ऐतरेयोपनिषद्भाष्यम्
प्रथमः अध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) इति ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ (ई. उ. २) इति च वाजिनाम् । न च वर्षशतात्परमायुर्मर्त्यानाम् , येन कर्मपरित्यागेन आत्मानमुपासीत । दर्शितं च ‘तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति’ इति । वर्षशतं चायुः कर्मणैव व्याप्तम् । दर्शितश्च मन्त्रः ‘कुर्वन्नेवेह कर्माणि’ इत्यादिः ; तथा ‘यावज्जीवमग्निहोत्रं जुहोति’ ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’ इत्याद्याश्च ; ‘तं यज्ञपात्रैर्दहन्ति’ इति च । ऋणत्रयश्रुतेश्च । तत्र हि पारिव्राज्यादिशास्त्रम् ‘व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १)(बृ. उ. ४ । ४ । २२) इत्यात्मज्ञानस्तुति - परोऽर्थवादोऽनधिकृतार्थो वा । न, परमार्थात्मविज्ञाने फलादर्शने क्रियानुपपत्तेः — यदुक्तं कर्मिण एव चात्मज्ञानं कर्मसम्बन्धि चेत्यादि, तन्न ; परं ह्याप्तकामं सर्वसंसारदोषवर्जितं ब्रह्माहमस्मीत्यात्मत्वेन विज्ञाने, कृतेन कर्तव्येन वा प्रयोजनमात्मनोऽपश्यतः फलादर्शने क्रिया नोपपद्यते । फलादर्शनेऽपि नियुक्तत्वात्करोतीति चेत् , न ; नियोगाविषयात्मदर्शनात् । इष्टयोगमनिष्टवियोगं वात्मनः प्रयोजनं पश्यंस्तदुपायार्थी यो भवति, स नियोगस्य विषयो दृष्टो लोके, न तु तद्विपरीतनियोगाविषयब्रह्मात्मत्वदर्शी । ब्रह्मात्मत्वदर्श्यपि संश्चेन्नियुज्येत, नियोगाविषयोऽपि सन्न कश्चिन्न नियुक्त इति सर्वं कर्म सर्वेण सर्वदा कर्तव्यं प्राप्नोति । तच्चानिष्टम् । न च स नियोक्तुं शक्यते केनचित् । आम्नायस्यापि तत्प्रभवत्वात् । न हि स्वविज्ञानोत्थेन वचसा स्वयं नियुज्यते । नापि बहुवित्स्वामी अविवेकिना भृत्येन । आम्नायस्य नित्यत्वे सति स्वातन्त्र्यात्सर्वान्प्रति नियोक्तृत्वसामर्थ्यमिति चेत् , न ; उक्तदोषात् । तथापि सर्वेण सर्वदा सर्वमविशिष्टं कर्म कर्तव्यमित्युक्तो दोषोऽप्यपरिहार्य एव । तदपि शास्त्रेणैव विधीयत इति चेत् — यथा कर्मकर्तव्यता शास्त्रेण कृता, तथा तदप्यात्मज्ञानं तस्यैव कर्मिणः शास्त्रेण विधीयत इति चेत् , न ; विरुद्धार्थबोधकत्वानुपपत्तेः । न ह्येकस्मिन्कृताकृतसम्बन्धित्वं तद्विपरीतत्वं च बोधयितुं शक्यम् । शीतोष्णत्वमिवाग्नेः । न चेष्टयोगचिकीर्षा आत्मनोऽनिष्टवियोगचिकीर्षा च शास्त्रकृता, सर्वप्राणिनां तद्दर्शनात् । शास्त्रकृतं चेत् , तदुभयं गोपालादीनां न दृश्येत, अशास्त्रज्ञत्वात्तेषाम् । यद्धि स्वतोऽप्राप्तम् , तच्छास्त्रेण बोधयितव्यम् । तच्चेत्कृतकर्तव्यताविरोध्यात्मज्ञानं शास्त्रेण कृतम् , कथं तद्विरुद्धां कर्तव्यतां पुनरुत्पादयेत् शीततामिवाग्नौ, तम इव च भानौ ? न बोधयत्येवेति चेत् , न ; ‘स म आत्मेति विद्यात्’ (कौ. उ. ३ । ९) ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) इति चोपसंहारात् । ‘तदात्मानमेवावेत्’ (बृ. उ. १ । ४ । ९) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्येवमादिवाक्यानां तत्परत्वात् । उत्पन्नस्य च ब्रह्मात्मविज्ञानस्याबाध्यमानत्वान्नानुत्पन्नं भ्रान्तं वा इति शक्यं वक्तुम् । त्यागेऽपि प्रयोजनाभावस्य तुल्यत्वमिति चेत् ‘नाकृतेनेह कश्चन’ (भ. गी. ३ । १८) इति स्मृतेः — य आहुर्विदित्वा ब्रह्म व्युत्थानमेव कुर्यादिति, तेषामप्येष समानो दोषः प्रयोजनाभाव इति चेत् , न ; अक्रियामात्रत्वाद्व्युत्थानस्य । अविद्यानिमित्तो हि प्रयोजनस्य भावः, न वस्तुधर्मः, सर्वप्राणिनां तद्दर्शनात् , प्रयोजनतृष्णया च प्रेर्यमाणस्य वाङ्मनःकायैः प्रवृत्तिदर्शनात् , ‘सोऽकामयत जाया मे स्यात्’ (बृ. उ. १ । ४ । १७) इत्यादिना पुत्रवित्तादि पाङ्क्तलक्षणं काम्यमेवेति ‘उभे ह्येते साध्यसाधनलक्षणे एषणे एव’ (बृ. उ. ३ । ५ । १) इति वाजसनेयिब्राह्मणेऽवधारणात् । अविद्याकामदोषनिमित्ताया वाङ्मनःकायप्रवृत्तेः पाङ्क्तलक्षणाया विदुषोऽविद्यादिदोषाभावादनुपपत्तेः क्रियाभावमात्रं व्युत्थानम् , न तु यागादिवदनुष्ठेयरूपं भावात्मकम् । तच्च विद्यावत्पुरुषधर्म इति न प्रयोजनमन्वेष्टव्यम् । न हि तमसि प्रवृत्तस्य उदित आलोके यद्गर्तपङ्ककण्टकाद्यपतनम् , तत्किम्प्रयोजनमिति प्रश्नार्हम् । व्युत्थानं तर्ह्यर्थप्राप्तत्वान्न चोदनार्थ इति । गार्हस्थ्ये चेत्परं ब्रह्मविज्ञानं जातम् , तत्रैवास्त्वकुर्वत आसनं न ततोऽन्यत्र गमनमिति चेत् , न ; कामप्रयुक्तत्वाद्गार्हस्थ्यस्य । ‘एतावान्वै कामः’ (बृ. उ. १ । ४ । १७) ‘उभे ह्येते एषणे एव’ (बृ. उ. ३ । ५ । १)(बृ. उ. ४ । ४ । २२) इत्यवधारणात् कामनिमित्तपुत्रवित्तादिसम्बन्धनियमाभावमात्रम् ; न हि ततोऽन्यत्र गमनं व्युत्थानमुच्यते । अतो न गार्हस्थ्य एवाकुर्वत आसनमुत्पन्नविद्यस्य । एतेन गुरुशुश्रूषातपसोरप्यप्रतिपत्तिर्विदुषः सिद्धा । अत्र केचिद्गृहस्था भिक्षाटनादिभयात्परिभवाच्च त्रस्यमानाः सूक्ष्मदृष्टितां दर्शयन्त उत्तरमाहुः । भिक्षोरपि भिक्षाटनादिनियमदर्शनाद्देहधारणमात्रार्थिनो गृहस्थस्यापि साध्यसाधनैषणोभयविनिर्मुक्तस्य देहमात्रधारणार्थमशनाच्छादनमात्रमुपजीवतो गृह एवास्त्वासनमिति ; न, स्वगृहविशेषपरिग्रहनियमस्य कामप्रयुक्तत्वादित्युक्तोत्तरमेतत् । स्वगृहविशेषपरिग्रहाभावे च शरीरधारणमात्रप्रयुक्ताशनाच्छादनार्थिनः स्वपरिग्रहविशेषभावेऽर्थाद्भिक्षुकत्वमेव । शरीरधारणार्थायां भिक्षाटनादिप्रवृत्तौ यथा नियमो भिक्षोः शौचादौ च, तथा गृहिणोऽपि विदुषोऽकामिनोऽस्तु नित्यकर्मसु नियमेन प्रवृत्तिर्यावज्जीवादिश्रुतिनियुक्तत्वात्प्रत्यवायपरिहारायेति । एतन्नियोगाविषयत्वेन विदुषः प्रत्युक्तमशक्यनियोज्यत्वाच्चेति । यावज्जीवादिनित्यचोदनानर्थक्यमिति चेत् , न ; अविद्वद्विषयत्वेनार्थवत्त्वात् । यत्तु भिक्षोः शरीरधारणमात्रप्रवृत्तस्य प्रवृत्तेर्नियतत्वम् , तत्प्रवृत्तेर्न प्रयोजकम् । आचमनप्रवृत्तस्य पिपासापगमवन्नान्यप्रयोजनार्थत्वमवगम्यते । न चाग्निहोत्रादीनां तद्वदर्थप्राप्तप्रवृत्तिनियतत्वोपपत्तिः । अर्थप्राप्तप्रवृत्तिनियमोऽपि प्रयोजनाभावेऽनुपपन्न एवेति चेत् , न ; तन्नियमस्य पूर्वप्रवृत्तिसिद्धत्वात्तदतिक्रमे यत्नगौरवादर्थप्राप्तस्य व्युत्थानस्य पुनर्वचनाद्विदुषो मुमुक्षोः कर्तव्यत्वोपपत्तिः । अविदुषापि मुमुक्षुणा पारिव्राज्यं कर्तव्यमेव ; तथा च ‘शान्तो दान्तः’ (बृ. उ. ४ । ४ । २३) इत्यादिवचनं प्रमाणम् । शमदमादीनां चात्मदर्शनसाधनानामन्याश्रमेष्वनुपपत्तेः । ‘अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम्’ (श्वे. उ. ६ । २१) इति च श्वेताश्वतरे विज्ञायते । ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (कैवल्य २) इति च कैवल्यश्रुतिः । ‘ज्ञात्वा नैष्कर्म्यमाचरेत्’ इति च स्मृतेः । ‘ब्रह्माश्रमपदे वसेत्’ इति च ब्रह्मचर्यादिविद्यासाधनानां च साकल्येनात्याश्रमिषूपपत्तेर्गार्हस्थ्येऽसम्भवात् । न च असम्पन्नं साधनं कस्यचिदर्थस्य साधनायालम् । यद्विज्ञानोपयोगीनि च गार्हस्थ्याश्रमकर्माणि, तेषां परमफलमुपसंहृतं देवताप्ययलक्षणं संसारविषयमेव । यदि कर्मिण एव परमात्मविज्ञानमभविष्यत् , संसारविषयस्यैव फलस्योपसंहारो नोपापत्स्यत । अङ्गफलं तदिति चेत् ; न, तद्विरोध्यात्मवस्तुविषयत्वादात्मविद्यायाः । निराकृतसर्वनामरूपकर्मपरमार्थात्मवस्तुविषयमात्मज्ञानममृतत्वसाधनम् । गुणफलसम्बन्धे हि निराकृतसर्वविशेषात्मवस्तुविषयत्वं ज्ञानस्य न प्राप्नोति ; तच्चानिष्टम् , ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ (बृ. उ. २ । ४ । १४) इत्यधिकृत्य क्रियाकारकफलादिसर्वव्यवहारनिराकरणाद्विदुषः ; तद्विपरीतस्याविदुषः ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४) इत्युक्त्वा क्रियाकारकफलरूपस्य संसारस्य दर्शितत्वाच्च वाजसनेयिब्राह्मणे । तथेहापि देवताप्ययं संसारविषयं यत्फलमशनायादिमद्वस्त्वात्मकं तदुपसंहृत्य केवलं सर्वात्मकवस्तुविषयं ज्ञानममृतत्वाय वक्ष्यामीति प्रवर्तते । ऋणप्रतिबन्धश्चाविदुष एव मनुष्यपितृदेवलोकप्राप्तिं प्रति, न विदुषः ; ‘सोऽयं मनुष्यलोकः पुत्रेणैव’ (बृ. उ. १ । ५ । १६) इत्यादिलोकत्रयसाधननियमश्रुतेः । विदुषश्च ऋणप्रतिबन्धाभावो दर्शित आत्मलोकार्थिनः ‘किं प्रजया करिष्यामः’ (बृ. उ. ४ । ४ । २२) इत्यादिना । तथा ‘एतद्ध स्म वै तद्विद्वांस आहुर्ऋषयः कावषेयाः’ इत्यादि ‘एतद्ध स्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रुः’ (कौ. उ. २ । ५) इति च कौषीतकिनाम् । अविदुषस्तर्हि ऋणानपाकरणे पारिव्राज्यानुपपत्तिरिति चेत् ; न, प्राग्गार्हस्थ्यप्रतिपत्तेर्‌ऋणित्वासम्भवादधिकारानारूढोऽपि ऋणी चेत्स्यात् , सर्वस्य ऋणित्वमित्यनिष्टं प्रसज्येत । प्रतिपन्नगार्हस्थ्यस्यापि ‘गृहाद्वनी भूत्वा प्रव्रजेद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रर्जेद्गृहाद्वा वनाद्वा’ (जा. उ. ४) इत्यात्मदर्शनसाधनोपायत्वेनेष्यत एव पारिव्राज्यम् । यावज्जीवादिश्रुतीनामविद्वदमुमुक्षुविषये कृतार्थता । छान्दोग्ये च केषाञ्चिद्द्वादशरात्रमग्निहोत्रं हुत्वा तत ऊर्ध्वं परित्यागः श्रूयते । यत्त्वनधिकृतानां पारिव्राज्यमिति, तन्न ; तेषां पृथगेव ‘उत्सन्नाग्निरनग्निको वा’ इत्यादिश्रवणात् ; सर्वस्मृतिषु च अविशेषेण आश्रमविकल्पः प्रसिद्धः, समुच्चयश्च । यत्तु विदुषोऽर्थप्राप्तं व्युत्थानमित्यशास्त्रार्थत्वे, गृहे वने वा तिष्ठतो न विशेष इति, तदसत् । व्युत्थानस्यैवार्थप्राप्तत्वान्नान्यत्रावस्थानं स्यात् । अन्यत्रावस्थानस्य कामकर्मप्रयुक्तत्वं ह्यवोचाम ; तदभावमात्रं व्युत्थानमिति च । यथाकामित्वं तु विदुषोऽत्यन्तमप्राप्तम् , अत्यन्तमूढविषयत्वेनावगमात् । तथा शास्त्रचोदितमपि कर्मात्मविदोऽप्राप्तं गुरुभारतयावगम्यते ; किमुत अत्यन्ताविवेकनिमित्तं यथाकामित्वम् ? न ह्युन्मादतिमिरदृष्ट्युपलब्धं वस्तु तदपगमेऽपि तथैव स्यात् , उन्मादतिमिरदृष्टिनिमित्तत्वादेव तस्य । तस्मादात्मविदो व्युत्थानव्यतिरेकेण न यथाकामित्वम् , न चान्यत्कर्तव्यमित्येतत्सिद्धम् । यत्तु ‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह’ (ई. उ. ११) इति न विद्यावतो विद्यया सहाविद्यापि वर्तत इत्ययमर्थः ; कस्तर्हि ? एकस्मिन्पुरुषे एते न सह सम्बध्येयातामित्यर्थः ; यथा शुक्तिकायां रजतशुक्तिकाज्ञाने एकस्य पुरुषस्य । ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’ (क. उ. १ । २ । ४) इति हि काठके । तस्मान्न विद्यायां सत्यामविद्यायाः सम्भवोऽस्ति । ‘तपसा ब्रह्म विजिज्ञासस्व’ (तै. उ. ३ । २ । २) इत्यादिश्रुतेः । तपआदि विद्योत्पत्तिसाधनं गुरूपासनादि च कर्म अविद्यात्मकत्वादविद्योच्यते । तेन विद्यामुत्पाद्य मृत्युं काममतितरति । ततो निष्कामस्त्यक्तैषणो ब्रह्मविद्यया अमृतत्वमश्नुत इत्येतमर्थं दर्शनयन्नाह — ‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) इति । यत्तु पुरुषायुः सर्वं कर्मणैव व्याप्तम् , ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ (ई. उ. २) इति, तदविद्वद्विषयत्वेन परिहृतम् , इतरथा असम्भवात् । यत्तु वक्ष्यमाणमपि पूर्वोक्ततुल्यत्वात्कर्मणा अविरुद्धमात्मज्ञानमिति, तत्सविशेषनिर्विशेषात्मविषयतया प्रत्युक्तम् ; उत्तरत्र व्याख्याने च दर्शयिष्यामः । अतः केवलनिष्क्रियब्रह्मात्मैकत्वविद्याप्रदर्शनार्थमुत्तरो ग्रन्थ आरभ्यते ॥

