उद्घाट्य योगकलया हृदयाब्जकोशं
धन्यैश्चिरादपि यथारुचि गृह्यमाणः ।
यः प्रस्फुरत्यविरतं परिपूर्णरूपः
श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ १॥
यस्याहुरागमविदः परिपूर्णशक्ते –
रंशे कियत्यपि निविष्टममुं प्रपञ्चम् ।
तस्मै तमालरुचिभासुरकन्धराय
नारायणीसहचराय नमः शिवाय ॥ २ ॥
आसेतुबन्धतटमा च तुषारशैला –
दाचार्यदीक्षित इति प्रथिताभिधानम् ।
अद्वैतचित्सुखमहाम्बुधिमग्नभाव –
मस्मत्पितामहमशेषगुरुं प्रपद्ये ॥ ३ ॥
यं ब्रह्म निश्चितधियः प्रवदन्ति साक्षात्
तद्दर्शनादखिलदर्शनपारभाजः ।
तं सर्ववेदसमशेषबुधाधिराजं
श्रीरङ्गराजमखिनं गुरुमानतोऽस्मि ॥ ४ ॥
वेदविभागविधात्रे विमलाय ब्रह्मणे नमो विश्वदृशे ।
सकलधृतिहेतुसाधनसूत्रसृजे सत्यवत्यभिव्यक्तिमते ॥ ५ ॥
यो नानाभाष्यशाखोदितफलवितति प्रौढ़नानारसाढ्यो
यस्मिन् मूले निरूढं फलमधिकतरं स्वाद्वनारुह्यलभ्यम् ।
यस्य प्रेक्षैव देहद्वयतदनुगतप्रत्यगर्थौ विवेक्त्री
सूत्रात्मा पारिजातः सकलमभिमतं मह्यमर्थं स दद्यात् ॥ ६॥
नानाभाष्यादृता सा सगुणफलगतिर्वैधविद्याविशेषैः
तत्तद्देशाप्तिरम्या सरिदिव सकला यत्र यात्यंशभूयम् ।
तस्मिन्नानन्दसिन्धावतिमहति फले भावविश्रान्तिमुद्रा
शास्त्रस्योद्घाटिता यैः प्रणमत हृदि तान् नित्यमाचार्यपादान् ॥ ७ ॥
अधिगतभिदा पूर्वाचार्यानुपेत्य सहस्रधा
सरिदिव महीभागान् संप्राप्य शौरिपदोद्गता।
जयति भगवत्पादश्रीमन्मुखाम्बुजनिर्गता
जननहरणी सूक्तिर्ब्रह्माद्वयैकपरायणा ॥ ८ ॥
एनां पुराणपदवीमनुसृत्य सत्याम्
अत्यादरेण महतीमनुपाल्यमानाम् ।
शारीरकाभरणभावजुषां नयानां
रक्षाकरं मणिमनाविलमुल्लिखामि ॥ ९॥
अमुं शारीरकन्यायकलापपरिकर्मितम् ।
अदृष्टिदोषहरणं कण्ठे कुरुत सन्मणिम् ॥१०॥
अथातो ब्रह्मजिज्ञासा । १।
अत्र शास्त्रारम्भोपयोगिब्रह्मात्मैक्यलक्षणविषयप्रयोजनविरोधिनः कर्तृत्वादिबन्धस्य अध्यासात्मकत्वप्रदर्शनेन तदुभयोपपादनद्वारा शास्त्रारम्भः समर्थ्यते ।
ननु बन्धो न ब्रह्मात्मैक्यविरोधी, वस्तुतो बद्धस्यैव जीवस्य बन्धरहितेन ब्रह्मणा ऐक्यस्य श्रुतिप्रामाण्यादङ्गीकर्तुं शक्यत्वात् । न च विरुद्धधर्माक्रान्तयोर्भेदनियमस्य दृष्टत्वेन दृष्टनियमविरोधात् श्रुतिरपि तदभेदं बोधयितुं न शक्नोतीति वाच्यम् । बन्धमिथ्यात्वार्थमपि प्रत्यक्षादिभ्यः श्रुतेः प्राबल्यस्य सिद्धान्ते व्युत्पाद्यतया तत एव उदाहृतलोकदृष्टनियमस्यापि आभासीकरणसम्भवात् इति चेत् , सत्यम् ; तथापि प्रत्यग्ब्रह्मैक्ये महावाक्यस्येव बन्धमिथ्यात्वे त्वंपदार्थशोधकवाक्यानां तदनुग्राहकन्यायानां च विद्यमानतया तत्प्रदर्शनद्वारेण शुद्धस्य जीवस्य ब्रह्मणा ऐक्यमिति वस्तुगतिमनुरुध्यैव वादकथारूपेऽत्र शास्त्रे पूर्वपक्षः परिहरणीयः । न हि – हिंसाविधितन्निषेधविषयभेदन्यायानभिज्ञेन वादकथायां ‘श्येनेन यजेत’ इतिवाक्यमयुक्तार्थं श्येनपक्षिणः पुरोडाशादिवद्यागीयद्रव्यत्वे अहिंसाशास्त्रविरोधात् इति शङ्किते, श्येनाङ्गपशुष्वावश्यकेनापि विषयभेदन्यायोपन्यासेन तत्समाधानं उचितम् ; किन्तु वस्तुस्थितिमनुसरता वाक्यशेषमुदाहृत्य कर्मनामधेयत्वोपन्यासेनैव तत् समाधातव्यं इत्यभिप्रेत्य बन्धस्याध्यासात्मकत्वमत्र प्रदर्श्यते ।
उत्तरत्र साधयिष्यमाणस्यैवार्थस्य शास्त्रारम्भोपयोगितया स्मरणार्थमिदमाद्याधिकरणस्य प्रथमवर्णकम् । यथा पूर्वतन्त्रे ‘अथातो धर्मजिज्ञासा (जै. सू. १.१.१.) इत्याद्यधिकरणं ‘कर्म वा विधिलक्षणम्’(जै. सू.९.२.३.) इति नावमिकाधिकरणसिद्धस्यैव स्वाध्यायस्यार्थज्ञानपर्यन्तत्वस्य शास्त्रारम्भोपयोगितया स्मरणार्थम् । यथा वा तत्र — ‘यज्ञकर्म प्रधानं तद्धि चोदनाभूतम्’(जै.सू. ९.१.१.) इति नवमाध्यायाद्याधिकरणप्रथमवर्णकं ऊहविचारारम्भोपयोगितया सप्तमाद्यव्युत्पादितस्य धर्माणामपूर्वार्थत्वस्य स्मरणार्थम् । यथावा तत्रैव ‘सामानि मन्त्रमेके स्मृत्युपदेशाभ्याम्’(जै. सू. ९. २. १.) इति नवमद्वितीयपादाद्याधिकरणप्रथमवर्णकं सामोहविचारारम्भोपयोगितया सप्तमद्वितीयपादे व्युत्पादितस्य रथन्तरादिशब्दानां गीतिविशेषमात्रवाचकत्वस्य स्मरणार्थम् । एवं स्मरणार्थेऽप्यस्मिन् वर्णके श्रोतॄणां सुखप्रतिपत्त्यर्थम् उपोद्धातप्रक्रियायां प्रवृत्तो भगवान् भाष्यकृत् आक्षेपसमाधानाभ्यां बन्धमिथ्यात्वं व्युदपीपददिति न किञ्चिदवद्यम् ।
यद्वा उदाहृताधिकरणानामस्य च मुखभेदेन प्रवृत्तेः औदुम्बराधिकरणन्यायेन पर्णमय्यधिकरणन्यायेन च न पौनरुक्त्यम् । तथाहि – वियत्पादीयान्यधिकरणानि जीवगताणुत्वोत्क्रान्तिगत्यागतिकर्तृत्वजीवभेदश्रुतिविरोधसमाधानेन जीवब्रह्माभेदोपपादनार्थानि , न तु क्वचिदपि विषये प्रत्यक्षविरोधसमाधानेन ।
‘आत्मेति तूपगच्छन्ति....’(ब्र. सू. ४. १. ३२.) इत्यधिकरणमपि जीवस्य ब्रह्मभावोऽस्ति चेत् संसारदशायामपि प्रकाशेत, अविद्याऽऽवृतत्वे जीवभावोऽपि न प्रकाशेत, तस्मिन् निर्विशेषे च नांशभेदकल्पना प्रमाणवती, इति प्रकाशाप्रकाशविरोधसमाधानेन तदुपपादनार्थम् । तदनन्यत्वाधिकरणं यद्यपि विश्वमिथ्यात्वे प्रत्यक्षादिविरोधसमाधानार्थं भवति, तथापि तत्र अद्वैतश्रुतीनां प्रत्यक्षादिभ्यः प्राबल्यसमर्थनेन तद्विरोधः समाधास्यते ।
अस्मिंस्त्वधिकरणे प्रत्यक्षादिभ्यः श्रुतीनां स्वतस्सिद्धं प्रसिद्धं प्राबल्यं अनुद्घाट्यैव जीवगतब्रह्मात्मैक्यविरोधिकर्तृत्वादिग्राहिप्रत्यक्षस्य गौरोऽहमित्यादिप्रत्यक्षभ्रमतुल्याकारत्वेनाप्रामाण्यशङ्काकलुषिततया न श्रुतिबाधनक्षमत्वमिति विरोधः समाधीयते – इति सर्वमनाकुलम् ॥
स्यादेतत् – स्थूलोऽहं कृशोऽहं अन्धोऽहं बधिरोऽहं कर्ता भोक्ता सुखी दुःखी इत्याकारोऽहंप्रत्ययः स्थूलत्वादिषु बहुष्वंशेषु देहेन्द्रियतादात्म्यतद्धर्माध्यासरूपतया दृष्टविसंवादः कर्तृत्वाद्यंशेऽप्यप्रामाण्यशङ्काकलुषिततया प्रतीतकौटसाक्ष्यपुरुषकल्पो न श्रुतिबाधनक्षमः इति चेत् , न ; मम देहः मम चक्षुः मम श्रोत्रं मम मनः इत्यादिरूपेण जीवात् परस्परं च विभक्तत्वेन भासमानानां देहेन्द्रियादीनां युगपदेकजीवैक्याध्यासायोगेन स्थूलोऽहमित्यादिसामानाधिकरण्यस्य अहमेव चैत्रः, सिंहो देवदत्तः इत्यादिनिश्चितभेदधर्मिद्वयसामानाधिकरण्यवत् गौणत्वात् । नचैवं अहंकर्तेत्याद्यंशेऽपि गौणत्वं शङ्काऽऽस्पदम् ; कदाचित् ममशरीरं स्थूलमित्यादिव्यवहारवत् कदाऽपि मममनःकर्तृ इत्यादिव्यवहारस्यादर्शनेन तत्र गौणत्वकल्पनाऽयोगात् । तस्मात् अप्रामाण्यशङ्काऽनास्पदप्रबलप्रत्यक्षविरोधेन श्रुतयोऽन्यथा व्याख्येयाः इति विषयप्रयोजनरहितमिदं शास्त्रं नारम्भणीयमिति ॥
अत्र सिद्धान्तः – स्थूलोऽहमित्यादिः अध्यास एव न गौणः, गौणत्वे कदाचित् नाहं चैत्रः न देवदत्तः सिंहः इतिवत् कदाचित् नाहं स्थूलः इत्यादिरूपस्य भेदव्यवहारस्य लौकिकसाधारण्येन उत्पत्तिप्रसङ्गात् । मम देहः मम चक्षुः इत्यादिभेदव्यवहारो दृश्यत इति चेत् , न ; षष्ठ्याः सम्बन्धार्थकत्वेन ततो भेदालाभात् । सम्बन्धस्य च अपवादकभेदप्रत्ययरहितसामानाधिकरण्यानुरोधेन भेदाविरोधेनैव कल्पनोपपत्तेः । कार्यकारणाभेदवादिनां ब्रह्मप्रकृत्यादिकार्यं जगत् तदभिन्नम् , सौवर्णं कुण्डलम् , इत्यादौ, सर्वेषामपि सदा कालोऽस्ति , सर्वत्र देशोऽस्ति , इत्यादौ च भेदेऽपि कार्यकारणभावादिसम्बन्धस्य संप्रतिपन्नत्वात् ।
एतेन – ‘योऽहं बाल्ये पितरावन्वभूवं सोऽहं स्थाविरे प्रणप्तॄन् पश्यामि’, ‘योऽहं स्वप्ने व्याघ्रदेहः सोऽहमिदानीं मनुष्यदेहः’ इति देहात्मभेदानुभवौ दृश्येते इति – निरस्तम् ।
अनयोरपि देहात्मसम्बन्धानुभववदेव भेदास्पर्शित्वात् । तथाऽपि व्यावृत्तदेहभेदकात्मानुवृत्तिविषयाविमौ देहात्माभेदे सम्बन्धप्रत्ययवन्न शक्योपपादनौ इति चेत् – न, आद्यस्य — ‘योऽयं बाल्ये मम देहः तथा पुष्ट आसीत् स एवाद्य वार्धके क्रशीयान् जातः’ इत्यनुभववत् वस्तुतो बालस्थविरदेहैक्येन तदैक्याध्यासेन वा उपपत्तेः । द्वितीयस्य कल्पिताकल्पितव्याघ्रत्वमनुष्यत्वगोचरस्य ‘योऽयं स्थाणुः अयं पुमान्’ इति कल्पिताकल्पितस्थाणुत्व पुरुषत्वगोचरानुभवस्य पुरुषे इदमर्थाभेदे इव मनुष्यदेहात्माभेदेऽप्युपपत्तेः । अस्तु वा ‘ममदेहः’ ‘योऽहं स्वप्ने व्याघ्रदेहः’ इत्यदेर्देहात्मभेदगोचरत्वं ; तथाऽपि न स्थूलोऽहमित्याद्यध्यासानुपपत्तिः । केनचिद्रूपेण भेदप्रत्ययस्य तदन्येन रूपेण अध्यासाविरोधित्वात् । ‘स्फटिकोऽयं न जपाकुसुमम्’ इति प्रत्यक्षनिश्चयवतोऽपि स्फटिके लोहितात्मना जपाकुसुमाध्यासदर्शनात् । देवदत्तसमीपगतयोरधीयानानधीयानयोः पुरुषत्वसामान्येन गृह्यमाणयोश्चैत्रमैत्रयोः देवदत्तपिण्डात् परस्परस्माच्च भेदेन गृह्यमाणयोरपि देवदत्ते ‘मैत्रोऽयमधीयानस्तिष्ठति’ इति चैत्रमैत्रोभयाध्यासदर्शनाच्च । एतेन – परस्परं भेदन गृह्यमाणयोर्देहेन्द्रिययोरेकस्मिन्नात्मन्यध्यासोऽनुपपन्नः इत्यपि शङ्का निरस्ता ।
तस्मात् ‘स्थूलोऽहं अन्धोऽहम्’ इत्यादिसामानाधिकरण्यमध्यासनिबन्धनमेवेति बहुष्वंशेषु दृष्टविसंवादतया पूतिकूश्माण्डायमानोऽहंप्रत्ययः कर्तृत्वाद्यंशेऽपि न श्रुतिबाधनक्षमः ।
अतो देहेन्द्रियान्तःकरणात्मसु ऐक्येन भासमानेषु तद्गततया प्रतीयमानानां धर्माणां मध्ये स्थूलत्वादयो देहधर्माः अन्धत्वादय इन्द्रियधर्माः कामसङ्कल्पादयोऽन्तःकरणधर्माः आनन्दादयः प्रत्यग्धर्माः इति श्रुतिप्राप्ता व्यवस्था स्वीकर्तुं युक्ता । सा च मम देहःस्थूलः मम चक्षुरन्धं मम मनःकामयते मम मनस्सङ्कल्पयते इत्याद्यनुभवेनाप्यनुमोदिता । दृश्यते च पृथिवीजलादिषु सङ्कीर्णतया प्रतीयमानानां गन्धादीनां ‘उपलभ्याप्सुचेद्गन्धं केचिद्ब्रूयुरनैपुणाः । पृथिव्यामेव तं विद्यादपो वायुञ्च संश्रितम्’ इत्याद्यागमेन व्यवस्था । न ह्याजानसिद्धजलोपष्टम्भकादिगतं गन्धादि ‘पृथिवीगुण एव गन्धो न जलगुणः’ इत्यादिरूपेण अस्मदादिभिः प्रत्यक्षेण शक्यं विवेचयितुम् ।
पृथिव्यादीनां प्रायः परस्परसंसृष्टतया अन्यगुणस्याप्यन्यत्रावभासस्सम्भवतीतिशङ्कितदोषं प्रत्यक्षं तत्र आगमेन शिक्ष्यते इति चेत्
तर्हीहापि आत्मानात्मनोराध्यासिकतादात्म्यापत्त्या अन्यधर्मस्याप्यन्यत्रावभासस्सम्भवतीति शङ्कितदोषं प्रत्यक्षं श्रुत्या शिक्ष्यते इति तुल्यम् ।
ननु जलाद्युपष्टम्भकपृथिव्यादिसंप्रतिपत्तिवत् आत्मन्याध्यासिकतादात्म्यापन्नकामसंकल्पादिमदनात्मसंप्रतिपत्तिर्नास्तीति चेत्
न – निर्मलेष्वपि जलादिषु उपष्टम्भकपृथिव्यादिसद्भावे इव आत्मन्याध्यासिकतादात्म्यापन्नानात्मांशसद्भावेऽपि आगमस्याविशिष्टत्वे असंप्रतिपत्तेर्निमूलत्वात् । न हि निर्मलजलादिषु उपष्टम्भकपृथिव्यादिसद्भावे आगमादन्यत् शरणमस्ति । गन्धादिनैव तदनुमाने, गन्धादिगुणव्यवस्थासिद्धौ तदनुमानं तदनुमानेन तद्व्यवस्थासिद्धिः इत्यन्योन्याश्रयात् ।
तस्मात् यथा ‘पृथिव्यामेव तं विद्यात्’ इत्यागमेनैव जलादिषु उपष्टम्भकसद्भावः गन्धादीनां तद्धर्मत्वनियमश्च अवगन्तव्यः तथा
‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानस्सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव’(बृ. ४. ४. २२) इत्यादिश्रुत्या ‘विज्ञानमय’ इति जीवस्य संसरणे बुद्धिप्रधानत्वं, ‘स समान’ इति सामान्यतस्तत्सामान्यापत्तिं, ‘ध्यायतीव लेलायतीव’ इति ध्यायन्त्यां बुद्धौ ध्यायतीव चलन्त्यां चलतीव नायं स्वतो ध्यायति चलति वा इति तद्विशेषविवरणं च कुर्वत्या, अन्याभिश्च एतादृशीभिश्श्रुतिभिः विवरणादिप्रदर्शिताहमर्थानात्मत्वसमर्थनोपपत्त्युपबृंहिताभिः आत्मन्याध्यासिकतादात्म्यापन्नानात्मांशसद्भावः कामसङ्कल्पादीनां तद्धर्मत्वनियमश्च अवगन्तव्य इति न कश्चिद्विशेषः ।
तस्मात् बन्धग्राहिप्रत्यक्षाबाध्यैः त्वंपदार्थशोधकवाक्यैः शुद्धतयाऽवगतस्य जीवस्य ब्रह्मैक्यसम्भवेन विषयप्रयोजनवत्त्वात् इदं शास्त्रमारम्भणीयमिति सिद्धम् । वर्णकान्तराणां तु प्रपञ्चनं ग्रन्थान्तरेषु द्रष्टव्यम् ॥
सूत्रस्य नित्यानित्यवस्तुविवेकादिमुमुक्षुत्वान्तसाधनचतुष्टयसंपत्त्यनन्तरं तत्सम्पत्तेरेव हेतोः मोक्षसाधनप्रत्यगभिन्ननिर्विशेषब्रह्मज्ञानाय वेदान्तविचारः कर्तव्यः इत्यर्थः ।
कथमेतावानर्थोऽस्मात् सूत्रात् लब्धः इति चेत् –
उच्यते – अथशब्दस्तावदानन्तर्यार्थः, न च ब्रह्मविचारे पुष्कलकारणानन्तर्यमपहाय यत्किञ्चिदानन्तर्यस्याभिधानं फलवत् , न च साधनचतुष्टयादन्यत् कर्मकाण्डविचारादि तत्र पुष्कलकारणं भवितुमर्हति , इति साधनचतुष्टयसंपत्त्यनन्तरमित्ययमर्थः अथशब्देन लब्धः ।
अत एव तत्संपत्तेरेव हेतोरित्ययमर्थः प्रकृतस्य हेतुत्वाभिधायिना अतश्शब्देन वक्तुं शक्यः । यद्यपि आनन्तर्याभिधानमुखेन साधनचतुष्टयस्य हेतुत्वं अथशब्देनैव लब्धम् , तथाऽपि अतश्शब्देन हेतुत्वस्यैव पुनःपरामर्शरूपाद्यत्नान्तरात् नित्यानित्यविवेकाद्यसम्भवशङ्कानिराससूचनेन तद्धेतुत्वमेव प्रतिष्ठाप्यते । इह हि इत्थं शङ्काऽवतरति – ब्रह्मैव नित्यं तदन्यत् अनित्यं इति विवेको न सम्भवति , ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति’ इत्यादिश्रुत्या कर्मफलस्यापि नित्यत्वावगमादिति ।
‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा.८.१.६.) इत्यादिस्वदर्शितानुमानोपोद्बलितश्रुतिप्राबल्येन च तन्निरासः ।
ब्रह्म प्रत्यगभिन्नं निर्विशेषं इति प्रकरणोपपदादिसङ्कोचकराहित्येन निरतिशयबृहत्त्ववाचिना ब्रह्मशब्देनैव च लब्धम् । जिज्ञासेत्यनेन ब्रह्मज्ञानायेत्ययमर्थो लब्धः । इष्यमाणतया ज्ञानस्य ‘विविदिषन्ति’ इत्यादाविव फलत्वप्रतीतेः । न च ब्रह्मज्ञानं मोक्षसाधनत्वाभावे मुमुक्षोः फलं भवितुमर्हति इति मोक्षसाधनत्वविशेषणमपि तत्र अर्थाल्लब्धम् । सूत्रवाक्यस्येव विश्वतोमुखत्वेन सूत्रपदानामपि अनेकार्थत्वस्य अलङ्कारतया विवक्षावशेन श्लेषे इव वृत्तिद्वयविरोधस्यादूषणत्वात् , जिज्ञासापदेनैव अन्तर्नीतो विचारो लक्ष्यते , योग्यतया च वेदान्तविचार इति लभ्यते तदेकगम्यत्वाद्ब्रह्मणः । तत्रैव विचारे सूत्रस्यानुवादमात्ररूपत्वपरिहाराय
‘तद्विजिज्ञासस्व’(तै. ३. १.१.) इति मूलश्रुत्यनुरोधसिद्धये च अध्याहृतस्य कर्तव्येतिपदस्य अन्वयः इति ।
यद्वा ब्रह्मजिज्ञासा कर्तव्येत्यस्य ब्रह्मविचारः कर्तव्य इत्यर्थः , न तु ब्रह्मज्ञानाय वेदान्तविचारः कर्तव्य इति । ‘तद्विजिज्ञासस्व’ इति मूलश्रुतौ ब्रह्मणो विचारकर्मत्वश्रवणात् , भाष्येऽपि ब्रह्मविचारे प्रतिज्ञाते ब्रह्मप्रमाणादिविचारप्रतिज्ञानमर्थाल्लभ्यते इत्युक्तत्वात् । ब्रह्मज्ञानं तु विचारेण विचाराधिकारिविशेषणेच्छाविषये मोक्षे साधनीये ‘साम्ना स्तुवीत’ इति श्रुतौ गीतिक्रियारूपेण साम्ना गुणाभिधानात्मके स्तोत्रे साधनीये ऋक्पदाभिव्यक्तिवत् द्वारतया फलं सिद्ध्यति । ब्रह्मविचारस्य ब्रह्मावगतिफलकस्य साक्षान्मोक्षसाधनत्वायोगात् । मोक्षस्यापि अध्यस्तकर्तृत्वादिनिवृत्त्या ब्रह्मभावाविर्भावरूपत्वेन ब्रह्मावगतिसाध्यस्य साक्षाद्विचारसाध्यत्वायोगाच्च ।
ननु नित्यानित्यवस्तुविवेकाद्यनन्तरं ब्रह्ममीमांसारूपो विचारः कर्तव्यः इति सूत्रार्थवर्णनमयुक्तम् , नित्यानित्यवस्तुविवेकस्य निरुक्तविचारनिष्पाद्यत्वेन अन्योन्याश्रयप्रसङ्गात् । न हि ब्रह्मैव नित्यं अन्यद नित्यं इति निर्णयरूपः सिद्धान्ताभिमतो नित्यानित्यवस्तुविवेकः प्रारिप्सितब्रह्ममीमांसाशास्त्रविचारं विना केनचिच्छास्त्रान्तरश्रवणादिना सम्भवति । सम्भवे वा ततो लब्धनित्यानित्यवस्तुविवेक एवाधिकारी एतच्छास्त्रविचारे प्रवर्तते इति अस्मिञ्छास्त्रे
‘असम्भवस्तु सतोऽनुपपत्तेः’(ब्र.सू.२.३.९.) इत्यधिकरणे ब्रह्मनित्यत्वप्रतिष्ठापनं वैराग्यपादे कर्मफलानित्यत्वप्रदर्शनं वियदधिकरणादिषु वियदाद्यनित्यत्वप्रतिष्ठापनं च नाकरिष्यत इति चेत् –
उच्यते – साङ्गसशिरस्कवेदाध्ययनजन्यापातप्रतीतिरूपो नित्यानित्यवस्तुविवेक इह परिगृह्यते । स यद्यपि वैराग्यं निष्पादयन् तत् द्रढयितुं न शक्नोति, ब्रह्मवत् कर्मफलेऽपि नित्यत्वप्रतिपादकानामक्षय्यादि वाक्यानां दर्शनात् , तथापि कर्मफलानित्यत्वप्रतिपादकानां वाक्यानां
‘तद्यथेह कर्मचितः’(छा.८. १.६.) इत्यादिश्रुतिप्रदर्शितयुक्त्युपोद्बलिततया प्राबल्यं इति न्यायसूचकेन एतत्सूत्रगतातश्शब्देन निरस्त शैथिल्यः स शक्नोति वैराग्यं द्रढयितुम् । न चैवमपि
‘असम्भवस्तु सतः’(ब्र.सू.२.३.९.) इत्याद्यधिकरणपूर्वपक्षोपन्यसनीयशङ्कोन्मेषेण तच्छैथिल्यं स्यादिति वाच्यम् ; तत्तच्छङ्कानिरासा अग्रे करिष्यन्ते इति हितैषिवचनविश्वासेन तया शैथिल्याप्रसङ्गात् । सर्वेष्वपि हि शास्त्रेषु विषयप्रयोजनविषये एकैकस्यामसिद्धिशङ्कायां आदौ निरस्तायां तदसिद्धिपर्यवसायिशङ्कान्तरनिरासास्तन्त्रमध्ये एव क्रियमाणा दृश्यन्ते । न चैतावता अधिकारिणां अनिर्णीतविषयप्रयोजनत्वेन तत्तच्छास्त्रविचारेष्वप्रवृत्तिरापद्यते । तस्मात् यथोक्त एव सूत्रार्थः ॥ १.१.१.॥
इति जिज्ञासाधिकरणम् ॥
जन्माद्यस्य यतः ॥ २॥
अथ एवमुपपादितारम्भो विचारः प्रस्तूयते ।
तत्र यद्यपि ब्रह्मविचारप्रतिज्ञया तत्प्रमाणयुक्तिसाधनफलविचारोऽप्यर्थात् प्रतिज्ञातः, तथाऽपि ब्रह्मप्रमाणं ब्रह्मयुक्तिः इत्यादिविशिष्टविषयविचाराणां विशेषणब्रह्मस्वरूपप्रतिपत्त्यपेक्षत्वात् प्राधान्याच्च तदेव लक्षणमुखेन प्रथमं इहाधिकरणे निर्णीयते ।
ननु तस्यापि नोपपद्यते – भूतस्रष्टृत्वनिर्वाहकयोश्चिकीर्षाकृत्योर्देहेन्द्रियाद्यपेक्षत्वात् देहेन्द्रियाणाञ्च भौतिकानां भूतसृष्ट्यनन्तरभावित्वात् इति चेत्
तर्हि परब्रह्मणोऽपि देहेन्द्रियान्तःकरणरहितस्य चिकीर्षाकृत्यसम्भवेन भूतस्रष्टृत्वं न स्यात् । यदि तस्य चिकीर्षाकृत्यभावेऽपि भूतस्रष्टृत्वं, तदा हिरण्यगर्भस्यापि तथैव स्यात् । यदि तस्य मायामाश्रित्यैव चिकीर्षाकृतिनिर्वाहः, तदा हिरण्यगर्भस्य सर्गादौ सूक्ष्मावस्थमन्तःकरणमस्तीति सुतरां तद्वत्त्वमुपपद्यते ।
अपि च बृहदारण्यके
‘आत्मैवेदमग्र आसीत् पुरुषविधः’(बृ. १. ४. १.) इति हिरण्यगर्भं प्रस्तुत्य
‘ततो मनुष्या अजायन्त’(बृ. १. ४. ३.) इत्यादिना
‘यदिदं किञ्च मिथुनं आपिपीलिकाभ्यः तत्सर्वमसृजत’(बृ. १. ४. ४.) इत्यन्तेन तस्य मनुष्यादिस्रष्टृत्वमुक्त्वा तदनन्तरमग्न्यादिस्रष्टृत्वमप्युक्तम् । न च ‘आत्मैवेदमग्र आसीत्’(बृ. १. ४. १.) इति परब्रह्मणः प्रस्ताव इति शङ्कनीयम् ।
‘स यत् पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत् तस्मात् पुरुषः’(बृ. १. ४. १.) इत्यतः पाप्मसंसर्गप्रतीत्या
‘सोऽबिभेत्.... स वै नैव रेमे’(बृ. १.४.२,३.) इति भयारतिश्रवणेन च तस्य संसारित्वावगमात् । ननु तथाऽपि बृहदारण्यके हिरण्यगर्भस्य वियदादिभूतस्रष्टृत्वं न श्रुतमिति चेत् , सत्यं ; देवमनुष्यादिसकलप्राणिजातस्रष्टृत्वं श्रुतमेव । तदेवात्र लक्षणम् , न तु वियदादिस्रष्टृत्वम् । लक्षणवाक्ये भूतशब्दस्य ‘येन जातानि जीवन्ति’ इति लिङ्गेन प्राणिपरत्वात् । जीवनहेतुत्वं भूतानां अध्यात्मं प्राणाभिमानितयाऽवतिष्ठमाने हिरण्यगर्भेऽप्यस्ति । भूतलयाधारत्वमपि ‘एकार्णवे च त्रैलोक्ये ब्रह्मा नारायणात्मकः । भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः । जनस्थैर्योगिभिर्देवश्चिन्त्यमानोऽब्जसम्भवः’ इत्यादिपुराणेतिहासधर्मशास्त्रेषु तस्य प्रसिद्धम् । ननु सकलभूतस्रष्टृत्वादिरूपं तन्निमित्तत्वमिह न लक्षणं किन्तु तदुपादानत्वम् , इति चेत् – तदुपादानत्वं हि तज्जीवाभेदेनाध्यस्तान् देहेन्द्रियान्तःकरणादीन् प्रत्युपादानत्वमेव वाच्यं, नित्यानां जीवानां स्वतः कार्यत्वाभावात् । देहाद्युपादानत्वं तु तत्तज्जीवानामेव, तेषां जीवतादात्म्यप्रतीत्या जीवानां तदधिष्ठानत्वात् , सिद्धान्ते अध्यासाधिष्ठानत्वातिरिक्तस्योपादानत्वस्याभावात् ।
अस्तु वा परं ब्रह्म भूतानां स्रष्टृ उपादानञ्च । तथाऽपि मायाशबलं सविशेषमेव तथा वाच्यं, निर्विशेषस्य कूटस्थस्य मायाशाबल्यं विना सृष्टिक्रियाविशिष्टत्वस्य तत्तत्कार्याकारेण विवर्तमानत्वस्य च असम्भवात् । न च सविशेषं ब्रह्म इह लिलक्षयिषितं, किन्तु जिज्ञास्यत्वेन प्रतिज्ञातं शुद्धमेव । न च मायाशबलसगुणब्रह्मगतमेव कारणत्वं तटस्थतया शुद्धस्योपलक्षणं शाखाग्रमिव चन्द्रस्य, तस्य प्रकृष्टप्रकाशत्वमिव सत्यज्ञानानन्तानन्दात्मस्वरूपत्वं
‘आनन्दादयः प्रधानस्य’(ब्र.सू. ३. ३. ६) इत्यधिकरणे शुद्धब्रह्मप्रतिपत्तिपरवाक्येषु सर्वेषूपसंहरणीयत्वेन वर्णयिष्यमाणं अस्य स्वरूपलक्षणं इति वाच्यम् । तथा सति स्वरूपलक्षणेनैव विशिष्यावगत्यर्थमवश्यापेक्षितेन सर्वतो व्यावृत्तस्य लक्ष्यस्य अवगतिः सम्भवतीति एतल्लक्षणवैयर्थ्यात् । चन्द्रस्य तु तटस्थलक्षणं उक्तेऽपि स्वरूपलक्षणे तद्दिदृक्षया चन्द्रबुभुत्सोः गगने सर्वतश्चक्षुर्विक्षेपक्लेश: स्यात् स मा भूदिति देशविशेषे चक्षुर्नियमनार्थतया उपयुज्यते । न चात्राप्यग्निसूर्येन्द्रादिमहिमप्रतिपादकेषु मन्त्रार्थवादेषु ब्रह्म बुभुत्सोः भ्रमणक्लेशः स्यात् स मा भूदिति कारणवाक्यजाते तद्दृष्टिनियमनार्थतया तटस्थलक्षणमुपयुज्यते इति वाच्यम् । कारणत्वासंस्पर्शिनामपि सर्वान्तरत्वादिद्वारा ब्रह्मप्रतिपत्तिपरवाक्यानां सत्त्वेन ब्रह्मप्रतिपित्सोः अद्वैतपरवाक्येषु सर्वेष्ववतरणीयतया कारणवाक्यमात्रे तद्दृष्टिनियमनायोगात् । स्वरूपलक्षणान्तर्गतेन आत्मशब्दोक्तेन प्रत्यक्त्वेन पराग्रूपदेवतान्तरमहिमवर्णनपरमन्त्रार्थवादेभ्यो व्यावर्तनस्य अद्वैतपरवाक्येष्ववतरणस्य च सिद्धेश्च । किञ्च जगत्कारणत्वं सत्यञ्चेत् द्वित्वेन एकमिव तेन अद्वितीयं ब्रह्म लक्षयितुमशक्यं ; विरोधात् । मिथ्या चेदपि कृतकत्वेन नित्यमिव न तेन सत्यं तत् लक्षयितुं शक्यं, विरोधादेव । तस्मादयुक्तमिदं लक्षणं इत्येवं प्राप्ते
राद्धान्तः –
भूतानि भौतिकञ्चाण्डं निर्मायेदमनन्तरम् । हिरण्यगर्भं तन्मध्ये निर्ममे परमेश्वरः ।
इत्यर्थे सकलश्रुत्याद्यैककण्ठ्यस्य दर्शनात् । स षोडशकलास्रष्टा पुरुषः पर एव नः ।
प्राणोत्क्रन्तिप्रतिष्ठाभ्यां स्वस्य तद्वत्त्ववीक्षणम् । जीवस्य तद्वतस्ताभ्यां स्वात्मत्वेनावलोकनात् ।
तेजोऽबन्नप्रवेशो हि जीवकर्तृक एव सन् । जीवस्य स्वात्मतादृष्ट्या तेन स्वीयतयेरितः ।
परमेश्वरः प्रथमं वियदादीनि भूतानि सृष्ट्वा तत्त्रिवृत्करणानन्तरं तैरण्डं निर्माय तन्मध्ये हिरण्यगर्भं निर्ममे इत्यर्थे हिरण्यगर्भोत्पत्तिप्रतिपादकसकलश्रुतिस्मृतिपुराणेतिहासानामैककण्ठ्यात् तदनुरोधेन प्रश्नोपनिषदुक्तषोडशकलास्रष्टा पुरुषः पर एव ; षोडशकलामध्ये वियदादीनामप्यनुप्रवेशात् , षोडशकलपुरुषोपदेशानन्तरं
‘तान् होवाच एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति’(प्र. ६. ७.) इति पिप्पलादवचनदर्शनाच्च । यत्तु प्राणोत्क्रान्तिप्रतिष्ठाभ्यां स्वस्य उत्क्रान्तिप्रतिष्ठावत्त्ववीक्षिणं जीवलिङ्गं, तत् ताभ्यामुत्क्रान्तिप्रतिष्ठावतो जीवस्य स्वात्मरूपत्वावलोकनात् । श्रूयते हि छान्दोग्ये तेजोऽबन्नानुप्रवेशो जीवकर्तृक एव सन् ईश्वरेण जीवस्य स्वरूपत्वदृष्ट्या स्वात्मीयतया विवक्षित इति । तत्र हि
‘हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’(छा. ६. ३. २.) इत्यत्र जीवकर्तृकोऽनुप्रवेशः स्वकर्तृकतया परमेश्वरेण विवक्षित इति व्याकरणसमानकर्तृत्ववाचिना क्त्वाप्रत्ययेन दर्शितम् ; एवमिदमप्युपपद्यते ।
यत्तु बृहदारण्यके हिरण्यगर्भस्य देवमनुष्यादिभूतजातस्रष्टृत्वमुक्तमित्युक्तं तत्तथैव । न तावता तस्य सकलभूतस्रष्टृत्वं लक्षणे विवक्षितं सिद्ध्यति । स्वस्य अतीतानागतकल्पसम्भवदेवमनुष्यादीनाञ्च अन्यसृष्टत्वात् ।
परमेश्वरस्य तु सर्वकल्पानुयायिनो हिरण्यगर्भस्यापि स्रष्टुः सर्वभूतस्रष्टृत्वमुपपद्यते । हिरण्यगर्भसृष्टेषु देवमनुष्यादिषु कुलालादिसृष्टेषु घटादिष्विव तस्यापि स्रष्टृत्वात् , तदभावेऽपि हिरण्यगर्भसृष्टिद्वारा तस्य कारणत्वानपायाच्च ।
यच्च जन्मादिकारणत्वस्य तटस्थलक्षणत्वे तद्वैयर्थ्यमुक्तं, तदपि न – अत्र सूत्रे पूर्वसूत्राल्लक्ष्यसमर्पकं ब्रह्मपदमनुवर्तते । तत् प्रत्यगभिन्ननिष्प्रपञ्चवस्तुपरम् , प्रकरणोपपदादिसङ्कोचकराहित्येन तस्य त्रिविधपरिच्छेदपरिपन्थिनिरतिशयबृहत्त्ववाचित्वात् । बृहत्त्वमात्रवाचित्वेऽपि वैपुल्यापरपर्यायस्य बहुत्वस्य
‘यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा.७.२४. १.) इति श्रुत्या वस्तुपरिच्छेदपरिपन्थिनो लक्षणस्य दर्शितत्वाच्च । न हीदं लक्षणं ब्रह्मणः प्रत्यग्भिन्नत्वे प्रपञ्चस्य सत्यत्वे वा घटते । तथा सति तत्कारणत्वाधारत्वनियन्तृत्वादिधर्माणां ब्रह्मणि सत्यतापत्त्या ‘यत्र नान्यत् पश्यति’ इत्याद्यनुपपत्तेः । एवञ्च लक्ष्यपरब्रह्मशब्दार्थतया प्राप्तस्य निष्प्रपञ्चत्वस्य यद्रजतमभात् सा शुक्तिरितिवत् अध्यारोपापवादन्यायेन सिद्ध्यर्थं तटस्थलक्षणम् , स्वरूपविशेषप्रतिपत्त्यर्थं स्वरूपलक्षणम् , इति न कस्यापि वैयर्थ्यम् । एतेन – मिथ्याभूतेन सत्यं लक्षयितुं न शक्यं विरोधात् , इति निरस्तम् ; शुक्त्या रजतोपलक्षणदर्शनात् ॥
सूत्रे जन्मादीति जन्मस्थितिभङ्गमुच्यते । एकवचनं सृष्टिस्थितिभङ्गानां समुदायो लक्षणं नत्वेकैकं इति ज्ञापनार्थम् । यद्यप्येकैकमपि लक्षणं भवितुमर्हति ; अनतिप्रसङ्गात् ,
‘अत्ता चराचरग्रहणात्’(ब्र. सू. १. २. ९.) इत्यधिकरणे सर्वसंहर्तृत्वमात्रस्य ब्रह्मलिङ्गतया उपन्यासाच्च ; तथापि जन्मस्थितिभङ्गानामन्य तमकारणत्वस्य लक्षणतया उक्तौ तदितरकारणवस्त्वन्तरसत्त्वशङ्कया वस्तुपरिच्छेदात् लक्षणीयब्रह्मणो निरतिशयबृहत्त्वं न सिद्ध्येत् । अतो निरतिशयबृहत्त्वरूपलक्ष्याकारविपरीतबृहत्त्वशङ्काव्यवच्छेदेन सप्रयोजनं समुदायस्य लक्षणत्वम् । अस्येति कार्यस्य जगत इदन्तया निर्देशः मूलश्रुत्यनुसारेण परिदृश्यमानविविधवैचित्र्यज्ञापनार्थः । मूलश्रुतावपि भूतानीत्यनेनैव कार्यवर्गे अभिहिते तदर्थज्ञापनायैव ‘इमानि’ इति पदम् । तद्ज्ञापनन्तु ईदृशस्य कार्यवर्गस्य ब्रह्मणोऽन्यस्मादल्पज्ञानादल्पशक्तेः संसारिण उत्पत्तिः सम्भावयितुं न शक्यते इति सूचनार्थम् । अत एवाग्रे सूत्रकृता प्रधानादिकारणत्वशङ्कावत् जीवकारणत्वशङ्काया निरासो न करिष्यते । लोके कुलालकुविन्दादिजीवकर्तृकत्वे सत्येव अतिवैपुल्यवैचित्र्यादर्शनेन भूभूधरादियुक्तस्य जगतोऽस्मदादिकर्तृकत्वासम्भवेऽपि कर्त्रनपेक्षप्रधानपरिणामत्वादिकमस्त्विति शङ्काया एव उन्मज्जनयोग्यत्वात् । यत्त्वत्र ‘न यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वा अन्यतः प्रधानादचेतनादणुभ्योऽभावात् संसारिणो वा उत्पत्त्यादि सम्भावयितुं शक्यम्’ इति भाष्यवचनं तत्र संसारिमात्रस्यात्र निरसनीयत्वेऽपि उपरिनिरसनीयस्य प्रधानादेर्ग्रहणं दृष्टान्तार्थम् । श्रुतौ इमानीति बहुवचने सत्यपि अस्येत्येकवचनं कृत्स्नस्य कार्यवर्गस्य एककार्यवदनायासेन एकेन कर्त्रा सङ्कल्पमात्रेण निर्मितत्वज्ञापनार्थम् । तद्ज्ञापनस्यापि अल्पशक्तिसंसारिव्यावृत्तिसूचनमेव फलम् । यत इति यच्छब्दः
‘यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतत् ब्रह्मनामरूपमन्नं च जायते’(मु.्ड. १. १. ९.) इति
‘तदैक्षत बहु स्यां प्रजायेय’(छा. ६. २. ३.) इति
‘सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः’(छा. ६. ८. ४.) इत्यादिश्रुतिप्रतिपन्नजगन्निमित्तोपादानभावसर्वज्ञत्वसत्यसङ्कल्पत्वादिविशिष्टपरमेश्वररूपमायाशबलि तब्रह्मपरः । श्रुतावपि यत इति प्रसिद्धवन्निर्देशस्य ‘यस्सर्वज्ञः’ इत्यादिपुरोवादप्राप्तसर्वज्ञत्वादिवैशिष्टयप्रतिपादनपरत्वं संसारिभ्यो व्यावर्तितस्य जगत्कारणत्वस्य परमेश्वरे सम्भावनार्थम् । यत इति हेतुपञ्चमी निमित्तोपादानसाधारणी प्रकृत्यधिकरणे स्थापयिष्यमाणं ब्रह्मणः उभयविधकारणत्वमनुवदति । यद्यपि उपादानत्वमात्रमपि लक्षणमनतिप्रसक्तं, सर्वोपादानत्वप्रयुक्तसार्वात्म्यस्य अग्रिमाधिकरणेषु ब्रह्मलिङ्गतया उपन्यासदर्शनात् , तथापि निमित्तमन्यदिति वस्तुपरिच्छेदशङ्का स्यात् , सा मा भूदिति उभयविधकारणत्वस्य हेतुपञ्चम्युपात्तस्य लक्षणीकरणम् । नचेयमुपादानपञ्चमीति वक्तुं शक्यम् , ‘येन’ ‘यत्’ इति मूलश्रुतिगततृतीयाद्वितीयाविभक्त्यर्थयोरपि अनया सङ्ग्राह्यत्वात् । तत्सङ्ग्राहकायास्तस्या उपादानमात्रविषयत्वायोगाच्च । ‘तत् ब्रह्म’ इति सूत्रवाक्यशेषः ।
केचित् आद्यस्य हिरण्यगर्भस्य जन्म यत इति सूत्रं योजयन्ति । सोऽप्यर्थः सूत्रमूलभूतं लक्षणवाक्यं हिरण्यगर्भपरं इति शङ्कानिरासार्थत्वेन सूत्रावृत्त्या विवक्षितुं शक्यते इति नोपेक्षणीयः ॥ १.१.२.॥
इति जन्माद्यधिकरणम् । २।
शास्त्रयोनित्वात् । ३।
इह लक्षणीकृतजगत्कारणत्वाक्षिप्तं सर्वज्ञत्वं वेदकारणत्वेन दृढीकुर्वता भगवता सूत्रकारेण वेदस्य नित्यत्वात् ब्रह्मणस्सर्वकारणत्वमनुपपन्नं इति शङ्काऽपि निराक्रियते ।
ननु निर्विशेषवस्तुनि तात्पर्यविषये सति ताटस्थ्येन तदुपलक्षकस्य मायाशबलितस्य जगत्कारणस्य सर्वज्ञत्वसमर्थनं क्वोपयुज्यते ।
पूर्वसूत्रे — ‘अस्य’ इति पदेन सूचितस्य सूत्रावृत्त्या च विवक्षितस्य जीवव्यावर्तनस्य स्थिरीकरणे । हिरण्यगर्भस्य सार्वज्ञ्यं ईश्वराद्वेदग्रहणाधीनं न तु स्वतस्सिद्धं इति देवताधिकरणे वक्ष्यते ।
ननु जगत्करणत्वाक्षिप्तस्य सर्वशक्तित्वस्य केनचिद्धेतुना दृढीकरणेऽपि जीवव्यावर्तनं स्थिरीभवति, किं वेदकारणत्वहेतुना सर्वज्ञत्वदृढीकरणे पक्षपातनिमित्तम् ।
वेदनित्यत्वमूलकसर्वकारणत्वासम्भवाशङ्कानिरासस्यानुषङ्गतो लाभः । अत एव – वेदानित्यत्वव्यवस्थापनं वियत्पादे सङ्गतं नात्र कर्तुं युक्तं इत्यपि शङ्का निरस्ता । अनुषङ्गलभ्येऽर्थे पृथक् सङ्गत्यनपेक्षणात् ।
‘अस्य महतो भूतस्य निश्वसितमेतत् यदृग्वेदो यजुर्वेदस्सामवेदः’(बृ. २. ४. १०.) इत्यादिवाक्यं ब्रह्मणो वेदकारणत्वेन सर्वज्ञत्वं साधयति न वा इति सन्देहे – न तावद्वेदकर्तृत्वेन तस्य तत् साधयति, वेदस्य पौरुषेयत्वापातात् , नापि वेदोपादानत्वेन, कार्योपादानयोरेकशक्तिकत्वनियमस्य मृत्पिण्डघटादिषु तत्कार्यान्तरेषु च बहुशो व्यभिचारदर्शनेन अप्रामाणिकतया वेदस्य सर्वार्थप्रकाशनशक्तिमत्तामात्रेण ब्रह्मणि तदसिद्धेः तत्सिद्धौ वा वेदः स्वयमज्ञ एव जीवानां तत्तदर्थगोचरप्रकाशजनक इति ब्रह्मणोऽप्यज्ञस्यैव प्रकाशकत्वापत्तेश्च ; एवमपि ब्रह्मणो वेदाविषयनदीवालुकादिसंख्यादिप्रकाशकत्वालाभाच्च इति पूर्वःपक्षः ॥
राद्धान्तस्तु – वेदकर्तृत्वेन तस्य तत् साधयत्येव । कर्तृत्वमिह न अर्थमुपलभ्य रचयितृत्वं, येन सापेक्षत्वलक्षणं पौरुषेयत्वमापद्येत । नाप्युच्चारयितृत्वमात्रं, अध्यापकसाधारण्येन तावतापि वेदे ब्रह्मकर्तृत्वविशेषासिद्धेः । सर्ववेदोच्चारणेन महोपाध्यायतामात्रं हि तदा ब्रह्मणः स्यात् । नापि पूर्वपूर्वक्रमानपेक्षया स्वतन्त्रक्रमेण उच्चारयितृत्वं ; क्रमान्यत्वे वाग्वज्रत्वेन प्राणिनां दुरितप्रसङ्गात् । किन्तु ब्रह्म स्वतन्त्रमपि अध्येतॄणां पुरुषार्थसिद्धये नियतक्रमस्वराद्यपेक्षमाणं पूर्वपूर्वकल्पेषु स्वकृतेनैव नियतेन क्रमादिना विशिष्टान् वर्णान् करोति । ‘सर्गादौ भगवान् धाता यथापूर्वमकल्पयत्’ इति स्मृतेः । एतदेव च अध्यापकविलक्षणं ब्रह्मणो वेदकर्तृत्वं यत् अन्यदीयक्रमाद्यनपेक्षणेन पूर्वमपि स्वकृतेनैव नियतेन क्रमादिना विशिष्टेषु वैदिकवर्णेषु कर्तृत्वम् । तथाचातीतानन्तकल्पस्थवैदिकक्रमस्वरादिप्रतिसन्धानं अनन्तवैदिकवर्णपदवाक्यप्रतिसन्धानञ्च ब्रह्मणो वक्तव्यम् , अन्यथा तत्कर्तृत्वायोगात् । तस्य सकलस्य प्रतिसन्धानञ्च ब्रह्मणो न मानान्तरात् , तस्यान्तःकरणादिसम्बान्धाभावेन मानान्तराप्रवृत्तेः, किं तु अनावृतस्वरूपचैतन्यबलात् इति सङ्कोचकाभावात् यावत्स्वसंसृष्टप्रकाशवत् सर्वज्ञं ब्रह्म सिद्ध्यति । आनुमानिकेश्वरवादिनामपि ईश्वरस्य सर्वज्ञत्वसिद्धिरेवमेव, सर्वस्या पक्षत्वेन हेतुतया सर्वगोचरज्ञानासिद्धेः ।
वेदोपादानत्वेन वा तस्य तत् साधयति ; दीपगतायाः प्रकाशशक्तेः तदुपादाने वह्नावपि दृश्यमानतया कार्यकारणयोरेकशक्तिकत्वस्यौत्सर्गिकत्वेन वेदगतायाः सर्वार्थप्रकाशनशक्तेः बाधकाभावेन तदुपादाने ब्रह्मण्यपि प्राप्तेः । न हि घटगतोदकाहरणशक्तेर्मृत्पिण्डे इव, अन्धकारगतावरणशक्तेः प्रकाशरूपत्वेन श्रुतिसिद्धे ब्रह्मणीव, वेदगतसर्वार्थप्रकाशनशक्तेस्तं प्रति परिणामितया उपादाने ‘नीहारेण प्रावृताः’ इत्यादिश्रुतिभिरावरणत्वेन सिद्धे अज्ञाने इव च वेदगतसर्वार्थप्रकाशनशक्तेः ब्रह्मणि बाधोऽस्ति ।
यद्वा वेदगतसर्वार्थप्रकाशनशक्ति: तदुपादानगता कार्यगतप्रकाशशक्तित्वात् दीपगतप्रकाशशक्तिवत् इति विशिष्य अनुमीयते । अत: उदकाहरणादिशक्तौ न व्यभिचारः । प्रकाशशक्तिश्च अविद्यावरणनिवृत्त्यनुकूला शक्तिर्विवक्षिता । सा च परम्परया तदनुकूले वेदे दीपे चास्तीति नाश्रयासिद्धिः न वा दृष्टान्तासिद्धिः । अविद्यायामपि निवृत्तेः प्रतियोगिभूतायां तदनुकूला शक्तिः अस्तीति न तस्या अविद्यागतत्वाभावेन बाधः ।
यद्वा तदुपादानगतत्वमात्रं साध्यम् , न तु यावत्तदुपादानगतत्वम् ; तच्च अबाधितं ब्रह्मतत्त्वमात्रमादाय सिध्यति इति न कश्चिद्दोषः । न च वेदवद्दीपादिवच्च ब्रह्मणोऽपि जीवविज्ञानहेतुत्वेनैव साध्यं पर्यवस्येदिति न सर्वज्ञत्वसिद्धिरिति शंक्यम् । स्वप्रकाशसर्वव्याप्तचैतन्यरूपत्वेन श्रुतिसिद्धे ब्रह्मणि आवरणनिवृत्त्यनुकूलायाः शक्तेः पक्षधर्मताबलात् साक्षात्तदनुकूलत्वेनैव सिद्धेः । न हि कुलालादिज्ञानं इच्छादिद्वारैव कार्यानुकूलं दृष्टमिति क्षित्यादिषु कार्यानुकूलतया अनुमीयमानमपि ज्ञानं इच्छादिद्वारैव तदनुकूलं अनुमानवादिभिरनुमीयते । एवमपि वेदाविषयार्थगोचरज्ञानालाभेन सार्वज्ञ्यासिद्धिरिति शङ्का तु पूर्वन्यायेनैव परिहरणीया ।
अत एव वेदबाह्यागमानामपि ब्रह्मोपादानकतया तदर्थज्ञत्वेन ब्रह्मणोऽपि भ्रान्तत्वप्रसङ्ग इत्यपि चोद्यं निरस्तम् । तदर्थस्य असत्त्वेन स्वसंसर्गियावदर्थप्रकाशरूपस्य ब्रह्मचैतन्यस्य तद्विषयत्वाप्रसङ्गात् ।
ननु ब्रह्मणः स्वसंसर्गियावदर्थप्रकाशत्वे अतीतानागतवस्तुज्ञानासिद्धेः कथं सार्वज्ञ्यसिद्धिः ।
उच्यते – उत्तरीत्या ब्रह्मणो विद्यमाननिखिलप्रपञ्चसाक्षात्कारसिद्धिः तज्जनितसंस्कारवत्तया च स्मरणोपपत्तेरतीतसकलवस्त्ववभासासिद्धिः । न च ज्ञानसूक्ष्मावस्थारूपसंस्कारो नित्यचैतन्ये न भवेदिति शंक्यम् । तस्य स्वरूपेणाकार्यत्वेऽपि दृश्यावच्छिन्नरूपेण कार्यत्वोपपत्तेः । सृष्टेः प्राक् मायायाः सृज्यमाननिखिलपदार्थस्फुरणरूपेण जीवादृष्टानुरोधेन विवर्त्तमानत्वात् तत्साक्षितया तदुपाधिकस्य ब्रह्मणोऽपि तत्साधकत्वं इत्यनागतवस्तुविज्ञानसिद्धिः इत्येवं ब्रह्मचैतन्यस्य कालत्रयवृत्तिवस्तुविषयत्वसिद्धिः इति केचिदाहुः ।
अन्ये तु वदन्ति – स्वरूपज्ञानेनैव ब्रह्मणः स्वसंसृष्टसर्वावभासकत्वात् सर्वज्ञत्वं अतीतानागतयोरविद्याचित्रभित्तौ विमृष्टानुन्मीलितचित्रवत् संस्कारात्मना सत्त्वेन तत्संसर्गस्याप्युपपत्तेः । न तु वृत्तिज्ञानैस्तस्य सर्वज्ञत्वम् ,
‘तमेव भान्तमनुभाति सर्वम्’ इति (श्वेता. ६. १४) सावधारणश्रुतिविरोधात् । सृष्टेः प्राक्
‘एकमेवाद्वितीयम्’(छा. ६. २. १.) इत्यवधारणानुरोधेन महाभूतानामिव वृत्तिज्ञानानामपि प्रलयस्य वक्तव्यतया ब्रह्मणः तदा सर्वज्ञत्वाभावापत्त्या प्राथमिकमायाविवर्तरूपे ईक्षणे तत्पूर्वके महाभूतादौ च स्रष्टृत्वाभावप्रसङ्गाच्च इति ॥
यत्त्वत्र भाष्ये वर्णकान्तरं प्रदर्शितं तदित्थम् – पूर्वसूत्रे जीवेषु जगत्कारणत्वस्यासम्भावना ब्रह्मणि तत्सम्भावना च ‘अस्य’ ‘यतः’ इति पदाभ्यां दर्शिता । ततो नैय्यायिकाद्यभिमतं ईश्वरानुमानमेव उपन्यस्तं इति स्याद्भ्रमः । तन्मूलपूर्वपक्षनिराकरणार्थमिदं वर्णकम् ।
न शक्नोति, नैय्यायिकोक्तकार्यत्वादिलिङ्गकानुमानगम्यत्वात् ब्रह्मणः । न च अस्य कार्याप्रयोजका अपि बहवो गुणाः श्रुतिसिद्धाः स्वीक्रियन्ते ते लिङ्गैर्न सिद्ध्यन्ति इति वाच्यम् । तावता कल्पितस्य सगुणेश्वरस्य औपनिषदत्वसिद्धावपि जिज्ञास्यस्य निर्विशेषप्रत्यक्चैतन्यरूपस्य ब्रह्मणः तदसिद्धेः । प्रतीचः प्रत्यक्षसिद्धत्वात् , तत्र सकलविशेषाभावस्य प्रपञ्चमिथ्यात्वानुमानतस्सिद्धेः । तस्य सच्चिदानन्दरूपतायाश्च ‘अहमस्मि’ ‘अहमुपलभे’ इत्यनुभवाभ्यां निरुपाधिकप्रेमास्पदत्वेन च सिद्धेः । सर्वशरीरेषु तदैक्यस्य च सर्वेषु कर्णपुटेषु श्रोत्रैक्यस्येव लाघवात् सिद्धेः इति पूर्वः पक्षः ॥
सिद्धान्तस्तु – उदाहृतश्रुतिः उपनिषदेकगम्यत्वं ब्रह्मणः प्रतिपादयितुं शक्नोति । प्रपञ्चमिथ्यात्वानुमानस्य लाघवतर्कस्य च तेन तेन प्रत्यनुमानेन प्रतितर्केण च पराहततया श्रुत्यननुगृहीतान्मानान्तरात् निर्विशेषनिर्द्वन्द्ववस्त्वसिद्धेः, निरतिशयानन्दे कथञ्चिदपि मानान्तरानवताराच्च इति ।
आद्यवर्णके ब्रह्म सर्वज्ञं इति साध्ये अध्याहृते शास्त्रस्य वेदस्य योनित्वात् – कर्तृत्वादुपादानत्वाच्च इति सौत्रहेतोरन्वयः ।
द्वितीयवर्णके – ब्रह्म वेदान्तप्रतिपाद्यं इत्यस्मिन् साध्ये शास्त्रं योनिः – कारणं – प्रमाणं अस्य इति शास्त्रयोनित्वात् – शास्त्रप्रमाणकत्वात् इति सौत्रहतोरन्वयः ।
नच आद्यवर्णके शास्त्रग्रहणं व्यर्थं लौकिकवैदिकसाधारणशब्दयोनित्वमात्रेण सर्वज्ञत्वसिद्धेः इति वाच्यम् । आनुषङ्गिकवेदनित्यत्वमूलकसर्वकारणत्वासम्भवशङ्कानिराकरणार्थं द्वितीयवर्णकोपयोगसौकर्यार्थं च शब्दमात्रोपलक्षणतया शास्त्रग्रहणोपपत्तेः ।
नच द्वितीयवर्णके हेतोस्साध्यावैशिष्टयम् । तत्र हेतोरब्भक्षादिवदवधारणगर्भतया शास्त्रैकप्रमाणकत्वादित्यर्थकस्य प्रमाणान्तरागम्यत्वादित्यर्थे पर्यवसानात् । १ । १ । ३ ।
इति शास्त्रयोनित्वाधिकरणम् । ३ ।
तत्तु समन्वयात् । ४ ।
निरूपितं ब्रह्मणश्शास्त्रयोनित्वं आक्षिप्य समाधीयते ।
ब्रह्म न वेदान्तप्रतिपाद्यं सिद्धवस्तुबोधने प्रवृत्तिनिवृत्त्यभावेन फलाभावात् , अतो वेदान्ताः कर्मविध्यपेक्षितकर्तृप्रतिपादनपरा मोक्षार्थोपासनाविधिपरा वा इति प्राप्ते –
ब्रह्म वेदान्तप्रतिपाद्यमेव, तत्र वेदान्तानां सर्वेषां सम्यक् उपक्रमाद्यवगतेन तात्पर्येण अन्वयात् । न च सिद्धवस्तुबोधने प्रयोजनाभावः । ग्रामपश्वाद्यप्राप्तसिद्धवस्तुबोधनस्य प्रवृत्त्यपर्यन्तस्य निष्फलत्वेऽपि प्राप्तस्य भ्रमवशादप्राप्तत्वेनावभासमानस्य सिद्धस्य कण्ठगतचामीकरादेर्बोधनं प्रवृत्त्यपर्यन्तमेव सफलं इति दृष्टत्वात् तन्यायविषयत्वात् सिद्धरूपनित्यप्राप्तब्रह्मात्मैक्यबोधनस्य इति सिद्धान्तः । यद्यपि प्रयोजनसमर्थनं प्रथमसूत्रे कृतं, तथाऽपि मुखान्तरेण तदाक्षेपसमाधानार्थमिदमधिकरणम् ।
यत्तु कण्ठगतचामीकरोपदेशस्य न प्राप्तचामीकरप्राप्तिः फलं, किन्तु तत्प्राप्तिज्ञानजन्यसुखस्य वस्तुतः प्रागप्राप्तस्य प्राप्तिः, प्राप्तचामीकराप्राप्तिभ्रमजन्यदुःखस्य च वस्तुतः प्रागनिवृत्तस्य निवृत्तिर्वा । न चेह तथा प्रागप्राप्तं सुखदुःखप्राप्तिनिवृत्त्योरन्यतरत् प्राप्यमस्तीति दृष्टान्तवैषम्योद्घाटनम् –
तत्तुच्छम् । सिद्धवस्तुबोधनस्य पुरुषार्थपर्यवसायित्वमात्रे हि स दृष्टान्तः न तु बोध्यमानस्यैव स्वतःपुरुषार्थत्वे । तत्र प्रागनभिव्यक्तं चामीकरं उपदेशेनाभिव्यक्तमपि न स्वतःपुरुषार्थ इति पुरुषार्थान्तरपर्यवसानान्वेषणम् । इह तु ‘तत्त्वमसि’ इत्युपदेशेन ‘राजसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते । यथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यतः’ इति वार्तिकोक्तन्यायेन अध्यस्तसर्वानर्थमूलहृदयग्रन्थिनिवृत्तिपूर्वकनिरतिशयानन्दरूपब्रह्मात्मभावाभिव्यक्तौ तावतैव कृतार्थतेति न पुरुषार्थान्तरपर्यवसानान्वेषणमिति विशेषः । अयन्तु विशेष: - परंपरया पुरुषार्थपर्यवसायिनोऽपि सप्रयोजनत्वे साक्षादेव पुरुषार्थपर्यवसायिनः सप्रयोजनत्वं किमु वक्तव्यमिति कैमुतिकन्यायहेतुतयाऽलङ्कार एव, न बाधकः ॥
अत्रैव वर्णकान्तरं प्रदर्श्यते –
पूर्ववर्णके सिद्धार्थेऽपि पौरुषेयवाक्यानां प्रामाण्यमङ्गीकृत्य वेदान्तेषु पुरुषार्थपर्यवसानं कार्यविषयतामन्तरेण न लभ्यत इति पूर्वपक्षो ब्रह्मात्मैक्यावगममात्रायत्तपरमपुरुषार्थलाभसमर्थनेन निरस्तः । इदानीं शब्दानां सिद्धे अर्थे व्युत्पत्त्यभावात् ब्रह्मात्मभावोपदेशमात्रेण मोक्षादर्शनाच्च उपासनाविधिपरा एव वेदान्ताः, मोक्षोऽपि तत्फलत्वेनैवाभ्युपगन्तव्यः इति पूर्वपक्षो निरस्यते ।
स्पष्टं तावच्छब्दानां प्राथमिकव्युत्पत्तिग्रहः कार्यपरेष्वेव शब्देषु उत्तममध्यमवृद्धव्यवहाराभ्यां इत्यतः तत्र कार्यपरत्वे शब्दानां निर्णीते तदनन्तरप्रवृत्तप्रसिद्धपदसमभिव्याहाराद्यधीनव्युत्पत्तिग्रहोऽपि कार्यविषय एवेति युक्तम् । न च पितृमातृप्रभृतिभिः अम्बा तातः मातुलः इत्यादिशब्देषु तत्तदर्थानंगुल्या निर्दिश्य बहुशः प्रयुक्तेषु सत्सु बालानामंगुलिनिर्देशशब्दप्रयोगसाहचर्यदर्शनजनितवासनाबाहुल्यात्तत्तच्छ्रवणानन्तरं तत्तदर्थविषयबुद्ध्युदयेन सिद्धरूपेषु तेषु तेष्वर्थेषु प्राथमिकव्युत्पत्तिग्रहः सम्भवतीति वाच्यम् । अर्थविषयांगुलिनिर्देशशब्दप्रयोगसाहचर्यरूपसम्बन्धान्तराधीनेन शब्दतोऽर्थप्रत्ययेन हेतुना तदुपपादकतया शक्तिरूपसम्बन्धान्तरकल्पनस्य व्यधिकरणत्वात् । न च – यत्र केनचित् पुरुषेण हस्तचेष्टादिना ‘पिता ते सुखमास्ते इति देवदत्ताय ज्ञापय’ इति प्रेषितोऽन्यः तद्ज्ञापनाय देवदत्तमुपसृत्य ‘पिता ते सुखमास्ते’ इति शब्दं प्रयुङ्क्ते, तत्र पार्श्वस्थोऽपि व्युत्पित्सुः चेष्टादर्शितपितृसुखावस्थानज्ञापने प्रवृत्तममुं ज्ञात्वाऽनुगतः तद्ज्ञापनाय प्रयुक्तं शब्दं श्रुत्वा शब्दोऽयं तदर्थबुद्धिहेतुरिति बुध्यते इति सिद्धार्थेऽपि प्राथमिकव्युत्पत्तिग्रहो दृष्ट इति वाच्यम् । चेष्टाविशेषाणां तत्तदर्थबोधकशब्दोन्नायकत्वेन तत्तद्गमकत्वे उदाहृतस्थलस्य प्राथमिकव्युत्पत्तिग्रहस्थानत्वासिद्धेः । तेषां तत्तदर्थलिङ्गतया तत्तद्गमकत्वे चेष्टाविशेषाणां तत्तदर्थव्याप्तिग्रहणस्य प्रथमं सङ्केतयितृपुरुषोपदेशाधीनत्वेन तथात्वासिद्धेः । यदि च सिद्धवस्तुरूपब्रह्मात्मोपदेशमात्रान्मोक्षस्स्यात् तदा सकृच्छ्रवणमात्रेण मोक्षो दृश्येत । न च तथा दृश्यते । श्रुतब्रह्मणामपि यथापूर्वं संसारदर्शनात् , श्रवणानन्तरमपि मनननिदिध्यासनयोर्विधानाच्च । तस्मात् वेदान्तानामुपासनाविधिपरत्वमभ्युपगम्य तद्विषयतयैव ब्रह्मसिद्धिः तत्फलतयैव मोक्षसिद्धिश्च एष्टव्या । यदि च अन्यशेषेभ्यः कर्मविध्यपेक्षितदेवतादिवत् मानान्तरविरुद्धं ब्रह्मात्मैक्यं न सिद्ध्येत् ,मोक्षश्चोपासनाफलत्वे साधनतारतम्यायत्ततारतम्यशालित्वावश्यम्भावेन नित्यनिरतिशयपुरुषार्थरूपो न सिध्येत् , मा सैत्सीत्तदुभयम् । नैतावता व्युत्पत्तिग्रहविरुद्धं फलातिप्रसङ्गपराहतं च वेदान्तानां मोक्षफलकसिद्धवस्तूपदेशपरत्वमभ्युपगन्तुं युक्तं इति पूर्वपक्षः ॥
सिद्धान्तस्तु – ‘पुत्रस्ते जातः’ इत्यादिसिद्धार्थपरवाक्येष्वपि प्राथमिकव्युत्पत्तिग्रहदर्शनात् , कार्यपरवाक्येष्वेव प्राथमिकव्युत्पत्तिग्रहनियमेऽपि कार्यविशेषमिव कार्यसामान्यमप्यनन्तर्भाव्य इतरान्वितस्वार्थमात्रे तत्तदर्थमात्रे वा पदानां शक्तिग्रहसम्भवात् , कार्यमन्तर्भाव्य प्राथमिकव्युत्पत्तिग्रहेऽपि अग्रे सिद्धार्थप्रयोगदर्शनेन गुरुमते प्रथमगृहीतलौकिककार्यपरत्वस्येव कार्यसामान्यपरत्वस्यापि त्यागसम्भवाच्च न वेदान्तानामुपक्रमाद्यवगतब्रह्मात्मैक्यपरत्वं परित्यज्य कार्यपरत्वं कल्पनीयम् ।
नचैवं सति तदुपदेशमात्रेण मोक्षप्रसङ्गः ।
मनननिदिध्यासननिवर्त्यासम्भावनादिप्रतिबद्धस्य आपातरूपस्य श्रवणसाध्यज्ञानस्य अविद्यानिवर्तनाक्षमत्वात् । न च ज्ञानस्य प्रागभावनिवृत्ताविव अविद्यानिवृत्तावपि प्रतिबन्धासम्भव इति वाच्यं । ज्ञानस्यैव प्रागभावनिवृत्तित्वेन ज्ञानोदये सति तस्यां प्रतिबन्धासम्भवेऽपि अविद्यानिवृत्तेर्ज्ञानसाध्यत्वेन इच्छादिप्रागभावनिवृत्ताविव तत्र प्रतिबन्धसम्भवात् । नच विद्याविद्ययोरत्यन्तविरोधित्वात् विद्योदये सति अविद्याऽनुवृत्त्यसम्भवः । विशेषदर्शनभ्रमयोरत्यन्तविरोधित्वेऽपि उपाधिना प्रतिबन्धात् सत्यपि विशेषदर्शने प्रतिबिम्बभ्रमो न निवर्तत इति तदनुवृत्तिवत् अविद्याऽनुवृत्त्युपपत्तेः । न च अविद्यावत् तत्कार्याणामपि ज्ञाननिवर्त्यत्वात् ज्ञानोदये सति अवस्थानं न सम्भवतीति प्रतिबन्धकत्वायोग इति वाच्यम् । श्रवणानन्तरं मननविधानेन श्रुतब्रह्मणां संसारानुवृत्तिदर्शनेन च फलबलात् अनादिकालप्रवृत्तदृढतरभेदादिवासनातत्कार्यासम्भावनाविपरीतभावनानां मनननिदिध्यासननिवर्तनीयानां विद्योदये सत्यप्यवस्थानस्य अविद्यानिवृत्तिप्रतिबन्धकत्वस्य च कल्पनात् ।
