ऐतरेयोपनिषद्भाष्यम्
प्रथमः अध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
परिसमाप्तं कर्म सहापरब्रह्मविषयविज्ञानेन । सैषा कर्मणो ज्ञानसहितस्य परा गतिरुक्थविज्ञानद्वारेणोपसंहृता । एतत्सत्यं ब्रह्म प्राणाख्यम् । एष एको देवः । एतस्यैव प्राणस्य सर्वे देवा विभूतयः । एतस्य प्राणस्यात्मभावं गच्छन् देवता अप्येति इत्युक्तम् । सोऽयं देवताप्ययलक्षणः परः पुरुषार्थः । एष मोक्षः । स चायं यथोक्तेन ज्ञानकर्मसमुच्चयेन साधनेन प्राप्तव्यो नातः परमस्तीत्येके प्रतिपन्नाः । तान्निराचिकीर्षुरुत्तरं केवलात्मज्ञानविधानार्थम् ‘आत्मा वा इदम्’ इत्याद्याह । कथं पुनरकर्मसम्बन्धिकेवलात्मविज्ञानविधानार्थ उत्तरो ग्रन्थ इति गम्यते ? अन्यार्थानवगमात् । तथा च पूर्वोक्तानां देवतानामग्न्यादीनां संसारित्वं दर्शयिष्यत्यशनायादिदोषवत्त्वेन ‘तमशनायापिपासाभ्यामन्ववार्जत्’ (ऐ. उ. १ । २ । १) इत्यादिना । अशनायादिमत्सर्वं संसार एव परस्य तु ब्रह्मणोऽशनायाद्यत्ययश्रुतेः । भवत्वेवं केवलात्मज्ञानं मोक्षसाधनम् , न त्वत्राकर्म्येवाधिक्रियते ; विशेषाश्रवणात् । अकर्मिण आश्रम्यन्तरस्येहाश्रवणात् । कर्म च बृहतीसहस्रलक्षणं प्रस्तुत्य अनन्तरमेवात्मज्ञानं प्रारभ्यते । तस्मात्कर्म्येवाधिक्रियते । न च कर्मासम्बन्ध्यात्मविज्ञानम् , पूर्ववदन्ते उपसंहारात् । यथा कर्मसम्बन्धिनः पुरुषस्य सूर्यात्मनः स्थावरजङ्गमादिसर्वप्राण्यात्मत्वमुक्तं ब्राह्मणेन मन्त्रेण च ‘सूर्य आत्मा’ (ऋ. सं. १ । ११५ । १) इत्यादिना, तथैव ‘एष ब्रह्मैष इन्द्रः’ (बृ. उ. ३ । १ । ३) इत्याद्युपक्रम्य सर्वप्राण्यात्मत्वम् । ‘यच्च स्थावरम् , सर्वं तत्प्रज्ञानेत्रम्’ (बृ. उ. ३ । १ । ३) इत्युपसंहरिष्यति । तथा च संहितोपनिषत् — ‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्ते’ (ऐ. आ. ३ । २ । ३ । १२) इत्यादिना कर्मसम्बन्धित्वमुक्त्वा ‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इत्युपसंहरति । तथा तस्यैव ‘योऽयमशरीरः प्रज्ञात्मा’ इत्युक्तस्य ‘यश्चासावादित्य एकमेव तदिति विद्यात्’ इत्येकत्वमुक्तम् । इहापि ‘कोऽयमात्मा’ (ऐ. उ. ३ । १ । १) इत्युपक्रम्य प्रज्ञात्मत्वमेव ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) इति दर्शयिष्यति । तस्मान्नाकर्मसम्बन्ध्यात्मज्ञानम् । पुनरुक्त्यानर्थक्यमिति चेत् — ‘प्राणो वा अहमस्म्यृषे’ इत्यादिब्राह्मणेन ‘सूर्य आत्मा’ इति च मन्त्रेण निर्धारितस्यात्मनः ‘आत्मा वा इदम्’ इत्यादिब्राह्मणेन ‘कोऽयमात्मा’ (ऐ. उ. ३ । १ । १) इति प्रश्नपूर्वकं पुनर्निर्धारणं पुनरुक्तमनर्थकमिति चेत् , न ; तस्यैव धर्मान्तरविशेषनिर्धारणार्थत्वान्न पुनरुक्ततादोषः । कथम् ? तस्यैव कर्मसम्बन्धिनो जगत्सृष्टिस्थितिसंहारादिधर्मविशेषनिर्धारणार्थत्वात् केवलोपास्त्यर्थत्वाद्वा ; अथवा, आत्मेत्यादिः परो ग्रन्थसन्दर्भः आत्मनः कर्मिणः कर्मणोऽन्यत्रोपासनाप्राप्तौ कर्मप्रस्तावेऽविहितत्वाद्वा केवलोऽप्यात्मोपास्य इत्येवमर्थः । भेदाभेदोपास्यत्वाच्च ‘एक एवात्मा’ कर्मविषये भेददृष्टिभाक् । स एवाकर्मकाले अभेदेनाप्युपास्य इत्येवमपुनरुक्तता ॥