विद्यामित्यादिना ; न चेति ; दर्शितं चेति ; वर्षशतं चेति ; दर्शितश्चेति ; तथा यावज्जीवमिति ; तं यज्ञपात्रैरिति ; ऋणेति ; तत्रेति ; ज्ञानस्तुतीति ; अनधिकृतेति ; नेति ; परमार्थेति ; यदुक्तमित्यादिना ; कर्मसम्बन्धि चेति ; परमिति ; फलादर्शनेऽपीति ; न नियोगेति ; इष्टेति ; ब्रह्मात्मत्वेति ; न कश्चिन्न नियुक्त इति ; न च स इति ; आम्नायस्यापीति ; नापि बहुविदिति ; आम्नायस्येति ; नेति ; उक्तदोषादिति ; तथाऽपीति ; तदपीति ; यथेति ; नेति ; न चेष्टेति ; यद्धीति ; कृतेति ; न बोधयत्येवेत्यादिना ; तदात्मानमिति ; तत्त्वमसीति ; उत्पन्नस्येति ; नानुत्पन्नमिति ; त्यागेऽपीति ; य आहुरिति ; नेति ; अविद्येत्यादिना ; अविद्येत्यादिना ; प्रयोजनस्य भाव इति ; न वस्तुधर्म इति ; र्वेति ; प्रयोजनेति ; सोऽकामयतेति ; पाङ्क्तलक्षणमिति ; साध्यसाधनेति ; कामेति ; पाङ्क्तलक्षणाया इति ; तच्चेति ; पुरुषधर्म इति ; न हीति ; व्युत्थानं तर्हीति ; ततोऽन्यत्र गमनमिति ; न कामेति ; कामनिमित्तेति ; गार्हस्थ्य इति ; एतेनेति ; अत्र केचिद्गृहस्था इति ; भिक्षाटनादिति ; सूक्ष्मेति ; न स्वेति ; स्वगृहेति ; शरीरधारणार्थायामिति ; एतदिति ; अशक्येति ; यावज्जीवेते ; नेति ; यत्त्विति ; तत्प्रवृत्तेरिति ; न चाग्निहोत्रेति ; अर्थप्राप्तेति ; न तदिति ; अर्थप्राप्तस्येति ; अविदुषाऽपीति ; तथा चेति ; शमदमादीनां चेति ; अत्याश्रमिभ्य इति ; न कर्मणेति ; ज्ञात्वेति ; ब्रह्मेति ; ब्रह्मचर्यादीति ; न चेति ; यद्विज्ञानेति ; यदि कर्मिण एवेति ; अङ्गेति ; न तदिति ; निराकृतेत्यादिना ; तच्चानिष्टमिति ; यत्रेत्यादिना ; सोऽयमिति ; विदुषश्चेति ; अविदुषस्तर्हीति ; नेति ; अधिकारेति ; अनिष्टमिति ; प्रतिपन्नेति ; आत्मदर्शनेति ; यावज्जीवेति ; छान्दोग्य इति ; यत्त्विति ; तन्नेति ; सर्वस्मृतिषु चेति ; यत्त्विति ; तदसदिति ; व्युत्थानस्यैवेति ; अन्यत्रेति ; तदभावेति ; यथाकामित्वमिति ; तथेति ; न हीति ; न चान्यदिति ; यत्त्विति ; एकस्मिन्निति ; दूरमेते इति ; तपसेत्यादिना ; तपसेति ; तेन विद्यामिति ; अविद्वद्विषयत्वेनेति ; जिजीविषेदिति ; परिहृतमिति ; असम्भवादिति ; प्रत्युक्तमिति ; अत इति ;

