प्रथमोऽध्यायः
प्रथमः पादः
जिज्ञासाधिकरणम्
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
जन्माद्यधिकरणम्
जन्माद्यस्य यतः ॥ २ ॥
शास्त्रयोनित्वाधिकरणम्
शास्त्रयोनित्वात् ॥ ३ ॥
समन्वयाधिकरणम्
तत्तु समन्वयात् ॥ ४ ॥
ईक्षत्यधिकरणम्
ईक्षतेर्नाशब्दम् ॥ ५ ॥
गौणश्चेन्नात्मशब्दात् ॥ ६ ॥
तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥
हेयत्वावचनाच्च ॥ ८ ॥
स्वाप्ययात् ॥ ९ ॥
गतिसामान्यात् ॥ १० ॥
श्रुतत्वाच्च ॥ ११ ॥
आनन्दमयाधिकरणम्
आनन्दमयोऽभ्यासात् ॥ १२ ॥
विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥
तद्धेतुव्यपदेशाच्च ॥ १४ ॥
मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥
नेतरोऽनुपपत्तेः ॥ १६ ॥
भेदव्यपदेशाच्च ॥ १७ ॥
कामाच्च नानुमानापेक्षा ॥ १८ ॥
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
अन्तरधिकरणम्
अन्तस्तद्धर्मोपदेशात् ॥ २० ॥
भेदव्यपदेशाच्चान्यः ॥ २१ ॥
आकाशाधिकरणम्
आकाशस्तल्लिङ्गात् ॥ २२ ॥
प्राणाधिकरणम्
अत एव प्राणः ॥ २३ ॥
ज्योतिश्चरणाधिकरणम्
ज्योतिश्चरणाभिधानात् ॥ २४ ॥
छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथाहि दर्शनम् ॥२५॥
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
प्रतर्दनाधिकरणम्
प्राणस्तथानुगमात् ॥ २८ ॥
न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ २९ ॥
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
द्वितीयः पादः
सर्वत्रप्रसिद्ध्यधिकरणम्
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
विवक्षितगुणोपपत्तेश्च ॥ २ ॥
अनुपपत्तेस्तु न शारीरः ॥ ३ ॥
कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥
शब्दविशेषात् ॥ ५ ॥
स्मृतेश्च ॥ ६ ॥
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥
अत्त्रधिकरणम्
अत्ता चराचरग्रहणात् ॥ ९ ॥
प्रकरणाच्च ॥ १० ॥
गुहाप्रविष्टाधिकरणम्
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
विशेषणाच्च ॥ १२ ॥
अन्तराधिकरणम्
अन्तर उपपत्तेः ॥ १३ ॥
स्थानादिव्यपदेशाच्च ॥ १४ ॥
सुखविशिष्टाभिधानादेव च ॥ १५ ॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥
अनवस्थितेरसम्भवाच्च नेतरः ॥ १७ ॥
अन्तर्याम्यधिकरणम्
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥
न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥
अदृश्यत्वाधिकरणम्
अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥
रूपोपन्यासाच्च ॥ २३ ॥
वैश्वानराधिकरणम्
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥
स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
अत एव न देवता भूतं च ॥ २७ ॥
साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥
अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥
अनुस्मृतेर्बादरिः ॥ ३० ॥
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥
आमनन्ति चैनमस्मिन् ॥ ३२ ॥
तृतीयः पादः
द्युभ्वाद्यधिकरणम्
द्युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥
मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥
नानुमानमतच्छब्दात् ॥ ३ ॥
प्राणभृच्च ॥ ४ ॥
भेदव्यपदेशात् ॥ ५ ॥
प्रकरणात् ॥ ६ ॥
स्थित्यदनाभ्यां च ॥ ७ ॥
भूमाधिकरणम्
भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥
धर्मोपपत्तेश्च ॥ ९ ॥
अक्षराधिकरणम्
अक्षरमम्बरान्तधृतेः ॥ १० ॥
सा च प्रशासनात् ॥ ११ ॥
अन्यभावव्यावृत्तेश्च ॥ १२ ॥
ईक्षतिकर्माधिकरणम्
ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥
दहराधिकरणम्
दहर उत्तरेभ्यः ॥ १४ ॥
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५ ॥
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥
प्रसिद्धेश्च ॥ १७ ॥
इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ १८ ॥
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥
अन्यार्थश्च परामर्शः ॥ २० ॥
अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥
अनुकृत्यधिकरणम्
अनुकृतेस्तस्य च ॥ २२ ॥
अपि च स्मर्यते ॥ २३ ॥
प्रमिताधिकरणम्
शब्दादेव प्रमितः ॥ २४ ॥
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥
देवताधिकरणम्
तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
अत एव च नित्यत्वम् ॥ २९ ॥
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॥ ३० ॥
मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ ३१ ॥
ज्योतिषि भावाच्च ॥ ३२ ॥
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
अपशूद्राधिकरणम्
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥
क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥
संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६ ॥
तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥
श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८ ॥
कम्पनाधिकरणम्
कम्पनात् ॥ ३९ ॥
ज्योतिरधिकरणम्
ज्योतिर्दर्शनात् ॥ ४० ॥
अर्थान्तरत्वादिव्यपदेशाधिकरणम्
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥
सुषुप्त्युत्क्रान्त्यधिकरणम्
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
पत्यादिशब्देभ्यः ॥ ४३ ॥
चतुर्थः पादः
आनुमानिकाधिकरणम्
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥
सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥
तदधीनत्वादर्थवत् ॥ ३ ॥
ज्ञेयत्वावचनाच्च ॥ ४ ॥
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
महद्वच्च ॥ ७ ॥
चमसाधिकरणम्
चमसवदविशेषात् ॥ ८ ॥
ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥
कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥
संख्योपसङ्ग्रहाधिकरणम्
न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥
प्राणादयो वाक्यशेषात् ॥ १२ ॥
ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥
कारणत्वाधिकरणम्
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥
समाकर्षात् ॥ १५ ॥
बालाक्यधिकरणम्
जगद्वाचित्वात् ॥ १६ ॥
जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥ १७ ॥
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८ ॥
वाक्यान्वयाधिकरणम्
वाक्यान्वयात् ॥ १९ ॥
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥
उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥ २१ ॥
अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥
प्रकृत्यधिकरणम्
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
अभिध्योपदेशाच्च ॥ २४ ॥
साक्षाच्चोभयाम्नानात् ॥ २५ ॥
आत्मकृतेः परिणामात् ॥ २६ ॥
योनिश्च हि गीयते ॥ २७ ॥
सर्वव्याख्यानाधिकरणम्
एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