यद्वा सत्ताऽवधारणरूपमेव ज्ञानं अविद्यानिवर्तकं, न ज्ञानमात्रं, संशयस्यापि तन्निवर्तकत्वप्रसङ्गात् । श्रवणजन्यज्ञानं च सत्तानवधारणरूपमिति कारणाभावादेवानिवृत्तिरविद्यायाः, न तु प्रतिबन्धात् । न च न्यायोपबृंहितवेदान्तश्रवणेन निर्णयकारणेन जायमानमेकाकारज्ञानं कथं सत्तानवधारणं स्यादिति वाच्यम् । तथाभूतकारणजन्यस्यापि भेदवासनाऽऽदिदोषात् सत्ताऽनवधारणत्वसम्भवात् । चक्षुरादिनिर्णयकारणजन्यस्यैकाकारस्याप्यनभ्यासदशापन्नजलादिज्ञानस्य अनभ्यासदशादोषात् सत्तानवधारणत्वदर्शनात् । अन्यथा तत्र जलादिसंशयो न स्यात् । न च तत्र ज्ञानप्रामाण्यसंशयात् संशयो न स्वत इति वाच्यम् । जलज्ञानप्रामाण्यसंशयस्यापि पुरोवर्तिनि जलत्ववैशिष्ट्यसंशयपर्यवसायितया जलनिश्चये सति तस्याप्यसम्भवात् । न हि पुरोवर्तिनि जलत्ववैशिष्ट्यं विना जलज्ञानप्रामाण्यघटके पुरोवृत्तिविशेष्यकत्वे जलत्वप्रकारकत्वे वा संशयकोटितापर्यवसानं सम्भवति । तस्य अप्रामाण्यकोट्यन्तरसाधारण्यात् । न च प्रामाण्यसंशयात् पूर्वं धर्मिज्ञानेन व्यवसायस्य नष्टत्वात् न तदनुपपत्तिरिति वाच्यम् । अनुव्यवसायवादेऽपि अनुव्यवसायस्य विषये प्रकारवैशिष्ट्यांशेऽपि सत्तानिश्चयरूपत्वस्य वक्तव्यत्वात् । अन्यथा इष्टवस्त्वादिज्ञानानामन्वयव्यतिरेकाभ्यां सुखादिहेतुत्वं न गृह्येत । इष्टतावच्छेदकवैशिष्ट्यांशेऽनुव्यवसायस्य सत्ताऽनिश्चयरूपत्वे इष्टज्ञानत्वानिश्चयात् | तस्मात् व्यवसायस्यानुव्यवसायस्य वा प्रायः सत्तानिश्चयरूपत्वेऽपि क्वचिदनभ्यासदशादिदोषात् सत्तानवधारणरूपत्वेनैव प्रामाण्यसंशय उपपादनीयः । एवं ब्रह्मज्ञानमपि प्रथमजं भेदवासनादिदोषात् सत्तानवधारणरूपमिति न फलातिप्रसक्तिः । ततश्च वेदान्ताः सिद्धरूप एव ब्रह्मात्मवस्तुनि प्रमाणम् | तज्जन्यादेव ब्रह्मसाक्षात्कारात् मोक्षः । अत एव मोक्षस्य श्रुत्यवगतनित्यत्वमपि न बाधितं भवति । अन्यथा ह्युपासनाफलत्वे तत् बाधितं स्यादिति ।
सूत्रे तदिति पक्षनिर्देशो ब्रह्मपरः । पूर्वसूत्रेऽप्येतदेव पक्षनिर्देशकमपेक्षणीयम् । वेदान्तप्रतिपाद्यमिति पूर्वाधिकरणद्वितीयवर्णकवत् साध्यमध्याहरणीयम् । ‘तुशब्दः’ प्रसक्तपूर्वपक्षनिवृत्त्यर्थः । समन्वयात् उपक्रमाद्यवगतवेदान्ततात्पर्यगोचरत्वादित्यर्थः । १. १. ४ ।
इति समन्वयाधिकरणम् ॥ ४ ॥
ईक्षतेर्नाशब्दम् । ५।
प्रथमसूत्रेण शास्त्रारम्भे समर्थिते जन्मादिसूत्रप्रभृति शास्त्रं प्रवृत्तम् । तत्र जन्मादिसूत्रेण लक्षणमुखेन ब्रह्मस्वरूपं निरूप्य, तृतीयसूत्रेण तस्य अनुमानगम्यत्वनिरासेन तत्र वेदान्तानां प्रामाण्यमुपक्षिप्य, चतुर्थसूत्रेण प्रवृत्तिपरवाक्यानामेव सफलत्वमित्यादिजैमिनिमतोपजीविशङ्कानिराकरणेन तत् प्रामाण्यं प्रतिष्ठापितम् ।
इह पुन: जगत्कारणवादिनो वेदान्ता आनुमानिकप्रधानानुवादका इति साङ्ख्यपक्षप्रतिक्षेपेण ब्रह्मणि दर्शितयोर्लक्षणप्रमाणयोः प्रतिष्ठापना क्रियते ॥
पूर्वपक्षस्तु
‘सदेव सोम्येदमग्र आसीत्’(छा. ६. २. १.) इत्यादिसृष्टिवाक्यजातं ‘विमतमचेतनप्रकृतिकं कार्यत्वात् घटवत्’ इति साङ्ख्यानुमानसिद्धं प्रधानमनुवदतीति युक्तम् | वृद्धव्यवहारेण सिद्धार्थे व्युत्पत्तौ पूर्वाधिकरणे स्थितायामपि मानान्तरगोचर एवार्थे तत्सम्भवात् तदगोचरे ब्रह्मणि सद्ब्रह्मादिशब्दानां व्युत्पत्तिग्रहासम्भवात्
‘तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’। (छा. ६. ८. ४) इति श्रुत्यैव शुङ्गशब्दोक्तकार्यलिङ्गकानुमानसिद्धकारणानुवादकत्वस्फुटीकरणाच्च । न च त्वन्मते अस्त्यनुमानगम्यत्वं ब्रह्मणः । अनुमानमपेक्ष्य ब्रह्मबोधकत्वे च वेदान्तानां तत्र निरपेक्षत्वलक्षणप्रामाण्यं न सिद्ध्येत् ।
ब्रह्मणो नित्यसर्वविषयज्ञानतयाऽङ्गीकृतस्य तत्कर्तृत्वाभावेन तत्रापि तदयोगात् । न च प्राक्सिद्ध प्रकाशेऽपि सवितरि सविता प्रकाशयतीति प्रकाश्यसंयोगोपाधिकप्रकाशकर्तृत्वव्यपदेशवत् नित्यज्ञानरूपे ब्रह्मणि दृश्यावच्छेदोपाधिकज्ञानकर्तृत्वव्यपदेशो गौणोऽस्त्विति वाच्यम् । सवितृप्रकाशे प्रकाश्यसंयोगवत् ब्रह्मज्ञाने दृश्यावच्छेदस्य आगन्तुकत्वानङ्गीकारात् । अन्यथा ब्रह्मणः कदाचिदसर्वज्ञत्वापत्तेः । ‘सर्वज्ञानशक्तिमत्त्वमेव ब्रह्मणस्सर्वज्ञत्वमिति चेत्’ तर्हीदं प्रधानेऽपि संभवति । तस्य ज्ञानहेतुसत्त्वगुणशालित्त्वात् । ‘ऐक्षत’ इत्येतदपि तत्र संभवति । ब्रह्मणि प्रत्ययार्थवत् प्रधाने प्रकृत्यर्थः कूलं पिपतिषतीत्यादाविव कार्यौन्मुख्यरूपो गौणः इत्युपपत्तेः । ईक्षणं गौणं तत्कर्तृत्वं वा इत्यत्र नास्ति नियामकमिति चेत्
‘तत्तेज ऐक्षत’(छा. ६. २. ३) ‘ता आप ऐक्षन्त’(छा. ६.२.४) इति गौणेक्षणप्रायपाठस्य नियामकस्य सत्त्वादिति ॥
राद्धान्तस्तु – प्रधानं न जगत्कारणत्वेन सृष्टिवाक्यजातबोध्यम् । तत्र ईक्षणश्रवणेन तस्य जगत्कारणपरसद्ब्रह्मादिशब्दाविषयत्वात् । न च तेषां शब्दानां ब्रह्मपरत्वे व्युत्पत्तिग्रहासम्भवो दोषः। तेषां यौगिकत्वेन पृथग्व्युत्पत्तिग्रहानपेक्षणात् । यूपाहवनीयादिन्यायेन तद्ग्रहोपपत्तेश्च ।
ब्रह्मण्यपि श्रुत्यनुग्राहकानुमानप्रवृत्त्यविरोधात् । श्वेताश्वतरे
‘कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्मभावादात्माऽप्यनीशस्सुखदुःखहेतोः’(श्वे. १. २) इति मन्त्रेण कालस्वभावकर्ममहाभूतप्रकृतिपुरुषातिरिक्ते ब्रह्मण्येव कार्यलिङ्गकानुमानोपन्यासदर्शनाच्च । नचैवं श्रुतेर्निरपेक्षत्वहानिः । श्रुतितात्पर्यनिर्णयाय मीमांसाशास्त्रग्रथितन्यायकलापापेक्षावत् श्रुतिदर्शितस्वानुग्राहकानुमानापेक्षायामपि निर्णीते संवादाय तदनपेक्षणात् । उपक्रमोपसंहाराद्यन्तर्गतोपपत्तिरूपतया अनुमानस्य तात्पर्यनिर्णयार्थमपेक्षायास्सम्प्रतिपन्नत्वात् । न चासम्भवशङ्काव्यावृत्त्यर्थं मृत्पिण्डादिदृष्टान्त एव तत्रोपपत्तिः नानुमानमिति वाच्यम्
‘न हि द्रष्टुर्द्रष्टेर्विपरिलोपो विद्यते अविनाशित्वात् (बृ. ४. ३. २३) इत्यादौ अनुमानरूपाया अप्युपपत्तेर्दर्शनेन तदसङ्ग्रहायोगात् । नन्वेवं सति किमर्थं हेतुवन्निगदाधिकरणे ‘शूर्पेण जुहोति’ इत्यत्र ‘तेन ह्यन्नं क्रियत’ इत्यस्य हेतुत्वान्वयनिरासः कृतः । हेतुत्वान्वये, येन येन अन्नं क्रियते तेन सर्वेणापि होतव्यमिति व्याप्त्याक्षेपेण दर्वीपिठरादीनामपि होमसाधनत्वानुमानात् आनुमानिकैस्तैः प्रत्यक्षश्रुतस्य शूर्पस्यान्याय्यो विकल्पः स्यादिति तन्निरासार्थम् , न तु हेतुत्वान्वये तत्सापेक्षत्वलक्षणमप्रामाण्यं स्यादिति तन्निवर्तनार्थम् । अत एव तत्रैवाधिकरणे न्यायसुधायां आतिथ्येष्टौ अतिदेशप्राप्तौपभृताष्टगृहीतनिवर्तनपरे ‘चतुर्गृहीतान्याज्यानि भवन्ति’ इत्यत्र ‘न ह्यत्रानूयाजा इज्यन्ते’ इति वाक्यशेषस्य हेतुसमर्पकत्वमभ्युपगतम् । यत्र यत्रानूयाजानामभावः तत्र तत्राष्टगृहीताभावः इति व्याप्त्याक्षेपस्य निर्दोषत्वात् । अप्रामाण्यनिरासार्थं हेतुत्वान्वयनिरासः इति निबन्धनकारनिर्बन्धमात्रम् ॥
सर्वज्ञत्वं ब्रह्मणो न सर्वविषयज्ञानकर्तृत्वम् । किन्तु विषयोपरागेण कल्पितभेदं सर्वविषयज्ञानरूपं चित्प्रकाशं प्रत्याश्रयत्वम् । ‘सविता प्रकाशते’, ‘चैत्रो जानाति इच्छति यतते स्वपिति’ इत्यादिषु धात्वर्थं प्रत्याश्रयत्वस्यापि कर्त्रर्थप्रत्ययाभिधेयत्वदर्शनात् ।
एवञ्च ‘तदैक्षत’ इत्येतदपि ब्रह्मण्युपपद्यते । स्रष्टव्यालोचनरूपमायावृत्तिप्रतिबिम्बितचित्प्रकाशरूपे ईक्षणे ब्रह्मणः तदवच्छेदकमायावृत्तिकर्तृत्वस्योपचारसम्भवाच्च ॥
यद्यप्येवं धात्वर्थाश्रयत्वं तत्कर्तृत्वं चेत्युभयमप्यौपचारिकमेव, तथापि प्रधानपक्षे निरपेक्षप्रकृत्यर्थस्यामुख्यत्वं स्यात् , ततो वरं सापेक्षप्रत्ययार्थस्यामुख्यत्वप्रकल्पनं इति सर्वमनाकुलम् ।
इदन्तु चोद्यमवशिष्टम् – प्रकृत्यर्थस्यामुख्यत्वहेतुर्गौणेक्षणप्रायपाठो वर्तते – इति तत् उत्तरसूत्रेणानुभाष्य निराकरिष्यते ।
सूत्रे प्रधानं जगत्कारणवाचिवेदान्तप्रतिपाद्यं इति धर्मिनिषेध्ययोरध्याहारेण पक्षसाध्यनिर्देशः । तत्र हेतु: अशब्दं – सदादिशब्दाबोध्यं हि तदिति । ‘नन्वसिद्धो हेतुः प्रधानेऽपि सत्ताऽऽदियोगेन सदादिशब्दप्रवृत्त्युपत्तेः’ इति शङ्कानिराकरणेन तदुपपादनार्थो हेतुः ईक्षतेः इति । नन्वेवं हेतुहेतुत्वेनावश्यापेक्षितेक्षतिहेतोरेव साक्षात् साध्ये हेतुत्वसम्भवे किमन्तर्गडुना अशब्दत्वहेतुना इति चेत् , तर्हि ईक्षतिहेतोरपि गौणत्वशङ्कानिराकरणायावश्यकस्य ‘आत्मशब्दात्’ इति उत्तरसूत्रहेतोरेव साक्षात् साध्ये हेतुत्वसम्भवात् ईक्षतिरप्यन्तर्गडुरिह नोपादेयः स्यात् । नन्वीक्षतिहेतूपादानं गौणत्वशङ्कोद्भावनद्वारतया गौणेक्षणप्रायपाठरूपपूर्वपक्षबीजसूचनार्थं स्यादिति चेत् ; तर्हि अशब्दत्वहेतुरपि ब्रह्मणस्सदादिशब्दबोध्यत्वसम्भवज्ञापनद्वारतया तदसम्भवपूर्वपक्षसूचनार्थः स्यादिति तस्य नास्ति वैयर्थ्यमिति गृहाण । ननु च आनुमानिककारणतावगमपूर्वपक्षोऽपि त्वया दर्शितः, तत्सूचनार्थं अशब्दम् – शब्देतरानुमानप्रमाणवत् इति मत्वर्थीयाच्प्रत्ययान्तत्वेन
‘आनुमानिकमप्येकेषाम्’(ब्र. सू. १. ४. १.) इति सूत्रप्रयुक्तानुमानिकपदवत् प्रधानपरमपि किं न स्यात् , सौत्रपदानामावृत्तेरलङ्कारत्वात् इति चेत् , न ; पूर्वाधिकरणे उपक्रमादिलिङ्गावगमिततात्पर्यवता वेदान्तबृन्देन सह ब्रह्मणः प्रतिपाद्यतया अन्वयपरेण ‘समन्वयात्’ इति पदेनैव उपक्रमाद्यन्तर्गतानुमानरूपोपपत्तिविषयत्वस्य ब्रह्मणि सिद्धत्वेन अनुमानविषयतामात्रस्य पूर्वपक्षबीजत्वाभावात् । भाष्ये ‘सर्वेष्वेव वेदान्तवाक्येषु सृष्टिविषयेष्वनुमानेनैव कार्येण कारणं लिलक्षयिषितम्’ इति पूर्वपक्षिमतवर्णनस्य ब्रह्मणोऽनुमानगम्यत्वसम्भवप्रपंचनार्थत्वेन तस्य अनन्यथासिद्धपूर्वपक्षबीजत्वे तात्पर्याभावात् । ‘परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेव’ इति भाष्यदर्शितस्य मानान्तरागम्ये ब्रह्मणि व्युत्पत्तिग्रहासम्भवस्य प्रायपाठनियमितप्रकृत्यर्थगौणत्वस्य चेति द्वयोरेवात्र वस्तुतः पूर्वपक्षबीजत्वात् । १ । १।५ ।
स्यादेतत् – छान्दोग्ये तावत् गौणेक्षणप्रायपाठात् गौणमीक्षणं युक्तम् ; तत्समानार्थत्वात्
‘स ईक्षाञ्चक्रे’(प्र. ३. ६. ३.) इत्यादिश्रुत्यन्तरेष्वपि तत् गौणं भविष्यति । न च सन्निधिरूपेण प्रायपाठेन ईक्षणश्रुतिबाधो न युक्त इति शंक्यम् । तत्र तत्र प्रत्ययश्रुतीनां प्रायपाठस्य च इत्यनेकानुग्रहाय एकस्याः ईक्षणश्रुतेः गौणत्वाभ्युपगमसम्भवात् इत्याशङ्का निराक्रियते–
गौणश्चेन्नात्मशब्दात् ।६।
न ईक्षतिः प्रधाने गौण इति युक्तम् ;
‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’(छा. ६. ३. २) इति सच्छब्दाभिहितं जगत्कारणं प्रति जीवस्य स्वरूपत्वप्रतिपादकात्
‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो’(छा. ६. ८. ७) इति श्वेतकेतुं प्रति सच्छब्दाभिहितस्य स्वरूपत्वप्रतिपादकाच्च शब्दात् । ‘तत्सत्यं स आत्मा’ इत्यात्मशब्दाच्च । न ह्यचेतनस्य चेतनं चेतनस्य वा अचेतनं स्वरूपं भवितुमर्हति । न वा चेतनवाची आत्मशब्दः अचेतने युज्यते । न च – ममात्मा भद्रसेन इतिवत् औपचारिकोऽयमुपकार्योपकारकयोर्जीवप्रधानयोरभेद: स्यात् , आत्मशब्दश्च स्वरूपपरस्स्यादिति शङ्क्यम् । ‘तत्त्वमसि’ इति नवकृत्वोऽभ्यासेन अभेदे तात्पर्यावगमात् । ‘स आत्मा’ इत्यात्मशब्दस्य निरपेक्षचेतनपरत्वे सम्भवति सापेक्षस्वरूपपरत्वकल्पनाऽयोगाच्च । अनेकार्थत्वस्यान्याय्यत्वेन प्रसिद्धिबाहुल्याच्चेतनवाचिनस्तस्य स्वरूपपरत्वे लक्षणाकल्पनापत्तेश्च । बहुप्रमाणबाधस्यान्याय्यत्वाच्च । तस्मात् प्रधानं न सच्छब्दवाच्यम् ॥
सूत्रे आत्मशब्दादित्यत्र आत्मपदं स्वरूपपरं धर्मप्रधानं, तस्य शब्दात् स्वरूपत्वप्रतिपादकशब्दादित्यर्थः । तेन च सच्छब्दवाच्यं प्रति जीवस्य स्वरूपत्वप्रतिपादकश्शब्दो जीवं प्रति सच्छब्दवाच्यस्य स्वरूपत्वप्रतिपादकश्शब्दश्चेत्युभयमपि संगृहीतम् । अयमेकोऽर्थः । स आत्मेत्यात्मशब्दादित्यन्योऽर्थः । उभयमपि विवक्षितं प्रमाणबाहुल्यसूचनार्थम् । १ । १।६।
तन्निष्ठस्य मोक्षोपदेशात् ।७।
हेयत्वावचनाच्च । ८।
ननु ‘तत्त्वमसि’ इति न तत्त्वदृष्ट्या सदात्मत्वोपदेशः, किन्तु स्थूलारुन्धतीन्यायेन, ततश्च प्रधानस्य सच्छब्दार्थत्वेऽपि सदात्मत्वोपदेशो न विरुध्यते इति न शङ्क्यम् । तदा मोक्षयितव्यश्श्वेतकेतुस्तन्निष्ठो माभूदिति मुख्यमात्मानमुपदिदिक्षुणा आरुणिना स्थूलतारायामरुन्धतीतादात्म्यस्येव इह सदात्मत्वस्य हेयताया वक्तव्यतापत्तेः । तस्य अवचनात् सदात्मत्व एव उपदेशपरिसमाप्तिदर्शनात् ।
पूर्वसूत्रे तच्छब्दः समस्तोऽपि अपेक्षावशादिहानुषक्तः षष्ठ्यन्तो विपरिणम्यते । तस्य – सदात्मत्वस्य हेयत्वावचनात् इति सूत्रार्थः । चकारेण प्रतिज्ञाविरोधादिति हेतुः अभ्युच्चीयते ।
‘येनाश्रुतं श्रुतं भवति’(छा. ६. १. १.) इत्यादेः एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः प्रधाने विरोधादपि न सच्छब्दादिवाच्यं प्रधानम् । सा हि धर्म्यैक्यात् एकाकारान्वयात् वस्त्वन्तराणामेकस्मिन्नध्यस्तत्वाद्वा निर्वहति । तत्र न तावत् , ब्रह्मवादे सर्वेषां ब्रह्मण्यध्यस्तत्वादध्यस्तानामधिष्ठानमेव वस्तुसत्स्वरूपमिति तद्ज्ञानेन ज्ञाततानिर्वाहवत् प्रधानवादे निर्वाहः सम्भवति ; प्रपञ्चसत्यत्वादभ्युपगमात् । नापि ज्यातिष्टोमविकृतीनां गवादीनां तत्समानाकारत्वात् तद्ज्ञानेन ज्ञाततेतिवन्निर्वाहो वा, एकमृत्पिण्डारब्धानां घटशरावादीनां तस्मादनतिरिक्तद्रव्यतया धर्म्यैक्यात्तद्ज्ञानेन ज्ञाततेतिवन्निर्वाहो वा अत्र सम्भवति । प्रधानविज्ञानेन तत्परिणामभोग्यवर्गविज्ञानसम्भवेऽपि भोक्तृवर्गविज्ञानासम्भवात् । १ । १ । ८ ।
स्वाप्ययात् । ९।
यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति (छा. ६.८.१) इति प्रकृतं सत् स्वशब्देनोक्त्वा तत्र जीवस्याप्ययप्रतिपादनादपि न सच्छब्दवाच्यं प्रधानम् । यद्यपि स्वशब्दः स्वीयपरत्वेन तत्राप्युपपद्यते, तथापि तत्र अप्ययशब्दितो जीवस्य लयो न सम्भवति । ननु ब्रह्मण्यपि जीवस्य मुख्यो लयो न सम्भवति नित्यत्वात् , औपचारिकस्तु लयः प्रधानेऽपि तस्य व्यपदेष्टुं शक्यः इति चेत् । न । अध्यस्ताकारनिवृत्तौ तदनुवृत्ताधिष्ठानरूपस्य अध्यस्तोपाधिकृतभेदनिवृत्त्या तदभेदप्राप्तिः अप्ययशब्दितो लयः, अस्ति च सुषुप्तौ ब्रह्माध्यस्तस्थूलसूक्ष्मदेहद्वयोपाधिकाकारनिवृत्तौ सत्यां तदनुवृत्ताधिष्ठानरूपजीवस्य तत्कृतभेदनिवृत्त्या ब्रह्माभेदप्राप्तिः इति मुख्यलयसम्भवात् । यद्यपि सुषुप्तावप्यविद्योपाधिकृतोऽतिसूक्ष्मान्तःकरणोपाधिकृतश्च आमुक्त्यनुवृत्तो जीवस्यास्त्येव ब्रह्मणो भेदः । तथाऽपि अत्यन्तभेदकस्थूलसूक्ष्मोपाधिसत्त्वे यथा भेदो न तथा भेदोऽस्ति तन्निवृत्ताविति कथञ्चिदभेदप्राप्तिरपि युज्यते । भाष्ये ‘सुपुप्तावस्थायामुपाधिकृतविशेषाभावात् स्वात्मनि प्रलीन इव’ इति इवकारो मुक्ताविव सुषुप्तौ सर्वात्मना न अभेदप्राप्तिरूपो विलयः इत्याशयेन । १ । १ । ९ ।
गतिसामान्यात् । १० ।
सर्वेषु वेदान्तेषु चेतनकारणत्वावगतिसामान्यादपि न सच्छब्दवाच्यं प्रधानम् , किंतु ब्रह्मैव ।१।१।१०।
श्रुतत्वाच्च । ११ ।
पूर्वसूत्रे सर्वेषां वेदान्तानां चेतनकारणत्वमात्रे श्रुतिलिङ्गादिकमभिप्रेतम् , न तु परमेश्वरस्यैव कारणत्वमित्यत्र तदभिधानश्रुतिरभिप्रेता ;
‘ आत्मन आकाशस्सम्भूतः’(तै. २. १.१) इत्यादितद्विषयवाक्यगतानामात्मादिशब्दानां चेतनमात्रवाचित्वात् , इह तु परमेश्वरस्यैव कारणत्वं तदभिधानश्रुत्या समर्पितमित्युच्यते इति भेदः । अत एवास्मिन् सूत्रे भाष्यं ‘स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते’ इति । स्वशब्दश्चात्र ‘स कारणम्’ इति मन्त्रात् प्राचीनेषु ‘तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति । संयुक्तमेतत् क्षरमक्षरञ्च व्यक्ताव्यक्तं भरते विश्वमीशः’ इत्यादिमन्त्रेषु श्रुतः ईशानादिशब्दः । तत्समर्पितो ह्यर्थः सकारणमिति मन्त्रे तच्छब्देन परामर्शनीयः । न च ईशानादिशब्दस्य तदभिधानश्रुतित्वे विवदितव्यम् ।
अङ्गुष्ठाधिकरणे (ब्र.सू.१. ३. ७) ईशानशब्दस्य ब्रह्माभिधानश्रुतित्वे सूत्रभाष्यसंप्रतिपत्तिदर्शनेन तत्तुल्यार्थस्येशादिशब्दस्यापि तथात्वसिद्धेः ।
एवं श्वेताश्वतरोपनिषद्गतानां परमेश्वराभिधानश्रुतीनां गतिसामान्यसूत्रगृहीतेभ्यः पृथक्कृत्य दर्शनञ्च प्रधानव्यावर्तनीभिरेव ताभिः जीवव्यावर्तनमपि लम्भयितुम् । तेन जन्मादिसूत्रे न्यायतो निरस्ता जीवकारणत्वशङ्का श्रुतितोऽपि निरस्ता भवति । स्फुटो हि तत्र क्षरादिशब्दितात् प्रधानादिव अक्षरकरणाधिपादिशब्दाज्जीवादपि तन्नियन्तृत्वेन विलक्षणः परमेश्वर एव कारणमिति सिद्ध्यतीति प्रधानकारणवादनिरासेनैव जीवकारणत्ववादनिरासः। ।१ । १ । ११ ।
इति ईक्षत्यधिकरणम् ।५।
आनन्दमयोऽभ्यासात् । १२ ।
एवं जडजीवविलक्षणस्य मायाशबलितस्य ब्रह्मणो जगत्कारणत्वप्रसाधनेन तदुपलक्षिते शुद्धब्रह्मणि वेदान्तानां समन्वयः सामान्यतो निर्व्यूढोऽपि केषुचिद्वेदान्तवाक्येष्वन्यपरत्वशङ्कया शिथिलीभवतीति तेषां तत्तच्छ्रुतिलिङ्गादिप्रापितान्यपरत्वशङ्कानिराकरणेन तत्र समन्वयः प्रतिष्ठापनीयः । अन्यथा तत्तत्प्रकरणदर्शितोपायमुखेन शुद्धब्रह्मप्रतिपत्त्यसिद्धेः । उपासनावाक्येषु च केषुचित् उपास्यमब्रह्मेति शङ्कानिराकरणेन ब्रह्मेति प्रतिपादनीयम् । यथा कर्मकाण्डे दर्शपूर्णमासाद्यर्थमप्प्रणयनादिकमाश्रित्य दर्शपूर्णमासादिप्रकरणे विहितानां गोदोहनादीनां कल्पसूत्रेऽपि तत्तत्प्रकरणे एव विवेचनम् , तथा ब्रह्मकाण्डे अध्यारोपापवादन्यायेन शुद्धब्रह्मप्रतिपत्त्यर्थमुपदिष्टं ब्रह्मणस्सप्रपञ्चत्वमाश्रित्य विहितानामुपासनानामपि ब्रह्मकाण्डार्थनिर्णायके एव शास्त्रे निर्णयस्योचितत्वात् । तद्वदिहाधिकृताधिकाराभावेऽपि चित्तवशीकरणसम्पादनादिद्वारा उपासनानां शुद्धब्रह्मप्रतिपत्त्युपायतया तद्वाक्यार्थनिर्णायकन्यायानामविचारितशुद्धब्रह्मपरवाक्यार्थनिर्णयोपयोगितया च तद्विचाराणामप्यत्र संगतेः । अतः तदर्थमध्यायशेष आरभ्यते ।
तत्र तावदानन्दवल्या जीवपरत्वनिरासेन ब्रह्मपरत्वमस्मिन्नधिकरणे समर्थ्यते ।
अत्र आनन्दमयो जीव इति पूर्वपक्षे ब्रह्मेति सिद्धान्तः इत्यधिकरणशरीरं वृत्तिकृता सूत्रार्जवं मन्यमानेन वर्णितम् ।
श्रुतिविरोधात्तदयुक्तमिति भगवता भाष्यकारेण पूर्वपक्षे सिद्धान्ते चानन्दमयस्य जीवत्वमुररीकृत्य प्रकारान्तरेण अधिकरणशरीरं वर्णितम् । तत् प्रदर्शयामः।
किमिह प्रियमोदादिरूपकल्पितशिरःपक्षाद्यवयवयुक्ततया उपास्य आनन्दमयो जीवः प्राधान्येन प्रतिपाद्यः ब्रह्म तु पुच्छरूपतदवयवतया निर्दिश्यते, उत शुद्धं ब्रह्मैव पुच्छशब्देन आनन्दमयस्याप्याधारतया स्वप्राधान्येन प्रतिपाद्यते अनन्दमयस्तु अन्नमयादिवत्तत्प्रतिपत्त्युपायतामात्रेण निरूप्यते इति संशयः ।
तत्र ईक्षतिमुख्यत्वानुरोधाज्जगत्कारणस्य चेतनत्ववत् पुच्छशब्दमुख्यत्वानुरोधाद्ब्रह्मणोऽवयवत्वमिति प्रथमकोटिः प्राप्ता । पुच्छशब्दस्याधारलक्षणाऽपि न युक्ता; प्रतिष्ठापदेनैवाधारत्वलाभात् । न च वाच्यम् – यथा ‘कान्तिमन्मुखं चन्द्रः’ इत्यत्र स्वशब्देनैव कान्तिमत्त्वे लब्धेऽपि मुखे गौणं चन्द्रपदमपि दृश्यते, तथेह प्रतिष्ठापदेन आधारत्वे लब्धेऽपि तल्लम्भकपुच्छशब्दोऽपि स्यादिति । वैषम्यात् । तत्र हि चन्द्रस्य यावती कान्तिः तावती मुखे स्तुत्यर्थं प्रतिपिपादयिषिता । न च तावती कान्तिमच्छब्देन लभ्यते । तस्य मानान्तरसिद्धमुखगताल्पकान्तिमात्रविषयत्वेन चारितार्थ्यात् । अतश्चन्द्रतुल्यकान्तिमत्त्वलाभाय चन्द्रपदं उपात्तम् । इह तु ब्रह्मणि प्रतिष्ठात्वसङ्कोचकमानान्तराभावात् तस्य निरपेक्षसर्वप्रतिष्ठात्वप्रतिपादकश्रुत्यन्तरानुरोधाच्च निरतिशयमाधारत्वं प्रतिष्ठापदेन लभ्यत इति किमत्र पुच्छपदेन करिष्यते । प्रत्युत पुच्छतुल्याधारत्वलक्षणायां पुच्छस्याधारत्वं भूतलास्तीर्णे तृणराशौ सञ्चरतः पुरुषान् प्रति तृणराशेरिव आधारान्तरसापेक्षं सातिशयमिति ब्रह्मणस्तथाभूतमाधारत्वं लक्षयत् पुच्छपदं अनिष्टार्थमेव स्यात् । तस्मात् पक्षिरूपेण परिकल्प्य उपासनीयं आनन्दमयं जीवं प्रति परस्य ब्रह्मणः कल्पनीयं पुच्छत्वं पुच्छपदेनोच्यते । प्रतिष्ठापदेन च पुच्छत्वकल्पनानिमित्तं सारूप्यमुच्यते । पक्षिणो हि पुच्छभागमाधारीकृत्य निषीदन्ति इति । पक्षिणां पुच्छं प्रतिष्ठा । अत एव ऐतरेयारण्यके श्रूयते ‘तस्मात् सर्वाणि वयांसि पुच्छेन प्रतितिष्ठन्ति पुच्छेनैव प्रतिष्ठायोत्पतन्ति प्रतिष्ठा हि पुच्छम्’(ऐतरेयारण्यकम्) इति । ब्रह्मानन्दोऽपि
‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’(बृ.उ.४.३.३२) इति श्रुत्यनुसारेण कृत्स्नस्यापि लौकिकानन्दशीकरजातस्य समुद्रस्थानीय इति प्रियमोदाद्यवयवयुक्तस्यानन्दमयस्य प्रतिष्ठा । अतः सारूप्यात् ब्रह्मणः पुच्छत्वकल्पना युक्तेति । अन्यत्रापि तादात्म्यकल्पनानिमित्तसारूप्यवर्णनं दृश्यते, यथा
‘तस्य भूरिति शिरः एकं हि शिरः एकमेतदक्षरम्’(बृ.उ.५.५.३) इति । अत्र भूरित्यक्षरे प्रजापतिशिरस्त्वकल्पनानिमित्तमेकत्वं सारूप्यमुक्तम् । न च प्रधानाप्रधानयोर्ब्रह्मजीवयोर्वैपरीत्यकल्पनाऽनुपपत्तिः ।
‘मनो ब्रह्मेत्युपासीत’(छा.उ. ३.१८.१) इत्यादौ तद्दर्शनात् ।
यदि तु एकस्मिन् वाक्ये द्वयोर्ब्रह्मानन्दयोः प्राधान्येन प्रतिपाद्यत्वायोगादन्यतरप्राधान्ये वक्तव्ये प्रथमश्रुतब्रह्मशब्दाभ्यासानुरोधेन ब्रह्मण एव प्राधान्यव्यवस्थितौ चरमश्रुतानन्दशब्दाभ्यासोऽपि ब्रह्मविषयः कल्प्येत, तदा ब्रह्मणः पुच्छत्वकल्पनस्य श्लोकादपि प्रथमश्रुतत्वेन शिरःपक्षमध्यपुच्छावयवयुक्तस्यानन्दमयस्य प्राधान्यावगमात् ब्रह्मशब्दाभ्यासवान् निगमनश्लोकोऽप्यानन्दमयविषयः इति कल्प्यताम् । तस्मात् आनन्दमय एव प्राधान्येन प्रतिपाद्यः इति पूर्वःपक्षः ॥
एवं प्राप्ते सिद्धान्त उच्यते ‘आनन्दमयोऽभ्यासात्’ इति । आनन्दमयवाक्ये श्रुतं पुच्छब्रह्म स्वप्राधान्येन वाक्यप्रतिपाद्यम् ;
‘असन्नेव स भवति’(तै.२.६.१) इति निगमनश्लोकस्थब्रह्मशब्दाभ्यासविषयत्वात् । नन्वसिद्धोऽयं हेतुः आनन्दमय एव निगमनश्लोकविषयोऽस्तु इत्युक्तत्वात् इति शङ्कायामप्येतदेवोत्तरम् ‘आनन्दमयोऽभ्यासात्’ इति । आनन्दमयः न निगमनश्लोकप्रतिपाद्यः ; तत्र ब्रह्मशब्दाभ्यासदर्शनात् । अभ्यस्यमानं ब्रह्मशब्दं प्रत्यानन्दमयस्य मुख्यार्थत्वाभावात् । एकं पुच्छपदमनुरुध्य अनेकस्य ब्रह्मशब्दस्य आनन्दमये जघन्यवृत्तिकल्पनानुपपत्तेः । एकबाधात् अनेकबाधस्यान्याय्यत्वेन उपक्रमादप्यभ्यासस्य प्रबलत्वात् । अस्य सूत्रस्य सिद्धान्तसाधकत्वेन योजनायां आनन्दमयपदेन आनन्दमयवाक्ये श्रुतं पुच्छब्रह्म लक्षणीयम् सिद्धान्तसाधकहेत्वसिद्धिनिरासकत्वेन योजनायां ईक्षतिसूत्रान्नञमनुवृत्त्य निषेध्याध्याहारेण साध्यं पूरणीयम् । ‘ब्रह्म पुच्छमभ्यासात्’ इत्यार्जवेन सूत्रे कर्तव्ये ‘आनन्दमयोऽभ्यासात्’ इति सूत्रकरणस्य एतत् प्रयोजनं यत् ईक्षतिसूत्रान्नञनुवर्तनेन तद्वन्निषेध्याध्याहारेण च आनन्दमयो न निगमनश्लोकप्रतिपाद्यः इति हेत्वसिद्धिशङ्कानिरासकहेतुसाध्यमपि लभ्यते इति । प्रयोजनान्तरञ्च व्यवहितानन्तरसूत्रे दर्शयिष्यामः ।
स्यादेतत् – पुच्छशब्दस्य अभ्यस्यमानब्रह्मशब्दमुख्यताऽनुरोधेन मुख्यार्थत्यागे, तस्याधारलक्षणाऽनुपपन्नेत्युक्तत्वादानर्थक्यमेव प्राप्नुयात् । ततश्च ‘आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्’ इति न्यायेन अभ्यस्तब्रह्मशब्दादपि पुच्छशब्द एव बलीयान् इत्याशयवतीमाशङ्कां अनुभाष्य निराकरोति –
विकारशब्दान्नेति चेन्न प्राचुर्यात् ।१३।
विकारशब्देन अवयवो लक्ष्यते, तद्वाची पुच्छशब्दो विकारशब्दः । स एव विकारः – विगतकार्यः अनर्थकशब्दः ।
‘अकर्तरि च कारके संज्ञायाम्’(पा.सू. ३.३.१९ ) इति कर्मणि घञन्तः कारशब्दः कार्यवाची । एवमर्थान्तरस्यापि गर्भीकरणाय ‘अवयवशब्दात्’ इति वक्तव्ये ‘विकारशब्दात्’ इत्युक्तम् । तथा च पुच्छावयववाचिनः तदर्थपरित्यागे लक्षणीयार्थाभावेन प्रसक्तानर्थक्यात् पुच्छशब्दाद्धेतोः न ब्रह्म प्राधान्येन प्रतिपाद्यं इति चेदिति शङ्कार्थः । ‘प्राचुर्यात्’ इति तन्निराकरणांशस्यायमर्थः – प्राचुर्यात् – अवयवप्राये वचनात् पुच्छशब्दोपपत्तिरिति । इदमुक्तं भवति – अन्नमयादीनां शिरआदिषु पुच्छान्तेष्ववयवेषूक्तेषु आनन्दमयस्यापि शिरःपक्षाद्यवयवान्तरोक्त्यनन्तरं प्रायपाठानुसारेण पुच्छपदे कस्मिंश्चिदर्थे निर्देष्टव्ये आनन्दमयं प्रत्याधारत्वेन ब्रह्मणि च प्रतिपादनीये तदुभयानुग्रहलाभाय ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्याह श्रुतिः, न अवयवविवक्षयेति । नन्वयवविवक्षाऽभावे कथमवयववाचिपुच्छपदप्रायपाठानुग्रह इति चेत् । न । तथापि पुच्छपदमात्रप्रायपाठानुग्रहलाभात् । बृहदारण्यके पञ्चाग्निविद्यायां
‘असौ वै लोकोऽग्निर्गौतम तस्यादित्य एव समित् रश्मयो धूमाः’(बृ.६.२.९) इत्यादिषु पञ्चसु पर्यायेषु
‘अथैनमग्नये हरन्ति तस्याग्निरेवाग्निर्भवति समित् धूमः’(बृ.६.२.१४) इत्यादिषष्ठपर्याये च साम्पादिकाग्निसमिद्धूमादिविषयत्वेन मुख्याग्निसमिद्धूमादिविषयत्वेन च भेदे सत्यपि अग्निसमिद्धूमादिशब्दप्रयोगैकरूप्यवत् इहापि पुच्छपदप्रयोगैकरूप्यस्य अवैकल्यात् । ननु तथाप्याधारत्वमात्रं प्रतिष्ठापदेन लब्धम् , पुच्छवत्सापेक्षाधारत्वं तु ब्रह्मणोऽनिष्टमिति पुच्छपदस्य लक्षणीयाभावेन प्रसक्तमानर्थक्यमपरिहृतमेव । उच्यते – आधारत्वसामान्यमेव पुच्छवद्भावविशेषिततया तेन लक्षणीयं श्रोतृबुद्ध्यवतरणाय । पक्षिणां पुच्छमाधार इति दृष्टम् । एवं पक्षितया निरूपितस्याऽऽनन्दमयस्य ब्रह्म पुच्छवदाधार इत्युक्ते दृष्टान्तमुखेन संप्रतिपत्तिर्भवति । ब्रह्मणि क्रमेण श्रोतृबुद्ध्यवतरणाय हि श्रुत्या अन्नमयादिक्रम आश्रितः । तत्र आनन्दमयं प्रत्याधारत्वेन ब्रह्मणि विवेक्तव्ये पक्षित्वेन निरूपितस्य तस्य आधारसद्भावः पुच्छपदप्रयोगमुखेन दृष्टान्तमुद्घाट्य व्यञ्जितः श्रोतृबुद्ध्यवतरणायेति किमनुपपन्नम् । लोकेऽपि प्रातिस्विकशब्ददर्शितार्थमात्र एव दृष्टान्तोपन्यासः प्रचुरो दृश्यते । यथा ‘यो यो धूमवान् सोऽग्निमान् यथा महानसः’ इति । यथा वा
‘‘एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः’(क.मारसम्भवः १.३) इति । न च दृष्टान्तोपन्यासे सर्वात्मना तदीयधर्मसदृश एव धर्मस्सिध्यतीति नियमः, येन पुच्छपदेन पुच्छवदाधारत्वलक्षणायां सापेक्षाधारत्वमनिष्टं प्राप्नुयादिति शङ्क्येत;
‘आकाशवत्सर्वगतश्च नित्यः’(गौड.कारिका.३.३) इत्यादीनां प्राचुर्येण दर्शनात् । न हि ब्रह्मणस्सर्वगतत्वे नित्यत्वे च प्रतिपादनीये श्रोतृबुद्ध्यवतरणाय आकाशदृष्टान्तोपन्यासेन ब्रह्मणोऽप्याकाशवदापेक्षिकमेव सर्वगतत्वं नित्यत्वञ्च प्राप्यते । सूत्रे ‘प्रायपाठात्’ इति स्पष्टं वक्तव्ये ‘प्राचुर्यात्’ इति वचनं प्रागन्नमयादिपर्यायेषु प्रतिपर्यायं पुच्छशब्दसद्भावेन तत्प्राचुर्यरूपं प्रायपाठम्, अन्यत्रापि श्रोतृबुद्ध्यवतरणाय दृष्टान्तोपन्यासप्राचुर्यम्, तदर्थदृष्टान्तोपन्यासस्थलेषु प्रतिपिपादयिषिते दृष्टान्तदृष्टहीनधर्मानापत्त्युदाहरणप्राचुर्यञ्च संग्रहीतुमिति सर्वमनवद्यम् ।१.१.१३।
स्यादेतत् – न केवलमेकस्य पुच्छशब्दस्य स्वारस्यमनुरुध्य निगमनश्लोकस्यानन्दमयविषयत्वं कल्प्यते, येन तस्य अभ्यासाद्दुर्बलत्वेन आधारलक्षकत्वं समर्थ्येत, किन्तु कृत्स्नस्याऽऽनन्दमयवाक्यस्य स्वारस्यमनुरुध्य । कृत्स्नेनापि ह्यानन्दमयवाक्येन
‘ब्रह्म पुच्छं प्रतिष्ठा’(तै. २.५.१) इत्यन्तेन अवयव्यानन्दमयः पूर्वपर्यायेष्वन्नमयादिवत् शिरःप्रभृतिपुच्छान्तसकलावयवापेक्षया प्राधान्येन प्रतिपाद्यः प्रतीयते । अतः प्रथमश्रुतानेकावान्तरवाक्यघटितमहावाक्यविरोधात् अभ्यस्तस्यापि ब्रह्मशब्दस्य आनन्दमये जघन्यवृत्तिकल्पनं युक्तमिति असाधकस्सिद्धान्तहेतुः, तदसिद्धिनिरासकहेतुश्च इत्याशङ्क्य आह –
तद्धेतुव्यपदेशाच्च ।१४।
‘इदं सर्वमसृजत यदिदं किञ्च’(बृ.१.२.५) इति सानन्दमयं विकारजातं प्रति ब्रह्मणस्स्रष्टृत्वोपदेशादपि ब्रह्म स्वप्राधान्येनैव प्रतिपाद्यम् । ननु सोऽप्यसञ्जातविरोध्यानन्दमयवाक्यानुसारेण कथञ्चिददृष्टद्वारा स्रष्टर्यानन्दमयेऽप्यवतिष्ठतामिति चेत् । मैवम् ।
‘सोऽकामयत’(तै.२.६) इत्यारभ्य कामनापूर्वकसर्वप्रपञ्चस्रष्टृत्वप्रतिपादनात् , तस्य च तत्रान्वेतुमयोग्यत्वात् । इदञ्च तत्रान्वेतुमयोग्यत्वं सूत्रे ‘व्यपदेशात्’ इति व्युपसर्गेण लभ्यते । विशिष्टो ह्यपदेशो व्यपदेशः । स च जीवेऽन्वेतुमयोग्यः कामनापूर्वकत्वेन विशिष्टः स्रष्टृत्वनिर्देशः । चकारेण निगमनश्लोकस्यापि तत्रान्वेतुमयोग्यत्वं समुच्चीयते । न ह्यानन्दमये प्रियमोदादियुक्ततया लोकप्रसिद्धे निगमनश्लोकोक्तसत्त्वासत्त्वशङ्का अन्वेति । चकारेण
‘को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दयाति’(तै.२.७) ‘भीषाऽस्माद्वातः पवते’(तै.२.८) इत्याद्युत्तरसन्दर्भगतसर्वप्राणिप्राणयितृत्वानन्दयितृत्वप्रशासितृत्वोपदेशा अपि समुच्चीयन्ते । एतेऽपि हि जीवेऽन्वेतुमयोग्याः । अतो बहुबाधस्यान्याय्यत्वात् आनन्दमयवाक्यस्यैव पुच्छपदमात्रलक्षणासाध्यं ब्रह्मप्राधान्यमभ्युपगन्तुं युक्तम् । वरं ह्यनेकवाक्यवैयर्थ्यात् प्रथमश्रुतस्यापि वाक्यस्य एकपदमात्रलक्षणासाध्यमन्यथाकरणम् । अत एव पूर्वतन्त्रे तत्सिद्ध्यधिकरणे (जै.सू.१.४) सृष्टिलिङ्गकमन्त्रोपधेयेष्टकावाचिनः सृष्टिशब्दस्य , सृष्ट्यसृष्टिलिङ्गकमन्त्रोपधेयानां सप्तदशानामिष्टकानां प्रत्येकं स्तुतिः ‘यत् सप्तदशेष्टका उपदधाति’ इत्युपसंहारः इति बहुवाक्यशेषानुसारेण तासु सर्वास्विष्टकासु लक्षणा स्वीकृता । नन्वस्तु सदसत्त्वसन्देहयोग्यत्वकामनापूर्वकसानन्दमयसकलप्रपञ्चस्रष्टृत्वसर्वप्राणिप्राणयितृत्वादिलिङ्गैः उत्तरसन्दर्भस्सर्वोऽपि ब्रह्मपरः ; तत्प्रतिपाद्यस्य तथाभूतस्यैव ब्रह्मणः स्वसृज्यत्वस्वप्राणनीयत्वादिविशिष्टमानन्दमयं प्रति काल्पनिकमवयवत्वमस्तु , न हि मुख्यमवयवत्वमिहोच्यते ; जीवस्य वस्तुतो निरवयवत्वात् इति चेत् । भ्रान्तोऽसि । न हि वयमिह वस्तुविरोधं ब्रूमः येनोपासनार्थावयवत्वकल्पनोपदेशपरतया तत्समाधानं क्रियेत , किन्तु उत्तरसन्दर्भपर्यालोचनया प्राधान्येन ब्रह्मप्रतिपादकतयाऽवगतं यत् प्रकरणं तदेव अन्योपसर्जनतया तत् प्रतिपादयितुं न शक्नोतीति शब्दसामर्थ्यं ब्रूमः ।
सूत्रे तच्छब्दः आनन्दमयपरः । आनन्दमयसूत्रे पुच्छब्रह्मलक्षकस्याप्यानन्दमयपदस्य मुख्यार्थतया तस्य शब्दसन्निधापितत्वात् । न च पूर्ववाक्यगतशब्दसन्निधापितस्यापि पूर्ववाक्यार्थान्वयिन एव सर्वनाम्ना परामर्श इति नियमोऽस्ति
‘त्रेधा तण्डुलान् विभजेत्’(तै.सं.२) इत्यत्र दार्शिकहविर्मात्रोपलक्षकस्य तण्डुलपदस्य वाच्यार्थानां तण्डुलत्वविशिष्टानां तद्वाक्यार्थानन्वयिनामपि ‘ये मध्यमाः’ इत्याद्युत्तरवाक्येषु यत्पदैः परामर्शदर्शनात् ।
’नालीकासनमीश्वरश्शिखरिणां तत्कन्धरोत्थायिनो
गन्धर्वाः पुनरेतदध्वचरिते चक्रे तदुद्धारकः ।
पत्री तत्प्रभुवैरिणां परिवृढो जीवा च यस्याभवत्
जीवान्तेवसतां रिपुक्षयविधौ देवाय तस्मै नमः ॥’
इति श्लोके पूर्ववाक्यार्थानन्वयिनामपि तदेतत्पदैः परामर्शदर्शनाच्च । तथानियमाभ्युपगमेऽपि नानुपपत्तिः ; आनन्दमयसूत्रस्य द्वितीययोजनायामानन्दमयस्य वाक्यार्थान्वयित्वात् । इदमपि ‘ब्रह्म पुच्छमभ्यासात्’ इति सूत्रे कर्तव्ये ‘आनन्दमयोऽभ्यासात्’ इति सूत्रकरणस्य प्रयोजनं यत् आनन्दमयस्यात्र सर्वनाम्ना परामर्शेन सूत्रलाघवलाभः । यद्यपि ‘इदं सर्वमसृजत’ इत्यत्र न आनन्दमयं प्रत्येव हेतुत्वव्यपदेशः, किन्तु चेतनाचेतनात्मकसकलप्रपञ्चं प्रति, न चाचेतनशरीरोपाध्यपेक्षां विना चेतनं प्रति साक्षात्स्रष्टृत्वमपि सम्भवति, तथाऽपि अचेतनोपाधिकमेव चेतनं प्रति स्रष्टृत्वं प्रदर्शयितुं तच्छब्देनाऽऽनन्दमयपरामर्शः कृतः । तत्प्रदर्शनं च सृष्टिवाक्यस्य जीवपरत्वशङ्कां अत्यन्तविरोधेन निरसितुं इत्यलं विस्तरेण । १.१.१४ ।
सएवमुपसंहारगतबहुप्रमाणानुरोधेन प्रथमश्रुतस्याप्यानन्दमयवाक्यस्य ब्रह्मप्राधान्यं समर्थितम् । केचिद्वावदूकाः प्राथम्यस्य प्राबल्यहेतोर्न जघन्यबहुत्वेन उपमर्दोऽस्तीत्यपि प्रतिपन्नाः । अत एव पूर्वतन्त्रे ‘विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात् सधर्मकत्वम्’(जै.सू.१२.२.२४) ‘मुख्यं वा पूर्वचोदनाल्लोकवत्’(जै.सू.१२.२.२५) इति सूत्रयोः पूर्वपक्षसिद्धान्तसूत्रतया ऐकाधिकरण्यं केचन कल्पयन्ति । तान् प्रति ‘तुष्यतु दुर्जनः’ इति न्यायेन अत्र परमोपक्रमानुसारेणापि आनन्दमयवाक्यस्य ब्रह्मप्राधान्यं सिध्यतीत्याह –
मान्त्रवर्णिकमेव च गीयते । १५ ।
यत्
‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.२.२.१) इति मन्त्रवर्णे स्वप्रधानतया प्रकृतं ब्रह्म, यच्च
‘तस्माद्वा एतस्मादात्मन आकाशस्संभूतः’(तै.२.२.१) इत्यादितदुत्तरसन्दर्भे ‘तस्मात्’ इति प्रकृतवाचिना तच्छब्देनानुकृष्य आकाशादिसकलप्रपञ्चकारणत्वेन उपवर्णितम् , तदेव इह ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति ब्रह्मपदेन गीयत इति तस्यैव स्वप्राधान्यं युक्तम् ; स्वप्रधानमान्त्रवर्णिकब्रह्मोपस्थापकप्रथमश्रुतब्रह्मपदानुसारेण चरमश्रुतस्यानन्दमयवाक्यस्य नेयत्वात् । ननु मन्त्रवर्णे ब्रह्मण इव ‘आत्मन आकाशस्सम्भूतः’ इत्यत्र आत्मनः प्राधान्यावगमात् आत्मशब्दनिर्दिष्ट आनन्दमयः प्रधानं कुतो न स्यात् इति शङ्कानिरासार्थमेवकारः सूत्रे प्रयुक्तः | मान्त्रवर्णिकस्य ब्रह्मण एव प्राधान्यमनुसरणीयम् ; उपक्रमगतत्वात्, न तु तदनन्तरश्रुतस्यात्मनः इति भावः ।
यद्यपि ‘अभ्यासात्’ इति हेतुनैव मन्त्रगतमपि ब्रह्मपदं क्रोडीकर्तुं शक्यम्, तथाऽपि ‘ब्रह्मविदाप्नोति परम्’ इत्येतदनन्तरं किं तत् ब्रह्मेति जिज्ञासायां लक्षणमुखेन तन्निर्धारणाय प्रवृत्तो मन्त्रस्तावत् ब्रह्मप्रधानः । तदेव च ब्रह्म ‘तस्माद्वा एतस्मात्’ इत्यनन्तरसन्दर्भे सर्वनाम्नाऽनुकृष्टं सत् इहापि ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति स्वशब्देन निर्दिश्यते इति पूर्वसन्दर्भप्रवृत्तिपर्यालोचनया प्रकरणस्य ब्रह्मप्राधान्यस्फुटीकरणाय मान्त्रवर्णिकसूत्रम् । १.१.१५ ।
भेदव्यपदेशाच्च ।१७।
ननु ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ इत्याद्युपदेशः कथं प्रपञ्चमिथ्यात्वपर्यवसायी।
उच्यते – इदं हि प्रकरणमध्यारोपापवादाभ्यां निष्प्रपञ्चब्रह्मस्वरूपनिष्कर्षार्थम् । तथा हि – उपक्रमे तावत्
‘ब्रह्मविदाप्नोति परम्’(तै.२.१.१) इति ब्रह्मविदः तद्भावापत्तिलक्षणा मुक्तिरुक्ता , न तु तत्प्राप्तिलक्षणा । बृहदारण्यके
‘स यदाह असतो मा सद्गमयेति , मृत्युर्वा असत् सदमृतं , मृत्योर्माऽमृतं गमय , अमृतं मा कुर्वित्येवैतदाह’(बृ.१.३.२८) इति सच्छब्दोक्तामृतावाप्त्यर्थकश्रुतेः अमृताभेदाभिव्यक्त्यर्थतया व्याख्यातत्वेन मुक्तिफलप्रतिपादकेषु वाक्येषु ब्रह्मावाप्तिश्रवणानां तद्भावापत्तिपरत्वावगमात् । ततश्च किं तत् ब्रह्म कीदृशं तद्वेदनं कीदृशीच तद्भावापत्तेः पुरुषार्थरूपता इत्याकाङ्क्षायां ,
‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.२.१.१) इति स्वरूपलक्षणेन ब्रह्मस्वरूपं निर्द्धार्य ,
‘यो वेद निहितं गुहायाम्’(तै.२.१.१) इति तत् ब्रह्म जीवस्वरूपेण हृदयगुहायां निवेशितं जीवाभिन्नं यो वेद इति तद्वेदनं जीवाभेदविषयमिति प्रदर्श्य , तत्फलभूतायास्तद्भावापत्तेर्निरतिशयपुरुषार्थरूपत्वं
‘सोऽश्नुते’(तै.२.१.१) इत्यादिना प्रतिपादितम् । तत्र ‘ब्रह्मणा’ इति इत्थम्भूतलक्षणे तृतीया । तथा च ब्रह्मणा रूपेण सर्वान् कामान् सह – युगपत् अश्नुते । सर्वेषामैहिकामुष्मिकाणां काम्यानां क्रमिकेणोपभोगेन यावत्सुखमभिव्यंग्यं तत् सर्वं ब्रह्मसुखाम्बुधिकणिकायमानमिति विद्ययाऽभिव्यक्तं निरतिशयं ब्रह्मसुखाम्बुधिमनुभवतीत्यर्थः , न तु ब्रह्मणा सह सर्वान्विषयभोगानश्नुते इत्यर्थः । ब्रह्मणा सहेत्यन्वयस्य
‘सोऽश्नुते सर्वान्कामान् सह’(तै.२.१.१) इत्यत्राध्ययनसंप्रदायप्राप्तवाक्यविच्छेदाननुगुणत्वात् । सहार्थतृतीयया ब्रह्मणः कर्मसाहित्ये कर्तृसाहित्ये वा विवक्षिते भोग्यविषयापेक्षया भोक्तृजीवापेक्षया वा अप्रधान्यप्रसङ्गेन ब्रह्मणो निरतिशयपुरुषार्थत्वस्य निरतिशयैश्वर्यस्य वा हानिप्रसङ्गाच्च । न च ‘सर्वान् कामान्’ इत्यस्य स्वारस्यहानिः , न ह्यस्मन्मते कामशब्दः स्रक्चन्दनादिविषयवाची , किन्तु तत्सम्बन्धाभिव्यंग्यसुखवाची ; तेषामेव निरुपाधिककामनाविषयत्वात् । ततश्च , त्रैकालिकानि सर्वजीवानुभाव्यानि सर्वाण्यपि सुखानि
‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’(बृ.४.३.३२) इति श्रुतेर्ब्रह्मानन्दसिन्धोर्बिन्दुकणिका इति ब्रह्मरूपेण स्वाभिन्नमखण्डानन्दमनुभवता सर्वाण्यपि सुखान्यनुभूयन्त एव , यथा सर्वेषु जीवेषु भूगोलकादेरेकैकं भागं पश्यत्सु सर्वदृग्विषया भागास्सर्वज्ञेनानुभूयन्त इति , न कापि स्वारस्यहानिः । प्रत्युत ‘सर्वान् कामान्’ इत्यस्यासङ्कोचलाभादत्रैव स्वारस्यम् । तस्मात् ‘सोऽश्नुते’ इत्यादेर्यथोक्त एवार्थः । अत एवोपबृह्मितं ब्रह्मगीतासु –
‘सोऽश्नुते सकलान् कामानक्रमेण सुरर्षभाः ।
विदितब्रह्मरूपेण जीवन्मुक्तो न संशयः’ इति ।
ततश्च ब्रह्मणो लक्षणे आनन्त्यान्तर्गतं वस्तुपरिच्छेदराहित्यं प्रपञ्चस्य प्रतिपन्नोपाधिगतनिषेधप्रतियोगित्वलक्षणमिथ्यात्वेनोपपादयितुं
‘आत्मन आकाशः’(तै.२.१.१) इत्यादिना ब्रह्मणो जगदुपादानत्वप्रतिपादनेन तत्र प्रपञ्चाध्यारोपः कृतः । ब्रह्मण उपादानत्वेऽपि सृष्टिनियमनादिषु निमित्तान्तरसद्भावे वस्तुपरिच्छेदस्स्यादिति शङ्कानिरासार्थं
‘सोऽकामयत’(तै.२.६.१) इति सृष्टौ
‘भीषाऽस्माद्वातः पवते’(तै.२.८.१) इति नियमनेऽपि निमित्तत्वं दर्शितम् ।
एवमारोपितस्य प्रपञ्चस्य
‘यतो वाचो निवर्तन्ते’(तै.२.४.१) इत्यत्र अपवाद उपदिश्यते । अस्य हि मन्त्रस्यायमर्थः – यथा शुक्तिकायामध्यस्तरजततादात्म्योल्लेखितया प्रवृत्तेन मनसा सह ‘रजतमिदम्’ इति व्यवहारः शुक्तित्वपर्यन्तमप्राप्य ‘नेदं रजतम्’ इति बाधे सति निवर्तते , एवं ब्रह्मण्यध्यस्तप्रपञ्चतादात्म्योल्लेखितया ‘सन् घटः’ , ‘सन् पटः’ इत्यादिप्रकारेण प्रवृत्तेनान्तःकरणेन सह तत्र प्रवृत्ता घटपटादिशब्दा अप्यखण्डाकारपर्यन्तमप्राप्य
‘अथात आदेशो नेति नेति’(बृ.२.३.६) इत्यादिश्रौतबाधे सति निवर्तन्ते इति ।
नन्वस्य मन्त्रस्य एवंभूतवाङ्मनसनिवृत्तिरर्थ इति कुतो निश्चीयते । आनन्दोत्कर्षवर्णनस्य पूर्वं
‘सैषाऽऽनन्दस्य मीमांसा’(तै.२.८.१) इत्यारभ्य प्रस्तुतत्वादानन्देयत्ताविषयवाङ्मनसनिवृत्तिरर्थः किं न स्यात् ।
न स्यात् – इह हि प्रवृत्तयोर्वाङ्मनसयोर्निवृत्तिः प्रतिपाद्यते, न त्वेतयोरप्रवृत्तिरेव । ‘अप्राप्य निवर्तन्ते’ इति वचनात् । न च ब्रह्मानन्देयत्तापरिच्छेदविषयं लौकिकं वैदिकं वा वचः प्रवृत्तमस्ति, यस्य अर्द्धपथे निवृत्तिरुच्येत । यत्तु शतगुणोत्तरत्वप्रतिपादकं वचः तत् प्रवृत्तमेवेति न तस्य कदाऽपि निवृत्तिः । न च ‘घटस्सन्’ इत्यादिव्यवहारोऽपि यः प्रवृत्तः न तस्य निवृत्तिरस्तीति समानमिति शङ्क्यम् । प्रवृत्तव्यक्तिविशेषाणां निवृत्त्यभावेऽपि आसंसारमावर्तमानस्य व्यवहारप्रवाहस्य श्रौतबाधे सति निवृत्तिसम्भवात् । किं च ‘वाचः’ इत्यस्य आनन्देयत्ताविषयवाङ्मात्रार्थत्वे अतिसङ्कुचितवृत्तित्वं स्यात् । तदपि ब्रह्मणि द्वैतवस्तुमुखेन प्रवृत्ता यावत्यो वाचः तावद्विषयत्वेनासङ्कोचसम्भवात् न युक्तम् ।
तस्मात् ‘यतो वाचः’ इति मन्त्रस्य यथोक्त एवार्थ इति तद्विरोधान्नानन्दमयः प्रतिपाद्यः । सूत्रे चकारः मुमुक्षुज्ञेयब्रह्मोपक्रमविरोधसमुच्चयार्थः ।
ननु ‘भेदव्यपदेशात्’ इति सूत्रस्य भेदविरुद्धार्थप्रतिपादनादित्यर्थकल्पनमयुक्तम् ; व्यपदेशशब्दस्य तादृशार्थे प्रयोगाभावात् ।
उच्यते – पूर्वतन्त्रे ‘तद्व्यपदेशं च’(जै.सू.१.४.५) इति सूत्रे व्यपदेशशब्दस्यैव तादृशेऽर्थे प्रयोगो दृष्टः । तत्र हि तच्छब्दो विधेयत्वाभिमतगुणपरः ; ‘यस्मिन् गुणोपदेश’(जै.सू.१.४.३) इति चित्राधिकरणे प्रकृतत्वात् ‘तत्प्रख्यं चान्यशास्त्रम्’(जै.सू.१.४.४) इति पूर्वाधिकरणे परामृष्टत्वाच्च । तद्व्यपदेशशब्दस्य च विधेयत्वाभिमतगुणत्वविरोधिसादृश्यप्रतिपादनपरत्वं ‘यथा वै श्येनो निपत्यादत्ते’(शाबरभाष्यम् १.४) इत्यादिविषयवाक्यानुसारेण वक्तव्यम् । तच्च व्युपसर्गेणैव लभ्यम् । तथैव च समर्थितं न्यायसुधादिषु । । १.१.१७ ।
ननु भृगुवल्यां अन्नप्राणमनोविज्ञानक्रमेण पञ्चमपर्यायाम्नातस्यानन्दस्य प्राधान्यदर्शनात् आनन्दवल्यामप्यन्नमयादिक्रमेण पञ्चमपर्यायाम्नातस्यानन्दमयस्य प्राधान्येन प्रतिपाद्यत्वं स्थानसाम्यादनुमीयते । न च
‘ब्रह्मविदाप्नोति परम्’(तै.२.१.१) इति मुमुक्षुज्ञेयब्रह्मोपक्रमस्य
‘यतो वाचः’(तै.२.४.१) इति निर्विशेषोपसंहारस्य च विरोधः ; ताभ्यां प्रकरणस्य शुद्धब्रह्मपरत्वेऽपि मध्ये कल्पितपुच्छभावसविशेषब्रह्मोपसर्जनकस्योपास्यस्यानन्दमयस्य प्रतिपादनसम्भवात् । भूमविद्यायां
‘तरति शोकमात्मवित्’(छा.७.१.३) इति मुमुक्षुज्ञेयब्रह्मोपक्रमेऽपि
‘यत्र नान्यत्पश्यति’(छा.७.२४.१) इति निर्विशेषोपसंहारेऽपि मध्ये सगुणब्रह्मदृष्टिविशेषितनामाद्युपास्यस्य प्रतिपादनदर्शनात् इत्याशंक्याह –
कामाच्च नानुमानापेक्षा ।१८।
काम्यत इति कामः भृगुवल्याम्नात आनन्दः । तद्दृष्टान्तमवलम्ब्यानन्दमयस्य प्राधान्यानुमानेऽपि प्रत्याशा न कार्या । तत्र श्रुत्यैव आनन्दस्य उपक्रान्तब्रह्मरूपतायाः
‘आनन्दो ब्रह्मेति व्यजानात्’(तै.३.६.१) इति साक्षात्,
‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते’(तै.३.६.१) इति लक्षणमुखेन च पर्यवसानप्रतिपादनात् , तदनन्तरमन्यस्य प्रतिपादनाभावात् । इह तु आनन्दमयप्रतिपादनानन्तरं ब्रह्मप्रतिपादनात् तत्रैव पूर्वोत्तरसन्दर्भसमन्वय इति वैषम्यसद्भावात् । भूमविद्यायां
‘स यो नाम ब्रह्मेत्युपास्ते’(छा.१.६.५) इत्यादिस्फुटतरोपासनाविधिसत्त्वेन निर्विशेषप्रकरणमध्ये उपास्यप्रतिपादनाभ्युपगमेऽपि अत्र उपासनाविध्यश्रवणेन अत्र तदभ्युपगमायोगात् । सूत्रगतेन चकारेण अन्नमयादिभ्यः प्राणमयादीनामिव आनन्दमयादान्तरत्वेन ब्रह्मणोऽनुपदेशमवलम्ब्यापि आनन्दमयस्य प्राधान्यानुमाने प्रत्याशा न कार्या इति समुच्चीयते । भूमविद्यायां नामादिभ्यो वागादीनामिव प्राणात् सत्यस्य भूयस्त्वेनानुपदेशेऽपि भूयस्त्वसिद्धिवत् आनन्दमयादान्तरत्वेन पुच्छब्रह्मणोऽनुपदेशेऽपि सामर्थ्यात्तदान्तरत्वसिद्ध्या तस्यैव प्राधान्यात् । स्पष्टयिष्यते चैतदग्रे । यद्यपि सूत्रे ‘कामात्’ इति स्थाने स्पष्टार्थं ‘आनन्दात्’ इति वक्तुमुचितम्, तथाऽप्यनेनैव सूत्रेण आनन्दमयाधारत्वेन निर्दिष्टं पुच्छब्रह्म आनुमानिकं प्रधानमिति साङ्ख्येन प्रत्याशा न कार्या,
‘सोऽकामयत’(तै.२.६.१) इति श्रुतात् कामात् आनन्दरूपत्वात् प्रशासितृत्वाच्चेति पूर्वाधिकरणोपात्तगतिसामान्यप्रपञ्चनार्थमर्थान्तरमपि क्रोडीकर्तुं ‘कामात्’ इत्युक्तम् । १.१.१८ ।
स्यादेतत् – निर्विशेषप्रकरणमध्येऽपि सविशेषब्रह्मोपसर्जनकान्योपासनविधाने भूमविद्यान्यायेन सम्भाविते सति आनन्दमयवाक्ये विध्यश्रवणेऽप्यपूर्वत्वात्
‘इदं वाव तज्ज्योतिः’(छा.३. १३.७) इत्यादाविव उपासनाविधिकल्पनमुपपद्यत इत्यानन्दमयवाक्यं तत्प्रधानमस्त्वित्याशंक्याह –
अस्मिन्नस्य च तद्योगं शास्ति ।१९।
अस्मिन्नेव प्रकरणे
‘रसो वै सः रसं ह्येवायं लब्ध्वानन्दी भवति’(तै.२.७.१) इति शास्त्रं ‘रसो वै सः’ इति पुच्छब्रह्मणो निरतिशयानन्दरूपत्वं प्रतिज्ञाय तत्र हेतुत्वेन
‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’(बृ.४.३.३२) इति श्रुत्यन्तरसिद्धं, आनन्दमयः तत्तद्विषयानुभवजन्यसुखवृत्तिषु प्रतिबिम्बितं ब्रह्मानन्दलेशं लब्ध्वा निर्वृतो भवतीत्यमुमर्थं शास्ति, अतस्तत्रानन्दमयपरामर्शस्य निरतिशयानन्दरूपपुच्छब्रह्मप्रतिपत्तिशेषत्वं क्लृप्तमित्यानन्दमयवाक्येऽपि तदुपन्यासस्य पुच्छब्रह्मप्रतिपत्तिशेषत्वमेव युक्तं न तूपासनाविधानार्थत्वम् । न च
‘रसो वै सः’(तै.२.७.१) इत्यादौ तदिदंपदयोः पुच्छब्रह्मानन्दमयपरत्वे विवादः कार्यः । तयोर्ब्रह्मजीवपरत्वे पुच्छब्रह्मानन्दमययोर्ब्रह्मजीवरूपत्वे च निर्विवादे तत्र विवादस्यानवकाशपराहतत्वात् । सूत्रे ‘अस्मिन्नस्य’ इति सर्वनाम्नी पुच्छब्रह्मानन्दमयपरे; तयोरानन्दमयसूत्रे आनन्दमयपदेन लक्षणामुख्यवृत्तिभ्यामुपस्थापितत्वात् । ‘तद्योगम्’ इत्यत्र तच्छब्दः पूर्वसूत्रगतकामशब्दोक्तानन्दपरामर्शी । ततश्च अस्मिन् पुच्छब्रह्मणि सत्येव अस्य आनन्दमयस्यानन्दयोगं
‘रसं ह्येवायम्’(तै.२.७.१) इत्यादि शास्त्रं शास्तीति सूत्राक्षरार्थः । तेन अस्यार्थस्य
‘रसो वै सः’(तै.२.७.१) इति प्रतिज्ञायां हेतुत्वेन शास्त्रोक्तत्वात् तस्मिन् शास्त्रे आनन्दमयपरामर्शस्य पुच्छब्रह्मप्रतिपत्तिशेषत्वं क्लृप्तमित्यानन्दमयवाक्येऽपि तथैव सिध्यतीति फलितार्थः । चकारेण अन्यत्र क्लृप्तमनपेक्ष्य ‘सम्भवत्येकवाक्यत्वे’ इति न्यायेनापि आनन्दमयवाक्ये तदुपन्यासस्य ब्रह्मप्रतिशेषत्वं सिद्ध्यतीत्ययमर्थस्समुच्चीयते । १.१.१९।
ननु यथावृत्ति आनन्दमयब्रह्मवादो भाष्यकृता किमिति नाङ्गीकृत इति चेत् , अत्राहुः – आनन्दमयो ब्रह्मेति न युज्यते । अन्नमयादिगतविकारार्थमयट्प्रायपठितेन मयटा तस्य विकारत्वावगमात् , शिरःपक्षाद्यवयवयोगात् , पुच्छत्वेन निर्दिष्टाद्ब्रह्मणस्तस्य व्यतिरेकप्रतीतेः, अन्नमयादिपर्यायेषु प्रधानानां तत्तत्पर्यायगतश्लोकविषयत्वदर्शनेन स्वपर्यायगतश्लोकाविषयस्य तस्याप्राधान्यात् ,
‘तस्यैष एव शारीर आत्मा यः पूर्वस्य’(तै.२.६.१) इति अन्नमयादीनामिव तस्याप्यात्मान्तरश्रवणात् ,