आत्मा वा इदमित्यादिषट्कस्य स्वपक्षेऽर्थवत्त्वमुक्त्वा तस्य कर्मत्यागेनाऽऽत्मज्ञानार्थत्वपक्षे बहुश्रुतिविरोधमाह –

विद्यामित्यादिना ।

अविद्याशब्देनात्र तत्कार्यं कर्मोच्यते ।

ननु “कुर्वन्नेवेति”मन्त्रे वर्षशतस्य कर्मनियतत्वोक्तावपि तदनन्तरं संन्यासः स्यादित्यत आह –

न चेति ।

“शतायुर्वै पुरुषः” इति श्रुतेरित्यर्थः ।

इहापि बृहतीसहस्त्राख्यस्य शस्त्रस्य षट्त्रिंशतमक्षराणां सहस्त्राणीत्युक्त्वा तावन्ति पुरुषायुषोऽह्नां सहस्त्राणीत्युक्तत्वाद्वत्सरशतमेवाऽऽयुरित्याह –

दर्शितं चेति ।

भवन्तीत्यनन्तरमितिशब्दो द्रष्टव्यः । पुरुषायुषस्याह्नामिति पाठः साधु । पुरुषायुषोऽह्नामिति तु समासान्तविधेरनित्यत्वाभिप्रायेण कथञ्चिन्नेयः ।

पुरुषायुष चेद्वर्षशताधिकं नास्ति तर्हि तन्मध्य एव कर्मसंन्यासः स्यादत आह –

वर्षशतं चेति ।

तत्र मानमाह –

दर्शितश्चेति ।

ननु पुराणेषु शताधिकस्याऽऽयुषो दशरथादेः श्रुतत्वाच्छतवर्षानन्तरं कर्मसंन्यासः स्यादित्याशङ्क्य शतायु श्रुतिविरोधेन तस्यार्थवादत्वात्तथाऽङ्गीकारेऽपि जीवनकालस्य सर्वस्यापि कर्मणा व्याप्तत्वश्रुतेर्नैवमित्याह –

तथा यावज्जीवमिति ।

“जीर्णो वा विरमेदि” ति वचनाज्जरानन्तरं संन्यासः स्यादित्याशङ्क्य यज्ञपात्रैर्दहनविधानान्नेत्याह –

तं यज्ञपात्रैरिति ।

ननु यावज्जीवादिवाक्यानां प्रतिपन्नगार्हस्थ्यविषयत्वं वक्तव्यम् ।

अन्यथा ब्रह्मचारिणोऽपि तद्विधिप्रसङ्गात्ततश्च गार्हस्थ्यात्पूर्वं कर्मत्यागः स्यादत आह –

ऋणेति ।

“जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते” इति श्रुतेः । “ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्” इति स्मृतेश्चेत्यर्थः । ततश्च तदपाकरणार्थं तेनापि गार्हस्थ्यमेव प्रतिपत्तव्यं न संन्यास इत्यर्थः ।

“यदहरेव विरजेत्तदहरेव प्रव्रजेत्” “व्युत्थायाथ भिक्षाचर्यं चरन्ति” “ब्राह्मणः प्रव्रजेद्गृहात्” इत्यादिश्रुतिस्मृत्योः का गतिरित्यत आह –

तत्रेति ।

ज्ञानस्तुतीति ।

सर्वसंन्यासेनाप्यात्मा ज्ञातव्य इति ज्ञानस्तुतिः प्रतीयत इति तत्पर इत्यर्थः ।

विधित्वेऽपि कर्मानधिकृतान्धपङ्ग्वादिविषयत्वमेवेत्याह –

अनधिकृतेति ।

तस्मान्नाकर्मिनिष्ठा विद्या किन्तु कर्मिनिष्ठा तत्सम्बन्धिनी चेति स्थितम् ।

तदेतत्सिद्धान्ती परिहरति –

नेति ।

एवं हि कर्मिनिष्ठा विद्या स्यात् । यदि विदुषोऽपि कर्मानुष्ठानं स्यात्तदपि प्रयोजनार्थितया वा स्यात्काम्य इव नियोगबलाद्वा प्राभाकरमत इव नित्यकर्माणि ।

तत्र नाऽऽद्य इत्याह –

परमार्थेति ।

सङ्ग्रहवाक्यं विवृण्वन्निषेध्याध्याहारपूर्वकं नञर्थं विवृणोति –

यदुक्तमित्यादिना ।

कर्मसम्बन्धि चेति ।

कर्माङ्गोक्थ्याद्याश्रयमित्यर्थः ।

परमार्थेति वाक्यांशं विवृणोति –

परमिति ।

अर्थप्राप्त्यर्थमनर्थनिवृत्यर्थं वा कर्म स्यान्नोभयमपीति वक्तुं विशेषणद्वयम् । दोषपदेन रागद्वेषाभावेनापि प्रवृत्त्यभावं सूचयति । प्रागनुष्ठितकर्मणाऽप्यसम्बन्धे कर्तव्येन दूरापस्त इति वक्तुं कृतेनेत्युक्तम् ।

द्वितीयं शङ्कते –

फलादर्शनेऽपीति ।

ममेदं कार्यमिति बोद्धा हि नियोगस्य विषयो नियोज्यः । कार्ये स्वकीयत्वज्ञानं च तज्जन्यफलार्थिनो न चाऽऽत्मनोऽसङ्गित्वज्ञानिनो ममेदमिति बुद्धिर्भवति ।

अतो न तस्य नियुक्तत्वमित्याह –

न नियोगेति ।

तदेवोपपादयति –

इष्टेति ।

ममेदं कार्यमिति बोधाभावेऽपि चेन्नियुज्येत तर्हि राजसूयादिकं ब्राह्मणादिना कर्तव्यं स्यादग्निष्टोमादिकं च सर्वदा कर्तव्यं स्यान्निर्निमित्तत्वाविशेषादित्याह –

ब्रह्मात्मत्वेति ।

न कश्चिन्न नियुक्त इति ।

नञ्द्वयेन सर्वोऽपि नियुक्त एवेत्यर्थः । किञ्च नियोक्ताऽप्यस्य किं यः कश्चन पुरुषो वेदो वा ?