आत्मा वा इदमित्यादिना केवलात्मविद्यारंभस्यावसरं वक्तुं वृत्तं कीर्तयति –

परिसमाप्तमिति ।

तत्परिसमाप्तिः कथं गम्यत इत्याशङ्क्य तत्फलोपसंहारादित्याह –

सैषेति ।

परा गतिः परं गन्तव्यं प्राप्तव्यं फलमित्यर्थः ।

उपसंहारमेव वाक्योदाहरणेन दर्शयति –

एतदिति ।

तत्र सह सर्वेण भोज्येन संयुक्तोऽध्यात्माधिदैवलक्षणः प्राणः सत्यैकशब्दवाच्यो भवतीति प्राणस्वरूपमनेन वाक्येनोपसंहृतमित्यर्थः । अनेन प्राण एक एवेत्युत्कमित्याह –

एष इति ।

तर्हि वागग्न्यादयो देवाः क इत्याशङ्क्य “तस्य वाक्तन्तिरथातो विभूतयोऽस्य पुरुषस्य” इत्यादिना प्राणस्यैव विभूतयो विस्तारा इत्युक्तमित्याह –

एतस्यैवेति ।

एवं सर्वात्मकप्राणस्याऽऽत्मत्वेन विज्ञानात्कर्मसहितात्सर्वदेवतात्मकप्राणप्राप्तिलक्षणं फलं “प्रज्ञामयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद” इत्यनेन वाक्येनोपसंहृतमित्याह –

एतस्येति ।

तथा च ज्ञानसहितेन कर्मणा केवलात्मस्वरूपावस्थानलक्षणमोक्षस्यासिद्धेस्तत्सिद्ध्यर्थं केवलात्मविद्यारम्भस्येदानीमवसर इति भावः ।

अत्रान्तरे सर्वात्मकसूत्रात्मप्राप्तिव्यतिरिक्तमोक्षस्याभावात्तदर्थं केवलात्मविद्यारम्भो न युक्त इति केषाञ्चिनमतमुत्थापयति –

सोऽयमिति ।

एतस्यैव विषयादिमतः सुखरूपत्वेन पुरुषार्थत्वान्मोक्षत्वं न निर्विषयस्य केवलात्मस्वरूपावस्थानस्येत्याह –

एष इति ।

अयमपि चेन्मोक्षः केवलात्मज्ञानेन साध्यते तदा तदारम्भोऽर्थवानित्याशङ्क्य सविशेषेणैव साधनेन सिद्धिर्युक्तेत्याह –

स चेति ।

आत्मनः सविशेषत्वेन केवलात्मविद्याया अभावादपि न तस्या हेतुत्वमित्याह –

नातः परमिति ।

तन्मतं प्रदर्श्य तन्निराकरणार्थत्वेन केवलात्मविद्यावाक्यमवतारयति –

तानिति ।

केवलात्मज्ञानेति निर्विशेषात्मविषयत्वमकर्मिनिष्ठत्वं कर्मानङ्गत्वलक्षणं कर्मासम्बन्धित्वं च कैवल्यमिह विवक्षितमित्यर्थः । ननु “आत्मा वा इदम्” इत्यादि कथं केवलात्मविषयं “स इमाँल्लोकानसृजत” इति लोकसृष्टिप्रतीतेः । तस्याश्च सविशेषहिरण्यगर्भादिकर्तृकत्वेन पुराणेषु प्रसिद्धेः । ताभ्यो गामानयदित्यादिव्यवहाराणां लोके सविशेषविषयत्वप्रसिद्धेः ।

पूर्वत्र “अथातो रेतसः सृष्टिः” “प्रजापते रेतो देवाः”इत्यत्र प्रजापतिशब्दितस्य हिरण्यगर्भस्य प्रस्तुतत्वाच्च तस्य तद्विषयत्वस्यौचित्यादित्यात्मगृहीतिरित्यधिकरणपूर्वपक्षन्यायेन शङ्कते –

