तत्राऽऽत्मशाब्दार्थमाह –
आत्मेति ।
आत्मेति पदेन सर्वज्ञादिरूप आत्मोच्यत इत्यन्वयः । अद्वय इत्यनन्तरमुच्यत इति शेषः ।
नन्वात्मशब्देन कथमुक्तलक्षण आत्मोच्यत इत्याशङ्क्याऽऽत्मशब्दस्य स्मृत्युक्तव्युत्पत्तिबलाद्रूढ्या चेत्याह –
आप्नोतेरिति ।
वाशब्दश्चार्थ आदानं च समुच्चिनोति । तथा च स्मृतिः “यच्चाऽऽप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति कीर्त्यते “ ॥ इति । अत्राऽऽप्तिर्ज्ञानं व्याप्तिश्चोच्यते । सत्तास्फुरणाभ्यां सर्वं व्याप्नोतीति सर्वज्ञत्वं सर्वशक्तित्वं चोच्यते । सत्ताप्रदनेनोपादानत्वसूचनात्सर्वशक्तित्वमत्तीत्यनेन संहर्तृत्वमततीत्यनेन त्रिविधपरिच्छेदराहित्यमुच्यत इति । अशनायादिवर्जितत्वादिति विषयादानेन रूढ्या च प्रत्यगभेदश्चोच्यत इत्युक्तरूप आत्मपदेनोच्यत इत्यर्थः ।
अभिव्यक्तनामरूपव्यावर्तनेनाऽऽत्ममात्रावधारणार्थो वैशब्द इत्याह –
वा इति ।
यदुक्तमिति ।
पूर्वत्र प्राणशब्दितप्रजापतिरूपत्वेन यदुक्तमित्यर्थः । यदुतेति पाठः साधुः । तत्रोतेति पदेन प्रत्यक्षादिप्रसिद्धमुच्यते ।
नन्वग्र इति विशेषणादासीदिति भूतत्वोक्तेश्च पूर्वमेवाऽऽत्ममात्रमिदानीं त्वात्ममात्रं न भवति किन्तु ततः पृथक्सदिति प्रतीयत इति नाद्वितीय आत्मेति शङ्कते –
किं नेदानीमिति ।
जडस्य मायिकस्य कदाचिदपि स्वतः सत्त्वायोगादात्मनोऽद्वितीयत्वस्य न विरोध इत्याह –
नेति ।
तर्ह्यात्ममात्रत्वस्येदानीमपि सत्त्वे भूतत्वोक्तेः का गतिरिति पृच्छति –
कथं तर्ह्यासीदिति ।
इदमुपलक्षणमग्र इत्यपि कथमिति द्रष्टव्यम् । जगतः कालत्रयेऽप्यात्मव्यतिरेकेणाभावो यद्यपि तथाऽपि तथा बोधने बोध्यस्य प्रत्यक्षादिविरोधशङ्कयोक्तमात्मतत्त्वं बुद्धौ नाऽऽरोहेत् ।
अतः प्रागुत्पत्तेरासीदित्युच्यते बोध्यस्य चित्तमनुसृत्य तदपि जगतो नामरूपाभिव्यक्त्यभावमपेक्ष्यैव न त्विदानीमात्ममात्रत्वाभावाभिप्रायेणेत्युत्तरमाह –
यद्यपीत्यादिना ।
अव्याकृतो नामरूपभेदो यस्मिन्नात्मनि तथाविधात्मभूतमित्यर्थः ।
आत्मैकशब्दप्रत्ययगोचरमिति ।
यद्यपि प्रागुत्पत्तेर्वाग्बुद्ध्योरभावेन शब्दप्रत्ययौ तावपि न स्तस्तथापीदानीं तदानीन्तनात्मतत्त्वं सुप्तादुत्थितः सुप्तिकालीनात्मतत्त्वमिव प्रमाणान्तरेण ज्ञात्वा तदानीमात्मैक एवाऽऽसीदिति वदति प्रत्येति चेति । तथोक्तेश्चरस्य वाऽऽकत्माशब्दप्रत्ययौ स्त इति द्रष्टव्यम् ।
अनेकशब्देति ।
अविवेकिनां घटादिशब्दप्रत्ययगोचरं घटः सन्नित्यात्मशब्दपर्यायसच्छब्दगोचरं चेत्यर्थः । गोचरशब्दस्य भावप्रधानत्वमङ्गीकृत्य गोचरत्वं यस्येति बहुव्रीहिणा नपुंसकत्वं द्रष्टव्यम् ।
आत्मैकशब्देति ।
विवेकिनामित्यर्थः ।
उक्तमर्थं दृष्टान्तेन विशदयति –
यथेति ।
अत्राऽऽत्मशब्दव्युत्पत्तिबलात्सर्वज्ञादिशब्दोपलक्षितः सत्यज्ञानानन्तरूपोऽखण्डैकरस आत्मोपक्षिप्तः । तस्यैवार्थस्य दृढीकरणार्थमेकादिपदानि । तत्रैक इत्यात्मान्तराभाव उच्यते । एवेत्यनेन वृक्षादावेकत्वेऽपि शाखादिभिर्नानात्मत्ववदेकस्याप्यात्मनो नानात्मत्वाभाव उच्यत इति ।