आद्ये विदुष ईश्वरात्मत्वज्ञानात्सर्वनियोक्तृत्वेन स्वनियोज्येनान्येनास्य नियोज्यत्वं स्यात्तच्च विरोधान्न सम्भवतीत्याह –

न च स इति ।

तस्यैव सर्वनियोक्तृत्वादित्यर्थः ।

नन्वन्यस्य नियोज्यत्वाभावेऽप्याम्नायेन विद्वान्नियोज्यः स्यादिति द्वितीयमाशङ्क्य तस्याऽऽम्नायस्येश्वरतामापन्नस्य स्वविज्ञानपूर्वकत्वात्स्ववचनेन स्वस्य नियोज्यत्वमेकत्र कर्मकर्तृत्वविरोधान्न सम्भवतीत्याह –

आम्नायस्यापीति ।

किञ्च व्याकरणादेस्तत्कर्तृपाणिन्यादिज्ञेयैकदेशार्थविषयत्वदर्शनेन वेदस्यापीश्वरजन्यस्येश्वरज्ञेयैकदेशविषयत्वेनाल्पज्ञत्वादप्यधिकज्ञेश्वरनियोक्तृत्वमयुक्तमित्याह –

नापि बहुविदिति ।

अविवेकिनेत्यल्पज्ञेनेत्यर्थः । अचेतनत्वाद्वा तस्याविवेकित्वम् । भृत्येन न नियुज्यत इत्यनुषङ्गः ।

ननु वेदस्येश्वरज्ञानपूर्वकत्वपक्षे पूर्वोक्तदोषानुषङ्गेऽपि तस्य नित्यत्वपक्षे नायं दोष इति शङ्कते –

आम्नायस्येति ।

तस्याचेतनस्य नियोक्तृत्वं न सम्भवति तस्य चेतनधर्मत्वादित्युत्तरमाह –

नेति ।

नियोक्तृत्वमभ्युपेत्यापि दोषमाह –

उक्तदोषादिति ।

तदेव विवृणोति –

तथाऽपीति ।

अनियोज्यस्यापि चेत्कर्तव्यं विदुषस्तर्हि सर्वं शिष्टं विहितं सर्वेणापि कर्तव्यम् । सङ्कोचे हेत्वभावादित्यर्थः ।

असङ्गिब्रह्मात्मत्वज्ञानस्य कर्मकर्तव्यतायाश्च शास्त्रेण कृतत्वादुभयोरपि शास्त्रयोः प्रामाण्याविशेषात्कदाचिदात्मज्ञानं कदाचित्कर्मानुष्ठानं च स्यादिति शङ्कते –

तदपीति ।

तदेव विवृणोति –

यथेति ।

स्वाभाविकाकर्त्रात्मबोधेन सकृदुत्पन्नेनैव कर्तृताबोधबाधनान्न पुनः शास्त्रेण कर्तृत्वबोधः सम्भवतीत्याह –

नेति ।

कृताकृतेत्यत्र कृतमिदानीमकृतमितः परं कर्तव्यं यत्तदुच्यते । एवं तावन्नियोगाविषयाकर्त्रात्मदर्शित्वाद्विदुषः प्रयोजनार्थित्वाभावाच्च विदुषो न कर्मेत्युक्तम् । इदानीं स्वत इष्टानिष्टसंयोगवियोगरूपप्रयोजनार्थिताभावेऽपि विदुषः “स्वर्गकामो यजेते” ति शास्त्रेणैव साऽप्याधीयत इत्याशङ्क्य स्वभावतः प्राप्तप्रयोजनार्थितानुवादने तदुपायमात्रं शास्त्रेण बोध्यते न तु साऽप्याधीयते ।

अन्यथाऽऽशास्त्रज्ञानां तदर्थिता न स्यादित्याह –

न चेष्टेति ।

अत्र चिकीर्षाशब्देन फलेच्छामात्रमुच्यते न तु कर्तुमिच्छा फले तदयोगादिति ।

ननु कृताकृतासम्बन्धित्वं तद्विपरीतत्वं च विरुद्धत्वान्न बोधयति चेच्छास्त्रं तर्हि कृताकृतासम्बन्धित्वमेव मा बोधीत्याशङ्क्य तस्य मानान्तरासिद्धत्वेनावश्यं शास्त्रबोध्यत्वे वक्तव्ये तद्विपरीतस्य मानान्तरसिद्धस्यैव न शास्त्रबोध्यत्वं विरुद्धत्वादित्याह –

यद्धीति ।

चेदिति निश्चयार्थे ।

कृतेति ।

इदं कृतमिदं कर्तव्यमिति ज्ञानविरोधीत्यर्थः । कर्तव्यतां तज्ज्ञानमित्यर्थः ।

विध्यभावेन वेदान्तानां न तादृगात्मबोधकत्वमित्याशङ्क्य पुरुषस्य कर्तव्याभिमुखीकरणार्थत्वाद्विधेरिहाऽऽत्मज्ञानाभिमुखीकरणार्थं विधिस्वरूपस्यार्थवादस्य सत्त्वात्स्वरूपबोधकस्य तत्परवाक्यस्यापि सत्त्वाच्च नैवमित्युत्तरमाह –

न बोधयत्येवेत्यादिना ।

उपसंहारादित्यनेन तत्सहचरितमात्मा वा इदमित्याद्युपक्रमादितात्पर्यलिङ्गं सूचयति ।

ज्ञानोत्पत्त्यनुवादिकाण्वश्रुतिबलादप्यनुत्पत्तिशङ्का न कार्येत्याह –

तदात्मानमिति ।

तदिति जीवरूपेणावस्थितं ब्रह्मेत्यर्थः ।

छान्दोग्यबलादप्येवमेवेति वदन्गतिसामान्यन्यायं दर्शयति –

तत्त्वमसीति ।

अनेन तद्धास्य विजज्ञाविति वाक्यशेषोऽप्युपलक्ष्यते । अयमात्मा ब्रह्मेत्यादिरादिशब्दार्थः ।

कर्त्रात्मबोधककर्मकाण्डविरोधादुत्पन्नमपि ज्ञानं भ्रान्तमित्याशङ्क्य तस्य यथाप्राप्तकर्त्रात्मानुवादेनोपायमात्रपरत्वान्न वस्तुपरवेदान्तजन्यज्ञानबाधकत्वमित्याह –

उत्पन्नस्येति ।

नानुत्पन्नमिति ।

वाक्यश्रवणानन्तरमकर्ताऽऽत्माऽहमिति ज्ञानस्यानुभावसिद्धत्वान्नाहमकर्तेति विपरीतज्ञानादर्शनाच्च नोभयं वक्तुं शक्यमित्यर्थः ।

विदुषः प्रयोजनाभावान्न कर्मणि प्रवृत्तिरित्युक्तं तर्हि तत्त्यागेऽपि प्रयोजनाभावात्तत्रापि न प्रवृत्तिः स्यादिति शङ्कते –

त्यागेऽपीति ।

तस्य विदुषः कृतेन कर्मणाऽर्थो नास्त्यकृतेन कर्माभावेनापीह लोके नार्थोऽस्तीति गीतासु स्मरणात्त्यागेऽपि प्रयोजनाभावस्य तुल्यत्वमिति चेदित्यन्वयः ।

