्पितस्याधिष्ठानातिरिक्तस्वरूपाभावाद्वाच्यस्य कल्पितत्वेऽपि लक्ष्यस्य ब्रह्ममात्रत्वाद्ब्रह्मात्मैक्यं विषयोऽत्र सूच्यते । तेनार्थाद्विषयविषयिभावः सम्बन्धोऽपि ध्वनितः । परोऽव्यक्तादित्यनेन मायासंस्पर्शाभावोक्त्या………

अग्रे पठन्तु...

आनन्दगिरिटीका (गीताभाष्य)

………कर्तव्याकर्तव्यविवेकविकलं चेतो यस्य तस्य, मिथ्याज्ञानवतः अहङ्कारममकारवतः शोकाख्यसागरे दुरुत्तारे प्रविश्य क्लिश्यतो ब्रह्मात्मैक्यलक्षणवाक्यार्थज्ञानं आत्मज्ञानं, तदतिरेकेणोद्धरणासिद्धेः तं अतिभक्तमतिस्निग्धं शोकादुद्धर्तुमिच्छन् भगवान् यथोक्तज्ञानार्थं तमर्जुनमवतारयन् -………

अग्रे पठन्तु...

आनन्दगिरिटीका (गीताभाष्य)

………- आत्मा उपलब्धा कल्प्यते । तच्च अविद्याप्रयुक्तमिथ्यासम्बन्धनिबन्धनम् । तथैव आध्यासिकसम्बन्धेन ब्रह्मात्मैक्याभिव्यञ्जकवाक्योत्थबुद्धिवृत्तिद्वारा विद्वानात्मा व्यपदिश्यते । न च मिथ्यासम्बन्धेन पारमार्थिकाविक्रियत्वविहतिरस्तीत्यर्थः । ………

अग्रे पठन्तु...

आनन्दगिरिटीका (गीताभाष्य)

……… ब्रह्मात्मैक्यज्ञानस्य सर्वपापनिवर्तकत्वेन माहात्म्यम् इदानीं प्रकटयति - सर्वमिति । ………

अग्रे पठन्तु...

आनन्दगिरिटीका (काठक)

……… यः साक्षात्कृतपरमानन्दो यावदधिकारं याम्ये पदे वर्तमानोऽकर्तृब्रह्मात्मतानुभवबलतो भूतयातनानिमित्तदोषैरलिप्तस्वभाव आचार्यो वरप्रदानेन परब्रह्मात्मैक्यविद्यामुपदिदेश यस्मै चोपदिदेश ताभ्यां नमस्कुर्वन्नाचार्यभक्तेर्विद्याप्राप्त्यङ्गत्वं दर्शयति - ओं नमो भगवते………

अग्रे पठन्तु...

आनन्दगिरिटीका (छान्दोग्य)

……… ननु प्रकरणानुगृहीताभ्यामात्मब्रह्मशब्दाभ्यामत्रापि ब्रह्मात्मैक्यमेव विवक्षितमित्यत आह – यद्यपीति । लिङ्गानुगृहीतषष्ठीश्रुतिवशात्प्रकरणानुगृहीते श्रुती कथञ्चिन्नेतव्ये प्रकरणश्रुतिभ्यां लिङ्गश्रुत्योर्बलवत्त्वादात्मश्रुतेश्चान्यथोपपत्तेरुक्तत्वादिति भावः………

अग्रे पठन्तु...

आनन्दगिरिटीका (बृहदारण्यक)

………इति योजना । एतदुक्तं भवति – सनिदानानर्थनिवृत्तिः शास्त्रस्य प्रयोजनम् । ब्रह्मात्मैक्यविद्या तदुपायः । तदैक्यं विषयः । संबन्धो ज्ञानफलयोरुपायोपेयत्वम् । शास्त्रतद्विषययोर्विषयविषयित्वं………

अग्रे पठन्तु...

आनन्दगिरिटीका (बृहदारण्यक)

………प्रयोजनमेव नामव्युत्पादनद्वारा व्युत्पादयति — सेयमिति । अध्यात्मशास्त्रेषु प्रसिद्धा सन्निहिता चात्र ब्रह्मात्मैक्यविद्या तन्निष्ठानां सर्वकर्मसंन्यासिनां सनिदानस्य संसारस्यात्यन्तनाशकत्वाद्भवत्युपनिषच्छब्दवाच्या । ‘उपनिषदं भो ब्रूहि’ (के.………

अग्रे पठन्तु...