‘अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम्’(तै.४.८४.१५) इति शोध्यत्वश्रवणाच्च इति । अत्रापरे प्रत्यवतिष्ठन्ते – अत्र तावद्विकारत्वावगमोऽसिद्धः; विकारार्थकल्पकत्वेनाभिमतस्य प्रायपाठस्याभावात् । यद्यप्यन्नमये विकारार्थः उपक्रान्तः, तथाऽपि तावता नानन्दमयेऽपि स एवार्थ इत्यायाति ; प्राणमयादिषु तत्परित्यागात् । प्राणनवृत्तिप्राचुर्येण हि पञ्चवृत्तिर्वायुः ‘प्राणमयः’ इति व्यपदिष्टः, न तु प्राणकार्यत्वेन । एवमन्तःकरणजीवावपि मननविज्ञानप्राचुर्येण ‘मनोमयः’ इति ‘विज्ञानमयः’ इति निर्दिष्टौ । ततश्च आनन्दमयेऽपि प्राचुर्यमेव मयडर्थः
। न च – आनन्दप्राचुर्यमपि ब्रह्मणि न सम्भवति ; प्राचुर्यस्य स्वसमानाधिकरणविजातीयाल्पत्वप्रतियोगिकतायाः ‘ब्राह्मणप्रचुरो ग्रामः’ इत्यादौ दृष्टत्वेन आनन्दप्राचुर्यार्थस्वाभाव्यादीषद्दुःखसम्भिन्नत्वावश्यंभावादिति वाच्यम् । ‘प्रचुरप्रकाशस्सविता’ इत्यादौ व्यधिकरणसजातीयाल्पत्वप्रतियोगिकताया अपि दृष्टत्वेन ब्रह्मणि जीवगतानन्दाल्पत्वमपेक्ष्य तत्प्राचुर्यसम्भवात् । इह च वाक्यशेषे ‘सैषाऽऽनन्दस्य मीमांसा’ इत्यारभ्य व्यधिकरणजीवानन्दाल्पत्वमपेक्ष्यैव ब्रह्मानन्दस्य प्राचुर्यप्रदर्शनात् ।
शिरःपक्षादिरूपेण कल्पितमवयवित्वं तु न ब्रह्मत्वविरोधि । अन्यथा ब्रह्मणोऽवयवित्ववदवयवत्वमपि नास्तीति पुच्छब्रह्मणोऽप्यब्रह्मत्वप्रसङ्गात् ।
आनन्दमयस्य पुच्छं ब्रह्म इति निर्देशोऽपि नानन्दमयस्य ब्रह्मत्वविरोधी । अन्नमयस्य स्वस्मादनतिरिक्तैस्स्वावयवैरेव
‘तस्येदमेव शिरः’(तै.२.१.१) इत्यादिना शिरःपक्षपुच्छादिमत्त्वकल्पनादर्शनात् । अनतिरिक्तैः पक्षपुच्छादिमत्त्वकल्पनाप्रायपाठानुगुण्येन ब्रह्मानन्दमययोरभिन्नयोरेव पुच्छतद्वद्भावनिर्देशे तात्पर्यकल्पनस्योचिततया ततो व्यतिरेकाप्रतीतेः ।
आनन्दमयस्य स्वपर्यायगतश्लोकाविषयत्वमप्यसिद्धम् ; अन्नमयादिपर्यायश्लोकानां पुच्छमात्रविषयत्वाभावेनास्यापि तद्वदेव पुच्छवद्विषयत्वौचित्यात् । न च पुच्छवति प्रयुक्तस्य आनन्दमयपदस्य श्लोके श्रवणाभावात् पुच्छे प्रयुक्तस्य ब्रह्मशब्दस्यैव श्रवणात् पुच्छविषय एवासौ न पुच्छवद्विषय इति शङ्क्यम् ।
‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.२.१.१) ‘तस्माद्वा एतस्मादात्मन’(तै.२.१.१) इत्युपक्रान्तस्यैवानन्दमयवाक्ये प्रतिपादनेन ब्रह्मात्मानन्दमयशब्दानामैकार्थ्यस्यावधृततया तेष्वन्यतमनिर्देशमात्रेण श्लोकस्यानन्दमयविषयत्वसिद्धेः । न च प्रियमोदादिमत्तया प्रसिद्धे आनन्दमये श्लोकदर्शितासत्त्वासत्वशङ्का नान्वेतीति वाच्यम् । जीवस्य तथा लोके प्रसिद्धत्वेऽपि ब्रह्मणोऽप्रसिद्धत्वात् ।
‘तस्यैष एव’ इत्यादावानन्दमयस्यात्मान्तरश्रवणमप्यसिद्धम् ; तस्य पूर्वस्य विज्ञानमयस्य एष एव शारीर आत्मा य एष आनन्दमयः इत्यर्थाङ्गीकारात् । तस्य आनन्दमयस्य एष एव शारीर आत्मा यः पूर्वस्य विज्ञानमयस्य इत्यर्थाङ्गीकारेऽपि विज्ञानमयस्य य आकाशादिस्रष्टा वक्ष्यमाणन्यायसिद्धपरमात्मभाव; आनन्दमयः शारीर आत्मा स एव स्वस्यापि स्वयमेवात्मेति पर्यवसानेन ‘पतिं विश्वस्यात्मेश्वरम्’(तै.४.२५.५) इत्यात्मेश्वरत्वोक्त्या ईश्वरान्तरस्येवात्मान्तरस्य निराकृतेरेव सिद्धेः ।
शोध्यत्वं न ब्रह्मत्वविरोधि ; सर्वत्र शुद्धिस्तत्तदर्थानुगुणेति ब्रह्मण्यप्यनादिभवसञ्चितानेकजीवापराधकलुषिते मुक्त्यर्थं प्रसाद्यत्वरूपस्य शोध्यत्वस्य सम्भवात् ।
तस्मात् पुच्छब्रह्मवाद्युक्तयुक्तीनामसाधकत्वात् पुच्छवदानन्दमयोऽपि ब्रह्मैव । प्रकरणस्य स्वस्मादनतिरिक्तैस्स्वावयवैः पक्षपुच्छादिरूपणपरत्वेन तस्य पुच्छब्रह्माभेदप्रतीतेः,
अत्रोच्यते – यत्तावदुक्तमानन्दमयस्य विकारत्वावगतिर्नास्तीति – तन्न । विकारार्थमयट्प्रायपाठेन तत्रापि मयटो विकारार्थत्वात् । तथाहि –
‘स वा एष पुरुषोऽन्नरसमयः’(तै.२.१.१) इति न देह एवोच्यते; तस्य अन्नपरिणामत्ववाचिना अन्नरसशब्देन अन्नविकारत्ववाचिना अन्नमयशब्देन चोक्तिसम्भवे
‘अन्नरसमयः’(तै.२.१.१) इत्यस्य वैयर्थ्यात्, पुरुषशब्दस्य च चेतनवाचित्वात्,
‘अन्नात् पुरुषः’(तै.२.१.१) इत्यव्यवहितपुरुषपरामर्शस्य ‘एष’ इत्यनेन सिद्धतया ‘स’ इत्यस्य व्यवहिताकाशादिकारणात्मपरामर्शार्थत्वाच्च । किं तु , सः प्रागाकाशादिकारणत्वेन निरूपितः एषः अनुपदमन्नकार्यत्वेन निरूपितश्च पुरुषः अन्नरसमयः अन्नरसं देहमनुप्रविश्य तदवच्छिन्नतया तत्कार्य इत्युच्यते । तथा च
‘अन्नात् पुरुषः’(तै.२.१.१) इति निर्दिष्टं आकाशादिकारणरूपस्य पुरुषस्यान्नकार्यत्वं अन्नकार्यदेहावच्छेदलब्धपरिच्छिन्नाकारतयेति विवृतं भवति । एवं प्राणमयो मनोमयो विज्ञामयश्च प्राणमनोबुद्ध्यवच्छिन्नतया तद्विकारभूतो जीव एवेति युक्तम् । न च स्वतः कार्ये एव विकारार्थप्रत्ययः न त्वौपाधिककार्यताभाजि इति व्युत्पत्तिकल्पना प्रमाणवती । किं च , मयटः प्राचुर्यार्थत्वं वदतस्तवापि मते जीव एव आनन्दमय इति सिद्ध्यति ।
आनन्दप्राचुर्यस्य प्रतियोगिदुःखाल्पत्वगर्भत्वात् । प्राचुर्यस्य विशेषणत्वे व्यधिकरणसजातीयाल्पत्वस्य निरूपकत्वेऽपि विशेष्यत्वे समानाधिकरणविजातीयाल्पत्वमेव निरूपकं इति हि व्युत्पत्तिसिद्धम् । अत एव ‘प्रचुरब्राह्मणो ग्रामः’ इत्यत्र प्राचुर्यस्य ग्रामान्तरगतब्राह्मणाल्पत्वापेक्षत्वेऽपि ‘ब्राह्मणप्रचुरो ग्रामः’ इत्यत्र तद्ग्रामगतशूद्राल्पत्वापेक्षमेव प्राचुर्यं प्रतीयते । न च ‘प्रचुरप्रकाशस्सविता’ इतिवत् ‘प्रकाशप्रचुरस्सविता’ इति प्रयोगेऽपि नक्षत्रादिगतप्रकाशाल्पत्वापेक्षमेव प्राचुर्यमवगम्यते, न तु सवितृगततमोऽल्पत्वापेक्षम् ; तत्र तमसो बाधितत्वात् इति – शंक्यम् । तत्रापि घनतुहिनसैंहिकेयाच्छादनारोपिततमोऽल्पत्वमपेक्ष्यैव घनाद्यपसरणसमये तथा प्रयोगात् । तदभावे तथा व्युत्पन्नप्रयोगाभावात् । ननु ‘बलवत्तरश्चैत्रः’ इत्यादौ तरबाद्यर्थस्य प्राचुर्यस्य विशेष्यत्वेऽपि मैत्रादिगतबलाद्यल्पताऽपेक्षत्वं दृष्टमिति चेत् । न । तत्र
‘द्विवचनविभाज्योपपदे तरबीयसुनौ’(पा.सू.५.३.५७) इति द्विवचनादिविशेषणवशादातिशायनिकप्रत्ययेषु व्युत्पत्त्यन्तरकल्पनेऽपि मयटि तत्कल्पकाभावेन औत्सर्गिकव्युत्पत्तिलङ्घनायोगात् । न च
‘प्रज्ञानघन एवानन्दमयः’(मा.उ.१.५) इति ब्रह्मण्यानन्दमयशब्दप्रयोगदर्शनात् मयट्यपि व्युत्पत्त्यन्तरं कल्प्यमिति वाच्यम् । तस्य
‘सुषुप्तस्थान एकीभूतः’(मा.उ.१.५) इति विशेषणानुसारेण प्राज्ञशब्दितसुषुप्तजीवविषयत्वात् । वाक्यशेषे
‘एष सर्वेश्वर एष सर्वज्ञः’(मा.उ.१.६) इत्यादिपरमेश्वरधर्मकथनस्य आध्यात्मिकाधिदैविकतृतीयपादरूपप्राज्ञेश्वरैक्याभिप्रायत्वात् । अपि च अन्यत्र व्यधिकरणसजातीयाल्पत्वमपेक्ष्य मयटः प्रयोगसम्भवेऽपि प्रकृते त्वदभिमतप्रायपाठानुसारेण समानाधिकरणविजातीयाल्पत्वमपेक्ष्यैव तत्प्रयोगो निर्वाह्यः । तथाहि – प्राणमये तावत् पञ्चवृत्तिवायुगतमेव व्यानादिवृत्त्यल्पत्वमपेक्ष्य तत्र प्राणनवृत्तिप्राचुर्यं न तु तदन्यगतप्राणनवृत्त्यल्पत्वमपेक्ष्य । ततोऽन्यत्र प्राणनवृत्तीनामभावात् । एवं मनोमयेऽपि करणभावेन मननवृत्तिसम्बन्धिनोऽपि मनसः तत्प्राचुर्यं तद्गतवृत्त्यन्तराल्पत्वमपेक्ष्यैव । विज्ञानमयेऽपि जीवे ज्ञानवृत्तिप्राचुर्यं तद्गतज्ञानानात्मकसंस्कारादिरूपवृत्त्यन्तराल्पत्वमपेक्ष्यैव पर्यवस्यति । किं बहुना, एवं त्रिषु प्राचुर्यार्थमुपगतवतोऽन्नरसमयेऽपि देहे अवयवान्तराल्पत्वमपेक्ष्यान्नपरिणामरूपावयवप्राचुर्यमेव मयडर्थ इति वैरूप्यपरिहारार्थं बलादायाति । एवञ्च आनन्दमयेऽपि समानाधिकरणदुःखाल्पत्वापेक्षमानन्दप्राचुर्यं मयडर्थ इत्यापतितं दुःखमिश्रत्वं केन वार्यते । न च – तथाऽपि समानाधिकरणयत्किञ्चिद्विजातीयाल्पत्वमपेक्ष्यानन्दप्राचुर्यनिर्वाहसम्भवेऽपि कुतो दुःखमिश्रत्वापादनमिति वाच्यम् । सुखप्राचुर्यस्य तद्विरोधिदुःखाल्पताऽपेक्षायामेव प्रथमं बुद्ध्यवतरणेन तदुल्लङ्घनायोगात् । न चैवं स आनन्दमयो जीवोऽपि न स्यात् तत्र दुःखाल्पत्वस्य सुखबाहुल्यस्य चाभावादिति शंक्यम् । जीवस्य मुक्तौ भोग्यात् निरतिशयोत्कर्षादुत्तरावधिरहितात्
‘श्रोत्रियस्य चाकामहतस्य’(तै.२.८.१) इति श्रुतिदर्शितात् सुखात् सर्वमपि सांसारिकं दुःखं अल्पमिति सम्भवात् । नन्वानन्दमये मयट् प्राचुर्यार्थोऽपि माभूत् स्वार्थिकोऽस्त्विति चेत् , न । प्रायपाठप्राप्तेऽतिरिक्तार्थे सम्भवति स्वार्थिकत्वेन वैयर्थ्यकल्पनाऽयोगात् । तस्मात् आनन्दमयस्य मयटा जीवत्वावगतिस्तावन्निष्प्रत्यूहा ।
यदुक्तं ब्रह्मणोऽवयवित्वं अवयवत्ववत् कल्पनया सम्भवतीति – तन्न । अस्माभिः पुच्छपदस्याधारलक्षकत्वस्य उक्ततयाऽवयवत्वकल्पनानङ्गीकारेण दृष्टान्तासम्प्रतिपत्तेः । अध्यारोपापवादाभ्यां निष्प्रपञ्चब्रह्मप्रतिपत्तिप्रकरणे प्रियमोदादिरूपशिरःपक्षाद्यवयवकल्पनाया विरोधेनानुपयुक्तत्वेन च अयुक्तत्वाच्च । प्रकरणस्य निष्प्रपञ्चपरत्वं च ‘भेदव्यपदेशाच्च’ इति सूत्रविवरणे समर्थितम् ।
स्यादेतत् – ‘यतो वाचो निवर्तन्ते’ इति मन्त्रो ब्रह्मणि द्वैतवस्तुमुखेन प्रवृत्तानां लौकिकीनां वैदिकीनाञ्च सर्वासां वाचां निवृत्तिं वदति इत्यमुमर्थमवलम्ब्य हि तत्र तत्समर्थनं कृतम् , न तद्युक्तम् ; एकस्य ‘वाचः’ इत्यस्य ‘निवर्तन्ते’ इत्यस्य च स्वारस्यमनुरुध्य बहूनां सप्रपञ्चवाक्यानां स्वार्थे प्रामाण्यात् प्रच्यावनस्य न्यायविरुद्धत्वात् इति चेत् –
उच्यते – विज्ञानमयं न ब्रह्मेति प्रतिक्षिप्य आनन्दमयं ब्रह्मेति व्यवस्थापयति त्वय्यपि तुल्योऽयमाक्षेपः । तथाहि – विज्ञानमयस्य ‘विज्ञानमयः’ इत्येतावतैव तावत् परब्रह्मत्वं प्रतीयते । तत्र मयट्प्रत्ययस्यानन्दमयैकरूप्याय त्वया व्यधिकरणसजातीयाल्पत्वापेक्षप्राचुर्यार्थत्वस्याभ्युपगन्तुं युक्ततया जीवादन्यस्य संकुचितज्ञानस्य अभावात् जीवगतज्ञानाल्पत्वापेक्षज्ञानप्राचुर्य एव तत्पर्यवसानात् । मन्त्रवर्णोपात्तविपश्चित्त्वप्रत्यभिज्ञानाच्च । तथा
‘विज्ञानं देवास्सर्वे ब्रह्म ज्येष्ठमुपासत’(तै.२.५.१) इत्यत्र मान्त्रवर्णिकब्रह्मशब्देन
‘तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’(बृ.४.४.१६) इति श्रुत्यन्तरसिद्धदेवोपास्यत्वप्रत्यभिज्ञानेन
‘विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा सर्वान् कामान्समश्नुते’(तै.२.५.१) इति तदनन्तरश्लोकेऽपि ब्रह्मशब्देन मान्त्रवर्णिकब्रह्मविद्याफलप्रत्यभिज्ञानेन च तस्य ब्रह्मत्वं प्रतीयते ।
‘विज्ञानं यज्ञं तनुते’(तै.२.५.१) इति तु ब्रह्मण्यप्युपपद्यते ; यज्ञादेर्हेतुकर्तरि तस्मिन्नपि स्वव्यापारद्वारा प्रयोज्यव्यापारकर्तृत्वसत्त्वात् । हेतुकर्तृत्वविवक्षायां णिजन्तप्रयोगनियमेऽपि स्वव्यापारद्वारा प्रयोज्यव्यापारकर्तृत्वविवक्षायां अणिजन्तप्रयोगस्याविरुद्धत्वात् । साक्षाद्विलेखनमकुर्वति संविधानसम्पादनेन कर्षणप्रयोजके स्वामिन्यपि ‘षड्भिर्हलैः कर्षति’ इति प्रयोगदर्शनात् ,‘यज्ञकृद्यज्ञभृद्यज्ञी’ इति ब्रह्मण्येव प्रयोगदर्शनाच्च । एवमपि विज्ञानमयस्य यदब्रह्मत्वमुच्यते तत्
‘तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्मा’(तै.२.५.१) इति तमतिक्रम्य तदन्यस्य तदान्तरस्यात्मनः प्रतिपादनमात्रादेव । आनन्दमयत्वस्य प्रियाद्यवयवयोगस्य च विज्ञानमयेऽप्यविरोधात् । ततश्च यथा विज्ञानमयादन्यस्य तदान्तरस्य परमात्मनः प्रतिपादनदर्शनाद्विज्ञानमयपर्यायगतवाक्यजातं स्थूलारुन्धतीन्यायेन आरोपितपरमात्मभावतद्धर्मवैशिष्ट्यविषयमिति त्वयाऽभ्युपगम्यते एवं प्राणमयादिपर्यायगतात्मत्वप्रतिपादनमपि, तथा
‘यतो वाचो निवर्तन्ते’(तै.२.४.१) इत्यपवाददर्शनात् आरोपितप्रपञ्चवैशिष्ट्यविषयं सप्रपञ्चवाक्यजातमिति कुतोऽभ्युपगन्तुं न युज्यते । ननु युक्तं
‘विज्ञानमयादन्योन्तर आत्मा’(तै.२.५.१) इत्येतावताऽपि विज्ञानमयविषयवाक्यजातस्यारोपितविषयत्वोपपादनं ,’तस्माद्वा एतस्मात्’ इत्यत्रोपक्रान्तमात्मत्वं सर्वान्तरत्वेनोपपादयितुं प्रवृत्ते
‘स वा एष पुरुषोऽन्नरसमयः’(तै.२.१.१) इत्येतस्मिन् प्रकरणे विज्ञानमयादान्तरत्वस्यैव सर्वान्तरत्वरूपत्वेन तस्य उपक्रान्तात्मत्वोपपादकतया तात्पर्यवत्त्वेन बलवत्त्वात्, अन्यथा पदमात्रेण चरमपठितेन प्रथमपठितानेकवाक्यान्यथाभावापादनाऽयोगात् इति चेत् ; तर्हि अस्मन्मतेऽपि
‘यतो वाचो निवर्तन्ते’(तै.२.४.१) इत्यस्य परमोपक्रमगतानन्तत्वोपपादनार्थत्वेन तात्पर्यवत्त्वं समानमिति पश्य । ‘यतो वाच’ इत्यस्य स्वप्रकरणगतेन
‘अदृश्येऽनात्म्येऽनिरुक्ते’(तै.२.७.१) इति विशेषणेन प्रकरणान्तरगतैर्ब्रह्मणो निष्प्रपञ्चत्वादिप्रतिपादकैश्च उपष्टम्भोऽप्यस्तीति विशेषः । तस्मात् निर्विशेषब्रह्मप्रकरणे प्रियाद्यवयवयोगात् सविशेष आनन्दमयो न प्रतिपाद्यं ब्रह्म भवितुमर्हतीति युक्तमेव ।
यच्चोक्तम् – तस्य ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति निर्देशेन व्यतिरेकप्रतीतिरसिद्धा ; प्रकरणस्य स्वस्मादनतिरिक्तैश्शिरःपक्षादिमत्त्वनिरूपणपरत्वादिति, तदयुक्तम् ; शिरःप्रभृतीनां अन्नमयादिशब्दोदितचेतनातिरिक्तत्वात् । अन्नमयादिशब्दानां चेतनपर्यन्तत्वानङ्गीकारेऽपि मनोमयपक्षशिरःपुच्छानां ऋक्सामयजुरथर्वाङ्गीरसां तदतिरिक्तत्वेन अन्नमयादिष्वप्यवयवावयविभावादिकृतभेदसद्भावेन च तथा प्रकरणसिद्धेः स्वरसतः प्रतीयमानस्य व्यतिरेकस्य त्यागायोगात् ।
यत्तु – आनन्दमयस्य श्लोकाप्रतिपाद्यत्वमसिद्धम् ; श्लोकानां पुच्छवद्विषयत्वनियमदर्शनात् इत्युक्तम् , तदप्ययुक्तम् ।
‘यतो वाचो निवर्तन्ते’(तै.२.४.१) इति मनोमयपर्यायश्लोकस्य ब्रह्मविषयस्य पुच्छवद्विषयत्वाभावात् , ‘अप्राप्य मनसा सह’ इति श्रवणात् । तत्रापि यथाकथञ्चित् पुच्छवद्विषयत्वमस्तीति चेत् , तर्हि ‘असन्नेव स भवति’ इत्यत्र स इत्यस्य प्रकृतानन्दमयपरत्वात् तस्यापि यथाकथञ्चित् पुच्छवद्विषयत्वं संपन्नमिति संतुष्यतु भवान् । अयुक्तं च श्लोके ‘स’ इति पुंल्लिङ्गेन प्रकृतपरामर्शिना तत्पदेन अवश्यं परामर्शनीयस्य आनन्दमयस्य श्लोकगतब्रह्मशद्बाभ्याससत्त्वासत्त्वशङ्कालिङ्गविषयत्वम् ।
यत्तु – ‘तस्यैष एव शारीर आत्मा’ इत्यत्र आत्मान्तरश्रवणं नास्ति अनन्यात्मत्वपरत्वात् इत्युक्तम् , तदप्ययुक्तम् ; पूर्वपर्यायस्थानामिव आनन्दमयपर्यायस्थस्यापि तस्य वाक्यस्य पुच्छब्रह्मरूपात्मान्तरपरत्वोपपत्तौ प्रक्रमविरुद्धार्थकल्पनाऽयोगात् ।
यच्च प्रसाद्यत्वरूपं शोध्यत्वं ब्रह्मणोऽपि सम्भवतीत्युक्तम् , तत्तुच्छम् । प्रागशुद्धिमतो हि शुद्धिराधेया । न च जीवापराधानुसारेण तेषु ब्रह्मणोऽप्रसादः कथमप्यशुद्धिशब्दमर्हति । तथा सति ब्रह्मणो नित्यशुद्धत्वश्रुतीनां सङ्कुचितार्थत्वप्रसङ्गात् । लोकेऽपि अपराधानुगुण्येन भृत्यादिषु राजादीनामुचितस्याप्रसादस्य अशुद्धिशब्देन व्यवहाराभावाच्च । तस्मात् पुच्छब्रह्मवादोक्तयुक्तीनां निराकरणमनुपपन्नम् ।
यस्त्वानन्दमयब्रह्मवादे युक्तिषट्कोपन्यासः तत्र अवयवानतिरेकः निगमनश्लोकानां पुच्छवत्परत्वनियमश्च प्रागेव निराकृतः ।
यत्तु ‘तस्माद्वा एतस्मात्’ इति शैल्या आनन्दमये परिसमापनात् स एव ब्रह्मेत्युक्तम् , तदप्ययुक्तम् । यथा
‘श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मवित्’(छा.७.१.३) इत्यात्मजिज्ञासया उपसेदुषे नारदाय नामादिषूत्तरोत्तरमर्थान्तरोपदेशे
‘अस्ति भगवो नाम्नो भूयः’(छा.७.१.५) इति
‘वाग्वाव नाम्नो भूयसी’(छा.७.२.१) इत्यादिप्रश्नप्रतिवचनाभ्यामेवेति शैल्याः प्राण एव समापनेऽपि, विनैव तादृशे प्रश्नप्रतिवचने प्रवृत्तस्य
‘एष तु वा अतिवदति यस्सत्येनातिवदति’(छा.७.१६.१) इत्यादेः तुशद्बश्रुत्या
‘आत्मतः प्राणः’(छा.७.२३.१) इति ततः प्राणोत्पत्तिलिङ्गेन च प्राणादर्थान्तरोपदेशपरत्वमिति तत्रैव आत्मोपदेशपर्यवसानमभ्युपगम्यते न तु प्राचीने प्राणे, एवमिहापि पूर्वोपन्यस्तप्रमाणैः प्रधानतयाऽवगते पुच्छब्रह्मण्येव उपक्रान्तोपदेशपर्यवसानस्य अभ्युपगन्तुं युक्तत्वात् । ननु भूमविद्यायां प्राणोपदेशे नामादिष्वनुक्तस्यातिवादित्वस्योक्त्या तत्पर्यन्त एवात्मोपदेश इति मत्वा शिष्ये भूयः प्रश्नमकुर्वति स्वयमेव आचार्यः ततोऽर्थान्तरं सत्यं उपचिक्षेप इति श्लिष्यते । इह तु उत्तरात्मोपदेशे दृष्टायाः ‘तस्माद्वा’ इत्यादिशैल्याः ब्रह्मणि परित्यागे नास्ति कारणं इति चेत्, मैवम् । अन्नमयादिपर्यायेष्विव आनन्दमयपर्यायेऽपि क्वचिद्वस्तुनि प्रयोक्तव्यस्य पुच्छपदस्य तदाधारे ब्रह्मणि प्रयोगे तदेव उपक्रान्तब्रह्मोपदेशात्मकं निष्पद्यत इति पर्यायान्तरानारम्भोपपत्तेः । नन्वेवमपि सर्वान्तरत्वेनात्मत्वविवरणमुपक्रान्तं आन्तरत्वेनात्मत्वे चोपदिष्टे आनन्दमये पर्यवस्यतीति युक्तम् , न तु तथाऽनुपदिष्टे पुच्छब्रह्मणि इति चेत् । एवं तर्हि भूमविद्यायामपि
‘तरति शोकमात्मवित्’(छा.७.१.३) इयुपक्रान्तस्यात्मोपदेशस्य
‘अथात आत्मादेशः’(छा.७.२५.२) इत्याद्युपरिभागे एव पर्यवसानं स्यात् ,
‘एष तु वा अतिवदति’(छा.७.१६.१) इत्यारभ्य अहङ्कारोपदेशपर्यन्तं आत्मप्रसङ्गरहितं प्राणोपदेशशेषं स्यात् । यदि तु तुशब्दश्रुत्या प्राणविच्छेदावगमात् सत्योपदेश एवोपक्रान्त आत्मोपदेशस्स्यादिति मतम्, तर्ह्युक्तप्रमाणैः पुच्छब्रह्मोपदेश एव आनन्दमयादप्यान्तरस्यात्मन उपदेशः स्यात् इति तुल्यम् । तस्य
‘स यश्चायं पुरुषे’(तै.३.१०.४) इति जीवान्तरत्वस्य अग्रे स्फुटत्वात् । तस्मात् पुच्छब्रह्मणि ‘तस्माद्वा एतस्मात्’ इत्यादिरूपा पूर्वच्छाया नास्तीति नायं दोषः । किन्तु अमुख्यात्मप्रायपाठेनामुख्यत्वशङ्कावहत्वात् स एव दोषः ।
यत्तु – आनन्दमय एव ‘सोऽकामयत’ इत्यादिसन्दर्भस्य पर्यवसानं युक्तं पुल्लिङ्गानुरोधात् इत्युक्तम् , तदप्ययुक्तम् । पुच्छब्रह्मणि अव्यवहितप्रकृतब्रह्मशब्दापेक्षया पुल्लिङ्गानुपपत्तावपि व्यवहितप्रकृतात्मशब्दापेक्षया तदुपपत्तेः । ‘तस्य द्वादशशतं दक्षिणा’ इत्यत्र अव्यवहितपरामर्शासम्भवे व्यवहितपरामर्शस्य दृष्टत्वात्, ‘तस्यैष एव शारीर आत्मा’ इति आनन्दमयादपि सन्निहितमात्मशब्दं अपेक्ष्य पुल्लिङ्गोपपत्तेश्च । न च तस्य सर्वपर्यायसाधारणत्वात् प्रधानप्रतिपाद्यपरत्वं नास्तीति वाच्यम् । साधारण्येऽपि प्रधानपरत्वानपायात् । आनन्दमयशब्दस्यासाधारण्येऽप्यात्मगतकेवलयौगिकार्थोपस्थापकतया तद्विशेष्यपरस्यात्मशब्दस्यैव सर्वपर्यायसाधारणस्य आनन्दमयवाक्येऽपि प्रधानोपस्थापकत्वाच्च ।
यत्तु भृगुवल्यामानन्दमयो ब्रह्मेति निर्णीतमित्युक्तम् – तद्व्यधिकरणम् । तावता विप्रतिपन्नस्यानन्दमयशब्दस्य ब्रह्मपरत्वासिद्धेः । न हि
‘आकाश इति होवाच’(छा.१.९.१) इत्यत्र आकाशशब्दस्य ब्रह्मपरत्वनिर्णयमात्रेण”य एषोऽन्तर्हृदय आकाशः तस्मिञ्छेते’(बृ.२.१.१८) इत्यत्रापि तस्य ब्रह्मपरत्वं सिद्ध्यति । भृगुवल्याम्नात आनन्दमयोऽपि ‘एतमानन्दमयमात्मानमुपसंक्रामति’ इति आनन्दवल्याम्नातानन्दमयश्रुतोपसंक्रमितव्यत्वलिङ्गप्रत्यभिज्ञानेन तद्वत् अब्रह्मेत्येव अङ्गीकाराच्च । भृगुवल्याम्नातानन्दस्थानसाम्यादपि अन्नमयादिषु पञ्चस्वपि मयट्प्रत्ययसारूप्येण आनन्दमयस्थानसाम्यस्यैव प्रबलतया ततोऽपि भृगुवल्याम्नातानन्दमयस्य अब्रह्मत्वस्यैव सिद्धेश्च । एतेन – भृगुवल्याम्नातानन्दमयेन सह विषयवाक्यश्रुतानन्दमयस्य स्थानसाम्येन ब्रह्मत्वसाधनमपि निरस्तम्; प्रथमपर्यायाम्नातयोरन्नान्नमययोरिव त्वया विकारिविकारभावस्यैव अभ्युपगन्तुं युक्तत्वात् । यत्तु आनन्दमयब्रह्मवादे सूत्रस्वारस्यमुक्तम् , तदपि न युक्तम् ; पुच्छब्रह्मवाद एव सूत्राणां स्वारस्यस्य समर्थितत्वात् । तस्मादानन्दमयो जीव एवेति युक्तं पुच्चब्रह्मविषयतया अधिकरणोपवर्णनम् ।
इत्यानन्दमयाधिकरणम् ॥
अन्तस्तद्धर्मोपदेशात् । २० ।
स्यादेतत् – परमेश्वरस्य रूपादिमत्त्वेऽपि श्रुतयो दृश्यन्ते । यथा तलवकारिणामुपनिषदि यक्षरूपेण प्रादुर्भूतः परमेश्वरो देवैर्दृष्ट इति श्रूयते । यथा वा कौषीतकिनामुपनिषदि पर्यङ्कविद्यायामर्चिरादिमार्गगम्ये ब्रह्मलोके अमितौजसि पर्यङ्के स्थितः परमेश्वरः स्वोपासकैरर्चिरादिमार्गेण प्राप्तैस्सह सल्लपतीति श्रूयते । तेषां चोपासकानां परमेश्वरदिव्यगन्धादिप्राप्तिश्च श्रूयते । एवमन्यत्रापि तत्र तत्र परमेश्वरस्यापि रूपवत्त्वं स्थानवत्वं च बहुलमुपलभ्यते । एकदेशैश्वर्यश्रवणं तु न सर्वैश्वर्यविरोधि ; सर्वेश्वरे एकदेशैश्वर्यस्यापि सत्त्वात् , अन्यथा सर्वेश्वरत्वस्यैवाभावप्रसङ्गात् इति चेत् – उच्यते –
रूपादिरहितं ब्रह्म रूपितं श्रुतिमौलिषु ।
कथं रूपादिमदिति श्रद्धधीमहि कल्पनाम् ॥
कर्मणां च फलत्वेन रूपादिकमधीमहे ।
कर्मलेशविहीनस्य कथं तदुपपद्यते ॥
यदि रूपादि मिथ्यैतदविरोधाय कल्प्यते ।
कथं तद्बोधयन्तीनां प्रामाण्यं घटते गिराम् ॥
अतोऽन्यत्रापि रूपादिप्रतिपादनमस्ति यत् ।
योज्यं हिरण्यगर्भादिसंसारिपरमेव तत् ॥
अथवा ब्रह्मणि परे स्तावकत्वेन केवलम् ।
योजनीयं यथा मोक्षे जक्षणाद्युपवर्णनम् ॥
न तावत् रूपादिरहिततया वेदान्तेषु तात्पर्येण निरूपितं यत् ब्रह्म तदेव रूपादिमदिति वचः श्रद्धेयम् ; विरोधात् । सगुणं ब्रह्म रूपादिमत् निर्गुणं तद्रहितमिति चेत् , तत् किं सगुणं निर्गुणादन्यत् तदेव वा । आद्ये अपसिद्धान्तः, द्वितीये विरोधतादवस्थ्यम् । किञ्च, देवमनुष्यादिरूपं इन्द्रचन्द्रादित्यादिस्थानं ऐश्वर्यतारतम्यं च कर्मफलत्वेन श्रुतिस्मृतिपुराणेषु प्रसिद्धम् । तत् कथं कर्मलेशेनापि रहितस्योपपद्यते । अथ एतद्विरोधसमाधानाय ब्रह्मणो रूपादिकं मिथ्येति कल्प्यते, न हि तदानीमपि नीरूपत्वनिष्कर्मत्वश्रुतिविरोधोऽस्ति ; शुक्तौ मिथ्यारजतसत्त्वेऽपि तदभावस्य ऐन्द्रजालिकदर्शितव्याघ्रदेहे व्याघ्रत्वप्रापककर्मानपेक्षत्वस्य च दर्शनात् इति चेत् – तर्हि ‘इदं रजतम्’ ‘अयं व्याघ्रः’ इत्यादिव्यवहाराणामिव ब्रह्मणि रूपादिबोधकश्रुतीनामप्रामाण्यप्रसङ्गः । तस्मादन्यत्रापि रूपवत्त्वादिश्रुतयो यथासम्भवं हिरण्यगर्भादिसंसारिविषयत्वेन योजनीयाः । परब्रह्मप्रकरणत्वनिर्णये तु परममुक्तिप्रकरणेषु
‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा’(छा. ८. १२. ३) ‘स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा’(छा. ७.२६. २) इति च उपासनाफलश्रवणवत् केवलं स्तावकत्वेन योजनीयाः । कतिपयैश्वर्यश्रवणमात्रं यद्यपि तदधिकैश्वर्याविरोधि ; सर्वभूमण्डलाधिपतावयोध्यापतिरिति व्यवहारात् , तथाऽपि ‘स कलिंगाधिपतिः’ ‘अयमङ्गाधिपतिः’ इति व्यवहारवत् ‘आदित्यपुरुषः केषाञ्चिदीष्टे’, ‘अक्षिपुरुषः केषाञ्चित्’ इति श्रवणं परस्परव्यवच्छेदकत्वात् सर्वैश्वर्यविरोध्येव । तस्मात् रूपादिमानिह संसारीति युक्तम् ॥
कथं संसारिणि सर्वपाप्मोदितत्वम् , ‘तदुक्थं तद्यजुः’ इत्यादिनोक्तं सार्वात्म्यं च घटतामिति चेत् , माघटिष्ट । उपक्रमादिबहुप्रमाणबलात् पूर्वाधिकरणे पुच्छशब्दस्येव रूपादित्रितयबलात्तयोः कथंचिद्योजनं भविष्यति ।
वस्तुतस्तु – सर्वपाप्मोदितत्वं सर्वेश्वर एव न सङ्गच्छते ।
सर्वपाप्मोदितत्वं हि प्राक् तदाच्छादिते भवेत् ।
कदाचिदपि न ब्रह्म पापाच्छादितमिष्यते ॥
अतो ब्रह्मापरोक्ष्येण ध्वस्तसर्वाघपञ्जरे ।
आदित्य एव तस्यापि स्वारस्यं कलयामहे ॥
पापापादानकमुद्गमनं हि प्राक् तदाच्छादितस्य घटते मेघमण्डलापादानकमुद्गमनमिव प्राक् मेघमण्डलाच्छादितस्य चन्द्रस्य । न च कदाचिदपि ब्रह्म पापाच्छादितमिष्यते । अतो रूपवत्त्वादेरिव सर्वपाप्मोदितत्वस्यापि प्राक् पापाच्छादनपिहितस्वरूपे ब्रह्मसाक्षात्कारनिर्धूतसकलतदाच्छादने भगवत्यादित्य एव स्वारस्यं प्रतिपद्यामहे ।
अस्तु वा परमेश्वर एव तस्य स्वारस्यम् । तथापि तदिह नादरणीयम् । कथम् ?-
नामैव किल नान्वेति कूटस्थे परमात्मनि ।
तत्र नामनिरुक्त्यर्थस्वारस्यं किं करिष्यति ॥
न हि यस्यार्थवादस्य विधिना येन नान्वयः ।
स्वारस्यं तत्स्तुतौ तस्य सदप्याद्रियते बुधैः ॥
सर्वपाप्मोदितत्वं हि न स्वातन्त्र्येण कीर्तितम् , किंतु ‘तस्योदिति नाम’ इति निर्दिष्टनामार्थतया निरुक्तम् । तच्च तत्रैवान्वेतुं योग्यं यत्र नामान्वेति । न च परमेश्वरे किञ्चिदपि नाम अन्वेति ;
‘आकाशो ह वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तत् ब्रह्म’(छा. ८. १४. १) इति तस्य नामरूपास्पृष्टत्वप्रतिपादनात् । अतो यथा ‘अवकाभिरग्निं विकर्षति’ इति विधिशेषस्य ‘आपो वै शान्ताः’ इत्यर्थवादस्य ‘दधि मधु घृतमापो धाना भवन्ति’ इत्यादौ श्रुतेनापां विधिनाऽन्वयरहितस्य अपामेव स्तुतौ स्वारस्यं सदपि नाद्रियते, किंतु कथञ्चित् ‘अवकास्तुतौ पर्यवसानमभ्युपगम्यते, एवं नामान्वयायोग्ये परमेश्वरे नामनिरुक्त्यर्थस्वारस्यमकिञ्चित्करमिति आदित्य एव नामान्वययोग्ये तस्य पर्यवसानमभ्युपगन्तुं युक्तम् । अतः पापाल्पत्वपरमेव सर्वपाप्मोदितत्वश्रवणम् , देवत्वेन जीवन्मुक्तत्वेन च सर्वकर्मानधिकारपरं वा ।
एवमृक्सामाद्यात्मत्वश्रवणमपि आदित्य एव कथञ्चिद्योजनीयम् । तथाहि –
ऋक्सामाद्यात्मताऽस्योक्ता स्तुतये दृष्टयेऽपि वा ।
ऋक्सामयोर्यथाऽत्रैव पृथिव्यग्न्यादिरूपता ॥
अत्रैव प्रकरणे ‘इयमेव ऋक् अग्निस्साम’ इत्यादिना अधिदैवतमृचः पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपत्वं साम्नश्चाग्निवाय्वादित्यचन्द्रादित्यगतातिकृष्णभारूपत्वं ‘वागेव ऋक् प्राणस्साम’ इत्यादिना अध्यात्ममृचो वाक्चक्षुःश्रोत्राक्षिगतशुक्लभारूपत्वं साम्नश्च प्राणच्छायात्ममनोऽक्षिगतातिकृष्णभारूपत्वमुक्तम् । तत् केवलस्तुत्यर्थमुपासार्थं वेति सङ्गमयितव्यम् । एवमेव तथाभूतऋक्सामाद्यात्मकत्वमादित्यस्य किं न सङ्गच्छते । किञ्च –
ऋक्सामाद्यैरभेदस्तु ब्रह्मण्यप्यविकारिणि ।
सिद्धान्ते नाभ्युपगतः कल्प्यः सूर्येऽपि सङ्गतः ॥
सत्ये निर्विकारे ब्रह्मणि मिथ्याभूतऋक्सामादिप्रपञ्चाभेदो नेष्यत एव सिद्धान्ते । प्रपञ्चस्य ब्रह्मानन्यत्वं ब्रह्मव्यतिरेकेणाभावमात्रम् , न तु तदभेद इति हि सिद्धान्तः । अतः काल्पनिकाभेदमाश्रित्यैव ब्रह्मण्यपि ‘सैवर्क् तत् साम’ इत्यादि समर्थनीयम् । तथा समर्थनमादित्येऽपि सङ्गच्छते ।
एवमादित्यपुरुषे उद्गातृकर्तृकगानविषयत्वोक्तिः अक्षिपुरुषे लौकिकवीणागानविषयत्वोक्तिश्च आदित्य एव कथञ्चिद्योजनीया । न हि मुख्यं तदुभयविषयत्वं ब्रह्मण्यपि सम्भवति ; उद्गातृगानस्य तत्तदिन्द्रादिदेवताविषयत्वात् लौकिकगानस्य राजादिविषयत्वात् । न च ब्रह्मणस्सर्वजीवाभिन्नत्वात् तदुपपत्तिः । आदित्यस्यापि ब्रह्मसाक्षात्कारदग्धाज्ञानस्य जीवन्मुक्तस्य वामदेववत् सर्वात्मभावापन्नत्वात् । ‘सूर्य आत्मा जगतस्तस्थुषश्च’ इति श्रुतेः ।
‘सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैस्सन्तं गायन्ति’(छा.१.११.७) इति श्रुत्यन्तरे तस्य सर्वभूतकर्तृकगानविषयत्वप्रसिद्धेश्च । तस्मात् आदित्य एवात्र हिरण्मयः पुरुष इति युक्तम् ।
सहस्रकिरणस्यास्य हिरण्मयमिवोज्वलम् ।
प्रसिद्धं हि पुराणेषु रूपं तैजसमण्डले ॥
यथा भवति पाथोजं कप्यासमिव कान्तिमत् ।
तथैव कुरुतश्चास्य प्रसृते प्रातरक्षिणी ॥
प्रातःकालकृतः पद्मविकासः किरणैरिव ।
दृष्टिपातैर्भवन् भानोर्वर्ण्यमानो न दुष्यति ॥
कप्यासवाक्येऽप्युचितक्रियाऽध्याहारकल्पनम् ।
यश्च निम्बं परशुनेत्यादिकेष्विव युज्यते ॥
ऋक्सामाद्यात्मतोक्तिश्च रवेः सङ्गच्छतेतराम् ।
प्रायस्त्रयीमयत्वं हि प्रसिद्धं तस्य वर्ण्यते ॥ इति पूर्वपक्षः॥
सिद्धान्तस्तु –
‘सफलानन्यथासिद्धसर्वपाप्मोदयाहतम् ।
अतादृग्रूपवत्त्वादि न संसारित्वसाधकम् ॥
सफलं तावत् सर्वपाप्मोदितत्वलिङ्गं ‘उदेति ह वै सर्वेभ्यः पाप्मभ्यः’ इति श्रुतेन फलेन । फलं च तात्पर्यलिङ्गम् । अतः एकमपि तल्लिङ्गं निश्चिततात्पर्यं अतादृशादनेकस्मादपि रूपवत्त्वादिलिङ्गाद्बलवत् ; तात्पर्यानुसारित्वादागमप्रामाण्यस्य । तच्च सर्वपाप्मोदितत्वं असङ्कुचितसर्वपापविरहरूपमेव ; फलवचनानुगुण्यात् । फलवचने हि न सर्वकर्मानधिकारमात्रमुच्यत इति वक्तुं युक्तम् ; तिर्यगादिसाधारणस्य तस्य अपुरुषार्थत्वात् । नापि सङ्कुचितसर्वपापविरहवत्त्वम् ;
‘सर्वे पाप्मानः प्रदूयन्ते’(छा. ५. २४. ३) इति श्रुत्यन्तरे तस्य विद्याफलत्वेन प्रसिद्धेः । सर्वत्वस्य असङ्कोचसम्भवे सङ्कोचकल्पनाऽयोगाच्च । ततश्चासङ्कुचितसर्वपापविरहे फलवचनार्थे स्थिते उपास्यगुणवचनार्थोऽपि स एवेति युक्तम् । अक्षरैकरूप्यस्वारस्येन तत्क्रतुन्यायेन च तयोरेकार्थपरत्वस्य वक्तव्यत्वात् ।
तथाऽपि न पापविरहस्तदर्थः, किन्तु पापापादानकमुद्गमनमेव, तत्तु प्राक् पापाच्छादिते जीवे सम्भवति न ब्रह्मणि इत्युक्तमिति चेत् – मैवम् ।
जीवस्यापि न युक्तैव वाच्या ह्युद्गमनक्रिया ।
पापापादानिका त्वेषा नैव युक्ता कथञ्चन ॥
न हि नीडे स्थिते तस्माच्छकुन्त इव सक्रियः ।
उद्गच्छत्यक्रियो जीवः पापपञ्जरतः स्थितात् ॥
अतो यथा कुतश्चिदपादानादुद्गतः सर्वात्मना तत्सम्बन्धरहितो भवति एवमयं सर्वात्मना पापसम्बन्धरहितः इत्ययमर्थो लक्षणया प्रतिपाद्य इति सर्वपाप्मरहितत्वमेव तदर्थः । तत्तु आदित्यजीवे न सम्भवतीति व्यक्तमेव ।
एतेन क्रियमाणेऽपि पापहेतुकर्मणि पापाश्लेषो गुणफलवाक्ययोरर्थोऽस्तु ;
‘एवमेवंविदि पापं कर्म न श्लिष्यते’(छा. ४.१४.३) इति श्रुतौ तस्यापि विद्याफलत्वप्रसिद्धेः ।
‘न ह वै देवान् पापं गच्छति, पुण्यमेवामुं गच्छति’(बृ.१.५.२०) इति श्रुतौ तस्य देवत्वप्रापकपुण्यफलत्वप्रसिद्धेश्च । देवत्वदशायां प्राग्भवसञ्चितपापानां फलानारम्भकत्वं ‘न ह वै देवान्’ इति श्रुतेरर्थ इति चेत् , तर्हि स एव सर्वपाप्मोदयवाक्ययोरालम्बनमस्तु इत्यपि शङ्कानिरस्ता । पक्षद्वयेऽपि प्राग्भवसञ्चितानां पापानां सत्त्वात् , तत्सत्त्वे च सर्वपाप्मापादानकोद्गमनप्रतिपादकशब्दस्वारस्यालाभात् । तस्मात् सर्वपापराहित्यमेव तदर्थः, तत्तु आदित्यस्य न सम्भवतीत्युक्तम् ।
रूपवत्त्वञ्च ब्रह्मणोऽपि सम्भवति; सत्यस्य रूपस्य नीरूपशास्त्रविरोधित्वेऽपि मायामयस्य तदविरोधित्वात् । ब्रह्मणि च रूपस्य ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद’ इति वचनानुसारेण मायामयस्यैवाङ्गीकारात् । न च तद्बोधकवचनानामप्रामाण्यप्रसङ्गः ; मायाविदर्शितमायादृष्ट्यनुवादवत् प्रामाण्योपपत्तेः । इह च ‘हिरण्मयः पुरुषो दृश्यते’ ‘यन्मां पश्यसि’ इत्यादौ तथैव दृष्ट्यनुवाददर्शनाच्च । आरम्भणाधिकरणे व्युत्पादयिष्यमाणेन न्यायेन शरीरेऽपि व्यावहारिकप्रामाण्योपपत्तेश्च । न च शरीरं कर्मजन्यमेवेति नियमः ; इह अनन्यथासिद्धलिङ्गावगमितस्य परमेश्वरस्य शरीरसिद्धौ
‘रमणीयचरणा रमणीयां योनिमापद्येरन्’ ‘कपूयचरणाः कपूयां योनिमापद्येरन्’(छा. ५.१०. ७) इत्यादिश्रुतीनामनीश्वरशरीरविषयत्वकल्पनोपपत्तेः । न च सर्वपाप्मोदयश्रुतौ फलमिव, शरीरं कर्मजन्यमिति श्रुतावपि शरीरत्वावच्छेदेन कर्मजन्यत्वे लाघवमित्युपपत्तिस्तात्पर्यलिङ्गमस्तीति तदनुरोधेनैतत्सङ्कोचकल्पनं न युक्तमिति वाच्यम् । श्रुतिदर्शितफलात् पुरुषबुद्धिकल्प्योपपत्तेर्दुर्बलत्वात् । एतेन – परमेश्वरस्य शरीराङ्गीकारे दुःखमपि स्यात् ;
‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’(छा. ८. १२. १) इति श्रुतेः – इति निरस्तम् । पुण्यपापफलोपभोगार्थकर्मसंपादितस्यैव शरीरस्य तया श्रुत्या दुःखाविनाभावप्रतिपादनात् । परमेश्वरेणोपासकानुग्रहार्थमिच्छापरिगृहीते शरीरे तदप्रसक्तेः ।
एवं च स्वतो नामास्पृष्टस्य निराधारस्यापि ब्रह्मणो रूपोपाधिकं नामवत्त्वं आधारवत्त्वं च युज्यते । श्रूयते च तत्तद्रूपविशेषोपहितस्य परमेश्वरस्य तत्तन्नामभाक्त्वं तत्र तत्रासीनत्वं च ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते’(उत्तरनारा) इति । एतेन – नामरहिते ब्रह्मणि नामनिरुक्त्यर्थो नान्वेतीति शङ्काऽपि निरस्ता ।
ऐश्वर्यमर्यादाश्रवणं तु उभयत्राऽपि उभयविधैश्वर्यसद्भावेऽपि अधिदैवतमेतावदेवोपास्यं अध्यात्ममेतावदेव इत्युपासनापेक्षं नेतव्यम् । नन्वैश्वर्यमर्यादालिङ्गमपि फलरूपतात्पर्यलिङ्गवत्त्वात् बलवत् । श्रूयते हि
‘सोऽमुनैव स एष ये चामुष्मात् पराञ्चो लोकाः तांश्चाप्नोति देवकामांश्च अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्च’(छा. १.७.७,८) इत्याधिदैविकाध्यात्मिकपुरुषगतयोरैश्वर्यमर्यादागुणयोः पृथक्पृथक् तदनुगुणं फलं इति चेत् , न । तथाऽपि प्रथमश्रुतस्य तात्पर्यलिङ्गवतो लिङ्गस्य बलवत्वात् । अक्षिपुरुषे सर्वपापविरहालिङ्गस्याश्रुतत्वेऽपि ‘यन्नाम तन्नाम’ इति प्राक्कृतनिर्वचनस्य नाम्नोऽतिदिष्टत्वेन नामनिरुक्त्यर्थतया तस्यापि फलवचनसहितस्यातिदेशतः प्राप्तेः । परब्रह्मणस्सर्वत्र सर्वैश्वर्ये सत्यपि विध्यनुसारेण विभज्यैश्वर्योपासनायां न असदुपासनं प्रसज्यते ; सर्वजगदीश्वरे तदेकदेशैश्वर्यस्यापि सत्त्वात् । जीवे विध्यनुसारेण सर्वपापराहित्योपासने तु असदुपासनं प्रसज्यते इत्यनेनापि विशेषेणानन्यथासिद्धतया सर्वपापराहित्यस्य बलवत्त्वाच्च । वस्तुतस्तु ऐश्वर्यमर्यादायां तदनुरूपफलवचनं नास्त्येव । उद्गीथे आदित्यमण्डलस्थपुरुषानुचिन्तनस्याक्षिमण्डलस्थपुरुषानुचिन्तनस्य च एकविद्यात्वस्य
‘सम्बन्धादेवमन्यत्रापि’(ब्र.सू.३. ३. ११) इत्यधिकरणे प्रदर्शयिष्यमाणत्वात् । एकविद्यात्वे च सति तत्प्रकरणगतयावदनुवादश्रुतिफलकामस्य तस्यां विद्यायां संवलिताधिकारस्य
सत्यविद्याधिकरण (ब्र.सू.३.३.३८) न्यायेन कल्पनीयतया पराचीनार्वाचीनलोकप्राप्तेर्देवमनुष्यकामप्राप्तेश्च सम्भूयविद्याफलत्वपर्यवसानात् । एवं संवलिताधिकारेऽपि ‘यदष्टाकपालो भवति’ इत्यादिजातेष्ट्यर्थवादे अष्टसंख्याद्यनुरोधिफलैकदेशकीर्तनवत् इहापि तत्तदुपास्यगणानुरोधिफलैकदेशानुकीर्तनोपपत्तेः । अपि चात्र सर्वलोककामेश्वरस्यैव सतः ऐश्वर्यमर्यादाश्रवणं विभज्योपासनार्थं इत्येव पूर्वपक्षिणा वक्तव्यम् । तथाहि पूर्वपक्षेऽपि अक्ष्यादित्यमण्डलयोः एक एवादित्यजीव उपास्यो वक्तव्यः, अक्षण्यप्यादित्यस्यैवाधिष्ठातृत्वेन प्रवेशश्रवणात् , देवतान्तरस्याक्षिस्थत्वप्रसिध्यभावाच्च । एकस्य चादित्यजीवस्य आधारभेदेऽपि परमेश्वरवदेव व्यवस्थितमैश्वर्यमविरुद्धम् । अतः पूर्वपक्षिणाऽपि आदित्यजीवस्य पराचीनार्वाचीनलोकदेवमनुष्यकामेशितृत्वे सत्यपि उपासनाविशेषापेक्षया तत्तदैश्वर्यविशेषो निर्दिश्यते इत्येव समर्थनीयमिति न विशेषः । निरवग्रहं सर्वलोककामेश्वरत्वमादित्यस्य नास्तीति, पूर्वपक्षे तल्लिङ्गानुपपत्तिदूषणं परमधिकमापतति । एतदभिप्रायेणोक्तं भाष्ये ‘लोककामेशितृत्वमपि निरङ्कुशं श्रूयमाणं परमेश्वरं गमयति’ इति । निरंकुशं –उक्तप्रकारेणासंकुचितमित्यर्थः । अपि च ‘निरंकुशं’ इत्यनेन अनन्याधीनत्वमप्युच्यते । इह लोककामेशितृत्वं श्रूयमाणं
अन्तर्याम्यधिकरण (ब्र.सू.१. २.१८) न्यायेन अनन्याधीनमेव ग्राह्यम् । तच्च परमेश्वरस्यैव सम्भवति , न त्वादित्यादीनाम्
‘भीषास्माद्वातः पवते भीषोदेति सूर्यः’(तै. २. ८.१ ) इत्यादिश्रुतेः इत्यपि भाष्यवाक्यस्यार्थः।
तस्मात् आदित्येऽक्षणि च उपासनासिद्धैर्दृश्य उद्गीथे संपाद्यः पुरुषः परमेश्वर एव ; सफलानन्यथासिद्धसर्वपापविरहलिङ्गबलेन अतादृशान्यथासिद्धरूपवत्त्वादिलिङ्गान्यथाकरणसम्भवात् इति सिद्धम् ।
‘अदृश्यत्वादिगुणको धर्मोक्तेः’(ब्र.सू.१. २. २१) इतिवत् सूत्रे ‘धर्मोपदेशात्’ इत्येतावति वक्तव्ये तत्पदं तस्यैव धर्म इति अब्भक्षादिवत् अवधारणगर्भतया फलवचनाद्यनुसारेण सर्वपापविरहरूपतया पर्यवसितस्य सर्वपापोदितत्वस्य आदित्यजीवे सम्भवाभावरूपमन्यथासिद्धत्वं तद्विचारद्वारा तत्प्रतिभटस्य रूपवत्त्वादेर्ब्रह्मण्यपि सम्भवरूपमन्यथासिद्धत्वं च सिद्धान्तबीजं ज्ञापयितुम् । तेन ब्रह्मण्यपि सम्भाविततया अन्यथासिद्धादेकदेशैश्वर्यात् अस्य बलवत्त्वं लभ्यते ।
‘आकाशस्तल्लिङ्गात्’(ब्र.सू.१.१.२२) इतिवत् ‘तद्धर्मात्’ इत्येतावति वक्तव्ये उपदेशग्रहणं तद्धर्मस्यैवोपदेशात् फलवचनावगतेन तात्पर्येण प्रतिपादनात् इत्यर्थकतया सफलत्वरूपतात्पर्यलिङ्गवत्त्वं तत्प्रतिभटतया रूपवत्त्वतद्गतादित्यमण्डलादिनिष्ठत्वयोरैन्द्रजालिकदर्शिताद्भुतरूपविशेषतद्गतगोपुरारूढत्वयोरिव दर्शनविषयतया अनुवाद्यत्वेन ऐश्वर्यमर्यादायाः श्रुत्यन्तरसिद्धे सर्वैश्वर्ये उपास्यतया अवयुत्यानुवाद्यत्वेन च पूर्वपक्ष्यापादितरूपादिवचनाप्रामाण्यपरिहारं च ज्ञापयितुम् । तेन तद्रहितात् रूपवत्त्वादाधारवत्त्वाच्च बलवत्त्वमस्य लभ्यते । न च अनन्यथासिद्धत्वेन , फलरूपतात्पर्यलिङ्गवत्त्वेन वा एकेनैव बलेन रूपादित्रयात् बलवत्त्वं लभ्यते, किमुभयज्ञापनेन इति वाच्यम् । रूपवत्त्वमपि ब्रह्मण्यसम्भाविततयाऽनन्यथासिद्धम् ; ब्रह्मणो रूपवत्त्वे श्रुतिसिद्धतद्धेतुकर्मणः श्रुतिसिद्धतत्कार्यदुःखस्य च तत्र प्रसक्तेः, अत एव रूपोपाधिकमाधारवत्त्वमपि ब्रह्मण्यसम्भाविततयाऽनन्यथासिद्धं इत्याशङ्काग्रस्तत्वात् , तस्याश्शङ्कायाः फलरूपतात्पर्यलिङ्गवत्ताबलमुपजीव्य प्रदर्शितेन प्रकारेण निरसनीयत्वात् । फलरूपतात्पर्यलिङ्गस्य एकदेशैश्वर्यमपि फलवत् इति मन्दशङ्काग्रस्तत्वात् तस्याश्च अनन्यथासिद्धिबलमुपजीव्य निरसनीयत्वात् । तथैव प्राक् फलवचनसद्भावमभ्युपेत्य निरस्तत्वात् । किञ्च तद्धर्मयोः उपदेशात् इति द्विवचनान्तसमासेन ब्रह्मैकधर्मस्य सार्वात्म्यस्य प्रतिपादनात् इत्यपि हेतोरर्थः । यद्यपि सार्वात्म्यं न वास्तवं ब्रह्मणोऽपि, काल्पनिकं तु जीवस्यापि, तथापि ‘सन् घटः’ इत्यादिव्यवहारालम्बनं व्यावहारिकप्रमाणगम्यमस्त्येव तत् सर्वोपादानस्य ब्रह्मणः, न तादृशमादित्यजीवस्य इति वैषम्यम् । अयं त्वभ्युच्चयः ; रूपवत्त्वमपि ब्रह्मणि न सम्भवतीति शङ्काकरम्बितत्वात् । तस्याश्च फलवत्सर्वपापविरहलिङ्गबलेन निराकरणीयत्वात् । आदित्यस्य त्रयीमयत्वसार्वात्म्यश्रवणं तु तत्र परमेश्वराभिव्यक्तिविशेषकृतं तत्पर्यवसायि इत्येव समर्थनीयं तेजस्वित्वानुभववत् ।
‘येन सूर्यस्तपति तेजसेद्धः’(तै. ब्रा. ३. १२. ९) इति हि मन्त्रवर्णः । १. १.२० ।
स्यादेतत् – ‘य एषोऽन्तरादित्ये’ इत्यादिस्तावदुपास्यनिर्देशः । ततश्चोपास्योद्देशेन उपासनाविधानार्थं विधीयमानक्रियार्थकर्मकारकस्य सति सम्भवे व्रीह्यादिवदन्यतस्सिद्धिरेष्टव्या । न चान्तरादित्येऽन्तरक्षणि च तदधिष्ठातृदेवतारूपाज्जीवादन्य ईश्वरस्तिष्ठतीति अन्यतस्सिद्धिरस्ति । अतोऽन्यतस्सिद्ध्यपेक्षाबलात् अक्ष्यादित्यवर्तित्वेन प्रसिद्धः सूर्य एव उपास्य इह निर्दिश्यते इत्यकामेनापि स्वीकर्तव्यं इत्याशङ्कामपनुदन्नेव रूपवत्वश्रवणस्य गत्यन्तरमपि दर्शयति –
भेदव्यपदेशाच्चान्यः । २१ ।
अस्त्यक्ष्यादित्यमण्डलाधिष्ठातृजीवादन्य ईश्वरः तत्र तिष्ठतीति श्रुत्यन्तरसिद्धः ;
‘य आदित्ये तिष्ठन्नादित्यादन्तरः यमादित्यो न वेद यस्यादित्यश्शरीरं य आदित्यमन्तरो यमयति’(बृ. ३.७.९) इति,
‘यश्चक्षुषि तिष्ठंश्चक्षुषोऽन्तरः यं चक्षुर्न वेद यस्य चक्षुश्शरीरं यश्चक्षुरन्तरो यमयति’(बृ.३.७.१८) इति च बृहदारण्यके भेदव्यपदेशात् । तत्र हि ‘यमादित्यो न वेद’ ‘यं चक्षुर्न वेद’ इति वेदितुस्तदुभयाधिष्ठातृजीवात् अन्य ईश्वरः प्रतिपाद्यते इति स्पष्टम् । स एव आदित्याद्यान्तरत्वश्रुतिसामान्येन प्रत्यभिज्ञायमानः इह उपास्यत्वेन निर्दिश्यते । चकारात् अस्यां श्रुतौ आदित्यजीवासम्भावितसर्वपाप्मास्पर्शादिविशिष्टपुरुषप्रतिपादनादपि अक्ष्यादित्यमण्डलाद्यधिष्ठातृजीवान्यतदन्तर्वर्तिपरमेश्वरस्सिध्यतीति समुच्चीयते । न हि सर्वासूपासनासु यावदुपदिष्टगुणाविशिष्टस्योपास्यस्य अन्यतस्सिद्धिर्लभ्यते । तदिहाप्यक्ष्यादित्योपास्यनिरूपणादपि तत्सिद्धिस्सम्भवतीति । एवंच भेदव्यपदेशिवाक्ययोः अन्तर्यामिणो ‘यस्यादित्यश्शरीरम्’ ‘यस्य चक्षुश्शरीरम्’ इति स्वाधिष्ठेयदेवताशरीरेणैव शरीरवत्त्वप्रतिपादनात् इहाप्यादित्यशरीरेणैव परमेश्वरस्य शरीरवत्त्वप्रतिपादनमुपपन्नं इत्यपि तस्यान्यथासिद्धत्वं दर्शितं भवति । १.१.२१ ।
इत्यन्तरधिकरणम् । ७।
आकाशस्तल्लिङ्गात् । २२ ।
ननु ‘अस्य लोकस्य का गतिः’ इति प्रश्नवाक्यस्थं सर्वलोकगतित्वं लिंगं सदपि उपक्रमस्थत्वात् आकाशश्रुत्यपेक्षया बलवत् इति चेत् ।
न । प्रश्नस्य पृथिवीलोकगतिमात्रविषयत्वेन सर्वलोकगतिविषयत्वासिद्धेः । तथाहि – शालावत्यदाल्भ्यजैवलिभिस्त्रिभिरारब्धायां कथायां प्रथमं शालावत्यदाल्भ्ययोः प्रश्नोत्तरपरंपरा प्रस्तुता
‘का साम्नो गतिरिति , स्वर इति होवाच , स्वरस्य का गतिरिति , प्राण इति होवाच , प्राणस्य का गतिरिति , अन्नमिति होवाच , अन्नस्य का गतिरिति , आप इति होवाच , अपां का गतिरिति , असौ लोक इति होवाच , अमुष्य लोकस्य का गतिरिति न स्वर्गं लोकमतिनयेदिति होवाच’(छा. १. ८. ४) इति । एवं दाल्भ्येन स्वर्गलोके सामकारणपरंपराविश्रान्तिभूमित्वेन स्थापिते तस्य पक्षः शालावत्येन दूषितः
‘अप्रतिष्ठितं वै किल ते दाल्भ्य साम’(छा. १. ८. ६) इति । स्वर्गस्य मनुष्यकृतयज्ञाद्यधीनस्थितिकत्वात् सामगतिपरंपरा प्रतिष्ठारूपे कारणे न समापिता इति अप्रतिष्ठितं साम स्यादित्यर्थः । एवं दूषितस्वपक्षतया शिष्यभावं प्राप्तस्य दाल्भ्यस्य शालावत्यस्य च प्रश्नद्वयमुत्तरद्वयं च प्रवृत्तं
‘अमुष्य लोकस्य का गतिरिति , अयं लोक इति होवाच , अस्य लोकस्य का गतिरिति , न प्रतिष्ठां लोकमतिनयेदिति होवाच’(छा. १.९.१) इति । ततः शालावत्यपक्षो जैवलिना दूषितः ‘अन्तवद्वै किल ते शालावत्य साम’ इति । एवं सामकारणपरम्पराविश्रान्तिस्थानत्वेन स्वाभिमते पृथिवीलोके अन्तवत्त्वेन दूषिते , पृथिवीलोकस्यापि कारणमनन्तं किञ्चिदस्तीत्यवगत्य खल्वयं जैवलिर्मत्पक्षमदूदुषत् तत् किमिति जिज्ञासोर्जैवलिशिष्यभावं प्राप्तस्य शालावत्यस्य तं प्रति अयं प्रश्नः ‘अस्य लोकस्य का गतिः’ इति । अत्र प्रस्तावानुसारेण ‘अस्य लोकस्य’ इत्यस्य अतिस्फुटे पृथिवीलोकविषयत्वे कः प्रसङ्गः सर्वलोकविषयत्वस्य । न च पृथिवीमात्रकारणस्यापां प्रसिद्धत्वेन प्रश्नवैयर्थ्यात् ‘अस्य’ इति सर्वनामश्रुतेः प्रकरणात् बलीयस्याः सर्वकार्यविषयत्वौचित्याच्च अयं प्रश्नस्सर्वलोकगतिविषय एवेति वाच्यम् । अपां कारणस्य तेजसः प्रसिद्धत्वेऽपि ‘अपां का गतिः’ इति प्रश्नदर्शनात् , ‘अस्य लोकस्य का गतिः’ इति दाल्भ्यकृतस्य प्रश्नस्य पृथिवीकारणविषयत्वसम्प्रतिपत्तेश्च । अन्तवत्त्वदूषणमुक्तवतस्ते प्रसिद्धविलक्षणमनन्तं कारणमभिमतम् , तत् किं इति प्रश्नोपपत्तेश्च । अस्येति पदस्य श्रुतित्वेऽपि सर्वनामस्वाभाव्यात् ‘यदेव विद्यया’ इतिवत् प्रकृतमात्रे संकुचितवृत्तित्वोपपत्तेश्च ।
‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा. १. १. १० ) इत्यस्य हि यत्पदरूपसर्वनामस्वाभाव्यादेव प्रकृतोद्गीथविद्याविषयत्वमङ्गीकृतम् । न च वाच्यं विद्याशब्दस्य प्रकृतपरत्वबलात् तस्य तावन्मात्रविषयत्वमिति । ‘विद्यया’ इति श्रुतेः प्रकरणाद्बलीयस्याः सर्वविद्याविषयत्वोपपत्तेः । अतो ‘यदेव विद्यया करोति’ इति यत्पदार्थान्वयबलादेव विद्याशब्दस्यापि प्रकृतविद्यामात्रपरत्वमुपपादनीयम् । एवं स्वसम्बन्धिशब्दान्तरस्यापि प्रकृतमात्रपरत्वमापादयत् सर्वनाम कथं स्वयं प्रकृतातिलङ्घ स्यात् ।
अथापि स्यात् – अभिधत्तां नामायं ‘अस्य’ इति शब्दः पृथिवीमेव , तथाप्यन्तवत्त्वदोषापनिनीषया प्रश्नप्रवृत्तेः पृथिवीमात्रकारणनिरूपणे तदसिद्धेः छत्रिपदवदजहल्लक्षणया अस्येतिशब्दः सर्वकार्यपरः इति । न ह्यस्य शब्दस्य पृथिवीपरत्वे तन्मात्रकारणं पृष्टं भवति , येन तन्निरूपणेऽन्तवत्त्वदोषो नापनीतस्स्यात् । किंतु पृथिवीकारणं पृष्टं भवति । तत्कारणत्वं चानन्ते सर्वकारणेऽपि सम्भवतीति पृथिवीकारणप्रश्नेऽपि तन्निरूपणेनान्तवत्त्वदोषेऽपनेतुं शक्ये किमनुपपन्नम् , यदर्थं प्रश्नवाक्येऽपि लक्षणा कल्प्येत ।
नन्वाकाशस्य पृथिवीकारणत्वे निरूपिते अन्तवत्त्वदोषो नापनीतस्स्यादिति चेत् , तर्हि अनन्तत्वलिङ्गमेव पूर्वपक्षविरोध्याशङ्कनीयम् , न तु प्रश्नवाक्यास्पृष्टं सर्वलोकगतित्वम् । न च तदपीति वक्ष्यते ।
ननु माभूत् सर्वलोकगतित्वमाकाशश्रुतिबाधकम् , सर्वभूतकारणत्वं तु स्यात् , तद्धि लिङ्गमपि चरमपठितमपि सावधारणं भूताकाशे तेजःप्रभृतिसृष्टौ वाय्वादिकारणान्तरसापेक्षे न सम्भवतीत्यनन्यथासिद्धं बलवत् इति चेत् , न । ब्रह्मणोऽपि जगत्सृष्टौ कालादृष्टादिसापेक्षत्वेन साम्यात् । कथञ्चिदवधारणसमर्थनस्य भूताकाशेऽपि सम्भवात् ।
ननु परोवरीयस्त्वं नाम परेभ्य उत्कृष्टेभ्योऽपि अतिशयेन श्रैष्ठ्यं निरतिशयोत्कर्षरूपं सफलत्वादाकाशश्रुत्यपेक्षया बलवत् इति चेत् , न ; ‘परोवरीयसो ह लोकाञ्जयति’
‘परोवरीय एव हास्यास्मिन् लोके जीवनं भवति तथाऽमुष्मिन् लोके’(छा.१. ९. २ , ४) इति फलवचनपर्यालोचनया ऐहिकामुष्मिकजीवनसाधारणस्य परोवरीयस्त्वस्य निरतिशयत्वेन व्यवस्थापयितुमशक्यत्वात् । परोवरीयस्त्वमात्रस्य भूताकाशेऽपि सम्भवात् ।
ननु अन्तवत्त्वदोषापनिनीषया विवक्षितमिह निरपेक्षमनन्तत्वम् ; सापेक्षानन्तत्वस्य स्वकार्यापेक्षया बहुकालस्थायिन्यां पृथिव्यामपि सम्भवेन तत्र अन्तवत्त्वदोषोद्भावनानौचित्यप्रसङ्गात् । तथाच अनन्यथासिद्धमनन्तत्वलिङ्गमाकाशश्रुतिबाधकं स्यादिति चेत् , मैवम् ; प्रतिष्ठात्वलिङ्गवदनन्तत्वलिङ्गस्याप्यापेक्षिकत्वोपपत्तेः। दाल्भ्याभिमतस्वर्गलोकोद्भाविताप्रतिष्ठितत्वदोषापनिनीषया हि शालावत्येन स्वर्गलोकस्यापि गतित्वेन स्वाभिमते पृथिवीलोके प्रतिष्ठात्वमुपन्यस्तम् । न च प्रतिष्ठात्वं निरपेक्षं ब्रह्मणोऽन्यत्र सम्भवति । सापेक्षं तु स्वर्गेऽप्यस्त्येव । तथाऽपि तत्र कयाचिद्विवक्षया स्वर्गापेक्षया पृथिव्यां प्रतिष्ठात्वातिशयमाश्रित्य उद्भावितदोषापनयस्समर्थनीयः । एवमनन्तत्वेऽपि भविष्यतीति किमनुपपन्नम् । किञ्च प्रतिष्ठात्वसमर्थन एव क्लेशः ; स्वर्गलोकस्थितेर्मनुष्यकृतयज्ञाद्यधीनत्ववत् पृथिवीलोकस्थितेरपि देवकृतवृष्ट्याद्यधीनत्वस्य दर्शनात् ।