कथमिति ।

सविशेषविषयत्वे सत्यात्मविद्यायाः कर्मासम्बन्धोऽप्यसिद्ध इत्यभिप्रेत्योक्तम्

अकर्मसम्बन्धीति ।

“आत्मा वा इदमेक एवाग्र आसीत्” इत्यद्वितीयात्मोपक्रमात् । “एष ब्रह्मैष इन्द्रः” इत्याद्यनुक्रम्य “सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितम्”इति प्रज्ञानशब्दितप्रत्यगात्माधिष्ठानत्वेन तद्व्यतिरेकेण ब्रह्मशब्दितहिरण्यगर्भादिप्रपञ्चस्याभावमुक्त्वा प्रज्ञानं ब्रह्मेत्यद्वितीयात्मनोपसंहारात् “स एतमेव पुरुषं ब्रह्म ततमपश्यत्” इति मध्ये परामर्शाद्ब्रह्मात्माद्वितीयत्वस्य मानान्तरागम्यत्वेनापूर्वत्वादमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवदिति स्वर्गशब्दितनिरतिशयसुखात्मकब्रह्मणैक्येन स्थितस्य तदंशभूतवैषयिकसर्वानन्दप्राप्तिलक्षणफलोक्तेः । सृष्ट्याद्यर्थवादात् । “स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत” इति प्रवेशोक्तेः । “ तस्य त्रय आवसथास्त्रयः स्वप्नाः” इति जाग्रदाद्यवस्थात्रयस्य स्वप्नत्वेन मिथ्यात्वोक्त्युपपत्तेश्च निर्विशेषाद्वितीयात्मपरत्वावगमनेन ग्रन्थस्यार्थान्तरशङ्कानवकाशाल्लोकादिसृष्ट्युक्तेश्चाध्यारोपापवादाभ्यामुक्तात्मप्रतिपत्यर्थमात्मन्यध्यारोपात्परमात्मैवेहाऽऽत्मशब्देन ग्रह्यत इतरवत् । यथेतरेषु सृष्टिश्रवणेषु “तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः” इत्येवमादिषु परस्याऽऽत्मनो ग्रहणं यथा वेतरस्मिँल्लौकिक आत्मशब्दप्रयोगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृह्यते तथेहापि भवितुमर्हति । कुतः । वाक्यार्थदर्शनात् ।

आत्मगृहीतिरितरवदुत्तरादित्यधिकरणसिद्धान्तन्यायेन केवलात्मपरत्वनिश्चयान्न सविशेषपरत्वमुत्तरग्रन्थस्येत्याह –

अन्यार्थेति ।

यच्चैष एव मोक्ष इत्युक्तं तत्राऽऽह -

तथा चेति ।

तथा संसारित्वं च दर्शयिष्यतीत्यन्वयः । तं हिरण्यगर्भस्य स्थूलं रूपं वैराजं पिण्डमशनायापिपासाभ्यां संयोजितवानीश्वर इति श्रुत्यर्थः ।

अशनायादिमत्त्वेऽपि निरतिशयसुखवत्त्वेन देवताभावस्य मोक्षत्वं स्यादित्यत आह –

अशनायादीति ।

अशनायादेर्दुःखनियतत्वान्निरतिशयसुखवत्वं तस्यासिद्धमिति संसारित्वमित्यर्थः । यच्च निर्विशेषात्मस्वरूपावस्थानस्य विषयादिरहितत्वेन न मोक्षत्वमिति तदसत् । तस्य योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येतीत्यशनायाद्यत्ययश्रुतेस्तन्नियतदुःखाप्रसक्तेः । स्वतश्च “आनन्दो ब्रह्मेति व्यजानात्” इति श्रुत्यन्तरादमुष्मिन्स्वर्गे लोक इतीहाप्यानन्दरूपतावगमात्स्वर्गशब्दस्य सुखसामान्यवाचित्वात् । “अनन्ते स्वर्गे लोके” “ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः” इत्यादिश्रुतिषु ब्रह्मानन्दे स्वर्गशब्दप्रयोगाच्च ।

तस्य विषयाभावेऽपि पुरुषार्थत्वान्मोक्षत्वमित्याह –

परस्य त्विति ।

एवं निर्विशेषात्मविद्याया मोक्षसाधनत्वमङ्गीकृत्य तस्या अकर्मिनिष्ठत्वनियमरूपं कैवल्यम् न सम्भवतीति वदन्संन्यासमाक्षिपति –

भवत्विति ।

विशेषाश्रवणमेव स्फोटयति –

अकर्मिण इति ।

संन्यसिन इत्यर्थः ।

न केवलं विशेषाश्रवणं किन्तु सन्निधानात्कर्मिणः प्रतीतेः कर्मसम्बन्धित्वनियमश्रवणं चास्तीत्याह –