शङ्कामेव विवृणोति –

य आहुरिति ।

कर्मत्यागस्य व्यापारात्मकत्वे व्यापारस्य क्लेशात्मकत्वात्तदनुष्ठानं प्रयोजनापेक्षं स्यात् । न त्वेतदस्ति । किन्तु क्रियाभावमात्रमौदासीन्यरूपम् ।

तस्य च स्वास्थ्यस्वरूपत्वात्स्वत एव प्रयोजनत्वान्न प्रयोजनान्तरापेक्षत्वमिति परिहरति –

नेति ।

त्यागस्यान्यत्र क्लृप्तव्यापारहेतुजन्यत्वाभावान्न व्यापारत्वमिति वक्तुमन्यत्र क्लृप्तव्यापारहेतुमाह –

अविद्येत्यादिना ।

यद्वा विदुषः कथं यत्नं विना व्युत्थानमौदासीन्यमात्रेण सिध्यतीत्याशङ्क्य क्रियाहेत्वभावात्क्रियाभाव इति वक्तुं तद्धेतुमाह –

अविद्येत्यादिना ।

प्रयोजनस्य भाव इति ।

प्रयोजनस्य तृष्णेत्यर्थः । तस्या वस्तुधर्मत्वे विदुषोऽपि तृष्णा स्यादिति तन्निषेधति –

न वस्तुधर्म इति ।

न वस्तुस्वभाव इत्यर्थः । वस्तुधर्मत्वे हि विदुषामविदुषाञ्च सुप्तमूर्च्छितादीनां सा स्यान्न त्वेतदस्ति ।

तत्र हेतुमाह –

र्वेति ।

तद्दर्शनादिति पाठे वस्तुस्वभावाज्ञानिनां गोपालादीनामपि तृष्णादर्शनान्न वस्तुधर्म इति कथञ्चिद्योज्यम् ।

तृष्णाया अविद्याजन्यत्वमुक्त्वा तस्या व्यापारहेतुत्वमाह –

प्रयोजनेति ।

दर्शनादिति पञ्चम्यविद्याकामदोषनिमित्ताया इत्युत्तरत्र हेतुत्वेन सम्बध्यते ।

न केवलं दर्शनमेव किन्तु श्रुतिरप्यस्तीत्याह –

सोऽकामयतेति ।

सोऽकामयतेत्यादिना “उभे ह्येते एषणे एवे” ति वाक्येन च पुत्रवित्तादि काम्यमेवेति वाजसनेयिब्राह्मणेऽवधारणादित्यन्वयः ।

पाङ्क्तलक्षणमिति ।

जायापुत्रदैवमानुषवित्तद्वयकर्मभिः पञ्चभिर्योगात्पाङ्क्तलक्षणं कर्मेत्यर्थः ।

उभे इत्यस्यार्थमाह –

साध्यसाधनेति ।

एवं क्रियाहेतुं प्रदर्श्य तदभावादेव विदुषः क्रियाभावोऽयत्नसिद्ध इत्याह –

कामेति ।

पाङ्क्तलक्षणाया इति ।

जायापुत्रदैववित्तमानुषवित्तकर्मभिः पञ्चभिर्लक्ष्यते साध्यत इति वैदिकी प्रवृत्तिः पाङ्लक्षणेत्युच्यते । पञ्चसंख्यायोगेन गौण्या वृत्त्या पङ्क्तिच्छन्दःसम्बन्धोपचारात् । “पञ्चाक्षरा पङ्क्तिः । पङ्क्तो यज्ञ”इति श्रुतेरित्यर्थः । पाङ्क्तलक्षणाया इत्यनन्तरमनुपपत्तेरित्यनुषङ्गः । व्युत्थानमित्यनन्तरमयत्नसिद्धमिति शेषः ।

एवं च क्रियाभावस्यौदासीन्यात्मकस्य पुरुषस्वभावत्वेनायत्नसिद्धत्वे सति न प्रयोजनापेक्षेत्याह –

तच्चेति ।

पुरुषधर्म इति ।

पुरुषस्वभाव इत्यर्थः ।

अज्ञानकार्यस्याज्ञाननिवृत्तावयत्नत एव निवृत्तिरित्यत्र दृष्टान्तमाह –

न हीति ।

व्युत्थानस्य पुंव्यापाराधीनत्वाभावे विधेरनवकाशाद्विदुषो नियमेन व्युत्थानं न सिध्यतीति शङ्कते –

व्युत्थानं तर्हीति ।

ततोऽन्यत्र गमनमिति ।

पारिव्राज्यस्वीकार इत्यर्थः । किं गार्हस्थ्यशब्देन गृहस्थोऽहमित्यभिमानपुरःसरं पुत्रवित्ताद्यभिमान उच्यत उत गृहस्थलिङ्गधारणम् । नाऽऽद्यः ।

विद्ययाऽविद्याकार्याभिमाननिवृत्तेरित्याह –

न कामेति ।

न द्वितीयः । लिङ्गेऽप्यभिमानराहित्यस्य तुल्यत्वात् । न चैवं पारिव्राज्यलिङ्गेऽप्यभिमानाभावात्तस्याप्यसिद्धिरिति वाच्यम् । सर्वतोऽप्यभिमानराहित्येन सर्वसम्बन्धराहित्यं हि परमहंसपरिव्राजो लक्षणं न लिङ्गधारणम् । “न लिङ्गं धर्मकारणम्” इति स्मृतेः ।

ततश्च लिङ्गेऽप्यभिमानशून्यस्य पारिव्राज्यं सिद्धमित्याह –

कामनिमित्तेति ।

गार्हस्थ्य इति ।

अभिमानात्मक इत्यर्थः ।

तर्हि गुरुशुश्रूषादावप्यभिमानो न स्यादित्याशङ्क्येष्टापत्तिरित्याह –

एतेनेति ।

ननु यथा पुत्रादिसम्बन्धनियमरहितस्यापि त्वन्मते देहधारणार्थिनो भिक्षोः परिग्रहव्यावर्तनार्थो भिक्षाटनादिरेवेति नियमोऽङ्गीक्रियते तथा गृहस्थस्याप्यभिमानशून्यस्यैव सतो देहधारणार्थं गृह एवास्त्वासनं न भिक्षुकत्वमविशेषादिति शङ्कते –

अत्र केचिद्गृहस्था इति ।

तेषां न न्यायो मूलं किन्तु दृष्टभयादिकमेव मूलमित्युपहसन्नाह –

भिक्षाटनादिति ।

परिभवः पामरैः क्रियमाणस्तिरस्कारः ।

सूक्ष्मेति ।

काक्वा व्यतिरेकेण स्थूलदृष्टय इत्यर्थः । भिक्षाटनादीत्यादिशब्देन प्राक्प्रणीतमयाचितमित्यादयो गृह्यन्ते । देहधारणमात्रार्थिनो भिक्षोरिति पूर्वेणान्वयः ।

सिद्धान्ती तस्यैवम्भूतस्य स्त्रीपरिग्रहोऽस्ति वा न वेति विकल्प्याऽऽद्ये दूषणमाह –

न स्वेति ।

स्वगृहविशेषशब्देन स्त्रीविशेषो गृह्यते ।

द्वितीये स्त्रीपरिग्रहवत एव द्रव्यपरिग्रहाधिकारात्तदभावेऽर्थाद्द्रव्यपरिग्रहनिवृत्तेस्तदभावे प्रकारान्तरेण जीवनसिद्धेरर्थाद्भिक्षाटनादिनियम एव सिध्यतीत्याह –

स्वगृहेति ।

न च पुत्रादिपरिगृहीतेन जीवनमस्त्विति शङ्क्यम् । तैरपि स्वस्य स्वत्वेन सम्बन्धाभावे तदीयस्यापि परकीयद्रव्यतुल्यत्वेन तत्रापि भिक्षुत्वनियमादिति ।

अन्ये तु भिक्षोरपि भिक्षाटनादौ सप्तागारानसंक्लृप्तानित्यादिनियमः शौचादौ च चातुर्गुण्यादिनियमश्च प्रत्यवायपरिहारार्थं यथेष्यते तथा यावज्जीवादिश्रुतिबलात्प्रत्यवायपरिहारार्थं नित्यकर्मणि नियमेन प्रवृत्तिरित्याहुस्तदनुवदति –

शरीरधारणार्थायामिति ।

अकुर्वत एव गृहेऽवस्थानं पूर्वमते शङ्कितम् । अस्मिन्मते त्वग्निहोत्राद्यनुष्ठानमपि कर्तव्यमिति शङ्कते । तथा पूर्वं परिग्रहव्यावृत्यर्थो भिक्षाटनादिविषयो दृष्टशरीरधारणप्रयोजनो नियमो दृष्टान्तत्वेनोक्तः । इह तु स भिक्षाटनादिगतसप्तागारत्वादिविषयोऽदृष्टार्थो दृष्टान्तत्वेनोक्त इति भेदः ।