‘इतः प्रदानं देवा उपजीवन्ति अमुतः प्रदानं मनुष्या उपजीवन्ति’(तै. सं. ३.२. ९) इत्युभयत्रापि श्रुतितौल्यात् । इह तु पृथिव्यपेक्षया भूताकाशस्य बहुकालवृत्तित्वं निर्विवादम् । युज्यते च बहुकालानुवृत्तिमति अनन्तत्वव्यपदेशः ; ‘कदाऽपि न समाप्यतेऽस्य भोजनम्’ इति व्यवहारदर्शनात् । तस्मादनन्तत्वलिङ्गमपि न बाधकम् ।
ननु यथा सर्वभूतकारणत्वं सर्वभूतलयाधारत्वं सर्वतोज्यायस्त्वं परायणत्वं परोवरीयस्त्वं अनन्तत्वमित्येतानि ब्रह्मण्येव स्वारस्यवन्ति लिङ्गानि भूताकाशे कथञ्चिद्योजयितुं शक्यानि , एवमाकाशश्रुतिरपि ब्रह्मणि योजयितुं शक्या ।
‘यदेष आकाश आनन्दो न स्यात्’(तै. २. ७.१ ) इत्यादिश्रुत्यन्तरे तस्य तत्र निरूढलक्षणासत्त्वात् । ततश्च बहुलिङ्गस्वारस्यानुग्रहाय एकस्याश्श्रुतेर्बाधो युक्तः ‘त्यजेदेकं कुलस्यार्थे’ इति ,
‘भूयसां स्यात् सधर्मत्वम्’(जै. सू. १२. ५. २३) इति च न्यायात् इति चेत् , न ‘आत्मार्थे पृथिवीं त्यजेत्’ , इति
‘द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्’(जै.सू. ६.३.३८) इति च ततोऽपि बलवता न्यायेन प्रधानविरोधिनां बहूनामपि गुणानामेव बाधस्य उचितत्वात् । ‘अस्य लोकस्य का गतिः’ इति प्रश्नोत्तरे आकाशस्य गतित्वेन प्रतिपाद्यतया प्रधानत्वात् , सर्वभूतकारणत्वादीनां तद्विशेषणत्वेन गुणत्वात् । तस्मात् उदाहृतलिङ्गेष्वेकैकस्य प्राबल्यहेतूनामसिद्धत्वात् गुणेषु भूयोऽनुग्रहन्यायानवतारात् आकाशश्रुतीनामपि भूयस्त्वाच्च भूताकाश एव प्रतिपाद्य इति पूर्वः पक्षः।
राद्धान्तस्तु – अनन्तत्वं प्रतिष्ठात्ववदापेक्षिकतया योजनं न सहते । उपपत्त्युपबृंहितं ह्येतत् । कथम् ? जैवलिना पृथिवीलोकमन्तवत्वेन दूषितवता किं तर्ह्यनन्तं वस्तु तस्य कारणमिति पृष्टेन ‘आकाशः’ इत्युत्तरिते कथमेतस्य त्रिविधपरिच्छेदराहित्यरूपमनन्तत्वं इत्याकाङ्क्षायां
‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’(छा. ३. १४.१) इति श्रुत्यन्तरे सर्वस्य ब्रह्मात्मकतायां हेतुत्वेन या दर्शिता सर्वकार्योत्पत्तिस्थितिलयाधारता सैव ‘सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते , आकाशं प्रत्यस्तं यन्ति , आकाशः परायणम्’ इति वाक्यत्रयेण वर्णिता । तेन वस्तुपरिच्छेदराहित्यं लब्धम् । ‘आकाशादेव’ इत्यवधारणेन उपादानातिरिक्तकर्तृसद्भावशङ्काया अप्यनवकाशीकरणात् । अवधारणं हि सर्वत्र उपात्तसजातीयं व्यवच्छिनत्ति । अत एव गृहमेधीये परिसंख्यापक्षे ‘आज्यभागौ यजति’ इत्यस्य अवधारणार्थलक्षकस्य आज्यभागसजातीययागान्तरव्यवच्छेदकत्वं तत्र स्विष्टकृद्विधानस्यावधारणार्थलक्षकस्य स्विष्टकृत्सजातीयशेषकार्यान्तरव्यवच्छेदकत्वञ्च पूर्वतन्त्रे
‘स्विष्टकृति भक्षप्रतिषेधस्स्यात्’(जै.सू. १०.७. ३५) इत्यधिकरणे निर्णीतम् । ततश्चाकाशस्योपादानत्वेन सकलजगन्मूलकारणत्वप्रतिपादने कर्तृतया प्रसक्तं मूलकारणान्तरमेव व्यवच्छिन्ददवधारणं सफलं भवति । अनादिकालप्रवृत्तसकलजगन्मूलकारणत्वोक्त्यैव कालपरिच्छेदराहित्यमपि लब्धम् । अनादिभावस्यानन्तत्वनियमात् ।
‘आकाशो ह्येवैभ्यो ज्यायान्’(छा.१.९.१) इति सकलकार्यप्रपञ्चाज्यायस्त्वस्य
‘तावानस्य महिमा ततो ज्यायांश्च पुरुषः’(छा. ३.१२. ६.) इति श्रुत्यन्तरसिद्धस्य वर्णनेन देशपरिच्छेदराहित्यं लब्धम् । ‘आकाशवत् सर्वगतश्च नित्यः’ इति श्रुत्यन्तरदर्शितसर्वगतत्वनित्यत्वरूपमुख्याकाशसादृश्यमूलप्रवृत्तिकस्य गौणस्याकाशशब्दस्य पुनः पुनः प्रयोगेणापि देशकालव्यवच्छेदराहित्यं स्पष्टीकृतम् । एवं तात्पर्यलिङ्गरूपोपपत्तिलंभितमनन्तत्वं न त्रिदशामरत्वन्यायेन नेतुं शक्यम् । अपि च यत्रोपक्रमे यं कञ्चित् दोषं संकीर्त्य तद्दोषसमाधानेनोपसंह्रियते तत्र तन्मध्यगतवाक्येषु यथाऽभ्युपगमेन तत्समाधानं लभ्यते तथाऽभ्युपगमे यतितव्यं मध्ये प्रतिपादनीयस्यान्यप्रतिपादनशेषत्वाभावे । अत एव ‘जामि वा एतद्यज्ञस्य क्रियते यदन्वंचौ पुरोडाशावुपांशुयाजमन्तरा यजति विष्णुरुपांशु यष्टव्यः प्रजापतिरुपांशु यष्टव्यः । अग्नीषोमावुपांशु यष्टव्यावजामित्वाय’ इत्युपांशुयाजविधिवाक्ये उपक्रमे पुरोडाशयागद्वयनैरन्तर्यकृते जामितादोषे उपसंहारे तत्समाधाने च श्रूयमाणे तत्समाधानं मध्यगतवाक्येषु अन्तरावाक्ये यागविधान एव लभ्यते , न तु विष्ण्वादिवाक्ये यागविधान इति तेषु प्रत्यक्षमपि यागविधिं परित्यज्य अन्तरावाक्य एव कल्प्योऽपि यागविधिस्स्वीकृतः । यत्र तु मध्ये प्रतिपादनीयस्यान्यप्रतिपादनशेषत्वं न तत्रायं निर्बन्धः । तद्यथा ‘यद् ग्राम्याणां पशूनां पयसा जुहुयात् ग्राम्यान् पशून् शुचाऽर्पयेत् यदारण्यानामारण्यान् जर्तिलयवाग्वा वा जुहुयात् गवीधुकयवाग्वा वा न ग्राम्यान् पशून् हिनस्ति नारण्यान्’ इति अग्निहोत्रद्रव्यरूपपयोविध्यर्थवादभागे आदौ संकीर्तितस्य ग्राम्यारण्यपशुहिंसारूपदोषस्य अन्ते समाधानकीर्तनं मध्यगतवाक्यप्रतिपाद्यस्य जर्तिलगवीधुकशब्दवाच्यारण्यतिलगोधूमकृतयवाग्वोरग्निहोत्रे वैकल्पिकद्रव्यत्वस्याभ्युपगम एव लभ्यते , न तु कस्यचिदपि पयसः तद्द्रव्यत्वाभ्युपगमे ; पशुहिंसादोषतादवस्थ्यापत्तेः । न तु तथा अभ्युपगतम् , किन्तु ‘अथो खल्वाहुरनाहुतिर्वै जर्तिलाश्च गवीधुकाश्चेति पयसाऽग्निहोत्रं जुहुयात्’ इति तदनन्तरश्रुतविध्यनुसारेण पय एव तद्द्रव्यम् , जर्तिलादिवाक्यं तु ग्राम्यारण्यपशुहिंसाराहित्येन प्रशस्तमपि जर्तिलयवाग्वादिकं यदपेक्षया अहोम्यं तत् पयोऽत्यन्तं प्रशस्तमिति पयःप्रतिपादनशेषोऽर्थवाद इत्यभ्युपगतम् । एवमिहापि प्रतिष्ठात्व सङ्कीर्तनमन्तवत्त्वदोषोद्भावनेन देशकालपरिच्छिन्नत्वात् निरपेक्षप्रतिष्ठात्वयोग्यं न भवतीत्यपि प्रदर्श्य तदन्य स्यानन्तस्य निखिलकार्योपादानतया निरपेक्षप्रतिष्ठारूपस्य प्रतिपादनात् पृथिवीलोकस्य प्रतिष्ठात्ववर्णनं तत्प्रतिष्ठारूपानन्तवस्तुप्रतिपादनशेष इति तद्यथाकथञ्चिदुपपाद्यतां नाम । न तथोपपादनमिदं तथाऽन्यप्रतिपादनशेषत्वरहितानन्तत्ववर्णनं सहते । अनन्ताकाशप्रतिपादनार्थमेव हि सर्वं प्रकरणमिदमारब्धम् ।
‘त्रयो होद्गीथे कुशला बभूवुः । सिलकश्शालावत्यश्चेकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति । ते होचुरुद्गीथे वै कुशलास्स्मः । हन्तोद्गीथे कथां वदामः’(छा.१.८.१) इत्युपक्रान्तस्योद्गीथविचारस्य
‘स एष परोवरीयानुद्गीथः स एषोऽनन्तः’(छा.१.९.२ ) इत्युपसंहारदर्शनेन अनन्ताकाश उद्गीथे संपाद्योपास्य इति उद्गीथोपास्यवस्तुविशेषनिर्णयार्थत्वावसायात् । यथा जर्तिलादिवाक्यस्य प्रतिष्ठावाक्यस्य चाग्रिमवाक्यानुसारेण स्वारस्यभङ्गेऽप्युपसंहारप्राबल्यं नापतति तथा समर्थितमस्माभिरुपक्रमपराक्रमे । यद्वा प्रतिष्ठात्वलिङ्गस्यात्र नास्ति स्वारस्यभङ्ग इति नानन्तत्वलिङ्गे तत्प्रतिबन्ध्यवकाशः । प्रतिष्ठात्वं ह्यत्र नोपजीव्यत्वम् , किन्तु निश्चलत्वरूपं प्रतिष्ठितत्वम् । तद्धि स्वर्गलोके ज्योतिश्चक्रान्तर्गतत्वेन भ्रमति अप्रतिष्ठित्वदोषोद्भावनापूर्वकं पृथिव्यां तत्परिजिहीर्षया वर्णितम् ।
आर्यभटाभिमतस्तु भूभ्रमणवादः पुराणादिभिः
‘आकाशे पृथिवी प्रतिष्ठिता’(तै.३.९.१) इति श्रुत्या अनेन च प्रतिष्ठात्ववचनेन विरुद्धत्वात् बाध्यः । अत एव मत्स्यजिघृक्षुपक्षिशुष्कालाबुफलदृष्टान्तावलम्बनाभ्यां जैनयवनाभ्यां कल्पितौ भूपतनप्लवनवादावपि हेयौ । पक्षत्रयेऽपि वियत्क्षिप्तपाषाणखण्डादीनां पुनः क्षेत्रप्राप्त्यभावप्रसङ्गाच्च । एवं अनन्तत्वलिङ्गानन्यथासिद्धौ स्थितायां सर्वभूतकारणत्वादीन्यप्यनन्यथासिद्धान्येव भवन्ति । उक्तरीत्या हि तान्याकाङ्क्षितानन्त्योपपादनार्थान्येव योजनीयानि । आकाङ्क्षितार्थोपयोगसम्भवेऽन्यथायोजनाऽयोगात् । प्रसिद्धिद्योतकहवैशब्दस्यापि प्रसिद्ध्यपेक्षहेतुपरत्व एव सफलतरत्वात् । आनन्त्योपपादनार्थत्वं च तेषामसङ्कुचितसर्वभूतकारणत्वादिरूपत्व एव सङ्गच्छते , न तु भूताकाशनिष्ठकतिपयकारणत्वादिरूपत्वे । अवधारणश्रुतिश्चावान्तरकारणे भूताकाशे न सङ्गच्छते ; तेजःप्रभृतिषु भूताकाशकार्येषु वाय्वादीनामवान्तरकारणानामपेक्षितत्वेन सजातीयकारणान्तरव्यवच्छेदासम्भवात् । एवं ‘अस्य लोकस्य का गतिः’ इति शालावत्यप्रश्नोऽपि अनन्यथासिद्धः; तस्य पृथिवीकारणविषयत्वेऽपि अनन्तवस्तुविषयत्वावश्यम्भावेन उत्तरस्य भूताकाशविषयत्वे तदननुगुणत्वात् ।
आचार्यवाचस्पतिमिश्रास्तु सर्वलोकगतिविषय एवायं प्रश्न इत्याहुः । तेषामयमाशयः – यथा शालावत्यप्रश्नैकरूपस्य दाल्भ्यप्रश्नस्यानन्तवस्तुपरत्वाभावेऽपि अन्तवत्त्वदोषमुद्भावितवान् जैवलिः अनन्तं वस्तु पृथिवीकारणं विवक्षतीति निश्चयवतश्शालावत्यस्य प्रश्नोऽयमनन्तवस्तुपर इति कल्प्यते , तथा सर्वकारणत्वाभावे तदनन्तं न स्यात् , अतोऽनन्तं वस्तूपक्षिपता जैवलिना सर्वकारणमेव तदुपक्षिप्तं भवतीत्यपि शालावत्यस्य निश्चयसम्भवात् तदीयप्रश्नोऽयं ‘तत् किं सर्वकारणं अनन्तं वस्तु’ इति सर्वलोकगतिविषयः इत्यपि कल्पयितुमुचित इति । एवं च यथा अनन्यथासिद्धेनानन्त्यलिङ्गेनाकाशश्रुतिबाधः , तथा पूर्वापरानेकलिङ्गपर्यालोचनालब्धोपक्रमभूयोऽनुग्रहन्यायद्वयेनापि तद्बाधः । प्रधानपरस्याप्याकाशशब्दस्य लक्षणासहिष्णुत्वेनान्यथाऽप्युपपन्नस्य मुख्यार्थविषयत्वे सर्वकारणानन्तवस्तुविषयप्रश्नोत्तरसाधकत्वानुपपत्त्या स्वत एव तद्योग्यवस्त्वन्तरलक्षणोन्मुखत्वेनान्यथैवोपपन्नस्य अभ्यस्तस्यापि अनन्यथासिद्धलिङ्गेभ्यो दुर्बलत्वात् । आकाशस्य तद्गुणानाञ्च रूपरूपिवत् वस्तुतो गुणप्रधानभावे सत्यपि उद्गीथप्रक्रमानुसारेण तदुपास्यनिर्णयार्थे अस्मिन् प्रकरणे गुणगुणिनामुपास्यानां
‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्’(छा. ८.१.६) इति लिङ्गेन चाक्षुषज्ञानजनकालोकतद्गतोद्भूतरूपवत् समप्रधानत्वाच्च । तस्मादनन्यथासिद्धानन्तत्वलिङ्गबलात् भूयोऽनुग्रहन्यायात् उपक्रान्तप्रश्नानुरोधाच्च आकाश: परमेश्वर एवेति ।
सूत्रे तच्छब्दः पूर्वाधिकरणसूत्र इवानन्यथासिद्धत्वज्ञापनार्थः । लिङ्गादित्येकवचनं तु ‘अनन्तत्वमेकमेव प्रधानं स्वतो निर्णायकम् , अन्यानि तच्छेषभूतानि तदवलम्बनलभ्यबलानि तदुपबृह्मणमात्ररूपाणि’ इति ज्ञापनार्थम् । ननु श्रुत्यन्यथाकरणभारं कथमेकमेव अनन्तत्वलिङ्गं वहति ? अनन्यथासिद्धिमहिम्ना वक्ष्यतीति ब्रूमः । आकाशपदं हि श्रुतित्वेऽपि प्रथमपठितत्वेऽपि अभ्यस्तत्वेऽपि लक्षणया ब्रह्मपरत्वं सहते । अनन्तपदं तूपक्रमोपसंहारोपपत्तिरूपानेकलिङ्गप्रतिष्ठापितमुख्यानन्त्यतात्पर्यं सत् न भूताकाशगतापेक्षिकानन्त्यपरतां सहते । पूर्वतन्त्रे हि ‘ऐन्द्र्या गार्हपत्यमुपतिष्ठते’ इत्यादिस्थलेषु मन्त्रलिङ्गब्राह्मणश्रुत्योः मन्त्रब्राह्मणान्यतरलक्षणया सम्भवदन्यथासिद्धिकयोर्विरोध एव श्रुत्या लिङ्गबाधोऽङ्गीकृतः । तत्राप्यनन्यथासिद्धलिङ्गविरोधे अन्यथासिद्धाया श्रुतेरेव बाधः । यथा ‘हस्तेनावद्यति’ ‘स्रुवेणावद्यति’ ‘स्वधितिनाऽवद्यति’ इति हस्तस्रुवस्वधितीनामवदानसामान्यसाधनत्वश्रवणेऽपि हस्तादिसामर्थ्यरूपानन्यथासिद्धलिङ्गविरोधेन सङ्कोचसहिष्णूनामवद्यतिश्रुतीनामेव पुरोडाशादिकठिनद्रव्याज्यादिद्रवद्रव्यमांसावदानविषयतया संकोचरूपो बाधः । यथा वा ‘कृष्णलं श्रपयेत्’ इति श्रवणेऽपि कृष्णलेषु विक्लेदनफलकव्यापारासम्भवात्तत्राधिश्रयणादिव्यापारस्य उष्णीकरणमात्र एव सामर्थ्यात् वस्तुसामर्थ्यरूपानन्यथासिद्धलिङ्गबलेन श्रपणश्रुतेरेवोष्णीकरणलक्षणासहिष्णोर्मुख्यार्थत्यागरूपो बाधः । इह तु अनन्तत्वलिङ्गस्यावधारणाद्युपब्रह्मणमप्यस्तीति विशेषः । तस्मादिहोपास्य आकाशः परमेश्वर इति सिद्धम् । १. १. २२ ।
इत्याकाशाधिकरणम् ।८।
अत एव प्राणः ।२३।
अतिदेशाधिकरणस्यास्य पूर्वाधिकरणरीत्यैव पूर्वपक्षसिद्धान्तौ । ‘प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता’ इत्युपक्रम्य श्रुते
‘कतमा सा देवतेति प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति । प्राणमभ्युज्जिहते । सैषा देवता प्रस्तावमन्वायत्ता’(छा.उ. १.११.४,५) इति छान्दोग्यवाक्ये प्रस्तावदेवतारूपः प्राणः पञ्चवृत्तिर्वायुः , न ब्रह्म ; उपक्रमगतप्रधानप्राणश्रुत्यनुसारेण चरमश्रुततद्गुणसर्वभूतसंवेशनोद्गमनावधारणदेवताशब्दोदितचेतनत्वलिङ्गानां वर्णनीयत्वादिति प्राप्ते ‘कतमा सा देवता’ इति ‘सैषा देवता’ इत्युपक्रमोपसंहारगतप्रतिपिपादयिषितचेतनत्वलिङ्गेन असङ्कुचितसर्वभूतसंवेशनोद्गमनावधारणोपबृह्मितेन प्राणश्रुतिबाधात् ब्रह्मैवेति सिद्धान्त इति । अतिदेशस्य प्रयोजनं तु यथा अन्नमयाद्यब्रह्मप्रायपाठादानन्दमयो न ब्रह्म एवमुद्गीथप्रतिहारदेवतारूपान्नादित्यप्रायपाठात् प्राणोऽपि न ब्रह्म ।
न च वाच्यम् - ‘इदं पुच्छं प्रतिष्ठा’ इत्याद्यप्रधानाब्रह्मप्रायपाठेऽपि ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यत्र यथा पुच्छं स्वप्रधानं ब्रह्म , तथा प्राणोऽपि स्यात् - इति ; तत्र पुच्छशब्दतः प्रथमश्रुतया ब्रह्मश्रुत्या तत्प्रायपाठबाधात् , इह प्रथमश्रुतायाः प्राणश्रुतेः प्रायपाठानुग्राहकत्वेन तद्वैषम्यात् ।
नापि शङ्कनीयं
‘तत्तेज ऐक्षत’(छा.६.२.३ ) इत्यादिप्रायपाठबाधवदिहापि स्यादिति । तत्रेक्षणश्रुत्यमुख्यार्थत्वापादकप्रायपाठबाधनेऽप्यत्र प्राणश्रुतिमुख्यार्थानुग्राहकप्रायपाठबाधनायोगात् । न च
‘का साम्नो गतिः’(छा.१.८.४) इत्यादिश्रुत्युपात्तस्वरप्राणाद्यब्रह्मप्रायपाठबाधवदिहापि स्यादिति चोदनीयम् । भूमविद्यायां
‘एष तु वा अतिवदति’(छा. ७.१६.१) इति तुशब्देनाब्रह्मनामादिप्रायपाठवत् तत्रान्तवत्त्वदोषोद्भावनेनाब्रह्मस्वरादिप्रायपाठस्य व्यवच्छेदसिद्धावपि अत्र तद्व्यवच्छेदासिद्धेरित्यधिकशङ्कायाः ‘श्रुत्यनुगृहीतमपि सन्निधानं तात्पर्यवल्लिङ्गबाध्यम्’ इति व्युत्पादनेन निवर्तनमाशङ्कान्तरनिवर्तनं च प्रयोजनम् । तथाहि तत्रोपाख्यायते –
उषस्तिनामा कश्चिदृषिः धनलिप्सया राज्ञो यज्ञं गत्वा स्वस्य ज्ञानवैभवं प्रकटयन् प्रस्तोतारमुवाच - प्रस्तोतर्या देवता प्रस्तावभक्तिमनुगता तां चेदविद्वान्मम विदुषस्सन्निधौ प्रस्तोष्यसि मूर्द्धा ते विपतिष्यतीति । एवमेवोद्गातारं प्रतिहर्तारं चोवाच - उद्गीथप्रतिहारभक्त्यनुगतदेवतावेदनं विनोद्गाने प्रतिहरणे च तयोर्मूर्द्धा विपतिष्यतीति । ते भीता: कर्मभ्यो विरेमुः । ततो यजमानेनानुनीतो ‘यावदेभ्यो धनं दद्यास्तावन्मम दद्याः’ इति यजमानं पृष्ट्वा ततो लब्धतावद्धनदानप्रतिश्रवणः तदनन्तरं प्रस्तोत्रा प्रस्तावदेवतां पृष्टः ‘प्राणः’ इत्युपदिश्य तत्र सर्वभूतसंवेशनोद्गमनमुक्त्वा
‘सैषा देवता प्रस्तावमन्वायत्ता’(छा.१.११.४,५) इत्युपसञ्जहार । तथोद्गात्रा उद्गीथदेवतां पृष्टः ‘आदित्यः’ इत्युपदिश्य
‘सर्वाणि ह वा इमानि भूतानि आदित्यमुच्चैस्सन्तं गायन्ति’(छा.१.११.७) इत्युक्त्वा ‘सैषा देवतोद्गीथमन्वायत्ता’ इत्युपसञ्जहार । एवं प्रतिहर्त्रा प्रतिहारदेवतां पृष्टः ‘अन्नम्’ इत्युपदिश्य
‘सर्वाणि हवा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति’(छा.१.११.९) इत्युक्त्वा ‘सैषा देवता प्रतिहारमन्वायत्ता’ इत्युपसञ्जहार ।
तत्र यथा देवताविषयोपक्रमोपसंहारयोस्सतोरप्यचेतनस्यान्नस्य प्रतिहारोपास्यत्वं तथा प्राणस्यापि प्रस्तावोपास्यत्वमस्तु । यदि तत्र
‘अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्’(ब्र.सू.२.१.५) इति ‘न विलक्षणत्वा’धिकरणसूत्रे वक्ष्यमाणन्यायेन अन्नशब्दस्तदभिमानिदेवतापरः, तर्हि प्राणशब्दोऽपि प्राणाभिमानिदेवतापरोऽस्तु । न च वाच्यम् – सर्वभूतसंवेशनोद्गमनवाक्यशेषः प्राणवायावेव कथञ्चिद्योजयितुं शक्यते
‘यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणञ्चक्षुः प्राणं श्रोत्रं प्राणं मनः स यदा प्रबुध्यते प्राणादेवाधिपुनर्जायन्ते’(शत, ब्रा. १०.३.३) इति श्रुत्यन्तरात् , स्वापकाले प्राणवृत्तौ स्थितायामिन्द्रियवृत्तीनां लोपस्य प्रबोधकाले प्रादुर्भावस्य सर्वदा देहिनां स्थितिप्रवृत्त्योः प्राणवाय्वधीनत्वस्य च प्रत्यक्षसिद्धत्वाच्च । तदभिमानिदेवतायां तु वाक्यशेषो न तथा योजयितुं शक्यते । अत एव ‘प्राणवायुपूर्वपक्ष एवात्र कर्तुमुचितो न तद्देवतापूर्वपक्षः’ इत्यभिप्रेत्य भाष्ये प्रत्यक्षानुगृहीतश्रुत्यन्तरानुरोधेन प्राणवायौ वाक्यशेषस्योपपत्तिर्दर्शिता । तत्र चानन्यथासिद्धं देवतालिंगं बाधकं स्यादेव - इति । एवं सति ‘अन्नमेव प्रतिहरमाणानि जीवन्ति’ इति वाक्यशेषेण अन्नशब्दस्याचेतनपरताया वक्तव्यत्वेन तत्राचेतने देवताशब्दवदिहापि देवताशब्दोपपत्त्या देवतात्वलिंगस्याबाधकत्वतादवस्थ्यात् । यदि चाभिमान्यभिमानविषययोरभेदाध्यासमाश्रित्य अन्नवाक्यशेषः तदभिमानिदेवतायां योज्यते, तर्हि प्राणवाक्यशेषोऽपि तथैव योज्यताम् । तस्मात् देवतात्वं न प्राणस्य परमेश्वरत्वसाधकम् ।
ननु तथाप्यसंकुचितसर्वभूतसंवेशनोद्गमनाधारत्वं तत्साधकं स्यात् । सर्वभूतशब्दो हि प्राणिनिकायपरः पञ्चमहाभूतपरो वा स्यात् । उभयत्र भूतशब्दस्य रूढिसत्त्वात् । न च सर्वेषां प्राणिनां महाभूतानां वा प्राणवायौ संवेशनोद्गमने स्तः । यदि च
बालाक्यधिकरण (ब्र.सू.१.४.५) न्यायेन रूढ्योरन्यतरपरिग्रहे निर्णायकाभावात् तुल्यबलयोः परस्परप्रतिहतौ लब्धोन्मेषेण ‘भवन्ति’-’जायन्ते’ इति योगेन सर्वभूतशब्दस्सर्वकार्यपर आश्रीयते, तदा सुतरां प्राणवायौ ते न स्त एवेति चेत् । मैवम् । आदित्यान्नवाक्यशेषवत् प्राणवाक्यशेषस्यापि मुख्यार्थ एवोपपत्तेः । न हि सर्वे प्राणिनस्सर्वाणि महाभूतानि सर्वाणि कार्याणि वा आदित्यमुच्चैस्सन्तं गायन्ति अन्नमेव प्रतिहरमाणानि जीवन्ति वा । किन्तु चेतनविशेषा एव । अन्नशब्दो ह्योदनवाची ‘भिस्सा स्त्री भक्तमन्धोऽन्नम्’ इति नैघण्टुकप्रसिद्धेः ।
‘अन्नेन व्यञ्जनम् (पा.सू.२.१.३४) इति पाणिनिसूत्रदर्शनाच्च । तस्माद्यथा तयोरेकत्र सर्वभूतशब्द: आदित्यगानयोग्यचेतनविशेषपरः अन्यत्रान्नोपजीवनयोग्यचेतनविशेषपरः, तथा अत्र प्राणवायुसंवेशनादियोग्यकार्यविशेषपरः - प्राणाधीनस्थितिप्रवृत्तिकसर्वप्राणिपरो वा स्यात् । अत्रैव प्रकरणे सर्वभूतशब्दस्य योग्यताऽनुसारेण सङ्कोचदर्शनात् । एतेनावधारणानुपपत्तिरपि निरस्ता ; ‘अन्नमेव’ इतिवदयोगव्यवच्छेदकत्वोपपत्तेः । तस्मादिह पूर्वन्यायाप्रवृत्तेः न प्राणस्य परमेश्वरत्वसिद्धिरित्यधिका शङ्कोन्मिषति ।
अत्रेदं समाधानम् - प्रतिपिपादयिषितचेतनत्वलिङ्गविरोधात् प्राणशब्दस्य प्राणवायुरूपमुख्यार्थातिलङ्घनेन लक्षणीयचेतनाकाङ्क्षायां
‘प्राणबन्धनं हि सोम्य मनः’(छा.६.८.२) ‘प्राणस्य प्राणम्’(बृ.४.४.१८) इत्यादिश्रुतिषु परमेश्वर इव प्राणसंवादादिषु प्राणाभिमानिदेवतायामपि तस्य प्रयोगदर्शनेन निरूढलक्षणया तस्यामपि यद्यपि वृत्तिस्सम्भवति, तथाप्यत्र परमेश्वर एव तस्य वृत्तिर्युक्ता ; वाक्यशेषस्य स्वरसतोऽसङ्कुचितसर्वभूतसंवेशनोद्गमननिरपेक्षाधारपरस्य स्वतस्तत्र सम्भवात् । प्राणाभिमानिदेवतायां सङ्कुचितार्थस्य तस्य प्राणवायुगततदर्थारोपेण समर्थनीयत्वात् । न ह्यन्नवाक्यशेषस्तदभिमानिदेवतां विना चेतनान्तरे कथमप्यन्वयमलभमानः तस्यामन्नगततदर्थारोपेण समर्थित इति अत्र गत्यन्तरसम्भवेऽपि अन्यदीयारोपस्समाश्रयणीयः, न वा गत्यन्तररहितयोरन्नादित्यवाक्यशेषयोस्सर्वशब्दस्य सङ्कोचः कल्प्यत इति असङ्कोचसम्भवेऽप्यत्र सङ्कोचः कल्पनीयः । नाप्यन्नवाक्यशेषेऽवधारणस्य स्वारसिकमन्ययोगव्यवच्छेदकत्वं त्यक्त्वा भिन्नक्रमत्वेनायोगव्यवच्छेदकत्वमाश्रितमिति अत्रापि तथा आश्रयणीयम् । प्रायपाठस्य स्थानप्रमाणरूपस्य लिङ्गबाध्यस्यानियामकत्वात् । तस्मात् सर्वजगत्प्रकृतित्वावधारणोपबृंहितप्रतिपिपादयिषितचेतनत्वलिङ्गेन प्राणश्रुतिबाधात् प्राणः परमेश्वर इति सिद्धम् । १. १. २३ ।
इति प्राणाधिकरणम् । ९ ।
ज्योतिश्चरणाभिधानात् । २४।
राद्धान्तस्तु – ब्रह्मैव इदं ज्योतिः ; ‘त्रिपादस्यामृतं दिवि’ इति सर्वाणि भूतानि एकं पादं कृत्वा पादत्रयरूपेणोक्तस्य ब्रह्मणः यच्छब्देनाभिधानात् तत्समानाधिकृतज्योतिश्शब्दस्यापि तत्र वृत्त्यवश्यंभावात् । न च – यच्छब्द एव ज्योतिश्शब्दस्वारस्याबाधाय प्रकृतपरत्वं परित्यज्य ज्योतिश्शब्दोपस्थापितप्रसिद्धप्राकृतज्योतिःपरामर्शी स्यादिति वाच्यम् । सर्वनाम्नां समानाधिकृतशब्दस्वारस्यमतिलंघ्स्यापि प्रकृतपरामर्शित्वस्य व्युत्पत्तिसिद्धतया यच्छब्दानुसारेणैव ज्योतिश्शब्दस्य नेयत्वात् ।
‘~अत एव प्रयुक्तिलक्षणे (जै. सू.४.१.९) ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इति श्रुतावामिक्षापदवाच्यं पयसोऽर्थान्तरं दधिपयस्संसर्गजन्यद्रव्यमभ्युपेयम् ; पयः आमिक्षेति व्यपदेशभेदादिति तस्यैव द्रव्यान्तरस्य कठिनाम्लमधुररसस्य वैश्वदेवयागद्रव्यत्वे आमिक्षापदसमानाधिकृततत्पदस्यापि तद्द्रव्यपरत्वे च प्राप्ते सर्वनाम्नः प्रकृतपरत्वस्वाभाव्यात् तत्पदमानयनक्रियां प्रति प्रधानकर्मतया दध्यानयनाधिकरणत्वेन निर्दिष्टं पयः परामृशतीति पय एव यागद्रव्यम् । तत्पदे स्त्रीलिङ्गमामिक्षापदसामानाधिकरण्यकृतम् । आमिक्षापदं तु न संसृष्टद्रव्यान्तराभिधायकम् , किन्तु तत्पदेन केवले पयसि यागद्रव्ये विहिते तत्र दध्यानयनसंस्कारविधिप्राप्तदधिसंसर्गानुवादकम् । आमिक्षापदमप्यस्मादेव वैदिकव्यवहारादम्लद्रव्यघनीभूतपयोमात्रवाचकम् , न तु तज्जन्यद्रव्यान्तरवाचकम् । अम्लरसोऽपि न यागद्रव्यगतः, किन्तु तत्संस्कारकद्रव्यगत इति पयोरूपामिक्षाप्रयुक्तमेव दध्यानयनं न वाजिनप्रयुक्तमपीति निर्णीतम् ।
‘दधि मधु घृतं धानाः करम्भा उदकं तण्डुलास्तत्संसृष्टं प्राजापत्यम्’ इति चित्रायागविधौ दध्यादिसप्तद्रव्यमेलनरूपसंसृष्टैकद्रव्यात् एको यागः, तत्पदं च संसृष्टद्रव्यपरमिति प्राप्ते – तत्पदं प्रकृतपरामर्शित्वस्वाभाव्यात् असंसृष्टदध्यादिसप्तद्रव्यपरं न तु संसृष्टैकद्रव्यपरमिति दध्यादिसप्तद्रव्यकास्सप्त यागाः । सप्तस्वपि द्रव्येषु तदिति नपुंसकैकवचननिर्देशः ‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्’(पा.सू.१.२.६९) इति व्याकरणस्मृत्यनुसारेणोपपद्यते । संसृष्टपदं तु यागभेदेऽप्येकदेवत्यतया सान्नाय्यवद्दध्यादीनां सहप्रक्षेपे संसर्गस्य सत्त्वात् तदनुवादकं योज्यमिति निर्णीतं टुप्टीकायामष्टमद्वादशाध्याययोः ।
सूत्रे ‘चरणाभिधानात्’ इत्यस्य यच्छब्दस्सर्वनामस्वाभाव्यात् समानाधिकृतशब्दस्वारस्यमतिलंध्य प्रकृतपरामर्शीति युक्तौ प्रकृतस्य पादत्रयरूपस्य ब्रह्मणो यच्छब्देनाभिधानादित्यर्थः । यच्छब्दयोगादनुवाद्यं तु द्युसम्बन्धि प्राप्त्यपेक्षमिति युक्तौ प्राक् मन्त्रेण ब्रह्मणः पादत्रयरूपस्य द्युसम्बन्धिनोऽभिधानादित्यर्थः । यद्यप्याद्ययोजनायां पूर्वं प्रकृते ब्रह्मणि यावन्तो गायत्र्यादिशब्दाः प्रयुक्ताः तेषामन्यतमश्चरणशब्दस्थाने निवेशयितुं शक्यः, तथाऽपि द्वितीययोजनायां ‘त्रिपादस्यामृतं दिवि’ इति मन्त्रभाग एवाश्रयणीय इति तत्साधारण्याय चरणशब्दो निवेशितः । उक्तयुक्तिद्वयबलात् ‘यदतः परो दिवः’ इत्यस्य त्रिपाद्ब्रह्मपरत्वमवलम्ब्य ज्योतिश्शब्दस्य तत्परत्वोपपादनयुक्तौ चरणे ब्रह्मणि ‘यदतः परो दिवः’ इति निर्दिष्टे ज्योतिश्शब्दस्याभिधावृत्तिसम्भवादित्यर्थः । एवं तृतीययोजनासाधारण्यार्थमेव सूत्रान्तरप्रयुक्तं व्यपदेशादिपदं विहाय ‘अभिधानात्’ इत्युक्तम् । १.१.२४ ।
अथ ‘तावानस्य’ इति मन्त्रे ब्रह्मणः प्रकृतत्वमसिद्धमित्याशङ्कामनुभाष्य निराकरोति –
छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॥ २५ ॥
पूर्वत्र गायत्रीशब्देन छन्द एव ह्यभिमतं न ब्रह्म ; ज्योतिश्शब्दस्येव गायत्रीशब्दस्य तत्राभिधावृत्तेरुपपादयितुमशक्यत्वात् । तथा च मन्त्रेणापि छन्दस एव प्रतिपादनान्न ब्रह्मणः प्रकृतत्वमस्ति । नच वाच्यमस्मिन् मन्त्रे चतुष्पात् ब्रह्म साक्षात् प्रतीयते, कथमयं छन्दःपरस्स्यादिति । ‘गायत्री वा इदं सर्वं भूतम्’ इति गायत्रीमुपक्रम्य ‘सैषा चतुष्पदा’ इत्युक्त्वा ‘तदेतदृचाऽभ्यनूक्तम्’ इति तस्मिन्नर्थेऽवतारितस्य मन्त्रस्य चतुष्पाद्ब्रह्मप्रतिपादकत्वायोगादिति चेत् – नायं मन्त्रश्छन्दोविषयः ; छन्दोमात्रस्य सर्वभूतपादत्वाद्ययोगात् । तथा ‘गायत्री वा इदं सर्वम्’ इत्यादिरपि न छन्दोमात्रविषयः ; छन्दसस्सर्वात्मकत्वायोगात् , किंतु तत्र गायत्रीशब्दो गायत्रीरूपस्वविकारानुगतब्रह्मानुसन्धानोपदेशात्तल्लक्षकः । विकारश्च स्वानुगते ब्रह्मण्युपलक्षणमिति न सर्वात्मकत्वानुपपत्तिः । तथाह्यन्यत्रापि विकारानुगतब्रह्मानुसन्धानोपदेशो दृश्यते ‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्ते’(ऐ. आ. ३.२. ३) इत्यादौ ।
सूत्रे तथेत्यस्य तेन विकारानुगतत्वेन प्रकारेणेत्यर्थः । यत्तु भाष्ये ‘यथा गायत्री षडक्षरैः पादैश्चतुष्पदा एवं ब्रह्मापि मन्त्रवर्णोक्तरीत्या चतुष्पात्’ इति सादृश्येन श्रुतिगतं गायत्रीपदं ब्रह्मणि गौणमङ्गीकृत्य ‘तथा तद्वत् गायत्रीच्छन्दोवत् चतुष्पात्त्वेन ब्रह्मणि चेतोर्पणनिगदात्’ इति व्याख्यानं तत् ‘अपर आह’ इत्युपक्रमादनभिमतमुन्नीयते । अनभिमतिबीजं तु साक्षात्सम्बन्धेन गायत्रीपदस्य ब्रह्मणि लक्षणासम्भवे सादृश्यरूपपरम्परासम्बन्धमूलगौणवृत्तिरयुक्ता । चतुष्पदत्वं च गायत्र्या न प्रसिद्धम् । अष्टाक्षरैः त्रिभिः पादैः गायत्रीति प्रसिद्धेः त्रिपदैव गायत्री । षट्स्वक्षरेषु एकैकपादत्वकल्पनया चतुष्पदा सम्पद्यत इति न युक्तम् ; तेषामृक् यत्रार्थवशेन पादव्यवस्था’(जै. सू. २. १. ३५) इत्यर्थवशेन नियमितां पादव्यवस्थामपहाय केवलमक्षरगणनया पादकल्पनाऽयोगात् ।
न च ‘षष्टिस्त्रिष्टुभो माध्यन्दिने सवने’ इति गायत्रीबृहत्यादिनानाच्छन्दस्सङ्घाते षष्टित्रिष्टुप्त्वव्यप देशनिर्वाहार्थं तेषु त्रैष्टुभानां पादानामक्षरगणनया कल्पना सम्प्रतिपन्नेति वाच्यम् । तत्र विनैव पादकल्पनां माध्यन्दिनसवनगतनानाच्छन्दोऽक्षराणां षष्टित्रिष्टुबक्षराणां च संख्यासाम्यमात्रेण तथाव्यपदेशस्य गौणत्वात् । अन्यथा बृहस्पतिसवे ‘गायत्रमेतदहर्भवति’ इति वचनस्य प्राकृतेष्वेव नानाच्छन्दस्स्वक्षरगणनया अक्षरलोपेन वा गायत्रीत्वसम्पादनार्थतया प्राकृतीनामृचां बाधस्सम्भवतीति तत्र वचनबलान्नानाच्छन्दांस्यपहाय मुख्यगायत्र्यो ग्राह्या इति निर्णयार्थेन ‘गायत्रीषु प्राकृतानामवच्छेदः’(जै. सू. ८. ३.६) इति पूर्वतन्त्राधिकरणेन विरोधापत्तेः ।
न च वाच्यम् – ‘इन्द्रश्शचीपतिर्वलेन पीडितः । दुश्च्यवनो वृषा समत्सुसासहिः’ इति क्वचित् चतुष्पदाऽपि गायत्री दृष्टा – इति । तथाऽपि सर्वगायत्रीप्रसिद्धं रूपं विहाय क्वाचित्केन रूपेण सामान्यग्रहणायोगात् । न हि सर्वत्र गवां चतुष्पात्त्वेऽपि क्वचिदौत्पातिकी द्विपादुत्पन्ना दृष्टेति ‘वराहं गावोऽनुधावन्ति’ इत्यत्र वायसे द्विपात्त्वेन गोसादृश्यं ग्राह्यमित्यलं विस्तरेण । १.१.२५।
ननु उपक्रमगतगायत्रीशब्दस्य तदनन्तरपठितमन्त्रश्रुतसर्वभूतपादत्वानुपपत्त्या गायत्र्यनुगतब्रह्मलक्षकत्वकल्पनमयुक्तमित्याशंक्याह –
भूतादिपादव्यपदेशोपपत्तेश्चैवम् । २६ ।
गायत्रीवाक्य एव भूतपृथिवीशरीरहृदयानि निर्दिश्य तेषां गायत्रीपादत्वेन व्यपदेशात् एवं गायत्रीशब्दो ब्रह्मपर इति निश्चीयते । ‘व्यपदेशात्’ इत्येतावति वक्तव्ये ‘उपपत्तेः’ इति अधिकोक्तिः तत्र किञ्चिदनुपपत्तिशङ्कानिरासाय । अनुपपत्तिश्च एवम् – ‘चतुष्पदेत्ययं हि भूतादिपादत्वव्यपदेशः । अयं तु गायत्र्यामृच्येवोपपद्यते ; ‘टाबृचि’(पा. सू. ४. १. ९) इति टाबन्तताया ऋच्येवानुशासनात् । ब्रह्म परत्वे ‘चतुष्पात्’ इति स्यात्’ इति । तत्रैवं समाधानम् – उपपद्यत एव गायत्र्यनुगतब्रह्मपरत्वे टाबन्तता ; तदुपलक्षकऋक्संस्पर्शाप्रहाणादिति ।
चकारेण पुरुषसूक्ताम्नातस्य ‘एतावानस्य’ इति मन्त्रस्य ब्रह्मपरत्वस्याविचाल्यत्वात् ‘यद्वै तत् ब्रह्म’ इति
‘इदं वाव तत्’(छा. ३. १२. ७) इति प्रकृतस्य ब्रह्मत्वप्रतिपादकाद्वाक्यात् गायत्र्युपासनाङ्गद्वारपालोपासनाविधौ
‘ते वा एते पञ्च ब्रह्मपुरुषाः’(छा. ३.१३. ६) इति द्वारपालेषु ब्रह्मपुरुषत्वोक्तिलिङ्गाच्चेति समुच्चीयते । तथा च प्राथमिकैकप्रमाणात् उत्तरानेकप्रमाणानां बलवत्त्वात् भूतादिपादत्वप्रभृत्यनेकप्रमाणानुरोधेन एकस्या गायत्रीश्रुतेः गायत्र्यनुगतब्रह्मलक्षकत्वकल्पनमुपपन्नमिति दर्शितं भवति ।
एवमित्यधिकोक्तिरसन्देहार्था – आनन्दमयाधिकरणे हि ‘भूयसां स्यात् स्वधर्मत्वम्’ इति न्याये विप्रतिपद्यमानान् प्रति मान्त्रवर्णिकसूत्रेण हेत्वन्तरं दर्शितम् , इहापि तदवलम्ब्योत्तरानेकप्रमाणबलवत्त्वे कश्चिद्विचिकित्सेतेति । एवंकारेण तु – एवमेवायमर्थः ; पदमात्रस्वारस्यानुरोधेन बहुबाधस्यान्याय्यत्वात् , आनन्दमयाधिकरणे तु ‘तुष्यतु दुर्जनः’ इति सम्भवद्धेत्वन्तरमप्युपन्यस्तम् – इति सूच्यते । १.१.२६।
नन्वस्तु प्रकृतं ब्रह्म, तथापि ‘दिवि’ ‘दिवः’ इति निर्देशभेदान्न ज्योतिर्वाक्यं तदनुवादक्षममित्याशंक्य निराकरोति –
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् । २७ ।
नैष दोषः ; उभयस्मिन्नपि निर्देशे विरोधाभावात् । लोके वृक्षाग्रनिलीने श्येने ‘वृक्षाग्रे श्येनः’ ‘वृक्षाग्रात् परतश्श्येनः’ इति उभयथाव्यपदेशदर्शनेन दिवि स्थित एव ब्रह्मणि ‘दिवि’ ‘दिवःपरः’ इत्युभयथा व्यपदेशोपपत्तेः । यत्तु केनचिदुक्तं वृक्षाग्रनिलीने श्येने वृक्षाग्रात् परत इति व्यवहारोऽसिद्ध इति , तत् पञ्चम्यन्तं सप्तम्यन्तमिति वा भ्रान्त्या । प्रथमान्तं हि तत् ; तसेस्सार्वविभक्तिकत्वात् , ‘दिवः परः’ इति श्रुत्यानुगुण्यात् , ‘एवं दिव्येव सत् ब्रह्म दिवः परमित्युपदिश्यते’ इति दार्ष्टान्तिकपरभाष्यानुगुण्याच्च । न च वृक्षाग्रोपरिभागस्थिते श्येने वृक्षाग्रात् पर इति व्यवहारेऽप्यसंप्रतिपत्तिः । ततश्च दिव उपरिभागस्थिते ज्योतिष्यपि ‘दिवः पर’ इति व्यपदेशः तद्वदेवोपपद्यतेतराम् ।
ननु दिव उपरिभागे स्थितं ज्योतिः कथं ‘अनुत्तमेषूत्तमेषु लोकेषु’ इति अधिकरणान्तरस्थितं निर्दिश्यते । उच्यते । द्युशब्दोऽयं स्वर्गलोकपर्यायः । स्वर्गलोकश्चात्र भूर्भुवस्स्वरिति लोकत्रयपक्षानुसारेण भूमिसूर्यान्तररूपात् भुवर्लोकादुपरितनसत्यलोकान्तो विवक्षितः । तस्योपरिभागरूपा ये सत्यलोकान्तर्गतहिरण्यगर्भादिभोगभूमिभेदाः
‘तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति’(बृ. ६. २. १५) इत्यादिश्रुतिप्रसिद्धाः तेषु विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु सर्वस्मादपि लोकादुपरिस्थितेषु स्वेभ्य उत्तमरहितेषु स्वयं सर्वोत्तमेषु लोकेषु हिरण्यगर्भादिमूर्त्यभिव्यक्तं ब्रह्म ‘दिवः परम्’ इति, ‘अनुत्तमेषूत्तमेषु लोकेषु स्थितम्’ इति च युक्तमेव ; वृक्षाग्रस्योपरिपल्लवितभागस्थिते श्येने ‘वृक्षाग्रात् पर’ इति ‘पल्लवेषु स्थित’ इति च व्यपदेशदर्शनात् । विस्तरेण चैतदनुपदं प्रतिपादयिष्यामः ।
यत्तु भाष्ये ‘अपर आह’ इत्यारभ्योक्तं ‘यथा वृक्षाग्रेणासम्बद्धः उपरि भ्रमन्नेव श्येनो वृक्षाग्रे इत्यपि व्यपदिश्यते तथा दिवः परमपि ब्रह्म ‘दिवि’ इत्यपि व्यपदिश्यते’ इति, तत् भूर्भुवस्वर्महर्जनस्तपस्सत्यमिति सप्तलोकपक्षानुसारेण सूर्यादिध्रुवान्तमेव द्युशब्दार्थमभिप्रेत्य । तत्रेदमनभिमतिबीजम् – युक्तं वृक्षाग्रे श्येन इति तदसम्बद्धेऽपि व्यपदेशः ; औपश्लेषिकाधिकरणत्वाभावेऽपि सामीपिकाधिकरणत्वस्य सत्त्वेन सप्तम्या मुख्यार्थानपायात् , इह महरादिलोकत्रयान्तरितसत्यलोकभोगभूमिरूपेषूत्तमेषु लोकेषु स्थितस्य ब्रह्मणो द्युलोकसामीप्याभावेन दिवीति व्यपदेशोऽनुपपन्नस्स्यात् । न चैतद्युक्तम् ; अनुवादमुख्यताऽनुसारेण पुरोवादान्यथानयनस्यानुपपन्नत्वात् , प्रथमपक्षे पुरोवादानुवादयोरुभयोरपि मुख्यार्थत्वसङ्घटनाच्चेति ।
ज्योतिर्वाक्यमृगप्राप्तामपि लोकान्तरस्थितिम् ।
निर्वर्णयत् कथं नाम स्यात् तदर्थानुवादकम् ॥
कथञ्चिच्च ऋचा प्राप्ता यदि साऽप्युपपाद्यते ।
मुधाऽनुवादस्तत्त्यागेऽप्युपास्तिविधिसम्भवात् ॥
अथेत्युक्तोऽधिकारश्च प्रकृतात् भेदकोऽस्त्यतः ।
संज्ञाऽधिकरणन्यायात् प्रकृतास्पर्शितोचिता ॥
‘अथ यदतः पर’ इत्यादि यदुपबन्धयुक्तं वाक्यं न केवलं द्युसम्बन्धमात्रं ज्योतिषः कीर्तयति येन तस्याविरोधोपपादनमात्रेण चारितार्थ्यं स्यात् , किन्तु ‘विश्वतः पृष्ठेषु’ इत्यादिना लोकविशेषाणां महिमानं तेषु ज्योतिषोऽवस्थानञ्च कीर्तयति । न च तदपि ‘तावानस्य’ इत्यृचा प्राप्तम् ; येन तदर्थानुवादकत्वमुक्तमुपपद्यते । अथ यथा ‘दिवि’ ‘दिवः’ इति निर्देशभेदेऽपि प्राप्तिरुपपादिता तथा लोकान्तरस्थितेरपि कथञ्चिदृचा प्राप्तिरुपपाद्येत, तथाऽपि तदनुवादो व्यर्थः; तत्प्रहाणेऽपि ‘इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ इत्यत्र तदिति प्रकृतं त्रिपात् ब्रह्मानूद्य तस्य कौक्षेयज्योतिष्युपासनाविधानसम्भवात् । अपि च अथशब्दोऽत्राधिकारार्थो निर्दिष्टः । स च प्रकृतात् भेदकः । तस्मात् संज्ञाधिकरणन्यायेन ‘अथ यदतः पर’ इत्यादेः प्रकृतास्पर्शित्वमेव युक्तम् ।
‘संज्ञा चोत्पत्तिसंयोगात्’(जै. सू. २.२.२२) इत्यधिकरणे हि ‘अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेत’ इत्यत्र किं प्रकृतं ज्योतिष्टोममनूद्य तत्र सहस्रदक्षिणाविधानं उत ज्योतिरादिनामकसहस्रदक्षिणाविशिष्टकर्मान्तरविधानमिति संशये ‘यजेत’ इत्याख्यातस्य प्रकृतहानाप्रकृतपरत्वकल्पनाऽयोगात् , ‘एष’ इति च सर्वनाम्नः प्रकृतपरामर्शित्वावश्यंभावाच्च ज्योतिरिति नामैकदेशेन ज्योतिष्टोममनूद्य विश्वज्योतिस्सर्वज्योतिश्शब्दाभ्यामपि ज्योतिश्शब्दितत्रिवृदादिसकलस्तोमवत्त्वनिमित्ताभ्यां तमेवानूद्य तत्र सहस्रदक्षिणाविधानमिति पूर्वपक्षं कृत्वा ज्योतिरित्यादिसंज्ञान्तराणां स्वतोऽर्थान्तरपरत्वस्वारस्येन ज्योतिष्टोमविषयत्वकल्पनाऽयोगात् , कथञ्चित्तद्विषयत्वकल्पने ‘सहस्रदक्षिणेन यजेत’ इत्येतावतापि प्रकृते ज्योतिष्टोमे गुणविधानोपपत्त्या ‘अथैष ज्योतिः’ इत्याद्यनुवादवैयर्थ्यात् , अथशब्देनाधिकारार्थेन प्रकरणविच्छेदात् , तद्वशात् एषशब्दानां प्रस्तूयमानपरत्वसम्भवाच्च नामगुणविशिष्टकर्मान्तरविधानमिति सिद्धान्तितम् । एवमिहापि प्रकृतत्रिपाद्ब्रह्मानुवादत्वकल्पने तत्राप्राप्तलोकान्तरस्थितिकीर्तनायोगात् कथञ्चित्प्राप्तिसमर्थनेन तत्कीर्तनोपपादनेऽप्यनुवादवैयर्थ्यात् , अधिकारार्थाथशब्दबलात् यत्पदस्य प्रस्तूयमानपरत्वसम्भवाच्च लोकविशेषावस्थितप्रसिद्धज्योतिरादिविशिष्टोपासनाविधिरेव युक्तः, न तु त्रिपाद्ब्रह्मानुवादेन तदुपासनाविधिः ; ‘त्रिपादस्यामृतं दिवि’ इत्युपदेशतोऽस्य ऊर्ध्वलोकस्थितिवर्णनेन वैलक्षण्यात् । अधिकारार्थाथशब्देन ततोऽस्य भेदनाच्च तदनुवादत्वायोगादिति ।
अस्यामपि शङ्कायां ‘उभयस्मिन्नप्यविरोधात्’ इति सौत्रमेवोत्तरम् । दिव इति निर्देशसमर्थनप्रकार एव च तत्समर्थनप्रकारः । तथा हि ‘दिवः पर’ इति निर्देशो ‘दिवि’ इति निर्देशात् विलक्षणोऽपि ‘वृक्षाग्रात् परतश्श्येन’ इति निर्देशवत् न विरुध्यत इति यदुक्तं तस्य खल्वयं फलितोऽर्थः । दिवो यत्किञ्चिद्भागावच्छेदेन सर्वभागावच्छेदेन वा अधिकरणत्वविवक्षायामुपपन्नं दिवीति निर्देशमुपरिभागावच्छेदेन स्थितिविवक्षायामेवोपपन्नो ‘दिवः पर’ इति निर्देशस्स्वयं तदनुवादोऽपि ‘कांस्यभोजि’ न्यायेन स्वानुगुणामुपरिभागावच्छेदेन स्थितिविवक्षामुन्नयन्नैकार्थ्येन तदविरोधं प्रतिपद्यत इति । एवं लोकस्थितिनिर्देशो दिवीति निर्देशात् विलक्षणोऽपि वृक्षाग्रात्परश्चञ्चरीकगणस्सर्वोपरिस्थितेषु सुरभितमेषु कुसुमेषु इति निर्देशवदविरुद्ध इति न्यायसाम्येन सिद्ध्यति । तेन चायमर्थः फलति – दिव उपरिभागेऽपि सर्वोपरिस्थितेषु सर्वोत्तमेषु सर्वेषु लोकेषु स्थितिविवक्षां ‘दिवि’ इति पुरोवादस्योपहरन्नैकार्थ्येन तदविरोधं प्रतिपद्यते – इति । न च वाच्यम् – दिव उपरिभागे तादृशलोकास्सन्तीति पुरोवादतोऽप्राप्ततया तत्सत्ताया इहैव निरूपणीयत्वात् तदनुवादत्वमयुक्तम् – इति । पुरोवादेऽपि ‘त्रिपादस्यामृतं दिवि’ इति दिवमनूद्य तत्र स्थितिविधानपरे द्युस्वरूपावगत्यर्थं सूर्यादिसत्यलोकोपरिभूम्यन्तद्युस्वरूपनिरूपणपरवचनान्तरमुखनिरीक्षणावश्यम्भावेन ततस्तत्प्राप्तिसत्त्वात् ।
एतेनानुवादवैफल्यशङ्काऽपि निरस्ता । ‘पुरोवादे द्युशब्द आकाशपरः स्वर्लोकपरो वा । द्वितीयेऽपि ध्रुवलोकान्तपरः, सत्यलोकान्तपरो वा । सप्तमी सर्वभागावच्छेदेनाधिकरणत्वपरा किञ्चिद्भागावच्छेदेन वा’ इति सम्भवदनेकतात्पर्यस्य पुरोवादस्य उपासनार्थं विवक्षितमर्थविशेषमुपसंहरतस्तस्य सफलत्वात् । एवमनुवादवशात् पुरोवादस्यार्थविशेषव्यवस्थितिः तद्व्यवस्थापकत्वेनानुवादसाफल्यञ्चेत्येतत् पूर्वतन्त्रेऽपि नवमाध्याये दर्शितम् ।
तद्यथा – ज्योतिष्टोमे ‘यज्ञायज्ञीयेन स्तुवीत’ इति प्रकृत्य श्रूयते ‘न गिरागिरेति ब्रूयात् यत् गिरागिरेति ब्रूयादात्मानमेव तदुद्गाता गिरेत् ऐरं कृत्वोद्गेयम्’ इति । अत्र यज्ञायज्ञीयसाम्न ऋचि ‘गिरागिरा च दक्षसे’ इति श्रूयमाणस्य ‘गिरागिरा’ इति पदस्य प्रतिषेधानुवादः इरापदविधिश्च श्रूयते । कथं ? विधेस्तावत् इरापदसम्बन्धि कृत्वा यज्ञायज्ञीयसामोद्गातव्यमित्यर्थः । ऐरशब्दस्य ‘मतौ च्छस्सूक्तसाम्नोः’(पा.सू. ५.२.५९) इत्यधिकृत्य ‘विमुक्तादिभ्योऽण्’(पा. सू. ५. २. ६१) इति विहितमत्वर्थीयाण्प्रत्ययान्तत्वात् । यद्वा ‘तस्य विकारः’(पा. सू. ४. ३. १३४) इत्यण्प्रत्यये इराशब्दस्य विकारभूतं गानं कृत्वा यज्ञायज्ञीयसामोद्गातव्यमित्यर्थः । उभयथाऽप्ययमिरापदमात्रविधिः ; प्रकरणतस्तस्य यज्ञायज्ञीयसम्बन्धलाभात् , दृष्टार्थस्य तस्य यज्ञायज्ञीयगतकिञ्चित्पदकार्यापत्त्यवश्यम्भावेन तत एव तदीयगानलाभाच्च । तस्य च गिरापदकार्ये विधिरिति गिरापदप्रतिषेधानुवादादवसीयते । तथा सति हि कृतकार्यत्वे गिरापदनिवृत्तौ तत्प्रतिषेधानुवाद उपपद्यते । ततश्चानुवादबलादेव गिरापदस्थानापत्तिरिरापदस्य व्यवतिष्ठत इत्यनुवादोऽपि सफल इति तन्न्यायसाम्यादिदं ज्योतिर्वाक्यं प्रकृतत्रिपाद्ब्रह्मानुवादकं तदर्थविशेषव्यवस्थापनार्थमित्येवाङ्गीकर्तुं युक्तमिति सर्वमनवद्यम् ।
इदं तु चोद्यमवशिष्टम् – अधिकारार्थाथशब्दान्वयानुरोधात् यच्छब्दः प्रस्तूयमानपरः – इति । तत्समाधानसमुच्चयार्थस्सूत्रे अपिशब्दः । नायमपि दोषः प्रसरति ; अथशब्दस्य पूर्वप्रकृतापेक्षावाचित्वोपपत्तेः । तेन पूर्वोपासनान्वितब्रह्मगुणानां ज्योतिरुपासनायामप्यन्वयसिद्ध्या तद्वाचित्वस्य सफलत्वात् , इदमारभ्यत इत्यनुक्त्वाऽप्यारम्भसम्भवेन आरम्भापरपर्यायाधिकारप्रतिपादनस्य श्रोतृचित्तसमाधानमात्रफलस्य निष्फलप्रायत्वात् , प्रकृतं ब्रह्माविहायैव तत्रोपासनान्तरारम्भार्थत्वसम्भवेनाधिकारार्थत्वेऽप्यविरोधाच्चेति तदभिप्रायः । सूत्रे शङ्कासमाधानयोर्दिवि दिव इति निर्देशविषयत्वप्रदर्शनेनैव ‘दिवि लोकेषु’ इति निर्देशविषयत्वमपि प्रदर्शितप्रायमिति भाष्ये तदनुक्तिः । अथशब्दाश्रितशङ्कासमाधानयोस्स्पष्टत्वादनुक्तिः ।१।१॥२७॥
इति ज्योतिरधिकरणम् । १० ।
प्राणस्तथाऽनुगमात् ।२८।
अस्ति कौषीतकिनामुपनिषदि प्रतर्दनाख्यायिका –
‘प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च’(कौ.३.१) इत्यारभ्याऽऽम्नाता । तस्यां प्रतर्दनं प्रति इन्द्रवचनं श्रूयते ‘प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व’ इति । तत्र प्राणशब्दनिर्दिष्टः पञ्चवृत्तिर्वायुरुत परमात्मेति तावत् संशयः । यद्यपि
‘अत एव प्राणः’(ब्र.सू. १.१.२३) इत्यत्र प्राणशब्दस्य ब्रह्मपरत्वं तल्लिङ्गान्निर्णीतम् , इहापि तल्लिङ्गमस्ति ‘प्राण एव प्रज्ञात्मा आनन्दोऽजरोऽमृत’ इति, तथाऽपि न ब्रह्मलिङ्गमेकमेवात्र व्यवतिष्ठते , किं तु ‘प्राणोऽस्मि मामुपास्व मामेव विजानीहि’ इतीन्द्रवचनमिन्द्रलिङ्गम् । ‘इदं शरीरं परिगृह्योत्थापयति’ इति प्राणलिङ्गम् । ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इति जीवलिङ्गमित्यन्यलिङ्गान्यपि श्रूयन्ते । तथा च लिङ्गेषु परस्परपराहत्या स्वयमकिञ्चित्करेषु प्राणश्रुतिप्रसिद्ध्यतिक्रमे कारणाभावात् वायुरेव प्राण इति पूर्वपक्षे –
सिद्धान्तः – प्राणः परमात्मा ; तथा परमात्मपरत्वेन प्रकरणस्य उपक्रमपरामर्शोपसंहारैः अनुगमात् समन्वितत्वात् । उपक्रमे हि ‘तमेव वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’ इति परमपुरुषार्थरूपत्वमुपक्षिप्तम् । मध्ये च ‘स यो मां विजानीयात् नास्य केनचन कर्मणा लोको मीयते न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणहत्यया’ इति सकलपापास्पर्शो दर्शितः । उपसंहारे च ‘प्राण एव प्रज्ञात्मा’ इत्याद्युक्तम् । न चैतत् सर्वं वायुपक्षे घटते । तस्मादवयविनो महावाक्यस्य ब्रह्मपरत्वे अवगम्यमाने प्राणश्रुत्यादिकमकिञ्चित्करम् । किं च ब्रह्माब्रह्मलिङ्गेषु सन्निविष्टेषु अब्रह्मलिङ्गानि ब्रह्मणि योज्यानि ; कारणस्य ब्रह्मणः कार्येष्वनुगमात् । कार्याकारेण स्थितस्य तस्य तत्तत्कार्यधर्मैरपि सम्बन्धोपपत्तेः , न तु ब्रह्मलिङ्गान्यब्रह्मणि योजनीयानि , अननुगतस्य कार्यस्य कार्यान्तरानुगतकारणधर्मेण सम्बन्धानुपपत्तेरिति । १.१.२८ ।
एवं स्थितेऽपीन्द्रलिङ्गानां किञ्चिद्बलावष्टम्भेन पूर्वपक्षान्तरमुत्थाप्य निराकरोति –
न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् । २९ ।
इह प्राणशब्दनिर्दिष्ट इन्द्र इति युक्तम् , प्रसिद्धस्येन्द्रस्य ‘मामेव विजानीहि’ इति वचनाल्लिङ्गात् । न हीदं ब्रह्मणि सङ्गच्छते ; ‘मामेव’ इत्यवधारणेन स्वानुगतब्रह्मपर्यवसानव्यावर्तनात् , अन्यथा अवधारणवैयर्थ्यात् । हिततमत्वादिकं तु इन्द्रपक्षेऽप्युपपद्यते । तथाहि – इन्द्रेण तत्र स्वस्य पापासंस्पृष्टत्वमुक्तं
‘‘त्रिशीर्षाणं त्वाष्ट्रमहनं अरुन्मुखान् यतीन् सालावृकेभ्यः प्रायच्छं बह्वीस्सन्धा अतिक्रम्य दिवि प्रह्लादीनतृणहमन्तरिक्षे पौलोमान् पृथिव्यां कालकक्ष्यान् तस्य मे तत्र न लोम च मीयते’(क..३.१) इति । एतदनुसारेण ‘स यो मां विजानीयात्’ इत्यादिनोक्तं पापासंस्पर्शफलमपि इन्द्रोपासनाफलमित्येव युक्तम् ; उपास्यगतगुणानुसारित्वात् । ततश्चेन्द्रोपासनस्य पापासंश्लेषफलतया हिततमोपक्रमोऽप्युपपन्नः । ब्रह्मपक्षेऽपि हिततमशब्दस्य तावन्मात्रपरत्वमेव वाच्यम् , न तु निरतिशयानन्दरूपपरमपुरुषार्थपरत्वम् । कथम् ? हिततमत्वं तत्र न विज्ञेयस्योच्यते, किं तु विज्ञानस्य ; ‘एतदेवाहं मनुष्याय हिततमं मन्ये यन्मां विजानीयात्’ इत्यनन्तरवाक्यात् । विज्ञानं च तत्रोपासनारूपम् ; ‘तं मामायुरमृतमुपास्व’ इति तदनन्तरं विशेषितत्वात् । न च ब्रह्मपक्षेऽपि तदुपासना परमपुरुषार्थफला ; तस्य तत्साक्षात्कारफलत्वात् । ‘प्राणोऽस्मि’ इति श्रुतं प्राणत्वं च इन्द्रस्य बलवत्त्वेन प्राणप्रधानत्वादुपपद्यते । ‘प्राणो वै बलम्’ इति श्रुतेः । या च काचित् बलकृतिरिन्द्रकर्मैव तदिति इन्द्रस्य बलवत्त्वप्रसिद्धेः । एतेन प्राणलिङ्गानां तत्र सङ्गतिर्व्याख्याता । जीवलिङ्गानां तत्र जीवविशेषे सङ्गतिस्फुटैव । ‘स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः’ इति प्रज्ञात्मत्वमप्रतिहतज्ञानत्वादुपपन्नम् । अजरोऽमृत इत्येतच्च निर्जरामरत्वप्रसिद्धेरुपपन्नम् । तस्मादिन्द्र एव प्राण इति पूर्वपक्षः ।
परमात्मेति सिद्धान्तः । अस्मिन् खलु प्रकरणे अध्यात्मसम्बन्धानां प्रत्यगात्मसम्बन्धिनां लिङ्गानां भूमा – बाहुल्यमुपलभ्यते । तथा हि - ‘यावद्यस्मिन् शरीरे प्राणो वसति तावदायुः’ इति आयुःप्रदातृत्वम् , ‘अस्तित्वे च प्राणानां निश्रेयसम्’ इति इन्द्रियनिश्रेयसहेतुत्वम् , ‘इदं शरीरं परिगृह्योत्थापयति’ इति शरीरोत्थापकत्वमित्यादीनि बहूनि पराचीनायामिन्द्रदेवतायामसंभावितानि प्रत्यग्लिङ्गानि दृश्यन्ते ।
न च इन्द्रजीवेऽपि तदायुरवधित्वं तदिन्द्रियाश्रयत्वं तच्छरीरोत्थापकत्वमित्यादि सम्भवतीति शंक्यम् ; उपासनाप्रकरणगतस्य ‘यावद्यस्मिन् शरीरे’ ‘इदं शरीरं परिगृह्य’ इत्यादेः
‘अथ यदिदमस्मिन् ब्रह्मपुरे’(छा.८.१.१) इत्यादेरिव उपासकशरीरादिसाधारणशरीरादिसामान्यपरत्वस्य उचितत्वेन वक्तृशरीरादिमात्रपरतया संकोचायोगात् , ‘यत्रैतत् पुरुषस्सुप्तस्स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति’ इत्याद्यनन्तराम्नातस्य अस्वप्न इन्द्रे योजयितुमशक्यतया सामान्यपरत्वावश्यम्भावेन तत्सामान्यादायुरिन्द्रियशरीरपदानामपि सामान्यपरत्वौचित्याच्च । ‘अथास्मिन् प्राण एवैकधा भवति’ इति ‘स म आत्मेति विद्यात्’ इति च कथमपि पराचीनायामिन्द्रदेवतायां न सम्भवति । तथा ‘एष ह्येव साधु कर्म कारयति’ ‘एष एवासाधु कर्म कारयति’ इति तस्यां न सङ्गच्छते । ‘एष लोकाधिपतिरेष लोकपाल एष लोकेश आनन्दोऽजरोऽमृतः’ इत्यादि च परमात्मनोऽन्यत्र न सम्यगुपपद्यते । तस्मादध्यात्मसम्बन्धिनां लिङ्गानामिन्द्रेऽसम्भवात् , ‘अयमात्मा ब्रह्म सर्वानुभूः’ इति श्रुते ब्रह्मणि सम्भवाच्च ‘प्राणोस्मि’ इति ब्रह्मोपदेश एवायं न देवतात्मोपदेशः । २.२.२९ ।
कथं तर्हि ‘मामेव विजानीहि’ इति वक्तुरात्मोपदेशः ?
शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ३० ।
यत्तु त्वाष्ट्रवधादिभिरिन्द्रस्य पापासंश्लेषकीर्तनम् , न तत् उपास्यगुणविधानार्थम् , नापि तस्य उपास्यत्वसिद्धये स्तुत्यर्थं ‘यस्मादेवं भूतोऽहं तस्मान्मामुपास्व’ इति, किं तु ब्रह्मज्ञानस्तुत्यर्थं – यस्मादीदृशानि क्रूराणि कर्माणि कृतवतोऽपि मम ब्रह्मज्ञानतो लोमापि न हिंस्यते , तस्मादन्योऽपि यो ब्रह्म जानीयात् न तस्य केनापि कर्मणा लोको हिंस्यते – इति । तस्मात् पापासंश्लेषकीर्तनादपि इन्द्रस्य नोपास्यत्वलाभः ।
पुनर्विधान्तरेण पूर्वपक्षमुत्थाप्य निराकरोति –
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् । ३१ ।
एतेन – व्यावृत्तजीवमुख्यप्राणलिङ्गान्यनुगते ब्रह्मणि योजयितुं शक्यानीति ब्रह्मैवात्र प्रतिपाद्यम्, तत्रैव प्राणप्रज्ञात्मादिशब्दानामायुःप्रदातृत्वादिलिङ्गानां च पर्यवसानमिति पूर्वोक्तं निरस्तम् ; सहप्रवृत्तिनिवृत्तिलिङ्गानुगृहीतद्विवचनश्रुत्या प्राणप्रज्ञात्मशब्दोक्तयोर्भेदावगमात् । यस्तु तयोः ‘यो वै प्राणः’ इत्यादौ अभेदनिर्देशस्स नियतसहवाससहसञ्चाराभ्यामौपचारिकः । उपचारनिमित्तकथनेन तदौपचारिकत्वोपपादनायैव हि ‘सहैवैतौ’ इत्याद्यारम्भः । एवं चोपसंहारे ‘प्राण एव प्रज्ञात्मा’ इत्यादिना ब्रह्माप्युपास्यत्वेन प्रतिपाद्यमिति त्रीण्युपास्यान्यत्र प्रतिपाद्यानि ।
नन्वेवं सति चत्वार्युपास्यानीति पूर्वपक्षयितव्यम् । शक्यं हि प्राणलिङ्गादिस्वारस्यानुरोधेन त्रयाणामुपास्यत्वमभ्युपगच्छता ‘मामेव विजानीहि प्राणोऽस्मि प्रज्ञात्मा’ इत्यादिस्वारस्यानुरोधेन चतुर्थस्याप्युपास्यत्वमभ्युपगन्तुम् ; अध्यात्मसम्बन्धिलिङ्गानां यथार्हं मुख्यप्राणाद्यन्वयोपपत्तेः । मध्ये प्राणप्रज्ञाशब्दयोर्मुख्यप्राणजीवपरत्वेऽपि ‘प्राण एव प्रज्ञात्मा’ इत्युपसंहारे ब्रह्मपरत्ववत् ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्युपक्रमे शक्रपरत्वस्यापि सम्भवात् । ‘तं मामायुरमृतमुपास्व’ इत्यस्य शक्रोपासनाविधिपरत्वेऽपि ‘स म आत्मेति विद्यात्’ इत्युपसंहारे ब्रह्मोपासनाया इव मध्ये ‘तस्मादेतदेवोक्थमुपासीत’ ‘वक्तारं विद्यात्’ इति मुख्यप्राणजीवोपासनयोर्विध्यन्तरविधेयत्वोपपत्तेः , ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्यादौ मुख्यप्राणजीवोपासनाविधिद्वयस्वीकारे ‘आयुरमृतम्’ इत्येकैकस्य विशेषणमुभयमपि उभयोर्वेत्यविनिगमप्रसङ्गाच्चेति चेत् ।
न चैवं सति ‘प्राण एव प्रज्ञात्मा’ इत्याद्युपसंहारस्यापि प्रस्तुतप्राणप्रज्ञात्मविषयत्वप्रसङ्गः, ‘तद्यथा रथस्यारेषु नेमिरर्पिता’ इत्यारभ्य सर्वाधारत्वानन्दत्वाजरत्वामरत्वसाध्वसाधुकर्मकारयितृत्वसकललोकेश्वरत्वलिङ्गैरुपसंहारस्य ब्रह्मपरत्वावसायात् । एवं स्थिते प्राणप्रज्ञागताध्यात्मसम्बन्धिलिंगानां ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्यतोऽन्यत्र नेतुमशक्यत्वादयमुपदेशो वामदेवस्य मनुसूर्यादिभाववत् ब्रह्मभूतस्येन्द्रस्य प्राणादिभावोऽप्यस्तीति मुख्यप्राणजीवविषय एव । उपास्येति च पृथक् पृथक् तदुभयोपासनाविधानमिति स्वीकर्तव्यम् । अत एव ‘प्राणेन ह्येवामुष्मिन् लोकेऽमृतत्वमाप्नोति’ इति अमृतत्वविशिष्टप्राणोपासनस्य तदनुरूपफलनिर्देशानन्तरं प्रज्ञोपासनस्यापि पृथक् तदनुरूपफलनिर्देशो दृश्यते ‘प्रज्ञया सत्यसङ्कल्पम्’ इति । ‘एतदेवोक्थमुपासीत’ इत्यत्र ‘वक्तारं विद्यात्’ इत्यादिषु च पृथक् पृथक् प्राणोपासनां प्रज्ञोपासनाञ्चानूद्य शरीरोत्थापकत्ववक्तृत्वादिगुणसमर्पणं क्रियते । एतेन – अग्रे प्राणप्रज्ञोपासनाविधिदर्शनात् ‘प्राणोऽस्मि प्रज्ञात्मा’ इति इन्द्रोपासनाविधिरित्यपि शङ्का निरस्ता ; तेषामुपास्यगुणसमर्पणार्थत्वात् ।
यस्तु ‘प्राणोऽस्मि’ इत्यतः प्राक् ‘मामेव विजानीहि’ इति इन्द्रोपदेशः, सः हिततमत्वसर्वपापासंस्पर्शहेतुत्वलिङ्गवारस्यात् प्रकरणावसाननिरूपणीयब्रह्मोपासनविधिरिति तत्रापि नेन्द्रोपासनाविधिश्शङ्कनीयः । अत एवात्रत्यस्य मामित्यस्याभिप्रायस्फुटीकरणार्थं ‘एष लोकपाल एष लोकाधिपतिः एष लोकेशः’ इत्येतदन्तब्रह्मनिरूपणानन्तरं ‘स म आत्मेति विद्यात्’ इत्युपसंहारः। तस्मात्त्रीण्युपास्यानि प्रतिपाद्यानीत्येव युक्तं पूर्वपक्षयितुम् ।
नन्वेवं प्रतिपाद्यत्रयाङ्गीकारे ब्रह्मविषयोपक्रमोपसंहारैकरूप्येण ‘प्राणोऽस्मि प्रज्ञात्मा’ ‘प्राण एव प्रज्ञात्मा’ इत्युपक्रमोपसंहारैकरूप्येण च प्रतिपन्नस्यैकवाक्यत्वस्य भङ्गस्स्यादिति चेत् – अस्तु । वाक्यार्थावगमस्य पदार्थावगमजन्यत्वेन उपजीव्यप्रधानभूतपदार्थावगमानुरोधेन वाक्यैक्यभङ्गकल्पनस्योचितत्वात् ।
ननु पुत्रेष्टिविधौ वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते यस्मिन् जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवति’(तै.सं.२.२.५) इत्युपक्रमोपसंहारैकरूप्यावगतैकवाक्यत्वनिर्वाहायाष्टाकपालादिवाक्येषु गुणफलविधयस्त्यक्ताः । एवमिहाप्येकवाक्यत्वनिर्वाहाय मध्यगतोपास्यान्तरतदुपासनाविधयस्त्यक्तुमुचिता इति चेत् ।
मैवम् – न हि तत्र एकवाक्यत्वं मा बाधीति श्रूयमाणा गुणफलविधयस्त्यक्ताः । अष्टाकपालादिवाक्येषु विध्यश्रवणात् विधियोग्यपुरुषव्यापारमात्रस्याप्यश्रवणात् यच्छब्दोपबन्धेनानुवादत्वस्यैव प्रत्यायनात् अष्टाकपालादिभवनपावनादिकयोरेककालत्वनिर्देशेन फलफलिभावाप्रतीतेः ‘यस्मिञ्जात’ इति वाक्ये पूतत्वादीनां समुच्चयावगमेन तेषां व्यवस्थिताष्टाकपालादिफलत्वायोगाच्च , किन्तूक्तहेतुभिरष्टाकपालादिवाक्यानामवयुत्यानुवादतया अर्थवादतैव प्रतीयत इति तेषु विध्यकल्पनेन बाधकानवतारादेकवाक्यत्वं न बाधितम् । इह स्पष्टमेव श्रूयमाणैरुपासनाविधिभिः कथमेकवाक्यत्वं न बाधितव्यम् ।
अथापि स्यात् – उपांशुयाजवाक्ये प्रतीतैकवाक्यत्वनिर्वाहाय मध्ये ‘विष्णुरुपांशु यष्टव्योऽजामित्वाय’ इत्यादयश्श्रूयमाणा अपि विधयस्त्यक्ता इति । सत्यं त्यक्ताः , न त्वेकवाक्यत्वानुरोधात् , किन्तु जामितादोषपरिहारायावश्यमन्तरावाक्ये विधावभ्युपगन्तव्ये तत्रैव शाखाभेदेनाग्नेयाग्नीषोमीययाज्यानुवाक्यायुगलमध्ये पठितानां वैष्णवप्राजापत्याग्नीषोमीययाज्यानुवाक्यायुगलानां क्रमप्रमाणेनान्वये सति तत्तन्मन्त्रोदितानां विष्ण्वादीनां तत्र यागे देवतात्वस्य प्राप्तत्वात् , विष्ण्वादिवाक्यस्थयजीनां सन्निहिततद्यागानुवादकत्वस्वारस्याच्च विधेयाभावेन विष्ण्वादिवाक्यानां मन्त्रवर्णप्राप्तविष्ण्वादिदेवताऽनुवादकत्वस्य वक्तव्यतया तद्यागस्तावकत्वप्रतीतेः ।
ननु ‘न गिरागिरेति ब्रूयादैरं कृत्वोद्गेयम्’ इत्यत्र लिङ्द्वयश्रवणेऽपि समभिव्याहारलब्धैकवाक्यत्वनिर्वाहायैव गिरापदप्रतिषेधस्यानुवादकत्वमङ्गीकृत्य गिरापदकार्यापत्तिरिरापदस्य निर्णीता । नेति ब्रूमः । न हि तत्रैकवाक्यत्वनिर्वाहाय प्रतिषेधस्यानुवादकत्वाङ्गीकारः , किंत्वाम्नानानुग्रहाय विकल्पपरिहाराय च । न खलु यज्ञायज्ञीयस्य ऋक् यावत्पदसहिताऽम्नाता तन्मध्ये पदमात्रव्यावर्तनेन विधिप्रतिषेधयोश्चारितार्थ्यसम्भवे प्रतिषेधेन गिरापदं व्यावर्त्य विधिना पदान्तरमपि व्यावर्तनीयम् । नापि केवलमिरापदविधानं स्वीकृत्य विकल्पानवकाशीकरणसम्भवे गिरापदप्रतिषेधमपि स्वीकृत्य प्रतिषेधस्य प्राप्तिपूर्वकत्वात् गिरापदप्राप्तये गिरापदविधिरूपं तस्य प्रकरणपाठेन कल्प्यं शास्त्रमनुमत्य शास्त्रप्राप्तस्य सर्वधा निरासे प्रापकवचनाप्रामाण्यप्रसङ्गात् ‘न चतुस्त्रिंशत्’ इति मन्त्रप्रतिषेधस्य प्रतिषेधोन्नीततद्विधिनेव गिरापदप्रतिषेधस्य तदुन्नीतगिरापदविधिना सहाष्टदोषदुष्टस्य विकल्पस्यावकाशो दातव्यः । सम्भवति च विधिप्रतिषेधयोर्द्वयोरपि गिरापदव्यावर्त्तनमात्रेण चारितार्थ्यं विकल्पानवकाशीकरणं च, गिरापदकार्य इरापदविधिः प्रतिषेधस्त्विरापदस्य गिरापदकार्यापत्त्याऽर्थसिद्धाया गिरापदनिवृत्तेरनुवाद इति कल्पनया । न चैवमनुवादत्वकल्पने ‘न गिरा गिरेति ब्रूयात्’ इति विधिश्रुतेरपूर्वार्थविधानस्वारस्यबाधो दोषः, प्रतिषेधस्याननुवादत्वपक्षेऽपि प्राप्तप्रतिषेध्यसमर्पणार्थायास्तत्रत्यविधिश्रुतेरनुवादत्वावश्यम्भावात् । न च प्रतिषेधस्याप्राप्तार्थपरत्वेन साफल्ये सम्भवति आनुवादत्वेन वैफल्यं दोषः ; गिरापदस्य कार्ये इरापदविधिः न पदान्तरस्येति ज्ञापकतया तल्लब्धप्रतिषेधानुवादस्य सफलत्वात् । एवञ्चात्र कांस्यभोजिन्यायेनैकवाक्यत्वनिर्वाहाय प्रतिषेधस्यानुवादत्वाङ्गीकार इत्यपि सुवचम् ; उक्तरीत्या प्रतिषेधस्यानुवादत्वेऽपि साफल्यात् । एतादृश एव च विषये ‘सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते’ इति प्रवादः । न तु वाक्यान्तर्गतश्रुत्यादिबाधनेन यत्रैकवाक्यत्वमुपपादनीयं तत्रापि । तथा सति सर्वेषामपि वाक्यानामैक्येन बहुविप्लवापत्तेः ।
ननु ‘तत्प्रतिषिध्य प्रकृतिर्नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात्’(जै. सू. ९. ४. १८) इति नावमिकाधिकरणे ‘न चतुस्त्रिंशदिति ब्रूयात् षड्विंशतिरित्येव ब्रूयात्’ इत्यत्र आश्वमेधिकाश्ववंक्रीयत्ता प्रकाशनाय पठितायाः ‘चतुस्त्रिंशद्वाजिनो देवबन्धोर्वंक्रीरश्वस्य स्वधितिस्समेति’(ऐ. सं. २. ३) इत्यस्या ऋचो ‘न चतुस्त्रिंशदिति ब्रूयात्’ इति प्रतिषेधः । ‘षड्विंशतिरित्येव ब्रूयात्’ इति तु चोदकप्राप्तस्य वैशेषिकमन्त्रपाठेन प्रसक्तनिवृत्तिकस्य पुनस्तत्प्रतिषेधेन प्रतिष्ठितस्य ‘षड्विंशतिरस्य वंक्रयः’ इति प्राकृतमन्त्रस्य यथाप्राप्त्यनुवादमात्रम् , न तु प्राकृतमन्त्रष्षड्विंशतिपदयुक्त एव कार्य इति विधायकम् । अतस्तूपरगोमृगयोरश्वस्य च वंक्रीणां समस्य वचनं षडशीतिरेषां वंक्रय इत्येवंरूपं न्यायप्राप्तं कर्तव्यमिति निर्णीतम् । तत्र ‘षड्विंशतिरित्येव ब्रूयात्’ इत्यत्र विधिश्रुतेर्यद्विधायकत्वं त्यक्तं यच्च निष्फलमनुवादकत्वमङ्गीकृत्य तत् एकवाक्यत्वनिर्वाहलोभादेव । न च – षड्विंशतिपदस्य चतुस्त्रिंशत्यश्ववंक्रिष्वसामर्थ्यात् तत्र विधायकत्वं त्यक्तमिति वाच्यम् ; ‘यद्यप्यन्यदेवत्यः पशुः आग्नेय्येव मनोता कार्या’ इतिवद्वचनबलादयथार्थाभिधानसम्भवादिति चेत् – तत्रापि नेति ब्रूमः । एवकारेण विधिशक्तिप्रतिबन्धात् तत्र विधायकत्वं त्यक्तम् । षड्विंशतिपदं ह्येवकारोपसर्जनत्वात् न स्वयं विधिना सम्बध्यते । किंत्वन्योपसर्जनत्वादेवकार एव । तस्य च निवृत्तिरर्थः । तेन षड्विंशतिमन्त्रात् यदन्यत् प्राकरणिकं ‘चतुस्त्रिंशद्वाजिन’ इति वचनं तन्न कर्तव्यमित्यर्थः फलति । तथाच कथमनुवादकत्वं वारणीयम् । यदि त्वेवकारमनादृत्य एकवाक्यत्वनिर्वाहाय यत्नोऽयमित्युच्येत, तदा ‘चतुस्त्रिंशद्वाजिन’ इति वैशेषिकमन्त्र एव चतुस्त्रिंशत्पदकार्ये षड्विंशतिपदमिरापदवद्विधीयते चतुस्त्रिंशत्पदप्रतिषेधश्च गिरापदप्रतिषेधवदर्थसिद्धः कार्यापत्तिप्रदर्शनायानूद्यत इत्येव किं न स्यात् । एवमप्येकवाक्यत्वसम्भवात् । अनुवादसाफल्यस्य चाधिकस्य लाभात् । तथाऽनभ्युपगमे विधिशक्तिप्रतिबन्ध एव शरणमिति अत्रापि स एव हेतु: ।
ननु जर्तिलगवीधुकविधिश्रुत्योर्निषेध्यसमर्पकत्वाभावादेवकाराभावाच्च विधिशक्त्यप्रतिबन्धेऽपि ग्राम्यारण्यपशुहिंसाराहित्यस्तुत्या विधिशक्त्युत्तम्भनेऽपि पयोविधिस्तावकत्वेनाविधायकत्वं यदङ्गीकृतम् , तत् एकवाक्यत्वानुरोधादेव । न च वाच्यम् – अग्रे जर्तिलगवीधुकनिन्दापूर्वकं तद्विधिदर्शनात् तयोर्विधायकत्वत्याग इति । चरमश्रुतानुसारेण प्रथमश्रुतत्यागायोगात् , जर्तिलादिनिन्दाया नहिनिन्दान्यायेन उदितानुदितहोमनिन्दावद्विधिशक्त्यप्रतिबन्धकत्वाच्चेति चेत् । मैवम् । जर्तिलगवीधुकयोरपि विधिस्वीकारे तयोः पयसश्चेति त्रयाणामपि विकल्पस्स्यादिति अष्टदोषदुष्टात्यन्तानन्यगतिकविकल्पपरिहारायैव ग्राम्यारण्यपशुहिंसाराहित्येन प्रशस्तयोरपि जर्तिलगवीधुकयोः यदपेक्षयाऽनाहुतित्वं तत्पयोऽत्यन्तं प्रशस्तमिति तत्स्तावकत्वाङ्गीकारात् । हिशब्दश्रुतेः ‘न ह्यत्रानूयाजा इज्यन्ते’ इत्यत्र हेतुपरत्वाङ्गीकारेऽपि तेन ह्यन्नं क्रियत’ इत्यत्र शूर्पस्य दर्वीपिठरादिभिर्विकल्पपरिहाराय हेतुपरत्वं त्यक्त्वा हेतुवन्निगदार्थवादत्वस्याङ्गीकृततया तथैवात्रापि विकल्पपरिहाराय श्रुतविध्योर्विधायकत्वं त्यक्त्वा विधिवन्निगदार्थवादत्वस्याङ्गीकर्तुमुचितत्वात् । यत्तूदाहृतेष्वधिकरणेषु एकवाक्यत्वलाभस्सिद्धान्तहेतुतया तत्र तत्रोच्यते, तदभ्युच्चयमात्रम् । तस्मान्न क्वापि एकवाक्यत्वानुसारेण श्रुतविधित्यागः ।
प्रत्युतोपक्रमोपसंहारप्रतीतस्यापि एकवाक्यत्वस्यैव तदन्तर्गतविध्यनुसारेण त्यागो दृश्यते । तद्यथा ‘त्वाष्ट्रं पात्नीवतमालभेत’ इति प्रक्रम्य ‘पर्यग्निकृतं पात्नीवतमुत्सृजति आज्येन शेषं संस्थापयति’ इति श्रूयते । अत्र तावत्पात्नीवतयागविधिः तदीयपशोः पर्यग्निकरणानन्तरं त्यागविधिः पशौ त्यक्ते सति आज्येन तत्प्रतिनिधिना प्रक्रान्तस्य यागस्य शेषसमापनविधिश्चेति पात्नीवतयागप्रयोगविषयतयैकवाक्यता प्रतीयते । तत्तद्विधिपर्यालोचनायां तु विधेयकर्मभेदेन वाक्यभेदः प्रतीयते । कथम् ? उत्सृजतीत्यनेन यदि यागे अविनियुक्तस्यैव पशोस्त्यागो विधीयते, तदा पशुना यागस्याननुष्ठिततया पशोर्देवतासम्बन्धस्याकृतत्वात् ‘त्वाष्ट्रं पात्नीवतम्’ इत्यत्र द्रव्यदेवतासम्बन्धश्रवणमप्रामाणिकं स्यात् । तथा सति कुतो यागः यस्य समापनीये शेषे आज्यविधानमर्थवत् स्यात् । न ह्यत्र यागश्श्रुतोऽस्ति, किंतु आग्नेयादिवाक्य इव द्रव्यदेवतासम्बन्धेन कल्प्यः । तस्मात् ‘पर्यग्निकृतानारण्यानुत्सृजति’ इतिवत् पर्यग्निकरणान्ताङ्गरीतिरनेन विधीयत इति स्वीकर्तव्यम् । तथा सति पर्यग्निकरणकाले देवतोद्देशेन पशोस्त्यागात् उत्पत्तिवाक्यावगतो द्रव्यदेवतासम्बन्धो यागकल्पकः प्रामाणिको भवति । एवं च मुख्येनैव द्रव्येण यागस्यानुष्ठितत्वान्न तस्य प्रतिनिधिविधानम् ; अनाकाङ्क्षितत्वात् । नाप्युदीच्याङ्गानां तत्तत्प्राकृतद्रव्यबाधेनाज्यविधानम् । क्लृप्तोपकारप्राकृताङ्गविधाननिराकाङ्क्षस्य पात्नीवतप्रयोगवचनस्यातिदेशतः प्राकृताङ्गग्राहित्वाभावेन पर्यग्निकरणानन्तरमनुष्ठेयानामङ्गानामभावात् । तस्मात् ‘अज्येन शेषम्’ इति यागान्तरविधिः तस्य पात्नीवतपदानुषङ्गेण देवतालाभः । एवं पूर्वोत्तरयागयोः पत्नीवद्देवतयोः, पूर्वयागे पर्यग्निकरणान्ते हविः प्रक्षेपं विनैव संस्थिते तदनन्तरमव्यवधानेन हविःप्रक्षेपसहिततद्देवत्याज्ययागानुष्ठानं तच्छेषसमापनमिव दृश्यत इति सादृश्याच्छेषसंस्थापयतिशब्दाविति । एवमेकवाक्यत्वविधिभेदपक्षयोः प्रतीतयोः नवमान्त्याधिकरणे विधिभेदप्रतीत्यनुसारेण एकवाक्यत्वत्याग एव सिद्धन्तितः । अतोऽत्रापि तथैव स्वीकर्तुं युक्तम् ।
एतेन – वाक्यार्थावगमस्य पदार्थावगमजन्यत्वेऽपि पदार्थावगमो न प्रधानम् , किन्तु वाक्यार्थावगमः , प्रवृत्तिनिवृत्त्यादिफलशालिनां वाक्यार्थावगममेवोद्दिश्य पदानां प्रवृत्तेः । तदर्थमेव तैः पदार्थावगमस्य मध्ये क्रियमाणत्वात् । अतः प्रधानवाक्यार्थविरोधिनो गुणभूताः पदार्था एव प्रधानपुत्रविरोधिपुत्रजननानन्तरप्राप्ततत्पूतत्वादिफलकपुत्रेष्टिवत्त्यक्तव्या इति – निरस्तम् । द्विवचनश्रुतिसहवासादिलिङ्गप्राप्तस्य प्राणप्रज्ञात्मभेदस्य विधिश्रुतिप्राप्तानां तत्तदुपासनाविधीनां च वाक्यार्थविरोधेन त्यागे श्रुतिलिङ्गवाक्यादिबलाबलवैपरीत्यप्रसङ्गात् । ‘स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः’ इति मन्त्रस्य हि तस्मिन् सीदेति पूर्वोक्तसापेक्षत्वेन अवगम्यमानैक्यं वाक्यं पूर्वोत्तरभागव्यवस्थितसदनकरणप्रतिष्ठापनप्रकाशनसामर्थ्यलक्षणलिङ्गविरोधेन वाक्यभेदमङ्गीकृत्य बाधितम् । ‘यदि कामयेत वर्षुकः पर्जन्य: स्यादिति नीचैस्सदो मिनुयात्’ इत्यत्र सदोमानकर्त्रध्वर्युवचनेन ‘मिनुयात्’ इत्यनेन ‘यदि कामयेत’ इत्यस्य सामानाधिकरण्यरूपं गुणकामस्याध्वर्यवत्वप्रापकं वाक्यमध्वर्युव्यापारपारार्थ्यपरपरस्मैपदश्रुतिविरोधेन ‘यदि कामयेत यजमान’ इत्यध्याहृत्य बाधितम् । एवमिहापि उपक्रमोपसंहारावगतैक्यं वाक्यं श्रुतिलिङ्गोभयविरोधेन वाक्यभेदमङ्गीकृत्य कथं न बाधनीयम् ? न हि समभिव्यावहारावगतैक्याद्वाक्यादुपक्रमोपसंहारावगतैक्ये वाक्ये कश्चिदस्ति विशेषः । उपकोसलविद्यायां
‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’(छा.४. १०.५) ‘य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमभयमेतत् ब्रह्म’(छा. ४. १५. १) इति उपक्रमोपसंहारावगतब्रह्मवाक्यमध्ये अग्निविद्याविधीनां स्वीकृतत्वात् , भूमविद्यायां
‘तरति शोकमात्मवित्’(छा. ७. १. ३) ‘आत्मैवेदं सर्वम्’(छा. ७. २५, २) इत्युपक्रमोपसंहारावगतनिर्गुणवाक्यमध्ये नामाद्युपासनाविधीनां स्वीकृतत्वाच्च । तस्मादिह वाक्यभेदाङ्गीकार एव युक्त इति पूर्वः पक्षः ।
राद्धान्तस्तु –
उपक्रमोपसंहारमिततात्पर्यशालिना ।
अतादृगन्यश्रुत्यादि ब्रह्मवाक्येन बाध्यते ॥
श्रुत्यादिषूत्तरमपि तात्पर्यलिङ्गवत् प्रबलम् । पूर्वमपि तात्पर्यलिङ्गरहितं दुर्बलमिति हि स्थितिः । तदिहोपक्रमोपसंहारावगमिततात्पर्येण ब्रह्मवाक्येनातथाभूतं द्विवचनश्रुत्यादि बाध्यते । ननु श्रुत्यादिषु यदुपक्रमोपसंहारयोरुभयोराम्रेडितं तदेव तदुभयावगमिततात्पर्यं सत् अतथाभूतात् पूर्वस्मात् प्रबलं भवति । यथा देवतात्वानन्तत्वादिलिङ्गं प्राणाकाशादिश्रुतेः । न चैवं ब्रह्मवाक्यमिहोभयत्र परामृश्यते । गायत्रीप्रकरणे श्रुतं
‘यद्वै तत् ब्रह्म’(छा. ३. १२. १६) इति
‘इदं वाव तत्’(छा. ३. १३. ७) इति एतद्ब्रह्मवाक्यम् । तादृशमिह यद्युभयत्रापि श्रूयेत, तदैव तदुभयावगमिततात्पर्यं स्यात् । न चैवमिहास्ति, किंतूपक्रमोपसंहारपर्यालोचनयोपक्रमप्रभृत्युपसंहारपर्यन्तमेकं ब्रह्मवाक्यमित्येतावदवगम्यते । तस्मादिहोपक्रमोपसंहारौ ब्रह्मवाक्यस्वरूपावगमकावेव, न तु तस्य ब्रह्मतात्पर्यावगमकाविति चेत् । मैवं । स्वरूपावगमकयोः तात्पर्यावगमकत्वस्याप्यविरुद्धत्वात् तात्पर्यावगमने क्लप्तस्य तत्सामर्थ्यस्य स्वरूपावगमकत्वेन वैकल्याप्रसक्तेः । न हि उपक्रमोपसंहारयोः प्रत्येकविश्रान्तत्वेनावृत्तिमत्येव श्रुत्यादिप्रमाणे तयोस्तात्पर्यवत्त्वग्राहकत्वम् , न तूभयानुस्यूतत्वेनावृत्तिरहित इत्यस्ति नियमः । श्रुत्यादिषु यदेवोभयसम्बन्धि तत्र तयोस्तात्पर्यवत्ताऽवगमकत्वात् । अपि च ‘येनोपक्रम्यते येन चोपसंह्रियते स वाक्यार्थ’ इति न्यायात् उपक्रमोपसंहारप्रतिष्ठितं ब्रह्म तात्पर्यविषयतया ताभ्यामवगमितमिति ब्रह्म तावदतथाभूताज्जीवात् मुख्यप्राणाच्च प्रबलम् । अतः प्रबलप्रमेयाश्रयं ब्रह्मवाक्यं दुर्बलप्रमेयाश्रितात् जीवमुख्यप्राणविषयश्रुत्यादितः प्रबलम् । प्रमाणस्य स्वरूपप्रयुक्तबलादपि प्रमेयाश्रयबलस्याधिकत्वात् । अत एव प्रधानभूताचमनादिपदार्थाश्रयायाः ‘क्षुत आचामेत्’ इत्यादिस्मृतेः ‘वेदं कृत्वा वेदिं करोति’ इत्यादिपदार्थगुणभूतक्रमविषयश्रुत्यपेक्षया प्रबलत्वमुक्तं शिष्टाकोपाधिकरणे (जै. सू. १. ३. ४) । तस्मादिहोपक्रमोपसंहारैकरूप्यावगमिततात्पर्यवता उपक्रमोपसंहारावगमिततात्पर्यविषयभावब्रह्माश्रयेण च वाक्येन ज्ञेयं ब्रह्मैकमेवात्र प्रतिपाद्यमित्यभ्युपगन्तव्यम् । त्रयाणां जीवमुख्यप्राणब्रह्मणामुपास्यानां प्रतिपाद्यत्वे वाक्यभेदप्रसङ्गात् ।
ननु वाक्यभेदभयात् माभूवन् त्रीण्युपास्यानि प्रतिपाद्यानि । ब्रह्मौकमेव ‘मामेव विजानीहि’ इति विधिस्वारस्यादुपास्यं प्रतिपाद्यं किं न स्यात् ? न स्यात् । हिततमत्वलिङ्गविरोधात् । तथाहि – हिततमत्वं ‘यन्मां विजानीयात्’ इत्युपात्तस्य विज्ञानस्योच्यमानं तस्य विशुद्धब्रह्मसाक्षात्काररूपतां व्यवस्थापयति । हिततमत्वं हि निरतिशयपुरुषार्थत्वं निरतिशयपुरुषार्थसाधकतमत्वं वा स्यात् । उभयथाऽपि तदखण्डानन्दविषयकस्य निखिलानर्थनिवृत्तिपूर्वकाखण्डानन्दरूपब्रह्मावाप्तिसाधकतमस्य विशुद्धब्रह्मसाक्षात्कारस्यैव युज्यते । न च वाच्यम् – ‘विजानीयात्’ इत्युपक्रम्याग्रे ‘उपास्व’ इति तत्परामर्शात् विशेषश्रुत्यनुसारेण विज्ञानपदमुपासनापरमित्यतस्तत्रैव हिततमत्वमापेक्षिकं योजनीयमिति । उपक्रमगततया प्रश्नोत्तराभ्यां प्रतिपिपादयिषिततया च प्रबलेन हिततमत्वलिङ्गेन विज्ञानपदस्य ‘विशुद्धब्रह्मसाक्षात्कारपरत्वावश्यम्भावेन प्रकृतविज्ञाने प्रयुज्यमानस्य उपासनापदस्यापि तत्साक्षात्कारे स्वतः प्राप्तावृत्त्यनुवादकत्वकल्पनस्योचितत्वात् । एवं च ‘विजानीहि’ इत्यादिषु विधिश्रुतीनामविधेयफलरूपब्रह्मसाक्षात्कारविषये कुण्ठितशक्तिकत्वेनाविधायकत्वात् ‘गोसदृशं गवयं विद्धि’
‘‘आत्मानं रथिनं विद्धि’(क. १. ३. ३) इत्यादिलौकिकवैदिकवाक्यरीत्या प्रतिपाद्यपुरुषाभिमुखी करणार्थतैवाभ्युपगन्तव्या ।
एतेन ‘एतदेवोक्थमुपासीत’ ‘वक्तारं विद्यात्’ इत्याद्यपि व्याख्यातम् ; सार्वात्म्यप्रतिपत्तये प्राणधर्मैर्जीवधर्मैश्च प्रतिपाद्यमाने ब्रह्मणि तस्यापि विधिसरूपस्य प्रतिपाद्यपुरुषचेतस्समाधानार्थत्वोपपत्तेः । द्विवचनश्रुत्यादिकं तु न प्रतिपाद्यपरम् , किन्तु ज्ञानक्रियाशक्त्याश्रययोः बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्निर्देशपरं प्रत्यगात्मनस्तत्तदुपाधिकृतविशेषपरित्यागेन तत्स्वरूपमेतत्प्रकरणप्रतिपाद्यं ब्रह्मैवेति दर्शयितुम् । अत एवोपाधिद्वयोपहितस्य प्रत्यगात्मनः स्वरूपेणाभेदमभिप्रेत्य ‘यो वै प्राणस्सा प्रज्ञा या वै प्रज्ञा स प्राण’ इत्यभेदोऽपि निर्दिष्टः । तस्मात् प्रबलतरलिङ्गवाक्यबाध्यत्वात् विरोधिश्रुतिलिङ्गानां ब्रह्मैकमेवात्र प्रतिपाद्यमिति सिद्धम् ।
सूत्रस्य त्वयमर्थः । जीवमुख्यप्राणयोरपि लिङ्गसत्वात् ब्रह्मैकमेवात्र न प्रतिपाद्यम् , अतः ‘प्राणोऽस्मि’ इति प्राणशब्दो वक्ष्यमाणायुःप्रदत्वादिलिङ्गानुसारेण मुख्यप्राणपरो वाच्य इति प्राणो ब्रह्म न भवतीति चेत् । न । तथा सत्युपासात्रैविध्यप्रसङ्गात् । न च त्रिविधोपासनाभ्युपगन्तारं प्रति तत्प्रसङ्गो नानिष्ट इति वाच्यम् । तथा सति वाक्यभेदापत्तेः । एकस्यैव च वाक्यस्य आसमन्तादुपक्रमोपसंहाराश्रितत्वात् । तस्य च उपक्रमोपसंहारावगमिततात्पर्यकस्य जीवमुख्यप्राणलिङ्गेभ्यो बलवत्वात् , उपक्रमोपसंहारावगमिततात्पर्यविषयभावब्रह्मरूपप्रबलप्रमेयाश्रितत्वादपि –
‘दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा ।
तदाऽपि विपरीतत्वं शिष्टाकोपे यथोदितम् ॥’
इति न्यायेन तस्य बलवत्त्वाच्च । तस्माद्वाक्यभेदपरिहाराय ब्रह्मैकमेवात्र प्रतिपाद्यमभ्युपगन्तव्यमिति प्राणो ब्रह्मैव । अन्यत्रापि ब्रह्मलिङ्गानुसारेण प्राणशब्दस्य ब्रह्मणि वृत्तेराश्रितत्वात् । इह सर्वात्मत्वेन विवक्षिते ब्रह्मणि तस्य समनन्तरवक्ष्यमाणस्य जीवमुख्यप्राणलिङ्गनिकायस्य युक्तत्वात् ।
न च – एकवाक्यत्वबलात् प्राणशब्दस्य ब्रह्मणि वृत्तावपि ‘मामेव विजानीहि’ इत्याद्यनुरोधात् उपस्तिवाक्य इवोपास्ये ब्रह्मणि वृत्तिरस्त्विति शङ्कनीयम् ; इहोपासनाविधिभञ्जकहिततमत्वादिलिङ्गयोगादिति ।
यद्यपि मुख्यः प्राणः प्रतिपाद्य इति पूर्वपक्षे प्राणश्रुतिरप्यस्ति, तथाऽपि तामालम्ब्य पूर्वपक्षः ‘प्राणस्तथाऽनुगमात्’ इति सूत्र एव निराकृतः, इह तु प्राणश्रुतिविषये प्रवृत्तैरायुःप्रदातृत्वादिलिङ्गैः तत्रत्यपूर्वपक्षनिराकरणहेतूपमर्देन तस्यैव प्राणशब्दस्य मुख्यप्राणपरत्वमाशंक्यत इति विभावयितुं सूत्रे श्रुतिमुल्लंध्य लिङ्गादित्युक्तम् । न च तथाऽपि द्विवचनश्रुतिरस्तीति वाच्यम् ; तस्य प्रतिपाद्यभेदमात्रे श्रुतित्वेऽपि जीवमुख्यप्राणयोः श्रुतित्वाभावात् ।
यत्तु भाष्ये उपासात्रैविध्यादित्यस्य व्याख्यानान्तरं ‘न ब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते, उपासात्रैविध्यात् । त्रिविधमिह ब्रह्मण उपासनं विवक्षितं प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण च’ इति तत् वृत्तिकारपक्षोपन्यासमात्रम् , न त्वस्य प्रकरणस्य त्रिविधोपासनापरत्वं भाष्यकाराभिमतम् ; हिततमत्वादिविरोधेन विधिशक्तिकुण्ठनस्योक्तत्वात् । प्रागुक्तवाक्यभेददोषानतिवृत्तेश्च । न ह्यत्रोपासनात्रयविशिष्टं ब्रह्म विधातुं शक्यम् ; तस्य विध्यनर्हत्वात् , किन्तु ब्रह्मण्युपासनात्रयं विधातव्यम् । तच्च परस्परानन्वयि स्वतन्त्रमिति कथं न वाक्यभेदः ?
