युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् , तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः — इत्यतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम् । तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येतरेतराविवेकेन अत्यन्तविविक्तयोर्धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्य ‘अहमिदम्’ ‘ममेदम्’ इति नैसर्गिकोऽयं लोकव्यवहारः ॥
आह — कोऽयमध्यासो नामेति । उच्यते — स्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं केचित् अन्यत्रान्यधर्माध्यास इति वदन्ति । केचित्तु यत्र यदध्यासः तद्विवेकाग्रहनिबन्धनो भ्रम इति । अन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते । सर्वथापि तु अन्यस्यान्यधर्मावभासतां न व्यभिचरति । तथा च लोकेऽनुभवः — शुक्तिका हि रजतवदवभासते, एकश्चन्द्रः सद्वितीयवदिति ॥
कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति; युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनः अविषयत्वं ब्रवीषि । उच्यते — न तावदयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः । न चायमस्ति नियमः — पुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यमिति । अप्रत्यक्षेऽपि ह्याकाशे बालाः तलमलिनतादि अध्यस्यन्ति । एवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः ॥
तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते । तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः । तत्रैवं सति, यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि स न सम्बध्यते । तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः, सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपराणि । कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति ? उच्यते — देहेन्द्रियादिषु अहंममाभिमानरहितस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः । न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति । न चाधिष्ठानमन्तरेण इन्द्रियाणां व्यवहारः सम्भवति । न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते । न चैतस्मिन् सर्वस्मिन्नसति असङ्गस्यात्मनः प्रमातृत्वमुपपद्यते । न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति । तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति । पश्वादिभिश्चाविशेषात् । यथा हि पश्वादयः शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अनुकूले च प्रवर्तन्ते; यथा दण्डोद्यतकरं पुरुषमभिमुखमुपलभ्य ‘मां हन्तुमयमिच्छति’ इति पलायितुमारभन्ते, हरिततृणपूर्णपाणिमुपलभ्य तं प्रति अभिमुखीभवन्ति; एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खड्गोद्यतकरान्बलवत उपलभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति प्रवर्तन्ते । अतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारः । पश्वादीनां च प्रसिद्धः अविवेकपुरस्सरः प्रत्यक्षादिव्यवहारः । तत्सामान्यदर्शनाद्व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समान इति निश्चीयते । शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते, तथापि न वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्मक्षत्रादिभेदमसंसार्यात्मतत्त्वमधिकारेऽपेक्ष्यते, अनुपयोगात् अधिकारविरोधाच्च । प्राक् च तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते । तथा हि — ‘ब्राह्मणो यजेत’ इत्यादीनि शास्त्राण्यात्मनि वर्णाश्रमवयोऽवस्थादिविशेषाध्यासमाश्रित्य प्रवर्तन्ते । अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम । तद्यथा — पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति । तथा देहधर्मान् ‘स्थूलोऽहं कृशोऽहं गौरोऽहं तिष्ठामि गच्छामि लङ्घयामि च’ इति । तथेन्द्रियधर्मान् ‘मूकः काणः क्लीबो बधिरोऽन्धोऽहम्’ इति; तथान्तःकरणधर्मान् कामसङ्कल्पविचिकित्साध्यवसायादीन् । एवमहंप्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यति । एवमयमनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षः । अस्यानर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते । यथा चायमर्थः सर्वेषां वेदान्तानाम् , तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः । वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम् —
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
तत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते; नाधिकारार्थः, ब्रह्मजिज्ञासाया अनधिकार्यत्वात् । मङ्गलस्य च वाक्यार्थे समन्वयाभावात् । अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति । पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् । सति च आनन्तर्यार्थत्वे, यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम् । स्वाध्यायानन्तर्यं तु समानम् । नन्विह कर्मावबोधानन्तर्यं विशेषः; न; धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः । यथा च हृदयाद्यवदानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वात् , न तथेह क्रमो विवक्षितः । शेषशेषित्वे अधिकृताधिकारे वा प्रमाणाभावात् । धर्मब्रह्मजिज्ञासयोः फलजिज्ञास्यभेदाच्च । अभ्युदयफलं धर्मज्ञानम् , तच्चानुष्ठानापेक्षम्; निःश्रेयसफलं तु ब्रह्मविज्ञानम् , न चानुष्ठानान्तरापेक्षम् । भव्यश्च धर्मो जिज्ञास्यो न ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वात् । इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतन्त्रम् । चोदनाप्रवृत्तिभेदाच्च । या हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति । ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलम् । अवबोधस्य चोदनाजन्यत्वात् , न पुरुषोऽवबोधे नियुज्यते । यथा अक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत् । तस्मात्किमपि वक्तव्यम् , यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति । उच्यते — नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं च । तेषु हि सत्सु, प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च, शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च; न विपर्यये । तस्मात् अथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यते ॥
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा ।
ब्रह्म च वक्ष्यमाणलक्षणम् ‘
जन्माद्यस्य यतः’
इति ।
अत एव न ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यम् ।
ब्रह्मण इति कर्मणि षष्ठी,
न शेषे;
जिज्ञास्यापेक्षत्वाज्जिज्ञासायाः।
जिज्ञास्यान्तरानिर्देशाच्च ।
ननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं न विरुध्यते,
सम्बन्धसामान्यस्य विशेषनिष्ठत्वात् ।
एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यात् ।
न व्यर्थः,
ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेत् न;
प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वात् ।
ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम् ।
तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते,
यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं न भवति,
तान्यर्थाक्षिप्तान्येवेति न पृथक्सूत्रयितव्यानि ।
यथा ‘
राजासौ गच्छति’
इत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति,
तद्वत् ।
श्रुत्यनुगमाच्च ।
‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्याद्याः श्रुतयः ‘तद्विजिज्ञासस्व । तद्ब्रह्म’ (तै. उ. ३ । १ । १) इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति ।
तच्च कर्मणिषष्ठीपरिग्रहे सूत्रेणानुगतं भवति ।
तस्माद्ब्रह्मण इति कर्मणि षष्ठी ॥
ज्ञातुमिच्छा जिज्ञासा । अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म, फलविषयत्वादिच्छायाः । ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म । ब्रह्मावगतिर्हि पुरुषार्थः, निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात् । तस्माद्ब्रह्म जिज्ञासितव्यम् ॥
तत्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्यात् । यदि प्रसिद्धं न जिज्ञासितव्यम् । अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमिति । उच्यते — अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम् । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बृंहतेर्धातोरर्थानुगमात् । सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः । सर्वो ह्यात्मास्तित्वं प्रत्येति, न ‘नाहमस्मि’ इति । यदि हि नात्मास्तित्वप्रसिद्धिः स्यात् , सर्वो लोकः ‘नाहमस्मि’ इति प्रतीयात् । आत्मा च ब्रह्म । यदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम्; न । तद्विशेषं प्रति विप्रतिपत्तेः । देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्नाः । इन्द्रियाण्येव चेतनान्यात्मेत्यपरे । मन इत्यन्ये । विज्ञानमात्रं क्षणिकमित्येके । शून्यमित्यपरे । अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपरे । भोक्तैव केवलं न कर्तेत्येके । अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित् । आत्मा स भोक्तुरित्यपरे । एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः । तत्राविचार्य यत्किञ्चित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येत, अनर्थं चेयात् । तस्माद्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते ॥ १ ॥
ब्रह्म जिज्ञासितव्यमित्युक्तम् । किंलक्षणकं पुनस्तद्ब्रह्मेत्यत आह भगवान्सूत्रकारः —
जन्माद्यस्य यतः ॥ २ ॥
जन्म उत्पत्तिः आदिः अस्य —
इति तद्गुणसंविज्ञानो बहुव्रीहिः ।
जन्मस्थितिभङ्गं समासार्थः ।
जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च ।
श्रुतिनिर्देशस्तावत् —
‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इति,
अस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात् ।
वस्तुवृत्तमपि —
जन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रलयसम्भवात् ।
अस्येति प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देशः ।
षष्ठी जन्मादिधर्मसम्बन्धार्था ।
यत इति कारणनिर्देशः ।
अस्य जगतो नामरूपाभ्यां व्याकृतस्य अनेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति,
तद्ब्रह्मेति वाक्यशेषः ।
अन्येषामपि भावविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम् ।
यास्कपरिपठितानां तु ‘
जायतेऽस्ति’
इत्यादीनां ग्रहणे तेषां जगतः स्थितिकाले सम्भाव्यमानत्वान्मूलकारणादुत्पत्तिस्थितिनाशा जगतो न गृहीताः स्युरित्याशङ्क्येत ।
तन्मा शङ्कि;
इति या उत्पत्तिर्ब्रह्मणः,
तत्रैव स्थितिः प्रलयश्च,
त एव गृह्यन्ते ।
न यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वा,
अन्यतः प्रधानादचेतनात् अणुभ्यः अभावात् संसारिणो वा उत्पत्त्यादि सम्भावयितुं शक्यम् ।
न च स्वभावतः,
विशिष्टदेशकालनिमित्तानामिहोपादानात् ।
एतदेवानुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्ते ईश्वरकारणवादिनः ॥
नन्विहापि तदेवोपन्यस्तं जन्मादिसूत्रे ।
न;
वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम् ।
वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते ।
वाक्यार्थविचारणाध्यवसाननिर्वृत्ता हि ब्रह्मावगतिः,
नानुमानादिप्रमाणान्तरनिर्वृत्ता ।
सत्सु तु वेदान्तवाक्येषु जगतो जन्मादिकारणवादिषु,
तदर्थग्रहणदार्ढ्याय अनुमानमपि वेदान्तवाक्याविरोधि प्रमाणं भवत् ,
न निवार्यते,
श्रुत्यैव च सहायत्वेन तर्कस्याभ्युपेतत्वात् ।
तथा हि —
‘श्रोतव्यो मन्तव्यः’ (बृ. उ. २ । ४ । ५) इति श्रुतिः ‘पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद’ (छा. उ. ६ । १४ । २) इति च पुरुषबुद्धिसाहाय्यमात्मनो दर्शयति ।
न धर्मजिज्ञासायामिव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञासायाम् ।
किन्तु श्रुत्यादयोऽनुभवादयश्च यथासम्भवमिह प्रमाणम् ,
अनुभवावसानत्वाद्भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्य ।
कर्तव्ये हि विषये नानुभवापेक्षास्तीति श्रुत्यादीनामेव प्रामाण्यं स्यात् ,
पुरुषाधीनात्मलाभत्वाच्च कर्तव्यस्य ।
कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं लौकिकं वैदिकं च कर्म;
यथा अश्वेन गच्छति,
पद्भ्याम् ,
अन्यथा वा,
न वा गच्छतीति ।
तथा ‘
अतिरात्रे षोडशिनं गृह्णाति,
नातिरात्रे षोडशिनं गृह्णाति’ ‘
उदिते जुहोति,
अनुदिते जुहोति’
इति विधिप्रतिषेधाश्च अत्र अर्थवन्तः स्युः,
विकल्पोत्सर्गापवादाश्च ।
न तु वस्तु ‘
एवम् ,
नैवम्’ ‘
अस्ति,
नास्ति’
इति वा विकल्प्यते ।
विकल्पनास्तु पुरुषबुद्ध्यपेक्षाः ।
न वस्तुयाथात्म्यज्ञानं पुरुषबुद्ध्यपेक्षम् ।
किं तर्हि ?
वस्तुतन्त्रमेव तत् ।
न हि स्थाणावेकस्मिन् ‘
स्थाणुर्वा,
पुरुषोऽन्यो वा’
इति तत्त्वज्ञानं भवति ।
तत्र ‘
पुरुषोऽन्यो वा’
इति मिथ्याज्ञानम् । ‘
स्थाणुरेव’
इति तत्त्वज्ञानम् ,
वस्तुतन्त्रत्वात् ।
एवं भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम् ।
तत्रैवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव,
भूतवस्तुविषयत्वात् ।
ननु भूतवस्तुत्वे ब्रह्मणः प्रमाणान्तरविषयत्वमेवेति वेदान्तवाक्यविचारणा अनर्थिकैव प्राप्ता ।
न;
इन्द्रियाविषयत्वेन सम्बन्धाग्रहणात् ।
स्वभावतो विषयविषयाणीन्द्रियाणि,
न ब्रह्मविषयाणि ।
सति हीन्द्रियविषयत्वे ब्रह्मणः इदं ब्रह्मणा सम्बद्धं कार्यमिति गृह्येत ।
कार्यमात्रमेव तु गृह्यमाणम् —
किं ब्रह्मणा सम्बद्धम् ?
किमन्येन केनचिद्वा सम्बद्धम् ? —
इति न शक्यं निश्चेतुम् ।
तस्माज्जन्मादिसूत्रं नानुमानोपन्यासार्थम् ।
किं तर्हि ?
वेदान्तवाक्यप्रदर्शनार्थम् ।
किं पुनस्तद्वेदान्तवाक्यं यत् सूत्रेणेह लिलक्षयिषितम् ?
‘भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति’ (तै. उ. ३ । १ । १) इत्युपक्रम्याह —
‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । ’ (तै. उ. ३ । १ । १) तस्य च निर्णयवाक्यम् —
‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्ति’ (तै. उ. ३ । ६ । १) इति ।
अन्यान्यप्येवंजातीयकानि वाक्यानि नित्यशुद्धबुद्धमुक्तस्वभावसर्वज्ञस्वरूपकारणविषयाणि उदाहर्तव्यानि ॥ २ ॥
जगत्कारणत्वप्रदर्शनेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तम् , तदेव द्रढयन्नाह —
शास्त्रयोनित्वात् ॥ ३ ॥
महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म ।
न हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः सम्भवोऽस्ति ।
यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्सम्भवति,
यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदेशार्थमपि,
स ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके ।
किमु वक्तव्यम् —
अनेकशाखाभेदभिन्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमादिप्रविभागहेतोः ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्य अप्रयत्नेनैव लीलान्यायेन पुरुषनिःश्वासवत् यस्मान्महतो भूतात् योनेः सम्भवः —
‘अस्य महतो भूतस्य निःश्वसितमेतत् यदृग्वेदः’ (बृ. उ. २ । ४ । १०) इत्यादिश्रुतेः —
तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति ॥
अथवा यथोक्तमृग्वेदादिशास्त्रं योनिः कारणं प्रमाणमस्य ब्रह्मणो यथावत्स्वरूपाधिगमे ।
शास्त्रादेव प्रमाणात् जगतो जन्मादिकारणं ब्रह्माधिगम्यत इत्यभिप्रायः ।
शास्त्रमुदाहृतं पूर्वसूत्रे —
‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्यादि ।
किमर्थं तर्हीदं सूत्रम् ,
यावता पूर्वसूत्र एव एवंजातीयकं शास्त्रमुदाहरता शास्त्रयोनित्वं ब्रह्मणो दर्शितम् ।
उच्यते —
तत्र सूत्राक्षरेण स्पष्टं शास्त्रस्यानुपादानाज्जन्मादिसूत्रेण केवलमनुमानमुपन्यस्तमित्याशङ्क्येत;
तामाशङ्कां निवर्तयितुमिदं सूत्रं प्रववृते — ‘
शास्त्रयोनित्वात्’
इति ॥ ३ ॥
कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते, यावता ‘आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ (जै. सू. १ । २ । १) इति क्रियापरत्वं शास्त्रस्य प्रदर्शितम् । अतो वेदान्तानामानर्थक्यम् , अक्रियार्थत्वात् । कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वम् , उपासनादिक्रियान्तरविधानार्थत्वं वा । न हि परिनिष्ठितवस्तुप्रतिपादनं सम्भवति; प्रत्यक्षादिविषयत्वात्परिनिष्ठितवस्तुनः । तत्प्रतिपादने च हेयोपादेयरहिते पुरुषार्थाभावात् । अत एव ‘सोऽरोदीत्’ इत्येवमादीनामानर्थक्यं मा भूदिति ‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’ (जै. सू. १ । २ । ७) इति स्तावकत्वेनार्थवत्त्वमुक्तम् । मन्त्राणां च ‘इषे त्वा’ इत्यादीनां क्रियातत्साधनाभिधायित्वेन कर्मसमवायित्वमुक्तम् । अतो न क्वचिदपि वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टा उपपन्ना वा । न च परिनिष्ठिते वस्तुस्वरूपे विधिः सम्भवति, क्रियाविषयत्वाद्विधेः । तस्मात्कर्मापेक्षितकर्तृदेवतादिस्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानाम् । अथ प्रकरणान्तरभयान्नैतदभ्युपगम्यते, तथापि स्ववाक्यगतोपासनादिकर्मपरत्वम् । तस्मान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते, उच्यते —
तत्तु समन्वयात् ॥ ४ ॥
तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः ।
तद्ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादेवावगम्यते ।
कथम् ?
समन्वयात् ।
सर्वेषु हि वेदान्तेषु वाक्यानि तात्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन समनुगतानि —
‘सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. उ. १ । १ । १) ‘तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) ‘ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २ । २ । १२) इत्यादीनि ।
न च तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वयेऽवगम्यमाने अर्थान्तरकल्पना युक्ता,
श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् ।
न च तेषां कर्तृदेवतादिस्वरूपप्रतिपादनपरता अवसीयते,
‘तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिक्रियाकारकफलनिराकरणश्रुतेः ।
न च परिनिष्ठितवस्तुस्वरूपत्वेऽपि प्रत्यक्षादिविषयत्वं ब्रह्मणः,
‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात् ।
यत्तु हेयोपादेयरहितत्वादुपदेशानर्थक्यमिति,
नैष दोषः;
हेयोपादेयशून्यब्रह्मात्मतावगमादेव सर्वक्लेशप्रहाणात्पुरुषार्थसिद्धेः ।
देवतादिप्रतिपादनस्य तु स्ववाक्यगतोपासनार्थत्वेऽपि न कश्चिद्विरोधः ।
न तु तथा ब्रह्मण उपासनाविधिशेषत्वं सम्भवति,
एकत्वे हेयोपादेयशून्यतया क्रियाकारकादिद्वैतविज्ञानोपमर्दोपपत्तेः ।
न हि एकत्वविज्ञानेनोन्मथितस्य द्वैतविज्ञानस्य पुनः सम्भवोऽस्ति येनोपासनाविधिशेषत्वं ब्रह्मणः प्रतिपाद्येत ।
यद्यप्यन्यत्र वेदवाक्यानां विधिसंस्पर्शमन्तरेण प्रमाणत्वं न दृष्टम् ,
तथाप्यात्मविज्ञानस्य फलपर्यन्तत्वान्न तद्विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम् ।
न चानुमानगम्यं शास्त्रप्रामाण्यम् ,
येनान्यत्र दृष्टं निदर्शनमपेक्ष्येत ।
तस्मात्सिद्धं ब्रह्मणः शास्त्रप्रमाणकत्वम् ॥
अत्रापरे प्रत्यवतिष्ठन्ते —
यद्यपि शास्त्रप्रमाणकं ब्रह्म,
तथापि प्रतिपत्तिविधिविषयतयैव शास्त्रेण ब्रह्म समर्प्यते ।
यथा यूपाहवनीयादीन्यलौकिकान्यपि विधिशेषतया शास्त्रेण समर्प्यन्ते,
तद्वत् ।
कुत एतत् ?
प्रवृत्तिनिवृत्तिप्रयोजनत्वाच्छास्त्रस्य ।
तथा हि शास्त्रतात्पर्यविद आहुः — ‘
दृष्टो हि तस्यार्थः कर्मावबोधनं नाम’
इति; ‘
चोदनेति क्रियायाः प्रवर्तकं वचनम्’
‘तस्य ज्ञानमुपदेशः’ (जै. सू. १ । १ । ५), ‘तद्भूतानां क्रियार्थेन समाम्नायः’ (जै. सू. १ । १ । २५) ‘आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ (जै. सू. १ । २ । १) इति च ।
अतः पुरुषं क्वचिद्विषयविशेषे प्रवर्तयत्कुतश्चिद्विषयविशेषान्निवर्तयच्चार्थवच्छास्त्रम् ।
तच्छेषतया चान्यदुपयुक्तम् ।
तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात् ।
सति च विधिपरत्वे यथा स्वर्गादिकामस्याग्निहोत्रादिसाधनं विधीयते,
एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम् ।
नन्विह जिज्ञास्यवैलक्षण्यमुक्तम् —
कर्मकाण्डे भव्यो धर्मो जिज्ञास्यः,
इह तु भूतं नित्यनिर्वृत्तं ब्रह्म जिज्ञास्यमिति;
तत्र धर्मज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हति ।
नार्हत्येवं भवितुम् ,
कार्यविधिप्रयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात् ।
‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २ । ४ । ५) ‘य आत्मापहतपाप्मा ... सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) ‘आत्मानमेव लोकमुपासीत’ (बृ. उ. १ । ४ । १५) ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादिषु विधानेषु सत्सु, ‘
कोऽसावात्मा ?’ ‘
किं तद्ब्रह्म ?’
इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताः —
नित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयः ।
तदुपासनाच्च शास्त्रदृष्टोऽदृष्टो मोक्षः फलं भविष्यति ।
कर्तव्यविध्यननुप्रवेशे तु वस्तुमात्रकथने हानोपादानासम्भवात् ‘
सप्तद्वीपा वसुमती’ ‘
राजासौ गच्छति’
इत्यादिवाक्यवद्वेदान्तवाक्यानामानर्थक्यमेव स्यात् ।
ननु वस्तुमात्रकथनेऽपि ‘
रज्जुरियम् ,
नायं सर्पः’
इत्यादौ भ्रान्तिजनितभीतिनिवर्तनेनार्थवत्त्वं दृष्टम् ।
तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनिवर्तनेनार्थवत्त्वं स्यात् ।
स्यादेतदेवम् ,
यदि रज्जुस्वरूपश्रवणमात्रेणेव सर्पभ्रान्तिः,
संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमात्रेण निवर्तेत;
न तु निवर्तते ।
श्रुतब्रह्मणोऽपि यथापूर्वं सुखदुःखादिसंसारिधर्मदर्शनात् ।
‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इति च श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्विधिदर्शनात् ।
तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमिति ॥
अत्राभिधीयते —
न;
कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् ।
शारीरं वाचिकं मानसं च कर्म श्रुतिस्मृतिसिद्धं धर्माख्यम् ,
यद्विषया जिज्ञासा ‘अथातो धर्मजिज्ञासा’ (जै. सू. १ । १ । १) इति सूत्रिता ।
अधर्मोऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वाज्जिज्ञास्यः परिहाराय ।
तयोश्चोदनालक्षणयोरर्थानर्थयोर्धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरीरवाङ्मनोभिरेवोपभुज्यमाने विषयेन्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धे ।
मनुष्यत्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयते ।
ततश्च तद्धेतोर्धर्मस्यापि तारतम्यं गम्यते ।
धर्मतारतम्यादधिकारितारतम्यम् ।
प्रसिद्धं चार्थित्वसामर्थ्यादिकृतमधिकारितारतम्यम् ।
तथा च यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषादुत्तरेण पथा गमनम् ,
केवलैरिष्टापूर्तदत्तसाधनैर्धूमादिक्रमेण दक्षिणेन पथा गमनम् ,
तत्रापि सुखतारतम्यम् ,
तत्साधनतारतम्यं च शास्त्रात् ‘यावत्सम्पातमुषित्वा’ (छा. उ. ५ । १० । ५) इत्यस्माद्गम्यते ।
तथा मनुष्यादिषु स्थावरान्तेषु सुखलवश्चोदनालक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्तमानः ।
तथोर्ध्वगतेष्वधोगतेषु च देहवत्सु दुःखतारतम्यदर्शनात्तद्धेतोरधर्मस्य प्रतिषेधचोदनालक्षणस्य तदनुष्ठायिनां च तारतम्यं गम्यते ।
एवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरीरोपादानपूर्वकं सुखदुःखतारतम्यमनित्यं संसाररूपं श्रुतिस्मृतिन्यायप्रसिद्धम् ।
तथा च श्रुतिः ‘
न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’
इति यथावर्णितं संसाररूपमनुवदति ।
‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति प्रियाप्रियस्पर्शनप्रतिषेधाच्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीरत्वस्य प्रतिषिध्यत इति गम्यते ।
धर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्येत ।
अशरीरत्वमेव धर्मकार्यमिति चेत् ,
न ।
तस्य स्वाभाविकत्वात् —
‘अशरीरꣳ शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति’ (क. उ. १ । २ । २२), ‘अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २), ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इत्यादिश्रुतिभ्यः ।
अत एवानुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम् ।
तत्र किञ्चित्परिणामिनित्यं यस्मिन्विक्रियमाणेऽपि तदेवेदमिति बुद्धिर्न विहन्यते;
यथा पृथिव्यादि जगन्नित्यत्ववादिनाम् ,
यथा वा साङ्ख्यानां गुणाः ।
इदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत्सर्वव्यापि सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयंज्योतिःस्वभावम् ,
यत्र धर्माधर्मौ सह कार्येण कालत्रयं च नोपावर्तेते ।
तदेतदशरीरत्वं मोक्षाख्यम् —
‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च’ (क. उ. १ । २ । १४) इत्यादिश्रुतिभ्यः ।
अतस्तद्ब्रह्म,
यस्येयं जिज्ञासा प्रस्तुता ।
तद्यदि कर्तव्यशेषत्वेनोपदिश्येत,
तेन च कर्तव्येन साध्यश्चेन्मोक्षोऽभ्युपगम्येत,
अनित्य एव स्यात् ।
तत्रैवं सति यथोक्तकर्मफलेष्वेव तारतम्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येत ।
नित्यश्च मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यते ।
अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तः ।
अपि च ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९), ‘क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९), ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १), ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४,) ‘तदात्मानमेवावेदहं ब्रह्मास्मीति, तस्मात्तत्सर्वमभवत्’ (वाजसनेयि ब्रह्मण. उ. १ । ४ । १०), ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरमेव मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति ।
तथा ‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’ (बृ. उ. १ । ४ । १०) इति ब्रह्मदर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवारणायोदाहार्यम् —
यथा ‘
तिष्ठन्गायति’
इति तिष्ठतिगायत्योर्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यते ।
‘त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि’ (प्र. उ. ६ । ८), ‘श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति; सोऽहं भगवः शोचामि, तं मा भगवाञ्छोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) ‘तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७ । २६ । २) इति चैवमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य फलं दर्शयन्ति ।
तथा च आचार्यप्रणीतं न्यायोपबृंहितं सूत्रम् —
‘दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः’ (न्या. सू. १ । १ । २) इति ।
मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति ।
न चेदं ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपम् —
यथा ‘अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयति’ (बृ. उ. ३ । १ । ९) इति ।
न चाध्यासरूपम् —
यथा ‘मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) ‘आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इति च मनआदित्यादिषु ब्रह्मदृष्ट्यध्यासः ।
नापि विशिष्टक्रियायोगनिमित्तम् ‘वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) ‘प्राणो वाव संवर्गः’ (छा. उ. ४ । ३ । ३) इतिवत् ।
नाप्याज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम् ।
सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञानेऽभ्युपगम्यमाने,
‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येत ।
‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः’ (मु. उ. २ । २ । ९) इति चैवमादीन्यविद्यानिवृत्तिफलश्रवणान्युपरुध्येरन् ।
‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति चैवमादीनि तद्भावापत्तिवचनानि सम्पदादिरूपत्वे न सामञ्जस्येनोपपद्येरन् ।
तस्मान्न सम्पदादिरूपं ब्रह्मात्मैकत्वविज्ञानम् ।
अतो न पुरुषव्यापारतन्त्रा ब्रह्मविद्या ।
किं तर्हि ?
प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रैव ।
एवंभूतस्य ब्रह्मणस्तज्ज्ञानस्य च न कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयितुम् ।
न च विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः —
‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति विदिक्रियाकर्मत्वप्रतिषेधात् ,
‘येनेदं सर्वं विजानाति तं केन विजानीयात्’ (बृ. उ. २ । ४ । १४) इति च ।
तथोपास्तिक्रियाकर्मत्वप्रतिषेधोऽपि भवति — ‘
यद्वाचानभ्युदितं येन वागभ्युद्यते’
इत्यविषयत्वं ब्रह्मण उपन्यस्य,
‘तदेव ब्रह्म त्वं विद्धि, नेदं यदिदमुपासते’ (के. उ. १ । ५) इति ।
अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेत् ,
न;
अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य ।
न हि शास्त्रमिदंतया विषयभूतं ब्रह्म प्रतिपिपादयिषति ।
किं तर्हि ?
प्रत्यगात्मत्वेनाविषयतया प्रतिपादयत् अविद्याकल्पितं वेद्यवेदितृवेदनादिभेदमपनयति ।
तथा च शास्त्रम् —
‘यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) ‘न दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २) ‘न विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इति चैवमादि ।
अतोऽविद्याकल्पितसंसारित्वनिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषः ।
यस्य तूत्पाद्यो मोक्षः,
तस्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इति युक्तम् ।
तथा विकार्यत्वे च ।
तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् ।
न हि दध्यादि विकार्यम् उत्पाद्यं वा घटादि नित्यं दृष्टं लोके ।
न च आप्यत्वेनापि कार्यापेक्षा,
स्वात्मस्वरूपत्वे सत्यनाप्यत्वात्;
स्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो नाप्यत्वम् ,
सर्वगतत्वेन नित्याप्तस्वरूपत्वात्सर्वेण ब्रह्मण आकाशस्येव ।
नापि संस्कार्यो मोक्षः,
येन व्यापारमपेक्षेत ।
संस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्यात् ,
दोषापनयनेन वा ।
न तावद्गुणाधानेन सम्भवति,
अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य ।
नापि दोषापनयनेन,
नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्षस्य ।
स्वात्मधर्म एव सन् तिरोभूतो मोक्षः क्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यते —
यथा आदर्शे निघर्षणक्रियया संस्क्रियमाणे भास्वरत्वं धर्म इति चेत् ,
न;
क्रियाश्रयत्वानुपपत्तेरात्मनः ।
यदाश्रया हि क्रिया,
तमविकुर्वती नैवात्मानं लभते ।
यद्यात्मा क्रियया विक्रियेत,
अनित्यत्वमात्मनः प्रसज्येत ।
‘अविकार्योऽयमुच्यते’(भ. गी. २ । २५) इति चैवमादीनि वाक्यानि बाध्येरन् ।
तच्चानिष्टम् ।
तस्मान्न स्वाश्रया क्रिया आत्मनः सम्भवति ।
अन्याश्रयायास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियते ।
ननु देहाश्रयया स्नानाचमनयज्ञोपवीतधारणादिना क्रियया देही संस्क्रियमाणो दृष्टः,
न;
देहादिसंहतस्यैवाविद्यागृहीतस्यात्मनः संस्क्रियमाणत्वात् ।
प्रत्यक्षं हि स्नानाचमनादेर्देहसमवायित्वम् ।
तया देहाश्रयया तत्संहत एव कश्चिदविद्ययात्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम् ।
यथा देहाश्रयचिकित्सानिमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्यफलम् , ‘
अहमरोगः’
इति यत्र बुद्धिरुत्पद्यते —
एवं स्नानाचमनयज्ञोपवीतधारणादिकया ‘
अहं शुद्धः संस्कृतः’
इति यत्र बुद्धिरुत्पद्यते,
स संस्क्रियते ।
स च देहेन संहत एव ।
तेनैव ह्यहंकर्त्रा अहंप्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्ते ।
तत्फलं च स एवाश्नाति,
‘तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इति मन्त्रवर्णात् —
‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इति च ।
तथा ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इति,
‘स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्’ (ई. उ. ८) इति,
च —
एतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां च ब्रह्मणो दर्शयतः ।
ब्रह्मभावश्च मोक्षः ।
तस्मान्न संस्कार्योऽपि मोक्षः ।
अतोऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं न शक्यं केनचिद्दर्शयितुम् ।
तस्माज्ज्ञानमेकं मुक्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यते ।
ननु ज्ञानं नाम मानसी क्रिया,
न;
वैलक्षण्यात् ।
क्रिया हि नाम सा,
यत्र वस्तुस्वरूपनिरपेक्षैव चोद्यते,
पुरुषचित्तव्यापाराधीना च,
यथा —
‘यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्’(ऐ॰ब्रा॰ ३-१-८) इति,
‘सन्ध्यां मनसा ध्यायेत्’ (ऐ. ब्रा. ३ । ८ । १) इति चैवमादिषु ।
ध्यानं चिन्तनं यद्यपि मानसम् ,
तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यम् ,
पुरुषतन्त्रत्वात् ।
ज्ञानं तु प्रमाणजन्यम् ।
प्रमाणं च यथाभूतवस्तुविषयम् ।
अतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तुमशक्यम् ।
केवलं वस्तुतन्त्रमेव तत्;
न चोदनातन्त्रम् ,
नापि पुरुषतन्त्रम् ।
तस्मान्मानसत्वेऽपि ज्ञानस्य महद्वैलक्षण्यम् ।
यथा च ‘पुरुषो वाव गौतमाग्निः’ (छा. उ. ५ । ७ । १) ‘योषा वाव गौतमाग्निः’ (छा. उ. ५ । ८ । १) इत्यत्र योषित्पुरुषयोरग्निबुद्धिर्मानसी भवति ।
केवलचोदनाजन्यत्वात् क्रियैव सा पुरुषतन्त्रा च ।
या तु प्रसिद्धेऽग्नावग्निबुद्धिः,
न सा चोदनातन्त्रा;
नापि पुरुषतन्त्रा ।
किं तर्हि ?
प्रत्यक्षविषयवस्तुतन्त्रैवेति ज्ञानमेवैतत्;
न क्रिया —
एवं सर्वप्रमाणविषयवस्तुषु वेदितव्यम् ।
तत्रैवं सति यथाभूतब्रह्मात्मविषयमपि ज्ञानं न चोदनातन्त्रम् ।
तद्विषये लिङादयः श्रूयमाणा अपि अनियोज्यविषयत्वात्कुण्ठीभवन्ति उपलादिषु प्रयुक्तक्षुरतैक्ष्ण्यादिवत् ,
अहेयानुपादेयवस्तुविषयत्वात् ।
किमर्थानि तर्हि ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ (बृ. उ. २ । ४ । ५) इत्यादीनि विधिच्छायानि वचनानि ?
स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानीति ब्रूमः ।
यो हि बहिर्मुखः प्रवर्तते पुरुषः ‘
इष्टं मे भूयादनिष्टं मा भूत्’
इति,
न च तत्रात्यन्तिकं पुरुषार्थं लभते,
तमात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविकात्कार्यकरणसङ्घातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयन्ति ‘
आत्मा वा अरे द्रष्टव्यः’
इत्यादीनि;
तस्यात्मान्वेषणाय प्रवृत्तस्याहेयमनुपादेयं चात्मतत्त्वमुपदिश्यते —
‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ... केन कं विजानीयात्’ (बृ. उ. ४ । ५ । १५) ‘विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्यादिभिः ।
यदप्यकर्तव्यप्रधानमात्मज्ञानं हानायोपादानाय वा न भवतीति,
तत्तथैवेत्यभ्युपगम्यते ।
अलङ्कारो ह्ययमस्माकम् —
यद्ब्रह्मात्मावगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेति ।
तथा च श्रुतिः —
‘आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्’ (बृ. उ. ४ । ४ । १२) इति,
‘एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत’ (भ. गी. १५ । २०) इति च स्मृतिः ।
तस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणम् ॥
यदपि केचिदाहुः —
प्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तीति,
तन्न ।
औपनिषदस्य पुरुषस्यानन्यशेषत्वात् ।
योऽसावुपनिषत्स्वेवाधिगतः पुरुषोऽसंसारी ब्रह्मस्वरूपः उत्पाद्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थोऽनन्यशेषः,
नासौ नास्ति नाधिगम्यत इति वा शक्यं वदितुम् ।
‘स एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यात्मशब्दात् आत्मनश्च प्रत्याख्यातुमशक्यत्वात् ,
य एव निराकर्ता तस्यैवात्मत्वात् ।
नन्वात्मा अहंप्रत्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुपपन्नम् ।
न,
तत्साक्षित्वेन प्रत्युक्तत्वात् ।
न ह्यहंप्रत्ययविषयकर्तृव्यतिरेकेण तत्साक्षी सर्वभूतस्थः सम एकः कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्यात्मा ।
अतः स न केनचित्प्रत्याख्यातुं शक्यः,
विधिशेषत्वं वा नेतुम्;
आत्मत्वादेव च सर्वेषाम् —
न हेयो नाप्युपादेयः ।
सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति ।
पुरुषो हि विनाशहेत्वभावादविनाशी ।
विक्रियाहेत्वभावाच्च कूटस्थनित्यः ।
अत एव नित्यशुद्धबुद्धमुक्तस्वभावः;
तस्मात् ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ (क. उ. १ । ३ । ११) ‘तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३ । ९ । २६) इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्सु प्राधान्येन प्रकाश्यमानत्वे उपपद्यते ।
अतो भूतवस्तुपरो वेदभागो नास्तीति वचनं साहसमात्रम् ॥
यदपि शास्त्रतात्पर्यविदामनुक्रमणम् — ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्’ इत्येवमादि, तत् धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्टव्यम् । अपि च ‘आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्’ इत्येतदेकान्तेनाभ्युपगच्छतां भूतोपदेशानर्थक्यप्रसङ्गः । प्रवृत्तिनिवृत्तिविधिव्यतिरेकेण भूतं चेद्वस्तूपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः । न हि भूतमुपदिश्यमानं क्रिया भवति । अक्रियात्वेऽपि भूतस्य क्रियासाधनत्वात्क्रियार्थ एव भूतोपदेश इति चेत् , नैष दोषः । क्रियार्थत्वेऽपि क्रियानिर्वर्तनशक्तिमद्वस्तूपदिष्टमेव । क्रियार्थत्वं तु प्रयोजनं तस्य । न चैतावता वस्त्वनुपदिष्टं भवति । यदि नामोपदिष्टं किं तव तेन स्यादिति, उच्यते — अनवगतात्मवस्तूपदेशश्च तथैव भवितुमर्हति । तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं क्रियत इत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेन । अपि च ‘ब्राह्मणो न हन्तव्यः’ इति चैवमाद्या निवृत्तिरुपदिश्यते । न च सा क्रिया । नापि क्रियासाधनम् । अक्रियार्थानामुपदेशोऽनर्थकश्चेत् , ‘ब्राह्मणो न हन्तव्यः’ इत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तम् । तच्चानिष्टम् । न च स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण । नञश्चैष स्वभावः, यत्स्वसम्बन्धिनोऽभावं बोधयतीति । अभावबुद्धिश्चौदासीन्यकारणम् । सा च दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यति । तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव ‘ब्राह्मणो न हन्तव्यः’ इत्यादिषु प्रतिषेधार्थं मन्यामहे, अन्यत्र प्रजापतिव्रतादिभ्यः । तस्मात्पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्यम् ॥
यदप्युक्तम् —
कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमनर्थकं स्यात् ‘
सप्तद्वीपा वसुमती’
इत्यादिवदिति,
तत्परिहृतम् । ‘
रज्जुरियम् ,
नायं सर्पः’
इति वस्तुमात्रकथनेऽपि प्रयोजनस्य दृष्टत्वात् ।
ननु श्रुतब्रह्मणोऽपि यथापूर्वं संसारित्वदर्शनान्न रज्जुस्वरूपकथनवदर्थवत्त्वमित्युक्तम् ।
अत्रोच्यते —
नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुम् ,
वेदप्रमाणजनितब्रह्मात्मभावविरोधात् ।
न हि शरीराद्यात्माभिमानिनो दुःखभयादिमत्त्वं दृष्टमिति,
तस्यैव वेदप्रमाणजनितब्रह्मात्मावगमे तदभिमाननिवृत्तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् ।
न हि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति,
तस्यैव प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापहारनिमित्तं दुःखं भवति ।
न च कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वाभिमानरहितस्य तदेव कुण्डलित्वाभिमाननिमित्तं सुखं भवति ।
तदुक्तं श्रुत्या —
‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति ।
शरीरे पतितेऽशरीरत्वं स्यात् ,
न जीवत इति चेत् ,
न;
सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्वात् ।
न ह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वं शक्यं कल्पयितुम् ।
नित्यमशरीरत्वमकर्मनिमित्तत्वादित्यवोचाम ।
तत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेत् ,
न ।
शरीरसम्बन्धस्यासिद्धत्वात् धर्माधर्मयोरात्मकृतत्वासिद्धेः,
शरीरसम्बन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गात् ।
अन्धपरम्परैषा अनादित्वकल्पना ।
क्रियासमवायाभावाच्चात्मनः कर्तृत्वानुपपत्तेः ।
सन्निधानमात्रेण राजप्रभृतीनां दृष्टं कर्तृत्वमिति चेत् ,
न ।
धनदानाद्युपार्जितभृत्यसम्बन्धित्वात्तेषां कर्तृत्वोपपत्तेः ।
न त्वात्मनो धनदानादिवच्छरीरादिभिः स्वस्वामिभावसम्बन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम् ।
मिथ्याभिमानस्तु प्रत्यक्षः सम्बन्धहेतुः ।
एतेन यजमानत्वमात्मनो व्याख्यातम् ।
अत्राहुः —
देहादिव्यतिरिक्तस्यात्मनः आत्मीये देहादावभिमानो गौणः,
न मिथ्येति चेत् ,
न ।
प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेः ।
यस्य हि प्रसिद्धो वस्तुभेदः —
यथा केसरादिमानाकृतिविशेषोऽन्वयव्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्योऽन्यः प्रसिद्धः,
ततश्चान्यः पुरुषः प्रायिकैः क्रौर्यशौर्यादिभिः सिंहगुणैः सम्पन्नः सिद्धः,
तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतः ।
नाप्रसिद्धवस्तुभेदस्य ।
तस्य त्वन्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतः,
न गौणौ ।
यथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुविषयौ,
यथा वा शुक्तिकायामकस्माद्रजतमिदमिति निश्चितौ शब्दप्रत्ययौ,
तद्वद्देहादिसङ्घाते अहम् इति निरुपचारेण शब्दप्रत्ययावात्मानात्माविवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ वदितुम् ।
आत्मानात्मविवेकिनामपि पण्डितानामजाविपालानामिवाविविक्तौ शब्दप्रत्ययौ भवतः ।
तस्माद्देहादिव्यतिरिक्तात्मास्तित्ववादिनां देहादावहंप्रत्ययो मिथ्यैव,
न गौणः ।
तस्मान्मिथ्याप्रत्ययनिमित्तत्वात्सशरीरत्वस्य,
सिद्धं जीवतोऽपि विदुषोऽशरीरत्वम् ।
तथा च ब्रह्मविद्विषया श्रुतिः —
‘तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव’ (बृ. उ. ४ । ४ । ७) इति; ‘
सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव सवागवागिव समना अमना इव सप्राणोऽप्राण इव’
इति च ।
स्मृतिरपि —
‘स्थितप्रज्ञस्य का भाषा’ (भ. गी. २ । ५४) इत्याद्या स्थितप्रज्ञस्य लक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्त्यसम्बन्धं दर्शयति ।
तस्मान्नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम् ।
यस्य तु यथापूर्वं संसारित्वं नासाववगतब्रह्मात्मभाव इत्यनवद्यम् ॥
यत्पुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद्विधिशेषत्वं ब्रह्मणः, न स्वरूपपर्यवसायित्वमिति, तन्न । श्रवणवदवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत, भवेत्तदा विधिशेषत्वम् । न तु तदस्ति, मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात् । तस्मान्न प्रतिपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः सम्भवतीत्यतः स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम् । एवं च सति ‘अथातो ब्रह्मजिज्ञासा’ इति तद्विषयः पृथक्शास्त्रारम्भ उपपद्यते । प्रतिपत्तिविधिपरत्वे हि ‘अथातो धर्मजिज्ञासा’ इत्येवारब्धत्वान्न पृथक्शास्त्रमारभ्येत । आरभ्यमाणं चैवमारभ्येत — अथातः परिशिष्टधर्मजिज्ञासेति, ‘अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा’ (जै. सू. ४ । १। १) इतिवत् । ब्रह्मात्मैक्यावगतिस्त्वप्रतिज्ञातेति तदर्थो युक्तः शास्त्रारम्भः — ‘अथातो ब्रह्मजिज्ञासा’ इति । तस्मात् अहं ब्रह्मास्मीत्येतदवसाना एव सर्वे विधयः सर्वाणि चेतराणि प्रमाणानि । न ह्यहेयानुपादेयाद्वैतात्मावगतौ , निर्विषयाण्यप्रमातृकाणि च प्रमाणानि भवितुमर्हन्तीति । अपि चाहुः — ‘गौणमिथ्यात्मनोऽसत्त्वे पुत्रदेहादिबाधनात् । सद्ब्रह्मात्माहमित्येवं बोधे कार्यं कथं भवेत् ॥ अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः । अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः ॥ देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मनिश्चयात्’ इति ॥ ४ ॥
एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्रयोजनानां ब्रह्मात्मनि तात्पर्येण समन्वितानामन्तरेणापि कार्यानुप्रवेशं ब्रह्मणि पर्यवसानमुक्तम् । ब्रह्म च सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिनाशकारणमित्युक्तम् । साङ्ख्यादयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजयन्ति । सर्वेष्वेव वेदान्तवाक्येषु सृष्टिविषयेष्वनुमानेनैव कार्येण कारणं लिलक्षयिषितम् । प्रधानपुरुषसंयोगा नित्यानुमेया इति साङ्ख्या मन्यन्ते । काणादास्त्वेतेभ्य एव वाक्येभ्य ईश्वरं निमित्तकारणमनुमिमते, अणूंश्च समवायिकारणम् । एवमन्येऽपि तार्किका वाक्याभासयुक्त्याभासावष्टम्भाः पूर्वपक्षवादिन इहोत्तिष्ठन्ते । तत्र पदवाक्यप्रमाणज्ञेनाचार्येण वेदान्तवाक्यानां ब्रह्मात्मावगतिपरत्वप्रदर्शनाय वाक्याभासयुक्त्याभासप्रतिपत्तयः पूर्वपक्षीकृत्य निराक्रियन्ते ॥
तत्र साङ्ख्याः प्रधानं त्रिगुणमचेतनं स्वतन्त्रं जगतः कारणमिति मन्यमाना आहुः —
यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं प्रदर्शयन्तीत्यवोचः,
तानि प्रधानकारणपक्षेऽपि योजयितुं शक्यन्ते ।
सर्वशक्तिमत्वं तावत्प्रधानस्यापि स्वविकारविषयमुपपद्यते ।
एवं सर्वज्ञत्वमप्युपपद्यते ।
कथम् ?
