मुदा करात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥
नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥
समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३॥
अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं कपोलदानवारणं भजे पुराणवारणम् ॥ ४॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ ५॥
महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन्गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां समीहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥
नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥ १ ॥
मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारमुख्यबहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय ॥ २॥
शिवाय गौरीवदनारविन्द-सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय ॥ ३ ॥
वसिष्ठकुम्भोद्भवगौतमार्यमुनीन्द्रदेवार्चितशेखराय ।
पन्द्रार्कवैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय॥ ४ ॥
यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय ॥ ५ ॥
त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं प्रतिबिम्बालंकृतिधृतिकुशलो बिम्बालंकृतिमातनुते ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघ पदसरसिजमकरन्दम् ॥ १ ॥
शुक्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चेत् दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघ पदसरसिजमकरन्दम् ॥ २ ॥
आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेऽस्मिन् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघ पदसरसिजमकरन्दम् ॥ ३ ॥
स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे गन्धफलीसदृशा ननु तेऽमी भोगानन्तरदुःखकृतः स्युः ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघ पदसरसिजमकरन्दम् ॥ ४ ॥
तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततं स्वप्ने दृष्टं सकलं हि म्रुषा जाग्रति च स्मर तद्वदिति ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघ पदसरसिजमकरन्दम् ॥ ५ ॥
वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् ।
सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ १॥
तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम् ।
संजीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २॥
शम्बरवैरिशरातिगमम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ॥ ३॥
दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४॥
वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृक्षम् ।
दीनजनावनदीक्षं पवनतपःपाकपुञ्जमद्राक्षम् ॥ ५॥
एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निखिलान्भोगान्भुङ्क्त्वा श्रीरामभक्तिभाग्भवति ॥
वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् ।
पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयतां आत्मेच्छा व्यवसीयतां निजगृहत्तूर्णं विनिर्गम्यताम् ॥ १॥
सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाधीयतां शान्त्यादिः परिचीयतां दृढतरं कर्माशु संत्यज्यताम् ।
सद्विद्वानुपसर्प्यतामनुदिनं तत्पादुका सेव्यतां ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥ २॥
वाक्यार्थः सुविचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसंघीयताम् ।
ब्रह्मास्मीति विभाव्यतामहरहर्गर्वः परित्यज्यतां देहेऽहम्मतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥ ३ ॥
क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां स्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन संतुष्यताम् ।
औदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्यमृत्सृज्यतां शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यताम् ॥ ४॥
एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्भाधितं दृश्यताम् ।
प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥ ५॥
नाहं देहो नेन्द्रियाण्यन्तरङ्गो नाहंकारः प्राणवर्गो न बुद्धिः ।
दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥ १ ॥
रज्ज्वज्ञानाद्भाति रज्जुर्यथाहिः स्वात्माज्ञानादात्मनो जीवभावः ।
आप्तोक्त्याऽहिभ्रान्तिनाशे स रज्जु- र्जीवो नाहं देशिकोक्त्या शिवोऽहम् ॥ २ ॥
आभातीदं विश्वमात्मन्यसत्यं सत्यज्ञानानन्दरूपे विमोहात् ।
निद्रामोहात्स्वप्नवत्तन्न सत्यं शुद्धः पूर्णो नित्य एकः शिवोऽहम् ॥ ३ ॥
नाहं जातो न प्रवृद्धो न नष्टो देहस्योक्ताः प्राकृताः सर्वधर्माः ।
कर्तृत्वादिश्चिन्मयस्यास्ति नाहं- कारस्यैव ह्यात्मनो मे शिवोऽहम् ॥ ४ ॥
मत्तो नान्यत्किञ्चिदत्रास्ति विश्वं सत्यं बाह्यं वस्तु मायोपक्लुप्तम् ।
आदर्शान्तर्भासमानस्य तुल्यं मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥ ५ ॥
बेदान्तवाक्येषु सदा रमन्तो भिक्षान्नमात्रेण च तुष्टिमन्तः ।