कर्म चेति ।

तथा च तद्द्वारा कर्मी सन्निहित इत्यर्थः । तस्मादिति । ततो न कर्मत्यागरूपसंन्यासाश्रमोऽस्तीत्यर्थः । एवमात्मविद्यां केवलां कर्मासम्बन्धिनीमङ्गीकृत्य तस्या अकर्मिनिष्ठत्वनियमो निराकृतः ।

इदानीमङ्गीकारं परित्यजति –

न चेति ।

पूर्वत्र कर्मसम्बन्धिज्ञानविषयस्य सर्वात्मत्वोक्तेरेष ब्रह्मेत्यादिनाऽत्रापि सर्वात्मत्वोक्तेस्तेनैव लिङ्गेनास्याप्यात्मज्ञानस्य कर्मसम्बन्धित्वानुमानाद्वक्ष्यमाणस्याऽऽत्मज्ञानस्य न कर्मासम्बन्धित्वमित्यर्थः ।

संग्रहवाक्यं विवृणोति –

यथेत्यादिना।

कर्मसम्बन्धिन इति ।

तस्य “एष हीमं लोकमभ्यार्चत्” “पुरुषरूपेण एष तपति” इत्यादिना सूर्यात्मत्वमुक्त्वा तस्य सर्वात्मत्वं “तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तम्” इत्यादिना “प्राण ऋच इत्येवं विद्यात्” इत्यन्तेन “प्राणो वै सर्वाणि भूतानि च” इत्यनेन चोक्तमित्यर्थः । जगतो जङ्गमस्य तस्थुषः स्थावरस्य सूर्य आत्मेति मन्त्रार्थः ।

प्रज्ञानेत्रमिति ।

प्रज्ञाशब्दितब्रह्मनेतृकमित्यर्थः।

संदंशन्यायेनाप्यस्य कर्मसम्बन्ध्यात्मविषयत्वमिति वदन्सर्वात्मत्वलिङ्गस्य कर्मसम्बन्ध्यात्मनियतत्वमाह –

तथा चेति ।

तथा संहितोपनिषदि चेति चकारान्वयः । महत्युक्थे बृहतीसहस्राख्ये शस्त्र एतं प्रकृतमात्मानमृग्वेदिनो विचारयन्तीति श्रुत्यर्थः ।

संहितोपनिषदि प्रज्ञात्मेत्युक्तस्याऽऽत्मनो “यो यज्ञस्योल्बणं पश्येदित्यादि” वाक्यपर्यालोचनया कर्मसम्बन्धप्रतीतेरस्यापि प्रज्ञात्मत्वोक्त्या च कर्मसम्बन्धावगमात्तज्ज्ञानस्य कर्मसम्बन्धित्वमित्याह –

तथा तस्येति ।

शङ्कामुपसंहरति –

तस्मादिति ।

शङ्कावाद्येव सिद्धान्त्याशङ्कामाशङ्कते –

पुनरुक्तीति ।

संग्रहवाक्यं विवृणोति –

प्राणो वा इत्यादिना ।

पूर्वोत्तरब्राह्मणयोरेकार्थत्वे वक्ष्यमाणमपि प्राणात्मविषयं स्यात्तच्च निर्धारितमिति पुनरुक्तमित्यर्थः ।

स एवाऽऽशङ्कां परिहरति –

न तस्येति ।

तमेव प्रश्नपूर्वकं विवृणोति –

कथमित्यादिना ।

जगत्सृष्टीति ।

“स इमाँल्लोकानसृजत” इत्यादिश्रवणादित्यर्थः ।

प्रकारान्तरेण पुनरुक्तिं परिहरति –

केवलेति ।

एतं परिहारं वाशब्दार्थं वदन्विवृणोति –

अथवेति ।

कर्मणोऽन्यत्रेति ।

कर्माङ्गत्वं तदङ्गोक्थ्याद्याश्रयत्वं च विनेत्यर्थः । अप्राप्ताविति च्छेदः ।

अप्राप्तौ हेतुमाह –

कर्मप्रस्ताव इति ।

अविहितत्वादिति च्छेद उत्तरत्र हेतुः । न चैवं स्वोक्तकर्मसंबन्धित्वनियमत्यागापत्तिः । कर्माङ्गाश्रितत्वमात्रस्य त्यागेऽपि कर्मसंबन्धित्वस्य सविशेषविषयत्वलक्षणस्य कर्मसमुच्चितत्वलक्षणस्य वाऽत्यागादङ्गीकारवादेनास्य पक्षस्योक्तेर्वाऽस्मिन्नपि पक्षे कर्मिनिष्ठत्वं नियतमिति भावः ।

अत्रैव पक्षे विशेषान्तरमाह –

भेदेति ।

भेददृष्टीति ।

इदंतयोपास्य इत्यर्थः ।

अभेदेनेति ।

अहंतयेत्यर्थः ।