दूषयति –

एतदिति ।

तस्य सर्वनियोक्त्रीश्वरात्मत्वाच्च न नियोज्यत्वमित्याद्युक्तमित्याह –

अशक्येति ।

तर्हि तच्छ्रुतेरप्रामाण्ये भिक्षाटनादिनियमविधेरपि तत्स्यादित्यभिप्रायेण शङ्कते –

यावज्जीवेते ।

अविदुषि नियोज्ये तत्प्रामाण्यं घटत इति नोक्तदोष इत्याह –

नेति ।

तदुक्तप्रतिबन्दीं परिहर्तुमनुवदति –

यत्त्विति ।

दूषयति –

तत्प्रवृत्तेरिति ।

आचमनविधिनाऽऽचमने प्रवृत्तस्याऽऽर्थिको यः पिपासापगमस्तस्य यथा नान्यप्रयोजनार्थत्वं प्रयोजनं प्रयुक्तिस्तदर्थत्वं नाऽऽचमनप्रवृत्तिप्रयोजकत्वम् । तद्वज्जीवनार्थं भिक्षादौ प्रवृत्तस्य यस्तत्र नियमः स न भिक्षादिप्रवृत्तेः प्रयोजक इत्यर्थः । एतदुक्तं भवति । नियोज्यत्वाभावात्किल ब्रह्मविदो नियमविध्यनुपपत्तिराशङ्कते । तन्न युज्यते । कथम् । नियोज्यो हि नियोगसिद्ध्यर्थमपेक्ष्यते नियोगश्च प्रवृत्तिसिद्ध्यर्थम् । प्रवृत्तिश्चेदन्यतः सिद्धा किं नियोगेन । अत एव दर्शपूर्णमासनियोगादेवावहनने नियमेन प्रवृत्तिसिद्धौ तत्र न पृथङ्नियोगोऽङ्गीक्रियते । तदभावे च न नियोज्यापेक्षेति ब्रह्मविदो नियोज्यत्वाभावेऽपि न नियमविध्यनुपपत्तिरिति ।

अग्निहोत्रादिप्रवृत्तेस्त्वन्यतोऽसिद्धत्वेन तद्विधित एव तत्र प्रवृत्तेर्वक्तव्यत्वेन तत्सिद्ध्यर्थं तत्र नियोगे वाच्ये तस्य तत्र नियोज्यापेक्षेति वैषम्यमाह –

न चाग्निहोत्रेति ।

नियमविधौ नियोज्यानपेक्षायामपि तस्य क्लेशात्मकत्वात्प्रयोजनापेक्षा वाच्या ।

तदभावान्न नियमः सिध्यतीति शङ्कते –

अर्थप्राप्तेति ।

तन्नियमस्यापि पूर्ववासनावशादेव प्राप्तत्वात्तत्रापि न नियमविधेरवकाशो येन प्रयोजनापेक्षा स्यादिति परिहरति –

न तदिति ।

यद्यपि नियतेन वाऽनियतेन भिक्षाटनादिना जीवनं सिध्यति तथाऽपि विद्योत्पत्तेः पूर्वं विद्यासिद्ध्यर्थं नियमस्यानुष्ठितत्वात्तद्वासनाप्राबल्याद्विद्योत्पत्त्यनन्तरमपि नियम एव प्रवर्तते नानियमे । तद्वासनानां नियमवासनाभिरत्यन्तमभिभूतत्वेन पुनस्तदुद्बोधनस्य यत्नसाध्यत्वात्ततस्तत्र न प्रवर्तत इति नियमोऽप्यर्थसिद्ध इत्यर्थः । एतेन प्रत्यवायपरिहारार्थत्वमपि नियमानुष्ठानस्य निरस्तं तस्य विदुषः प्रत्यवायाप्रसक्तेरिति ।

एवमुक्तरीत्या व्युत्थानस्य विधिं विना स्वतः प्राप्तत्वेऽपि सति तत्कर्तव्यताविधिमपि विदित्वा व्युत्थायेत्यादिकमनुमोदते विद्वानित्याह –

अर्थप्राप्तस्येति ।

विधितः कर्तव्यत्वोपपत्तिरित्यर्थः । न च विधेः प्रयोजनाभावोऽप्रवर्तकत्वादिति वाच्यम् । प्रैषोच्चारणाभयदानादिवैधमुख्यधर्मप्राप्त्यर्थत्वेन विधेरर्थवत्त्वात् । न च तस्यापि वैयर्थ्यं शङ्क्यम् । विदुषि परमहंसे लोकसङ्ग्रहार्थत्वात् । तस्य तु सङ्ग्रहस्य पूर्वाभ्यस्तमैत्रीकरुणादिवासनाप्राप्तत्वेन ब्रह्मविद्योपदेशादाविव प्रयोजनानपेक्षणात् । यद्वा प्रारब्धकर्माक्षिप्तदेहेन्द्रियादिप्रतिभासेनाविचारितयावज्जीवादिश्रुतिजनितकर्मकर्तव्यताभ्रान्तौ तन्निवर्तनेन वा विदुषो व्युत्थानविधेरर्थवत्वोपपत्तिरिति भावः । एवं विदुषो व्युत्थानसाधनेन विद्याया अकर्मिनिष्ठत्वं साधितम् । तेनैव च तस्याः कर्मासम्बन्धोऽप्यर्थात्साधितः ।

इदानीं विविदिषोरपि व्युत्थानं प्रसाधयन्विद्यायाः कर्मिनिष्ठत्वं कर्मसम्बन्धित्वं च दूरापास्तमित्याह –

अविदुषाऽपीति ।

तत्र श्रुतिमाह –

तथा चेति ।

उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येदिति श्रुतिशेषः तत्रोपरतशब्देन संन्यासो विहित इति भावः ।

शमादिसाधनानां पौष्कल्येनानुष्ठानस्य गृहस्थादिष्वसम्भवात्तद्विधिनाऽप्यर्थादाक्षिप्यते संन्यास इति श्रुतार्थापत्तिमप्याह –

शमदमादीनां चेति ।

चशब्द उपरमसमुच्चयार्थः । नेदं विद्वद्विषयम् । तस्य साधनविधिवैयर्थ्यात् । किन्तु विविदिषुविषयमिति वक्तुमात्मदर्शनसाधनानामित्युक्तम् ।

अत्याश्रमिभ्य इति ।

ब्रह्मचर्यादीन्हंसान्तानाश्रमधर्मवत आश्रमानतिक्रम्य वर्तते परमहंस इति सोऽत्याश्रमिशब्देनोच्यत इति तद्विधिरत्र प्रतीयत इत्यर्थः । ऋषिसङ्घजुष्टं मन्त्रसमूहैर्ज्ञानिसमूहैर्वा सेवितं तत्त्वं प्रोवाचेत्यर्थः ।

न कर्मणेति ।

त्यागस्य साक्षादमृतत्वसाधनत्वाभावेनामृतत्वसाधनंतदत्यत्नेत्यादिना । ज्ञानं त्यागेनाऽऽनशुः प्राप्तवन्त इत्यभिमानेन ज्ञानसाधनत्वेन त्यागोऽत्र विहित इत्यर्थः ।

ज्ञात्वेति ।

आपाततो ब्रह्म ज्ञात्वा निश्चयार्थं नैष्कर्म्यं कर्मत्यागरूपं संन्यासमाचरेदिति स्मृत्यर्थः ।

ब्रह्मेति ।

ब्रह्मज्ञानसाधनीभूत आश्रमो ब्रह्माश्रमः । संन्यास इत्यर्थः ।

किञ्च “एकाकी यतचित्तात्मा” इत्याद्युपक्रम्य “ब्रह्मचारिव्रते स्थितः मनः संयम्य मच्चित्तो युक्त आसीत मत्परः” इत्यन्तेन ब्रह्मचर्यादिसाधनविधिबलादप्यर्थात्संन्यासविधिरित्याह –

ब्रह्मचर्यादीति ।

ननु गृहस्थस्याप्यृतुकालमात्रगमनलक्षणं ब्रह्मचर्यं कदाचिद्ध्यानकाल एकाकित्वादिकं च सम्भवतीत्याशङ्क्य तस्यापुष्कलसाधनत्वात्ततो ज्ञानासिद्धेर्ध्यानकाले पत्नीसम्बन्धाप्रसक्तेस्तद्विधिवैयर्थ्याच्च नैवमित्याह –