यत्त्वं ज्ञानं मन्यसे,
स सत्त्वधर्मः,
‘सत्त्वात्संजायते ज्ञानम्’ (भ. गी. १४ । १७) इति स्मृतेः ।
तेन च सत्त्वधर्मेण ज्ञानेन कार्यकरणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः ।
सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् ।
न केवलस्य अकार्यकरणस्य पुरुषस्योपलब्धिमात्रस्य सर्वज्ञत्वं किञ्चिज्ज्ञत्वं वा कल्पयितुं शक्यम् ।
त्रिगुणत्वात्तु प्रधानस्य सर्वज्ञानकारणभूतं सत्त्वं प्रधानावस्थायामपि विद्यत इति प्रधानस्याचेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते वेदान्तवाक्येषु ।
अवश्यं च त्वयापि सर्वज्ञं ब्रह्माभ्युपगच्छता सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वमभ्युपगन्तव्यम् ।
न हि सर्वदा सर्वविषयं ज्ञानं कुर्वदेव ब्रह्म वर्तते ।
तथाहि —
ज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत;
अथानित्यं तदिति ज्ञानक्रियाया उपरमे उपरमेतापि ब्रह्म,
तदा सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वमापतति ।
अपि च प्रागुत्पत्तेः सर्वकारकशून्यं ब्रह्मेष्यते त्वया ।
न च ज्ञानसाधनानां शरीरेन्द्रियादीनामभावे ज्ञानोत्पत्तिः कस्यचिदुपपन्ना ।
अपि च प्रधानस्यानेकात्मकस्य परिणामसम्भवात्कारणत्वोपपत्तिर्मृदादिवत् ,
नासंहतस्यैकात्मकस्य ब्रह्मणः —
इत्येवं प्राप्ते,
इदं सूत्रमारभ्यते —
ईक्षतेर्नाशब्दम् ॥ ५ ॥
यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति, तन्नोपपद्यते । न हि प्रधानावस्थायां गुणसाम्यात्सत्त्वधर्मो ज्ञानं सम्भवति । ननूक्तं सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भविष्यतीति; तदपि नोपपद्यते । यदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य सर्वज्ञं प्रधानमुच्येत, कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य किञ्चिज्ज्ञमुच्येत । अपि च नासाक्षिका सत्त्ववृत्तिर्जानातिना अभिधीयते । न चाचेतनस्य प्रधानस्य साक्षित्वमस्ति । तस्मादनुपपन्नं प्रधानस्य सर्वज्ञत्वम् । योगिनां तु चेतनत्वात्सत्त्वोत्कर्षनिमित्तं सर्वज्ञत्वमुपपन्नमित्यनुदाहरणम् । अथ पुनः साक्षिनिमित्तमीक्षितृत्वं प्रधानस्य कल्प्येत, यथाग्निनिमित्तमयःपिण्डादेर्दग्धृत्वम् । तथा सति यन्निमित्तमीक्षितृत्वं प्रधानस्य, तदेव सर्वज्ञं ब्रह्म मुख्यं जगतः कारणमिति युक्तम् । यत्पुनरुक्तं ब्रह्मणोऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते, नित्यज्ञानक्रियत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यासम्भवादिति । अत्रोच्यते — इदं तावद्भवान्प्रष्टव्यः — कथं नित्यज्ञानक्रियत्वे सर्वज्ञत्वहानिरिति । यस्य हि सर्वविषयावभासनक्षमं ज्ञानं नित्यमस्ति, सोऽसर्वज्ञ इति विप्रतिषिद्धम् । अनित्यत्वे हि ज्ञानस्य, कदाचिज्जानाति कदाचिन्न जानातीत्यसर्वज्ञत्वमपि स्यात् ।
नासौ ज्ञाननित्यत्वे दोषोऽस्ति ।
ज्ञाननित्यत्वे ज्ञानविषयः स्वातन्त्र्यव्यपदेशो नोपपद्यते इति चेत् ,
न ।
प्रततौष्ण्यप्रकाशेऽपि सवितरि ‘
दहति’ ‘
प्रकाशयति’
इति स्वातन्त्र्यव्यपदेशदर्शनात् ।
ननु सवितुर्दाह्यप्रकाश्यसंयोगे सति ‘
दहति’ ‘
प्रकाशयति’
इति व्यपदेशः स्यात्;
न तु ब्रह्मणः प्रागुत्पत्तेर्ज्ञानकर्मसंयोगोऽस्तीति विषमो दृष्टान्तः ।
न;
असत्यपि कर्मणि ‘
सविता प्रकाशते’
इति कर्तृत्वव्यपदेशदर्शनात् ,
एवमसत्यपि ज्ञानकर्मणि ब्रह्मणः ‘
तदैक्षत’
इति कर्तृत्वव्यपदेशोपपत्तेर्न वैषम्यम् ।
कर्मापेक्षायां तु ब्रह्मणि ईक्षितृत्वश्रुतयः सुतरामुपपन्नाः ।
किं पुनस्तत्कर्म,
यत्प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो भवतीति —
तत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः ।
यत्प्रसादाद्धि योगिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः,
किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यज्ञानं भवतीति ।
यदप्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसम्बन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति,
न तच्चोद्यमवतरति;
सवितृप्रकाशवद्ब्रह्मणो ज्ञानस्वरूपनित्यत्वेन ज्ञानसाधनापेक्षानुपपत्तेः ।
अपि चाविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात्;
न ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्य ।
मन्त्रौ चेमावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां च दर्शयतः —
‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ (श्वे. उ. ६ । ८) इति ।
‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्’ (श्वे. उ. ३ । १९) इति च ।
ननु नास्ति तव ज्ञानप्रतिबन्धकारणवानीश्वरादन्यः संसारी —
‘नान्योऽतोऽस्ति द्रष्टा ... नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३ । ७ । २३) इतिश्रुतेः;
तत्र किमिदमुच्यते —
संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः,
नेश्वरस्येति ?
अत्रोच्यते —
सत्यं नेश्वरादन्यः संसारी;
तथापि देहादिसङ्घातोपाधिसम्बन्ध इष्यत एव,
घटकरकगिरिगुहाद्युपाधिसम्बन्ध इव व्योम्नः ।
तत्कृतश्च शब्दप्रत्ययव्यवहारो लोकस्य दृष्टः — ‘
घटच्छिद्रम्’ ‘
करकच्छिद्रम्’
इत्यादिः,
आकाशाव्यतिरेकेऽपि;
तत्कृता चाकाशे घटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा;
तथेहापि देहादिसङ्घातोपाधिसम्बन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिः ।
दृश्यते चात्मन एव सतो देहादिसङ्घातेऽनात्मन्यात्मत्वाभिनिवेशो मिथ्याबुद्धिमात्रेण पूर्वेण पूर्वेण ।
सति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्नं संसारिणः ।
यदप्युक्तं प्रधानस्यानेकात्मकत्वान्मृदादिवत्कारणत्वोपपत्तिर्नासंहतस्य ब्रह्मण इति,
तत्प्रधानस्याशब्दत्वेनैव प्रत्युक्तम् ।
यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते,
न प्रधानादीनाम् ,
तथा प्रपञ्चयिष्यति ‘न विलक्षणत्वादस्य ...’ (ब्र. सू. २ । १ । ४) इत्येवमादिना ॥ ५ ॥
अत्राह —
यदुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षितृत्वश्रवणादिति,
तदन्यथाप्युपपद्यते ।
अचेतनेऽपि चेतनवदुपचारदर्शनात् ।
यथा प्रत्यासन्नपतनतां नद्याः कूलस्यालक्ष्य ‘
कूलं पिपतिषति’
इत्यचेतनेऽपि कूले चेतनवदुपचारो दृष्टः,
तद्वदचेतनेऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवदुपचारो भविष्यति ‘
तदैक्षत’
इति ।
यथा लोके कश्चिच्चेतनः ‘
स्नात्वा भुक्त्वा चापराह्णे ग्रामं रथेन गमिष्यामि’
इतीक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते,
तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते ।
तस्माच्चेतनवदुपचर्यते ।
कस्मात्पुनः कारणात् विहाय मुख्यमीक्षितृत्वम् औपचारिकं तत्कल्प्यते ?
‘तत्तेज ऐक्षत’ (छा. उ. ६ । २ । ३) ‘ता आप ऐक्षन्त’ (छा. उ. ६ । २ । ४) इति चाचेतनयोरप्यप्तेजसोश्चेतनवदुपचारदर्शनात्;
तस्मात्सत्कर्तृकमपीक्षणमौपचारिकमिति गम्यते,
उपचारप्राये वचनात् ।
इत्येवं प्राप्ते,
इदं सूत्रमारभ्यते —
गौणश्चेन्नात्मशब्दात् ॥ ६ ॥
यदुक्तं प्रधानमचेतनं सच्छब्दवाच्यं तस्मिन्नौपचारिकमीक्षितृत्वम् अप्तेजसोरिवेति,
तदसत् ।
कस्मात् ?
आत्मशब्दात्; ‘
सदेव सोम्येदमग्र आसीत्’
इत्युपक्रम्य,
‘तदैक्षत’ (छा. उ. ६ । २ । ३) ‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति च तेजोबन्नानां सृष्टिमुक्त्वा,
तदेव प्रकृतं सदीक्षितृ तानि च तेजोबन्नानि देवताशब्देन परामृश्याह — ‘
सेयं देवतैक्षत ‘हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति ।
तत्र यदि प्रधानमचेतनं गुणवृत्त्येक्षितृ कल्प्येत,
तदेव प्रकृतत्वात् ‘
सेयं देवता’
इति परामृश्येत;
न तदा देवता जीवमात्मशब्देनाभिदध्यात् ।
जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता,
तत्प्रसिद्धेर्निर्वचनाच्च ।
स कथमचेतनस्य प्रधानस्यात्मा भवेत् ।
आत्मा हि नाम स्वरूपम् ।
नाचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुमर्हति ।
अथ तु चेतनं ब्रह्म मुख्यमीक्षितृ परिगृह्येत,
तस्य जीवविषय आत्मशब्दप्रयोग उपपद्यते ।
तथा ‘स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । १४ । ३) इत्यत्र ‘
स आत्मा’
इति प्रकृतं सदणिमानमात्मानमात्मशब्देनोपदिश्य, ‘
तत्त्वमसि श्वेतकेतो’
इति चेतनस्य श्वेतकेतोरात्मत्वेनोपदिशति ।
अप्तेजसोस्तु विषयत्वादचेतनत्वम् ,
नामरूपव्याकरणादौ च प्रयोज्यत्वेनैव निर्देशात् ,
न चात्मशब्दवत्किञ्चिन्मुख्यत्वे कारणमस्तीति युक्तं कूलवद्गौणत्वमीक्षितृत्वस्य ।
तयोरपि च सदधिष्ठितत्वापेक्षमेवेक्षितृत्वम् ।
सतस्त्वात्मशब्दान्न गौणमीक्षितृत्वमित्युक्तम् ॥ ६ ॥
अथोच्येत — अचेतनेऽपि प्रधाने भवत्यात्मशब्दः, आत्मनः सर्वार्थकारित्वात्; यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दः ‘ममात्मा भद्रसेनः’ इति । प्रधानं हि पुरुषस्यात्मनो भोगापवर्गौ कुर्वदुपकरोति, राज्ञ इव भृत्यः सन्धिविग्रहादिषु वर्तमानः । अथवैक एवात्मशब्दश्चेतनाचेतनविषयो भविष्यति, ‘भूतात्मा’ ‘इन्द्रियात्मा’ इति च प्रयोगदर्शनात्; यथैक एव ज्योतिःशब्दः क्रतुज्वलनविषयः । तत्र कुत एतदात्मशब्दादीक्षतेरगौणत्वमित्यत उत्तरं पठति —
तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥
न प्रधानमचेतनमात्मशब्दालम्बनं भवितुमर्हति । ‘
स आत्मा’
इति प्रकृतं सदणिमानमादाय, ‘
तत्त्वमसि श्वेतकेतो’
इति चेतनस्य श्वेतकेतोर्मोक्षयितव्यस्य तन्निष्ठामुपदिश्य,
‘आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति मोक्षोपदेशात् ।
यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यम् ‘
तत् असि’
इति ग्राहयेत् मुमुक्षुं चेतनं सन्तमचेतनोऽसीति,
तदा विपरीतवादि शास्त्रं पुरुषस्यानर्थायेत्यप्रमाणं स्यात् ।
न तु निर्दोषं शास्त्रमप्रमाणं कल्पयितुं युक्तम् ।
यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत्प्रमाणभूतं शास्त्रम् ,
स श्रद्दधानतया अन्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं न परित्यजेत् ,
तद्व्यतिरिक्तं चात्मानं न प्रतिपद्येत ।
तथा सति पुरुषार्थाद्विहन्येत,
अनर्थं च ऋच्छेत् ।
तस्माद्यथा स्वर्गाद्यर्थिनोऽग्निहोत्रादिसाधनं यथाभूतमुपदिशति,
तथा मुमुक्षोरपि ‘
स आत्मा तत्त्वमसि श्वेतकेतो’
इति यथाभूतमेवात्मानमुपदिशतीति युक्तम् ।
एवं च सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्याभिसन्धस्य मोक्षोपदेश उपपद्यते ।
अन्यथा ह्यमुख्ये सदात्मतत्त्वोपदेशे,
‘अहमुक्थमस्मीति विद्यात्’ (ऐ. आ. २ । १ । २ । ६) इतिवत्सम्पन्मात्रमिदमनित्यफलं स्यात् ।
तत्र मोक्षोपदेशो नोपपद्येत ।
तस्मान्न सदणिमन्यात्मशब्दस्य गौणत्वम् ।
भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वादुपपन्नो गौण आत्मशब्दः ‘
ममात्मा भद्रसेनः’
इति ।
अपि च क्वचिद्गौणः शब्दो दृष्ट इति नैतावता शब्दप्रमाणकेऽर्थे गौणीकल्पना न्याय्या,
सर्वत्रानाश्वासप्रसङ्गात् ।
यत्तूक्तं चेतनाचेतनयोः साधारण आत्मशब्दः,
क्रतुज्वलनयोरिव ज्योतिःशब्द इति,
तन्न ।
अनेकार्थत्वस्यान्याय्यत्वात् ।
तस्माच्चेतनविषय एव मुख्य आत्मशब्दश्चेतनत्वोपचाराद्भूतादिषु प्रयुज्यते — ‘
भूतात्मा’ ‘
इन्द्रियात्मा’
इति च ।
साधारणत्वेऽप्यात्मशब्दस्य न प्रकरणमुपपदं वा किञ्चिन्निश्चायकमन्तरेणान्यतरवृत्तिता निर्धारयितुं शक्यते ।
न चात्राचेतनस्य निश्चायकं किञ्चित्कारणमस्ति ।
प्रकृतं तु सदीक्षितृ,
सन्निहितश्च चेतनः श्वेतकेतुः ।
न हि चेतनस्य श्वेतकेतोरचेतन आत्मा सम्भवतीत्यवोचाम ।
तस्माच्चेतनविषय इहात्मशब्द इति निश्चीयते ।
ज्योतिःशब्दोऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढः,
अर्थवादकल्पितेन तु ज्वलनसादृश्येन क्रतौ प्रवृत्त इत्यदृष्टान्तः ।
अथवा पूर्वसूत्र एवात्मशब्दं निरस्तसमस्तगौणत्वसाधारणत्वशङ्कतया व्याख्याय,
ततः स्वतन्त्र एव प्रधानकारणनिराकरणहेतुर्व्याख्येयः — ‘
तन्निष्ठस्य मोक्षोपदेशात्’
इति ।
तस्मान्नाचेतनं प्रधानं सच्छब्दवाच्यम् ॥ ७ ॥
कुतश्च न प्रधानं सच्छब्दवाच्यम् ? —
हेयत्वावचनाच्च ॥ ८ ॥
कुतश्च न प्रधानं सच्छब्दवाच्यम् ? —
स्वाप्ययात् ॥ ९ ॥
कुतश्च न प्रधानं जगतः कारणम् ? —
गतिसामान्यात् ॥ १० ॥
कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम् ? —
श्रुतत्वाच्च ॥ ११ ॥
‘
जन्माद्यस्य यतः’
इत्यारभ्य ‘
श्रुतत्वाच्च’
इत्येवमन्तैः सूत्रैर्यान्युदाहृतानि वेदान्तवाक्यानि,
तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलयकारणमित्येतस्यार्थस्य प्रतिपादकत्वं न्यायपूर्वकं प्रतिपादितम् ।
गतिसामान्योपन्यासेन च सर्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातम् ।
अतः परस्य ग्रन्थस्य किमुत्थानमिति,
उच्यते —
द्विरूपं हि ब्रह्मावगम्यते —
नामरूपविकारभेदोपाधिविशिष्टम् ,
तद्विपरीतं च सर्वोपाधिविवर्जितम् ।
‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १४) ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्; यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्’ (छा. उ. ७ । २४ । १) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्’ (श्वे. उ. ६ । १९) ‘नेति नेति’ (बृ. उ. २ । ३ । ६) ‘अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३ । ८ । ८) ‘
न्यूनमन्यत्स्थानं सम्पूर्णमन्यत्’
इति चैवं सहस्रशो विद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वाक्यानि ।
तत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारः ।
तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि,
कानिचित्क्रममुक्त्यर्थानि,
कानिचित्कर्मसमृद्ध्यर्थानि ।
तेषां गुणविशेषोपाधिभेदेन भेदः ।
एक एव तु परमात्मेश्वरस्तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति,
तथापि यथागुणोपासनमेव फलानि भिद्यन्ते; ‘
तं यथा यथोपासते तदेव भवति’
इति श्रुतेः,
‘यथाक्रतुरस्मिँल्लोके पुरुषो भवति, तथेतः प्रेत्य भवति’ (छा. उ. ३ । १४ । १) इति च ।
स्मृतेश्च —
‘यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः’ (भ. गी. ८ । ६) इति ।
यद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढः,
तथापि चित्तोपाधिविशेषतारतम्यादात्मनः कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयते —
‘तस्य य आत्मानमाविस्तरां वेद’ (ऐ. आ. २ । ३ । २ । १) इत्यत्र ।
स्मृतावपि —
‘यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्’ (भ. गी. १० । ४१) इति यत्र यत्र विभूत्याद्यतिशयः,
स स ईश्वर इत्युपास्यतया चोद्यते ।
एवमिहाप्यादित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिङ्गात्पर एवेति वक्ष्यति ।
एवम् ‘आकाशस्तल्लिङ्गात्’ (ब्र. सू. १ । १ । २२) इत्यादिषु द्रष्टव्यम् ।
एवं सद्योमुक्तिकारणमप्यात्मज्ञानमुपाधिविशेषद्वारेणोपदिश्यमानमप्यविवक्षितोपाधिसम्बन्धविशेषं परापरविषयत्वेन सन्दिह्यमानं वाक्यगतिपर्यालोचनया निर्णेतव्यं भवति —
यथेहैव तावत् ‘
आनन्दमयोऽभ्यासात्’
इति ।
एवमेकमपि ब्रह्मापेक्षितोपाधिसम्बन्धं निरस्तोपाधिसम्बन्धं चोपास्यत्वेन ज्ञेयत्वेन च वेदान्तेषूपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यते ।
यच्च ‘
गतिसामान्यात्’
इत्यचेतनकारणनिराकरणमुक्तम् ,
तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीतकारणनिषेधेन प्रपञ्च्यते —
आनन्दमयोऽभ्यासात् ॥ १२ ॥
तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायते —
‘तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २ । ५ । १) इति ।
तत्र संशयः —
किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते,
यत्प्रकृतम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति,
किं वान्नमयादिवद्ब्रह्मणोऽर्थान्तरमिति ।
किं तावत्प्राप्तम् ?
ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात् ।
कस्मात् ?
अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात् ।
अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति;
न स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्च ।
मुख्यश्चेदात्मा आनन्दमयः स्यान्न प्रियादिसंस्पर्शः स्यात् ।
इह तु ‘तस्य प्रियमेव शिरः’ (तै. उ. २ । ५ । १) इत्यादि श्रूयते ।
शारीरत्वं च श्रूयते — ‘
तस्यैष एव शारीर आत्मा यः पूर्वस्य’
इति ।
तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः ।
न च सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यः ।
तस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते,
इदमुच्यते —
विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥
अत्राह — नानन्दमयः पर आत्मा भवितुमर्हति; कस्मात् ? विकारशब्दात् । प्रकृतवचनादयमन्यः शब्दो विकारवचनः समधिगतः ‘आनन्दमयः’ इति, मयटो विकारार्थत्वात् । तस्मादन्नमयादिशब्दवद्विकारविषय एवानन्दमयशब्द इति चेत् , न; प्राचुर्यार्थेऽपि मयटः स्मरणात् । ‘तत्प्रकृतवचने मयट्’ (पा. सू. ५ । ४ । २) इति हि प्रचुरतायामपि मयट् स्मर्यते; यथा ‘अन्नमयो यज्ञः’ इत्यन्नप्रचुर उच्यते, एवमानन्दप्रचुरं ब्रह्मानन्दमयमुच्यते । आनन्दप्रचुरत्वं च ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्नुत्तरस्मिन्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात् । तस्मात्प्राचुर्यार्थे मयट् ॥ १३ ॥
तद्धेतुव्यपदेशाच्च ॥ १४ ॥
इतश्च प्राचुर्यार्थे मयट्; यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिशति श्रुतिः — ‘एष ह्येवानन्दयाति’ इति — आनन्दयतीत्यर्थः । यो ह्यन्यानानन्दयति स प्रचुरानन्द इति प्रसिद्धं भवति; यथा लोके योऽन्येषां धनिकत्वमापादयति स प्रचुरधन इति गम्यते, तद्वत् । तस्मात्प्राचुर्यार्थेऽपि मयटः सम्भवादानन्दमयः पर एवात्मा ॥ १४ ॥
मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥
भेदव्यपदेशाच्च ॥ १७ ॥
इतश्च नानन्दमयः संसारी;
यस्मादानन्दमयाधिकारे ‘रसो वै सः । रसꣳ ह्येवायं लब्ध्वाऽऽनन्दी भवति’ (तै. उ. २ । ७ । १) इति जीवानन्दमयौ भेदेन व्यपदिशति ।
न हि लब्धैव लब्धव्यो भवति ।
कथं तर्हि ‘
आत्मान्वेष्टव्यः’,
‘आत्मलाभान्न परं विद्यते’(आ.ध.सू. १.८.१.२) इति श्रुतिस्मृती,
यावता न लब्धैव लब्धव्यो भवतीत्युक्तम् ?
बाढम् —
तथाप्यात्मनोऽप्रच्युतात्मभावस्यैव सतस्तत्त्वानवबोधनिमित्तो मिथ्यैव देहादिष्वनात्मसु आत्मत्वनिश्चयो लौकिको दृष्टः ।
तेन देहादिभूतस्यात्मनोऽपि आत्मा —
अनन्विष्टः ‘
अन्वेष्टव्यः’,
अलब्धः ‘
लब्धव्यः’,
अश्रुतः ‘
श्रोतव्यः’,
अमतः ‘
मन्तव्यः’,
अविज्ञातः ‘
विज्ञातव्यः’ —
इत्यादिभेदव्यपदेश उपपद्यते ।
प्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिना ।
परमेश्वरस्तु अविद्याकल्पिताच्छारीरात्कर्तुर्भोक्तुः विज्ञानात्माख्यात् अन्यः ।
यथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्यः ।
यथा वा घटाकाशादुपाधिपरिच्छिन्नादनुपाधिपरिच्छिन्न आकाशोऽन्यः ।
ईदृशं च विज्ञानात्मपरमात्मभेदमाश्रित्य ‘
नेतरोऽनुपपत्तेः’, ‘
भेदव्यपदेशाच्च’
इत्युक्तम् ॥१७ ॥
कामाच्च नानुमानापेक्षा ॥ १८ ॥
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
इदं त्विह वक्तव्यम् —
‘स वा एष पुरुषोऽन्नरसमयः’ (तै. उ. २ । १ । १)‘तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः’ (तै. उ. २ । २ । १)तस्मात् ‘अन्योऽन्तर आत्मा मनोमयः’ (तै. उ. २ । ३ । १)तस्मात् ‘अन्योऽन्तर आत्मा विज्ञानमयः’ (तै. उ. २ । ४ । १) इति च विकारार्थे मयट्प्रवाहे सति,
आनन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयत इति ।
मान्त्रवर्णिकब्रह्माधिकारादिति चेत् ,
न;
अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः ।
अत्राह —
युक्तमन्नमयादीनामब्रह्मत्वम् ,
तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात् ।
आनन्दमयात्तु न कश्चिदन्य आन्तर आत्मोच्यते ।
तेनानन्दमयस्य ब्रह्मत्वम् ,
अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादिति ।
अत्रोच्यते —
यद्यप्यन्नमयादिभ्य इवानन्दमयात् ‘
अन्योऽन्तर आत्मा’
इति न श्रूयते,
तथापि नानन्दमयस्य ब्रह्मत्वम्;
यत आनन्दमयं प्रकृत्य श्रूयते —
‘तस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’ (तै. उ. २ । ५ । १) इति ।
तत्र यद्ब्रह्म मन्त्रवर्णे प्रकृतम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति,
तदिह ‘
ब्रह्म पुच्छं प्रतिष्ठा’
इत्युच्यते ।
तद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्ते ।
तत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गः ।
नन्वानन्दमयस्यावयवत्वेन ‘
ब्रह्म पुच्छं प्रतिष्ठा’
इत्युच्यते,
अन्नमयादीनामिव ‘
इदं पुच्छं प्रतिष्ठा’
इत्यादि ।
तत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् ?
प्रकृतत्वादिति ब्रूमः ।
नन्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने न प्रकृतत्वं हीयते,
आनन्दमयस्य ब्रह्मत्वादिति ।
अत्रोच्यते —
तथा सति तदेव ब्रह्म आनन्दमय आत्मा अवयवी,
तदेव च ब्रह्म पुच्छं प्रतिष्ठा अवयव इत्यसामञ्जस्यं स्यात् ।
अन्यतरपरिग्रहे तु युक्तम् ‘
ब्रह्म पुच्छं प्रतिष्ठा’
इत्यत्रैव ब्रह्मनिर्देश आश्रयितुम् ,
ब्रह्मशब्दसंयोगात्।
नानन्दमयवाक्ये,
ब्रह्मशब्दसंयोगाभावादिति ।
अपि च ब्रह्म पुच्छं प्रतिष्ठेत्युक्त्वेदमुच्यते —
‘तदप्येष श्लोको भवति । असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः’ (तै. उ. २ । ६ । १) इति ।
अस्मिंश्च श्लोकेऽननुकृष्यानन्दमयं ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते — ‘
ब्रह्म पुच्छं प्रतिष्ठा’
इत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति ।
न चानन्दमयस्यात्मनो भावाभावशङ्का युक्ता,
प्रियमोदादिविशिष्टस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात् ।
कथं पुनः स्वप्रधानं सद्ब्रह्म आनन्दमयस्य पुच्छत्वेन निर्दिश्यते — ‘
ब्रह्म पुच्छं प्रतिष्ठा’
इति ?
नैष दोषः ।
पुच्छवत्पुच्छम् ,
प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्दः इत्येतदनेन विवक्ष्यते,
नावयवत्वम्;
‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात् ।
अपि चानन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम् ।
निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते,
वाङ्मनसयोरगोचरत्वाभिधानात् —
‘यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इति ।
अपि चानन्दप्रचुर इत्युक्ते दुःखास्तित्वमपि गम्यते;
प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात् ।
तथा च सति ‘यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्यद्विजानाति, स भूमा’ (छा. उ. ७ । २४ । १) इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरुपरुध्येत ।
प्रतिशरीरं च प्रियादिभेदादानन्दमयस्यापि भिन्नत्वम् ।
ब्रह्म तु न प्रतिशरीरं भिद्यते,
‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यानन्त्यश्रुतेः ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इति च श्रुत्यन्तरात् ।
न चानन्दमयस्याभ्यासः श्रूयते ।
प्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यते —
‘रसो वै सः । रसꣳ ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) (तै. उ. २ । ७ । १)‘सैषानन्दस्य मीमाꣳसा भवति’ (तै. उ. २ । ८ । १)‘आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति’ (तै. उ. २ । ९ । १) ‘आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति च ।
यदि चानन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत् ,
तत उत्तरेष्वानन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत ।
न त्वानन्दमयस्य ब्रह्मत्वमस्ति,
प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचाम ।
तस्माच्छ्रुत्यन्तरे ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) इत्यानन्दप्रातिपदिकस्य ब्रह्मणि प्रयोगदर्शनात् ,
‘यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) इति ब्रह्मविषयः प्रयोगो न त्वानन्दमयाभ्यास इत्यवगन्तव्यम् ।
यस्त्वयं मयडन्तस्यैवानन्दमयशब्दस्याभ्यासः ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) इति,
न तस्य ब्रह्मविषयत्वमस्ति ।
विकारात्मनामेवान्नमयादीनामनात्मनामुपसङ्क्रमितव्यानां प्रवाहे पठितत्वात् ।
नन्वानन्दमयस्योपसङ्क्रमितव्यस्यान्नमयादिवदब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिः फलं निर्दिष्टं भवेत् ।
नैष दोषः,
आनन्दमयोपसङ्क्रमणनिर्देशेनैव विदुषः पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्य निर्दिष्टत्वात् , ‘
तदप्येष श्लोको भवति’ ‘
यतो वाचो निवर्तन्ते’
इत्यादिना च प्रपञ्च्यमानत्वात् ।
या त्वानन्दमयसन्निधाने ‘सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इतीयं श्रुतिरुदाहृता,
सा ‘
ब्रह्म पुच्छं प्रतिष्ठा’
इत्यनेन सन्निहिततरेण ब्रह्मणा सम्बध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयति ।
तदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य ‘रसो वै सः’ (तै. उ. २ । ७ । १) इत्यादेर्नानन्दमयविषयता ।
ननु ‘
सोऽकामयत’
इति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यते ।
नायं दोषः, ‘
तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’
इत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात् ।
या तु भार्गवी वारुणी विद्या —
‘आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति,
तस्यां मयडश्रवणात्प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम् ।
तस्मादणुमात्रमपि विशेषमनाश्रित्य न स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते ।
न चेह सविशेषं ब्रह्म प्रतिपिपादयिषितम् ,
वाङ्मनसगोचरातिक्रमश्रुतेः ।
तस्मादन्नमयादिष्विवानन्दमयेऽपि विकारार्थ एव मयट् विज्ञेयः,
न प्राचुर्यार्थः ॥
सूत्राणि त्वेवं व्याख्येयानि — ‘
ब्रह्म पुच्छं प्रतिष्ठा’
इत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यते,
उत स्वप्रधानत्वेनेति ।
पुच्छशब्दादवयवत्वेनेति प्राप्ते,
उच्यते —
आनन्दमयोऽभ्यासात् —
आनन्दमय आत्मा इत्यत्र ‘
ब्रह्म पुच्छं प्रतिष्ठा’
इति स्वप्रधानमेव ब्रह्मोपदिश्यते;
अभ्यासात् ‘
असन्नेव स भवति’
इत्यस्मिन्निगमनश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात् ।
विकारशब्दान्नेति चेन्न प्राचुर्यात् —
विकारशब्देनावयवशब्दोऽभिप्रेतः;
पुच्छमित्यवयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तम् ,
तस्य परिहारो वक्तव्यः;
अत्रोच्यते —
नायं दोषः,
प्राचुर्यादप्यवयवशब्दोपपत्तेः;
प्राचुर्यं प्रायापत्तिः,
अवयवप्राये वचनमित्यर्थः;
अन्नमयादीनां हि शिरआदिषु पुच्छान्तेष्ववयवेषूक्तेष्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वा अवयवप्रायापत्त्या ‘
ब्रह्म पुच्छं प्रतिष्ठा’
इत्याह,
नावयवविवक्षया;
यत्कारणम् ‘
अभ्यासात्’
इति स्वप्रधानत्वं ब्रह्मणः समर्थितम् ।
तद्धेतुव्यपदेशाच्च —
सर्वस्य हि विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यते —
‘इदꣳ सर्वमसृजत, यदिदं किञ्च’ (तै. उ. २ । ६ । १) इति ।
न च कारणं सद्ब्रह्म स्वविकारस्यानन्दमयस्य मुख्यया वृत्त्यावयव उपपद्यते ।
अपराण्यपि सूत्राणि यथासम्भवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि ॥१२ – १९ ॥
अन्तस्तद्धर्मोपदेशात् ॥ २० ॥
अन्तस्तद्धर्मोपदेशात् इति । ‘
य एषोऽन्तरादित्ये’, ‘
य एषोऽन्तरक्षिणि’
इति च श्रूयमाणः पुरुषः परमेश्वर एव,
न संसारी ।
कुतः ?
तद्धर्मोपदेशात् ।
तस्य हि परमेश्वरस्य धर्मा इहोपदिष्टाः ।
तद्यथा — ‘
तस्योदिति नाम’
इति श्रावयित्वा अस्यादित्यपुरुषस्य नाम ‘
स एष सर्वेभ्यः पाप्मभ्य उदितः’
इति सर्वपाप्मापगमेन निर्वक्ति ।
तदेव च कृतनिर्वचनं नामाक्षिपुरुषस्याप्यतिदिशति — ‘
यन्नाम तन्नाम’
इति ।
सर्वपाप्मापगमश्च परमात्मन एव श्रूयते —
‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादौ ।
तथा चाक्षुषे पुरुषे ‘
सैव ऋक् तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म’
इति ऋक्सामाद्यात्मकतां निर्धारयति ।
सा च परमेश्वरस्योपपद्यते,
सर्वकारणत्वात्सर्वात्मकत्वोपपत्तेः ।
पृथिव्यग्न्याद्यात्मके चाधिदैवतमृक्सामे,
वाक्प्राणाद्यात्मके चाध्यात्ममनुक्रम्याह — ‘
तस्यर्क्च साम च गेष्णौ’
इत्यधिदैवतम् ।
तथाध्यात्ममपि — ‘
यावमुष्य गेष्णौ तौ गेष्णौ’
इति ।
तच्च सर्वात्मकत्वे सत्येवोपपद्यते ।
‘तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः’ (छा. उ. १ । ७ । ६) इति च लौकिकेष्वपि गानेष्वस्यैव गीयमानत्वं दर्शयति ।
तच्च परमेश्वरपरिग्रह एव घटते —
‘यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम्’ (भ. गी. १० । ४१) इति भगवद्गीतादर्शनात् ।
लोककामेशितृत्वमपि निरङ्कुशं श्रूयमाणं परमेश्वरं गमयति ।
यत्तूक्तं हिरण्यश्मश्रुत्वादिरूपवत्त्वश्रवणं परमेश्वरे नोपपद्यत इति,
अत्र ब्रूमः —
स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् ,
‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’(म॰भा॰ १२-३३९-४५) ‘सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि’(म॰भा॰ १२-३३९-४६) इति स्मरणात् ।
अपि च,
यत्र तु निरस्तसर्वविशेषं पारमेश्वरं रूपमुपदिश्यते,
भवति तत्र शास्त्रम् ‘अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५) इत्यादि ।
सर्वकारणत्वात्तु विकारधर्मैरपि कैश्चिद्विशिष्टः परमेश्वर उपास्यत्वेन निर्दिश्यते —
‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः’ (छा. उ. ३ । १४ । २) इत्यादिना ।
तथा हिरण्यश्मश्रुत्वादिनिर्देशोऽपि भविष्यति ।
यदप्याधारश्रवणान्न परमेश्वर इति,
अत्रोच्यते —
स्वमहिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपासनार्थो भविष्यति ।
सर्वगतत्वाद्ब्रह्मणो व्योमवत्सर्वान्तरत्वोपपत्तेः ।
ऐश्वर्यमर्यादाश्रवणमप्यध्यात्माधिदैवतविभागापेक्षमुपासनार्थमेव ।
तस्मात्परमेश्वर एवाक्ष्यादित्ययोरन्तरुपदिश्यते ॥ २० ॥
भेदव्यपदेशाच्चान्यः ॥ २१ ॥
अत एव प्राणः ॥ २३ ॥
उद्गीथे — ‘
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता’
इत्युपक्रम्य श्रूयते —
‘कतमा सा देवतेति’ (छा. उ. १ । ११ । ४),
‘प्राण इति होवाच, सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युज्जिहते, सैषा देवता प्रस्तावमन्वायत्ता’ (छा. उ. १ । ११ । ५) इति ।
तत्र संशयनिर्णयौ पूर्ववदेव द्रष्टव्यौ ।
‘प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) ‘प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते ।
वायुविकारे तु प्रसिद्धतरो लोकवेदयोः ।
अत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयः ।
किं पुनरत्र युक्तम् ?
वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम् ।
तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचाम ।
ननु पूर्ववदिहापि तल्लिङ्गाद्ब्रह्मण एव ग्रहणं युक्तम् ।
इहापि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते ।
न,
मुख्येऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात् ।
एवं ह्याम्नायते —
‘यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः, स यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते’ (श. ब्रा. १० । ३ । ३ । ६) इति ।
प्रत्यक्षं चैतत् —
स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते,
प्रबोधकाले च प्रादुर्भवन्तीति ।
इन्द्रियसारत्वाच्च भूतानामविरुद्धो मुख्ये प्राणेऽपि भूतसंवेशनोद्गमनवादी वाक्यशेषः ।
अपि चादित्योऽन्नं चोद्गीथप्रतिहारयोर्देवते प्रस्तावदेवतायाः प्राणस्यानन्तरं निर्दिश्येते ।
न च तयोर्ब्रह्मत्वमस्ति ।
तत्सामान्याच्च प्राणस्यापि न ब्रह्मत्वमित्येवं प्राप्ते सूत्रकार आह —
‘
अत एव प्राणः’
इति ।
तल्लिङ्गादिति पूर्वसूत्रे निर्दिष्टम् ।
अत एव तल्लिङ्गात्प्राणशब्दमपि परं ब्रह्म भवितुमर्हति ।
प्राणस्यापि हि ब्रह्मलिङ्गसम्बन्धः श्रूयते —
‘सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते’ (छा. उ. १ । ११ । ५) इति ।
प्राणनिमित्तौ सर्वेषां भूतानामुत्पत्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः ।
ननूक्तं मुख्यप्राणपरिग्रहेऽपि संवेशनोद्गमनदर्शनमविरुद्धम् ,
स्वापप्रबोधयोर्दर्शनादिति ।
अत्रोच्यते —
स्वापप्रबोधयोरिन्द्रियाणामेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते,
न सर्वेषां भूतानाम् ।
इह तु सेन्द्रियाणां सशरीराणां च जीवाविष्टानां भूतानाम् , ‘
सर्वाणि ह वा इमानि भूतानि’
इति श्रुतेः ।
यदापि भूतश्रुतिर्महाभूतविषया परिगृह्यते,
तदापि ब्रह्मलिङ्गत्वमविरुद्धम् ।
ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबोधयोः प्राणेऽप्ययं प्राणाच्च प्रभवं शृणुमः —
‘यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति’ (कौ. उ. ३ । ३) इति ।
तत्रापि तल्लिङ्गात्प्राणशब्दं ब्रह्मैव ।
यत्पुनरुक्तमन्नादित्यसन्निधानात्प्राणस्याब्रह्मत्वमिति,
तदयुक्तम् ।
वाक्यशेषबलेन प्राणशब्दस्य ब्रह्मविषयतायां प्रतीयमानायां सन्निधानस्याकिञ्चित्करत्वात् ।
यत्पुनः प्राणशब्दस्य पञ्चवृत्तौ प्रसिद्धतरत्वम् ,
तदाकाशशब्दस्येव प्रतिविधेयम् ।
तस्मात्सिद्धं प्रस्तावदेवतायाः प्राणस्य ब्रह्मत्वम् ॥
अत्र केचिदुदाहरन्ति — ‘प्राणस्य प्राणम्’ ‘प्राणबन्धनं हि सोम्य मनः’ इति च । तदयुक्तम्; शब्दभेदात्प्रकरणाच्च संशयानुपपत्तेः । यथा पितुः पितेति प्रयोगे, अन्यः पिता षष्ठीनिर्दिष्टात् प्रथमानिर्दिष्टः, पितुः पिता इति गम्यते । तद्वत् ‘प्राणस्य प्राणम्’ इति शब्दभेदात्प्रसिद्धात्प्राणात् अन्यः प्राणस्य प्राण इति निश्चीयते । न हि स एव तस्येति भेदनिर्देशार्हो भवति । यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्र प्रकरणी निर्दिष्ट इति गम्यते; यथा ज्योतिष्टोमाधिकारे ‘वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति, तथा परस्य ब्रह्मणः प्रकरणे ‘प्राणबन्धनं हि सोम्य मनः’ इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् । अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम् । प्रस्तावदेवतायां तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः ॥ २३ ॥
ज्योतिश्चरणाभिधानात् ॥ २४ ॥
इदमामनन्ति —
‘अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इति ।
तत्र संशयः —
किमिह ज्योतिःशब्देनादित्यादिकं ज्योतिरभिधीयते,
किं वा पर आत्मा इति ।
अर्थान्तरविषयस्यापि प्राणशब्दस्य तल्लिङ्गाद्ब्रह्मविषयत्वमुक्तम् ।
इह तु तल्लिङ्गमेवास्ति नास्तीति विचार्यते ।
किं तावत्प्राप्तम् ?
आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इति ।
कुतः ?
