एवं पृष्टवते योग्यायाह गुरुः । शृणु यत् त्वं पृच्छसि, मनआदिकरणजातस्य को देवः स्वविषयं प्रति प्रेरयिता कथं वा प्रेरयतीति । श्रोत्रस्य श्रोत्रं शृणोत्यनेनेति श्रोत्रम् , शब्दस्य श्रवणं प्रति करणं शब्दाभिव्यञ्जकं श्रोत्रमिन्द्रियम् , तस्य श्रोत्रं सः यस्त्वया पृष्टः
‘चक्षुःश्रोत्रं क उ देवो युनक्ति’ (के. उ. १ । १) इति । असावेवंविशिष्टः श्रोत्रादीनि नियुङ्क्त इति वक्तव्ये, नन्वेतदननुरूपं प्रतिवचनं श्रोत्रस्य श्रोत्रमिति । नैष दोषः, तस्यान्यथा विशेषानवगमात् । यदि हि श्रोत्रादिव्यापारव्यतिरिक्तेन स्वव्यापारेण विशिष्टः श्रोत्रादिनियोक्ता अवगम्येत दात्रादिप्रयोक्तृवत् , तदेदमननुरूपं प्रतिवचनं स्यात् । न त्विह श्रोत्रादीनां प्रयोक्ता स्वव्यापारविशिष्टो लवित्रादिवदधिगम्यते । श्रोत्रादीनामेव तु संहतानां व्यापारेणालोचनसङ्कल्पाध्यवसायलक्षणेन फलावसानलिङ्गेनावगम्यते — अस्ति हि श्रोत्रादिभिरसंहतः, यत्प्रयोजनप्रयुक्तः श्रोत्रादिकलापः गृहादिवदिति । संहतानां परार्थत्वादवगम्यते श्रोत्रादीनां प्रयोक्ता । तस्मादनुरूपमेवेदं प्रतिवचनं श्रोत्रस्य श्रोत्रमित्यादि । कः पुनरत्र पदार्थः श्रोत्रस्य श्रोत्रमित्यादेः ? न ह्यत्र श्रोत्रस्य श्रोत्रान्तरेणार्थः, यथा प्रकाशस्य प्रकाशान्तरेण । नैष दोषः । अयमत्र पदार्थः — श्रोत्रं तावत्स्वविषयव्यञ्जनसमर्थं दृष्टम् । तत्तु स्वविषयव्यञ्जनसामर्थ्यं श्रोत्रस्य चैतन्ये ह्यात्मज्योतिषि नित्येऽसंहते सर्वान्तरे सति भवति, न असति इति । अतः श्रोत्रस्य श्रोत्रमित्याद्युपपद्यते । तथा च श्रुत्यन्तराणि —
‘आत्मनैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ६) ‘तस्य भासा सर्वमिदं विभाति’ (मु. उ. २ । २ । १०) ‘येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३ । १२ । ९ । ७) इत्यादीनि ।
‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । ’ (भ. गी. १५ । १२) ‘क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत’ (भ. गी. १३ । ३३) इति च गीतासु । काठके च
‘नित्यो नित्यानां चेतनश्चेतनानाम्’ (क. उ. २ । २ । १३) इति । श्रोत्राद्येव सर्वस्यात्मभूतं चेतनामिति प्रसिद्धम् ; तदिह निवर्त्यते । अस्ति किमपि विद्वद्बुद्धिगम्यं सर्वान्तरतमं कूटस्थमजमजरममृतमभयं श्रोत्रादेरपि श्रोत्रादि तत्सामर्थ्यनिमित्तम् इति प्रतिवचनं शब्दार्थश्चोपपद्यत एव । तथा मनसः अन्तःकरणस्य मनः । न ह्यन्तःकरणम् अन्तरेण चैतन्यज्योतिषो दीधितिं स्वविषयसङ्कल्पाध्यवसायादिसमर्थं स्यात् । तस्मान्मनसोऽपि मन इति । इह बुद्धिमनसी एकीकृत्य निर्देशो मनस इति । यद्वाचो ह वाचम् ; यच्छब्दो