न च वाच्यं – नेहोपासनात्रयं विधीयते । किंत्वेकमेवोपासनं ब्रह्मणो रूपत्रयविशेषितं ‘तम्मामायुरमृतमुपास्व’ इत्यनेन विधीयते । तत्र मामिति जीवविशिष्टतोक्ता । ‘आयुः’ इति प्राणविशिष्टता । ‘अमृतम्’ इति स्वरूपमुक्तमिति । तावता इन्द्रमुख्यप्राणविशिष्टब्रह्मोपासनालाभेऽपि इन्द्रस्य ‘तं माम्’ इति विशेषणेन पूर्वोक्तत्वष्टृहननादिगुणकत्वलाभेऽपि वक्तृत्वग्रातृत्वद्रष्टृत्वश्रोतृत्वादिगुणकत्वस्य वक्ष्यमाणस्यालाभात् , प्राणस्यायुष्ट्वगुणकत्वलाभेऽपि इन्द्रियनिश्रेयसहेतुत्वशरीरोत्थापकत्वादिगुणकत्वस्य वक्ष्यमाणस्यालाभाच्च । तत्तद्गुणविशिष्टेन्द्रप्राणविशेषितब्रह्मोपासनसिद्धये ‘वक्तारं विद्यात्’ इत्यादिषु ‘एतदेवोक्थमुपासीत’ इत्यत्र च विध्यन्तराणां स्वीकर्तव्यत्वेन वाक्यभेददोषानतिलङ्गनात् । न च अवाक्यभेदार्थं वक्ष्यमाणसर्वगुणविशिष्टेन्द्रप्राणविशेषितब्रह्मोपासनं ‘तं मामायुरमृतमुपास्व’ इत्यत्रैव विधेयं स्वीक्रियत इति वाच्यम् ; अत्र वक्ष्यमाणतत्तद्गुणसमर्पकशब्देष्वश्रूयमाणेषु तत्तद्गुणोपासनाविधिषु चाग्रे श्रूयमाणेषु तथा स्वीकारस्यैवायुक्तत्वात् , अन्यथा ‘अग्निहोत्रं जुहोति’ इत्यत्रापि अवाक्यभेदार्थं प्रकरणगतविध्यन्तरश्रुतदध्यादिवैकल्पिकसकलद्रव्यविशिष्टाग्निहोत्रविधिरिति कल्पनापत्तेः ।
न च – अग्निहोत्रवाक्येन दध्यादिवाक्यानामिव ‘तं मामायुः’ इति वाक्येन ‘एतदेवोक्थम्’ इत्यादिवाक्यानां गुणविधायकतया वाक्यैकवाक्यत्वेन एकवाक्यतानिर्वाहोऽस्त्विति वाच्यम् । तथाऽपि ब्रह्मस्वरूपोपासनाविधेः ‘तं मामायुरमृतम्’ इत्यादावलाभेन ‘स म आत्मेति विद्यात्’ इत्यत्रैव तद्विधेस्स्वीकर्तव्यत्वात् । न हि ‘अमृतम्’ इत्यनेन तल्लाभः ; ‘प्राणो व आयुः प्राण एवामृतम्’ इति वाक्यशेषेण आयुष्ट्वस्येवामृतत्वस्यापि प्राणविशेषणीकरणात् । तस्मादेकवाक्यताऽनुरोधात् ज्ञेयब्रह्मपरमेवेदं प्रकरणम् , न जीवमुख्यप्राणोपासनाविधिगर्भम् , तत्तद्गुणविशिष्टजीवमुख्यप्राणविशेषितब्रह्मोपासनाविधिगर्भं वा । यत्तु भूमविद्यायां ज्ञेयब्रह्मप्रकरणमध्येऽपि नामवागाद्युपासनाविधिस्वीकरणम् तत् नामवागादीनामुत्तरोत्तरभूयस्त्वनिरूपणावसरे श्रुतेषु ‘नामोपास्व’ ‘वाचमुपास्व’ इत्यादिषु श्रुतानां नामवागादिशब्दानामिह जीवमुख्यप्राणलिंगानामिव ब्रह्मणि पर्यवसानस्याभ्युपगन्तुमयुक्तत्वात् । तदभ्युपगमे हि ब्रह्मणस्स्वस्मादेव भूयस्त्वमुक्तं स्यात् ।
इति प्रतर्दनाधिकरणम्
इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यसर्वतन्त्रस्वतन्त्रचतुरधिकशतप्रबन्धनिर्वाहकविश्वजिद्याजिश्रीरङ्गराजाध्वरिवर सत्सुतमहाव्रतयाजिश्रीमदप्पय्यदीक्षितपादानां कृतौ शारीरकमीमांसान्यायरक्षामणौ प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः ।
प्रथमे पादे स्पष्टब्रह्मलिङ्गानि वाक्यानि निर्णीतानि । अथास्पष्टब्रह्मलिङ्गानि निर्णेतुं पादान्तरारम्भः । इदञ्च तत्र तत्राधिकरणे स्फुटीकरिष्यते । जन्मादिसूत्रे निर्णीतं ब्रह्मणो जगत्कारणत्वं तदाक्षिप्तं सर्वज्ञत्वं सर्वात्मत्वं व्यापित्वं नित्यत्वमित्येवमादयो धर्मा इह सिद्धवद्ब्रह्मलिङ्गत्वेनोपादीयन्त इति प्रथमपादोपजीवकत्वात्तदानन्तर्यम् ।
सर्वत्र प्रसिद्धोपदेशात् ।१।
छान्दोग्ये श्रूयते ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति । स क्रतुं कुर्वीत’
‘मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्पः आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसः’(छा.उ.३.१४.१.२) इत्यादि अत्र ‘शान्त उपासीत’ इत्यत्र ‘स क्रतुं कुर्वीत’ इति विहितामुपासनामनूद्य शान्तिरूपगुणमात्रविधिर्लाघवादिति स्थिते ‘स क्रतुं कुर्वीत’ इत्यनिर्दिष्टोपास्यायामुपासनायां किं मनोमयादिवाक्यशेषगतलिङ्गसमर्पितो जीव उपास्यः , उत ‘सर्वं खल्विदं ब्रह्म’ इति वाक्योपक्रमगतब्रह्मश्रुतिसमर्पितं ब्रह्मेति वाक्योपक्रमस्यान्यार्थत्वानन्यार्थत्वाभ्यां सन्देहः ।
तत्र पूर्वपक्षः – मनोमयत्वं प्राणशरीरत्वं च तावज्जीवलिङ्गम् । यद्यपि ‘मनोमय’ इति मयटो विकारप्राचुर्याद्यनेकार्थधीसाधारण्यात् , प्राणः शरीरमस्येति प्राणे शरीरत्वरूपणस्य येन केनचित् सम्बन्धेन निर्वोढुं शक्यत्वाच्चाधिष्ठानत्वनियन्तृत्वादिरूपमनःप्राणसम्बन्धवति ब्रह्मण्यपि कथञ्चिद्योजयितुं शक्यम् , तथाऽपि मनःप्राणसम्बन्धित्वप्रतिपादने तदभाववत्त्वप्रतिपादन इव तयोर्जीवेन सहोपकरणोपकरणिभावलक्षणसम्बन्ध एव लोकवेदयोः प्रसिद्धतरो ग्राह्यः , नतु ब्रह्मणा सह तयोरप्रसिद्धस्सम्बन्धः ; प्रसिद्धसम्बन्धे प्रथमं बुद्ध्यवतारात् । अत एव खलु
‘अप्राणो ह्यमनाः’(मु.उ.२.१.२) इति ब्रह्मणि मनःप्राणनिषेधो झटिति स्वारस्येनैव बुद्धिमारोहति । न तु घटवति भूतले ‘घटाभाववत् भूतलम्’ इत्याप्तवाक्यमनुपपन्नतया शङ्कितं सत् समवायसम्बन्धेन घटाभाववत्परमित्युपपादनमिव ‘अप्राणो ह्यमना’ इति श्रुतिवाक्यमधिष्ठानत्वादिसम्बन्धेन मनःप्राणवति ब्रह्मणि कथमप्राणत्वममनस्कत्वञ्चेत्यनुपपन्नार्थतया शङ्कितं सत् भोगोपकरणभावेन मनःप्राणाभाववत्परमित्युपपादनमपेक्षते ।
न च वाच्यम् – मनःप्राणयोर्जीवसम्बन्धित्वप्रसिद्धावपि मनोमयप्राणशरीरशब्दौ
‘मनोमयः प्राणशरीरनेता’(मु.उ.२.२.७) ‘स य एषोऽन्तर्हृदय आकाशः तस्मिन्नयं पुरुषो मनोमयः’(तै.उ.१.६.१) इत्यादिश्रुतिषु ब्रह्मण्येव प्रसिद्धौ । ततोऽर्थानुसन्धानात् पूर्वमेव बुद्धिस्थया शब्दप्रसिद्ध्या अत्रापि मनोमयप्राणशरीरशब्दयोर्ब्रह्मपरत्वसिद्धौ तत्र सम्भवत्सम्बन्धपरतया मयट्प्रत्ययशरीरत्वरूपके योजनीये स्याताम् इति ; श्रुत्यन्तरेष्वप्यर्थानुसारेण तयोर्जीवपरत्वस्यैवाङ्गीकारेण ब्रह्मणि तत्प्रसिद्ध्यसम्प्रतिपत्तेः , पञ्चकोशान्तर्गतमनोमयशब्दस्य जीवपरत्वदर्शनाच्च । न च श्रुत्यन्तरेषु तयोर्जीवपरत्वे ब्रह्मपरपदान्तरसामानाधिकरण्यविरोधः ;
अङ्गुष्ठाधिकरण (ब्र.सू.१.३.७) न्यायेन जीवब्रह्माभेदप्रतिपादनार्थत्वोपपत्तेः । न चात्रापि तयोर्ब्रह्मण्येव तदभिन्नजीवद्वारा वृत्तिस्स्यादिति वाच्यम् । मनःप्राणसम्बन्धेन प्रथमं बुद्धिस्थस्य जीवस्यैवोपास्यतयाऽन्वयसम्भवेन तमतिलंघ्य तद्द्वारा ब्रह्मणि पर्यवसानकल्पनायां ‘त्रिः प्रथमामन्वाह त्रिरुत्तमाम्’ इति विहितस्य सामिधेन्यभ्यासस्य प्रथमप्रतीतं स्थानधर्मत्वमतिलङ्घ्य तद्द्वारा प्रवोवाजीयादिऋग्धर्मत्वकल्पनावदयुक्तत्वात् । न चात्रोपरितनसत्यसङ्कल्पत्वादिब्रह्मलिङ्गानुसारेण तथा कल्पनं युक्तमिति शङ्क्यम् । ‘सत्यसङ्कल्प’ इत्यस्य प्रथमश्रुतमनोमयत्वादिजीवलिङ्गानुसारेण सति. ब्रह्मणि , असङ्कल्पः सङ्कल्परहितः , ब्रह्मज्ञानरहित इति जीवे व्याख्यातुमुचितत्वात् । ‘सर्वकर्मा सर्वकाम’ इत्यादेर्जीवे पर्यायेणोपपत्तेः ; युगपत् ब्रह्मण्यप्यसम्भवाद् । ‘ज्यायान् पृथिव्याः’ इत्यादेः ‘अन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा’ इति तत्पूर्वश्रुतहृदयायतनत्वाणीयस्त्वाविरोधेन जीव एव ब्रह्मभावापेक्षया कल्पयितुं युक्तत्वात् । ‘एष म आत्मा’ इति व्यतिरेकनिर्देशस्य ‘एतमितः प्रेत्याभिसम्भवितास्मि’ इति प्राप्यप्राप्तृभावनिर्देशस्य च औपचारिकत्वेन साधकफलावस्थाभेदेन च जीवे सङ्गमयितुं शक्यत्वात् । ‘एतत् ब्रह्म’ , इत्युपसंहारे ब्रह्मसङ्कीर्तनस्य क्वचित् ‘परब्रह्म’ इति परमात्मनि सविशेषणव्यवहारदर्शनेन जीवेऽप्यविरुद्धत्वाच्च ।
स्यादेतत् – भवेदेवं जीव उपासस्यो यदि मनोमयादिवाक्यशेष उपासनाकर्मसमर्पकः स्यात् । न त्वयमेवम् । तत्र मनोमयादिपदानां प्रथमान्ततया ‘स क्रतुं कुर्वीत’ इति प्रकृतोपासनाकर्तृविशेषणसमर्पकत्वात् । किन्तु ‘सर्वं खल्विदं ब्रह्म’ इति वाक्योपक्रम एवोपासनाकर्मसमर्पकः । तत्र ब्रह्मपदस्य द्वितीयान्तत्वसम्भवादिति चेत् । मैवम् । मनोमयादिपदानामनपेक्षितोपासनाकर्तृविशेषणसमर्पकत्वं परित्यज्य विभक्तिविपरिणामेनापेक्षिततत्कर्मसमर्पकत्वकल्पनस्यैव युक्तत्वात् , क्रतुशब्देन द्वितीयान्तस्यापि ब्रह्मपदस्यानन्वयेन षष्ठ्यन्ततया विभक्तिविपरिणामस्य तत्राप्यावश्यकत्वात् । न चोभयत्रापि विभक्तिविपरिणामे विनिगमनाविरहः , स्ववाक्यशेषादुपास्यग्रहणसम्भवे परार्थवादतस्तद्ग्रहणायोगात् । शमविधौ हेतुवन्निगदार्थवादो हि ‘सर्वं खलु’ इत्याद्युपक्रमः । यस्मात् सर्वमिदं विकारजातं ब्रह्मैव तज्जत्वात्तल्लत्वात्तदनत्वाच्च , न च सर्वस्यैकात्मत्वे रागादयस्सम्भवन्ति ; तस्माच्छान्त उपासीतेति तदेकवाक्यत्वात् ।
ननु तथाऽपि तद्गतब्रह्मपदान्वयो मनोमयादिपदानां विशेष्याकाङ्क्षया अपेक्षितः । तथा च तेषामुपास्यसमर्पकत्वेऽपि ब्रह्मणि पर्यवसानात् ब्रह्मैवोपास्यं सिद्ध्येदिति चेत् ; न । तेषां स्ववाक्यस्थानन्यार्थसमानलिङ्गात्मशब्दसमर्पितविशेष्यान्वयसम्भवे वाक्यान्तरस्थान्यार्थब्रह्मानुकर्षायोगात् , ‘आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपम्’ इत्याद्यग्निरहस्यब्राह्मणेऽस्यां विद्यायामात्मनएव विशेष्यत्वदर्शनाच्च ।
ननु तथाऽपि प्राणः शरीरमस्येति सर्वनामार्थे विहितो बहुव्रीहिः प्रकृतं ब्रह्मैव परामृशेत् , न तु प्रकरिष्यमाणमात्मानम् ; सर्वनाम्नां प्रकृतपरामर्शित्वात् । नपुंसकलिङ्गनिर्दिष्टस्यापि ब्रह्मणो विशेष्यभूतात्मपदानुसारिलिङ्गवता ‘प्राणशरीरः’ इत्यनेन पराम्रष्टुं शक्यत्वात् , ‘तस्मिन् सीद’ इतिवदन्यार्थनिर्दिष्टस्यापि सर्वनाम्ना परामर्शसम्भवाच्च । न च वाच्यं – ‘स क्रतुं कुर्वीत’ इति विहितामुपासनामनूद्य ‘सर्वं खलु’ इत्यादिना सार्थवादेन वाक्येन शमगुणो विधेयः । तथा च प्रथमपठितमपि तत् अर्थानुसारात् पाश्चात्यमेवेति ततः प्रागेवोपासनाविधेस्सविषयस्य पर्यवसानं वक्तव्यम् । अतः प्रवर्तिष्यमाणविध्यर्थवादः तदुपजीव्यविधिपर्यवसानाय विषयसमर्पक इत्येतन्न युक्तम् – इति । भाव्यर्थानुसन्धानेनापि सविषयकोपासनाविधिपर्यवसानोपपत्तेः । उपांशुयाजविधिप्रवृत्त्यनन्तरभाविक्रमप्रमाणकयाज्यानुवाक्यान्वयलभ्यविष्णुदेवत्यत्वाद्यनुसन्धानेन ‘विष्णुरुपांशु यष्टव्य’ इत्यादिस्तुतिसहितोपांशुयाजविधिपर्यवसानदर्शनात् । एवञ्च –
’सर्वनाम प्रसिद्धार्थं प्रसाध्यार्थविघातकृत् ।
प्रसिद्ध्यपेक्षि सत् पूर्ववाक्यस्थमपकर्षति ॥’
इति ज्योतिरधिक रणोक्तन्यायेनैव मनोमयादिवाक्यस्य ब्रह्मपरत्वं सिद्ध्यति । न च तत्र प्रकृतपरत्वप्रत्यभिज्ञापकोऽस्ति द्युसम्बन्धः ; नात्र प्रकृतप्रत्यभिज्ञापकोऽस्तीति वैषम्यं शङ्कनीयम् । सर्वनाम्नः प्रकृतपरत्वस्य व्युत्पत्तिसिद्धत्वेन तत्सिद्ध्यर्थं प्रकृतप्रत्यभिज्ञापकानपेक्षणात् । ‘सा वैश्वदेव्यामिक्षा तत्संसृष्टं प्राजापत्यम्’ इत्यादिषु प्रत्यभिज्ञापकाभावेऽपि सर्वनाम्नः प्रकृतपरत्वदर्शनात् । ज्योतिर्वाक्येऽपि ‘दिवि’ ‘दिवः’ इति निर्देशभेदेन द्युसम्बन्धस्य वस्तुतः प्रत्यभिज्ञापकत्वाभावाच्चेति चेत् ; मैवं । मनोमयशब्दस्य प्रसिद्धसम्बन्धानुरोधेन जीवपर्यवसायितया तदुपस्थापितजीवस्यैव सर्वनामार्थेन बहुव्रीहिणा परामर्शसम्भवात् , तदसम्भवेऽपि प्राणसम्बन्धरूपवर्तिपदार्थप्रसिध्यनुरोधेन प्रक्रंस्यमानस्यात्मनः परामर्शसम्भवाच्च । प्रक्रान्तपरत्वे वर्तिपदार्थस्वारस्यभङ्गापत्तेः । सर्वनाम्नः प्रक्रान्तपरत्वासम्भवे च प्रक्रंस्यमानपरत्वं ‘अथैष ज्योतिः’ इत्यादिवन्न दुष्यति ।
एतेन – मा भूच्छमविध्यर्थवादः स्वातन्त्र्येण वा मनोमयादिवाक्ये विशेष्यसमर्पकतया वा सर्वनामार्थसमर्पकतया वा ब्रह्मण उपास्यत्वसंयोजकः । त्रिपाद्ब्रह्मप्रकरणमव्यवहिते ज्योतिर्वाक्येऽप्यनुवृत्तं तथा स्यादित्यपि शङ्का निरस्ता ; समभिव्याहृतवाक्यशेषोपात्तलिङ्गसमर्पितस्य जीवस्योपास्यत्वेनान्वयसम्भवे प्रकरणसमर्पितस्य ब्रह्मणस्तथात्वेनान्वयायोगात् । लिङ्गवाक्याभ्यां प्रकरणस्य दुर्बलत्वात् ।
ननु वाक्यशेषगतजीवलिङ्गं निष्प्रयोजनम् । न ह्यपूर्वार्थबोधनाय मनोमयत्वप्राणशरीरत्वोपन्यासः ; जीवे तदुभयवैशिष्ट्यस्य लोकसिद्धत्वात् , उपासनावाक्यशेषे तदनुपयोगिजीवस्वरूपनिरूपणस्यानपेक्षितत्वाच्च । नाप्युपास्यो जीव इति गमयितुं तदुपलक्षणाय , एकेनैव तदुपलक्षणसिद्धावितरवैयर्थ्यात् । नापि तदुभयविशिष्टत्वेन तदुपासनासिद्धये ; मनस्संवलितरूपतया सदा अहमिति भासमाने जीवे विधिं विनाऽपि तद्विशिष्टतयैवोपासनासिद्धेः । एवं निष्प्रयोजनाद्वाक्यशेषसमर्पितजीवलिङ्गात् सर्वाभिलषितब्रह्मप्रकरणं बलवदिति तदेवोपास्यसमर्पकं युक्तमिति चेत् ; न । नित्यमहंप्रत्ययविषयतयोपासनाविषयत्वेनापि प्राप्तात् मनस्तादात्म्यादन्यत्रैव मनोविकारत्वे स्वप्नजागरानुवृत्तमनःप्रचुरत्वे मनःप्रधानत्वे वा ‘द्वयोः प्रणयन्ति’ इत्यस्य चोदकाप्राप्तप्रणयनान्तर इव वृत्तिसम्भवेन जीवलिङ्गप्रतिपादनस्योपासनार्थत्वेनैव सप्रयोजनत्वात् । तस्मान्मनोमयादिवाक्यशेषगतलिङ्गसमर्पितो जीव एवोपास्य इति । अत्रोच्यते –
प्रकृतब्रह्मणस्सर्वतादात्म्येनोपदेशतः ।
क्रतौ तदेवान्यार्थमुपास्यं प्रमिमीमहे ॥
‘सर्वं खल्विदं ब्रह्म’ इत्युपक्रमवाक्ये तावत्सर्वस्मिन् प्रपञ्चे ‘इदं ब्रह्म’ इतीदंशब्दसमानाधिकृतेन ब्रह्मशब्देन परामृष्टं त्रिपाद्ब्रह्म तादात्म्येनोपदिश्यते । इदमित्येतद्धि ब्रह्मणो विशेषणं , न तु सर्वस्य ; तद्विशेषणत्वे प्रयोजनाभावात् , ‘सर्वं ब्रह्म’ इत्येतावतैव सर्वस्य ब्रह्मात्मकत्वसिद्धेः । ब्रह्मविशेषणत्वे त्वस्ति प्रयोजनं प्रकृतत्रिपाद्ब्रह्माधिकारलाभः । स च प्रकृतस्य प्रयत्नेनाधिकारःस्वानर्थक्यपरिहाराय क्रतौ वाक्यशेषगतलिङ्गं बाधित्वा स्वयमुपास्यत्वेन ब्रह्मसमर्पणार्थः पर्यवस्यतीति तदेव प्रकरणसमर्पितमनन्यार्थं सर्वात्मकं ब्रह्मात्रोपास्यमित्यध्यवस्यामः ।
ननु ‘सर्वं खल्विदं ब्रह्म’ इत्यादि शमविध्यर्थवाद इति दर्शितं भाष्यकृता पूर्वपक्षे । सिद्धान्तेऽपि तदनुमत्यैव ब्रह्मण उपास्यत्वमुपपादितं ‘यद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम्’ इत्यादिना । कथमनन्यार्थकत्वेन तस्योपास्यसमर्पकत्वमुच्यते ? सत्यम् । त्रिपाद्ब्रह्मानुकर्षणार्थेदंविशेषणबलादुपास्यसमर्पणार्थेनापि तेन सन्निहितस्य शमविधेः स्तुतिद्वारा अर्थसमर्पणरूप उपकारः प्रसङ्गात्सिद्ध्यतीति सिद्धान्ते तदनुमतिः , न तु शमविधिशेषतया , ‘सर्वं ब्रह्मात्मकम्’ इत्येतावतैव शमविधिशेषत्वसम्भवेन तदर्थत्वे ‘इदम्’ इति विशेषणवैयर्थ्यात् ।
ननु शमविधिस्तुतौ ‘सर्वं ब्रह्मात्मकम्’ इति धीरपेक्ष्यते । उपास्यसमर्पणार्थं प्रकृतस्य त्रिपाद्ब्रह्मणःस्वप्राधान्येनाधिकार इत्यभ्युपगमे सर्वस्य तज्जत्वादिकं परंपरया हेतूकृत्य तद्धेतुकसर्वात्मत्वशालि प्रकृतं ब्रह्म प्रतिपाद्यं वक्तव्यमिति कथं तेन शमविधेरुपकारसिद्धिः ? सत्यम् । ब्रह्मणस्सर्वात्मकत्वप्रतिपादने सर्वस्य ब्रह्मात्मकत्वमप्यर्थाल्लभ्यत इति तेन तस्योपकारसिद्धिः ।
ननु ‘यद्यपि शमविधिविवक्षया’ इति भाष्यस्वारस्येन शमविधिशेषत्वमेव भाष्यकृदभिमतं प्रतीयते । कथं प्रासङ्गिकोपकाराभिप्रायं तद्व्याख्यायते ? तत्स्वारस्यानुरोधेन श्रुताविदंशब्द एव ‘इदं सर्वं यदयमात्मा’ इत्यादिश्रुताविव सर्वविशेषणमिति व्याख्यायताम् । उच्यते – अत्रेदंशब्दस्य प्रकृतत्रिपाद्ब्रह्मानुकर्षणार्थतया ब्रह्मविशेषणत्वेन सार्थकत्वे सम्भवति परिदृश्यमानप्रपञ्चस्वरूपानुवादमात्रपरत्वं न वक्तव्यमित्येव भाष्यकृतोऽभिसन्धिः । अत एव
ज्योतिरधिकरणे (ब्र.सू.१.१.१०) ज्योतिर्वाक्ये त्रिपाद्ब्रह्मानुवृत्तौ विवदमानं पूर्वपक्षिणं प्रति द्युसम्बन्धप्रत्यभिज्ञापनेन तत्र तदनुवृत्तिं प्रसाध्य तस्यामेव हेत्वन्तरमुक्तं ‘न केवलं ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः ; परस्यामपि हि शाण्डिल्यविद्यायामनुवर्तिष्यते ब्रह्म’ इति । अनेन हि भाष्यवाक्येन परत्राप्यनुवृत्तिरत्रानुवृत्त्यवश्यंभावे हेतुत्वेन दर्शिता । सा कथं ज्योतिर्वाक्येऽपि त्रिपाद्ब्रह्मानुवृत्तिमनङ्गीकुर्वाणं पूर्वपक्षिणं प्रति सिद्धवद्धेतुभावं प्रतिपद्येत यद्यत्र त्रिपाद्ब्रह्मानुकर्षणैकप्रयोजनेदंविशेषणसामर्थ्यं नाश्रीयते ? भाष्ये शमविधिशेषत्वोपन्यासस्तु शमविधिशेषत्वमङ्गीकृत्यापि परिहर्तुं शक्यत इत्यभिप्रायः प्रौढिवादः । प्रौढिवादत्वं च तस्य भाष्य एव ‘यद्यपि’ इत्यनेन ध्वनितम् ।
तत्रायं परिहाराभिप्रायः – यद्यपि ब्रह्म शमविध्यर्थवादे परविशेषणत्वेन निर्दिष्टम् , तथाऽपि ब्रह्मैव तद्गुणकतयोपास्यमिति बुद्धिसन्निहितं भवति , न जीवः ; मनोमयत्वादिगुणानां जीवपर्यवसाने हेयगुणत्वाद्धेयगुणानां चात्रैव प्रदर्शितेन तत्क्रतुन्यायेन विरुद्धतया अनुपासनीयत्वात् । अत्र हि ‘यथाक्रतुरस्मिन्लोके पुरुषो भवति तथेतःप्रेत्य भवति’ इति वाक्येनोपासको यद्गुणविशिष्टतयोपास्ते , तद्गुणकः स्वयं परत्र भवतीति तत्क्रतुन्यायो दर्शितः । कथं तद्गुणोपासनामात्रेण स्वयं तद्गुणकःस्यादिति विचिकित्सायाम् ‘अथ खलु क्रतुमयः पुरुष’ इति पूर्ववाक्येन यस्मात् क्रतुशब्दितध्यानप्रधानो जीवः , न तूपायान्तरप्रधानः अतो ध्यानमात्रेण तत्तद्गुणकःस्यादेवेत्युपपत्तिरपि दर्शिता । एवं सोपपत्तिकमत्रैव दर्शितस्तत्क्रतुन्यायोऽत्रानुपकुर्वन् विपरीतार्थतामापद्यते चेत् क्वान्यत्रोपकुर्यात् ? एवमप्यत्र नादरणीयस्स्यादन्यत्रैवोपकारः स्यात् यद्यत्र मनोमयादिवाक्ये जीव एवाहत्य निर्दिष्टः स्यात् । तदा हि पञ्चाग्निविद्यावत् सांसारिकहेयगुणविशिष्टजीवविषयाऽप्येषा वचनबलात् सत्यसङ्कल्पत्वाद्याविर्भावसम्पादकब्रह्मप्राप्तिहेतुर्भवेत् , न तु तत्र जीवः स्वशब्दोपात्तोऽस्तीति ।
ननु मनोमयत्वादिषूपदिश्यमानेषु ब्रह्म केनोपायेन बुद्धिसन्निहितं भवतीति चेत् ; विश्वजिन्न्यायेनेति ब्रूमः । यथा विश्वजिद्विधिना तस्य सामान्यत इष्टसाधनत्वावगताविष्टविशेषाकाङ्क्षायां सर्वाभिलषितस्वर्गइष्टविशेषतया बुद्धिसन्निहितो भवति , तथोपासनाविधिना सामान्यत उपास्यसिद्धौ तद्विशेषाकाङ्क्षायां मनोमयादिवाक्यस्वरसविषयस्य जीवस्योपास्यत्वायोग्यत्वे सर्वाभिलषितसत्यसङ्कल्पत्वादिगुणविशिष्टतया सर्ववेदान्तप्रसिद्धं ब्रह्मैवोपास्यविशेषतया समनन्तरप्रदर्शिततत्क्रतुन्यायविदां बुद्धिसन्निहितं भवति । यद्यपि वाक्यशेषस्वरसविषयस्य जीवस्योपास्यत्वेन परिग्रहे रात्रिसत्रन्यायोऽनुसृतो भवति , रात्रिसत्रन्यायश्च विश्वजिन्न्यायात् बलीयान् , तथाऽप्यत्र हेयगुणजीवोपासनापर्यवसायितया निष्प्रयोजनाद्रात्रिसत्रन्यायात् उत्कृष्टगुणब्रह्मोपासनापर्यवसायितया सप्रयोजनो विश्वजिन्न्यायो बलीयानिति स एवात्रानुसरणीयः । यद्वा सर्वनामार्थो बहुव्रीहिः मनस्सम्बन्धादिप्रसिध्युपस्थापितेऽपि जीवे हेयगुणे पर्यवसानस्यायुक्ततया शमविध्यर्थवादनिर्दिष्टे ब्रह्मणि पर्यवस्यतीत्यनेन प्रकारेण ब्रह्मणो बुद्धिसन्निहिततोपपादनीया । न च वाच्यम् – तत्र तत्र ब्रह्मणि परब्रह्मशब्दप्रयोगदर्शनेन केवलब्रह्मशब्दस्य जीवेऽपि प्रयोज्यतावगमात् शमविध्यर्थवादस्थो ब्रह्मशब्दोऽपि जीवपरोऽस्तु – इति ; सर्वेषु वेदान्तेषु ब्रह्मशब्दालम्बनतया परस्य प्रसिद्धत्वेन तत्रैव प्रथमं बुध्यवतारात् । तस्मादिह ब्रह्मैवोपास्यत्वेनान्वेतीति सिद्धम् ।
सूत्रस्यानन्यार्थत्रिपाद्ब्रह्माधिकारपरं ‘सर्वं खलु’ इत्यादिकमिति सिद्धान्ते , सर्वत्र. ‘सर्वं खलु’ इति निर्दिष्टे सर्वस्मिन् , प्रसिद्धस्य – प्रकृतस्य त्रिपाद्ब्रह्मणस्तादात्म्येनोपदेशादित्यर्थः । ‘सर्वं खलु’ इत्यादिकं शमविधिशेष इत्यभ्युपगम्य कृते सिद्धान्ते , सर्वत्र. सर्वेषु वेदान्तेषूपासकाभिलषितगुणविशिष्टतया प्रसिद्धस्य ब्रह्मणो विश्वजिन्न्यायेनोपस्थितस्य मनोमयत्वादिधर्मविशिष्टतयोपदेशादिति प्रथमे पक्षे अर्थः । द्वितीयपक्षे तु , सर्वत्र. ‘सर्वं खल्विदं ब्रह्म’ इति वाक्ये , प्रसिद्धस्य प्रकृतस्य ब्रह्मणः ‘प्राणशरीर’ इति सर्वनामार्थेन बहुव्रीहिणपरामृश्योपास्यगुणविशिष्टतयोपदेशादित्यर्थः । तदपि वाक्यं जीवपरमस्त्विति शङ्कानिराकरणे तु , सर्वेषु वेदान्तेषु ब्रह्मशब्दालम्बनतया प्रसिद्धस्य परस्यैवात्रापि ब्रह्मशब्देनोपदेशादित्यर्थः । एतास्सर्वा अपि योजनाः ‘यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दालम्बनम्’ इत्यादिभाष्येण गर्भीकृताः ।१.२.१।
स्यादेतत् – यथा वाक्यशेषनिर्दिष्टा गुणा न जीवे तत्क्रतुन्यायानुकूला एवं ब्रह्मण्यपि । तथा हि – सर्वकर्मत्वं सर्वकारणत्वम् ;
बालाक्यधिकरण (ब्र.सू.१.४.५) न्यायेन कर्मशब्दस्य क्रियत इति व्युत्पत्त्या कार्यपरत्वात् । तत्तावन्नोपासकेन प्राप्यम् ;
जगद्व्यापाराधिकरण(ब्र.सू.४.४.७) न्यायविरोधात् । सर्वकामत्वं सर्वं कामयत इति कर्मण्युपपदे अण्प्रत्ययान्ततया
‘सोऽकामयत’(तै.उ.२.६.१) इति श्रुत्युक्तं स्रष्टव्यसर्वविषयकामनावत्त्वम् । तदपि तथैव । काम्यन्त इति कामा इति कामशब्दस्य भोगपरतया सर्वभोगशालित्वं तदिति चेत् । तत् सर्वभोगाश्रयसकलजीवतादात्म्यनिर्वाह्यमिति तदपि नोपासकेन प्राप्तुं शक्यम् ; सगुणविद्याफलानुभवसमयेऽपि परिच्छिन्नत्वानपायात् । अविद्याऽवच्छिन्नो जीवः अविद्या च व्यापिनीत्यभ्युपगमे व्यापित्वस्य प्राप्तत्वेन प्राप्तव्यगुणत्वाभावात् । एतेन ज्यायस्त्वाणीयस्त्वे अपि व्याख्याते ।
‘अवाकी’(छा.उ.३.१४.२) इत्युक्तं वागिन्द्रियोपलक्षितसकलेन्द्रियराहित्यं तु सगुणफलानुभवसमये भोगान् भुञ्जानस्योपासकस्य नोपेक्षितम् । विषयस्पृहाराहित्यरूपमनादरत्वमवाप्तसकलकामत्वापेक्षं ब्रह्मणोऽन्यत्र न सम्भवति । ननु ‘सर्वकर्मा सर्वकाम’ इत्यादिकमुपास्यगुणनिर्देशपरं मा भूत् , केवलमुपास्यस्योपलक्षकं स्तुत्यर्थं वाऽस्त्विति चेत् ; न । सर्वकर्मत्वादीनां द्विः पाठेनाभ्यासावगततात्पर्यविषयभावानामुपास्यबहिर्भावकल्पनाऽयोगात् , प्रत्युत वाक्यशेषनिर्दिष्टेषु सर्वेषु गुणेषूपास्यतया प्रसक्तेषु सर्वकर्मत्वादीनां पुनः पाठस्य गुणान्तरपरिसंख्यार्थत्वौचित्येन तेषामेवोपास्यगुणत्वप्रतीतेश्च , मनोमयत्वादीनामपि मनस्सम्बन्धादिपर्यवसितानामुपासकस्पृहणीयगुणत्वाभावाच्चेत्याशंक्याह –
विवक्षितगुणोपपत्तेश्च । २।
विवक्षिताः – उपास्यत्वेन तात्पर्यविषया ये मनोमयत्वादयः ते ब्रह्मणि तत्क्रतुन्यायानुरोधिनः स्पृहणीयगुणा इत्येतदुपपद्यते । तथा हि – सगुणोपासनासिद्धस्य ब्रह्मलोके भोग्यभोगोपकरणानि यानि प्राक्सिद्धान्यरण्या (अर्णवा)दीनि यानि च स्वसङ्कल्पसाध्यानि स्त्र्यन्नपानादीनि तानि सर्वाणि स्वाप्नपदार्थवन्मानसप्रत्ययरूपाण्येव । यथा चैतत्तथा छान्दोग्यभाष्ये दहरविद्याप्रकरणे ‘य इमेऽर्णवादयो ब्रह्मलोके सङ्कल्पजाश्च पित्रादयो भोगास्ते किं पार्थिवा आप्याश्च यथेह लोके अर्णववृक्षपूर्मण्डपाद्याः , आहोस्विन्मानसप्रत्ययमात्रा इति । किञ्चातः । यदि पार्थिवा आप्याश्च स्थूलास्स्युः हृद्याकाशे समाधानानुपपत्तिः । पुराणे च मनोमयानि ब्रह्मलोकेऽर्णवशरीरादीनीति वाक्यं विरुध्येत’ इत्यादिना ‘तस्मान्मानसा एव ब्राह्मलौकिका अरण्यादयस्सङ्कल्पजाश्च पित्रादयः कामा बाह्यविषयभोगवदशुद्धिरहितत्वात् शुद्धसत्त्वसङ्कल्पजन्या इति निरतिशयास्सत्याश्चेश्वराणां भवन्ति’ इत्यन्तेन भगवत्पादैरेव प्रपञ्चितम् । त इह ब्राह्मलौकिकाः पदार्था मनोविकारत्वान्मनोमया इति सर्वविकाराभिन्नः परमेश्वरोऽपि मनोमयः । अत एव विकारादिवाचिमनोमयशब्दो जीव एव समवेतार्थो न ब्रह्मणीत्याशंक्य ब्रह्मणि तदुपपादनार्थो भामतीग्रन्थः ‘तस्यापि सर्वविकारकारणतया विकाराणाञ्च स्वकारणादभेदात्तेषाञ्च मनोमयतया ब्रह्मणस्तत्कारणस्य मनोमयत्वोपपत्तेः’ इति । एवञ्च मनोमयत्वं ब्राह्मलौकिकदिव्यभोगसम्पन्नत्वरूपमुपासकस्य परत्र प्रेप्सितगुणो भवत्येव । तथा प्राणाः शरीराणि शरीरवन्नियम्यान्यस्येति प्राणशरीरत्वं सर्वात्मना वश्येन्द्रियत्वरूपम् । तदपि तस्य स्पृहणीयमेव ;
‘ते ब्रह्मलोकेषु परान्तकाले’(महानारा.१०.६) ‘ब्रह्मणा सह ते सर्वे’ इत्यादिश्रुतिस्मृत्यनुसारेण हिरण्यगर्भेण सह मोक्ष्यमाणानामहंग्रहोपासनापराणामपेक्षिते परब्रह्मसाक्षात्कारे चित्तवशीकरणस्योपायत्वात् ।
‘एकवचनमुत्सर्गतः करिष्ये’(महाभाष्य) इति न्यायमवलम्ब्य प्राणः शरीरमस्येति विग्रहकरणे तल्लभ्यं वश्यवायुत्वमपि तस्य स्पृहणीयमेव ; वायुजयस्य मनोवशीकरणोपायत्वेन योगशास्त्रप्रसिद्धत्वात् । भारूपत्वं निर्मलचैतन्यलक्षणदीप्तिस्वरूपत्वं उपासकानुग्रहार्थपरिगृहीतविग्रहोपाधिकदीप्तिमत्त्वं वा । सत्यसङ्कल्पत्वमुक्तवक्ष्यमाणगुणनिर्वाहकममोघसङ्कल्पत्वम् । आकाशात्मत्वं ‘आकाश इव पङ्केन न स पापेन लिप्यते’ इति स्मृतिप्रसिद्धनिर्लेपत्वम् । सर्वकर्मत्वं
‘स यदि पितृकामो भवति सङ्कल्पादेवास्य पितरस्समुतिष्ठन्ति’(छा.उ.८.२.१) इत्यादिश्रुतिप्रसिद्धं प्रागुक्तमनोमयपित्रादिसकलस्रष्टृत्वम् । सर्वगन्धत्वं सर्वरसत्वं च भोग्यतया सकलशुभगन्धरसवत्त्वम् , यस्य पर्यङ्कविद्यायामर्चिरादिमार्गेण ब्रह्म प्राप्नुवता विदुषा प्राप्तव्यत्वं श्रूयते
‘‘तं ब्रह्मगन्धः प्रविशति , तं ब्रह्मरसः प्रविशति’(कौ.उ.१.५) इति ।
‘सर्वमिदमभ्यात्त’(छा.उ.३.१४.२) इति प्रागुक्तसकलगुणाभिव्याप्तिमत्त्वम् । यद्यप्येतदनुक्तसिद्धम् , तथाऽपि ‘सर्वकर्मा’ इत्यादिपुनः पाठस्य परिसङ्क्यार्थत्वशङ्कानिरासाय प्रागुक्तास्सर्वेऽपि गुणा उपास्या इति प्रतिपादनार्थम् । तेन पुनः पाठः केवलमादरार्थो न परिसङ्ख्यार्थ इति सिद्ध्यति । सर्वरसान्तास्सर्वेऽपि गुणा उपास्यास्तदनन्तरगुणास्त्वविरुद्धा एवोपास्या इति च सिद्ध्यति । अतो न किञ्चिदनुपपन्नम् ।
सूत्रे ‘धर्मोक्तेः’ ‘धर्मोपदेशात्’ इत्यादिवत् धर्मपदमप्रयुज्य गुणपदग्रहणं तत्र विवक्षितविशेषणं च मनोमयादिपदानां यत्नेनोपास्यत्वानुगुणार्थपरिग्रहे हेतुत्वेनोपात्तम् । यत एव मनोमयत्वादयः ‘सर्वमिदमभ्यात्त’ इति सिद्धार्थपुनःप्रतिपादनफलादुपास्यत्वेन विवक्षिताः , अतस्ते समनन्तरप्रदर्शिततत्क्रतुन्यायसाफल्याय परत्रोपासकलभ्यगुणतयैवोपपादनीयाः , न तु ब्रह्मधर्ममात्रतयेति तदभिप्रायः । ‘उपपत्तेश्च’ इति चकारस्य त्वयमभिप्रायः – मनोमयादिशब्दाः प्रदर्शितार्थेषु स्वारस्याभावेऽपि तत्क्रतुवचनानुरोधाद्यत्नतस्तत्परतयोपपादनीया इत्येतावदेव न । उपपद्यन्ते च ते प्रदर्शितार्थेषु स्वरसत एव न तु यत्नमपेक्षन्त इति । तथा हि – मनोमयशब्दस्तावन्मनोविकारार्थः ; तैत्तिरीये तस्य तदर्थतया निर्णीतत्वेनान्यत्राप्यौत्सर्गिकत्वात् । मनोविकारत्वं च ब्रह्मणि साक्षादसम्भवत् मनोविकारवस्त्वभेदेनोपपादनीयम् । तथाभूतं च वस्तु बुद्धिसन्निहितं ग्राह्यम् ; व्यक्तिवचनानां सन्निहितविशेषपरत्वनियमात् । सन्निहिताश्चोपासकसङ्कल्पसाध्याः पित्रादयो मनोमयाः ; ‘स क्रतुं कुर्वीत’ इति लिङा उपासनाया इष्टसाधनत्वे बोधिते इष्टविशेषाकांक्षायामुपासनाफलत्वेन श्रुत्यन्तरप्रसिद्धानां तेषामिष्टविशेषत्वेनान्वयात् । ‘सर्वकर्मा’ इत्यत्रापि तेषां पितृमातृभ्रातृस्वसृसखिगन्धमाल्यगीतवादित्रस्त्र्यन्नपानादिरूपाणां सामस्त्यमेवोच्यते ; अनादिजीवाविद्यादिसाधारण्येन सर्वेषां मुख्यवृत्त्या ब्रह्मकार्यत्वस्यायुक्ततया किञ्चिदवच्छेदापेक्षायां ‘अथैतस्य हार्योजनस्य सर्व एव लिप्सन्ते’ इत्यत्र सर्वशब्दस्य प्रकृतऋत्विक्सामस्त्य इव प्रकृतमनोमयकार्यसामस्त्ये वृत्त्यौचित्यात् । एवं च सर्वगन्धसर्वरसशब्दयोरपि प्रायपाठानुसारेण उपासकप्राप्यब्रह्मगन्धरससामस्त्यएव पर्यवसानं स्यादिति ॥१.२.२॥
यद्येवमुपासकजीवेऽपि मनोमयत्वादय उपासनया प्राप्स्यमानास्सन्तीति तत्रापि तेषां नानुपपत्तिरित्याशङ्क्याह –
अनुपपत्तेस्तु न शारीरः ।३।
यद्यपि मनोमयत्वादयो भाव्यभिप्रायेण जीवेऽपि कथञ्चिदुपपद्यन्ते , तथापि ‘अवाकी’ इत्यादिनोक्ता अनिन्द्रियत्वादयः कथमपि नोपपद्यन्ते । ते हि नोपासनार्थमुपात्ताः , किन्तु घ्राणरसनभोग्यगन्धरसवत्त्वोक्त्या प्रसक्तामिन्द्रियवत्त्वशङ्कां सत्यसङ्कल्पेन ब्रह्मणा गन्धरसादिभोगसंपत्तये स्वस्येन्द्रियाणि किमिति न सङ्कल्प्यन्त इति शङ्कामणीयस्त्वोक्तिप्राप्तव्यापित्वाभावशङ्कां च निवर्तयितुमुक्ताः । अतस्ते नोपासकप्राप्यगुणतया व्याख्येया इति ते जीवे नोपपद्यन्त एव । किञ्च मनोमयत्वादयो ब्रह्मगुणा एव ग्रहीतुमुचिताः , न तूपासकगुणा इति वैषम्यं सूत्रे तुशब्देन द्योत्यते । ते हि ब्रह्मणि स्वतस्सिद्धाः , जीवे तूपासनालक्षणहेतुसाध्याः । सिद्धसाध्यधर्मग्रहणसन्देहे च सिद्धधर्मा एव ग्राह्याः , न तु साध्यधर्मा
इत्यन्तर्याम्यधिकरणे (ब्र.सू.१.२.५) वक्ष्यमाणमेकं वैषम्यम् । ब्रह्मगुणग्रहणेनानन्यार्थत्रिपाद्ब्रह्माधिकारानुग्रहे बहुव्रीहेः प्रकृतपरत्वस्वारस्यानुग्रहे च सम्भवति तद्बाधनं न युक्तमित्यपरं वैषम्यम् । अतश्शारीर उपास्यो न भवति । (१.२.३) ।
स्मृतेश्च ।६।
यद्यपि
‘एतमितः प्रेत्याभिसम्भविता’(छा.उ.३.१४.४) इत्यत्राप्यसमानविभक्तिकशब्दरूपशब्दविशेषोऽस्ति , तथाऽपि तत्र प्राप्यप्राप्तृतारूपकर्मकर्तृव्यपदेशः साधकफलावस्थाभेदेनोपपद्यत इति शङ्कापरिहारायैकस्यामेवावस्थायां
‘स क्रतुं कुर्वीत मनोमयः प्राणशरीरः’(छा.उ.३.१४.१) इत्याद्युपास्योपासकतारूपकर्मकर्तृव्यपदेशोऽपि प्रदर्शनीयः । तत्प्रदर्शने च ‘एतमितः प्रेत्य’ इत्यत्राप्यवस्थाभेदेनोपपत्तिशङ्का परिहृता भवति । न तु तत्प्रदर्शनं शब्दविशेषसूत्रेण कर्तुं शक्यम् ; उपास्योपासकयोर्द्वयोरपि प्रथमान्तेन निर्दिष्टतया विशेषाश्रवणात् । अतस्तत्सङ्ग्रहाय कर्मकर्तृव्यपदेशसूत्रम् । तत्र व्यपदेशो विशिष्टोऽपदेशः एकावस्थायामपि कर्मकर्तृभावनिर्देशः । चकारो ‘न शारीर’ इति समनन्तरसूत्रप्रकृतावान्तरसाध्यविषयतयाऽस्य हेतोः ‘अनुपपत्तेः’ इति तद्धेतुना सह समुच्चयसूचनार्थः ।
यद्यपि ‘शब्दविशेषात्’ इत्यपि तत्रैव हेतुः , तथाऽपि तस्य ‘राहोश्शिरः’ ‘स्वे महिम्नि’ इत्यादिवदुपचारोऽस्त्विति शङ्कानिवर्तनाय स्मृत्यनुग्रहापेक्षत्वादनन्तरसूत्रार्थसाहित्येन तस्य हेतुत्वपर्यवसानमिति तत्रैव चकारः प्रयुक्तः । तत्साहित्ये हि स्मृतावीश्वरशब्दितस्य देहाख्ययन्त्रारूढानां जीवानां भ्रान्तिजनकत्वेन प्रसादाय शरणीकरणीयत्वेन च जीवभिन्नस्यैव हृदये स्थितिसिद्धौ तस्यैव ‘एष म आत्मा’ इत्यादौ ग्रहणसम्भवान्नोपचारः कल्पनीय इति तच्छङ्काव्यावर्तनं लभ्यते ।१.२.४ , ५ , ६ ।
अथ ब्रह्मण उपास्यत्वे अल्पायतनत्वाणीयस्त्वलिङ्गविरोधशङ्कामुद्भाव्य निराकरोति –
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥७॥
इहोपास्यतया निर्दिष्टं ब्रह्म न भवति
‘एष म आत्माऽन्तर्हृदयेऽणीयान्’(छा.उ.७.१४.३) इति श्रुतादल्पायतनत्वात् । न हि सर्वगतं ब्रह्मान्तर्हृदये शक्नोति मातुम् । ननु तत्र मातुमशक्तस्यापि ब्रह्मणस्तद्गतत्वमस्त्येव , अन्यथा तस्य क्वचिदपि सम्बन्धाभावे सर्वगतत्वमेव न स्यात् । ततश्चान्यगतत्वाविरोधेन तद्गतत्वमात्रविषयोऽयं ‘अन्तर्हृदय’ इति निर्देशोऽस्तु । न च ‘अपवरके देवदत्तः’ इत्यादवन्यगतत्वविरोधिन्येकत्र पर्यवसितवृत्तित्व एवेत्थं निर्देशो दृष्ट इति वाच्यम् ।
‘स एवाधस्तात् स उपरिष्टात्’(छा.उ.७.२५.१) इत्यादौ तत्तद्वस्तुगतत्वमात्रेऽप्येवं निर्देशदर्शनादिति चेत् ; मैवम् । उभयथोपपन्नोऽपि ‘अन्तर्हृदये’ इति निर्देशोऽग्रिमाणीयस्त्वोपन्यासेन तत्रैव पर्यवसितवृत्तित्वविषय इत्येवावगमात् । तन्निर्धारणार्थतायामेव तस्य सप्रयोजनत्वात् । तथा च ‘एष म आत्मा’ इति वाक्ये अणीयस्त्वोपपत्त्युपन्यासपूर्वकस्य विधेयस्य हृदयायतने पर्यवसितवृत्तित्वस्यान्तःकरणोपाधिकत्वेनाराग्रमात्रे जीव एव सम्भवात् ; तात्पर्यविषयविधेयानुसारेणोद्देश्योपमर्दनस्य ‘अप्याग्निष्टोमे राजन्यस्य गृह्णीयादप्युक्थ्ये ग्राह्य’ इत्यादिषु दृष्टत्वाच्च । ‘एष म आत्मा’ इत्युद्देश्यगतव्यतिरेकनिर्देशो ‘राहोश्शिर’ इतिवदौपचारिको ग्रहीतव्यः । उदाहृतस्मृतिस्त्वीश्वरस्यान्यगतत्वाविरुद्धसर्वगतत्वमात्रविषया नास्य व्यतिरेकनिर्देशस्याणीयस्त्वोपपत्त्या जीवविषयत्वनिर्णयेन प्राप्तमौपचारिकत्वं निरोद्धुमीष्टे । तथा प्राप्यप्राप्तृभावनिर्देशोऽपि साधकफलावस्थाभेदेन नेतव्यः । उपास्योपासकभावस्त्वेकस्याविरुद्धः ; पञ्चाग्निविद्यादिषु स्वात्मनस्स्वोपास्यत्वसम्प्रतिपत्तेः । मनोमयत्वादिकमपि प्राप्स्यमानगुणतया जीव एव नेतव्यम् । वाक्योपक्रमस्तु शमविध्यर्थवादतया नेतव्यः । सर्वनामार्थो बहुव्रीहिरपि प्रक्रंस्यमानपरामर्शितया उपपाद्यः । उपपाद्योपपादकभावेनोपन्यस्तयोरल्पायतनत्वाणीयस्त्वयोरनन्यथासिद्धतया तदनुसारेणान्यथा नेतुं शक्यानां बहूनामप्यन्येषां नयनस्योचितत्वादित्येवमिहाशङ्का ।
अत्रायं परिहारः – भवेदेवं यदि ‘एष म आत्माऽन्तर्हृदये’ इत्यनेनान्तर्हृदये पर्यवसितवृत्तित्वमुच्येत , ‘अणीयान्’ इत्यनेन च तदुपपादनाय प्राक्सिद्धमणीयस्त्वं वर्ण्येत । न त्वेवम् , किन्तु सर्वगतमेव ब्रह्म सूर्यमण्डलस्येव हृदयपुण्डरीकस्यान्तरुपास्यमुपदिश्यते । हृदयपुण्डरीकान्तस्स्थसुषिरावच्छेदकमेव च तस्याणीयस्त्वमुपासनार्थमुपदिश्यते । कुतोऽयं निर्णय इति चेत् – समनन्तरमेव ज्यायस्त्वोपदेशात् । ज्यायस्त्वाणीयस्त्वयोर्विरुद्धत्वादेकस्मिन्नन्यानुसारेण नेतव्ये हृदयोपाध्युपादानात् ‘सूचीरन्ध्रावच्छिन्नं व्योमाणीयः’ इत्यत्रेवाणीयस्त्वमन्योपाधिकमिति वक्तुं युक्तम् , न तु ज्यायस्त्वम् ।
किञ्चाणीयस्त्वं जीवगतमन्तःकरणावच्छेदोपाधिकतया प्राक्सिद्धं ग्राह्यं , उत समनन्तरोक्तहृदयसुषिरावच्छेदोपाधिकं ब्रह्मगतमेव ग्राह्यमिति संशये ‘सर्वं खलु’ इत्याद्युपक्रमस्वारस्यात् , सिद्धरूपमनोमयत्वादिस्वारस्यात् , कर्मकर्तृप्राप्यप्राप्तृभावस्वारस्यात् ‘एतत् ब्रह्म’ इत्यौपसंहारिकब्रह्मशब्दस्वारस्याच्च ब्रह्मगतमेव ग्राह्यमिति हृदयायतनत्वं तत्कृतमणीयस्त्वं चोपासनार्थतया ग्रहीतुं युक्तमिति ।
सूत्रे अर्भकौकस्त्वमल्पायतनत्वम् । ‘अर्भकस्थत्वात्’ इत्यनुक्त्वा ओकश्शब्दप्रयोगस्तत्र पर्यवसितवृत्तित्वज्ञापनार्थः । यद्यपि वाचकत्वाल्लघुत्वाच्चाल्पपदमेव प्रयोक्तुं युक्तम् , तथापि शङ्कान्तरमपि सूचयितुमर्भकपदम् । तेन हि लक्षणया आयतनाल्पत्वमिव अर्भकयति , स्वावच्छिन्नं चेतनं मूढं करोतीति व्युत्पत्त्या स्वावच्छिन्नचेतनमोहकत्वमपि प्रतिपाद्यते । अर्भकयतीत्यर्थे ‘तत्करोति’ इति णिचि पचाद्यचि ‘णेरनिटि’(पा.सू.६. ४. ५१) इति णेर्लोपे च सति अर्भकशब्दनिष्पत्तेः । ततश्च यद्येतद्धृदयायतनत्वं ब्रह्मणः स्यात् , तर्हि तस्यापि जीववद्दुःखादिमत्त्वं स्यात् । न हि प्रज्वलितगृहान्तर्गतयोर्द्वयोरेको दह्यते नापर इति दूषणमत्राभिसंहितम् । तत्रैतद्वैषम्यं वाच्यम् – जीवो देहाद्यविवेकोत्थरागद्वेषमूलधर्माधर्मपरवश इति तस्य दुःखादिमत्त्वम् , ईश्वरस्तथाभूतो न भवतीति तस्य दुःखादिरहितत्वञ्चेति । नैतदपि युक्तम् । अविवेकापादकस्य हृदयगुहावच्छेदस्य द्वयोरप्यविशेषे एकस्याविवेको नान्यस्येति नियन्तुमशक्यत्वादित्यभिप्रायान्तरमपि गर्भीकर्तुमर्भकपदम् । तदिदं गूढमभिप्रायान्तरमुत्तरसूत्रेण परिहरिष्यते । ‘तद्व्यपदेशाच्च’ इति तस्य हृदयायतनत्वस्य विशिष्यापदेशात् , हृदये पर्यवसितवृत्तित्वरूपतया अणीयस्त्वोपन्यासेन विशिष्य प्रतिपादनादित्यर्थः ।
यद्वा तद्व्यपदेशात् अर्भकत्वव्यपदेशादित्यर्थः । व्यपदेशो विशेषेणातिशयेनाणीयस्त्वरूपतयोपन्यासः । परिहारांशे एवं निचाय्यत्वात् एवं द्रष्टव्यत्वात् हृदयायतने अणीयस्त्वादिगुणकतयोपासनीयत्वादित्यर्थः । ‘चायृ पूजानिशामनयोः’ इति धातुः । ‘व्योमवच्च’ इति चकारेणोपक्रमस्वारस्यादिकं समुच्चीयते । १.२.७।
अथार्भकपदेन क्रोडीकृतमाशङ्कान्तरमुद्घाट्य परिहरति –
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ।८।
जीवस्याविवेकादिदोषे कादाचित्को हृदयगुहानुप्रवेशो न प्रयोजकः , किन्त्वविद्यारूपः , अन्तःकरणरूपो वा जीवत्वोपाधिरेव ;
‘न तं विदाथ य इमं जजानान्यद्युष्माकमन्तरं भवति’(तै.सं.४.६) ‘ध्यायतीव लेलायतीव’(बृ.उ.४.३.७) इत्यादिश्रुतेः । ततश्च जीवेश्वरयोः हृदयगुहानुप्रवेशे समानेऽपि जीवोऽविद्याऽन्तःकरणरूपोपाधिकृताविवेकनिदानधर्माधर्मपरवशः , ईश्वरस्तु अपहतपाप्मत्वादिगुणक इति विशेषसद्भावादीश्वरस्य दुःखादिमत्त्वं न प्रसज्यते । न हि प्रज्वलितगृहान्तर्गतिसाम्येनान्यवत् अग्निस्तम्भनकुशलो योगसिद्धोऽपि दह्यते , अन्यथेश्वरस्य दुःखादिमज्जीवाभेदमात्रेण दुःखादिभोगप्रसङ्गं किमिति नाशङ्केथाः ? तदाशङ्कायामपि ‘वैशेष्यात्’ इत्येवोत्तरम् । ईश्वरस्स्वाभिन्नेऽप्यविद्यादिकल्पितभेदे जीवे दुःखादिकमुपाधिसन्निधानवशात् कल्पितमवभासत इत्येतज्जानातीति विशेषादित्यर्थः । न हि लोके स्वमुखाभिन्नेऽपि दर्पणोपाधिवशात् भिन्ने प्रतिमुखे दर्पणोपाधिकं मालिन्यं पश्यन्नपि कल्पितमिति जानन्ननुशोचति । तस्मात् सिद्धमिह ब्रह्मैवोपास्यमिति ।
इदमधिकरणं स्पष्टजीवलिङ्गमस्पष्टब्रह्मलिङ्गं च । मनोमयत्वप्राणशरीरत्वाल्पायतनत्वाणीयस्त्वानि हि प्रथमपाठादिना बलवन्ति जीवलिङ्गानि स्पष्टानि । न च – मनोमयत्वं मनस्सम्बन्धमात्रं , तच्च ग्राह्यग्राहकतारूपं ब्रह्मण्यपि प्रसिद्धमिति शङ्क्यम् ; विकाराद्यर्थस्य मयटस्सम्बन्धलक्षकत्वकल्पनायोगात् । तस्य सम्बन्धशक्तिकल्पनेऽप्युपकरणोपकरणिभावरूपजीवगतसम्बन्धस्यैव प्रसिद्धतरस्य प्रथमं प्रतीतेः , अन्यथा ‘चक्षुष्मान्’ इत्यादावपि चक्षुरादिवेद्यघटादिधीप्रसङ्गात् । ननु उदाहृताज्जीवलिङ्गादपि वाक्योपक्रमगतं तज्जत्वादिहेतुकसार्वात्म्यरूपं ब्रह्मश्रुतिसहकृतं स्पष्टतरमिति चेत् । न । विषयवाक्यस्य ‘मनोमयः’ इत्यादेः पूर्वपक्षे ‘सर्वं खलु’ इत्यादितो भिन्नवाक्यत्वेन मनोमयादिवाक्ये सर्वात्मकब्रह्मानुवृत्तेरस्पष्टत्वात् । तर्हि ‘दिवि’‘दिव’ इति विभक्तिभेदेन प्रत्यभिज्ञाविच्छेदकशङ्कया अस्पष्टगायत्रीब्रह्मानुवृत्तिकं ज्योतिर्वाक्यं विषयीकृत्य प्रवृत्तं ज्योतिरधिकरणमत्रैव पादे कर्तव्यं स्यादिति चेत् , न । तत्र स्पष्टब्रह्मलिङ्गस्य गायत्रीवाक्यस्यापि निर्णेतव्यत्वेन तस्य प्रथमपादेऽपि सङ्गतिसत्त्वादिति सर्वमनवद्यम् ॥ १.२.८॥
इति सर्वत्रप्रसिद्धाधिकरणम्
अत्ता चराचरग्रहणात् ॥९॥
ननु मन्त्रे मुख्य ओदनो न श्रुतः येन तत्प्रतिसम्बन्धी अत्ता भोक्ता स्यात् , किन्तु ब्रह्मक्षत्रयोरोदनत्वरूपकमात्रं कृतम् । न चोपचरितौदनस्यापि प्रतिसम्बन्धिना तद्भोक्त्रा भाव्यम् । न च वाच्यम् – ओदनभोक्तारं प्रत्येवानोदनयोरोदनत्वरूपकमवकल्पते । ततश्च यथा ‘यस्य मृगयाविनोदिनो मृगाः परनरपतय’ इत्यत्र अमृगेषु मृगत्वरूपके वस्तुतो मृगहन्ता क्षत्रिय एव तत्प्रतिसम्बन्धी प्रतीयते , न तु श्रोत्रियः कश्चित् ब्राह्मणः , एवमत्रापि स्यात् – इति ; तथा नियमाभावात् । ‘त्वत्कृपाणभुजङ्गस्य क्षीरं विद्विषतां यशः’ इत्यत्रोपचरितक्षीरप्रतिसम्बन्धिनि कृपाणे तत्पातृत्वादर्शनादिति चेत् । उच्यते । अवश्यं तावदिहानोदाविषयेणौदनशब्देन वाच्यगतं कञ्चित् गुणमपेक्ष्य वर्तितव्यम् । तदिह भोग्यतया प्रसिद्धस्य वाच्यस्य गुणो भोग्यत्वरूपः पर्यवस्यतीति तत्प्रतिसम्बधिनो ‘यस्य’ इति पदोपात्तस्य भोक्तृत्वप्रतीतिरनिवार्या । ‘त्वत्कृपाणभुजङ्गस्य’ इत्याद्युदाहरणेऽपि कृपाणे समारोपिततत्पातृत्वप्रतीतिरस्त्येव । अत एव तदन्वयसिद्धये कृपाणस्य भुजङ्गत्वरूपणं क्रियते । यत्र तन्न क्रियते ‘करवालस्य ते वीर क्षीरं विद्विषतां यशः’ इत्यादौ तत्रापि भुजङ्गत्वप्रतीतिरस्तीत्येकदेशविवर्तरूपकमालङ्कारिकैरिष्यते ।
ननु तथाऽपि कृपाणभुजङ्गगतपातृत्ववदुपचरितौदनप्रतिसम्बन्धिगतभोक्तृत्वमारोपितमेव स्वीकरणीयमिति फलतस्तत्प्रतिसम्बन्धी अभोक्तैव पर्यवस्येदिति चेत् । न । तथा नियमाभावात् । ‘यावनालभूनिवासिनां शाल्योदनश्शर्कराऽपूपः’ इति रूपके उपचरितापूपप्रतिसम्बन्धिनोऽनुपचरिततद्भोक्तृत्वदर्शनात् , उभयथा दर्शने सति अत्र बाधकाभावेनानारोपितस्यैव भोक्तृत्वस्य स्वीकरणीयत्वात् । एवमौत्सर्गिकत्वमभिप्रेत्यैवामृगेषु मृगत्वरूपणे वस्तुतो मृगहन्ता क्षत्रिय एव प्रतीयत इत्युक्तं कल्पतरौ ।
नन्वोदनशब्दस्य भोग्यत्वलक्षकत्वे भवतु नामैवम् । तेन विनाश्यत्वमेव लक्ष्यताम् । तथा च तत्प्रतिसम्बन्ध्यतृत्वं विनाशकत्वरूपं संहर्तृत्वं स्यात् । तत्तु परस्मिन् सम्भवतीति चेत् । उच्यते । गौणत्वं शब्दस्य साधारणगुणमपहायासाधारणगुणेन निर्वाह्यम् । न हि ‘अग्निर्माणवकः’ इत्यत्राग्निशब्देन पैङ्गल्यादेरिव द्रव्यत्वादेरुपस्थितिरस्ति । अत एव ‘प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य’ इत्यध्वर्युप्रैषे उद्गातृशब्दस्य बहुवचनानुरोधेन रूढिपूर्वकलक्षणया बहुषु वृत्तौ वक्तव्यायां षोडशर्त्विक्साधारणाकारं विहाय विशेषाकारेणोद्गातृगणमात्रलक्षणा पूर्वतन्त्रे निर्णीता । तदिह ब्रह्मक्षत्रयोरोदनत्वस्यात्यन्तविशेषाकारस्य भोज्यत्वस्य च बाधेऽपि भोग्यत्वस्याबाधात्तदेवौदनशब्देन लक्षणीयम् । व्याघ्रादिजीवविशेषं प्रति ब्रह्मक्षत्रिययोर्भोज्यत्वसम्भवात्तदेव वा लक्षणीयमिति सर्वधा तत्प्रतिसम्बन्ध्यत्तृत्वं भोक्तृत्वमेव न संहर्तृत्वम् । एवञ्च भोक्तृतया जीवस्यैव प्रतिपाद्यत्वे तस्य नित्यतया मृत्युवश्यत्वं नास्तीति मृत्योरबाधकत्वाभिप्रायेण तदुपसेचनत्ववर्णनं नेतव्यम् ।
ननु उपसेचनशब्देनापि साधारणमबाधकत्वमात्रं न लक्षणीयम् , किन्तु स्वयमद्यमानत्वे सति अन्यादनहेतुत्वम् । तत्त्वदनं संहारे इति परब्रह्मपक्ष एव घटते । तेन मृत्योरपि संहार्यत्वात् भूतवर्गसंहारे मृत्योर्द्वारत्वेनान्यसंहारहेतुत्वाच्च , न त्वदनं भोग इति जीवपक्षे ; मृत्योरभोग्यत्वादन्यभोगाहेतुत्वाच्चेति चेत् ; नैष दोषः । प्रथमश्रुतौदनशब्दोपचारनिमित्तस्वारस्यानुरोधेनोपसेचनशब्दे सामान्याकारलक्षकत्वकल्पनस्यादोषत्वात् । तस्मादत्ता जीव इति । अग्निपूर्वपक्षस्तु भाष्ये सम्भवमात्रेणोपन्यस्तः ।
सिद्धान्तस्तु – अत्ता पर एव ; कृत्स्नस्य चराचरस्यौदनतया ग्रहणेनात्तृत्वस्य संहर्तृरूपतावगमात् । न हि कृत्स्नचराचरभोक्तृत्वं कस्यापि जीवस्य सम्भवति । ननु मन्त्रे चराचरग्रहणाभावात् कथञ्चराचरविषयत्वमत्तृत्वस्य ? कथञ्चौदनशब्दलक्षणीयभोग्यप्रतिसम्बन्ध्यत्तृत्वं संहर्तृत्वमिति चेत् ; उच्यते । इह ब्रह्मक्षत्रयोर्मृत्योश्च तावदोदनोपसेचनभावरूपणाद्दध्यन्नरीत्या सम्बन्धः प्रतीयते । तथा च मृत्युमिश्रणप्रतीत्यनुसारेण ब्रह्मक्षत्रशब्दाभ्यां चराचरात्मकं विनाशिवस्तुमात्रं लक्षणीयम् । मृत्यूपसेचनत्वरूपणसन्निधानादेवौदनशब्देनापि विनाश्यत्वं लक्षणीयम् । स्वबुध्युपस्थापनीयविशेषाकाररूपगुणग्रहणादप्येकवाक्यतापन्नपदान्तरार्थोपस्थापितगुणग्रहणस्य बुद्धिलाघवेन एकवाक्यतासामर्थ्येन तस्य च न्याय्यत्वात् । चरमश्रुतेनाप्येकवाक्यान्तर्गतपदार्थान्तरेणानुपस्थापित एवापेक्षिते तस्य पुरुषबुद्ध्या कल्पनीयत्वात् । अत एव हि ‘अक्ताश्शर्करा उपदधाति’ इत्यत्र विधेयस्याञ्जनस्य साधनापेक्षायां ‘तेजो वै घृतम्’ इति वाक्यशेषस्तुतं घृतमेव ग्राह्यम् , न तु पुरुषबुद्धिकल्पनीयं द्रवद्रव्यमात्रमिति पूर्वतन्त्रे निर्णीतम् । एवञ्चोपसेचनत्वरूपणेऽपि स्वयमद्यमानत्वे सति अन्यादनहेतुत्वगुण एव स्वारस्यावगतो निमित्ततया व्यवतिष्ठते ।
ननु तथापि कथं चराचरग्रहणसिद्धिः ? ओदनशब्दस्य गौणत्वावश्यम्भावेन तस्य समभिव्याहृतपदार्थान्तरोपस्थापितगुणलक्षकत्वेऽपि ‘ब्रह्म च क्षत्रञ्च’ इत्यस्य मुख्यार्थवृत्तिसम्भवात् । न च मृत्यूपसेचनकीर्तनात्तदुपसिच्यमानं सर्वं तेन ग्राह्यमित्युक्तं युक्तम् । ‘शूर्पेण जुहोति तेन ह्यन्नं क्रियते’ इत्यत्र शूर्पशब्दस्य वाक्यशेषे अन्नकरणत्वकीर्तनेऽपि यद्यदन्नकरणं तत्र सर्वत्र लक्षणानुपगमात् । ‘तत्र शूर्पमात्रस्याप्यन्नकरणत्वेन स्तुतिस्सम्भवति । अन्नकरणत्वस्य शूर्पे दर्वीपिठरादिषु च व्यासज्यवृत्त्यभावात्’ इति चेत् । इहापि ब्रह्मक्षत्रमात्रस्यापि मृत्युमिश्रणप्रतिपादनं सम्भवतीति तुल्यम् । व्यर्थञ्च चराचरग्रहणोपपादनम् । ओदनशब्दस्य संहार्यत्वलक्षकतोपपादनमात्रेण तत्प्रतिसम्बन्ध्यत्ता संहर्तेति सिद्धौ शब्दवृत्त्यसङ्कोचप्राप्तसर्वकल्पानुयायिसकलब्रह्मक्षत्रजात्यालिङ्गितव्यक्तिसंहारकत्वलिङ्गेनैवात्तुः परमात्मत्वसिद्धेरिति चेत् ।
उच्यते – अत्तृत्वं भोक्तृत्वं संहर्तृत्वमिति पक्षद्वयेप्योदनपदवत् ब्रह्मक्षत्रपदयोरपि लक्षकत्वमवश्यम्भावि । न हि स्त्रीभृत्यादिरूपतया , भक्ष्यतया वा ब्रह्मक्षत्रिययोरेव भोक्ता कश्चिज्जीवोऽस्ति , न वा परमेश्वरस्तदुभयमात्रसंहर्ता , नचाधिकभोक्तृत्वेऽप्यधिकसंहर्तृत्वेऽपि विशिष्य तन्मात्रग्रहणे प्रयोजनमस्ति । यद्येतदुपासनाप्रकरणं स्यात् , तदा अन्तरादित्यविद्यायां विशिष्य लोककामविशेषेशितृत्वश्रवणवत् विशिष्य ब्रह्मक्षत्रसंहर्तृत्ववर्णनमुपासनार्थमिति कल्प्येतापि । न त्वेतदुपासनाप्रकरणम् । तथा च यथा
‘यस्मिन् पञ्च पञ्चजनाः’(बृ.उ.४.४.१७) इत्यत्र विशिष्य पञ्चानां मनुष्याणामाधार इति कीर्तने प्रयोजनं न किञ्चिदस्तीति तल्लक्षणीयाकाङ्क्षायां वाक्यशेषात् प्राणादयस्तल्लक्षणीया इति निश्चीयन्ते , एवं ब्रह्मक्षत्रग्रहणमितरेषामपि केषाञ्चिदुपलक्षणम् , न स्वार्थमात्रनिष्ठमिति उपलक्षणीयाकाङ्क्षायां पश्चात्तनमृत्यूपसेचनकीर्तनात्तदुपसिच्यमानं सर्वमुपलक्षणीयमिति निश्चीयते । किञ्चौदनशब्दस्योक्तयुक्त्या संहार्यत्वलक्षकतास्थितौ यच्छब्दयोगेनानुवादकेऽस्मिन्मन्त्रे संहार्यसमर्पकस्य ‘ब्रह्म च क्षत्रं च’ इत्यस्य
‘सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः’(छा.उ.६.८.४) इत्यादिपुरोवादानुसारेण चराचरात्मकाविनाशिमात्रोपलक्षकत्वमावश्यकम् । न चैतदुपपादनं व्यर्थम् ; जन्मादिसूत्रोक्तलक्षणान्तर्गतसकलजगत्संहर्तृत्वाधिकरणजगत्कारणमायाशबलोपलक्षिते शुद्धब्रह्मणि कठवल्यास्समन्वयस्य स्पष्टीकरणार्थत्वात् । उक्तरूपे ब्रह्मणि वेदान्तानां समन्वयस्य समन्वयसूत्रे सामान्यतः प्रदर्शितस्य विशिष्य तत्तद्वाक्योदाहरणमुखेन प्रसाधनमेव ह्यध्यायशेषस्य मुख्यं प्रयोजनमित्यानन्दमयाधिकरणोपक्रमे वर्णितम् । तत्र यदि सकलब्रह्मक्षत्रसंहर्तृत्वमात्रमिह गृह्यते , तदा तस्य ब्रह्मणोऽन्यत्रासम्भवेन ब्रह्मलिङ्गत्वेऽपि ब्रह्मण एव व्यष्टिसंहारकः तमोगुणोपाधिको रूपविशेष इह अत्ता ; ‘क इत्था वेद यत्र सः’ इति तु तस्य प्रतिष्ठारूपस्सकलप्रपञ्चसृष्टिस्थितिसंहारकारी मायाशबलितः परमेश्वर उच्यते इति शङ्कया तस्य शुद्धब्रह्मणि समन्वयः प्रदिदर्शयिषितः स्पष्टीकृतो न स्यात् । अत एव सूत्रकृताऽपि ‘सर्वग्रहणात्’ इति लघुनि सूत्रे कर्तव्ये वाच्यार्थयोर्ब्रह्मक्षत्रयोस्सामस्त्यमात्रं सर्वशब्देनोच्यत इति शङ्कया जगत्कारणोपलक्षितशुद्धब्रह्मसमन्वयः प्रदिदर्शयिषितः स्पष्टीकृतो न स्यादिति ब्रह्मक्षत्रपदयोर्न्यायप्राप्तचराचरोपलक्षकत्वसूचनेन तस्य स्पष्टीकरणाय ‘चराचरग्रहणात्’ इति सूत्रं कृतम् । अत एव इदमधिकरणमप्यर्थवत् ; जगत्कारणस्य सगुणब्रह्मणोऽपि प्रतिष्ठारूपे शुद्धब्रह्मणि समन्वयप्रदर्शनार्थत्वात् । अन्यथाह्यत्रात्तुर्जीवत्वेऽपि ‘यत्र स’ इति तत्प्रतिष्ठात्वेन वर्ण्यमानं प्रकृतं ब्रह्म भवेदेवेति तस्य परमेश्वरत्वप्रसाधनं व्यर्थमेव स्यात् । तस्मात् समृत्युकस्य कृत्स्नस्य चराचरस्य संहार्यत्वप्रतिपादनात्तत्संहर्तृरूपो ‘यत्र स’ इति शुद्धे प्रतिष्ठितत्वेन वर्ण्यमानोऽत्ता परमेश्वर इति निरवद्यम् ॥१.२.९॥
प्रकरणाच्च ॥१०॥
प्रकरणं तावदिदं परमात्मन एव