प्रसिद्धेः ।
तमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौ ।
चक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्यते ।
तस्या एवानुग्राहकमादित्यादिकं ज्योतिः ।
तथा ‘
दीप्यते’
इतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा ।
न हि रूपादिहीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्हति ।
द्युमर्यादत्वश्रुतेश्च ।
न हि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ता ।
कार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् । ‘
परो दिवो ज्योतिः’
इति च ब्राह्मणम् ।
ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद्द्युमर्यादावत्त्वमसमञ्जसम् ।
अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम् ।
न,
अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादिति ।
इदमेव प्रयोजनं यदुपास्यत्वमिति चेत् ,
न;
प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपास्यत्वदर्शनात् ,
‘तासां त्रिवृतं त्रिवृतमेकैकां करवाणि’ (छा. उ. ६ । ३ । ३) इति चाविशेषश्रुतेः ।
न चात्रिवृत्कृतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम् ।
अस्तु तर्हि त्रिवृत्कृतमेव तत्तेजो ज्योतिःशब्दम् ।
ननूक्तमर्वागपि दिवोऽवगम्यतेऽग्न्यादिकं ज्योतिरिति ।
नैष दोषः;
सर्वत्रापि गम्यमानस्य ज्योतिषः ‘
परो दिवः’
इत्युपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते ।
न तु निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना भागिनी । ‘
सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु’
इति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम् ।
‘इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इति च कौक्षेये ज्योतिषि परं ज्योतिरध्यस्यमानं दृश्यते ।
सारूप्यनिमित्ताश्चाध्यासा भवन्ति —
यथा ‘तस्य भूरिति शिर एकं हि शिर एकमेतदक्षरम्’ (बृ. उ. ५ । ५ । ३) इति ।
कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वम् ।
‘तस्यैषा दृष्टिः’ (छा. उ. ३ । १३ । ८) ‘
तस्यैषा श्रुतिः’
इति चौष्ण्यघोषविशिष्टत्वस्य श्रवणात् । ‘
तदेतद्दृष्टं च श्रुतं चेत्युपासीत’
इति च श्रुतेः ।
‘चक्षुष्यः श्रुतो भवति य एवं वेद’ (छा. उ. ३ । १३ । ८) इति चाल्पफलश्रवणादब्रह्मत्वम् ।
महते हि फलाय ब्रह्मोपासनमिष्यते ।
न चान्यदपि किञ्चित्स्ववाक्ये प्राणाकाशवज्ज्योतिषोऽस्ति ब्रह्मलिङ्गम् ।
न च पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ‘
गायत्री वा इदं सर्वं भूतम्’
इति च्छन्दोनिर्देशात् ।
अथापि कथञ्चित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यात् ,
एवमपि न तस्येह प्रत्यभिज्ञानमस्ति ।
तत्र हि ‘त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६)(छा. उ. ३ । १२ । ६) इति द्यौरधिकरणत्वेन श्रूयते ।
अत्र पुनः ‘
परो दिवो ज्योतिः’
इति द्यौर्मर्यादात्वेन ।
तस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः —
ज्योतिरिह ब्रह्म ग्राह्यम् ।
कुतः ?
चरणाभिधानात् ,
पादाभिधानादित्यर्थः ।
पूर्वस्मिन्हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम् —
‘तावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इत्यनेन मन्त्रेण ।
तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादमृतं द्युसम्बन्धिरूपं निर्दिष्टम् ,
तदेवेह द्युसम्बन्धान्निर्दिष्टमिति प्रत्यभिज्ञायते ।
तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् ।
न केवलं ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः;
परस्यामपि शाण्डिल्यविद्यायामनुवर्तिष्यते ब्रह्म ।
तस्मादिह ज्येतिरिति ब्रह्म प्रतिपत्तव्यम् ।
यत्तूक्तम् — ‘
ज्योतिर्दीप्यते’
इति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति,
नायं दोषः;
प्रकरणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेषकत्वात् ,
दीप्यमानकार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसम्भवात्;
‘येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३ । १२ । ९ । ७) इति च मन्त्रवर्णात् ।
यद्वा,
नायं ज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्तते,
अन्यत्रापि प्रयोगदर्शनात् —
‘वाचैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ५) ‘मनो ज्योतिर्जुषताम्’ (तै. ब्रा. १ । ६ । ३ । ३) इति च ।
तस्माद्यद्यत्कस्यचिदवभासकं तत्तज्ज्योतिःशब्देनाभिधीयते ।
तथा सति ब्रह्मणोऽपि चैतन्यरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिःशब्दः ।
‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ (क. उ. २ । २ । १५) ‘तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ (बृ. उ. ४ । ४ । १६) इत्यादिश्रुतिभ्यश्च ।
यदप्युक्तं द्युमर्यादत्वं सर्वगतस्य ब्रह्मणो नोपपद्यत इति,
अत्रोच्यते —
सर्वगतस्यापि ब्रह्मण उपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते ।
ननूक्तं निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना नोपपद्यत इति;
नायं दोषः,
निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसम्बन्धात्प्रदेशविशेषकल्पनोपपत्तेः ।
तथा हि —
आदित्ये,
चक्षुषि,
हृदये इति प्रदेशविशेषसम्बन्धीनि ब्रह्मणः उपासनानि श्रूयन्ते ।
एतेन ‘
विश्वतः पृष्ठेषु’
इत्याधारबहुत्वमुपपादितम् ।
यदप्येतदुक्तम् औष्ण्यघोषानुमिते कौक्षेये कार्ये ज्योतिष्यध्यस्यमानत्वात्परमपि दिवः कार्यं ज्योतिरेवेति,
तदप्ययुक्तम्;
परस्यापि ब्रह्मणो नामादिप्रतीकत्ववत्कौक्षेयज्योतिष्प्रतीकत्वोपपत्तेः । ‘
दृष्टं च श्रुतं चेत्युपासीत’
इति तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वं च भविष्यति ।
यदप्युक्तमल्पफलश्रवणात् न ब्रह्मेति,
तदप्यनुपपन्नम्;
न हि इयते फलाय ब्रह्माश्रयणीयम् ,
इयते न इति नियमे हेतुरस्ति ।
यत्र हि निरस्तसर्वविशेषसम्बन्धं परं ब्रह्मात्मत्वेनोपदिश्यते,
तत्रैकरूपमेव फलं मोक्ष इत्यवगम्यते ।
यत्र तु गुणविशेषसम्बन्धं प्रतीकविशेषसम्बन्धं वा ब्रह्मोपदिश्यते,
तत्र संसारगोचराण्येवोच्चावचानि फलानि दृश्यन्ते —
‘अन्नादो वसुदानो विन्दते वसु य एवं वेद’ (बृ. उ. ४ । ४ । २४) इत्याद्यासु श्रुतिषु ।
यद्यपि न स्ववाक्ये किञ्चिज्ज्योतिषो ब्रह्मलिङ्गमस्ति,
तथापि पूर्वस्मिन्वाक्ये दृश्यमानं ग्रहीतव्यं भवति ।
तदुक्तं सूत्रकारेण —
ज्योतिश्चरणाभिधानादिति ।
कथं पुनर्वाक्यान्तरगतेन ब्रह्मसन्निधानेन ज्योतिःश्रुतिः स्वविषयात् शक्या प्रच्यावयितुम् ?
नैष दोषः, ‘
अथ यदतः परो दिवो ज्योतिः’
इति प्रथमतरपठितेन यच्छब्देन सर्वनाम्ना द्युसम्बन्धात्प्रत्यभिज्ञायमाने पूर्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामर्थ्येन परामृष्टे सत्यर्थाज्ज्योतिःशब्दस्यापि ब्रह्मविषयत्वोपपत्तेः ।
तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् ॥ २४ ॥
छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथाहि दर्शनम् ॥२५॥
अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये न ब्रह्माभिहितमस्ति,
‘गायत्री वा इदꣳ सर्वं भूतं यदिदं किञ्च’ (छा. उ. ३ । १२ । १) इति गायत्र्याख्यस्य च्छन्दसोऽभिहितत्वादिति;
तत्परिहर्तव्यम् ।
कथं पुनश्छन्दोभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तुम् ?
यावता ‘
तावानस्य महिमा’
इत्येतस्यामृचि चतुष्पाद्ब्रह्म दर्शितम् ।
नैतदस्ति । ‘
गायत्री वा इदꣳ सर्वम्’
इति गायत्रीमुपक्रम्य,
तामेव भूतपृथिवीशरीरहृदयवाक्प्राणप्रभेदैर्व्याख्याय,
‘सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तं’ (छा. उ. ३ । १२ । ५) ‘तावानस्य महिमा’ (छा. उ. ३ । १२ । ६) इति तस्यामेव व्याख्यातरूपायां गायत्र्यामुदाहृतो मन्त्रः कथमकस्माद्ब्रह्म चतुष्पादभिदध्यात् ।
योऽपि तत्र ‘यद्वै तद्ब्रह्म’ (छा. उ. ३ । १२ । ७) इति ब्रह्मशब्दः,
सोऽपि च्छन्दसः प्रकृतत्वाच्छन्दोविषय एव ।
‘य एतामेवं ब्रह्मोपनिषदं वेद’ (छा. उ. ३ । ११ । ३) इत्यत्र हि वेदोपनिषदमिति व्याचक्षते ।
तस्माच्छन्दोभिधानान्न ब्रह्मणः प्रकृतत्वमिति चेत् ,
नैष दोषः ।
तथा चेतोर्पणनिगदात् —
तथा गायत्र्याख्यच्छन्दोद्वारेण,
तदनुगते ब्रह्मणि चेतसोऽर्पणं चित्तसमाधानम् अनेन ब्राह्मणवाक्येन निगद्यते — ‘
गायत्री वा इदꣳ सर्वम्’
इति ।
न ह्यक्षरसन्निवेशमात्राया गायत्र्याः सर्वात्मकत्वं सम्भवति ।
तस्माद्यद्गायत्र्याख्यविकारेऽनुगतं जगत्कारणं ब्रह्म ,
तदिह सर्वमित्युच्यते,
यथा ‘सर्वं खल्विदं ब्रह्म’ (छा. उ. ३ । १४ । १) इति ।
कार्यं च कारणादव्यतिरिक्तमिति वक्ष्यामः —
‘तदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४) इत्यत्र ।
तथान्यत्रापि विकारद्वारेण ब्रह्मण उपासनं दृश्यते —
‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते च्छन्दोगाः’ (ऐ. आ. ३ । २ । ३ । १२) इति ।
तस्मादस्ति च्छन्दोभिधानेऽपि पूर्वस्मिन्वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम् ।
तदेव ज्योतिर्वाक्येऽपि परामृश्यत उपासनान्तरविधानाय ।
अपर आह —
साक्षादेव गायत्रीशब्देन ब्रह्म प्रतिपाद्यते,
संख्यासामान्यात् ।
यथा गायत्री चतुष्पदा षडक्षरैः पादैः,
तथा ब्रह्म चतुष्पात् ।
तथान्यत्रापि च्छन्दोभिधायी शब्दोऽर्थान्तरे संख्यासामान्यात्प्रयुज्यमानो दृश्यते ।
तद्यथा — ‘
ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्’
इत्युपक्रम्याह ‘
सैषा विराडन्नादी’
इति ।
अस्मिन्पक्षे ब्रह्मैवाभिहितमिति न च्छन्दोभिधानम् ।
सर्वथाप्यस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्म ॥ २५ ॥
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
यदप्येतदुक्तम् — पूर्वत्र ‘त्रिपादस्यामृतं दिवि’ इति सप्तम्या द्यौः आधारत्वेनोपदिष्टा । इह पुनः ‘अथ यदतः परो दिवः’ इति पञ्चम्या मर्यादात्वेन । तस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्तीति — तत्परिहर्तव्यम् । अत्रोच्यते — नायं दोषः, उभयस्मिन्नप्यविरोधात् । उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे न प्रत्यभिज्ञानं विरुध्यते । यथा लोके वृक्षाग्रसम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यते — वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च, एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यते । अपर आह — यथा लोके वृक्षाग्रेणासम्बद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यते — वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च, एवं दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यते । तस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम् । अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम् ॥ २७ ॥
प्राणस्तथानुगमात् ॥ २८ ॥
प्राणशब्दं ब्रह्म विज्ञेयम् ।
कुतः ?
तथानुगमात् ।
तथाहि पौर्वापर्येण पर्यालोच्यमाने वाक्ये पदानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते ।
उपक्रमे तावत् ‘
वरं वृणीष्व’
इतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप — ‘
त्वमेव वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’
इति ।
तस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा न स्यात् ।
न ह्यन्यत्र परमात्मविज्ञानाद्धिततमप्राप्तिरस्ति,
‘तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इत्यादिश्रुतिभ्यः ।
तथा ‘स यो मां वेद न ह वै तस्य केनच कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्यया’ (कौ. उ. ३ । १) इत्यादि च ब्रह्मपरिग्रहे घटते ।
ब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः — ‘
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’
इत्याद्यासु श्रुतिषु ।
प्रज्ञात्मत्वं च ब्रह्मपक्ष एवोपपद्यते ।
न ह्यचेतनस्य वायोः प्रज्ञात्मत्वं सम्भवति ।
तथोपसंहारेऽपि ‘
आनन्दोऽजरोऽमृतः’
इत्यानन्दत्वादीनि न ब्रह्मणोऽन्यत्र सम्यक् सम्भवन्ति । ‘
स न साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते ।
एष उ एवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीषते’
इति,
‘एष लोकाधिपतिरेष लोकपाल एष लोकेशः’ (कौ. उ. ३ । ९) इति च ।
सर्वमेतत्परस्मिन्ब्रह्मण्याश्रीयमाणेऽनुगन्तुं शक्यते,
न मुख्ये प्राणे ।
तस्मात्प्राणो ब्रह्म ॥ २८ ॥
न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ २९ ॥
यदुक्तं प्राणो ब्रह्मेति,
तदाक्षिप्यते —
न परं ब्रह्म प्राणशब्दम्;
कस्मात् ?
वक्तुरात्मोपदेशात् ।
वक्ता हीन्द्रो नाम कश्चिद्विग्रहवान्देवताविशेषः स्वमात्मानं प्रतर्दनायाचचक्षे — ‘
मामेव विजानीहि’
इत्युपक्रम्य ‘
प्राणोऽस्मि प्रज्ञात्मा’
इत्यहंकारवादेन ।
स एष वक्तुरात्मत्वेनोपदिश्यमानः प्राणः कथं ब्रह्म स्यात् ?
न हि ब्रह्मणो वक्तृत्वं सम्भवति,
‘अवागमनाः’ (बृ. उ. ३ । ८ । ८) इत्यादिश्रुतिभ्यः ।
तथा विग्रहसम्बन्धिभिरेव ब्रह्मण्यसम्भवद्भिर्धर्मैरात्मानं तुष्टाव — ‘
त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छम्’
इत्येवमादिभिः ।
प्राणत्वं चेन्द्रस्य बलवत्त्वादुपपद्यते। ‘
प्राणो वै बलम्’
इति हि विज्ञायते ।
बलस्य चेन्द्रो देवता प्रसिद्धा । ‘
या च काचिद्बलकृतिः,
इन्द्रकर्मैव तत्’
इति हि वदन्ति ।
प्रज्ञात्मत्वमप्यप्रतिहतज्ञानत्वाद्देवतात्मनः सम्भवति ।
अप्रतिहतज्ञाना देवता इति हि वदन्ति ।
निश्चिते चैवं देवतात्मोपदेशे हिततमत्वादिवचनानि यथासम्भवं तद्विषयाण्येव योजयितव्यानि ।
तस्माद्वक्तुरिन्द्रस्यात्मोपदेशात् न प्राणो ब्रह्मेत्याक्षिप्य प्रतिसमाधीयते — ‘
अध्यात्मसम्बन्धभूमा ह्यस्मिन्’
इति ।
अध्यात्मसम्बन्धः प्रत्यगात्मसम्बन्धः,
तस्य भूमा बाहुल्यम् ,
अस्मिन्नध्याये उपलभ्यते । ‘
यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुः’
इति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्प्रदानोपसंहारयोः स्वातन्त्र्यं दर्शयति,
न देवताविशेषस्य पराचीनस्य ।
तथास्तित्वे च प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्राणं दर्शयति ।
तथा ‘प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’ (कौ. उ. ३ । ३) इति । ‘
न वाचं विजिज्ञासीत वक्तारं विद्यात्’
इति चोपक्रम्य ‘
तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः’
इति विषयेन्द्रियव्यवहारारनाभिभूतं प्रत्यगात्मानमेवोपसंहरति । ‘
स म आत्मेति विद्यात्’
इति चोपसंहारः प्रत्यगात्मपरिग्रहे साधुः,
न पराचीनपरिग्रहे ।
‘अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) इति च श्रुत्यन्तरम् ।
तस्मादध्यात्मसम्बन्धबाहुल्याद्ब्रह्मोपदेश एवायम् ,
न देवतात्मोपदेशः ॥ २९ ॥
कथं तर्हि वक्तुरात्मोपदेशः ? —
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥
इन्द्रो नाम देवतात्मा स्वमात्मानं परमात्मत्वेन ‘
अहमेव परं ब्रह्म’
इत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन् उपदिशति स्म — ‘
मामेव विजानीहि’
इति ।
यथा ‘
तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवꣳ सूर्यश्च’
इति,
तद्वत्;
‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्’ (बृ. उ. १ । ४ । १०) इति श्रुतेः ।
यत्पुनरुक्तम् — ‘
मामेव विजानीहि’
इत्युक्त्वा,
विग्रहधर्मैरिन्द्रः आत्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति,
तत्परिहर्तव्यम्;
अत्रोच्यते —
न त्वाष्ट्रवधादीनां विज्ञेयेन्द्रस्तुत्यर्थत्वेनोपन्यासः — ‘
यस्मादेवंकर्माहम् ,
तस्मान्मां विजानीहि’
इति ।
कथं तर्हि ?
विज्ञानस्तुत्यर्थत्वेन;
यत्कारणं त्वाष्ट्रवधादीनि साहसान्युपन्यस्य परेण विज्ञानस्तुतिमनुसन्दधाति — ‘
तस्य मे तत्र लोम च न मीयते स यो मां वेद न ह वै तस्य केन च कर्मणा लोको मीयते’
इत्यादिना ।
एतदुक्तं भवति —
यस्मादीदृशान्यपि क्रूराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापि न हिंस्यते,
स योऽन्योऽपि मां वेद,
न तस्य केनचिदपि कर्मणा लोको हिंस्यत इति ।
विज्ञेयं तु ब्रह्मैव ‘
प्राणोऽस्मि प्रज्ञात्मा’
इति वक्ष्यमाणम् ।
तस्माद्ब्रह्मवाक्यमेतत् ॥ ३० ॥
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
यद्यप्यध्यात्मसम्बन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः,
तथापि न ब्रह्मवाक्यं भवितुमर्हति ।
कुतः ?
जीवलिङ्गात् मुख्यप्राणलिङ्गाच्च ।
जीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते — ‘
न वाचं विजिज्ञासीत वक्तारं विद्यात्’
इत्यादि ।
अत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते ।
तथा मुख्यप्राणलिङ्गमपि — ‘
अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’
इति ।
शरीरधारणं च मुख्यप्राणस्य धर्मः;
प्राणसंवादे वागादीन्प्राणान्प्रकृत्य —
‘तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि’ (प्र. उ. २ । ३) इति श्रवणात् ।
ये तु ‘
इमं शरीरं परिगृह्य’
इति पठन्ति,
तेषाम् इमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम् ।
प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम् ।
मुख्येऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव ।
जीवमुख्यप्राणपरिग्रहे च,
प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः,
स्वरूपेण च भेदनिर्देशः,
इत्युभयथा निर्देश उपपद्यते — ‘
यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः’ ‘
सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतः’
इति ।
ब्रह्मपरिग्रहे तु किं कस्माद्भिद्येत ?
तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां न ब्रह्मेति चेत् ,
नैतदेवम् ।
उपासात्रैविध्यात् ।
एवं सति त्रिविधमुपासनं प्रसज्येत —
जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति ।
न चैतदेकस्मिन्वाक्येऽभ्युपगन्तुं युक्तम् ।
उपक्रमोपसंहाराभ्यां हि वाक्यैकत्वमवगम्यते । ‘
मामेव विजानीहि’
इत्युपक्रम्य, ‘
प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व’
इत्युक्त्वा,
अन्ते ‘
स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः’
इत्येकरूपावुपक्रमोपसंहारौ दृश्येते ।
तत्रार्थैकत्वं युक्तमाश्रयितुम् ।
न च ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यम्;
दशानां भूतमात्राणां प्रज्ञामात्राणां च ब्रह्मणोऽन्यत्र अर्पणानुपपत्तेः ।
आश्रितत्वाच्च अन्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि वृत्तेः,
इहापि च हिततमोपन्यासादिब्रह्मलिङ्गयोगात् ,
ब्रह्मोपदेश एवायमिति गम्यते ।
यत्तु मुख्यप्राणलिङ्गं दर्शितम् — ‘
इदं शरीरं परिगृह्योत्थापयति’
इति,
तदसत्;
प्राणव्यापारस्यापि परमात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् —
‘न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ (क. उ. २ । २ । ५) इति श्रुतेः ।
यदपि ‘
न वाचं विजिज्ञासीत वक्तारं विद्यात्’
इत्यादि जीवलिङ्गं दर्शितम् ,
तदपि न ब्रह्मपक्षं निवारयति ।
न हि जीवो नामात्यन्तभिन्नो ब्रह्मणः, ‘
तत्त्वमसि’ ‘
अहं ब्रह्मास्मि’
इत्यादिश्रुतिभ्यः ।
बुद्ध्याद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सन् जीवः कर्ता भोक्ता चेत्युच्यते ।
तस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुम् ‘
न वाचं विजिज्ञासीत वक्तारं विद्यात्’
इत्यादिना प्रत्यगात्माभिमुखीकरणार्थ उपदेशो न विरुध्यते ।
‘यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १ । ५) इत्यादि च श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयति ।
यत्पुनरेतदुक्तम् — ‘
सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतः’
इति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादे नोपपद्यत इति,
नैष दोषः;
ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्भेदनिर्देशोपपत्तेः ।
उपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतः ‘
प्राण एव प्रज्ञात्मा’
इत्येकीकरणमविरुद्धम् ॥
अथवा ‘
नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्’
इत्यस्यायमन्योऽर्थः —
न ब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते ।
कथम् ?