यस्मादर्थे श्रोत्रादिभिः सर्वैः सम्बध्यते — यस्माच्छ्रोत्रस्य श्रोत्रम् , यस्मान्मनसो मन इत्येवम् । वाचो ह वाचमिति द्वितीया प्रथमात्वेन विपरिणम्यते, प्राणस्य प्राण इति दर्शनात् । वाचो ह वाचमित्येतदनुरोधेन प्राणस्य प्राणमिति कस्माद्द्वितीयैव न क्रियते ? न ; बहुनामनुरोधस्य युक्तत्वात् । वाचमित्यस्य वागित्येतावद्वक्तव्यं स उ प्राणस्य प्राण इति शब्दद्वयानुरोधेन ; एवं हि बहूनामनुरोधो युक्तः कृतः स्यात् । पृष्टं च वस्तु प्रथमयैव निर्देष्टुं युक्तम् । स यस्त्वया पृष्टः प्राणस्य प्राणाख्यवृत्तिविशेषस्य प्राणः, तत्कृतं हि प्राणस्य प्राणनसामर्थ्यम् । न ह्यात्मनानधिष्ठितस्य प्राणनमुपपद्यते,
‘को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) ‘ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति’ (क. उ. २ । २ । ३) इत्यादिश्रुतिभ्यः । इहापि च वक्ष्यते
‘येन प्राणः प्रणीयते तदेव ब्रह्म त्वं विद्धि’ (के. उ. १ । ८) इति । श्रोत्रादीन्द्रियप्रस्तावे घ्राणस्येव प्राणस्य न तु युक्तं ग्रहणम् । सत्यमेवम् । प्राणग्रहणेनैव तु घ्राणस्य ग्रहणं कृतमेव मन्यते श्रुतिः । सर्वस्यैव करणकलापस्य यदर्थप्रयुक्ता प्रवृत्तिः, तद्ब्रह्मेति प्रकरणार्थो विवक्षितः । तथा चक्षुषश्चक्षुः रूपप्रकाशकस्य चक्षुषो यद्रूपग्रहणसामर्थ्यं तदात्मचैतन्याधिष्ठितस्यैव । अतश्चक्षुषश्चक्षुः । प्रष्टुः पृष्टस्यार्थस्य ज्ञातुमिष्टत्वात् श्रोत्रादेः श्रोत्रादिलक्षणं यथोक्तं ब्रह्म ‘ज्ञात्वा’ इत्यध्याह्रियते ; अमृता भवन्ति इति फलश्रुतेश्च । ज्ञानाद्ध्यमृतत्वं प्राप्यते । ज्ञात्वा अतिमुच्य इति सामर्थ्यात् श्रोत्रादिकरणकलापमुज्झित्वा — श्रोत्रादौ ह्यात्मभावं कृत्वा, तदुपाधिः सन् , तदात्मना जायते म्रियते संसरति च । अतः श्रोत्रादेः श्रोत्रादिलक्षणं ब्रह्मात्मेति विदित्वा, अतिमुच्य श्रोत्राद्यात्मभावं परित्यज्य — ये श्रोत्राद्यात्मभावं परित्यजन्ति, ते धीराः धीमन्तः । न हि विशिष्टधीमत्त्वमन्तरेण श्रोत्राद्यात्मभावः शक्यः परित्युक्तम् । प्रेत्य व्यावृत्य अस्मात् लोकात् पुत्रमित्रकलत्रबन्धुषु ममाहम्भावसंव्यवहारलक्षणात् , त्यक्तसर्वैषणा भूत्वेत्यर्थः । अमृताः अमरणधर्माणः भवन्ति ।
‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (तै. ना. २८) ‘पराञ्चि खानि व्यतृणत् . . . आवृत्तचक्षुरमृतत्वमिच्छन्’ (क. उ. २ । १ । १) ‘यदा सर्वे प्रमुच्यन्ते . . . अत्र ब्रह्म समश्नुते’ (क. उ. २ । ३ । १४) इत्यादिश्रुतिभ्यः । अथवा, अतिमुच्येत्यनेनैवैषणात्यागस्य सिद्धत्वात् अस्माल्लोकात्प्रेत्य अस्माच्छरीरादपेत्य मृत्वेत्यर्थः ॥