विशोकवन्तः करणैकवन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ १ ॥
मूलं तरोः केवलमाश्रयन्तः पाणिद्वयं भोक्तुममत्त्रयन्तः ।
कन्थामिव श्रीमपि कुत्सयन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ २ ॥
देहादिभावं परिमार्जयन्त आत्मानमात्मन्यवलोकयन्तः ।
नान्तर्न मध्यं न बहिः स्मरन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ३ ॥
स्वानन्दभावे परितुष्टिमन्तः संशान्तसर्वेन्द्रियदृष्टिमन्तः ।
अहर्निशं ब्रह्मणि में रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ४ ॥
पञ्चाक्षरं पावनमुच्चरन्तः पतिं पशूनां हृदि भावयन्तः ।
भिक्षाशना दिक्षु परिभ्रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ५ ॥
निरुपमनित्यनिरंशकेऽप्यखण्डे मयि चिति सर्वविकल्पनादिशून्ये ।
घटयति जगदीशजीवभेदं त्वघटितघटनापटीयसी माया ॥ १ ॥
श्रुतिशतनिगमान्तशोधकानप्यहह धनादिनिदर्शनेन सद्यः ।
कलुषयति चतुष्पदाद्यभिन्नान् अघटितघटनापटीयसी माया ॥ २ ॥
सुखचिदखण्डविबोधमद्वितीयं वियदनिलादिविनिर्मिते नियोज्य ।
भ्रमयति भवसागरे नितान्तं त्वघटितघटनापटीयसी माया ॥ ३ ॥
अपगतगुणवर्णजातिभेदे सुखचिति विप्रविडाद्यहंकृतिं च ।
स्फुटयति सुतदारगेहमोहं त्वघटितघटनापटीयसी माया ॥ ४ ॥
विधिहरिहर भेदमप्यखण्डे बत विरचय्य बुधानपि प्रकामम् ।
भ्रमयति हरिहरविभेदभावान् अघटितघटनापटीयसी माया ॥ ५ ॥
उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां बिम्बोष्ठीं स्मितदन्तपत्ङ्किरुचिरां पीताम्बरालंकृताम् ।
विष्णुब्रह्मसुरेंद्रसेवितपदां तत्त्चस्वरुपां शिवां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ १ ॥
मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां शिञ्जन्नूपुरकिंकिणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ २ ॥
श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलां श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमञ्जगन्मोहिनीं मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ ३ ॥
श्रीमत्सुंदरनायिकां भयहरां ज्ञानप्रदां निर्मलां श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडम्बिकां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ ४ ॥
नानायोगिमुनीन्द्रहृन्निवसतिं नानार्थसिद्धिप्रदां नानापुष्पविराजितांघ्रियुगलां नारायणेनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्त्वात्मिकां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ ५ ॥
माता नास्ति पिता नास्ति नास्ति बन्धुः सहोदरः ।
अर्थो नास्ति गृहं नास्ति तस्मात् जागृत जागृत ॥ १ ॥
जन्म दुःखं जरा दुःखं जाया दुःखं पुनः पुनः ।
संसारसागरं दुःखं तस्मात् जागृत जागृत ॥ २ ॥
कामः क्रोधश्च लोभश्च देहे तिष्ठन्ति तस्कराः ।
ज्ञानरत्नापहाराय तस्मात् जागृत जागृत ॥ ३ ॥
आशया बध्यते लोको कर्मणा बहुचिन्तया ।
आयुः क्षीणं न जानंति तस्मात् जागृत जागृत ॥ ४ ॥
संपदः स्वप्नसंकाशाः यौवनं कुसुमोपमम् ।
विद्युच्चञ्चलमायुष्यं तस्मात् जागृत जागृत ॥ ५ ॥
जाग्रत्वस्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते या ब्रह्मादि पिपीलिकान्त तनुषु प्रोता जगत्साक्षिणी ।
सैवाहं न च दृश्यवस्थ्विति दृढप्रज्ञापि यस्यास्ति चे- च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ १ ॥
ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् ।
इथ्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ २ ॥
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरोः नित्यं ब्रह्मनिरन्तरं विमृशता निर्व्याजशान्तात्मना ।
भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीना मम ॥ ३॥
या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते यद्भासा हृदयाक्षदेहविषया भान्ति स्वतोऽचेतनाः। तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावयन्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥ ४॥
यत्सौख्याम्बुधिलेशलेशत इमे शक्रादयो निर्वृता यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिनिर्वृतः ।
यस्मिन्नित्यसुखाम्बुधौ गलितधीर्ब्रह्मैव न ब्रह्मवित् यः कचित् स सुरेन्द्रवन्दितपदो नूनं मनीषा मम ॥ ५ ॥
मनोनिवृत्तिः परमोपशान्तिः सा तीर्थवर्या मणिकर्णिका च ।
ज्ञानप्रवाहा विमलादिगङ्गा सा काशिकाऽहं निजबोधरूपा ॥ १ ॥
यस्यामिदं कल्पितमिन्द्रजालं चराचरं भाति मनोविलासम् ।
सचित्सुखैका परमात्मरूपा ता काशिकाऽहं निजबोचरूपा ॥ २ ॥
कोशेषु पञ्चस्वधिराजमाना बुद्धिर्भवानी प्रतिदेहगेहम् ।
साक्षी शिवः सर्वगतोऽन्तरात्मा सा काशिकाऽई निजबोधरूपा ॥ ३ ॥
काश्यां हि काशते काशी काशी सर्वप्रकाशिका ।
सा काशी विदिता येन तेन प्राप्ता हि काशिका ॥ ४ ॥
काशीक्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञानगङ्गा भक्तिः श्रद्धा गयेयं निजगुरुचरणध्यानयोगः प्रयागः ।
विश्वेशोऽयं तुरीयः सकलजनमनःसाक्षिभूतोऽन्तरात्मा देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति ॥ ५ ॥