‘‘अन्यत्र धर्मात्’(क.उ.१.२.१४) इत्यादितत्प्रश्नोत्तररूपत्वात् , ‘न जायते’ इति मन्त्रगतविपश्चिच्छब्दोक्तविविधदर्शित्वरूपसर्वज्ञत्वलिङ्गात् , ‘तमक्रतुः पश्यति वीतशोकः’ ‘महान्तं विभुमात्मानं मत्वा धीरो न शोचति’ इति तदनन्तराम्नातशोकतरणहेतुसाक्षात्कारविषयत्वापरिच्छिन्नत्वलिङ्गाच्च । तत्र च स्वरूपेणाप्रसक्तानामपि जननमरणहन्तृत्वहन्तव्यत्वानां जीवात्मना प्रसक्तानां निषेधः , स्वरूपेण विपश्चित्वादिगुणकोऽयं जीवात्मनाऽपि न जननमरणहन्तृत्वहन्तव्यत्वभाक् हन्तृत्वाद्यभिमानी परमिति । न हि ‘अन्यत्र धर्मात्’ इति जीवस्पृगेव ब्रह्मविषयः प्रश्नः ; ‘येयं प्रेते’इति प्रकृतजीवविषयप्रश्नस्यैव ‘अन्यत्र धर्मात्’ इत्यनेन जीवस्यासंसारिब्रह्मस्वरूपत्वपर्यन्तं नयनात् । इदं
चानुमानिकाधिकरणे (ब्र.सू.१.४.१)~ स्फुटीभविष्यतीति । तत्र प्रथमप्रश्नक्रोडीकृतस्य देहातिरिक्तजीवास्तित्वस्य प्रदर्शनाय तदसंसारिरूपात्मकब्रह्मप्रश्नोत्तरप्रकरण एव जीवात्मनाऽपि तस्य देहादिगतजननमरणादिस्पर्शित्वं नास्तीति प्रथममुक्त्वा तदनन्तरं द्वितीयप्रश्नक्रोडीकृतमसंसारिब्रह्मरूपं ‘अणोरणीयान्’ इत्यादिना प्रपञ्च्यत इति न काचिदसङ्गतिः । एवञ्च परमात्मप्रकरणात् , ‘क इत्था वेद’ इति प्रकरणावगतदुर्विज्ञानत्वलिङ्गप्रत्यभिज्ञानाच्च ‘यत्र’ इति परामृष्टः शुद्ध इति तत्र प्रतिष्ठितत्वेन वर्ण्यमानोऽत्ता जगत्संहर्ता परमेश्वर इत्यत्र न किञ्चित् बाधकमिति ।
एवमस्मिन् सूत्रे दर्शितं प्रकरणं चकारसमुच्चितं लिङ्गं च बाधकशङ्कानिरासद्वारा अत्तुः परमेश्वरत्वसाधकं न साक्षात्तत्र साधकान्तरम् ; तयोस्तत्प्रतिष्ठान्वयिनोस्तदनन्वयित्वात् । अत एव प्रकरणस्य जीवपरत्वशङ्कानिरासार्थत्वमस्य सूत्रस्य दर्शयितुमेव भाष्ये “प्रकरणमिदं परमात्मनः ‘न जायते म्रियते वा विपश्चित्’ इत्यादि” इति जीवपरत्वशङ्कास्पदं मन्त्रमुपादायैव प्रकरणमुदाहृतम् , अन्यथा तच्छङ्कानास्पदं ‘महान्तं विभुमात्मानम्’ इत्यादिकमुपादायैव तदुदाहरिष्यत । स्पष्टजीवलिङ्गमिदमधिकरणम् ; भोग्यतया प्रसिद्धौदनसम्बन्धेनात्तुभोक्तृतायाः प्रथमं प्रतीतेः । अस्पष्टब्रह्मलिङ्गम् ; प्रथमप्रतीतभोग्यत्वलक्षणापवादेन विनश्यत्वलक्षणां व्युत्पाद्य ब्रह्मलिङ्गस्योन्मेषणीयत्वात् ॥१.२.१०॥
इति अत्त्रधिकरणम् ॥२॥
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥११॥
ननु संख्याश्रवणे सति एकस्मिन् सम्प्रतिपन्ने द्वितीयाकाङ्क्षायां सम्प्रतिपन्नजातिमुपजीव्य विशेषपरिग्रहे बुद्धिलाघवाद्विजातीयपरिग्रहे जातिव्यक्तिबुद्धिद्वयापेक्षागौरवात् सम्प्रतिपन्नसजातीयपरिग्रहो युक्तः । लोकेऽपि ‘अस्य गोर्द्वितीयोऽन्वेष्टव्य’ इत्यादिषु तथा दर्शनादिति ऋतपानलिङ्गावगतस्य जीवस्य द्वितीयश्चेतनत्वेन तत्सजातीयः परमात्मैव ग्राह्यः । न च परतन्त्रत्वादिधर्मान्तरेण तस्य बुद्धिरपि सजातीयेति वाच्यम् । तत्र स्वाभाविकधर्मस्य चेतनत्वस्यान्तरङ्गत्वात् , सुखानुभवितृपरपिबच्छब्दसंसृष्टत्वाच्च । न च मुख्यद्वित्वलाभार्थं विजातीयाऽपि धर्मिसमसत्ताकभेदवती बुद्धिरेव द्वितीया ग्राह्येति वाच्यम् । मुख्यस्य व्यावहारिकद्वित्वस्य तत्समसत्ताकेन व्यावहारिकभेदेनोपपादनसम्भवे धर्मिसमसत्ताकभेदानपेक्षणात् , बुद्धौ तत्सम्भवेऽपि जीवे तदसम्भवेन तस्य बुद्धिजीवगतद्वित्वोपपादकत्वशङ्कानवकाशाच्चेति चेत् । मैवम् । सुकृतलोकवर्तित्वाद्यग्रिमलिङ्गविरोधिना लौकिकन्यायमात्रेण द्वितीयपरिग्रहायोगात् ।
उच्यते – अस्तु नामैवं सुकृतलोकवर्तित्वच्छायातपत्वश्रवणयोर्ब्रह्मणि कथञ्चिदुपपादनम् । गुहाप्रवेशश्रवणस्य तु तत्रोपपादनं न सम्भवत्येव ; सर्वगतस्य तस्य गुहावृत्तित्वेऽपि तत्प्रवेशासम्भवात् । ‘अग्रिममन्त्रेषु ब्रह्मणस्तत्प्रवेशश्श्रूयते’ इति चेत् । अत्यल्पमिदमुच्यते ।
‘तत् सृष्ट्वा तदेवानुप्राविशत्’(तै.उ.२.६.१) ‘अन्तःप्रविष्टश्शस्ता जनानाम्’ इत्यादिश्रुतिषु तस्य सर्वत्रापि प्रवेशश्श्रूयत एव , स सर्वोऽपि जीवभावाभिप्रायेण नेतव्यः । श्रुतो हि तस्य जीवभावेनानुप्रवेशो
‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी’(छा.उ.६.३.२) इति । ‘इहापि तथैवास्तु’ इति चेत् । न । इह ‘गुहां प्रविष्टौ’ इति जीववत् तद्द्वितीयस्यापि पृथक् प्रवेशश्रवणात् , जीवभावेनानुप्रवेशमात्रमभिप्रेत्य उभयोः प्रवेशवर्णनस्यानुपपन्नत्वात् । न हि जीवभावेन संसारित्वमभिप्रेत्य ‘ब्रह्मैव संसारि’ इति निर्देशवत् ‘जीवब्रह्मणी संसरतः’ इत्यपि निर्देशस्सङ्गच्छते । तस्मात् गुहाप्रवेशलिङ्गविरोधान्न ब्रह्म जीवद्वितीयतया ग्राह्यम् , किन्त्वन्तःकरणमेवेति जीव एवास्मिन्मन्त्रेऽन्तःकरणविविक्ततया प्रतिपाद्यः । न च पूर्वाधिकरणेनात्तृमन्त्रस्य परमात्मप्रधानत्वनिर्णयात्तदनन्तरपठितस्यापि मन्त्रस्य प्रकरणेन तत्प्रधानत्वं युक्तम् , न जीवप्रधानत्वमिति शङ्क्यम् ; तस्य लिङ्गप्रत्यभिज्ञानुगृहीतप्रकरणबलेन परमात्मपरत्वेऽप्यत्र केवलप्रकरणस्य लिङ्गेन बाधोपपत्तेः । न चात्रापि ‘ब्रह्मविदो वदन्ति’ इति ब्रह्मविद्वचनविषयत्वलिङ्गानुग्रहः प्रकरणस्यास्तीति शङ्कनीयम् ; ‘पञ्चाग्नयो ये च त्रिणाचिकेताः’ इत्यपि श्रवणात् । न हि पञ्चाग्नयो नाचिकेताद्यग्निचितश्च कर्मठास्संसारिजीवविविक्तमसंसार्यात्मकस्वरूपं वदन्ति ; तदवगमस्य कर्मानुष्ठानविरोधित्वात् , किन्तु देहान्तरभोग्यफलानि कर्माण्यनुष्ठातुं स्थूलसूक्ष्मदेहविविक्तं जीवस्वरूपं शास्त्रादवगम्य वदन्ति । अतस्तदनुसारेणैव ‘ब्रह्मविदो वदन्ति’ इत्येतदपि नेतव्यम् । ब्रह्मविदोऽपि हि जीवस्य ब्रह्मैक्यबोधनाय देहद्वयविविक्तं वदन्ति । तस्मात् बुद्धिजीवावेव मन्त्रेण निर्दिष्टाविति ।
एवं प्राप्तेऽभिधीयते – सन्ति तावदुपरितनेषु मन्त्रेषु ब्रह्मणो गुहाप्रवेशश्रवणानि । न च तानि जीवभावाभिप्रायेण नेतव्यानि ; जीवस्यापि ब्रह्माभिन्नस्य स्वतोऽपरिच्छिन्नत्वेन तत्रापि प्रवेशानुपपत्तेस्तुल्यत्वात् ।
ननु जीवस्स्वोपाध्यन्तःकरणान्तर्गत इति तदुपाधिकस्तस्य प्रवेशस्सम्भवतीति चेत् – तर्हि परोऽपि स्वनियम्यन्तःकरणान्तर्गत इति तस्यापि तदुपाधिकप्रवेशसम्भवाद्व्यर्थं जीवद्वाराश्रयणम् । तस्मादग्रे ब्रह्मणो भूयसा गुहाप्रवेशवर्णनदर्शनादिहापि तथैवोपपद्यत इति तस्याबाधकत्वादृतपानलिङ्गावगतस्य द्वितीयस्तत्सजातीयः पर एव ग्राह्यः । ‘अस्य गोर्द्वितीयोऽन्वेष्टव्यः’ इत्यादिषु सजातीयग्रहणदर्शनादिति जीवपरावेव मन्त्रनिर्दिष्टौ । तत्रैव च सर्वाणि विशेषणानि समञ्जसानि ।
तथा हि – ‘ऋतं पिबन्तौ’ इति तावद्विनैव लक्षणां जीवपरयोस्सङ्गच्छते ; ऋतपाने साक्षात्कर्तरि जीव इवान्तर्यामितया तत्र हेतुकर्तरि परमात्मन्यपि शतुः कर्तृत्वसामान्यवाचकस्य मुख्यवृत्तिसत्त्वात् । बुद्धिजीवयोस्तु लक्षणां विना न सङ्गच्चते ; बुद्ध्यंशे ऋतपानकरणे तत्कर्तृत्वाभावात् । एवं जीवस्य ऋतपाने नियामकत्वेनोक्तस्य परस्य नियम्यनेदिष्ठत्वनिर्वाहाय सुकृतलोकवर्तिगुहाप्रवेशवर्णनमपि सङ्गच्चते । प्रत्युत बुद्धिजीवौ गुहां प्रविष्टाविति पक्ष एव स्वतः प्रवेशवत्या बुद्ध्या सह तदुपाधिकप्रवेशस्य जीवस्य प्रवेशवर्णनं न सङ्गच्छते । न ह्युपष्टम्भकोपाधिकगुरुत्वशालिनि सुवर्णे ‘गुरु सुवर्णम्’ इति व्यवहारवत् ‘उपष्टम्भकसुवर्णे गुरुणी’ इत्यपि व्यवहारस्सङ्गच्छते । छायातपत्वनिर्देशोऽपि जीवपरयोरेव श्लिष्यते । समाने चेतनत्वे कथमृतपानादिषु जीवस्य पारतन्त्र्यं परस्य स्वातन्त्र्यं चेति शङ्कानिवर्तनाय तयोरज्ञानतमोऽभिभवतदभावरूपविशेषप्रदर्शनार्थत्वात् । ‘ब्रह्मविदः’ इति तु श्लिष्यत एव । एवञ्च ‘पञ्चाग्नयः’ इत्यादि तेषामेव विशेषणम् । ये प्राक् पञ्चाग्निशुश्रूषया ये वा नाचिकेतादिचयनैरन्तःकरणशुद्धिं प्राप्तास्तथाभूता एव पश्चाल्लब्धब्रह्मविद्याः इत्थं वदन्तीत्यर्थः ।
सूत्रे गुहां प्रविष्टौ जीवपराविति साध्यमध्याहार्यम् । तत्र हेतुः ‘आत्मानौ हि’ इति । यस्मादृतपानेन लिङ्गेन एकस्य चेतनत्वनिश्चयात्तस्य द्वितीयोऽपि चेतन इत्येवमुभावपि चेतनावित्यर्थः । ‘तद्दर्शनात्’ इति हेतूपपादको हेतुः । ‘अस्य गोः’ इत्यादिषु द्वितीयस्य गृहीतसाजात्यनियमदर्शनादित्यर्थः । ‘तद्दर्शनात्’ इत्यस्य परमात्मनो गुहाप्रवेशदर्शनादिति व्याख्यानान्तरमपि प्राक्प्रदर्शितया रीत्या बाधकोद्धारप्रयोजनकं भाष्ये दर्शितम् । तत्र तच्छब्देन गुहाप्रवेशपरामर्शसिद्धये , गुहाप्रवेश एव परस्य यत्नसाध्य इति सूचनाय च सूत्रे ‘गुहां प्रविष्टौ’ इति धर्मिनिर्देशः कृतः , अन्यथा प्राथम्यात् ‘ऋतं पिबन्तौ’ इत्येव स कार्यस्स्यात् । न चैवमपि तच्छब्दस्य साजात्यनियमदर्शनादिति पूर्वव्याख्याने प्रकृतपरामर्शित्वसिद्धिर्नास्तीति शङ्क्यम् । गुहाप्रवेशपरामर्शिनस्तच्छब्दस्य साजात्यनियमपरशब्दस्य च ‘त्यदादीनि सर्वैर्नित्यम्’(पा.सू.१.२.७२) इत्येकशेषकल्पनोपपत्तेः । न च गुहाप्रवेशस्यापि निष्ठार्थोपसर्जनस्य सर्वनाम्ना परामर्शो न युज्यत इति वाच्यम् । ‘सर्वनाम्नाऽनुसन्धिः वृत्तिच्छन्नस्य’(वा.सू.५.१.११) इति वामनसूत्रे कृत्तद्धितादिवृत्तिन्यग्भूतस्यापि सर्वनाम्ना परामर्शस्याङ्गीकृतत्वात् ॥१.२.११ ॥
स्यादेतत् – यद्यपि जीवपरयोर्गुहाप्रवेशवर्णनमुपपद्यते , यद्यपि च बुद्धिजीवयोरेव तत् क्लिष्टम् , तथाऽपि तयोरेवेह गुहाप्रवेशवर्णनमित्याकाङ्क्षानुरोधेनाङ्गीकर्तुं युक्तम् । तथा हि –
‘‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च’(क.उ.१.३.३) इत्याद्युपरितनमन्त्रवाक्यैर्जीवशरीरबुद्ध्यादीनां रथिरथसारथ्यादिभावं कल्पयित्वा अन्ते
‘‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’(क.उ.१.३.९) इत्यनेन रथसारथ्यादिमज्जीवप्राप्यमध्वनस्सर्वस्यापि पारभूतं परं ब्रह्मेति वर्णितम् । तत्र रथिसारथिरूपेण कल्पितयोर्जीवबुध्योरेव शरीराख्यरथप्रवेशोऽपेक्ष्यते , न तु प्राप्तृप्राप्ययोर्जीवपरयोः ; प्राप्यस्य रथ एव स्थितत्वे तत्प्राप्त्यर्थं रथसारथिहयप्रग्रहाद्यनपेक्षणात् । तस्माद्रथिसारथ्योरपेक्षितस्य रथस्थत्वस्य सिद्ध्यर्थं रथिसारथिरूपयोर्जीवबुद्ध्योरेव शरीररथप्रवेशविशेषरूपगुहाप्रवेशवर्णनमित्याशङ्क्याह –
विशेषणाच्च ॥१२॥
अपि च देवदत्तयज्ञदत्तयोर्भूयस्सहभावमनुभूतवतः ‘खलतिरन्यश्च कश्चित् द्वौ गृहं प्रविष्टौ’ इति वाक्यश्रवणानन्तरं खलतित्वेन लिङ्गेन तयोरेको देवदत्त इति निश्चये सति द्वितीयस्तद्भूयस्सहचरितो यज्ञदत्त इत्येव निर्णयो जायते । तथेहापि पूर्वापरमन्त्रेषु मन्तृमन्तव्यत्वेन , प्राप्तृप्राप्तव्यत्वेन च जीवपरयोर्बहुधा विशेषितत्वात् तेषु तयोर्भूयस्सम्बन्धमनुभूतवतोऽस्मिन्मन्त्रे ऋतपानलिङ्गावगतजीवद्वितीयः पर इत्येव निर्णयो भवितुमर्हति । तस्मादस्मिन्मन्त्रे निर्दिष्टौ जीवपरावेव ।
सूत्रे ‘विशेषणात्’ इत्यस्य जीवपरयोर्बहुशः परस्परसम्बन्धित्वेन विशेषणादिति द्वितीयार्थ एव भाष्ये कण्ठत उक्तः । प्राप्तस्य ‘अत्रैव’ इति विशेषितत्वादिति प्रथमार्थस्तु ‘सोऽध्वनः पारमाप्नोति’ इति मन्त्रोदाहरणेनैवोन्नेतव्य इति कण्ठतो नोक्तः । चकारः प्रकरणस्य ‘ब्रह्मविदो वदन्ति’ इति वक्तृविशेषोपादानस्य च समुच्चयार्थः ॥१.२.१२॥
इति गुहाऽधिकरणम् ।३।
अन्तर उपपत्तेः ।१३।
छान्दोग्ये श्रूयते
‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच एतदमृतमभयमेतत् ब्रह्मेति । तद्यद्यप्यस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’(छा.उ.४.१५.१) इत्यादि । किमयमक्ष्याधारश्छायापुरुषः , परमात्मा वेति संशये च्छायापुरुष इति पूर्वःपक्षः ; ‘एष’ इति प्रसिद्धवन्निर्देशात् , ‘दृश्यते’ इत्यपरोक्षत्वाभिधानाच्च । न च यथा अन्तरादित्यवाक्ये अन्तरक्षिवाक्ये च तदुभयसत्त्वेऽपि परमात्मा प्रतिपाद्यः , तथेहापि स्यादिति वाच्यम् । न हि तत्र छायापुरुष इति पूर्वःपक्षः । आदित्ये प्रतिबिम्बादर्शनेनान्तरादित्यवाक्ये तथा पूर्वपक्षासम्भवात् । तत्र च परमात्मनीव न लौकिकी प्रसिद्धिः । नाप्यपरोक्षत्वमिति युक्तस्तत्र परमात्मेति निर्णयः । इह च त्वक्षिवाक्ये छायापुरुष इत्येव पूर्वपक्षः । भाष्ये तु सम्भवमात्रेणात्त्रधिकरणे अग्निपूर्वपक्षवदिह जीवदेवतापूर्वपक्षयोरुपन्यासः । अतो युक्तं तदुभयालम्बनेन प्रत्यवस्थानम् । तथाप्यमृतत्वाभयत्वादिपरमात्मलिङ्गैस्तदुभयबाधस्स्यात् इति चेत् । न । पूर्वाधिकरणन्यायात् प्रथमावगतानुसारेण तेषामेवान्यथानेयत्वात् ।
नन्वन्तरादित्यवाक्ये सर्वपापोदयलिङ्गवदिह
‘एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येवैनं वामान्यभिसंयन्ति य एवं वेद’(छा.उ.४.१५.२) इत्यादिना प्रदर्शितानि संयद्वामत्वादिब्रह्मलिङ्गानि चरमश्रुतान्यपि प्रयोजनवत्वात् बलवन्ति । तथा गायत्रीवाक्ये भूतादिपादव्यपदेशप्रभृतिवदात्मब्रह्मश्रुत्यमृतत्वाभयत्वसंयद्वामत्ववामनीत्वलिङ्गानि बाहुल्यादपि बलवन्ति । अतस्तैरेव प्रथमावगतयोरपि प्रसिद्धदृश्यत्वलिङ्गयोरन्यथानयनं युक्तमिति चेत् । सत्यम् । स्यादेव एवं यद्यात्मश्रुत्यादयस्स्वार्थनिष्ठास्स्युः , न चेह तथा । आत्मब्रह्मश्रुत्योस्संयद्वामत्वगुणश्रवणस्य चेतिशब्दशिरस्कत्वेन ‘मनो ब्रह्म’ इत्यादिवदतस्मिंस्तद्रूपप्रत्ययपरत्वावगमात् , तदनुरोधेनामृतत्वादिश्रवणानामपि तन्मात्रपरत्वनिर्णयात् । नन्वेवमेषां प्रत्ययमात्रपरत्वेऽपि संयद्वामत्वाद्यनुरूपफलश्रवणानि न तथाऽभ्युपेयानि । रात्रिसत्रन्यायेनोपासनायामार्थवादिकफलान्वयावश्यंभावात् । तानि कथं छायात्मोपासनायां स्युरिति चेत् । वचनबलाद्वैवाहिकवरवधूदर्शनेनाभ्युदयवदिति ब्रूमः ।
एतेन – पुष्करपलाशवाक्यावगतफलस्य
‘अर्चिषमभिसम्भवन्ति’(छा.उ.४.१५.५) इत्यादिवाक्यावगतफलस्य चानुपपत्तिरपि निरस्ता । न चाब्रह्मविदामर्चिरादिमार्गो नास्तीति नियमः । अब्रह्मविदामेव पञ्चाग्निविद्योपासकानां सिद्धान्तेऽपि ‘तद्य इत्थं विदुः’ इति वचनबलेन तदभ्युपगमात् । ननु तथाऽप्युपक्रम एव चेतनाभिधायिपुरुषशब्दश्रवणाच्छायात्मेति न युक्तमिति चेत् । न । ततोऽपि प्रथमश्रुतेन हि ‘य एष’ इति प्रसिद्धलिङ्गेन तस्यापि बाधात् । एकस्मिन्नपि ‘चतुरो मुष्टीन्निर्वपति’ इति वाक्ये प्रथमश्रुतेसंख्याऽनुरोधेन सप्तदशशरावे मुष्टिबाधाङ्गीकारात् ।
ननु ‘य एष’ इत्येतदपि ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति ब्रह्मप्रकरणानुसारेण ज्योतिर्वाक्यगतयत्पदवत् ब्रह्मपरं स्यादिति चेत् । न । तस्य ‘मनो ब्रह्म’ इत्यादिसारूप्येण ब्रह्मदृष्टिविधिपरतया ब्रह्मप्रकरणसिद्धेः । तत्सत्वेऽपि ‘प्राणो ब्रह्म’ इत्याद्यग्निवाक्यम् , ‘य एषोऽक्षणि’ इत्याचार्यवाक्यमिति वक्तृभेदेन
‘अथ हैनं गार्हपत्योऽनुशशास’(छा.उ.४.११.१) इत्यादिवाक्यप्रतिपादिताग्निविद्याव्यवधानेन च तद्विच्छेदात् । न च
‘आचार्यस्तु ते गतिं वक्ता’(छा.उ.४.१४.१) इति गत्यभिधानपरिशेषश्रवणादग्निवक्तृकं ब्रह्मप्रकरणं वक्तृभेदेऽपि व्यवधानेऽपि न विच्छिन्नमिति वाच्यम् । तावता अर्चिरादिगत्यभिधानस्य तत्राप्यन्वयलाभेऽपि स्थानगुणयोराचार्यवक्तव्यत्वेनापरिशेषिततया ‘य एषोऽक्षणि’ इत्यादेः प्रकृतेः ब्रह्मण्यक्षिस्थानसंयद्वामत्वादिगुणविधायकत्वेनान्वयालाभात् । तस्मादक्ष्याधारः छायापुरुष इति ।
राद्धान्तस्तु – इतिशब्दस्तत्रैवार्थविवक्षां वारयति यत्र प्रत्ययो विवक्ष्यते । यत्र तु उक्तार्थावच्छेदेन वचनसम्बन्धस्तत्र स न तां वारयति । यथा ‘इति हस्म उपाध्यायः कथयति’ इति , इह पुनः ‘इति होवाच’ इति वचनसम्बन्धस्स्पष्टः । ‘एतत् ब्रह्म’ इत्यत्रापि प्रकृत एव वचनसम्बन्धोऽनुवर्तते । अतोऽर्थविवक्षाबाधकाभावेन स्वार्थनिष्ठब्रहात्मश्रुत्यमृतत्वादिलिङ्गैर्बहुभिस्सप्रयोजनैश्चातथाभूतयोः प्रसिद्धिदृश्यत्वलिङ्गयोश्शास्त्रीयप्रसिद्धिशास्त्रदृष्टिरूपतया नयनं युक्तमित्यक्ष्याधारः परमात्मैव । किञ्च ‘चतुरो मुष्टीन् निर्वपति’ इत्यत्र चतुर्शब्दस्य संख्याविशेषाभिधानेन पर्यवसितस्य प्रथमश्रुतत्वेन प्राबल्येऽप्यत्र ‘य एष’ इति सर्वनाम्नोः प्रकृताभावेन पुरुषपदान्वयात् प्रागपर्यवसिताभिधानयोस्ततः प्राबल्याभावेन तात्पर्यवसानापेक्षितपुरुषपदसमर्पितचेतनत्वलिङ्गादप्यक्ष्याधारः परमात्मा । अपि च ‘तद्यद्यप्यस्मिन्’ इत्यादौ स्थानिमहिम्ना स्थानस्य निर्लेपत्वप्रतिपादनं स्थानिनश्श्रुत्यन्तरप्रसिद्धनिर्लेपभावपरमात्मत्वे सत्येवोपपद्यते इत्यतोऽप्ययं परमात्मा ।
यस्तु काचपटलादिभिस्सलेपेऽक्षणि स्थानिमाहात्म्यायत्तसर्पिरादिलेपराहित्योक्तिस्स्तुतिमात्रमिति न ततस्स्थानिनो निर्लेपत्वसिद्धिरिति विचिकित्सते , स इत्थं प्रतिबोधनीयः – तथाऽपि तथाभूतस्तुतिद्वारा श्रुत्यन्तरेषु निर्लेपत्वेन प्रसिद्धस्य परमात्मन एव स्थानितया ग्रहणं प्राप्नोति । यथा ‘द्वयोः प्रणयन्ति तस्माद्द्वाभ्यामेति’ इत्यत्र प्रणयनवतोर्द्वयोः पर्वणोर्महिम्ना चातुर्मास्याख्यो यज्ञ एति गच्छतीति हेतुहेतुमद्भाववर्णनस्य स्तुतिमात्रत्वेऽपि स्तुतिनिर्वाहकतया ‘ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासास्साकमेधाश्च’ इत्यर्थवादान्तरे ऊरुसंस्तुतयोर्वरुणप्रघाससाकमेघपर्वणोरेव ग्रहणमिति ।
सूत्रे ‘उपपत्तेः’ इत्यनेनात्मश्रुत्याद्युपपत्तिः , पुरुषशब्दसमर्पितचेतनत्वोपपत्तिः , स्थानिमाहात्म्यायत्तस्थानानिर्लेपत्वोपपत्तिश्च संगृहीता ॥१.२.१३॥
ननु स्थानिनः स्थानं महत् दृष्टं यथा यदोभ्यस्समुद्रः । तत्कथमत्यल्पमक्षिपरमात्मनस्स्थानमित्याशङ्क्याह –
स्थानादिव्यपदेशाच्च ॥१४॥
नास्याक्ष्येकमेव स्थानमनुचितं निर्दिष्टम् , किन्तर्हि ? अनामरूपस्यास्य नामरूपमपि निर्दिष्टं दृश्यते ‘तस्योदिति नाम हिरण्यश्मश्रुः’ इत्यादिषु , ततश्च तद्वदिदमपि स्थानविशेषकीर्तनमुपासनार्थं न विरुध्यते । यद्यपि‘अर्भकौकस्त्व’ सूत्रेण शंकेयं समाहिता , तथाऽपि दृष्टान्तमुखेनापि बुद्धिसामान्यमुपपादयितुमिदं सूत्रम् ॥१.२.१४ ॥
एवं प्रकरणं नास्तीत्यङ्गीकृत्य हेत्वन्तरमुक्तम् । अथ प्रकरणेन ब्रह्मत्वमुपपादयितुं सूत्रम् –
सुखविशिष्टाभिधानादेव च ॥१५॥
तस्मात्तद्वाक्यं पूर्ववाक्ये कखशब्दोक्तयोरन्योन्यविशेषणविशेष्यभावप्रदर्शनेन वैषयिकसुख भूताकाशरूपतां व्यवच्छिद्यापरिच्छिन्नसुखरूपत्वसुखात्मकापरिच्छिन्नत्वस्वरूपलक्षणोपास्यब्रह्मविशेषणद्वयरूपतां विवेक्तुं प्रवृत्तमिति तदनुरोध्येव ‘कं ब्रह्म खं ब्रह्म’ इति पूर्ववाक्यस्याप्यर्थो ग्राह्यः , न तु दृष्टिविधिरूपः । तत्र ‘कं खं ब्रह्म’ इत्येवोच्यमाने सुखात्मकत्वोपलक्षितापरिच्छिन्नत्वगुणस्य उपास्यत्वलाभेऽपि अन्योन्यविशेषितयोरुभयोरप्युपास्यगुणत्वमभिमतं न सिध्येदिति प्रत्येकं ब्रह्मशब्दः । ‘प्राणो ब्रह्म्’ इत्यत्र तु ब्रह्मशब्दः कार्यब्रह्मविद्यामग्निविद्याद्विधित्सितसगुणब्रह्मविद्याङ्गभूतां विधातुम् । अत एव ‘प्राणञ्च हास्मै’ इति निगमनवाक्ये प्राणस्य , सुखाकाशात्मकब्रह्मणश्च पृथग्ग्रहणमप्युपपद्यते । तत्र तदाकाशशब्द उपक्रमानुरोधेन उक्तरूपब्रह्मपरः ।
एवं दृष्टिविधिपरत्वशङ्कानिरासमपि गर्भीकर्तुं ‘सुखविशिष्टाभिधानात्’ इति गुरु सूत्रं कृतम् । अन्यथा प्रकृतस्य ब्रह्मणो ‘य एषोऽक्षणि’ इत्यत्राभिधानादित्येतावन्मात्रविवक्षायां लाघवार्थं ‘प्रकृताभिधानात्’ इति वा अत्त्रधिकरणद्युभ्वाद्यधिकरणयोरिव ‘प्रकरणात्’ इति वा सूत्रयेत् । दृष्टिविधिपरत्वशङ्कानिरासार्थत्वेन योजनायां सूत्रस्यायमर्थः – ‘कं ब्रह्म’ इति वाक्यनिर्दिष्टः परमात्मा , न तु ब्रह्मदृष्टिविशिष्टं वैषयिकसुखम् । सुखविशिष्टाभिधानादेव – सुखेषु यत् विशिष्टमनवच्छिन्नसुखं तस्य शब्देनाभिधानादित्यर्थः । तथा ‘खं ब्रह्म’ इति वाक्यनिर्दिष्टश्च परमात्मा , न तु ब्रह्मदृष्टिविशिष्टो भूताकाशः । सुखविशिष्टाभिधानादेव – शोभनं सुखात्मकं यत् खं , तस्य खशब्देनाभिधानादित्यर्थः । न च उभयत्रापि हेत्वसिद्धिः । ‘कं ब्रह्म’ इत्यत्र कशब्दस्य ‘यद्वाव कं तदेव खम्’ इति विवरणवाक्यानुसारेण स्वशब्दोक्तानावच्छिन्नत्वविशेषितसुखफलत्वात् । ‘खं ब्रह्म’ इत्यत्र खशब्दस्य ‘यदेव खं तदेव कम्’ इति विवरणवाक्यानुसारेण कशब्दोक्तसुखविशेषितानवच्छिन्नखरूपत्वात् । एवं प्रकरणासिद्धिशङ्कापरिहारार्थत्वेन योजनान्तरे सत्येवावधारणचकारयोरप्यर्थवत्ता ॥१.२.१५ ॥
नन्वत्र प्राक् प्रकृतं ब्रह्म । तथाऽपि वक्तृभेदेनाग्निविद्याव्यवधानेन च तत्प्रकरणं विच्छिन्नमिति न प्रकरणादक्ष्याधारस्य ब्रह्मत्वसिद्धिरित्याशङ्क्याह –
श्रुतोपनिषत्कगत्यभिधानाच्च ॥१६॥
श्रुता – अग्नीनामुपदेशेन लब्धा उपनिषत् – रहस्यविज्ञानरूपा सुखाकाशात्मकब्रह्मोपासना येनोपकोसलेन तस्य तदुपासनया प्राप्या या गतिरग्निभिर्वक्तव्याऽप्यग्निभिरेव ‘आचार्यस्तु ते गतिं वक्ता’ इत्याचार्येण वक्तव्यतयाऽवशेषिता , तस्याः प्रोषितप्रत्यागतेनाचार्येणाभिधानादाचार्यवाक्यं न स्वातन्त्र्येण किञ्चिदुपदेशार्थं प्रवृत्तम् । किं त्वग्न्युपदिष्टावशेषितपूरणार्थमेव प्रवृत्तमित्यवसीयते । अतस्तत्प्रकरणानुवृत्तौ न विवादः ; एवंविधस्थले वक्तृभेदस्य विद्यान्तरव्यवधानस्य च प्रकरणाविच्छेदकत्वात् , वस्तुतोऽग्निविद्यानां प्रकृतब्रह्मविद्याङ्गत्वेन तद्व्यवधायकत्वाशङ्कानास्पदत्वाच्च ।
नन्वेतावता सत्यकामोपदिष्टा देवयानगतिरग्न्युपदिष्टायां सुखाकाशब्रह्मविद्यायामप्यन्वेतीति सिद्ध्यति , न त्वक्षिपुरुषोऽपि सुखाकाशात्मकं ब्रह्मेति सिद्ध्यति ; अग्निभिर्गतिमात्रस्य , आचार्येण वक्तव्यतयाऽवशेषितत्वात् , सुखाकाशब्रह्मणः स्थानस्य गुणजातस्य च वक्तव्यत्वेनावशेषितत्वात् , तथाऽपि सर्वनाम्नः प्रकृतपरामर्शित्वस्वाभाव्यादक्षिस्थपुरुषः प्रकृतं ब्रह्म भवेदिति चेत् । न । अत्रैव गार्हपत्यादिविद्यासु ‘य एष’ इति पदानां प्रकृतब्रह्मपरामर्शित्वाभावदर्शनात् ।
ननु ‘एषा सोम्य ते अस्मद्विद्या चात्मविद्याच’ इत्यग्निभिः स्वविद्यानामात्मविद्यायाश्च भेदेन कीर्तितत्वात् तत्र सर्वनाम्नां प्रकृतपरत्वं त्यक्तव्यमासीदिति चेत् । तर्ह्यत्रापि गतिमात्रस्यावशेषितत्वात् तस्य प्रकृतपरत्वं त्यक्तव्यमिति समानम् । यदि ह्यग्निभिः ‘एषा सोम्य’ इत्यादिना स्वविद्यामात्मविद्याञ्च निरपेक्षमुपदिष्टतया उपसंहृत्याचार्येण उपदेष्टव्यतया गतिमात्रेऽवशेषितेऽप्याचार्योऽग्न्युपदिष्टस्य ब्रह्मणोऽक्षिस्थानं संयद्वामत्वादिगुणजातं चोपदेष्टव्यमालोच्योपदिशेत् , तदा अग्नयो वितथवादिनोऽनभिज्ञा वा स्युः । तस्मादक्षिपुरुषविद्याऽप्यग्निविद्यावत् सुखाकाशब्रह्मविद्यातो भिन्नैवेति युक्तम् ; पात्नीवताधिकरणन्यायात् ।
एवं हि तत् – ‘त्वाष्ट्रं पात्नीवतमालभेत’ इति प्रकृत्य , ‘पर्याग्निकृतं पात्नीवतमुत्सृजति आज्येन शेषं संस्थापयति’ इति श्रूयते । तत्र किं ‘आज्येन शेषम्’ इत्यनेन पात्नीवतयाग एव पशोरुत्सृष्टस्य स्थाने प्रतिनिधित्वेन आज्यं विधीयते , कर्मान्तरं वेति संशयः । तत्र पात्नीवतयागस्य पशुनोपक्रमेऽपि पशोः पर्यग्निकृतावस्थायां वचनबलेन त्यक्तत्वात् द्रव्यसाकाङ्क्षस्य तस्य आज्येन शेषसमापनं विधीयते न कर्मान्तरम् । देवताऽभावात् , शेषसंस्थाशब्दानुपपत्तेश्चेति पूर्वः पक्षः ।
पात्नीवतयागस्य मुख्येन पशुद्रव्येण निर्वृत्तस्य प्रतिनिधेरनपेक्षितत्वात्कर्मान्तरविधिरिति सिद्धान्तः । तथाहि – यदि पशोस्त्यागमात्रं क्रियते , तदा तस्य देवतासम्बन्धो नानुष्ठितस्स्यात् । तथा सति ‘त्वाष्ट्रं पात्नीवतम्’ इति श्रुतस्तस्य देवतासम्बन्धविधिरप्रमाणं स्यात् । असति च देवतासम्बन्धे यागो न सिध्येत् ; द्रव्यदेवतासम्बन्धस्य यागानुमापकस्याभावात् । प्रत्यक्षयजेश्चाश्रवणात् । असति यागे कस्य शेषसमापनं विधीयेत । तस्मात् ‘पर्यग्निकृतं पात्नीवतमुत्सृजति’ इति पशोः पर्यग्निकृतावस्थायां न त्यागविधिः ; किन्तु परस्वदधिकरणन्यायेन पर्यग्निकरणान्ताङ्गरीतिविधानमिदम् । ततश्च तयैव निराकांक्षस्य पात्नीवतयागस्य समाप्तत्वात् न शेषमस्ति यस्याज्येन संस्थानमुच्येत । तस्मात् ‘आज्येन शेषम्’ इत्याज्यद्रव्यकयागान्तरविधिः । तत्र देवता प्रकृतपात्नीवतपदानुषङ्गेण लम्भनीया । शेषसंस्थाशब्दौ च सादृश्येनोपपादनीयौ । पशुयागो हि पर्यग्निकरणान्ततया देवतोद्देशेन मानसपशुत्यागवानपि हविःप्रक्षेपाद्यभावात् सशेष इव । आज्ययागस्तद्देवत्य एव हविःप्रक्षेपादिमान् तस्य शेष इव च भवतीति । एवं शेषसंस्थाशब्दसद्भावेऽपि पूर्वयागस्य निरपेक्षत्वात् कथञ्चिद्देवतालाभेन यदि कर्मान्तरविधिः , तदा किमु वक्तव्यमिह कर्मान्तरविधिरिति ।
नन्विहाक्षिपुरुषोपन्यासानन्तरं देवयानगतिः न सुखाकाशब्रह्मवित्प्राप्यत्वेन न वा ताटस्थ्येन कीर्तिता , किन्तु ‘य एवं वेद’ इत्यक्षिपुरुषविदमुपक्षिप्य ‘अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति’ इत्यादिना तत्प्राप्यत्वेन कीर्तिता । तथा च सुखाकाशब्रह्मवित्प्राप्यत्वेन आचार्येण वक्ष्यमाणतया प्रागग्निभिर्वर्णिताया गतेरक्षिपुरुषवित्प्राप्यत्वेन आचार्येणोपपादितत्वादक्षिपुरुषस्सुखाकाशब्रह्मैवेति निश्चीयत इति चेत् । मैवं । आचार्यो विद्यान्तरमुपदेक्ष्यति , तदन्वयितया च देवयानगतिमुपदेक्ष्यतीत्येतदग्नयो निश्चित्य तत्सर्वमनुद्घाट्य यां गतिमाचार्य उपदेक्ष्यति सा सुखाकाशब्रह्मविदोपीत्यभिप्रायेण ‘आचार्यस्तु ते गतिं वक्ता’ इत्यग्नयोऽवो चन्नित्युपपादनोपपत्तौ तन्मात्रमवलम्ब्य निरपेक्षतयोपसंहृतायाः प्रकृतब्रह्मविद्यायाः पुनस्स्थानगुणविध्यङ्गीकारायोगात् । तस्मात् देवयानगत्यभिधानस्य प्रागुक्तब्रह्मविद्यार्थत्वायोगात् तदभिधानेन तत्प्रकरणाविच्छेदोक्तिरयुक्तेति चेत् –
अत्र ब्रूमः – ‘आचार्यस्तु ते गतिं वक्ता’ इत्यत्र गतिशब्द: करणव्युत्पत्त्या देवयानमार्गपरो न भवति , किन्तु कर्मव्युत्पत्त्या प्रकृतब्रह्मविद्याफलपरः । प्रथमं फल एवाकाङ्क्षोदयाल्लोकान्तरभोग्यफलनिर्देशानन्तरमेव तत्प्राप्त्युपायमार्गाकाङ्क्षोदयौचित्यात् । न च प्राक् ब्रह्मविद्यायाः फलं निर्दिष्टम् । तदङ्गभूतानामग्निविद्यानामेव हि परं ‘लोकीभवति’ इत्यादिना फलमर्थवादेन वर्णितम् । अत एवाचार्यो
‘लोकान्वाव किल सोम्य तेऽवोचन् अहं तु ते तद्वक्ष्यामि’(छा. ४. १४. ३) इत्यग्नयः स्वस्वविद्याफलभूतानग्निलोकादीनेवावोचन् , न तु ब्रह्मविद्याया महत् फलम् , तदहं वक्ष्यामीति प्रतिजज्ञे । तस्मात् ततःप्रभृति यद्यावदाचार्यवाक्यं
‘इमं मानवमावर्तं नावर्तन्ते’(छा. ४. १५. ६) इत्येतत्पर्यन्तं तत्सर्वमग्न्यवशेषितफलरूपगत्यभिधानमेव ।
एवं सर्वमिदमाचार्यवाक्यं सोपपादकफलवर्णनात्मकमित्यमुमर्थं हृदि निधाय ‘श्रुतोपनिषत्कगत्यभिधानात्’ इति सूत्रितम् । श्रुतोपनिषत्कस्य उपकोसलस्याचार्यवक्तव्यत्वेनाग्निभिरवशेषितायाः फलरूपाया गतेः कृत्स्नेन चाचार्यवाक्येनाभिधानात् तत्प्रकरणविच्छेदशङ्का नावकाशमासादयतीति तात्पर्यम् इत्थमस्य सूत्रस्य योजना भाष्य पूर्वसूत्रव्याख्यानसमय एवानागतावेक्षणन्यायेन प्रदर्शिता ” ‘आचार्यस्तु ते गतिं वक्ता’ इति च गतिमात्राभिधानप्रतिज्ञानमर्थान्तरविवक्षां वायरति” इति । अनेन हि भाष्यवाक्येनाक्षिपुरुषवाक्यमग्निभिरवशेषितां गतिमेवाचष्टे , न किञ्चिदप्यर्थान्तरमिति स्पष्टमेवोच्यते । भामत्यामपि भाष्यमिदमुक्तार्थपरतयैवावतारितम् "नन्वग्निभिः पूर्वं निर्दिश्यतां ब्रह्म । ‘य एषोऽक्षणि’ इत्याचार्यवाक्येऽपि तदेवानुवर्तनीयमिति तु कुत इत्यत आह" इति ।
यदि तु ‘आचार्यस्तु ते गतिं वक्ता’ इत्यत्र गतिशब्दो देवयानमार्गपर इति निर्बन्धः , तथाऽपि न दोषः । तदा हि गतिशब्दोऽन्येषामपि केषांचिदाचार्येण वक्तव्यानामुपलक्षणत्वेन व्याख्येयः ; गतिमात्रपरत्वे वैयर्थ्यप्रसङ्गात् । ‘आचार्यस्तु ते गतिं वक्ता’ इत्यग्निभिरनुक्तेऽपि हि विद्यान्तरसंबन्धित्वेनाचार्योक्ताऽपि देवयानगतिः प्रकृतब्रह्मविद्यायामपि दहरवैश्वानरविद्यादिष्विव
‘अनियमस्सर्वासामविरोधश्शब्दानुमानाभ्यां’(ब्र.सू. ३. ३. ३१) इति गुणोपसंहारपाददिकरणे प्रदर्शयिष्यमाणन्यायेन लभ्यत एव । एवञ्च सूत्रस्थगतिशब्दोऽपि श्रुतौ गतिशब्देन यावदुपलक्षितं तावत्परः । तथा च कृत्स्नेनाप्याचार्यवाक्येनाग्निवाक्यस्थगतिशब्दविषयमात्रस्यैवाभिधानान्न प्रकरणविच्छेदशङ्केति तात्पर्यम् । उदाहृतभाष्यभामतीग्रन्थयोरप्यत्रैव तात्पर्यम् । सूत्रे चकारोऽग्निविद्यानामङ्गत्वसमुच्चयार्थः । तथा च कृत्स्नस्याप्याचार्यवाक्यस्य प्रकृतब्रह्मविद्यापेक्षितगतिनिरूपणैदम्पर्येण प्रवृत्तत्वान्न वक्तृभेदेनाग्निविद्याव्यवधानेन वा प्रकरणविच्छेदः । अग्निविद्यानामङ्गत्वादपि न तद्व्यवधानेन प्रकरणविच्छेद इत्यर्थः । अङ्गत्वञ्च प्रकृतब्रह्मविद्योपक्रमतदुपसंहारमध्यपतितत्वात् , ‘अथ हैनम्’ इति पूर्वप्रकृतापेक्षावाचकेनाथशब्देनाग्निविद्यानां ब्रह्मविद्यायाश्च संम्बन्धावगमात् , ‘एनम्’ इति ब्रह्मविद्याधिकारिण उपकोसलस्यान्वादेशविहितेन एनादेशेन निर्देशात् ।
तथाहि – आद्येन वाक्येन तासां ब्रह्मोपासनाप्रावृत्तिप्रतिबन्धकदुरितनिवर्तकत्वमुच्यते । द्वितीयेन
‘‘स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति’(कौ. १. ३) इत्यादिश्रुतिष्वर्चिरादिमार्गे प्रथमपर्वत्वेन श्रुताग्निलोकप्रापकत्वमुच्यते ; अग्न्युपासनानामग्निलोकप्राप्तिफलकत्वौचित्यात् । यद्यपि ब्रह्मोपासनयैवार्चिरा दिपर्वप्राप्तिर्लभ्यते , तदर्थं नोपासनान्तरमपेक्ष्यते , तथाऽपि विदुषो देहपातानन्तरमेवार्चिरादिगतिप्राप्तौ प्रतिबन्धकसद्भावेऽपि तदानीमेव तत्प्रापकत्वमनेनोच्यते । अत एवास्मिन्नेव प्रकरणे श्रूयते ‘अथ यदु वैवास्मिञ्छव्यं कुर्वन्ति यदुच न , अर्चिषमेवाभिसंभवन्ति’ इति । अस्मिन्नक्षिपुरुषोपासके मृते पुत्रादयश्शव्यं शवकर्म पैतृमेधिकसंस्कारादिकं यदि कुर्वन्ति , यदि वा न कुर्वन्ति उभयथाऽपि तस्यार्चिरादिगतिप्राप्तिरवश्यं भवत्येवेत्यर्थः । अनेन हि वाक्येन विद्यान्तरोपासकानां शवकर्माकरणेऽर्चिरादिगतिप्राप्तौ किञ्चित् प्रतिबन्धो भवति । प्रकृतब्रह्मविद्यायां तु न भवतीत्युभयमप्यर्थतश्शब्दतश्च प्रतीयते । सोऽयमस्यां विशेषो ‘लोकीभवन्ति’ इति फलवाक्यपर्यालोचनायामग्निविद्यासाहित्यकृत इत्यवसीयते । तृतीयवाक्येन आप्रायणमहरहरावर्तनीयब्रह्मोपासनाफलभूयस्त्वसिद्ध्यर्थं पुरुषायुषप्राप्तिरुच्यते । चतुर्थवाक्येन प्रत्यहमुपासनाप्रवृत्तौ प्रतिबन्धकानां धनप्राप्तिरोगनिवृत्त्याद्युपायचिन्ताक्लेशानामप्रसङ्गाय ज्योक् उज्वलं धनधान्यादिसमृद्धं रोगानभिभूतञ्च जीवनमुच्यते । पञ्चमवाक्येन ब्रह्मविद्याफलाभिवृद्ध्यर्थमुपासकस्य पुत्रपौत्रादीनां ज्ञानकर्मसन्तत्यादिक्षयाभाव उच्यते । सत्पुत्रपौत्रादिसन्ततिवृद्धेर्हि अमुष्य पुत्रोऽमुष्य पौत्र इति पितृपितामहादिकीर्तिस्थैर्यसंपादनेन साक्षाच्च पितृपितामहाद्युपार्जितपारलौकिकफलाभिवृद्धिहेतुत्वमापस्तम्बेन स्मर्यते
‘ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां साम्परायेण कीर्तिं स्वर्गञ्च वर्धयन्त्येवमवरोऽवरः परेषामाभूतसम्प्लवात्’(आ. ध , सू. २.२४) इति । षष्ठवाक्येन उपासनाप्रीतानामग्नीनामैहिकपारलौकिकप्रतिबन्धनिरासादिद्वारा प्रकृतब्रह्मोपासनानुष्ठातृपरिपालकत्वमुच्यते । तस्मादग्निविद्यानामङ्गत्वान्न व्यवधायकत्वमित्यपि युक्तमेव ।
एतेन ‘एषा सोम्य ते’ इति निरपेक्षतयोपसंहृतायां ब्रह्मविद्यायामव्यवधानादिसमर्थनेऽपि न स्थानगुणान्वयस्सम्भवतीत्यपि निरस्तम् । गतिवाक्यावैयर्थ्याय गतिशब्देन यावत्क्रोडीकृतं तावदतिरिक्तापेक्षितराहित्येनैव उपसंहाराभिप्रायस्य वर्णनीयतया पात्नीवतयागवत्सर्वधा नैरपेक्ष्यासिद्धेः । गतिशब्दस्य फलपरत्वपक्षे तदुपपादकतया स्थानगुणयोरपि तेन क्रोडीकृतत्वात् मार्गपरत्वपक्षे वाक्यावैयर्थ्याय तस्य स्थानगुणोपलक्षणत्वावश्यंभावात् । एवं श्रुतोपनिषत्कसूत्रस्य सुखविशिष्टसूत्रप्रसाधितब्रह्मप्रकरणविच्छेदशङ्कानिरासार्थत्वेन योजनाद्वयं सुखविशिष्टसूत्रव्याख्यानसमय एव भाष्ये सूचितं प्रपञ्चेन प्रादीदृशम् । अक्षिपुरुषस्य ब्रह्मत्वे लिङ्गप्रदर्शनपरतयाऽपि एतत्सूत्रं तदनन्तरं भाष्ये व्याख्यातम् – ‘श्रुतोपनिषत्कस्य वेदान्तेषु प्रसिद्धा या देवयानगतिस्तदभिधानादपि अक्षिपुरुषः परं ब्रह्म’ इति । यद्यप्यब्रह्मविदामपि पञ्चाग्न्युपासकानां देवयानगतिः श्रुता , तथाऽपि क्वचिद्वचनबलात्तत्क्रतुन्यायातिलङ्घनेऽपि ब्रह्मविद्यायामेव सा प्रसिद्धेत्यौत्सर्गिकत्वाश्रयमिदं लिङ्गम् ।
सूत्रे श्रुतोपनिषत्केत्यल्पार्थे कप्रत्ययः देवयानगतेः ‘निर्विशेषं परं ब्रह्म साक्षात् कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः’ इत्युक्तरूपमन्दाधिकारिविषयत्वज्ञापनार्थः । १.२.१६ ।
एवं सिद्धान्तहेतव उक्ताः । अथ पूर्वपक्षनिराकरणार्थं सूत्रम् –
अनवस्थितेरसम्भवाच्च नेतरः । १७ ।
यदुक्तमक्ष्याधारश्छायात्मेति तन्न युज्यते ; छायाऽऽत्मनः प्रतिबिम्बस्याक्ष्यादिषु प्रतिबिम्बोपाधिष्वनवस्थितेः । सर्वत्र स्वस्थानस्थितस्यैव हि बिम्बस्य तत्तदुपाधिसम्बन्धमात्रमध्यस्यते , न तु बिम्बस्तत्तदुपाधीननुप्रविशति , न वा बिम्बाद्भिन्नः प्रतिबिम्बस्तत्तदुपाधिषूद्भवति । यथा चैतत्तथा समर्थितं विवरणप्रकाशे तातचरणैः । यद्यपि चाक्षणि छायात्मनस्स्यादवस्थितिः तथाऽपि बिम्बसन्निधानकाल एव सा भवेन्न सर्वदा । न चोपासनाकाले बिम्बसन्निधाननियमोऽस्ति येन तदानीमुपास्यसत्ता लभ्यते । न च तदाऽपि यस्य कस्यचिदक्षणि तत्सत्ता लभ्यत इति शङ्कनीयम् । ‘य एषोऽक्षणि’ इत्यत्र प्रत्यासत्तेरुपासकस्याक्षणीत्येव पर्यवसानात् , ‘दृश्यते’ इत्यस्य चरमश्रुतस्यान्यदृश्यत्वमादायापि चारितार्थ्यात् । न चैतदुपासनाकाले छायाकरं कञ्चित्पुरुषमक्षिसमीपे सन्निधाप्य उपासीतेति युक्तम् ; कल्पनागौरवात् , ‘अक्षणि पुरुष’ इति नित्यवच्छ्रवणायोगाच्च । तस्मादक्षणि च्छायात्मनः कदाऽप्यनवस्थितेः , उपासनाकाले अवस्थितिनियमाभावाच्च नाक्ष्याधारः परमात्मनः इतरः छायात्मा । तत्र संयद्वामत्वादिगुणानामसम्भवाच्च ।
ननु स्पष्ट एवासम्भवः किमर्थं सूत्रत उच्यते ? स्थानादिसूत्रे ब्रह्मणोऽपि नामरूपादिकं काल्पनिकमेवेति दर्शितम् , तद्वच्छायात्मनोऽपि काल्पनिकं सम्भवतीति शङ्कानिरासार्थमसम्भवस्सूत्रितः । वस्तुतो नामरूपरहितमपि ब्रह्म व्यावहारिकैस्स्वाध्यस्तैर्नामरूपैस्तद्वदिति सम्भवति तद्विषयत्वे संयद्वामत्वादिश्रुतीनां सालम्बनता , न तु च्छायात्मविषयत्वे । तत्र बुद्धिपूर्वमारोपणीयस्यार्थस्य फलश्रुत्यालम्बनत्वासम्भवादिति तन्निरासः । तत्र आत्मश्रुत्यादेरितिशिरस्कत्वेनाविवक्षितार्थत्वमित्यङ्गीकृत्य पूर्वपक्षप्रवर्तनादस्पष्टब्रह्मलिङ्गता । १. २. १७ ।
इति अन्तराधिकरणम् । ४ ।
(५ अधिकरणम्)
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् । १८ ।
पूर्वत्र ‘य एषोऽक्षणि’ इति परमात्मनः स्थाननिर्देशोपपादनाय
‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति एष त आत्माऽन्तर्याम्यमृतः’ (बृ. ५.७. ३) इत्याद्यन्तर्यामिब्राह्मणे तस्य पृथिव्याद्यनेकस्थानव्यपदेशो दृष्टान्ततयोक्तः । स आक्षिप्यते तत्र प्रतिपादितोऽन्तर्यामी परमात्मा न भवतीति । अन्तर्यामी दहराद्युपासनासिद्धः कौशिककुम्भसम्भवादिवत् कश्चन योगसिद्ध इति युक्तम् , न तु परमात्मा ; शरीररहितस्य नियन्तृत्वाभावात् । शरीरवतामेव तक्षादीनां वास्यादिनियन्तृत्वदर्शनात् । स्वशरीरनियमनेऽपि तेनैव शरीरेण नियन्तुश्शरीरवत्त्वात् । न च परमात्माऽपि नियम्यपृथिव्यादिशरीरेणैव शरीरवानिति वक्तुं शक्यम् ; ‘यस्य पृथिवी शरीरम्’ इत्याद्याम्नानात् , इति वाच्यम् । तक्षादीनां भोगायतनस्वशरीरेणैव नियन्तृत्वदर्शनात् , स्वभोगायतनशरीरस्यैव च स्वशरीरत्वात् । ‘य इमञ्च लोकं परञ्च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति’ इति परमोपक्रमेण ‘एष त आत्माऽन्तर्याम्यमृतः’ इत्युपसंहारेण च प्रकरणप्रतिपाद्यत्वेन निर्णीतस्य पृथिव्यादिवाक्येष्वपि प्रथमश्रुतस्य यमयितृत्वस्योपपादनाय जीवविशेषपरिग्रहे स्थिते ‘एष त आत्मा’ इति ‘अमृत’ इति चोभयमौपचारिकं नेयं
‘प्राणस्तथाऽनुगमात्’(ब्र.सू. १.१. ११) इति न्यायादिति पूर्वः पक्षः ।
पृथिव्याद्यभिमानिदेवताविशेषोऽन्तर्यामीति पूर्वपक्षस्तु भाष्ये सम्भवमात्रेण दर्शितो न तु मुख्यः । उपक्रमोपसंहाराभ्यामेकस्यैवान्तर्यामित्वप्रतीतेः ; ‘यं पृथिवीं न वेद’ ‘यमापो न विदुः’ इत्यादिना तत्तदभिमानिदेवताव्यतिरेकप्रतीतेश्च । अनेनैव हेतुद्वयेन तथापूर्वपक्षस्यामुख्यतां दर्शयितुमेव सूत्रे ‘अधिदैवादिषु’ इति अन्तर्यामी विशेषितः । तेन ह्यधिदैवादिषु सर्वेष्वपि पर्यायेष्वेक एवान्तर्यामी तत्तद्देवताव्यतिरिक्तश्चेति दर्शितं भवति ।
सिद्धान्तस्तु – यमयितृत्वधर्मेण धर्मिग्रहणे साधनसाध्येन तेन धर्मिग्रहणाद्वरं नित्यसिद्धेन तद्ग्रहणम् ; कल्पनालाघवात् । अतोऽन्तर्यामित्वं साधारणमपि न्यायतः परमात्मन्येव समन्वेतीति तस्मादेव तद्धर्मव्यपदेशात् ‘एष त आत्मा’ इत्यादितद्धर्मव्यपदेशाच्चान्तर्यामी परमात्मा । एवञ्च शरीरवत एव नियन्तृत्वमिति शङ्काऽप्यनवकाशा ; साधनाधीन एव नियन्तृत्वे साधनविशेषत्वेन तदपेक्षणात् । न च नियन्तृत्वमात्रं साधनाधीनमिति नियमः ; ज्ञानमात्रमनित्यमित्यादिवदप्रयोजकत्वात् , श्रुत्यन्तरप्रसिद्धजगत्कारणत्वाक्षिप्तसहजसर्वशक्तिशालिन । परमेश्वरस्य स्वत एव सर्वनियमनशक्तियोगसम्भवाच्च । तथाऽपि नियन्ता शरीर्येवेति नियमो दृष्ट इति चेत् ; न तस्यापि कर्ता शरीर्येवेति नियमवदप्रयोजकत्वात् , नियम्यपृथिव्यादिशरीरेणैव परमेश्वरस्य शरीरित्वसम्भवाच्च । न च शरीरे भोक्तुरेव नियन्तृत्वमिति नियमः ; अभोक्तुरनियन्तृत्वे अचेतनत्वस्योपाधित्वात् । न च मुक्तात्मसु साध्याव्यापकत्वम् । तेषां परमेश्वराभेदेन पक्षान्तर्भावात् । न च यच्छरीरं यस्य भोगायतनं तेनैव स नियच्छतीति नियमः ; स्वकरगृहीतपरांगुल्यादिना क्रियमाणे चित्रलेखनादिकर्मणि तदभात् , अप्रयोजकत्वाच्च ।
किञ्च योगसिद्धत्वेऽपि न जीवोऽन्तर्यामी भवितुमर्हति ; तस्यापि नियन्त्रन्तरापेक्षायामनवस्थानात् । न च स्वतन्त्र एव स कल्पनीयः ; योगसिद्ध्यनन्तरं तस्य कथञ्चित् स्वातन्त्र्यसम्भवेऽपि ततः प्रागस्मदादिवन्नियन्त्रन्तरनियम्यत्वात् । तस्य नित्यस्वतन्त्रत्वाभ्युपगमे पर्यायान्तरेण परमेश्वरपक्षस्यैव परिग्रहापत्तेः । सेयमनवस्था भगवता भाष्यकारेण सिद्धान्ते तदप्रसक्तिप्रदर्शनमुखेन पूर्वपक्षे प्रसज्यत एवेति समुद्घाटिता – ‘तस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च न भवति ; भेदाभावात् । भेदे हि सति अनवस्थादोषापत्तिः’ इति । सिद्धान्तेऽन्तर्यामिणोऽप्यन्यो नियन्तेत्यनवस्था न प्रसज्यते ; नित्यस्वतन्त्रपरमेश्वरस्य नियन्त्रन्तरस्याकल्पनीयतया नियन्तृभेदाभावात् । पूर्वपक्षेऽन्तर्यामिणोऽपि जीवस्य नियन्त्राऽन्येन भाव्यमिति तद्भेदे सति अनवस्थाऽपत्तिरित्यर्थः ।
इदञ्च दूषणं ‘अनवस्थितेरसम्भवाच्च नेतरः’ इति पूर्वाधिकरणसूत्रानुवृत्तिमभिप्रेत्योद्घाटितम् । अत एव तत्र सूत्रे ‘अनवस्थितेः’ इति सोपसर्गप्रयोगोऽपि सफलः , अन्यथा तस्य तदधिकरणमात्रार्थत्वे लाघवात् स्थानादिसूत्रे अवोपसर्गाभावाच्च ‘स्थितेः’ इत्येवासूत्रयिष्यत् । ‘असम्भवात्’ इत्यनुवृत्तांशेन योगिनोऽसङ्कुचितसर्वभूतनियन्तृत्वासम्भवादिति हेत्वन्तरं समुच्चीयते । अयञ्च हेतुः ‘समस्तं विकारजातमन्तस्तिष्ठन् यमयतीति परमात्मनोऽयं धर्म उपपद्यते’ इति भाष्येण गर्भीकृतः । यद्यपि सर्वभूतनियन्तृत्वं योगिनो न सम्भवतीति स्पष्टमेव , तथाऽपि तत्सम्भवमङ्गीकृत्य कृत्वाचिन्तया न्यायः प्रदर्शितः । इंद तु कृत्वाचिन्तोद्धाटनम् । १.२.१८ ।
स्यादेतत् । यद्यपि सर्वभूतशब्दोक्तसकलकार्यनियन्तृत्वं योगिनो न संभवति , तथाऽपि साङ्ख्यस्मृतिकल्पिते प्रधाने तद्व्यपदेष्टुं शक्यम् । सर्वस्य कार्यस्य कारणाधीनत्वात् , ‘यः पृथिव्यां तिष्ठन्’ इत्यादिकं कार्येषु कारणस्यानुगतत्वात् । ‘यं पृथिवी न वेद’ इत्यादि तस्य ‘अप्रतर्क्यमविज्ञेयम्’ इत्यविज्ञेयत्ववर्णनात् । ‘यस्य पृथिवी शरीरम्’ इत्यादि कार्यकारणयोर्वस्तुतो भेदाभावात् । ‘पूर्वपक्षशरीरम्’ इत्यादौ स्वरूपवाचकस्यापि शरीरशब्दस्य दर्शनात् , ‘एष त आत्मा’ इति जीवस्य सर्वनिर्वाहके प्रधाने ‘ममात्मा भद्रसेन’ इतिवदात्मत्वोपचारात् ,
‘अदृष्टो द्रष्टा अश्रुतश्श्रोता अमतो मन्ता अविज्ञातो विज्ञाता’(बृ. ३. ७. २३) इत्यत्रादृष्टत्वादि रूपादिहीनत्वात् , द्रष्टृत्वादि तत्प्रकृतिकत्वेन तदभिन्नानाञ्चक्षुरादीनां दर्शनादिसाधनत्वात् , ‘चक्षू रूप ग्राहकम्’ इत्यादौ करणे कर्तृत्वोपचारादिति सर्वस्यापि विशेषणस्योपपन्नत्वात् प्रधानमेवान्तर्यामीति युक्तम् , न तु परमात्मेति ; तत्र पृथिव्यादिशरीरवत्त्वव्यपदेशानुपपत्तेः । न हि तस्य पृथिव्यादि स्वरूपम् , न वा भोगायतनम् । न च तस्य पृथिव्यादिशरीरेण भोक्तृभोगायतनभावसम्बन्धाभावेऽपि कर्तृकार्योपादानोपादेयभावादिसम्बन्धान्तरसत्त्वात्तथा व्यपदेशस्स्यादिति वाच्यम् । पित्रादेः पुत्रादिशरीरस्य च तादृक्सम्बन्धान्तरसत्त्वेऽपि ‘पितुश्शरीरम्’ इत्यादिव्यपदेशादर्शनेन तथा व्यपदेशे तेषां सम्बन्धानामप्रयोजकत्वात् । न च तदज्ञानकल्पितत्वेन सम्बन्धेन तथा व्यपदेशः ; स्थावज्ञानकल्पिते शरीरे ‘स्थाणोश्श्शरीरम्’ इति व्यपदेशा दर्शनात् । न च नियम्यत्वेन तथा व्यपदेशः ; स्वामिनियम्यभृत्यादिशरीरेषु नाविकनियम्यनौकादिषु तत्तच्छरीरत्वव्यपदेशाभावात् । न च यावद्द्रव्यभाविना नियम्यत्वेन तथा व्यपदेशः ; स्वशरीरस्यापि व्याध्यादिभिः कदाचिदनियम्यत्वेन शरीरत्वव्यपदेशे तस्य प्रयोजकत्वायोगात् । ‘तदानीमपि स्वशरीरस्य नियम्यत्वयोग्यताऽस्ति’ इति चेत् न । तथा सति नौकादिष्वपि सर्वदा नाविकादिनियम्यत्वयोग्यताऽस्तीत्यतिप्रसङ्गतादवस्थ्यादिति पूर्वपक्षान्तरयाशंक्य निराकरोति –
न च स्मार्तमतद्धर्माभिलापात् । १९ ।
न साङ्ख्यस्मृत्युक्तं प्रधानमन्तर्यामीति युक्तम् ; अतद्धर्माणां द्रष्टृत्वादीनामभिलापात् ; तेषां मुख्यत्वसम्भवे औपचारिकत्वकल्पनायोगात् । ‘यस्य पृथिवी शरीरम्’ इत्यादि तु नियन्तृत्वप्रसक्तशरीरापेक्षाशङ्कां नित्यसिद्धे नियन्तृत्वे नास्ति तदपेक्षेति सूचनेन व्यावर्तयितुमन्तर्यामिणो नियमनार्थं नियम्यपृथिव्याद्यतिरेकेण शरीरं नास्तीति प्रतिपादनपरम् । आकाङ्क्षाऽनुरोधात् , न तु पृथिव्यादेस्तच्छरीरत्वप्रतिपादनपरमपि अनाकाङ्क्षितत्वात् , उभयत्र वाक्यव्यापारायोगाच्च । १. २. १९ ।
ननु यदि द्रष्टृत्वादिमुख्यताऽनुरोधान्न प्रधानमन्तर्यामि , तर्हि तत एव न परमात्माऽपि , किन्तु शारीर एव । यदि ‘द्रष्टा’ इत्यादिविशेषणैः
‘आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’(बृ. २. ४. ५) ‘आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन’(बृ. २. ४. ५) ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते’(बृ. ४. ५. ६) इत्यादिश्रुत्यन्तरप्रत्यभिज्ञानादात्मविषयसाक्षात्कारश्रवणमनननिदिध्यासनवत्वमुच्यते , यदि वा चक्षुश्श्रोत्रमनोबुद्धिकरणकज्ञानवत्त्वमुच्यते , उभयथाऽपि जीव एव द्रष्टृत्वादिकं घटते न परमात्मनि । द्रष्टृत्वादिशब्दा रूपालोकनादिमत्त्ववाचकास्सन्तु इति चेत् । न । तथाऽपि मन्तृशब्दाभिधेयस्य विचारयितृत्वस्य सर्वज्ञे ब्रह्मण्यसम्भवात् । दर्शनादिशब्दानां रूपालोकनादिवाचित्वे ‘रूपं दृष्टं घटो दृष्ट’ इत्यादि प्रयोगाणां ‘इन्द्र इन्द्राणीपतिवरुणो वरुणानीपतिः’ इत्यादिवदसामञ्जस्य प्रसङ्गाच्च । न च –चाक्षुषादिज्ञानवाचित्वमप्यसमञ्जसम् । चक्षुरादीनामयोग्यत्वेन ‘दृष्टं पश्यामि’ इत्याद्यनुभवे स्फुरणासम्भवादिति वाच्यम् ; चक्षुरादिकरणविशेषप्रयोज्यजातिविशेषवाचित्वोपपत्तेः ।
अपि च प्रतिपर्यायं ‘अमृतं’ इति जीवात् भेदो निर्दिश्यत । अमृतत्वं ह्यमरणधर्मकत्वम् । न च जीवस्यापि नित्यत्वात्तत्रामृतत्वोक्तिरुपपद्यत इति वाच्यम् । आत्मत्वकीर्तनादेव स्वतो नित्यत्वस्य सिद्धत्वेनामृतपदस्य जीवधर्मशरीरोपाधिकमरणराहित्यपरत्व एव व्यावर्तकत्वोपपत्तेः । न च व्यावर्तकत्वे सम्भवति स्वरूपकथनमात्रार्थत्वं युक्तम् । अत एव ‘राजपुरोहितौ सायुज्यकामौ यजेयाताम्’ इत्यत्र ‘राज्ञः पुरो हितौ’ इति षष्ठीतत्पुरुषैकशेषपक्षे क्षत्रियादन्यस्य पुरोहिताभावात् राजपदं व्यर्थं स्यादिति तं त्यक्त्वा ‘राजा च पुरोहितश्च’ इति द्वन्द्वमाश्रित्य राज्ञः पुरोहितस्य च कुलाययज्ञे सहाधिकार इति निर्णीतं पूर्वतन्त्रे ।
‘क्षरं त्वविद्या ह्यमृतं तु विद्या’(श्वे.५.१) इत्यत्रामृतपदं विशेष्यसमर्पणार्थम् , न त्वितरव्यावर्तनार्थम् । न वा तदपि सर्वधैवव्यावर्तकम् ; पूर्वनिर्दिष्टक्षरवैलक्षण्येन विशेष्यसमर्पकत्वात् । किञ्च उपक्रम एवान्तर्यामिविज्ञानेन सर्वज्ञानप्रतिज्ञाने सर्ववेदान्तप्रसिद्धे ब्रह्मलिङ्गे जाग्रति कथमोपसंहारिकैर्द्रष्टृत्वादिभिर्जीवपूर्वपक्षस्योदयः ? न च ‘उपक्रमगतमेकं लिङ्गमुपरितनानेकालिङ्गाविरोधे दुर्बलम्’ इति भूतादिपादव्यपदेशसूत्रोक्तन्यायोऽत्र प्रसरति । ब्रह्माब्रह्मलिङ्गसमावेशे ब्रह्मण्यब्रह्मलिङ्गानां नेतुं शक्यत्वेनान्यथालिद्धतायाः प्रतर्दनाधिकरणे प्रदर्शितत्वात् । तस्मात् केनापि प्रकारेणात्र जीवपूर्वपक्षो न सम्भवतीति चेत् - उच्यते ।
न च सर्वभूतेषु सुखाद्यनुभवरूपस्य साक्षिण एकत्वे पुरुषान्तरसुखादेरपि पुरुषान्तरं प्रति प्रत्यक्षत्वापत्तिः , तस्य पुरुषान्तरं प्रति आवृतत्वात् , सर्वेषु साक्षिण एकत्वेऽपि यं प्रति यदनावृतं तं प्रत्येव तस्य तदनुभवरूपताया: फलबलेन कल्पनात् , अन्यथा घटाद्यधिष्ठानं ब्रह्मचैतन्यमेवाध्यासिकसम्बन्धेन घटादिभासकमिति सर्वदा सर्वेषां घटाद्यवभासप्रसङ्गात् ।
न च वाच्यम् – यस्य स्वोपाध्यन्तःकरणवृत्तिकृता घटाद्यधिष्ठानचैतन्येनाभेदाभिव्यक्तिः , तस्यैव तदवभासते इति ; व्यावर्तकोपाधावन्तःकरणे दर्पण इव स्थिते बिम्बप्रतिविम्बाद्यात्मना भेदानुवृत्त्यवश्यम्भावेनाभेदाभिव्यक्त्यसम्भवात् । तात्विकाभेदस्य प्रागपि सत्त्वात् । तस्मादन्तःकरणवृत्तिकृतावरणाभिभवेन यं प्रति घटादिरनावृतः , तं प्रति तदधिष्ठानचैतन्यं घटाद्यवभासकमिति फलबलात् कल्पनीयम् । अभेदाभिव्यक्तिव्यवहारश्च ब्रह्मणा सह तस्य जीवस्य घटादिविषयावरणराहित्यरूपसाम्यापत्तिपर इति व्यवस्थापनीयम् । तस्मान्मूलाज्ञानोपाधिकं सर्वेषां प्रत्यग्भूत एकस्साक्षीति स्थितौ स एवान्तर्यामीति पूर्वःपक्षः ।
अत्र तावदेकस्य सर्ववस्तुनियन्तृत्वोक्तिमारभ्य सर्वमप्युपपद्यते ; एकस्यैव सर्वसाक्षिणो जीवस्य तत्तदन्तःकरणावच्छिन्नस्वांशभेदद्वारा तदीयकार्यकरणोपकरणभूतसर्ववस्तुनियन्तृत्वात् । पृथिव्यादिसर्वनियन्तृसर्वभूतानुगतैकजीवरूपत्वेन जीवज्ञानस्य यज्ञविद्याऽनुपयोगितया काप्यस्य तदज्ञानसम्भवात् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानस्य सूत्रात्मनि ‘वायुर्वै गौतम तत्सूत्रम्’ इत्युक्त्वा