आनन्दगिरिटीका (बृहदारण्यक)

……… प्रजापतेर्ब्रह्मात्मैक्यज्ञानाद्भीतिध्वस्तिरुक्ता न च तस्य तज्ज्ञानं युक्तं हेत्वभावादित्याह — कुत इति………

अग्रे पठन्तु...

आनन्दगिरिटीका (बृहदारण्यक)

……… ब्रह्मात्मैक्ये पदद्वयसामानाधिकरण्याधिगते हेतुमाह — प्रविष्ट इति । ………

अग्रे पठन्तु...

आनन्दगिरिटीका (बृहदारण्यक)

……… ब्रह्मात्मैक्यधीपरवाक्योत्थविज्ञानस्याज्ञानतत्कार्यध्वंसित्वध्रौव्यान्न साधनव्याप्तिरित्याह — नेत्यादिना । तद्वादित्वाद्वस्तुपरत्वादिति यावत् । ………

अग्रे पठन्तु...

आनन्दगिरिटीका (बृहदारण्यक)

……… ब्रह्मात्मैक्यज्ञानं शास्त्रेण ज्ञाप्यते तद्विषयं च श्रवणादि विधीयते तेन तस्मिन्नज्ञातत्वमेष्टव्यमित्युक्तमर्थं दृष्टान्तेन………

अग्रे पठन्तु...

आनन्दगिरिटीका (बृहदारण्यक)

……… उपक्रमोपसंहारसिद्धे ब्रह्मात्मैक्ये कठश्रुतिं संवादयति — तथा चेति । ………

अग्रे पठन्तु...

आनन्दगिरिटीका (माण्डूक्य)

………। तद्विवेकिनां रज्जुसर्पविवेकविज्ञानवतामिति यावत् । बुद्धिसंस्कारादित्यत्र बुद्धिशब्देन सर्पभ्रान्तिर्गृह्यते । उत्तमाधिकारिणामोङ्कारद्वारेण परिशुद्धब्रह्मात्मैक्यविदामपुनरावृत्तिलक्षणमुक्तं फलम् । ………

अग्रे पठन्तु...

आनन्दगिरिटीका (माण्डूक्य)

………बहुषु पर्यायेष्वधिदैवाध्यात्मविभक्तयोः स्थानयोरयमेव स इति परं ब्रह्म प्रत्यक्प्रकाशितम्। अतोऽस्मिन् बृहदारण्यकश्रुतेरपि ब्रह्मात्मैक्ये तात्पर्यमित्यर्थः। ………

अग्रे पठन्तु...

आनन्दगिरिटीका (माण्डूक्य)

……… इह तु तासां ब्रह्मात्मैक्ये तात्पर्यप्रतिपादनेच्छया पुनरुपन्यासः सिध्यतीत्युत्तरमाह – इह पुनरिति । ………

अग्रे पठन्तु...

आनन्दगिरिटीका (माण्डूक्य)

……… उक्तब्रह्मात्मैक्यज्ञानस्य फलमाह – एवमिति । ………

अग्रे पठन्तु...

वनमालाव्याख्या

………। साधनसम्पत्तिकृतवृत्तिविशेषोपहितस्वरूपानन्दो विषयः, तदनुभविता जीवो विषयी, तयोर्विभागो मूलाविद्याप्रयुक्तः ; तस्मिन्नविद्याकृते ब्रह्मात्मैक्यविद्यया निरस्ते सति य आनन्दः समाधावभिव्यज्यते स एव स्वाभाविकः पिरपूर्ण………

अग्रे पठन्तु...

वनमालाव्याख्या

……… ननु ब्रह्मात्मैक्यसाक्षात्कारं प्रति चित्तगतप्रतिबन्धनिवृत्तिद्वारा तत्सम्पादनसमर्थं साधनान्तरं ममापेक्षते पिता नूनं निश्चय इत्यनेन………

अग्रे पठन्तु...

वनमालाव्याख्या

………परमार्थ एव ब्रह्मभेदः, संसारित्वं च तेषां वास्तवमित्यादिप्रक्रिया दृश्यते ; ततो निष्प्रपञ्चब्रह्मात्मैक्यं प्रतिपादयत आगमस्य तर्कशास्त्रविरोधादप्रामाण्यं स्यादिति शङ्कार्थः । ………

अग्रे पठन्तु...