उपासात्रैविध्यात् ।
त्रिविधमिह ब्रह्मण उपासनं विवक्षितम् —
प्राणधर्मेण,
प्रज्ञाधर्मेण,
स्वधर्मेण च ।
तत्र ‘
आयुरमृतमित्युपास्स्वायुः प्राणः’
इति ‘
इदं शरीरं परिगृह्योत्थापयति’
इति ‘
तस्मादेतदेवोक्थमुपासीत’
इति च प्राणधर्मः । ‘
अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामः’
इत्युपक्रम्य ‘
वागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति’
इत्यादिः प्रज्ञाधर्मः । ‘
ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम् ।
यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः ।
यद्धि प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः ।
न ह्यन्यतरतो रूपं किञ्चन सिध्येत् ।
नो एतन्नाना ।
तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मा’
इत्यादिर्ब्रह्मधर्मः ।
तस्माद्ब्रह्मण एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम् ।
अन्यत्रापि ‘मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम्;
इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात् प्राणप्रज्ञाब्रह्मलिङ्गावगमाच्च ।
तस्माद्ब्रह्मवाक्यमेवैतदिति सिद्धम् ॥ ३१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य प्रथमः पादः ॥
प्रथमे पादे ‘जन्माद्यस्य यतः’ इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम् । तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं नित्यत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वात्मत्वमित्येवंजातीयका धर्मा उक्ता एव भवन्ति । अर्थान्तरप्रसिद्धानां च केषाञ्चिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि सन्दिह्यमानानि ब्रह्मपरतया निर्णीतानि । पुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि सन्दिह्यन्ते — किं परं ब्रह्म प्रतिपादयन्ति, आहोस्विदर्थान्तरं किञ्चिदिति । तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते —
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
इदमाम्नायते —
‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १),
‘मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्यादि ।
तत्र संशयः —
किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते,
आहोस्वित्परं ब्रह्मेति ।
किं तावत्प्राप्तम् ?
शारीर इति ।
कुतः ?
तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः सम्बन्धः,
न परस्य ब्रह्मणः;
‘अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २) इत्यादिश्रुतिभ्यः ।
ननु ‘
सर्वं खल्विदं ब्रह्म’
इति स्वशब्देनैव ब्रह्मोपात्तम्;
कथमिह शारीर आत्मोपास्यत्वेनाशङ्क्यते ?
नैष दोषः ।
नेदं वाक्यं ब्रह्मोपासनाविधिपरम् ।
किं तर्हि ?
शमविधिपरम्;
यत्कारणम् ‘
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’
इत्याह ।
एतदुक्तं भवति —
यस्मात्सर्वमिदं विकारजातं ब्रह्मैव,
तज्जत्वात् तल्लत्वात् तदनत्वाच्च —
न च सर्वस्यैकात्मत्वे रागादयः सम्भवन्ति —
तस्मात् शान्त उपासीतेति ।
न च शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते ।
उपासनं तु ‘
स क्रतुं कुर्वीत’
इत्यनेन विधीयते ।
क्रतुः सङ्कल्पो ध्यानमित्यर्थः ।
तस्य च विषयत्वेन श्रूयते — ‘
मनोमयः प्राणशरीरः’
इति जीवलिङ्गम् ।
अतो ब्रूमः —
जीवविषयमेतदुपासनमिति । ‘
सर्वकर्मा सर्वकामः’
इत्याद्यपि श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते । ‘
एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा’
इति च हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते,
नापरिच्छिन्नस्य ब्रह्मणः ।
ननु ‘
ज्यायान्पृथिव्याः’
इत्याद्यपि न परिच्छिन्नेऽवकल्पत इति ।
अत्र ब्रूमः —
न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यम् ,
विरोधात् ।
अन्यतराश्रयणे च,
प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयितुम् ।
ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीति ।
निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसङ्कीर्तनम् —
‘एतद्ब्रह्म’ (छा. उ. ३ । १४ । ४) इति,
तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेव ।
तस्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्य इत्येवं प्राप्ते ब्रूमः —
परमेव ब्रह्मेह मनोमयत्वादिभिर्धर्मैरुपास्यम् । कुतः ? सर्वत्र प्रसिद्धोपदेशात् । यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम् , इह च ‘सर्वं खल्विदं ब्रह्म’ इति वाक्योपक्रमे श्रुतम् , तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम् । एवं च सति प्रकृतहानाप्रकृतप्रक्रिये न भविष्यतः । ननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं न स्वविवक्षयेत्युक्तम्; अत्रोच्यते — यद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम् , तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म सन्निहितं भवति, जीवस्तु न सन्निहितः, न च स्वशब्देनोपात्त इति वैषम्यम् ॥ १ ॥
विवक्षितगुणोपपत्तेश्च ॥ २ ॥
वक्तुमिष्टा विवक्षिताः ।
यद्यप्यपौरुषेये वेदे वक्तुरभावात् नेच्छार्थः सम्भवति,
तथाप्युपादानेन फलेनोपचर्यते ।
लोके हि यच्छब्दाभिहितमुपादेयं भवति तद्विवक्षितमित्युच्यते,
यदनुपादेयं तदविवक्षितमिति ।
तद्वद्वेदेऽप्युपादेयत्वेनाभिहितं विवक्षितं भवति,
इतरदविवक्षितम् ।
उपादानानुपादाने तु वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते ।
तदिह ये विवक्षिता गुणा उपासनायामुपादेयत्वेनोपदिष्टाः सत्यसङ्कल्पप्रभृतयः,
ते परस्मिन्ब्रह्मण्युपपद्यन्ते ।
सत्यसङ्कल्पत्वं हि सृष्टिस्थितिसंहारेष्वप्रतिबद्धशक्तित्वात्परमात्मन एवावकल्पते ।
परमात्मगुणत्वेन च ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यत्र ‘
सत्यकामः सत्यसङ्कल्पः’
इति श्रुतम् , ‘
आकाशात्मा’
इति च आकाशवदात्मा अस्येत्यर्थः ।
सर्वगतत्वादिभिर्धर्मैः सम्भवत्याकाशेन साम्यं ब्रह्मणः । ‘
ज्यायान्पृथिव्याः’
इत्यादिना चैतदेव दर्शयति ।
यदापि आकाश आत्मा यस्येति व्याख्यायते,
तदापि सम्भवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वम् ।
अत एव ‘
सर्वकर्मा’
इत्यादि ।
एवमिहोपास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते ।
यत्तूक्तम् — ‘
मनोमयः प्राणशरीरः’
इति जीवलिङ्गम् ,
न तद्ब्रह्मण्युपपद्यत इति;
तदपि ब्रह्मण्युपपद्यत इति ब्रूमः ।
सर्वात्मत्वाद्धि ब्रह्मणो जीवसम्बन्धीनि मनोमयत्वादीनि ब्रह्मसम्बन्धीनि भवन्ति ।
तथा च ब्रह्मविषये श्रुतिस्मृती भवतः —
‘त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः’ (श्वे. उ. ४ । ३) इति;
‘सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति’ (भ. गी. १३ । १३) इति च । ‘
अप्राणो ह्यमनाः शुभ्रः’
इति श्रुतिः शुद्धब्रह्मविषया,
इयं तु श्रुतिः ‘
मनोमयः प्राणशरीरः’
इति सगुणब्रह्मविषयेति विशेषः ।
अतो विवक्षितगुणोपपत्तेः परमेव ब्रह्म इहोपास्यत्वेनोपदिष्टमिति गम्यते ॥ २ ॥
अनुपपत्तेस्तु न शारीरः ॥ ३ ॥
पूर्वेण सूत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपत्तिरुक्ता । अनेन शारीरे तेषामनुपपत्तिरुच्यते । तुशब्दोऽवधारणार्थः । ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणम्; न तु शारीरो जीवो मनोमयत्वादिगुणः; यत्कारणम् — ‘सत्यसङ्कल्पः’ ‘आकाशात्मा’ ‘अवाकी’ ‘अनादरः’ ‘ज्यायान्पृथिव्याः’ इति चैवंजातीयका गुणा न शारीरे आञ्जस्येनोपपद्यन्ते । शारीर इति शरीरे भव इत्यर्थः । नन्वीश्वरोऽपि शरीरे भवति । सत्यम् , शरीरे भवति; न तु शरीर एव भवति; ‘ज्यायान्पृथिव्या ज्यायानन्तरिक्षात्’ ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति च व्यापित्वश्रवणात् । जीवस्तु शरीर एव भवति, तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात् ॥ ३ ॥
कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥
इतश्च न शारीरो मनोमयत्वादिगुणः;
यस्मात्कर्मकर्तृव्यपदेशो भवति —
‘एतमितः प्रेत्याभिसम्भवितास्मि’ (छा. उ. ३ । १४ । ४) इति ।
एतमिति प्रकृतं मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति;
अभिसम्भवितास्मीति शारीरमुपासकं कर्तृत्वेन प्रापकत्वेन ।
अभिसम्भवितास्मीति प्राप्तास्मीत्यर्थः ।
न च सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तः ।
तथोपास्योपासकभावोऽपि भेदाधिष्ठान एव ।
तस्मादपि न शारीरो मनोमयत्वादिविशिष्टः ॥ ४ ॥
शब्दविशेषात् ॥ ५ ॥
इतश्च शारीरादन्यो मनोमयत्वादिगुणः; यस्माच्छब्दविशेषो भवति समानप्रकरणे श्रुत्यन्तरे — ‘यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयः’ (श. ब्रा. १० । ६ । ३ । २) इति । शारीरस्यात्मनो यः शब्दोऽभिधायकः सप्तम्यन्तः — अन्तरात्मन्निति; तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनोऽभिधायकः । तस्मात्तयोर्भेदोऽधिगम्यते ॥ ५ ॥
स्मृतेश्च ॥ ६ ॥
अत्राह —
कः पुनरयं शारीरो नाम परमात्मनोऽन्यः,
यः प्रतिषिध्यते — ‘
अनुपपत्तेस्तु न शारीरः’
इत्यादिना ?
श्रुतिस्तु ‘नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता’ (बृ. उ. ३ । ७ । २३) इत्येवंजातीयका परमात्मनोऽन्यमात्मानं वारयति ।
तथा स्मृतिरपि ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ (भ. गी. १३ । २) इत्येवंजातीयकेति ।
अत्रोच्यते —
सत्यमेवैतत् ,
पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिः परिच्छिद्यमानो बालैः शारीर इत्युपचर्यते ।
यथा घटकरकाद्युपाधिवशादपरिच्छिन्नमपि नभः परिच्छिन्नवदवभासते,
तद्वत् ।
तदपेक्षया च कर्मत्वकर्तृत्वादिभेदव्यवहारो न विरुध्यते प्राक् ‘
तत्त्वमसि’
इत्यात्मैकत्वोपदेशग्रहणात् ।
गृहीते त्वात्मैकत्वे बन्धमोक्षादिसर्वव्यवहारपरिसमाप्तिरेव स्यात् ॥ ६ ॥
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥
अर्भकमल्पम् ओको नीडम् , ‘एष म आत्मान्तर्हृदये’ इति परिच्छिन्नायतनत्वात् , स्वशब्देन च ‘अणीयान्व्रीहेर्वा यवाद्वा’ इत्यणीयस्त्वव्यपदेशात् , शारीर एवाराग्रमात्रो जीव इहोपदिश्यते, न सर्वगतः परमात्मा — इति यदुक्तं तत्परिहर्तव्यम् । अत्रोच्यते — नायं दोषः । न तावत्परिच्छिन्नदेशस्य सर्वगतत्वव्यपदेशः कथमप्युपपद्यते । सर्वगतस्य तु सर्वदेशेषु विद्यमानत्वात्परिच्छिन्नदेशव्यपदेशोऽपि कयाचिदपेक्षया सम्भवति । यथा समस्तवसुधाधिपतिरपि हि सन् अयोध्याधिपतिरिति व्यपदिश्यते । कया पुनरपेक्षया सर्वगतः सन्नीश्वरोऽर्भकौका अणीयांश्च व्यपदिश्यत इति । निचाय्यत्वादेवमिति ब्रूमः । एवम् अणीयस्त्वादिगुणगणोपेत ईश्वरः, तत्र हृदयपुण्डरीके निचाय्यो द्रष्टव्य उपदिश्यते; यथा सालग्रामे हरिः । तत्रास्य बुद्धिविज्ञानं ग्राहकम् । सर्वगतोऽपीश्वरस्तत्रोपास्यमानः प्रसीदति । व्योमवच्चैतद्द्रष्टव्यम् । यथा सर्वगतमपि सद्व्योम सूचीपाशाद्यपेक्षयार्भकौकोऽणीयश्च व्यपदिश्यते, एवं ब्रह्मापि । तदेवं निचाय्यत्वापेक्षं ब्रह्मणोऽर्भकौकस्त्वमणीयस्त्वं च, न पारमार्थिकम् । तत्र यदाशङ्क्यते — हृदयायतनत्वाद्ब्रह्मणो हृदयानां च प्रतिशरीरं भिन्नत्वाद्भिन्नायतनानां च शुकादीनामनेकत्वसावयवत्वानित्यत्वादिदोषदर्शनाद्ब्रह्मणोऽपि तत्प्रसङ्ग इति, तदपि परिहृतं भवति ॥ ७ ॥
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥
व्योमवत्सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदयसम्बन्धात् ,
चिद्रूपतया च शारीरादविशिष्टत्वात् ,
सुखदुःखादिसम्भोगोऽप्यविशिष्टः प्रसज्येत ।
एकत्वाच्च;
न हि परस्मादात्मनोऽन्यः कश्चिदात्मा संसारी विद्यते,
‘नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतिभ्यः ।
तस्मात्परस्यैव ब्रह्मणः सम्भोगप्राप्तिरिति चेत् ,
न;
वैशेष्यात् ।
न तावत्सर्वप्राणिहृदयसम्बन्धात् शारीरवद्ब्रह्मणः सम्भोगप्रसङ्गः,
वैशेष्यात् ।
विशेषो हि भवति शारीरपरमेश्वरयोः ।
एकः कर्ता भोक्ता धर्माधर्मादिसाधनः सुखदुःखादिमांश्च ।
एकस्तद्विपरीतोऽपहतपाप्मत्वादिगुणः ।
एतस्मादनयोर्विशेषादेकस्य भोगः,
नेतरस्य ।
यदि च सन्निधानमात्रेण वस्तुशक्तिमनाश्रित्य कार्यसम्बन्धोऽभ्युपगम्येत,
आकाशादीनामपि दाहादिप्रसङ्गः ।
सर्वगतानेकात्मवादिनामपि समावेतौ चोद्यपरिहारौ ।
यदप्येकत्वाद्ब्रह्मण आत्मान्तराभावाच्छारीरस्य भोगेन ब्रह्मणो भोगप्रसङ्ग इति,
अत्र वदामः —
इदं तावद्देवानांप्रियः प्रष्टव्यः;
कथमयं त्वयात्मान्तराभावोऽध्यवसित इति । ‘
तत्त्वमसि’ ‘
अहं ब्रह्मास्मि’ ‘
नान्योऽतोऽस्ति विज्ञाता’
इत्यादिशास्त्रेभ्य इति चेत् ,
यथाशास्त्रं तर्हि शास्त्रीयोऽर्थः प्रतिपत्तव्यः,
न तत्रार्धजरतीयं लभ्यम् ।
शास्त्रं च ‘
तत्त्वमसि’
इत्यपहतपाप्मत्वादिविशेषणं ब्रह्म शारीरस्यात्मत्वेनोपदिशच्छारीरस्यैव तावदुपभोक्तृत्वं वारयति ।
कुतस्तदुपभोगेन ब्रह्मण उपभोगप्रसङ्गः ।
अथागृहीतं शारीरस्य ब्रह्मणैकत्वम् ,
तदा मिथ्याज्ञाननिमित्तः शारीरस्योपभोगः ।
न तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः ।
न हि बालैस्तलमलिनतादिभिर्व्योम्नि विकल्प्यमाने तलमलिनतादिविशिष्टमेव परमार्थतो व्योम भवति ।
तदाह —
न वैशेष्यादिति नैकत्वेऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गः,
वैशेष्यात् ।
विशेषो हि भवति मिथ्याज्ञानसम्यग्ज्ञानयोः ।
मिथ्याज्ञानकल्पित उपभोगः,
सम्यग्ज्ञानदृष्टमेकत्वम् ।
न च मिथ्याज्ञानकल्पितेनोपभोगेन सम्यग्ज्ञानदृष्टं वस्तु संस्पृश्यते ।
तस्मान्नोपभोगगन्धोऽपि शक्य ईश्वरस्य कल्पयितुम् ॥ ८ ॥
अत्ता चराचरग्रहणात् ॥ ९ ॥
अत्तात्र परमात्मा भवितुमर्हति । कुतः ? चराचरग्रहणात् । चराचरं हि स्थावरजङ्गमं मृत्यूपसेचनमिहाद्यत्वेन प्रतीयते । तादृशस्य चाद्यस्य न परमात्मनोऽन्यः कार्त्स्न्येनात्ता सम्भवति । परमात्मा तु विकारजातं संहरन्सर्वमत्तीत्युपपद्यते । नन्विह चराचरग्रहणं नोपलभ्यते, कथं सिद्धवच्चराचरग्रहणं हेतुत्वेनोपादीयते ? नैष दोषः, मृत्यूपसेचनत्वेनेहाद्यत्वेन सर्वस्य प्राणिनिकायस्य प्रतीयमानत्वात् , ब्रह्मक्षत्रयोश्च प्राधान्यात्प्रदर्शनार्थत्वोपपत्तेः । यत्तु परमात्मनोऽपि नात्तृत्वं सम्भवति ‘अनश्नन्नन्योऽभिचाकशीति’ इति दर्शनादिति, अत्रोच्यते — कर्मफलभोगस्य प्रतिषेधकमेतद्दर्शनम् , तस्य सन्निहितत्वात् । न विकारसंहारस्य प्रतिषेधकम् , सर्ववेदान्तेषु सृष्टिस्थितिसंहारकारणत्वेन ब्रह्मणः प्रसिद्धत्वात् । तस्मात्परमात्मैवेहात्ता भवितुमर्हति ॥ ९ ॥
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
किं तावत्प्राप्तम् ?
बुद्धिक्षेत्रज्ञाविति ।
कुतः ? ‘
गुहां प्रविष्टौ’
इति विशेषणात् ।
यदि शरीरं गुहा,
यदि वा हृदयम् ,
उभयथापि बुद्धिक्षेत्रज्ञौ गुहां प्रविष्टावुपपद्येते ।
न च सति सम्भवे सर्वगतस्य ब्रह्मणो विशिष्टदेशत्वं युक्तं कल्पयितुम् । ‘
सुकृतस्य लोके’
इति च कर्मगोचरानतिक्रमं दर्शयति ।
परमात्मा तु न सुकृतस्य वा दुष्कृतस्य वा गोचरे वर्तते,
‘न कर्मणा वर्धते नो कनीयान्’ (बृ. उ. ४ । ४ । २३) इति श्रुतेः । ‘
छायातपौ’
इति च चेतनाचेतनयोर्निर्देश उपपद्यते,
छायातपवत्परस्परविलक्षणत्वात् ।
तस्माद्बुद्धिक्षेत्रज्ञाविहोच्येयातामित्येवं प्राप्ते ब्रूमः —
विज्ञानात्मपरमात्मानाविहोच्येयाताम् ।
कस्मात् ?
आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौ ।
संख्याश्रवणे च समानस्वभावेष्वेव लोके प्रतीतिर्दृश्यते । ‘
अस्य गोर्द्वितीयोऽन्वेष्टव्यः’
इत्युक्ते,
गौरेव द्वितीयोऽन्विष्यते,
नाश्वः पुरुषो वा ।
तदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावश्चेतनः परमात्मैव प्रतीयते ।
ननूक्तं गुहाहितत्वदर्शनान्न परमात्मा प्रत्येतव्य इति;
गुहाहितत्वदर्शनादेव परमात्मा प्रत्येतव्य इति वदामः ।
गुहाहितत्वं तु श्रुतिस्मृतिष्वसकृत्परमात्मन एव दृश्यते —
‘गुहाहितं गह्वरेष्ठं पुराणम्’ (क. उ. १ । २ । १२) ‘यो वेद निहितं गुहायां परमे व्योमन्’ (तै. उ. २ । १ । १) ‘
आत्मानमन्विच्छ गुहां प्रविष्टम्’
इत्याद्यासु ।
सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो न विरुध्यत इत्येतदप्युक्तमेव ।
सुकृतलोकवर्तित्वं तु च्छत्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम् । ‘
छायातपौ’
इत्यप्यविरुद्धम्;
छायातपवत्परस्परविलक्षणत्वात्संसारित्वासंसारित्वयोः,
अविद्याकृतत्वात्संसारित्वस्य पारमार्थिकत्वाच्चासंसारित्वस्य ।
तस्माद्विज्ञानात्मपरमात्मानौ गुहां प्रविष्टौ गृह्येते ॥ ११ ॥
कुतश्च विज्ञानात्मपरमात्मानौ गृह्येते ? —
विशेषणाच्च ॥ १२ ॥
अपर आह — ‘
द्वा सुपर्णा’
इति नेयमृगस्याधिकरणस्य सिद्धान्तं भजते,
पैङ्गिरहस्यब्राह्मणेनान्यथा व्याख्यातत्वात् — ‘
तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वमनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ’
इति ।
सत्त्वशब्दो जीवः क्षेत्रज्ञशब्दः परमात्मेति यदुच्यते,
तन्न;
सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणशारीरपरतया प्रसिद्धत्वात् ।
तत्रैव च व्याख्यातत्वात् — ‘
तदेतत्सत्त्वं येन स्वप्नं पश्यति,
अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ’
इति ।
नाप्यस्याधिकरणस्य पूर्वपक्षं भजते ।
न ह्यत्र शारीरः क्षेत्रज्ञः कर्तृत्वभोक्तृत्वादिना संसारधर्मेणोपेतो विवक्ष्यते ।
कथं तर्हि ?