न चेति ।

अतो न कर्मिनिष्ठत्वं कर्मसम्बन्धित्वं चाऽऽत्मज्ञानस्येत्यर्थः ।

यत्तु कर्म च बृहतीसहस्रलक्षणं प्रस्तुत्याऽऽत्मज्ञानं प्रारभ्यत इत्यादिना कर्मसम्बन्धित्वमुक्तं तत्राऽऽह –

यद्विज्ञानेति ।

तथा च पूर्वोक्तं कर्मसम्बन्धिज्ञानं संसारफलकमन्यदेव । तच्चोपसंहृतमिति न तत्परमात्मज्ञानमित्यर्थः ।

ननु पूर्वोक्तमेव परमात्मज्ञानं तच्च कर्मसम्बन्ध्येवेत्याशङ्क्य तस्य संसारफलकत्वेनोपसंहारात्परमात्मज्ञानस्य च मुक्तिफलकत्वान्न तत्परमात्मज्ञानमित्याह –

यदि कर्मिण एवेति ।

कर्मिनिष्ठत्वेनोक्तज्ञानमेव परमात्मज्ञानं चेदित्यर्थः ।

परमात्मज्ञानाङ्गभूतपृथिव्यग्न्यादिदेवताज्ञानस्य तत्संसारफलं नाङ्गिनः परमात्मज्ञानस्येति न तस्य मुक्तिफलत्वविरोध इति शङ्कते –

अङ्गेति ।

परामात्मज्ञानस्याङ्गसम्बन्धफलसम्बन्धादिसर्वाविशेषरहितनिर्विशेषवस्तुविषयत्वान्न तस्याङ्गादिसम्बन्धित्वं येन तदङ्गविषयत्वमुक्तफलस्य स्यादिति परिहरति –

न तदिति ।

तदेव स्पष्टयति –

निराकृतेत्यादिना ।

तच्चानिष्टमिति ।

आत्मा वा इत्यादिभिरुपक्रमादिलिङ्गैरात्मनो निर्विशेषत्वसिद्धेरित्यर्थः ।

वाजसनेयिब्राह्मणे च परमात्मविदः सर्वसम्बन्धशून्यत्वमुक्त्वाऽविदुषः संसारफलोक्तेश्चेह संसारफलकस्यातीतस्य ज्ञानस्य न परमात्मज्ञानत्वं वक्ष्यमाणस्य निर्विशेषवस्तुविषयस्यैव परमात्मज्ञानत्वं मुक्तिफलत्वं चेत्याह –

यत्रेत्यादिना ।

तथेहापीति वाक्ये फलपदद्वयपाठ एकं पदं निष्पाद्यत्वार्थकं निष्पाद्यत्वादपि संसारविषयं संसारान्तर्गतमिति वक्तुम् । एवं कर्मासम्बन्धित्वं ज्ञानस्योक्त्वा यावज्जीवादिश्रुतेः कर्मत्यागो न सम्भवतीति यत्पूर्ववादिनोक्तं तत्र यावज्जीवादिश्रुतेरविद्वद्विषयत्वमुक्तम् । ऋणश्रुतेरिदानीं गतिमाह ऋणेति । ऋणस्यानपाकृतस्य मनुष्यादिलोकप्राप्तिं प्रति प्रतिबन्धकत्वात्तदर्थिनोऽविदुष एवर्णापाकरणं कर्तव्यं न मुमुक्षोः । मुक्तिं प्रति तस्याप्रतिबन्धकत्वादित्यर्थः । नन्वृणस्य मुक्तिं प्रत्यपि प्रतिबन्धकत्वमस्तु विशेषाभावात् ।

“अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः” इति स्मृतेश्चेत्याशङ्क्याह –

सोऽयमिति ।

“सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा, कर्मणा पितृलोको विद्यया देवलोकः” इति श्रुतेः पुत्रादीनां मनुष्यलोकादिहेतुत्वावगमात्पुत्रादिभिरपाकर्तव्यानां पुत्राद्याभावरूपाणामृणानां पुत्रादिसाध्यलोकप्राप्तिं प्रति प्रतिबन्धकत्वमेव युक्तम् । ऋणानपाकरणे पुत्रादिसाधनाभावेन साध्यलोकाभावात् । न मुक्तिं प्रति, तस्यास्तदभावरूपपुत्रादिसाध्यत्वाभावात् । स्मृतेश्च रागिणं प्रति संन्यासनिन्दार्थवादमात्रत्वादित्यर्थः ।

न केवलमुक्तन्यायतो मुक्तिं प्रत्यप्रतिबन्धकत्वं किन्तु श्रुतितोऽपीत्याह –

विदुषश्चेति ।

श्रुतित्रयेण क्रमेण प्रजाध्ययनकर्मणामननुष्ठितानामप्रतिबन्धकत्वं दर्शितम् । कावषेया इत्यनन्तरं किमर्था वयमध्येष्यामह इति शेषो द्रष्टव्यः ।

शङ्कते –

अविदुषस्तर्हीति ।

यद्यप्यविदुषोऽपि लोकत्रयं प्रत्येव प्रतिबन्धकत्वान्मुक्तिं प्रति प्रतिबन्धकत्वाभावादृणस्यानपाकरणीयत्वान्मुमुक्षोः पारिव्राज्यसम्भवादाशङ्का न सम्भवति तथाऽपि विद्वांस आहुरित्युक्तिश्रवणमात्रेणेयं शङ्का । यद्वा परिहारान्तरं वक्तुमियं शङ्का द्रष्टव्या । गृहस्थस्यैवर्णप्रतिबन्धकत्वं तस्यैव तन्निराकरणाधिकारात् ।

ततश्च गार्हस्थ्यप्रतिपत्तेः प्राग्ब्रह्मचर्य एव मुमुक्षोः पारिव्राज्यं सम्भवतीति परिहरति –

नेति ।

यद्यप्युपनयनानन्तरमेवर्ष्यृणनिवर्तनेऽधिकारः सम्भवतीति प्राग्गार्हस्थ्येत्ययुक्तं तथाऽपि विविदिषासंन्यासेऽधीतवेदस्यैवाधिकार इत्यधीतवेदस्यैव गार्हस्थ्यप्रतिपत्तेः प्रागिति द्रष्टव्यम् । ननु “ जायमानो वै ब्राह्मणस्रिभिर्ऋणवान् जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः” इति जायमानमात्रस्यर्णवत्वं प्रतीयत इत्याशङ्क्यर्णित्वोक्तेः प्रयोजनं न साक्षात्किञ्चिदस्ति किन्तु ब्रह्मचर्यादिकर्तव्यताज्ञापनम् । न चाधिकारानारूढस्तत्कर्तुं शक्नोति जायमानमात्रस्यासामर्थ्यात् । किञ्च ब्राह्मणग्रहणात्क्षत्रियादेर्ऋणाभावप्रसङ्गः । द्विजात्युपलक्षणत्वेऽधिकार्युपलक्षणत्वमेव न्याय्यम् । अतो जायमानपदमधिकारं लक्षयतीति जायमानोऽधिकारी सम्पद्यमान इति तदर्थः ।

ततश्च ततः प्राङ्नर्णसम्बन्ध इत्याह –

अधिकारेति ।

अनिष्टमिति ।

ब्रह्मचारिणोऽप्यृणित्वे ब्रह्मचर्य एव मृतस्य नैष्ठिकस्य च लोकप्रतिबन्धः स्यात्तच्चानिष्टम् । “अष्टाशीतिसहस्राणी” त्यारभ्य तदेव “गुरुवासिनामि” त्यादिपुराणे लोकप्राप्त्युक्तेरित्यर्थः ।

न केवलं गार्हस्थ्यात्प्रागेव संन्याससिद्धिः किन्तु विधिबलाद्गृहस्थस्यापि तदस्तीत्याह –

प्रतिपन्नेति ।

आत्मदर्शनेति ।

आत्मदर्शने य उपायाः श्रवणादयस्तत्साधनत्वेनेत्यर्थः । न चरणश्रुत्या प्रव्रज्याविधेर्विरोधः । तस्या अवदानार्थवादमात्रत्वेन स्वार्थे तात्पर्याभावात् । अन्यथा तदवदानैरेवावदयते तदवदानानामवदानत्वमित्यवदानमात्रनिरस्यत्वोक्त्या ब्रह्मचर्यादीनामप्यननुष्ठेयत्वप्रसङ्गादिति भावः ।