‘तस्माद्वै गौतम पुरुषं प्रेतमाहुर्यस्रंसिषतास्याङ्गानीति । वायुना हि गौतम तत्सूत्रेण सन्दृब्धानि भवन्ति’(बृ. ३.७.२) इत्युपपत्त्युपन्यासेन च वायुरूपतयाऽवगते प्रशंसार्थत्वावश्यम्भावेन तदेकवाक्योपात्तेऽन्तर्यामिण्यपि तदर्थत्वावगमात् । ‘य: पृथिव्यां तिष्ठन्’ इत्यादिपर्यायेषु तत्तज्जीवेभ्यो घटाकाशादिभ्यो महाकाशस्येव भेदनिर्देशसामञ्जस्यात् । ‘एष त आत्मा’ इति शब्दविशेषस्यापि अन्तःकरणावच्छिन्नस्यापि तव एष सकलसाक्षी जीव आत्मा व्यापकस्वरूपमिति सामञ्जस्यात् । अमृतत्वस्यापि तत्तदन्तःकरणावच्छिन्न इवाज्ञानोपाधिकस्सर्वगतो जीवस्तत्तच्छरीरापादानकोत्क्रमणरूपमरणवान्न भवतीति साङ्गत्यात् । दृष्ट्रत्वादिवर्जनस्य च जीवस्य प्रमातृरूपाणामिव अनुगतसाक्षिरूपस्याप्रसिद्धतया सङ्गतत्वात् । द्रष्ट्रत्वादीनाञ्च अन्तःकरणावच्छिन्नप्रमातृरूपेण समन्वयात् । द्रष्ट्रन्तरादिनिषेधानाञ्च कथमेकस्मिन् देहे द्वौ द्रष्टारौ जीवोऽन्तर्यामी च , देहेन्द्रियाणामनेकचेतनदर्शनाद्यर्थत्वे तदीयविरुद्धाभिप्रायानुवर्तनासम्भवात् , न च शरीरेन्द्रियान्तरैरन्तर्यामिणो दर्शनादिमत्त्वम् , ‘यस्य पृथिवी शरीरम्’ इत्यादिभिस्तस्य , नियम्यशरीरातिरिक्तशरीरेन्द्रियराहित्यावगमात् ; इत्याशङ्कायां तत्र तत्र भेदनिर्देशेन देवमनुष्यादिरूपद्रष्ट्रतिरिक्तं तदन्तर्यामिरूपं द्रष्ट्रन्तरमुपदिष्टमिति न भ्रमितव्यम् ; देवमनुष्यादिगतद्रष्ट्रत्वादिगुणैरेव अन्तर्यामी द्रष्ट्रत्वादिमानुपदिष्टः द्रष्ट्रत्वादिगुणकानां प्रमातॄणामन्तर्यामितो वस्तुतो भेदाभावादित्यभिप्रायत्वात् । तस्मात् सर्वसाक्षी जीव एवान्तर्यामीति पूर्वपक्षान्तरमाशंक्य निराकरोति –
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते । २० ।
‘यस्सर्वेषु भूतेषु तिष्ठन्’ इति पर्याये भूतशब्दोदितानां सर्वेषां प्रमातृरूपाणां जीवानां पृथगन्तर्यामिनियम्यत्वस्य वर्णितत्वाच्च । तत्र भूतशब्दो ‘भवन्ति जायन्ते’ इति व्युत्पत्त्या न जडप्रपञ्चपरः ; भूतशब्दस्य कार्ययोगतः प्राणिषु रूढेर्बलवत्त्वात् । न च तत्र महाभूतेषु रूढेः प्राणिषु रूढेश्च विनिगमनाविरहेण अन्योन्यप्रतिरोधे योगोन्मेषश्शङ्कनीयः ; ‘यः पृथिव्यान्तिष्ठन्’ इत्यादिपर्यायेषु पृथिव्यादिमहाभूतानामुपात्तत्वेन अत्र प्राणिरूढेरेवोन्मेषात् । तस्मात्परमेश्वर एवान्तर्यामी । तत्र द्रष्ट्रत्वादिवर्णनं जीवाभेदाभिप्रायेण योज्यम् । द्रष्ट्रन्तरादिनिषेधश्च द्रष्ट्रट्वयशङ्कावारणाय जीवाभेदाभिप्रायस्फोरणार्थत्वेन पूर्वपक्षोक्तरीत्यैव योजनीयः ।
सूत्रे ‘शारीर’ इत्येकवचनेन – एक एवाज्ञानोपाधिको जीवोऽन्तर्यामीति पूर्वपक्षः, न तु तद्विशेषा देवमनुष्यादिजीव इति ; ‘य इमञ्च लोकम्’ इत्यादावेकवचननिर्देशादिति सूचितम् । चकारात् पूर्वसूत्रात् नमोऽनुवर्तनं सूचितम् । ‘उभये’ इत्यनेन – काण्वमाध्यन्दिनपाठयोर्भिन्नभिन्नार्थान्तरपरत्वशङ्कानिराकरणद्वारा तत्रत्यभेदनिर्देश एवात्र हेतुः , न तु ‘एष त आत्मा’ ‘यं सर्वाणि भूतानि न विदुः’ इत्यादिभेदनिर्देशः, अन्तर्यामिणस्तत्तदुपासकजीवरूपत्वेन, सर्वजीवरूपत्वेन वा पूर्वपक्षस्य हि तादृशो भेदनिर्देशः प्रतिक्षेपकस्स्यान्न तु सर्वसाक्षिजीवरूपत्वेन पूर्वपक्षस्य ; तादृशभेदनिर्देशानां प्रमातृसाक्षिभेदमादायोपपन्नत्वादिति सूचितम् । एतत्सूचनार्थत्वाभावे क्वाचित्कभेदनिर्देशेऽपि साध्यसिद्धेरुभयग्रहणं व्यर्थमेव स्यात् । न हि नानाशाखाऽऽम्नातशाण्डिल्यवैश्वानरविद्यादिगतविषयवाक्यानां ब्रह्यपरत्वसाधने नानाशाखाम्नातत्वमुद्घाटितम् । न वा अस्मिन्नधिकरणे ‘तद्धर्मव्यपदेशात्’ इति हेतोरुभयत्रापि समाम्नातत्वमुक्तम् । ‘भेदेन’ इत्युपलक्षणतृतीया निर्देशेन – जीवस्येश्वरात् भेदो न विशेषणम् , किन्तु उपलक्षणमेव, मिथ्यात्वेन यावद्द्रव्यभावित्वादिति सूचितम् । एतत्सूचनार्थत्वाभावे लाघवात् ‘भिन्नमेनमधीयते’ इत्येवासूत्रयिष्यत । इदमप्यस्पष्टब्रह्मलिङ्गमधिकरणम् ; योगिपूर्वपक्षनिराकरणार्थं यमयितृत्वस्य साधननिरपेक्षग्रहणोत्सर्गिकतया ब्रह्मलिङ्गतायाः प्रसाधनीयत्वात् , जीव पूर्वपक्षनिराकरणार्थं भेदेनाधीयते इति हेतोश्च स्थानप्रमाणादिभिर्नेयत्वात् । १.२.२०।
इति अन्तर्याम्यधिकरणम् ।
अदृश्यत्वादिगुणको धर्मोक्तेः । २१ ।
अपि च पृथिव्यादिदृष्टदृश्यत्वादिनिषेधस्याधिकरणविशेषाकाङ्क्षायां तस्यैव पृथिव्यादेरवस्थाभेदेनाधिकरणत्वे सम्भवत्यधिकरणान्तरं नापेक्षणीयम् ; बुद्धिगौरवापत्तेः ; बाल्यकार्यादिनिषेधानामवस्थाभेदेन प्रतियोग्यधिकरण एवान्वयस्यौत्सर्गिकत्वानुभवाच्च । पृथिव्यादीनाञ्च सूक्ष्मावस्थारूपं प्रधानं न तेभ्यो भिन्नम् ; उपादानोपादेययोरभेदात् । तद्भेदाभ्युपगमेऽपि अचेतनपृथिव्यादिरूपदृश्यभिन्नतया प्रतिपाद्यमानमचेतनं प्रधानमेवेति युक्तम् ; ‘नञवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थगतिः’ इति न्यायेनाब्राह्मणादिशब्दवत् तदन्यवृत्तेश्शब्दस्य तत्सदृशान्यवृत्तित्वनियमात् । न ह्यब्राह्मणादिशब्दाः क्षत्रियादिष्विव लोष्टादिषु प्रयुज्यन्ते । अन्तर्यामिण्यदृष्ट्रत्वादि श्रवणेऽपि द्रष्ट्रत्वाद्यनुरोधात् ‘नञिवयुक्त’ न्यायस्त्यक्तः । न चेह तत्त्यागे कारणमस्ति ।
ननु
‘येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम्’(मु. १. १. १३) इति अक्षरात्परत्वेन वर्णनीयेऽपि पुरुषे अक्षरशब्दश्रुतः । तेन स एव प्राधान्येन प्रतिपाद्यमानो भूतयोन्यक्षरम् । ‘अक्षरात् परतः’ इति पुरुषापरत्वेन श्रुतमक्षरमेव केवलमव्याकृतमिति कल्प्यतामिति चेत् , मैवम् । उभयथाऽप्युपपत्तौ ऊर्णनाभ्यादिदृष्टान्तानुगुण्येन
‘यथा सुदीप्तात्’(मु. २. १. १) इति प्रकृतस्य भूतयोन्यक्षरस्य सरूपकार्यप्रभवत्वोक्त्यनन्तरमेव ‘दिव्यो ह्यमूर्तः’ इति मन्त्रे पुरुषस्याक्षरपरत्वोक्त्यानुगुण्येन च भूतयोन्यक्षरमेव पुरुषात्परमक्षरम् । ‘येनाक्षरम्’ इति पुरुषे अक्षरशब्दस्तु ‘न क्षरति’ इति व्युत्पत्त्या प्रयुक्त इति कल्पनस्योचितत्वात् । असति विरोधे अचेतनदृष्टान्तानुगुण्यस्य ‘यथा सुदीप्तात्’ इतिमन्त्रे पञ्चम्याः ‘तथाऽक्षरात् सम्भवतीह विश्वम्’ इति पञ्चमीनिर्दिष्टभूतयोन्यक्षरपरत्वेन प्रतीयमानाक्षरशब्दस्वारस्यस्य च भङ्गायोगात् ।
ननु सत्यमुक्तं भूतयोन्यक्षरस्य , सरूपकार्यप्रभवाक्षरस्य च पञ्चमीनिर्देशादभेदो वक्तव्य इति । तत एवाक्षरात् परस्य पुरुषस्यापि तदभेदो वक्तव्यः । तत्रापि हि ‘ततोऽन्नमभिजायते’ ‘तस्मादेतत् ब्रह्म इति जगदुपादानपरपञ्चमीनिर्देशो दृश्यते । तस्मात् ‘यथा सुदीप्तात्’ इति मन्त्रे अपादानपञ्चमीनिर्दिष्टस्य भूतयोन्यक्षरत्वेऽपि तदनन्तरमन्त्रे अवधिपञ्चमीनिर्दिष्टं ततो भिन्नमित्येव कल्पयितुं युक्तमिति चेत् ; मैवम् । न हि पञ्चमीमात्रेण भूतयोनिसरूपकार्यप्रभवाक्षरयोरभेदं ब्रूमः , किन्त्वक्षरशब्दपरया पञ्चम्या । सा त्वक्षरात् परे पुरुषे नास्त्येव ।
ननु तथाऽपि अपादानपञ्चमीप्रत्यभिज्ञानमात्रेण तदक्षरात्परस्यापि पुरुषस्य तदभेदः कि न स्यादिति चेत् , न । ब्रह्माव्याकृतयोरुभयोरपि विवर्तमानतया , परिणममानतया च
‘मायां तु प्रकृतिं विद्यात्’(श्वे. ४. १०) ‘आत्मन आकाशस्सम्भूतः’(तै. २. १.१) इति श्रुतिद्वयानुरोधेन ‘सन् घटः’ , ‘जडो घटः’ इति जगत्युभयतादात्म्यप्रतीत्यनुरोधेन च स्वाभिन्नकार्यजनकत्वरूपजगदुपादानत्वसत्त्वे सर्वविज्ञानप्रतिज्ञानिर्वाहकब्रह्मगतजगदुपादानत्वघटकतया अव्याकृतगतजगदुपादानत्वप्रतिपादनस्यापि सङ्गतिसत्त्वे चापादानपञ्चमीप्रत्यभिज्ञानमात्रेण प्रथमोपस्थितपञ्चम्यन्ताक्षरपदप्रत्यभिज्ञालभ्यस्य भूतयोनिसरूपकार्यप्रभवपरत्वावध्यक्षराभेदस्य चेतनाधिष्ठिताचेतनोर्णनाभिदेहादिदृष्टान्तसारूप्यस्य च भङ्गायोगात् ।
ननु ‘तथाऽक्षरात् सम्भवति’ इत्यन्तमव्याकृतपरम् , ‘तपसा चीयते’ इत्यारभ्य ‘येनाक्षरं पुरुषम्’ इत्यन्तं ब्रह्मपरम् , ततो ‘यथा सुदीप्तात्’ इत्याद्यव्याकृतपरम् , पुनः ‘दिव्यो ह्यमूर्तः’ इत्यादि ब्रह्मपरमिति कथमिदमादरणीयमिति चेत् , अर्थसम्बन्धादिति गृहाण । उक्तं हि जैमिनिना विश्वजिदधिकरणे ‘अर्थतो ह्यसमर्थानामानन्तर्येऽप्यसम्बन्धः’(जै. सू. ४. ३. ११) इति । उक्तञ्च वार्तिककृता ‘आनन्तर्यमचोदना’(जै. सू. ३. १. २४) इत्यधिकरणे ‘यस्य येनार्थसम्बन्धो दूरस्थेनापि तेन सः । अर्थतोह्यसमर्थानामानन्तर्यमकारणम्’ इति ।
यदि त्वेवमपि भूतयोन्यक्षरस्य चाक्षरात्परस्य चाभेदे निर्बन्धः, तदा शारीरो भूतयोनिरस्तु । स हि साक्षिभावेन सर्वज्ञः । सर्वं वस्तु ज्ञाततया, अज्ञाततया वा साक्षिचैतन्यस्य विषय इति प्रसिद्धेः । कश्चित् किञ्चिज्जानातीत्येवं सर्वजीवानुगतसाक्षिभावेन विशिष्यापि सर्वज्ञः । अन्तःकरणप्राणेन्द्रियादीनां स्वप्नप्रपञ्चान्तर्गतगगनपवनचन्द्रसूर्यसरित्समुद्रभूगोलकादीनाञ्चोपादानभूतश्च ।
अत एवाध्यासभाष्यादिष्वन्तःकरणादीनां जीव एवाध्यासो दर्शितः । तेषां जीवतादात्म्यप्रतीतिश्चानुभवसिद्धा । विवरणे च प्रतिकर्मव्यवस्थायां ब्रह्मचैतन्यस्य उपादानतया घटादिसङ्गित्वम् , जीवस्य तदसङ्गित्वेऽपि अन्तःकरणसङ्गित्वञ्च तदुपादानत्वाभिप्रायेण वर्णितम् । भामत्याञ्च
‘ज्योतिश्चरणाभिधानात्’(ब्र.सू.१.१.१०) इत्यधिकरणे जाठराग्नेर्जीवोपादानकत्वं जीवच्छरीरमृतशरीरयोरोष्ण्योपलम्भानपलम्भाभ्यां दर्शितम् ।
कृत्स्नप्रसक्त्यधिकरणे (ब्र.सू.२. १. ८) च
‘आत्मनि चैवं विचित्राश्च हि’(ब्र.सू.२. १. २८) इति सूत्रे जीवात्मनि स्वरूपानुपमर्दैनानेकाकारस्वप्नप्रपञ्चसृष्टिवत् ब्रह्मणि वियदादिसृष्टिरुपपद्यत इति वर्णितम् । योनिशब्दस्य पञ्चमीनाञ्च निमित्तत्वपरत्वे जीवस्य वियदादिष्वपि धर्माधर्मद्वारा कारणत्वं वक्तुं शक्यम् । मुक्तप्राप्यत्वादिकं च साधकफलावस्थाभेदादिभिर्जीव एव सङ्गमयितुं शक्यम् । तथाऽपि जीव एवेति पक्षविशेषपरिग्रहे किं नियामकमिति चेत् ; उच्यते ।
‘अगोत्रमवर्णमचक्षुश्रोत्रमपाणि पादम्’(मु. १.१.६) इति जीवे प्रसिद्धस्य गोत्रवर्णादेर्निषेधजातस्याधिकरणविशेषाकांक्षायां तस्यैव जीवस्य रजतात्मना प्रतीतस्य रङ्गस्य ‘नेदं रजतम्’ इति निषेध इवाधिकरणत्वे सम्भवति नाधिकरणान्तरमपेक्षणीयम् । तस्याधिकारणत्वासम्भवे परं तदन्यस्मिन्नधिकरणे ग्राह्ये ‘नञिवयुक्त’ न्यायेन तत्सदृशान्वेषणं भवति । यद्यपि दृसश्यत्वग्राह्यत्वनिषेधानुरोधेन तदधिकरणमव्याकृतमिति लभ्यते, प्रथमश्रुतं च तन्निषेधद्वयम् , तथाऽपि बाहुल्याद्गोत्रादिनिषेधजातमेवानुरोद्धव्यम् । अग्रेऽपि हि ‘दिव्यो ह्यमूर्तः’ इति मन्त्रे जीवे प्रसिद्धस्य मूर्तिमत्त्वस्य मनःप्राणवत्त्वस्य च निषेधो दृश्यते । अतस्सर्वज्ञत्वादिकं प्राक्प्रदर्शितया रीत्या जीव एव नेतव्यम् । ब्रह्मविद्यासमाख्यादिकमपि निष्कृष्टजीवनिरूपणस्य ब्रह्मावगतिपर्यवसायित्वाभिप्रायं नेतव्यम् । तस्मात्प्रधानं जीवो वा भूतयोनिरिति पूर्व : पक्षः ।
राद्धान्तस्तु – भूतयोनिः परमात्मा ।
‘यस्सर्वज्ञस्सर्ववित्’(मु. १. १. ९) इति तद्धर्मरूपा लिङ्गात् ,
‘तपसा चीयते ब्रह्म’(मु. १. १. ८) इति तदभिधानश्रुतेश्च । ननु तदुभयमक्षरात्परे पुरुषेऽन्वेति ।
‘तथाऽक्षरात्सम्भवतीह विश्वम्’(मु. १.१.७) ‘तथाऽक्षराद्विविधास्सोम्य भावाः’(मु. २. १. १) ‘अक्षरात्परतः परः’ इति पञ्चम्यन्ताक्षरशब्दानामेकरूपत्वेन तत्प्रत्यभिज्ञया भूतयोन्यक्षरस्य पुरुषशब्दोक्तब्रह्म परत्वावश्यम्भावेन तत्र ब्रह्मश्रुतिलिङ्गयोरन्वयानर्हत्वात् । न च ‘तपसा चीयते’ ‘यस्सर्वज्ञः’ इति मन्त्रगताभ्यां ‘ततः’ ‘तस्मात्’ इति पञ्चमीभ्यां ‘तथाऽक्षरात्’ इति भूतयोनाववगतस्य उपादानत्वस्य प्रत्यभिज्ञानात् तत्रैव ब्रह्मश्रुतिलिङ्गयोरन्वयः स्यादिति वाच्यम् । अर्थैकरूप्यकृतप्रत्यभिज्ञानादपि शब्दैकरूप्यकृतप्रत्यभिज्ञानस्य प्राथमिकत्वेन बलवत्त्वात् । ‘ततः’ ‘तस्मात्’ इति पञ्चम्युक्तोपादनत्वस्य च प्रागुक्ताक्षरगतपरिणामित्वरूपोपादानत्वातिरिक्ततद्घटनीयब्रह्मगतविवर्ताश्रयत्वरूपसर्वविज्ञानप्रतिज्ञानिर्वाह--कोपादानत्वान्तररूपत्वादिति चेत् ;
उच्यते - ‘यस्सर्वज्ञः’ इति मन्त्रे सर्वज्ञत्वं जगदुपादानत्वं चेत्युभयमपि न विधेयम् ; अन्यतरानुवादेनान्यतरविधौ सम्भवति उभयविधानाङ्गीकारे गौरवात् । सम्भवति च जगदुपादानत्वस्य ‘तथाक्षरात्सम्भवतीहविश्वम्’ इत्यनुपदोक्तस्यानुवादेन सर्वज्ञत्वमात्राविधानम् । एवं ‘तपसा चीयते’ इति मन्त्रेऽपि तदनुवादेन तपसा स्रष्टकालोचनोपचितत्वमात्रविधानम् । न च मन्त्रयोः पौनरुक्त्यम् ; द्वितीयमन्त्रस्य स्रष्टव्यसर्ववस्तुगताशेषविशेषविषयज्ञानरूपतया प्रथममन्त्रोक्ततपश्शब्दविवरणार्थत्वात् ।
अपिच ‘ततः’ ‘तस्मात्’ इति पञ्चमीभ्यां ‘तथाऽक्षरात्’ इत्यनुपदोक्तोपादानत्वप्रत्यभिज्ञानादपि नोपादानत्वान्तरपरत्वं तयोः कल्पयितुं युक्तम् ; ‘अक्षरात्परतः परः’ इत्यत: ‘तत:’ ‘तस्मात्’ इत्यनयोः प्राक्पठितत्वेन तद्गतशब्दैकरूप्यकृतप्रत्यभिज्ञानादप्यत्रत्यार्थैकरूप्यकृतप्रत्यभिज्ञानस्यैव प्राथमिकत्वात् । न च प्रधाने सर्वज्ञत्वमसम्भवदपि जीवे सम्भवतीत्युक्तमिति वाच्यम् । जीवेऽपि स्रष्टव्यसकलवस्तुगताशेषविशेषविषयज्ञानवत्त्वरूपस्यात्र विवक्षितस्य सर्वज्ञत्वस्यासम्भवात् । तस्मात् सर्वज्ञत्वब्रह्मश्रुत्योर्भूतयोन्यन्वयित्वात्ताभ्यां भूतयोनिः परमात्मेति युक्तम् ।
सूत्रे यद्यप्यक्षरशब्देन धर्मिनिर्देशः कर्तुं युक्तः ; तस्य विषयवाक्योपक्रमगतत्वात् ,
‘अक्षरधियां त्ववरोधः’(ब्र. सू. ३. ३. ३३) इति गुणोपसंहाराधिकरणे तस्योपादास्यमानत्वाल्लघुत्वाच्च , तथाऽपि तेन धर्मिनिर्देशे ‘यस्सर्वज्ञः’ इत्यादेर्लिङ्गवैरूप्यादन्वयो न सम्भवतीति तस्याक्षरात्परे पुरुष एवान्वयोऽभ्युपेय इति स्यादाशङ्का । तामदृश्यत्वादिगुणकभूतयोन्यभिप्रायेण सर्वज्ञपदे पुंल्लिङ्गोपपत्तिरिति सूचनेन निवारयितुं ‘अदृश्यत्वादिगुणकः’ इति धर्मिनिर्देशः कृतः ।
यद्यप्येवं सति ‘भूतयोनिः’ इत्येव धर्मिनिर्देशः कर्तुं युक्तो लाघवात् , तथाऽपि योनिशब्दस्य स्त्रीलिङ्गत्वेन प्रसिद्धिप्राचुर्यात् पुल्लिङ्गानन्वय इति मन्दशङ्कानिराकरणाय भूतयोनिशब्दस्य ‘अद्रेश्यमग्राह्यं नित्यं विभुम्’ इत्यादिविशेषणावगमितपुल्लिङ्गस्पष्टीकरणार्थम् , अन्तर्यामिगतादृष्ट्रत्वादिवदक्षरगतादृश्यत्वादिकं द्रष्ट्रत्वादिमिश्रितं न भवतीति प्रत्यवस्थानहेतुस्फुटीकरणार्थं चैवं धर्मिनिर्देशः कृतः । ‘धर्मोक्तेः’ इत्यत्र धर्मः सर्वज्ञत्वं ‘सर्वज्ञस्सर्ववित्’ इति पदद्वयप्रयोगेणाशेषविशेषाविषयतया स्फुटीकृतम् । उक्तिर्ब्रह्मश्रुतिः । धर्मोक्तयोर्द्वन्द्वैकवद्भावे सति नपुसंके नुमागमस्यानित्यत्वात् , मध्यमपदलोपिसमासाद्वा ‘धर्मोक्तेः’ इति निर्देशः । १.२.२१ ।
ननु ‘अगोत्रमवर्णम्’ इत्यादिनिषेधस्वारस्याज्जीवो भूतयोनिरिति प्रतीयते । ‘तथाऽक्षराद्विविधास्सोम्य भावाः’ इत्यत्र भावशब्दस्य भवन्ति – जायन्त इति व्युत्पत्त्या असंकुचितवियदादिसकलकार्यपरत्वौचित्येन तत्सरूपमक्षरशब्दोदितं कारणमव्याकृतमित्यवगतौ तदनन्तरमन्त्रे ‘अक्षरात्परतः परः’ इत्यक्षरात्परत्ववचनं तस्मादेवाक्षरात्परत्वविषयमित्यपि व्यवस्थितौ तदेवाक्षरं प्राग्भूतयोनित्वेनोक्तमिति ततोऽव्याकृतं भूतयोनिरित्यपि प्रतीयते इत्याशंक्याह –
विशेषणभेदव्यपदेशाभ्यां च नेतरौ । २२ ।
अक्षराद्भेदव्यपदेशेनाव्याकृतं भूतयोनिरिति न सिद्ध्यति । किन्तु तत एव तत् भूतयोनिर्न भवतीति सिद्ध्यति । कथं ? ‘तथाऽक्षराद्विविधाः’ इत्यत्र पञ्चम्युपात्तमक्षरं तावद्भूतयोन्यक्षरमिति निर्विवादम् । तदेव ‘दिव्यो ह्यमूर्तः’ इति मन्त्रे पुरुषशब्देनोच्यतेः , ‘स बाह्याभ्यन्तरः’ इत्यत्र तच्छब्दस्य पूर्वमन्त्रप्रकृताक्षरपरामार्शत्वात् । न च बाह्याभ्यन्तरसहित इत्येकपदत्वेन योजनीयम्; वैयर्थ्यात्, ‘बाह्याभ्यन्तर’ इति सर्वगतत्वोक्त्यैव बाह्याभ्यन्तरसकलवस्तुसंसर्गसिद्धेः । भिन्नपदत्वे च अक्षरात्परः पुरुष एव प्रकृताक्षरम्, न तु परत्वावधिभूतमक्षरमिति प्रत्यायनेन सार्थकत्वात् । एवञ्च भूतयोन्यक्षरपरामर्शितत्पदसामानाधिकरण्येन ‘अक्षरात्परतः’ इत्यतः प्राचीनेन ‘येनाक्षरम्’ इति अक्षरपुरुषपदसामानाधिकरण्येन चाक्षरात्परः पुरुषो भूतयोन्यक्षरमिति स्थिते तदवरतया ततो भेदेन व्यपदिश्यमानमक्षरमव्याकृतमिति न तत् भूतयोन्यक्षरमिति सिद्ध्यति । एवमगोत्रमित्यादिविशेषणेन शारीरो भूतयोनिरिति न सिध्यति, किन्तु तत् एव भूतयोनि न भवतीति सिद्ध्यति , भूतयोनित्वस्य शारीरेऽपि सम्भवात् ; तद्ग्रहणप्रसक्तौ तद्व्यावर्तनेनैव अगोत्रमित्यादि विशेषणानां सफलत्वात् ।
ननु भूतयोनित्वेन शारीर एव गृहीते तस्मिन् गोत्रसम्बन्धादिप्रतीतिकाले तदभावायोगप्रसक्तौ तावच्छेदकत्वेनागोत्रमित्यादीनां साफल्यमुक्तम् । युक्तं च तदेवागोत्रत्वादिरूपोपात्तविधेयगतत्वेन, तदयोगव्यवच्छेदस्य प्रत्यासन्नत्वात् ; न त्वन्यस्य शारीरस्य भूतयोनिपदग्राह्यत्वयोगव्यवच्छेदेन तेषां साफल्यं युक्तम् अविधेय गतफलस्य विप्रकृष्टत्वात्, प्रत्यासन्नफले लभ्ये विप्रकृष्टफलग्रहणायोगात् । अत एवावहननविधर्विधेयावहननगताप्राप्तांशपरिपूरणरूपस्तदयोगव्यवच्छेद एव फलम् , न त्वविधेयनखविदलननिवृत्तिरूपस्तदन्ययोगव्यवच्छेद इति नियमस्य परिसंख्यातो भेद इष्यते । अपि चान्ययोगव्यवच्छेदकत्वे गोत्रनिषेधादीनामधिकरणान्तरमन्वेषणीयमिति गौरवम् । अयोगव्यवच्छेदफलकत्वे प्रतियोगितया गोत्रादिमत्त्वेन बुद्धिस्थस्य शारीरस्यैवाधिकरणत्वानान्यदधिकरणमन्वेषणीयमित्यपि लाघवं प्रागुक्तमिति चेत् -
स्यादेवं यदि ‘यदिदं पुरोवर्ति तन्न रजतम्’ इतिवत् ‘यो भूतयोनिस्स गोत्रादिमान्न भवति इत्यगोत्रत्वादिकं विधेयं स्यात् । न त्वेवम् , किन्तु ‘यो गोत्रादिरहितः तं भूतयोनिं पश्यन्ति’ इत्युद्देश्यविशेषप्रतीत्यर्थतया तद्विशेषणत्वेनैव निर्दिष्टम् । तथा च यथा ‘निश्चलश्चन्द्रः’ इति चन्द्रोद्देशेन निश्चलत्वविधानस्य तरङ्गचन्द्रे अभ्यस्तचलनप्रत्ययेन निश्चलत्वायोगप्रसक्तौ तावच्छेदकत्वेऽपि ‘निश्चलं चन्द्रं पश्य’ इति तस्योद्देश्य विशेषणत्वेन प्रयोगे अभ्यस्तचलनवत्तरणचन्द्रव्यावर्तकतयैव सार्थकत्वमेवमिह ‘यो भूतयोनिस्सगोत्रादिमान्न भवति’ इति गोत्राद्यभावस्य विधेयत्वे शारीरे तदयोगव्यवच्छेदकत्वसम्भवेऽपि ‘यो गोत्रादिमान् भवति तं भूतयोनिं पश्यन्ति’ इत्यस्मिन्नुद्देश्यविशेषणत्वेन प्रयोगे अध्यस्तगोत्रादिमच्छारीरव्यावर्तकतयैव सार्थकत्वं भवति । एवं ‘दिव्यो ह्यमूर्तः पुरुषः’ इति मन्त्रे अमूर्तत्वादिविशेषणानामपि तद्वाव्यावर्तकतयैव सार्थकत्वम् ; तत्राप्यक्षरात्परत्वस्यैव विधेयत्वेनामूर्तत्वादीनामविधेयत्वात् ।
सूत्रे ‘इतरौ’ इति पूर्वाधिकरणनिर्दिष्टौ स्मार्तशारीरौ परामृश्येते । यद्यपि स्मार्तं प्रधानं सिद्धान्ते नेष्यते, तथाऽपि तदेव फलतोऽव्याकृतं भविष्यतीति तस्य परामर्शः । यद्यप्येवं सति स्मार्तशारीरनिराकरण पक्षहेत्वोः क्रमेणान्वयार्थं ‘भेदव्यपदेशविशेषणाभ्याम्’ इति सूत्रणीयम्, तथाऽपि हेतुद्वयमप्युभयत्र योजयितुं शक्यमित्येवं सूत्रितम् । अमूर्तत्वादिविशेषणेन हि ‘नञिवयुक्त’ न्यायेनाव्याकृतव्यावर्तनमपि लभ्यते । यद्यपि मनुष्यपशुपक्षिसरीसृपरूपभूतग्रामयोनित्वेन प्रसिद्धा पृथिवीह भूतयोनिपदेन मा ग्राहीति तद्व्यावर्तनार्थेनादृश्यत्वाग्राह्यत्वविशेषणेन तत्सूक्ष्मावस्थारूपस्याव्याकृतस्य ग्रहणं प्रसज्यते, तथाऽपि अमूर्तत्वगोत्रत्वादीनां बाहुल्यात्तेषामेव स्वारस्यमादरणीयमित्युक्तम् । तथा ‘येनाक्षरं पुरुषम्’ ‘अमूर्तः पुरुषः सः’ इति पुरुषस्याक्षरविशेषणेनापि अव्याकृतव्यावर्तनं लभ्यते । एवं
‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशम्’(मु. ३. १. ३) इति कर्तृकार्यभावेन, नियम्यनियामकभावेन, कर्तृकर्मभावेन च पुरुषशारीरयोर्भेदेन व्यपदेशात् पुरुषस्य च प्रागेवाक्षरपदसामानाधिकरण्यादिभिः भूतयोन्यक्षरत्वनिश्चयात् शारीरव्यावर्तनमपि लभ्यते ।
भाष्ये हेत्वोर्यथासंख्यान्वयः कण्ठतोऽनुक्तोऽपि न्यायत एवोन्नेतुं शक्यत इति व्युत्क्रमणान्वयमात्रं दर्शितम् । किञ्च भेदव्यपदेशहेतुर्जीवपक्ष एवान्वेतुं योग्यः
‘क्षरं प्रधानममृताक्षरम्’(श्वे, १.१०) इति श्रुत्यन्तरे तत्रैवाक्षरशब्ददर्शनेन पुरुषावरपरस्याक्षरशब्दस्य तत्परत्वौचित्यादिति शङ्कानिराकरणाय चाव्याकृतपक्षनिराकरणे भेदव्यपदेशहेतुसद्भावमवगमयितुं व्युत्क्रमेणान्वयो दर्शितः । तस्यायमाशयः । सर्वविज्ञानप्रतिज्ञानिर्वाहाय ब्रह्मणो जगत्प्रकृतित्वप्रतिपादनस्थले तदुपपादकाव्याकृताधिष्ठातृत्वप्रदर्शनमेवाकांक्षितमित्याकाङ्क्षाऽनुसारेण ‘अश्नोति व्याप्नोति स्वकार्याणि’ इति व्युत्पत्येहाक्षरशब्दोऽव्याकृत एव वर्तयितव्य इति । चस्त्वर्थः । विशेषणभेदव्यपदेशौ न स्मार्तशारीरपक्षसाधकौ, किन्तु तन्निराकरण एव साधकाविति भावः । अगोत्रत्वामूर्तत्वादीनि इतरव्यावर्तकरूपाणि विशेषणान्येव, न तु ‘लोहितस्तक्षकः’ इत्यादिवदयो गव्यवच्छेदकान्युपराकानीत्यभिप्रेत्य विशेषणपदमित्यलं प्रपञ्चेन । १. २. २२ ॥
ननु जीवेऽग्निमूर्धत्वादिविशिष्टं रूपं न संभवतीति चेत् , सत्यं ; जीवान्तरे न संभवत्येव, हिरण्यगर्भे तु तत् संभवति ; तस्य स्मृतिषु तथाभूतरूपप्रसिद्धेः । सर्वभूतान्तरात्मत्वमपि प्राणात्मना सर्वभूतानामध्यात्ममवतिष्ठमाने तस्मिन्व्यपदेष्टुं शक्यम् । तस्मिन् सर्वज्ञत्वसर्वस्रष्टृत्वादिकं श्रुतिस्मृतिषु प्रसिद्धमेव । न च वाच्यमक्षरादव्याकृतात्परो हिरण्यगर्भः, तस्मात् परत्वम् मूर्तपुरुषस्य श्रुतमिति; पराक्षरपदयोः प्राक् दर्शितया रीत्या सामानाधिकरण्ये संभवति वैयधिकरण्यकल्पनायोगात् । न च ब्रह्मविद्यासमाख्याविरोधः। तत्र ब्रह्मशब्दस्य पुल्लिङ्गस्य समाससंभवात्, ‘ब्रह्मा देवानां प्रथमस्संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता’ इत्युपक्रमे पुंलिङ्गस्यैव तस्य श्रवणाच्च । परविद्यात्वमप्यापेक्षिकं हिरण्यगर्भविद्यायां वक्तुं शक्यम् । न च सर्वविज्ञानप्रतिज्ञाविरोधः; अन्तर्यामिब्राह्मणे सूत्रात्मनस्तस्य ज्ञानात्सर्वविज्ञानस्य वर्णितत्वेन तद्वदिहाप्युपपत्तेः । तस्मात् समष्टिपुरुषो हिरण्यगर्भ एव भूतयोन्यक्षररूपः पुरुष इति युक्तमित्याशङ्कयाह –
रूपोपन्यासाच्च ॥ २३॥
न विग्रहादिमत्त्वविवक्षया ‘अग्निर्मूर्द्धा’ इत्यादिकमुपन्यस्तम् ; किन्तु अग्न्यादिविकाररूपेष्वधिष्ठानेषु मूर्द्धत्वादिरूपकमात्रं मुखचन्द्रन्यायेनोपन्यस्तं सर्वात्मत्वविवक्षया । दृश्यते ह्यन्यत्रापि शरीररथत्वप्रियशिरस्त्ववेदनिश्वसितत्वादरूपकम् । शरीरादिषु रथत्वाद्यसंभववदग्न्यादिषु मूर्धत्वाद्यसंभवोऽपि अविशिष्ट एव । तस्मादमूर्तत्वादीनां विशेषणत्वस्याविचलत्वात्तैर यजीवानामिव हिरण्यगर्भस्यापि व्यावर्तनं स्यादेव ।
सूत्रे रूपशब्देन रूपकमुक्तम् । रूपयति अधिष्ठानमारोप्यरूपेण रूपयन्तं करोतीति हि रूपकशब्दव्युत्पत्तिः । तत्र ण्वुला रूपकशब्दवत् पचाद्यचा रूपशब्दोऽपि वर्तितुमर्हति । अयञ्च सूत्रार्थो भाष्यकृता स्वमतरीत्या सूत्रव्याख्यानानन्तरमाशङ्कापरिहाराभ्यां स्पष्टीकृतः ।
‘एतस्माज्जायते प्राण:’(मु. २. १. ३) इति मन्त्रात् क्रियानुषङ्गेण ‘अग्निर्मूर्द्धा’ इति मन्त्रस्य त्रैलोक्यशरीरो हिरण्यगर्भः भूतयोन्यक्षरादजायतेत्यर्थपरत्वमङ्गीकृत्य ‘रूपोपन्यासात्’ इति सूत्रस्य, ‘पुरुष एवेदं विश्वम्’ इति सार्वात्म्यरूपब्रह्मलिङ्गोपन्यासात् भूतयोनिः परमात्मा, इति योजनान्तरमपि भाष्ये दर्शितम् । तत् ‘स्मर्यमाणमनुमानं स्यात्’ इत्युत्तराधिकरणसूत्रविरुद्धमित्यस्वारस्यं भाष्य एव ‘केचित्’ इत्यनेन ध्वनितम् । चकारः समाख्यादिसमुच्चयार्थः । १. २. २३. ।
इति यदृश्यत्वाधिकरणम् । ६।
वैश्वानरस्साधारणशब्दविशेषात् । २४ ।
सिद्धान्तस्तु – द्युमूर्द्धत्वादिकल्पना सर्वोपादानत्वेन , सर्वनियन्तृत्वेन च सर्वविकारानुगते ब्रह्मणि सालम्बना , न तु जाठरादिषु । सर्वलोकाद्याश्रयफलश्रवणञ्च सर्वलोकाद्यात्मकब्रह्मोपासनाया एव तत्क्रतुन्यायानुसारि । सर्वपापप्रदाहश्च ब्रह्मोपासनफलत्वेनैव वेदान्तेषु प्रसिद्धतरः । शाखाभेदेन ब्रह्मवैश्वानरशब्दयोरुपक्रमश्रुतत्वाविशेषेऽपि ब्रह्मशब्दो वैश्वानरशब्दवदनेकसाधारणत्वाभावाज्झटित्येवार्थविशेषसमर्पकः । ततश्च यद्यप्यात्मवैश्वानरशब्दौ साधारणौ , तथाऽपि तयोः परमात्मपरत्वावगमकद्युमूर्द्धत्वादिविशेषसद्भावात् वैश्वानरः परमात्मेति ।
सूत्रे ‘विशेषात्’ इति एतावति वक्तव्ये आत्मवैश्वानरशब्दयोस्साधारण्यरकीर्तनं न केवलमिह शब्दसाधारण्यमधिकरणान्तरवत् संशयमात्रबीजम् , किन्तु पूर्वपक्षस्यापि तदेव बीजमिति दर्शयितुम् । तेन जाठरादीनां पञ्चानां चतुर्णा वाऽनवधारणेनात्र पूर्वपक्ष इति सूचितं भवति । १. २. २४ ।
ननु द्युमूर्द्धत्वादिविशिष्टरूपं हिरण्यगर्भस्यापि भवति स्मृतिषु प्रसिद्धम् । तत्कथं परमात्मलिङ्गम् ? न च
‘अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यौ’(मु. २. १. ४) इत्यादीनां द्युमूर्द्धत्वादिप्रतिपादकश्रुत्यन्तराणां परमात्मविषयत्वाद्वैदिकप्रसिद्ध्या तत्परमात्मलिङ्गं स्यादिति वाच्यम् ; हिरण्यगर्भे तादृग्रूपस्मरणस्यापि मूलश्रुत्याकाङ्क्षत्वेन तत्रापि वैदिकप्रसिद्धेरनिवार्यत्वादित्यत आह –
स्मर्यमाणमनुमानं स्यादिति । २५ ।
परमात्मनोऽपि तावदीदृशं रूपं स्मर्यते ‘यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशश्श्रोत्रं तस्मै लोकात्मने नमः’ । ‘द्यां मूर्द्धानं यस्य विना वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिशश्श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता’ इत्याद्यासु स्मृतिषु । तच्च स्मर्यमाणं रूपमस्याः श्रुतेराथर्वणादिश्रुतेश्च मूलत्वानुमापकं सत् हैरण्यगर्भतादृग्स्मणरस्यापि मूलाकाक्षापूरकं भवितुं शक्तम् । उपासनाविवक्षया सर्वात्मत्वविवक्षया च परमात्मनि श्रुतिप्रतिपन्नस्यैव द्युमूर्द्धत्वादिकल्पनस्य सर्गस्थितिप्रलयकर्तृत्वादेरिव परमात्मशक्त्यभिव्यक्तिमति हिरण्यगर्भे स्तुत्यर्थतया स्मरणोपपत्तेः । अतः परमात्मन एवैतत्त्रैलोक्यात्मकं रूपं स्मर्यत इति फलतः पर्यवस्यतीति तत्स्मर्यमाणं रूपमुदाहृतश्रुतिवाक्यानां मूलत्वानुमापकं सत् वैश्वानरस्य परमात्मत्वे लिङ्गं भवितुमर्हति । अतस्तेन लिङ्गेन वैश्वानरः परमात्मेति युक्तमेव ।
अस्मिन्नर्थे सूत्रमावृत्त्या योजनीयम् । तत्र स्मर्यमाणमित्यस्य परमात्मनस्स्मर्यमाणं त्रैलोक्यात्मकं रूपमित्यर्थो योजनाद्वयेऽपि समानः । आद्ययोजनायामनुमानमित्यस्य मूलश्रुत्यनुमापकमित्यर्थः , स्यादित्यस्य भवितुं शक्यमित्यर्थः । ‘शकि लिङ् च’(पा. सू. ३. ३. १७२) इति शक्तौ लिङ्प्रत्ययः । किं भवितुं शक्यमित्याकांक्षायामपनोद्यशङ्कानुसारेण हैरण्यगर्भतादृग्रूपस्मरणस्य मूलश्रुत्याकांक्षापूरकमित्यद्याहृतेन स्याच्छब्दस्यान्वयः । इयञ्च योजना ‘यस्मात्परमेश्वरस्यैवाग्निरास्यन्द्यौमूर्द्धेतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते’ इति भाष्येण फलप्रदर्शनमुखेन सूचिता , अन्यथा हिरण्यगर्भस्यापि तादृग्रूपस्मरणसत्त्वेन भाष्ये परमेश्वरस्यैवेत्वधारणानुपपत्तेः । इति शब्दो द्वितीययोजनाप्रदर्शनीयमर्थं प्रति हेतुत्वार्थः । यस्मादेवं तस्मात् स्मृतिप्रसिद्ध परमात्मनो रूपं मूलभूतश्रुत्यनुमापकतया प्रथमयोजनायां प्रदर्शितं , अनुमानं स्यात् , वैश्वानरस्य परमात्मत्वे लिङ्गं भवतीत्यर्थः । इयं योजना ‘तत्स्मर्यमाणम्’ इत्यादिभाष्येण स्पष्टमेव दर्शिता । अस्यामपि योजनायामितिशब्दो हेत्वर्थः । स च ‘यस्मादिदं गमकं तस्मादपि वैश्वानरः परमात्मा’ इति भाष्येण दर्शितः ।
ननु स्मर्यमाणं परमात्मनो रूपं वैश्वानरवाक्यमाथर्वणवाक्यं चेत्युभयमपि किमर्थं मूलश्रुतित्वेनापेक्षत इति चेत् ; स्मृत्युक्तसर्वावयवप्रतिपत्त्यर्थमिति ब्रूमः । चन्द्रस्य चक्षुष्ट्वं ह्याथर्वणवाक्यादेव प्रतिपत्तव्यम् । दिवो मूर्द्धत्वन्तु वैश्वानरवाक्यात् । ततः प्रतिपद्य आथर्वणेऽपि
‘असौ वाव लोको गौतमाग्निः’(छा. ५. ४.१) इति श्रुत्यनुसारेण द्युपरोऽग्निशब्द इति निश्चेतव्यम् । न च वैश्वानरवाक्येपि दिवो मूर्द्धत्वं नोक्तमिति शंक्यम् ; तत्रोपक्रमानुसारेण सुतेजश्शब्दस्य द्युपरत्वात् ।
एवं ह्युपाख्यायते – औपमन्यवादयः पञ्च महर्षयः ‘को न आत्मा किं ब्रह्म इति मीमांसित्वा निश्चयमलभमाना वैश्वानरोपासनापरमुद्दालकं गत्वा तेनापि तस्यामकृत्स्नवेदिना अश्वपतिः कैकयो वैश्वानरमुपास्ते तमभ्यागच्छाम’ इत्युक्त्वा उद्दालकषष्ठास्तमभ्यगमन् । कैकयः ‘तान् परीक्ष्य ततो वक्तव्यशेष वक्ष्यामि’ इत्यभिसन्धाय ,
‘औपमन्यव कं त्वमात्मानमुपास्ते’(छा. ५.१२.१) इत्यादिना तान् षडपि ऋषीन क्रमेण पृष्ट्वा तैः
‘दिवमेव भगवो राजन्’(छा. ५. १२ , १) इत्यादिभिर्यथाक्रमं द्युसूर्यानिलाकाशजलावनिषु वैश्वानरबुद्ध्या स्वैरुपास्यमानतयोक्तेषु द्व्यायो वैश्वानरस्य मूर्द्धादिपादान्तावयवा एव , न तु ते वश्वानरबुध्योपास्या इति व्यस्तोपासनाः प्रतिषिध्य समस्तोपासनाविषयस्य वैश्वानरस्य प्रागुपक्षिप्तद्युमूद्धत्वादिविशिष्टं रूपमेकीकृत्य उपदिदेश
‘मूर्दैव सुतेजाः’(छा., ५.१८ , २) इत्यादिना । एवं ‘यस्याग्निरास्यम्’ इत्यग्निमुखत्वस्मरणांशेपि श्रुत्यन्तरापेक्षणं द्रष्टव्यम् । १. २. २५ ।
अथ वैश्वानरो जाठरोऽग्निरेवेति निर्धारणेन पूर्वपक्षान्तरमुपपादकमुखेन उद्घाट्य निराकरोति –
शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषमपि चैनमधीयते । २६ ।
न वैश्वानरस्तृतीयभूतं , तदधिदेवता , जीवः , परमात्मा वा , किन्तु जाठर एव ।
अयमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते’(बृ. ५. ९.१) इत्यादिवाक्यान्तरे विशिष्य जाठरे प्रसिद्धाद्वैश्वानरशब्दात् ,
‘स एषोऽग्निर्वैश्वानरः’(श. ब्रा. १०. ६. १. ११) इति वाजसनेयके समानप्रकरणे अस्मिन्वैश्वानर एवं प्रयुक्तादग्निशब्दात् ,
‘हृदयङ्गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’(छा. ५.१८.२) इति त्रेताग्निकल्पनालिङ्गात् , ‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ इति प्राणाहुत्यधिकरणतालिङ्गात् ,
‘पुरुषेऽन्तःप्रतिष्ठितं वेद’(श. ब्रा. १०. ६. १. ११) इति वाजसनेयके श्रुतात्पुरुषान्तःप्रतिष्ठितत्वलिङ्गाच्च । यद्यप्यग्निवैश्वानरशब्दौ
‘विश्वस्मा अग्निं भुवनाय देवाः वैश्वानरं केतुमह्नामकृण्वन्’(ऋ.सं.१०.८८.१२) ‘वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः’(ऋ.सं.१.९८.१) इत्यादिश्रुत्यन्तरेषु तृतीयभूततदधिष्ठातृदेवतयोरपि दृष्टौ , पुरुषान्तःप्रतिष्ठितत्वञ्च जीवपरमात्मनोरपि प्रसिद्धम् , तथाप्युक्तरूपत्रेताग्नित्वकल्पनम् , प्राणाहुत्याधारतासङ्कीर्तनञ्च जाठर एव सङ्गच्छते । स हि
‘सन्तापयति स्वं देहमापादतलमस्तगः’(तै., ४ , १३. ३०) इति देहव्यापित्वेन श्रुतः ; प्राणाहुतिद्रव्यस्यान्नस्य पाचकश्च , देहव्यापिन्यग्नावेव हि हृदयादिप्रदेशावच्छेदेन गार्हपत्यत्वादिकल्पनं युक्तम् । आहुतिद्रव्यपाचकस्यैव चाग्नेस्तदाधारत्ववर्णनं युक्तम् ‘अवाड्ढव्यानि सुरभीणि कृत्वा’ इति श्रुतितः , प्रत्यक्षतश्च आहुतिद्रव्याधारस्यैवाग्नेस्तत्पाचकत्वावगमात् । एवञ्च ‘यस्य येनार्थसम्बन्ध’ इति न्यायेनाग्निवैश्वानरशब्दयोर्जीवपरमात्मपक्षनिराकरण एवान्वयः , अन्तःप्रतिष्ठितत्वहेतोः भूतदेवतापक्षनिराकरण एवान्वयः , न त्वेषां जाठरत्वसाधनेऽन्वयः । अत एव सूत्रे जाठर इत्यभिमतसाध्यमनिर्दिश्य नञा पक्षान्तरनिराकरणमेव साध्यत्वेन निर्दिष्टम् । त्रेताग्नित्वकल्पनप्राणाहुत्याधारत्वलिङ्गयोस्तु चतुर्णामपि पक्षान्तराणां निराकरणेन तदर्थलब्धजाठरत्वसाधनेन चान्वयो द्रष्टव्यः ।
एवं सिद्धान्त्यभिमतपरमात्मपक्षनिराकरणे , पूर्वपक्ष्यभिमतजाठरपक्षसाधने चोपयुक्ततया अन्तरङ्गहेतून् ‘शब्दादिभ्यः’ इत्यनेन निर्दिश्यादिशब्देन ग्रहीतुं शक्यमप्यन्तःप्रतिष्ठितत्वमनवधारणपूर्वपक्षप्राप्तभूतदेवतापक्षनिराकरणमात्रार्थतया तेभ्यो विलक्षणं बहिरङ्गमिति द्योतयितुमेव पृथक् बहिर्निर्दिष्टम् । न च जाठरे द्युमूर्द्धत्वाद्यसम्भवः; वाजसनेयके ‘स होवाच मूर्द्धानमुपदिशन्नुवाच एष वा अतिष्ठा वैश्वानर इति । चक्षुषी उपदिशन्नुवाच एष वै सुतेजाः वैश्वानर इति । नासिके उपदिशन्नुवाच एष वै पृथग्वर्त्मा वैश्वानर इति । मुख्यमाकाशमुपदिशन्नुवाच एष वै बहुलो वैश्वानर इति । मुख्या अप उपदिशन्नुवाच एष वै रयिर्वैश्वानर इति । चुबुकमुपदिशन्नुवाच एष वै प्रतिष्ठा वैश्वानरः’ इत्युपासकमूर्द्रादीनामतिष्ठासुतेजश्शब्दाद्युक्तद्युलोकसूर्यादिरूपवैश्वानरमूर्द्धचक्षुराद्यात्मना संपादनात्तैर्जाठरस्यापि द्युमूर्द्धत्वादिव्यपदेशोपपत्तेः , छान्दोग्येऽपि
‘यस्त्वेतमेवं प्रादेशमात्रम्’(छा. ५. १५. १) इति विशेषणानुसारेण वाजसनेयकप्रतिपादितमूर्द्धचुबुकान्तरालकल्पितद्युमूर्द्धत्वादेरेवावश्यमुपादेयत्वाच्च । न च
‘स एषोग्निर्वैश्वानरो यत्पुरुषः’(श. ब्रा. ७. ३. १. ३५) इति वाजसनेयकगतपुरुषत्वव्यपदेशविरोधः , उपासकमूर्द्धादिचुबुकान्तावयवेषु वैश्वानरं प्रति मूर्द्धादिपादान्तावयवत्वस्य कल्पिततया तल्लब्धशरीरत्वसादृश्येन जाठरेऽपि तद्व्यपदेशोपपत्तेः । अत एव अनन्तरं ‘स यो हैतम्’ इत्यादिवाक्ये पुरुषविधत्वकीर्तनम् । न हि मुख्ये पुरुषत्वे पुरुषविधत्वकीर्तनमुपपद्यते । एवं च छान्दोग्यगतौ ब्रह्मात्मशब्दावपि कल्पितेन द्युमूर्द्धत्वादिना जाठरस्याथर्वणोक्तब्रह्मसादृश्यादुपपादनीयौ । तदेतद्युमूर्द्धत्वाद्यसम्भवपरिहारजातं द्योतयितुमप्यन्तःप्रतिष्ठानादिति हेतुः पृथङ्निर्दिष्टः । तेन हि वैश्वानरः परमात्मेति वदता सिद्धान्तिनाऽपि ‘पुरुषेऽन्तः प्रतिष्ठितम्’ इत्यनेन स्वरसतः प्रतीतस्य पुरुषेऽन्तःपर्याप्तवृत्तित्वस्य परमात्मनि स्वरूपेण प्रसिद्धद्युमूर्द्धत्वादिना चासम्भवतो निर्वाहाय उपासकमूर्द्धादिचुबुकान्तावयवकल्पितशरीरावच्छिन्नत्वमेव शरणीकर्तव्यमिति जाठरेऽपि न द्युमूर्द्धत्वाद्यसम्भवः , नापि ब्रह्मश्रुत्यादिविरोध इति द्योतितं भवति ।
सूत्रे चशब्देन फलविशेषनिर्देशासम्भवपरिहारस्समुच्चितः । ‘अन्नमत्ति’ इति श्रुतं फलं न ब्रह्मोपासनायामेव नियतम् ; ‘एतयाऽन्नाद्यकामं याजयेत्’ इत्यादिषु कर्मणामपि तत्फलश्रवणात् । सर्वपापप्रदाहस्तु प्राणाग्निहोत्रस्यैव फलत्वेन श्रुताः ; न वैश्वानरविद्यायाः । तस्माद्वैश्वानरो जाठर एवेति पूर्वः पक्षः।
सिद्धान्तस्तु ‘वैश्वानरो न परमात्मा , किन्तु जाठर’ इति नैतैः श्रुतिलिङ्गैरभ्युपगन्तुं युक्तम् ; जाठरप्रतीकस्य , जाठरोपाधिकस्य परमात्मनः उपासनोपदेशः इत्यङ्गीकारेण एतेषां श्रुतिलिङ्गानामन्यथानेतुं शक्यत्वात् । केवले जाठरे द्युमूर्द्धत्वादेरसम्भवेन तस्यानन्यथासिद्धत्वात् । न चोपासकमूर्द्धचुबुकान्तराल कल्पितद्युमूर्द्धत्वादेर्जाठरेऽपि सम्भवोऽस्तीति शंक्यम् ; छान्दोग्ये
‘दिवमेव भगवो राजन्निति होवाच’(छा. ५. १२. १) इत्याद्युपक्रमानुसारेण ‘मूर्द्धैव सुतेजाः’ इत्यादेः प्रसिद्धद्युप्रभृतिमूर्द्धत्वादिपरतया तस्य जाठरे असम्भवात् । उभयविधश्रुत्यनुसारेण छान्दोग्ये अधिदैवतं प्रसिद्धदिवादिषुमूर्द्धादिपादान्तावयवरूपत्वं वाजसनेयके अध्यात्ममुपासकमूर्द्धादिषु द्व्यादिपृथिव्यन्तत्रैलोक्यात्मकवैश्वानरमूर्द्धादिपादान्तावयवरूपत्वमुपास्यमित्युभयविधस्यापि द्युमूर्द्धत्वादेः प्रामाणिकत्वात् । छान्दोग्यगतप्रादेशमात्रत्वोक्तिनिर्वाहस्याग्रे सूत्रकृतैव प्रदर्शयिष्यमाणत्वात् , उपासकमूर्द्धदिकल्पितद्युमूर्द्धत्वादेरपि तन्नियन्तरि परमात्मनीव गगनादिवत् तत्सम्बन्धमात्रशालिनि जाठरे असम्भवाच्च ।
एवं द्युमूर्द्धत्वाद्यसम्भवेन तल्लब्धसादृश्योपपादनीयानां ब्रह्मात्मपुरुषश्रुतीनामप्यसम्भवो व्याख्यातः । तथा फलनिर्देशोऽपि जाठरपक्षे न सम्भवति । न हि ‘अन्नमत्ति’ इति कर्मफलसाधारणमन्नादत्वमात्रमुच्यते , सर्वभूतलोकात्मसम्बन्धिनोऽन्नस्याप्रसिद्धत्वात् , किन्तु सर्वेषु भूतेषु लोकेषु सर्वेष्वात्मसु च यद्यद्भोग्यमुपासकस्य स्पृहणीयं सम्भवति , तत् सर्वं सङ्कल्पमात्रेण प्राप्नोतीत्येतत्
‘तेषां सर्वेषु लोकेषु कामचारो भवति’(छा. ७. २५. २) इत्यादिश्रुत्यन्तरेषु ब्रह्मोपासनाफलत्वेन प्रसिद्धमत्रोच्यते । सर्वपापप्रदाहश्च न प्राणाग्निहोत्रफलत्वेन उच्यते ; वैश्वानरविद्याङ्गस्य प्राणाग्निहोत्रस्य पृथक्फलानपेक्षत्वात् , किन्तु प्रधानापेक्षितफलत्वेनैव प्राणाग्निहोत्रसन्निधौ निर्दिश्यते । एवं परमात्मसाधकानां द्युमूर्द्धत्वादिलिङ्गब्रह्मात्मपुरुषश्रुतिफलविशेषरूपाणां सर्वेषामपि हेतूनां जाठराग्निसाधकानां तथा दृष्टृयुपदेशेन ब्रह्मणीव जाठराग्नौ सम्भवाभावः ‘असम्भवात्’ इत्यनेन संगृहीतः ।
ननु पुरुषश्रुत्यसम्भवस्यापि ‘असम्भवात्’ इत्यनेनैव संग्रहे ‘पुरुषमपि’ इत्यादिसूत्रशेषः किमर्थः ? ‘अन्तःप्रतिष्ठानात्’ इति पृथङ्निर्दिष्टहेत्वन्तरनिराकरणार्थ इति चेत् ; न । अग्निर्वैश्वानरश्रुतित्रेताग्निकल्पनप्राणाहुत्याधारत्वलिङ्गानां परमात्मन्यसम्भवतामपि द्युमूर्द्धत्वायद्यनुसारेण तथा दृष्टृयभिप्रायतया नयने परमात्मन्यपि सम्भवतोऽन्तःप्रतिष्ठितत्वस्य दुर्बलस्य पृथङ्निराकरणहेत्वनपेक्षत्वात् । तदपेक्षत्वेऽपि ‘पुरुषमपि’ इत्यादि सूत्रशेषेण पुरुषश्रुतिव्यतिरिक्तस्य हेतोरलाभात् , तस्य चासम्भवादित्यनेनैव लब्धत्वादिति चेत् ।
अत्र ब्रमः – ‘असम्भवात्’ इत्यनेन न केवलं परमात्मसाधकानां द्युमूर्द्धत्वादीनामेवासम्भवः संगृहीतः , किन्तु जाठरपक्षसाधकत्वेन पूर्वपक्षिणोपन्यस्तस्य पुरुषेऽन्तःप्रतिष्ठितत्वस्याप्यसम्भवः संगृहीतः । पुरुषेऽन्तःप्रतिष्ठितत्वं हि जीवेऽन्तःप्रतिष्ठितत्वम् । तत्तु परमात्मन्येव सम्भवति ; ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरः’ इति श्रुत्यन्तरप्रसिद्धेः , न तु जाठराग्नाविति । तत्र पुरुषशब्देन शरीरं विवक्षितम् । न तु जीवः ‘इदं वाव ज्योतिर्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः’ इति जाठराग्नावेव शरीरान्तवर्तित्वाभिप्रायेण ‘अन्तःपुरुषे’ इति निर्देशदर्शनादिति शङ्कायामिदमुत्तरं पुरुषमपि चैनमधीयते’ इति । अत्रायमाशयः – भवेदेवं यदि ‘यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ इत्यत्र ज्योतिरिवैनं वैश्वानरं केवलं पुरुषार्न्तवर्तिनमधीयीरन् । न त्वेवम् ; इह तु वैश्वानरं पुरुषमप्यधीयते ‘स यो हैतमग्निं वैश्वानरं पुरुषं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति । तथा च ज्योतिर्वाक्ये पुरुषपदस्य शरीरपरत्वेन जाठरपर्यवसाने विरोधिपुरुषपदान्तरसन्निधानाभावातत्र तथात्वेऽपि अत्र तद्विरोधिपुरुषपदान्तरसन्निधानसत्त्वान्न तथात्वमिति ।
ननु पुरुषपदान्तरसन्निधानं कथमिह जाठरपर्यवसानविरोधीति चेत् ; तदाकर्णय । ‘पुरुषं – पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितम्’ इति त्रयाणामपि पुरुषपदानामैकार्थ्यं तावदभ्युपगन्तव्यम् । ऐकार्थ्यसम्भवे
‘स्याच्चैकस्य ब्रह्मशब्दवत्’(ब्र. सू. २.३.५) इति न्यायानवतारात् । तथा च यदात्मकत्वं यद्विधत्वं यदन्तःप्रतिष्ठितत्वं चात्र वैश्वानरशब्दोक्तत्वेनालोच्यमानानां मध्ये कस्यचित् सम्भवति , स एव पुरुषशब्दार्थो वक्तव्यः । सम्भवति च परमात्मनो जीवरूपत्वं सर्वात्मत्वात् जीवविधत्वं च द्युमूर्द्धत्वादिलब्धसादृश्यात् । जीवान्तः प्रतिष्ठितत्वं च सर्वान्तर्यामित्वात् । जाठरस्य त्वचेतनस्य न जीवात्मत्वं जीवविधत्वं जीवान्तर्यामित्वं वाऽस्ति । तस्मात् पुरुषं पुरुषविधमिति विरोधिपुरुषपदसन्निधानात् जाठरे पुरुषान्तर्वर्तिरत्वस्याप्यसम्भवो युक्त एव ।
ननु ‘पुरुषमपि चैनम्’ इति सूत्रं लिखित्वा कथं पुरुषमप्यधीयते पुरुषविधमप्यधीयते इति व्याख्यातम् ? उच्यते । “पुरुषविधम् इत्यपि केचित् सूत्रावयवं पठन्ति” इति भाष्ये दर्शितम् । तत्र भगवतो बादरायणादेव केचन शिष्याः पुरुषमिति पाठं अन्ये शिष्याः पुरुषविधमित्यपि पाठं श्रुतवन्त इति तत्तत्सम्प्रदायानुसारिणस्तथा तथा पठन्तीति पाठद्वयमपि सूत्रकारप्रणयनमूलमित्येव भाष्याभिप्रायः। न हि सूत्रकारानुपज्ञमसाम्प्रदायिकं सम्पातायातपाठं भगवत्पादा लिखन्ति । अतः पाठद्वयमप्येकीकृत्य तथा व्याख्यातम् । सूत्रे चशब्दः तुशब्दार्थे वर्तमानः प्रसक्तशङ्कानिवृत्त्यर्थः सन् जाठरे पुरुषान्तःप्रतिष्ठितत्वासम्भववर्णनेन प्रग्लिखिताशङ्कावतारं सूचयतीति सर्वमनवद्यम् । १.२.२६ ।
अथ त्रैलोक्यव्याप्त्यभावेन जाठरस्य वैश्वानरत्वासम्भवेऽपि महाभूताग्निः स भविष्यति । तस्य हि द्युलोकादिव्याप्तिरवगम्यते ‘यो भानुना पृथिवीं चामुतमामाततान रोदसी अन्तरिक्षम्’ इति । तस्य पुरुषेऽन्तःप्रतिष्ठितत्वं च जाठररूपेण सम्भवति । अथवा तच्छरीरा देवता वैश्वानरो भविष्यति । सा ह्यैश्वर्ययोगेन द्युलोकाद्यधिष्ठातुं शक्नोति । पुरुषान्तःप्रतिष्ठितत्वं च तत्र सम्भवति ‘अग्निर्वाक् भूत्वा मुखं प्राविशत्’ इति श्रुतेरित्याशङ्कां जाठरपक्षनिराकरणहेत्वतिदेशेन निराकरोति –
अत एव न देवता भूतं च ।२७।
अचेतनस्य भूतस्य द्युसूर्याद्यधिष्ठातृत्वं न सम्भवति । तदसम्भवे च गगनादिसाधारणेन सम्बन्धमात्रेण तस्य द्युमूर्द्धत्वादिकल्पनं न शोभत इति जाठरपक्षनिराकरणप्रकारेणैव भूतपक्षनिराकरणमिति न तत्रातिदेशसूत्रनिवर्तनीयाधिकाशङ्काऽस्ति । अतो देवतायामैश्वर्येण द्व्याद्यधिष्ठातृत्वसम्भवाद्द्युमूर्द्धत्वादिकल्पना युज्यत इति देवतापक्षेऽधिकशङ्कां निरपेक्षैश्वर्यपरमेश्वरगताधिष्ठातृत्वग्रहणसम्भवे सापेक्षग्रहणमयुक्तमिति अन्तर्याम्यधिकरणन्यायस्मारणेन निराकर्तुमेवेदं सूत्रम् । भूतपक्षनिराकरणं त्वन्वाचयशिष्टमिति अन्वाचयार्थेन चकारेण सूचितम् । अथवा चकारेण जीवपक्षनिराकरणं समुच्चीयते । १.२. २७ ।
एवं द्युमूर्द्धत्वाद्यसम्भवेन पक्षान्तरपरिग्रहायोगात् परमात्मन्येव जाठरप्रतीकत्वेन , जाठरोपाधिकत्वेन वा अग्निवैश्वानरश्रुतित्रेताग्निकल्पनाप्राणाहुत्याधारत्वलिङ्गानि नेतव्यानि । पुरुषान्तःप्रतिष्ठितत्वं तु परमात्मन्येव सम्भवति , न जाठरादिष्वित्युक्तम् । इदानीं यद्यग्निश्रुत्यादिचतुष्टयं वैश्वानरे साक्षादेव योजनीयम् , यदि च ‘पुरुषेऽन्तःप्रतिष्ठितम्’ इत्यत्र पुरुषशब्दस्य ज्योतिर्वाक्य इव शरीरपरत्वं वक्तव्यम् , तदाऽप्येतत्सर्वं परमात्मनि न विरुद्धमित्याह –
साक्षादप्यविरोधं जैमिनिः । २८ ।
पुरुषेऽन्तःप्रतिष्ठितत्वं तावन्मूर्द्धादिचुबुकान्तावयवकल्पितमूर्द्धादिपादान्तावयवाधिष्ठातृत्वेन शरीरान्तर्गते परमात्मन्युपपद्यते । त्रेताग्निकल्पनं प्राणाहुत्यधिकरणत्वं चात एव तस्मिन्नुपपद्यते । प्राणाहुतिपाचकत्वेन प्रसिद्ध जाठरेऽग्नौ तदुभयं स्वारसिकम् इति चेत् ; न । आस्यं ह्याहवनीयायतनत्वेन कल्पितम् । न च जाठरस्य जठरप्रतिष्ठितस्य स्वोष्ममात्रेण सकलदेहसन्तापकस्यास्यमायतनमिति स्वारसिकम् । पाचकत्वं तु सर्वशक्तब्रह्मणोऽपि अविशिष्टम् । तस्मामूर्द्धादिचुबुकान्तावयवप्रतिष्ठिते तस्मिन्नेवास्यस्य आहवनीयायतनत्वकल्पनं प्राणाहुत्यधिकरणत्वं चोपपद्यत इति तस्मिन्नेव स्वरूपेण त्रैलोक्यशरीरत्वने च सकलदेहव्यापेक गार्हपत्यादिकल्पनमप्युपपाद्यम् । अग्निर्वैश्वानरशब्दावपि ‘अग्निः कस्मात् , अग्रणीभवति अग्रं नीयते अग्रं नयति ।
वैश्वानरः कस्मात् विश्वानरानयति , विश्व एनं नरा नयन्तीति वा , विश्वानर एव वैश्वानरः , राक्षसो वायस इतिवत् ; रक्ष एव हि राक्षसः , वय एव हि वायसः’ इति निरुक्तदर्शितेन केनचिद्योगेन तस्मिन्नुपपद्यते । अवश्यं ह्यग्निवैश्वानरशब्दयोरन्यतरस्येह यौगिकत्वं वाच्यम् । रूढ्योभयोर्ज्वलनपरत्वे पर्याययोरेकत्र प्रयोगस्य वैयर्थ्यप्रसङ्गात् । तदिहोभयोरप्यस्तु निरुक्तसार्थकत्वाय परमात्मविषयबहुश्रुतिलिङ्गानुग्रहाय च । सूत्रे अपिशब्देन पुरुषशब्दस्य शरीरपरत्वे अविरोधः समुच्चीयते । जैमिनिग्रहणं स्वशिष्योपपादितप्रकारोऽयमिति तत्ख्यापनार्थम् । एवमुत्तरत्रापि ऋषिविशेषग्रहणे फलं द्रष्टव्यम् । १.२.२८ ।
कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरिति तां व्याख्यातुमारभते –
अभिव्यक्तेरित्याश्मरथ्यः । २९ ।
द्युलोकादिपृथिव्यन्तेषु मूर्द्धादिपादान्तावयवत्वेन कल्पितेषु उपासकानुग्रहार्थमतिमात्रस्यापि परमेश्वरस्याभिव्यक्तेर्द्युलोकादिप्रदेशसम्बन्धिनी मात्रा परिमाणमस्येति वा प्रकर्षेण परमेश्वरमूर्द्धत्वादिकल्पनाकृतेनादिश्यन्ते उपदिश्यन्त इति प्रादेशाः द्युलोकादयः , तन्मात्रं तत्परिमाणमिति वा प्रादेशमात्रत्वमित्याश्मरथ्यो मन्यते । यद्यपि प्रादेशशब्दस्य उक्तयोगात् परिमाणविशेषरूढिर्बलीयसी , तथाप्येवं प्रादेशमात्रमिति प्रागु पदिष्टं द्युमूर्द्धत्वादिप्रकारमेवंशब्देन परामृश्य तेन प्रकारेण प्रादेशमात्रत्वोपन्यासात्तेन च प्रकारेण द्वाद शाङ्गुलिपरिमाणत्वायोगादिह योगः एव ग्राह्यः इत्याश्मरथ्याभिप्रायः । एतन्न्यायसूचनार्थमेव अर्भकौकस्त्वादिसूत्रसिद्धस्याप्यस्य पुनस्सूत्रणम् । १. २. २९ ।
अथ रूढिमाश्रित्य मतान्तरं प्रदर्शयति –
अनुस्मृतेर्बादरिः । ३० ।
प्रादेशमात्रहृदयप्रतिष्ठेन मनसा अनुस्मर्यमाणत्वात् प्रादेशमात्रत्वम् , यथा प्रस्थमितानां यवानां प्रस्थत्वम् । यद्यपि तदन्तर्गत्या तदवच्छिन्नेष्विव , तेन ज्ञायमानेषु तत्परिमाणं व्यपदिष्टं न दृष्टम् , तथाऽपि रूढ्यपरित्यागेन यथाकथञ्चिदालम्बनमात्रमिति बादरिर्मन्यते । १.२. ३०॥
अत्राप्यपरितोषेण मतान्तरमाह –
संपत्तेरिति जैमिनिस्तथा हि दर्शयति । ३१ ।
समानप्रकरणे वाजसनेयिब्राह्मणे त्रैलोक्यात्मना वैश्वानरस्यावयवानामध्यात्मं मूर्द्धादिचुबकान्तावयवेषु सम्पादनाद् रूढ्यपरित्यागेन तदवच्छेदकृतमञ्जसैव प्रादेशमात्रत्वमिति जैमिनिर्मन्यते। १. २. ३१।
आमनन्ति चैनमस्मिन् । ३२ ।
आमनन्ति चैनं परमेश्वरमस्मिन्मूर्द्धचुबुकान्तराले सम्पत्त्यधिष्ठानत्वेन पूर्वसूत्रप्रकृते जाबालाः ‘स एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठितः’(जा. २. १) इत्यारभ्य ‘कतमच्चास्य स्थानं भवति भ्रुवोर्घ्रास्य च यः सन्धिः’(जा. २.१) इति । अतः परमेश्वरस्य मूर्द्धचुबुकान्तरालवर्तितायाः शाखान्तरेऽपि दृष्टत्वात् तदवच्छेदकृतं प्रादेशमात्रत्वमिति निर्वहणं युक्तम् । इदं प्रादेशमात्रत्वं छान्दोग्ये पूर्वोक्तप्रकारो न भवति इत्येवंशब्दानुपपत्तिरिति चेत् , न । एवं अधिदैवतं प्रसिद्धद्युमूर्द्धत्वादिविशिष्टं रूपम् , प्रादेशमात्रमध्यात्मं मूर्द्धचुबुकान्तरालप्रतिष्ठितप्रादेशमात्रं च इत्युभयविधोपासनालाभाय एवं प्रादेशमात्रमित्यनयोर्विशेषणद्वयत्वोपपत्तेः । वाजसनेयके ‘तथा तु व एनान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामि’ इति प्रतिज्ञापूर्वकं स होवाच मूर्द्धानमुपदिशन्’ इत्यादेरारब्धत्वेन छान्दोग्येऽपि समानप्रकरणे मूर्द्धचुबुकान्तरालप्रतिष्ठितत्वलभ्यस्यैव प्रादेशमात्रत्वस्य ग्राह्यत्वात् । तस्माद्यद्यपि ‘अभिव्यक्तेः’ इति सूत्रस्य रूढ्यपरित्यागेनाप्रादेशमात्रोऽप्युपासकानुग्रहार्थं प्रादेशमात्रत्वेनाभिव्यज्यत इत्यर्थातरं भाष्ये दर्शितम् , ‘अनुस्मृतेः’ इति सूत्रस्य च प्रस्थपरिमितयवन्यायानपेक्षणेन अप्रादेशमात्रोऽपि प्रादेशमात्रत्वेनानुस्मरणीय इत्यर्थान्तरं दर्शितम् , तथाऽपि शाखान्तरे वैश्वानरस्य प्रादेशमात्रत्वं यथोपपादितं तथैव छान्दोग्येऽपि तत् ग्रहीतुं युक्तमिति जैमिनिपक्ष एव सिद्धातः । अत्र द्युमूर्द्धत्वादिरूपस्य ब्रह्मलिङ्गस्य कल्पनामात्रसिद्धत्वात् प्रादेशमात्रत्वश्रवणेनोपासकमूर्द्धादि षूपसंहृतत्वप्रतीतेः वेदिबर्हिर्गार्हपत्यादिकल्पनप्रतिरुद्धत्वाच्चास्पष्टता । १. २. ३२ ।
इति वैश्वानराधिकरणम् । ७ ।
इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजि श्रीरङ्गराजाध्वरिवरसूनोरप्पय्यदीक्षितस्य कृतौ शारीरकन्यायरक्षामणौ प्रथमाध्यायस्य द्वितीयः पाद: ।