सर्वसंसारधर्मातीतो ब्रह्मस्वभावश्चैतन्यमात्रस्वरूपः; ‘
अनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञः’
इति वचनात् , ‘
तत्त्वमसि’
‘क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३ । २) इत्यादिश्रुतिस्मृतिभ्यश्च ।
तावता च विद्योपसंहारदर्शनमेवमेवावकल्पते, ‘
तावेतौ सत्त्वक्षेत्रज्ञौ न ह वा एवंविदि किञ्चन रज आध्वंसते’
इत्यादि ।
कथं पुनरस्मिन्पक्षे ‘
तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्’
इत्यचेतने सत्त्वे भोक्तृत्ववचनमिति,
उच्यते —
नेयं श्रुतिरचेतनस्य सत्त्वस्य भोक्तृत्वं वक्ष्यामीति प्रवृत्ता;
किं तर्हि ?
चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां च वक्ष्यामीति ।
तदर्थं सुखादिविक्रियावति सत्त्वे भोक्तृत्वमध्यारोपयति ।
इदं हि कर्तृत्वं भोक्तृत्वं च सत्त्वक्षेत्रज्ञयोरितरेतरस्वभावाविवेककृतं कल्प्यते ।
परमार्थतस्तु नान्यतरस्यापि सम्भवति,
अचेतनत्वात्सत्त्वस्य,
अविक्रियत्वाच्च क्षेत्रज्ञस्य ।
अविद्याप्रत्युपस्थापितस्वभावत्वाच्च सत्त्वस्य सुतरां न सम्भवति ।
तथा च श्रुतिः —
‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिना स्वप्नदृष्टहस्त्यादिव्यवहारवदविद्याविषय एव कर्तृत्वादिव्यवहारं दर्शयति ।
‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिना च विवेकिनः कर्तृत्वादिव्यवहाराभवं दर्शयति ॥ १२ ॥
स्थानादिव्यपदेशाच्च ॥ १४ ॥
कथं पुनराकाशवत्सर्वगतस्य ब्रह्मणोऽक्ष्यल्पं स्थानमुपपद्यत इति,
अत्रोच्यते —
भवेदेषानवकॢप्तिः,
यद्येतदेवैकं स्थानमस्य निर्दिष्टं भवेत् ।
सन्ति ह्यन्यान्यपि पृथिव्यादीनि स्थानान्यस्य निर्दिष्टानि —
‘यः पृथिव्यां तिष्ठन्’ (बृ. उ. ३ । ७ । ३) इत्यादिना ।
तेषु हि चक्षुरपि निर्दिष्टम् ‘
यश्चक्षुषि तिष्ठन्’
इति ।
स्थानादिव्यपदेशादित्यादिग्रहणेनैतद्दर्शयति —
न केवलं स्थानमेवैकमनुचितं ब्रह्मणो निर्दिश्यमानं दृश्यते ।
किं तर्हि ?
नाम रूपमित्येवंजातीयकमप्यनामरूपस्य ब्रह्मणोऽनुचितं निर्दिश्यमानं दृश्यते —
‘तस्योदिति नाम’ (छा. उ. १ । ६ । ७) ‘
हिरण्यश्मश्रुः’
इत्यादि ।
निर्गुणमपि सद्ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थं तत्र तत्रोपदिश्यत इत्येतदप्युक्तमेव ।
सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो न विरुध्यते,
सालग्राम इव विष्णोरित्येतदप्युक्तमेव ॥ १४ ॥
सुखविशिष्टाभिधानादेव च ॥ १५ ॥
अपि च नैवात्र विवदितव्यम् —
किं ब्रह्मास्मिन्वाक्येऽभिधीयते,
न वेति ।
सुखविशिष्टाभिधानादेव ब्रह्मत्वं सिद्धम् ।
सुखविशिष्टं हि ब्रह्म यद्वाक्योपक्रमे प्रक्रान्तम् ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) इति,
तदेवेहाभिहितम्;
प्रकृतपरिग्रहस्य न्याय्यत्वात् ,
‘आचार्यस्तु ते गतिं वक्ता’ (छा. उ. ४ । १४ । १) इति च गतिमात्राभिधानप्रतिज्ञानात् ।
कथं पुनर्वाक्योपक्रमे सुखविशिष्टं ब्रह्म विज्ञायत इति,
उच्यते —
‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) इत्येतदग्नीनां वचनं श्रुत्वोपकोसल उवाच — ‘
विजानाम्यहं यत्प्राणो ब्रह्म,
कं च तु खं च न विजानामि’
इति ।
तत्रेदं प्रतिवचनम् — ‘
यद्वाव कं तदेव खं यदेव खं तदेव कम्’
इति ।
तत्र खंशब्दो भूताकाशे निरूढो लोके ।
यदि तस्य विशेषणत्वेन कंशब्दः सुखवाची नोपादीयेत,
तथा सति केवले भूताकाशे ब्रह्मशब्दो नामादिष्विव प्रतीकाभिप्रायेण प्रयुक्त इति प्रतीतिः स्यात् ।
तथा कंशब्दस्य विषयेन्द्रियसम्पर्कजनिते सामये सुखे प्रसिद्धत्वात् ,
यदि तस्य खंशब्दो विशेषणत्वेन नोपादीयेत;
लौकिकं सुखं ब्रह्मेति प्रतीतिः स्यात् ।
इतरेतरविशेषितौ तु कंखंशब्दौ सुखात्मकं ब्रह्म गमयतः ।
तत्र द्वितीये ब्रह्मशब्देऽनुपादीयमाने ‘
कं खं ब्रह्म’
इत्येवोच्यमाने कंशब्दस्य विशेषणत्वेनैवोपयुक्तत्वात्सुखस्य गुणस्याध्येयत्वं स्यात् ।
तन्मा भूत् —
इत्युभयोः कंखंशब्दयोर्ब्रह्मशब्दशिरस्त्वम् — ‘
कं ब्रह्म खं ब्रह्म’
इति ।
इष्टं हि सुखस्यापि गुणस्य गुणिवद्ध्येयत्वम् ।
तदेवं वाक्योपक्रमे सुखविशिष्टं ब्रह्मोपदिष्टम् ।
प्रत्येकं च गार्हपत्यादयोऽग्नयः स्वं स्वं महिमानमुपदिश्य ‘
एषा सोम्य तेऽस्मद्विद्यात्मविद्या च’
इत्युपसंहरन्तः पूर्वत्र ब्रह्म निर्दिष्टमिति ज्ञापयन्ति । ‘
आचार्यस्तु ते गतिं वक्ता’
इति च गतिमात्राभिधानप्रतिज्ञानमर्थान्तरविवक्षां वारयति ।
‘यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’ (छा. उ. ४ । १४ । ३) इति चाक्षिस्थानं पुरुषं विजानतः पापेनानुपघातं ब्रुवन्नक्षिस्थानस्य पुरुषस्य ब्रह्मत्वं दर्शयति ।
तस्मात्प्रकृतस्यैव ब्रह्मणोऽक्षिस्थानतां संयद्वामत्वादिगुणतां चोक्त्वा अर्चिरादिकां तद्विदो गतिं वक्ष्यामीत्युपक्रमते —
‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच’ (छा. उ. ४ । १५ । १) इति ॥ १५ ॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥
अनवस्थितेरसम्भवाच्च नेतरः ॥ १७ ॥
यत्पुनरुक्तं छायात्मा,
विज्ञानात्मा,
देवतात्मा वा स्यादक्षिस्थान इति,
अत्रोच्यते —
न च्छायात्मादिरितर इह ग्रहणमर्हति ।
कस्मात् ?
अनवस्थितेः ।
न तावच्छायात्मनश्चक्षुषि नित्यमवस्थानं सम्भवति ।
यदैव हि कश्चित्पुरुषश्चक्षुरासीदति,
तदा चक्षुषि पुरुषच्छाया दृश्यते ।
अपगते तस्मिन्न दृश्यते । ‘
य एषोऽक्षिणि पुरुषः’
इति च श्रुतिः सन्निधानात्स्वचक्षुषि दृश्यमानं पुरुषमुपास्यत्वेनोपदिशति ।
न चोपासनाकाले च्छायाकरं कञ्चित्पुरुषं चक्षुःसमीपे सन्निधाप्योपास्त इति युक्तं कल्पयितुम् ।
‘अस्यैव शरीरस्य नाशमन्वेष नश्यति’ (छा. उ. ८ । ९ । १) इति श्रुतिश्छायात्मनोऽप्यनवस्थितत्वं दर्शयति ।
असम्भवाच्च तस्मिन्नमृतत्वादीनां गुणानां न च्छायात्मनि प्रतीतिः ।
तथा विज्ञानात्मनोऽपि साधारणे कृत्स्नशरीरेन्द्रियसम्बन्धे सति न चक्षुष्येवावस्थितत्वं शक्यं वक्तुम् ।
ब्रह्मणस्तु सर्वव्यापिनोऽपि दृष्ट उपलब्ध्यर्थो हृदयादिदेशविशेषसम्बन्धः ।
समानश्च विज्ञानात्मन्यप्यमृतत्वादीनां गुणानामसम्भवः ।
यद्यपि विज्ञानात्मा परमात्मनोऽनन्य एव,
तथाप्यविद्याकामकर्मकृतं तस्मिन्मर्त्यत्वमध्यारोपितं भयं चेत्यमृतत्वाभयत्वे नोपपद्येते ।
संयद्वामत्वादयश्चैतस्मिन्ननैश्वर्यादनुपपन्ना एव ।
देवतात्मनस्तु ‘
रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः’
इति श्रुतेः यद्यपि चक्षुष्यवस्थानं स्यात् ,
तथाप्यात्मत्वं तावन्न सम्भवति,
पराग्रूपत्वात् ।
अमृतत्वादयोऽपि न सम्भवन्ति,
उत्पत्तिप्रलयश्रवणात् ।
अमरत्वमपि देवानां चिरकालावस्थानापेक्षम् ।
ऐश्वर्यमपि परमेश्वरायत्तम् ,
न स्वाभाविकम्;
‘भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चमः’ (तै. उ. २ । ८ । १) इति मन्त्रवर्णात् ।
तस्मात्परमेश्वर एवायमक्षिस्थानः प्रत्येतव्यः ।
अस्मिंश्च पक्षे ‘
दृश्यते’
इति प्रसिद्धवदुपादानं शास्त्राद्यपेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्याख्येयम् ॥ १७ ॥
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥
योऽन्तर्याम्यधिदैवादिषु श्रूयते, स परमात्मैव स्यात् , नान्य इति । कुतः ? तद्धर्मव्यपदेशात् । तस्य हि परमात्मनो धर्मा इह निर्दिश्यमाना दृश्यन्ते । पृथिव्यादि तावदधिदैवादिभेदभिन्नं समस्तं विकारजातमन्तस्तिष्ठन्यमयतीति परमात्मनो यमयितृत्वं धर्म उपपद्यते । सर्वविकारकारणत्वे सति सर्वशक्त्युपपत्तेः । ‘एष त आत्मान्तर्याम्यमृतः’ इति चात्मत्वामृतत्वे मुख्ये परमात्मन उपपद्येते । ‘यं पृथिवी न वेद’ इति च पृथिवीदेवताया अविज्ञेयमन्तर्यामिणं ब्रुवन्देवतात्मनोऽन्यमन्तर्यामिणं दर्शयति । पृथिवी देवता ह्यहमस्मि पृथिवीत्यात्मानं विजानीयात् । तथा ‘अदृष्टोऽश्रुतः’ इत्यादिव्यपदेशो रूपादिविहीनत्वात्परमात्मन उपपद्यत इति । यत्त्वकार्यकरणस्य परमात्मनो यमयितृत्वं नोपपद्यत इति, नैष दोषः; यान्नियच्छति तत्कार्यकरणैरेव तस्य कार्यकरणवत्त्वोपपत्तेः । तस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च न सम्भवति, भेदाभावात् । भेदे हि सत्यनवस्थादोषोपपत्तिः । तस्मात्परमात्मैवान्तर्यामी ॥ १८ ॥
न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥
स्यादेतत् —
अदृष्टत्वादयो धर्माः साङ्ख्यस्मृतिकल्पितस्य प्रधानस्याप्युपपद्यन्ते,
रूपादिहीनतया तस्य तैरभ्युपगमात् ।
‘अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः’ (मनु. १ । ५) इति हि स्मरन्ति ।
तस्यापि नियन्तृत्वं सर्वविकारकारणत्वादुपपद्यते ।
तस्मात्प्रधानमन्तर्यामिशब्दं स्यात् ।
‘ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इत्यत्र निराकृतमपि सत् प्रधानमिहादृष्टत्वादिव्यपदेशसम्भवेन पुनराशङ्क्यते ।
अत उत्तरमुच्यते —
न च स्मार्तं प्रधानमन्तर्यामिशब्दं भवितुमर्हति ।
कस्मात् ?
अतद्धर्माभिलापात् ।
यद्यप्यदृष्टत्वादिव्यपदेशः प्रधानस्य सम्भवति,
तथापि न द्रष्टृत्वादिव्यपदेशः सम्भवति,
प्रधानस्याचेतनत्वेन तैरभ्युपगमात् ।
‘अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता’ (बृ. उ. ३ । ७ । २३) इति हि वाक्यशेष इह भवति ।
आत्मत्वमपि न प्रधानस्योपपद्यते ॥ १९ ॥
यदि प्रधानमात्मत्वद्रष्टृत्वाद्यसम्भवान्नान्तर्याम्यभ्युपगम्यते,
शारीरस्तर्ह्यन्तर्यामी भवतु ।
शारीरो हि चेतनत्वाद्द्रष्टा श्रोता मन्ता विज्ञाता च भवति,
आत्मा च प्रत्यक्त्वात् ।
अमृतश्च,
धर्माधर्मफलोपभोगोपपत्तेः ।
अदृष्टत्वादयश्च धर्माः शारीरे प्रसिद्धाः ।
दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात् ।
‘न दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २) इत्यादिश्रुतिभ्यश्च ।
तस्य च कार्यकरणसङ्घातमन्तर्यमयितुं शीलम् ,
भोक्तृत्वात् ।
तस्माच्छारीरोऽन्तर्यामीत्यत उत्तरं पठति —
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥
नेति पूर्वसूत्रादनुवर्तते ।
शारीरश्च नान्तर्यामी स्यात् ।
कस्मात् ?
यद्यपि द्रष्टृत्वादयो धर्मास्तस्य सम्भवन्ति,
तथापि घटाकाशवदुपाधिपरिच्छिन्नत्वान्न कार्त्स्न्येन पृथिव्यादिष्वन्तरवस्थातुं नियन्तुं च शक्नोति ।
अपि चोभयेऽपि हि शाखिनः काण्वा माध्यन्दिनाश्चान्तर्यामिणो भेदेनैनं शारीरं पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन चाधीयते —
‘यो विज्ञाने तिष्ठन्’ (बृ. उ. ३ । ७ । २२) इति काण्वाः । ‘
य आत्मनि तिष्ठन्’
इति माध्यन्दिनाः । ‘
य आत्मनि तिष्ठन्’
इत्यस्मिंस्तावत् पाठे भवत्यात्मशब्दः शारीरस्य वाचकः । ‘
यो विज्ञाने तिष्ठन्’
इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते,
विज्ञानमयो हि शारीर इति ।
तस्माच्छारीरादन्य ईश्वरोऽन्तर्यामीति सिद्धम् ।
कथं पुनरेकस्मिन्देहे द्वौ द्रष्टारावुपपद्येते यश्चायमीश्वरोऽन्तर्यामी,
यश्चायमितरः शारीरः ?
का पुनरिहानुपपत्तिः ? ‘
नान्योऽतोऽस्ति द्रष्टा’
इत्यादिश्रुतिवचनं विरुध्येत ।
अत्र हि प्रकृतादन्तर्यामिणोऽन्यं द्रष्टारं श्रोतारं मन्तारं विज्ञातारं चात्मानं प्रतिषेधति ।
नियन्त्रन्तरप्रतिषेधार्थमेतद्वचनमिति चेत् ,
न;
नियन्त्रन्तराप्रसङ्गादविशेषश्रवणाच्च ।
अत्रोच्यते —
अविद्याप्रत्युपस्थापितकार्यकरणोपाधिनिमित्तोऽयं शारीरान्तर्यामिणोर्भेदव्यपदेशः,
न पारमार्थिकः ।
एको हि प्रत्यगात्मा भवति,
न द्वौ प्रत्यगात्मानौ सम्भवतः ।
एकस्यैव तु भेदव्यवहार उपाधिकृतः,
यथा घटाकाशो महाकाश इति ।
ततश्च ज्ञातृज्ञेयादिभेदश्रुतयः प्रत्यक्षादीनि च प्रमाणानि संसारानुभवो विधिप्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यते ।
तथा च श्रुतिः — ‘
यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’
इत्यविद्याविषये सर्वं व्यवहारं दर्शयति । ‘
यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’
इति विद्याविषये सर्वं व्यवहारं वारयति ॥ २० ॥
अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥
‘अथ परा यया तदक्षरमधिगम्यते’(मु. उ. १ । १ । ५),
‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् , नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’ (मु. उ. १ । १ । ६) इति श्रूयते ।
तत्र संशयः —
किमयमदृश्यत्वादिगुणको भूतयोनिः प्रधानं स्यात् ,
उत शारीरः,
आहोस्वित्परमेश्वर इति ।
तत्र प्रधानमचेतनं भूतयोनिरिति युक्तम् ,
अचेतनानामेव तस्य दृष्टान्तत्वेनोपादानात् ।
‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम्’ (मु. उ. १ । १ । ७) इति ।
ननूर्णनाभिः पुरुषश्च चेतनाविह दृष्टान्तत्वेनोपात्तौ;
नेति ब्रूमः ।
न हि केवलस्य चेतनस्य तत्र सूत्रयोनित्वं केशलोमयोनित्वं चास्ति ।
चेतनाधिष्ठितं ह्यचेतनमूर्णनाभिशरीरं सूत्रस्य योनिः,
पुरुषशरीरं च केशलोम्नामिति प्रसिद्धम् ।
अपि च पूर्वत्रादृष्टत्वाद्यभिलापसम्भवेऽपि द्रष्टृत्वाद्यभिलापासम्भवान्न प्रधानमभ्युपगतम् ।
इह त्वदृश्यत्वादयो धर्माः प्रधाने सम्भवन्ति ।
न चात्र विरुध्यमानो धर्मः कश्चिदभिलप्यते ।
ननु ‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) इत्ययं वाक्यशेषोऽचेतने प्रधाने न सम्भवति,
कथं प्रधानं भूतयोनिः प्रतिज्ञायत इति;
अत्रोच्यते — ‘
यया तदक्षरमधिगम्यते’ ‘
यत्तदद्रेश्यम्’
इत्यक्षरशब्देनादृश्यत्वादिगुणकं भूतयोनिं श्रावयित्वा,
पुनरन्ते श्रावयिष्यति —
‘अक्षरात्परतः परः’ (मु. उ. २ । १ । २) इति ।
तत्र यः परोऽक्षराच्छ्रुतः,
स सर्वज्ञः सर्ववित्सम्भविष्यति ।
प्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिः ।
यदा तु योनिशब्दो निमित्तवाची,
तदा शारीरोऽपि भूतयोनिः स्यात् ,
धर्माधर्माभ्यां भूतजातस्योपार्जनादिति ।
एवं प्राप्ते अभिधीयते —
योऽयमदृश्यत्वादिगुणको भूतयोनिः,
स परमेश्वर एव स्यात् ,
नान्य इति ।
कथमेतदवगम्यते ?
धर्मोक्तेः ।
परमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते — ‘
यः सर्वज्ञः सर्ववित्’
इति ।
न हि प्रधानस्याचेतनस्य शारीरस्य वोपाधिपरिच्छिन्नदृष्टेः सर्वज्ञत्वं सर्ववित्त्वं वा सम्भवति ।
नन्वक्षरशब्दनिर्दिष्टाद्भूतयोनेः परस्यैव तत्सर्वज्ञत्वं सर्ववित्त्वं च,
न भूतयोनिविषयमित्युक्तम्;
अत्रोच्यते —
नैवं सम्भवति;
यत्कारणम् ‘
अक्षरात्सम्भवतीह विश्वम्’
इति प्रकृतं भूतयोनिमिह जायमानप्रकृतित्वेन निर्दिश्य,
अनन्तरमपि जायमानप्रकृतित्वेनैव सर्वज्ञं निर्दिशति — ‘
यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते’
इति ।
तस्मान्निर्देशसाम्येन प्रत्यभिज्ञायमानत्वात्प्रकृतस्यैवाक्षरस्य भूतयोनेः सर्वज्ञत्वं सर्ववित्त्वं च धर्म उच्यत इति गम्यते । ‘
अक्षरात्परतः परः’
इत्यत्रापि न प्रकृताद्भूतयोनेरक्षरात्परः कश्चिदभिधीयते ।
कथमेतदवगम्यते ?
‘येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्’ (मु. उ. १ । २ । १३) इति प्रकृतस्यैवाक्षरस्य भूतयोनेरदृश्यत्वादिगुणकस्य वक्तव्यत्वेन प्रतिज्ञातत्वात् ।
कथं तर्हि ‘
अक्षरात्परतः परः’
इति व्यपदिश्यत इति ?