एवमपि यावज्जीवादिश्रुतिविरोधः संन्यासश्रुतेरित्याशङ्क्याऽऽह –

यावज्जीवेति ।

विरक्तमुमुक्षुमात्रविषयिण्या संन्यासश्रुत्या यावज्जीवादिसामान्यश्रुतेरमुमुक्षुविषये सङ्कोच इत्यर्थः ।

अग्निहोत्रविषयकयावज्जीवादिश्रुतेर्नानयैव सङ्कोचः किञ्च श्रुत्यन्तरेणैव द्वादशरात्रानन्तरमग्निहोत्रत्यागविधायिनां सा पूर्वमेव सङ्कोचितेति न तां विरोद्धुं शक्नोतीत्याह –

छान्दोग्य इति ।

केषाञ्चिच्छाखिनां “त्रयोदशरात्रमहतवासा यजमानः स्वयमग्निहोत्रं जुहुयादथाप्रवसन् तत्रैव सोमेन पशुना वेष्ट्वाऽग्नीनुत्सृजति” इति श्रूयत इत्यर्थः ।

ननु पारिव्राज्यश्रुतिरप्यनधिकृतविषये सङ्कोचितेत्याह –

यत्त्विति ।

वचनान्तरेणैव तेषां तद्विधेर्नास्या अनधिकारी विषयः किन्त्वधिकार्येवेति परिहरति –

तन्नेति ।

उत्सन्नाग्निर्नष्टाग्निः निरग्निरपरिगृहीताग्निरिति भेदः ।

स्मृत्युपबृंहितत्वादपि पारिव्राज्यश्रुतिर्बलीयसीत्याह –

सर्वस्मृतिषु चेति ।

अत एव “ब्रह्मचर्यवान्प्रव्रजति” “बुध्वा कर्माणि यमिच्छेत्तमावसेत्”, “व्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः । य इच्छेत्परमं स्थानमुत्तमां वृत्तिमाश्रयेत् ॥” इत्यादिषु स्मृतिषु विकल्पः प्रसिद्धः । “अधीत्य विधिवद्वेदान्पुत्रानुत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥” इत्यादिषु समुच्चयश्च सिद्ध इत्यर्थः ।

एवं विविदिषासंन्यासं प्रसाध्य पुर्वप्रसाधितविद्वत्संन्यासे शङ्कामनुवदति –

यत्त्विति ।

पूर्वत्र गृह एवास्त्वासनमिति शङ्का निरस्ता । इह तु गृहे वा वने वाऽस्त्वासनमित्यनियमशङ्कां निराकर्तुं सा पुनरनूद्यते । यथेष्टचेष्टामधिकां परिहर्तुं चेति द्रष्टव्यम् ।

यद्यप्यर्थप्ताप्तस्यापि पुनर्वचनादित्यत्र विद्वद्व्युत्थानस्यापि शास्त्रार्थत्वमुक्तमेव तथाऽप्यशास्त्रार्थत्वमुक्तमङ्गीकृत्याप्याह –

तदसदिति ।

यदि व्युत्थानवद्गार्हस्थ्यमप्यर्थप्राप्तं स्यात्स्यादेवमनियमो न त्वेतदस्तीत्याह –

व्युत्थानस्यैवेति ।

अन्यत्रेति ।

गार्हस्थ्य इत्यर्थः ।

नन्वन्यत्रावस्थानवद्व्युत्थानस्यापि कामादिप्रयुक्तत्वमनुष्ठेयत्वादित्याशङ्क्याऽऽह –

तदभावेति ।

कामाद्यभावमात्रमेव व्युत्थानमित्युक्तत्वात्तस्य नानुष्ठेयत्वमित्यर्थः ।

एवमनियमशङ्कां निरस्य व्युत्थानस्याशास्त्रार्थत्वे यथेष्टचेष्टामाशङ्क्य निराकरोति –

यथाकामित्वमिति ।

चेष्टामात्रमेव कामादिप्रयुक्तम् । निषिद्धचेष्टा तु शास्त्रार्थज्ञानशून्यात्यन्तमूढविषया । तदुभयं च विदुषो नास्तीति चेष्टामात्रमेवाप्रसक्तं निषिद्धचेष्टा तु दूरापास्तेत्यर्थः ।

एतदेव विवृणोति –

तथेति ।

तथा हीत्यर्थे तथाशब्दः । गुरुभारतयाऽतिक्लेशतया यतोऽवगम्यतेऽतोऽप्राप्तमित्यन्वयः ।

अविवेकादिनिमित्तापगमे नैमित्तिकापगम इत्यत्र दृष्टान्तमाह –

न हीति ।

उन्माददृष्ट्युपलब्धं गन्धर्वनगरादितिमिरदृष्ट्युपलब्धं द्विचन्द्रादीति विवेकः ।

न चान्यदिति ।

वैदिकं कर्मेत्यर्थः ।

ननु विद्ययाऽविद्यायाः सहभावश्रवणाद्विदुषोऽपि तन्मूलकामादिकं स्यादेवेति तन्निमित्ता यथेष्टचेष्टा स्यादित्यत आह –

यत्त्विति ।

यत्तु विद्यां चेति वचनं तस्य नायमर्थ इति तस्येतिशब्दाध्याहारेण वाक्यं योज्यम् ।

एकस्मिन्निति ।

कालभेदेन स्थितयोरप्येकस्मिन्पुरुषे साहित्यं तदर्थ इत्यर्थः ।

नन्विदं साहित्यं न स्वरसं किन्त्वेककाले साहित्यं स्वरसमित्याशङ्क्य श्रुत्यन्तरे विद्याविद्ययोः साक्षात्साहित्यस्यासम्भावोक्तेरुक्तमेव साहित्यं ग्राह्यमित्याह –

दूरमेते इति ।

विषूची विष्वग्गमने विरुद्धे इत्यर्थः ।

अस्मिन्नपि मन्त्रे “अविद्यया मृत्युं तीर्त्वे” त्युत्तरार्धपर्यालोचनयाऽविद्याया विद्योत्पत्तिहेतुत्वावगमात्तयोः कालभेदेनैव सहत्वमित्याह –

तपसेत्यादिना ।

यद्वा गुरूपासनतपसी अविद्येत्युच्यते ।

तयोश्च श्रवणकालेऽनुष्ठेयत्वाद्विद्योत्पत्तिकाल एकस्मिंस्तयोः साहित्यमस्तीत्यर्थान्तरमाह –

तपसेति ।

अस्मिन्नर्थे मन्त्रशेषोऽप्यनुगुण इत्याह –

तेन विद्यामिति ।

साक्षादविद्याया मृत्युत्वेन मृत्युतरणहेतुत्वानुपपत्तेरविद्याशब्देन तप आदिकमेवोच्यते । विद्याव्यवधानं चार्थात्कल्प्यत इत्यर्थः ।

अविद्वद्विषयत्वेनेति ।

जिजीविषेदिति ।

जीवितेच्छारूपाविद्याकार्येण तस्याः सूचनादित्यर्थः ।

परिहृतमिति ।

यावज्जीवादिश्रुतिन्यायेन परिहृतप्रायमित्यर्थः । यद्वा तृतीयस्य चतुर्थपादे नाविशेषादिति सूत्रेण परिहृतमित्यर्थः ।

असम्भवादिति ।

विरोधेन विद्यया सहासम्भवादित्यर्थः । उदाहृतश्रुतिस्मृत्यसम्भवादिति वा ।

प्रत्युक्तमिति ।

निर्विशेषात्मज्ञानस्य कर्त्रादिकारकोपमर्दकत्वेन विरुद्धत्वादुपमर्दं चेति सूत्रेणाविरुद्धत्वं प्रत्युक्तमित्यर्थः ।

तस्माद्वक्ष्यमाणविद्याया अकर्मिनिष्ठत्वं कर्मासम्बन्धित्वं केवलात्मविषयत्वं च सिद्धमिति पूर्वोक्तकर्मभिर्विद्यया च शुद्धसत्त्वस्यात एव केवलात्मस्वरूपावस्थानलक्षणमोक्षसिद्ध्यर्थं केवलात्मविद्याऽऽरभ्यत इत्युपसंहरति –

अत इति ।

नन्वात्मनः सविशेषत्वप्रतीतेस्तद्विरोधात्कथं कैवल्यमित्याशङ्क्य विशेषस्य सर्वस्याऽऽत्मनि मायया कल्पितत्वान्न वास्तवनिर्विशेषत्वविरोध इति तदर्थं माययाऽऽत्मनः सकाशात्सृष्टिं वक्तुं सृष्टेः पूर्वमात्मनो निर्विशेषरूपं दर्शयितुमात्मा वा इत्यादि वाक्यम् ।