उत्तरसूत्रे तद्वक्ष्यामः ।
अपि चात्र द्वे विद्ये वेदितव्ये उक्ते — ‘
परा चैवापरा च’
इति ।
तत्रापरामृग्वेदादिलक्षणां विद्यामुक्त्वा ब्रवीति ‘
अथ परा यया तदक्षरमधिगम्यते’
इत्यादि ।
तत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम् ।
यदि पुनः परमेश्वरादन्यददृश्यत्वादिगुणकमक्षरं परिकल्प्येत,
नेयं परा विद्या स्यात् ।
परापरविभागो ह्ययं विद्ययोः अभ्युदयनिःश्रेयसफलतया परिकल्प्यते ।
न च प्रधानविद्या निःश्रेयसफला केनचिदभ्युपगम्यते ।
तिस्रश्च विद्याः प्रतिज्ञायेरन्,
त्वत्पक्षेऽक्षराद्भूतयोनेः परस्य परमात्मनः प्रतिपाद्यमानत्वात् ।
द्वे एव तु विद्ये वेदितव्ये इह निर्दिष्टे ।
‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति चैकविज्ञानेन सर्वविज्ञानापेक्षणं सर्वात्मके ब्रह्मणि विवक्ष्यमाणेऽवकल्पते,
नाचेतनमात्रैकायतने प्रधाने,
भोग्यव्यतिरिक्ते वा भोक्तरि ।
अपि च ‘स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह’ (मु. उ. १ । १ । १) इति ब्रह्मविद्यां प्राधान्येनोपक्रम्य परापरविभागेन परां विद्यामक्षराधिगमनीं दर्शयन् तस्या ब्रह्मविद्यात्वं दर्शयति ।
सा च ब्रह्मविद्यासमाख्या तदधिगम्यस्य अक्षरस्याब्रह्मत्वे बाधिता स्यात् ।
अपरा ऋग्वेदादिलक्षणा कर्मविद्या ब्रह्मविद्योपक्रमे उपन्यस्यते ब्रह्मविद्याप्रशंसायै —
‘प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति’ (मु. उ. १ । २ । ७) इत्येवमादिनिन्दावचनात् ।
निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयति —
‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ (मु. उ. १ । २ । १२) इति ।
यत्तूक्तम् —
अचेतनानां पृथिव्यादीनां दृष्टान्तत्वेनोपादानाद्दार्ष्टान्तिकेनाप्यचेतनेनैव भूतयोनिना भवितव्यमिति,
तदयुक्तम्;
न हि दृष्टान्तदार्ष्टान्तिकयोरत्यन्तसाम्येन भवितव्यमिति नियमोऽस्ति ।
अपि च स्थूलाः पृथिव्यादयो दृष्टान्तत्वेनोपात्ता इति न स्थूल एव दार्ष्टान्तिको भूतयोनिरभ्युपगम्यते ।
तस्माददृश्यत्वादिगुणको भूतयोनिः परमेश्वर एव ॥ २१ ॥
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥
इतश्च परमेश्वर एव भूतयोनिः,
नेतरौ —
शारीरः प्रधानं वा ।
कस्मात् ?
विशेषणभेदव्यपदेशाभ्याम् ।
विशिनष्टि हि प्रकृतं भूतयोनिं शारीराद्विलक्षणत्वेन —
‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २) इति ।
न ह्येतद्दिव्यत्वादिविशेषणम् अविद्याप्रत्युपस्थापितनामरूपपरिच्छेदाभिमानिनः तद्धर्मान्स्वात्मनि कल्पयतः शारीरस्योपपद्यते ।
तस्मात्साक्षादौपनिषदः पुरुष इहोच्यते ।
तथा प्रधानादपि प्रकृतं भूतयोनिं भेदेन व्यपदिशति — ‘
अक्षरात्परतः परः’
इति ।
अक्षरमव्याकृतं नामरूपबीजशक्तिरूपं भूतसूक्ष्ममीश्वराश्रयं तस्यैवोपाधिभूतम् ,
सर्वस्माद्विकारात्परो योऽविकारः,
तस्मात्परतः परः इति भेदेन व्यपदिशन् परमात्मानमिह विवक्षितं दर्शयति ।
नात्र प्रधानं नाम किञ्चित्स्वतन्त्रं तत्त्वमभ्युपगम्य,
तस्माद्भेदव्यपदेश उच्यते ।
किं तर्हि ?
यदि प्रधानमपि कल्प्यमानं श्रुत्यविरोधेनाव्याकृतादिशब्दवाच्यं भूतसूक्ष्मं परिकल्प्येत,
परिकल्प्यताम् ।
तस्माद्भेदव्यपदेशात् परमेश्वरो भूतयोनिरित्येतदिह प्रतिपाद्यते ॥ २२ ॥
कुतश्च परमेश्वरो भूतयोनिः ? —
रूपोपन्यासाच्च ॥ २३ ॥
अपि च ‘
अक्षरात्परतः परः’
इत्यस्यानन्तरम् ‘
एतस्माज्जायते प्राणः’
इति प्राणप्रभृतीनां पृथिवीपर्यन्तानां तत्त्वानां सर्गमुक्त्वा,
तस्यैव भूतयोनेः सर्वविकारात्मकं रूपमुपन्यस्यमानं पश्यामः —
‘अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’ (मु. उ. २ । १ । ४) इति ।
तच्च परमेश्वरस्यैवोचितम् ,
सर्वविकारकारणत्वात् ।
न शारीरस्य तनुमहिम्नः;
नापि प्रधानस्य अयं रूपोपन्यासः सम्भवति,
सर्वभूतान्तरात्मत्वासम्भवात् ।
तस्मात्परमेश्वर एव भूतयोनिः,
नेतराविति गम्यते ।
कथं पुनर्भूतयोनेरयं रूपोपन्यास इति गम्यते ?
प्रकरणात् , ‘
एषः’
इति च प्रकृतानुकर्षणात् ।
भूतयोनिं हि प्रकृत्य ‘
एतस्माज्जायते प्राणः’ ‘
एष सर्वभूतान्तरात्मा’
इति वचनं भूतयोनिविषयमेव भवति ।
यथा उपाध्यायं प्रकृत्य ‘
एतस्मादधीष्व,
एष वेदवेदाङ्गपारगः’
इति वचनमुपाध्यायविषयं भवति,
तद्वत् ।
कथं पुनरदृश्यत्वादिगुणकस्य भूतयोनेर्विग्रहवद्रूपं सम्भवति ?
सर्वात्मत्वविवक्षयेदमुच्यते,
न तु विग्रहवत्त्वविवक्षया इत्यदोषः, ‘
अहमन्नम्’
‘अहमन्नादः’ (तै. उ. ३ । १० । ६) इत्यादिवत् ॥
अन्ये पुनर्मन्यन्ते —
नायं भूतयोनेः रूपोपन्यासः,
जायमानत्वेनोपन्यासात् । ‘
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’
इति हि पूर्वत्र प्राणादि पृथिव्यन्तं तत्त्वजातं जायमानत्वेन निरदिक्षत् ।
उत्तरत्रापि च ‘
तस्मादग्निः समिधो यस्य सूर्यः’
इत्येवमादि ‘
अतश्च सर्वा ओषधयो रसश्च’
इत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यति ।
इहैव कथमकस्मादन्तराले भूतयोनेः रूपमुपन्यसेत् ?
सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदेक्ष्यति —
‘पुरुष एवेदं विश्वं कर्म’ (मु. उ. २ । १ । १०) इत्यादिना ।
श्रुतिस्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्जन्मादि निर्दिश्यमानमुपलभामहे —
‘हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम’ (ऋ. सं. १० । १२१ । १) इति;
समवर्ततेति अजायतेत्यर्थः —
तथा, ‘
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’
इति च ।
विकारपुरुषस्यापि सर्वभूतान्तरात्मत्वं सम्भवति,
प्राणात्मना सर्वभूतानामध्यात्ममवस्थानात् ।
अस्मिन्पक्षे ‘
पुरुष एवेदं विश्वं कर्म’
इत्यादिसर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहेतुरिति व्याख्येयम् ॥ २३ ॥
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥
‘को न आत्मा किं ब्रह्म’ (छा. उ. ५ । ११ । १) इति ‘आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि’ (छा. उ. ५ । ११ । ६) इति चोपक्रम्य द्युसूर्यवाय्वाकाशवारिपृथिवीनां सुतेजस्त्वादिगुणयोगमेकैकोपासननिन्दया च वैश्वानरं प्रत्येषां मूर्धादिभावमुपदिश्याम्नायते —
‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते, स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति;’ (छा. उ. ५ । १८ । १),
‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’ (छा. उ. ५ । १८ । २) इत्यादि ।
तत्र संशयः —
किं वैश्वानरशब्देन जाठरोऽग्निरुपदिश्यते,
उत भूताग्निः,
अथ तदभिमानिनी देवता,
अथवा शारीरः,
आहोस्वित्परमेश्वरः इति ।
किं पुनरत्र संशयकारणम् ?
वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगात् ,
आत्मेति च शारीरपरमेश्वरयोः ।
तत्र कस्योपादानं न्याय्यं कस्य वा हानमिति भवति संशयः ।
किं तावत्प्राप्तम् ?
जाठरोऽग्निरिति ।
कुतः ?
तत्र हि विशेषेण क्वचित्प्रयोगो दृश्यते —
‘अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते’ (बृ. उ. ५ । ९ । १) इत्यादौ ।
अग्निमात्रं वा स्यात् ,
सामान्येनापि प्रयोगदर्शनात् —
‘विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्’ (ऋ. सं. १० । ८८ । १२) इत्यादौ ।
अग्निशरीरा वा देवता स्यात् ,
तस्यामपि प्रयोगदर्शनात् —
‘वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः’ (ऋ. सं. १ । ९८ । १) इत्येवमाद्यायाः श्रुतेर्देवतायामैश्वर्याद्युपेतायां सम्भवात् ।
अथात्मशब्दसामानाधिकरण्यादुपक्रमे च ‘
को न आत्मा किं ब्रह्म’
इति केवलात्मशब्दप्रयोगादात्मशब्दवशेन वैश्वानरशब्दः परिणेय इत्युच्यते,
तथापि शारीर आत्मा स्यात् ।
तस्य भोक्तृत्वेन वैश्वानरसन्निकर्षात् ,
प्रादेशमात्रमिति च विशेषणस्य तस्मिन्नुपाधिपरिच्छिन्ने सम्भवात् ।
तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्ते ततः
इदमुच्यते —
वैश्वानरः परमात्मा भवितुमर्हति ।
कुतः ?
साधारणशब्दविशेषात् ।
साधारणशब्दयोर्विशेषः साधारणशब्दविशेषः ।
यद्यप्येतावुभावप्यात्मवैश्वानरशब्दौ साधारणशब्दौ —
वैश्वानरशब्दस्तु त्रयस्य साधारणः,
आत्मशब्दश्च द्वयस्य,
तथापि विशेषो दृश्यते,
येन परमेश्वरपरत्वं तयोरभ्युपगम्यते — ‘
तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः’
इत्यादिः ।
अत्र हि परमेश्वर एव द्युमूर्धत्वादिविशिष्टोऽवस्थान्तरगतः प्रत्यगात्मत्वेनोपन्यस्त आध्यानायेति गम्यते,
कारणत्वात् ।
कारणस्य हि सर्वाभिः कार्यगताभिरवस्थाभिरवस्थावत्त्वात् द्युलोकाद्यवयवत्वमुपपद्यते । ‘
स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति’
इति च सर्वलोकाद्याश्रयं फलं श्रूयमाणं परमकारणपरिग्रहे सम्भवति,
‘एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इति च तद्विदः सर्वपाप्मप्रदाहश्रवणम् , ‘
को न आत्मा किं ब्रह्म’
इति चात्मब्रह्मशब्दाभ्यामुपक्रमः; —
इत्येवमेतानि लिङ्गानि परमेश्वरमेव गमयन्ति ।
तस्मात्परमेश्वर एव वैश्वानरः ॥ २४ ॥
स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥
इतश्च परमेश्वर एव वैश्वानरः; यस्मात्परमेश्वरस्यैव ‘अग्निरास्यं द्यौर्मूर्धा’ इतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते — ‘यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः’ इति । एतत्स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य वैश्वानरशब्दस्य परमेश्वरपरत्वे अनुमानं लिङ्गं गमकं स्यादित्यर्थः । इतिशब्दो हेत्वर्थे — यस्मादिदं गमकम् , तस्मादपि वैश्वानरः परमात्मैवेत्यर्थः । यद्यपि स्तुतिरियम् — ‘तस्मै लोकात्मने नमः’ इति, तथापि स्तुतित्वमपि नासति मूलभूते वेदवाक्ये सम्यक् ईदृशेन रूपेण सम्भवति । ‘द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिशः श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता’ इत्येवंजातीयका च स्मृतिरिहोदाहर्तव्या ॥ २५ ॥
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
अत्राह —
न परमेश्वरो वैश्वानरो भवितुमर्हति ।
कुतः ?
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च ।
शब्दस्तावत् —
वैश्वानरशब्दो न परमेश्वरे सम्भवति,
अर्थान्तरे रूढत्वात् ।
तथाग्निशब्दः ‘
स एषोऽग्निर्वैश्वानरः’
इति ।
आदिशब्दात् ‘हृदयं गार्हपत्यः’ (छा. उ. ५ । १८ । २) इत्याद्यग्नित्रेताप्रकल्पनम्;
‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ (छा. उ. ५ । १९ । १) इत्यादिना च प्राणाहुत्यधिकरणतासङ्कीर्तनम् ।
एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यः ।
तथान्तःप्रतिष्ठानमपि श्रूयते — ‘
पुरुषेऽन्तः प्रतिष्ठितं वेद’
इति ।
तच्च जाठरे सम्भवति ।
यदप्युक्तम् ‘
मूर्धैव सुतेजाः’
इत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति,
अत्र ब्रूमः —
कुतो ह्येष निर्णयः,
यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो न जाठरविषय इति ।
अथवा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यैष निर्देशो भविष्यति ।
तस्यापि हि द्युलोकादिसम्बन्धो मन्त्रवर्णादवगम्यते —
‘यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम्’ (ऋ. सं. १० । ८८ । ४) इत्यादौ ।
अथवा तच्छरीराया देवताया ऐश्वर्ययोगात् द्युलोकाद्यवयवत्वं भविष्यति ।
तस्मान्न परमेश्वरो वैश्वानर इति ॥
अत्रोच्यते —
न तथादृष्ट्युपदेशादिति ।
न शब्दादिभ्यः कारणेभ्यः परमेश्वरस्य प्रत्याख्यानं युक्तम् ।
कुतः ?
तथा जाठरापरित्यागेन,
दृष्ट्युपदेशात् ।
परमेश्वरदृष्टिर्हि जाठरे वैश्वानरे इहोपदिश्यते —
‘मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) इत्यादिवत् ।
अथवा जाठरवैश्वानरोपाधिः परमेश्वर इह द्रष्टव्यत्वेनोपदिश्यते —
‘मनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) इत्यादिवत् ।
यदि चेह परमेश्वरो न विवक्ष्येत,
केवल एव जाठरोऽग्निर्विवक्ष्येत,
ततः ‘
मूर्धैव सुतेजाः’
इत्यादेर्विशेषस्यासम्भव एव स्यात् ।
यथा तु देवताभूताग्निव्यपाश्रयेणाप्ययं विशेष उपपादयितुं न शक्यते,
तथोत्तरसूत्रे वक्ष्यामः ।
यदि च केवल एव जाठरो विवक्ष्येत,
पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं तस्य स्यात् ।
न तु पुरुषत्वम् ।
पुरुषमपि चैनमधीयते वाजसनेयिनः —
‘स एषोऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषेऽन्तः प्रतिष्ठितं वेद’ (श. ब्रा. १० । ६ । १ । ११) इति ।
परमेश्वरस्य तु सर्वात्मत्वात्पुरुषत्वं पुरुषेऽन्तःप्रतिष्ठितत्वं चोभयमुपपद्यते ।
ये तु ‘
पुरुषविधमपि चैनमधीयते’
इति सूत्रावयवं पठन्ति,
तेषामेषोऽर्थः —
केवलजाठरपरिग्रहे पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं स्यात् ।
न तु पुरुषविधत्वम् ।
पुरुषविधमपि चैनमधीयते वाजसनेयिनः — ‘
पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’
इति ।
पुरुषविधत्वं च प्रकरणात् यदधिदैवतं द्युमूर्धत्वादि पृथिवीप्रतिष्ठितत्वान्तम् ,
यच्चाध्यात्मं प्रसिद्धं मूर्धत्वादि चुबुकप्रतिष्ठितत्वान्तम् ,
तत्परिगृह्यते ॥ २६ ॥
अत एव न देवता भूतं च ॥ २७ ॥
यत्पुनरुक्तम् — भूताग्नेरपि मन्त्रवर्णे द्युलोकादिसम्बन्धदर्शनात् ‘मूर्धैव सुतेजाः’ इत्याद्यवयवकल्पनं तस्यैव भविष्यतीति, तच्छरीराया देवताया वा ऐश्वर्ययोगादिति; तत्परिहर्तव्यम् । अत्रोच्यते — अत एवोक्तेभ्यो हेतुभ्यो न देवता वैश्वानरः । तथा भूताग्निरपि न वैश्वानरः । न हि भूताग्नेरौष्ण्यप्रकाशमात्रात्मकस्य द्युमूर्धत्वादिकल्पनोपपद्यते, विकारस्य विकारान्तरात्मत्वासम्भवात् । तथा देवतायाः सत्यप्यैश्वर्ययोगे न द्युमूर्धत्वादिकल्पना सम्भवति, अकारणत्वात् परमेश्वराधीनैश्वर्यत्वाच्च । आत्मशब्दासम्भवश्च सर्वेष्वेषु पक्षेषु स्थित एव ॥ २७ ॥
साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥
पूर्वं जाठराग्निप्रतीको जाठराग्न्युपाधिको वा परमेश्वर उपास्य इत्युक्तम् अन्तःप्रतिष्ठितत्वाद्यनुरोधेन । इदानीं तु विनैव प्रतीकोपाधिकल्पनाभ्यां साक्षादपि परमेश्वरोपासनपरिग्रहे न कश्चिद्विरोध इति जैमिनिराचार्यो मन्यते । ननु जाठराग्न्यपरिग्रहेऽन्तःप्रतिष्ठितत्ववचनं शब्दादीनि च कारणानि विरुध्येरन्निति । अत्रोच्यते — अन्तःप्रतिष्ठितत्ववचनं तावन्न विरुध्यते । न हीह ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति जाठराग्न्यभिप्रायेणेदमुच्यते, तस्याप्रकृतत्वादसंशब्दितत्वाच्च । कथं तर्हि ? यत्प्रकृतं मूर्धादिचुबुकान्तेषु पुरुषावयवेषु पुरुषविधत्वं कल्पितम् , तदभिप्रायेणेदमुच्यते — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति । यथा वृक्षे शाखां प्रतिष्ठितां पश्यतीति, तद्वत् । अथवा यः प्रकृतः परमात्मा अध्यात्ममधिदैवतं च पुरुषविधत्वोपाधिः, तस्य यत्केवलं साक्षिरूपम् , तदभिप्रायेणेदमुच्यते — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति । निश्चिते च पूर्वापरालोचनवशेन परमात्मपरिग्रहे, तद्विषय एव वैश्वानरशब्दः केनचिद्योगेन वर्तिष्यते — विश्वश्चायं नरश्चेति, विश्वेषां वायं नरः, विश्वे वा नरा अस्येति विश्वानरः परमात्मा, सर्वात्मत्वात् , विश्वानर एव वैश्वानरः । तद्धितोऽनन्यार्थः, राक्षसवायसादिवत् । अग्निशब्दोऽप्यग्रणीत्वादियोगाश्रयणेन परमात्मविषय एव भविष्यति । गार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणत्वं च परमात्मनोऽपि सर्वात्मत्वादुपपद्यते ॥ २८ ॥
कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरुपपद्यत इति, तां व्याख्यातु मारभते —
अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥
अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात् । अभिव्यज्यते किल प्रादेशमात्रपरिमाणः परमेश्वर उपासकानां कृते । प्रदेशविशेषेषु वा हृदयादिषूपलब्धिस्थानेषु विशेषेणाभिव्यज्यते । अतः परमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्यो मन्यते ॥ २९ ॥
अनुस्मृतेर्बादरिः ॥ ३० ॥
प्रादेशमात्रहृदयप्रतिष्ठेन वायं मनसानुस्मर्यते । तेन ‘प्रादेशमात्रः’ इत्युच्यते । यथा प्रस्थमिता यवाः प्रस्था इत्युच्यन्ते, तद्वत् । यद्यपि च यवेषु स्वगतमेव परिमाणं प्रस्थसम्बन्धाद्व्यज्यते, न चेह परमेश्वरगतं किञ्चित्परिमाणमस्ति, यद्धृदयसम्बन्धाद्व्यज्येत; तथापि प्रयुक्तायाः प्रादेशमात्रश्रुतेः सम्भवति यथाकथञ्चिदनुस्मरणमालम्बनमित्युच्यते । प्रादेशमात्रत्वेन वायमप्रादेशमात्रोऽप्यनुस्मरणीयः प्रादेशमात्रश्रुत्यर्थवत्तायै । एवमनुस्मृतिनिमित्ता परमेश्वरे प्रादेशमात्रश्रुतिरिति बादरिराचार्यो मन्यते ॥ ३० ॥
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥
सम्पत्तिनिमित्ता वा स्यात्प्रादेशमात्रश्रुतिः । कुतः ? तथाहि समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु सम्पादयत्प्रादेशमात्रसम्पत्तिं परमेश्वरस्य दर्शयति — ‘प्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसम्पन्नास्तथा नु व एतान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति । स होवाच मूर्धानमुपदिशन्नुवाचैष वा अतिष्ठा वैश्वानर इति । चक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इति । नासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इति । मुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वानर इति । मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इति । चुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानरः’ इति । चुबुकमित्यधरं मुखफलकमुच्यते । यद्यपि वाजसनेयके द्यौरतिष्ठात्वगुणा समाम्नायते, आदित्यश्च सुतेजस्त्वगुणः, छान्दोग्ये पुनः द्यौः सुतेजस्त्वगुणा समाम्नायते, आदित्यश्च विश्वरूपत्वगुणः; तथापि नैतावता विशेषेण किञ्चिद्धीयते, प्रादेशमात्रश्रुतेरविशेषात् , सर्वशाखाप्रत्ययत्वाच्च । सम्पत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते ॥ ३१ ॥
आमनन्ति चैनमस्मिन् ॥ ३२ ॥
आमनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जाबालाः — ‘
य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ।
सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति ।
वरणायां नास्यां च मध्ये प्रतिष्ठित इति ।
का वै वरणा का च नासीति’ ।
तत्र चेमामेव नासिकाम् ‘
सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा,
सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासी’
इति वरणानासीति निरुच्य,
पुनरप्यामनन्ति —
‘कतमच्चास्य स्थानं भवतीति । भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्युलोकस्य परस्य च सन्धिर्भवति’ (जा. उ. २) इति ।
तस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः ।
अभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्राया ।
प्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिविमानः ।
अभिगतो वायं प्रत्यगात्मत्वात् ,
विमानश्च मानवियोगात् इत्यभिविमानः ।
अभिविमिमीते वा सर्वं जगत् ,
कारणत्वादित्यभिविमानः ।
तस्मात्परमेश्वरो वैश्वानर इति सिद्धम् ॥ ३२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य द्वितीयः पादः ॥