स्व जातीयभेदस्वगतभेदनिराकरणार्थत्वेन पदद्वयमित्यभिप्रेत्य विजातीयभेदनिराकरणार्थत्वेन नान्यत्किञ्चनेति पदं व्याचष्टे –
नान्यदिति ।
ननु जडप्रपञ्चस्य कारणीभूता जडा माया वर्तत इति कथं विजातीयभेदनिषेध इत्यत आह –
मिषदिति ।
मायायाः सत्त्वेऽपि तदानीं व्यापाराभावाद्व्यापारवतोऽन्यस्य निषेधः सम्भवतीत्यर्थः ।
ननु निर्व्यापाराया अपि तस्या अन्यस्याः सत्त्व आत्मशब्दोक्तं तस्याखण्डैकरसत्वं न सिध्येदित्यत आह –
इतरद्वेति ।
निर्व्यापारं वेत्यर्थः । ननु माया तथाविधाऽस्तीति पुनः पूर्वोक्तदोषः स्यादित्याशङ्क्य मिषदित्यनेन स्वतन्त्रं स्वतः सत्ताकमुच्यते ।
तथाविधस्य च निषेध इति व्यतिरेकदृष्टान्तेनाऽऽह –
यथेति ।
अनात्मपक्षपातीति ।
आत्मशक्तितयाऽऽत्मन्येवान्तर्भूतमात्मपक्षपातीत्युच्यते । तद्भिन्नमित्यर्थः ।
शक्तित्वेऽपि प्राभाकराणामिव तस्याः स्वतः सत्त्वं स्यान्नेत्याह –
स्वतन्त्रमिति ।
यथा साङ्ख्यानां प्रधानशक्तिभूतं स्वतःसत्ताकमस्ति, काणादानां च तथाविधा अणवः सन्ति, तथाविधमात्मव्यतिरिक्तं मिषदित्यनेनानूद्य निषिध्यते । माया तु न तथाभूतेति नोक्तदोष इत्यर्थः । दीपिकायां तु धातूनामनेकार्थत्वेन मिषदिति धातोरासीदित्यर्थमुक्त्वा नान्यत्किञ्चनाऽऽसीदिति वाक्यार्थ उक्तः ।
तदयं वाक्यार्थः –
इदं जगदग्रे सजातीयविजातीयस्वगतभेदरहितात्मैवाऽऽसीदिति ।
अनेनाऽऽत्मनोऽद्वितीयत्वं जगतस्तथाविधात्ममात्रतया मृषात्वं च सूचितम् । अनेनाग्रे जगत आत्ममात्रत्वोक्तेर्न किञ्चित्प्रयोजनमात्मैक एवाऽऽसीन्नान्यत्किञ्चनेत्येतावतैवाखण्डत्वसिद्धेरित्याशङ्का निरस्ता । जगन्मृषात्वसूचनस्यैव प्रयोजनत्वात् । न चैवमर्थभेदे वाक्यभेदः स्यादिति वाच्यम् । अखण्डत्वसम्भावानार्थमेव जगदनिर्वचनीयत्वस्येदं ; जगदखण्डात्मैवेति विशिष्टविशेषेणोक्तत्वात् । विशेषणानां चार्थात्सिद्धेः “सोमेन यजेते” त्यत्रेवेति । अत्रार्थद्वयस्यापि सूचितत्वादेवान्तेऽपि तस्य त्रय अवस्थास्त्रयः स्वप्ना इति जाग्रदादेः स्वप्नत्वेन मृषात्वमुक्त्वा स एतमेव पुरुषं ब्रह्म तत्तमपश्यदित्यात्मशब्दोक्तं तत्तमत्वं त्रिविधपरिच्छेदराहित्यलक्षणमखण्डत्वं वक्ष्यति । न चेदमात्मैवाऽऽसीदिति सामानाधिकरण्येनाऽऽत्मनो जगद्वैशिष्ट्यमेव प्रतीयते न तु जगतो मृषात्वमिति वाच्यम् । आत्मैक एवेति पदैरुक्तेऽखण्डैकरसे तद्विपरीतजगत्प्रतीतेरतस्मिंस्तद्बुद्धिरूपत्वेन मृषात्वसिद्धेर्जगद्वैशिष्ट्यस्य घटः सन्नित्यादिरूपेण प्रत्यक्षसिद्धत्वेन प्रयोजनाभावेन च तत्प्रतिपादनस्यानुपपत्तेश्च मृषात्वमेव तदर्थः । मिषदित्यनेन स्वातन्त्र्यनिषेधेन स्वतः सत्तानिषेधादपि मृषात्वसिद्धेश्च । स्वतः सत्तावत्त्वे स्वव्यापारे स्वातन्त्र्यमेव स्यात् । न चानेन प्रकारेणेदानीमपि मृषात्वस्याऽऽत्माखण्डत्वस्य च वक्तुं शक्यत्वादग्र इति विशेषणं व्यर्थमिति वाच्यम् । इदानीमात्मभिन्नतया पृथक्सत्त्वेन च प्रतीयमानत्वेन तस्य सहसाऽऽत्ममात्रत्वे बोधिते विरोधिप्रतीत्या तस्य बुद्ध्यनारोहः स्यादिति गुडजिह्विकान्यायेनाऽऽदौ पृथङ्नामरूपानभिव्यक्तिदशायामात्ममात्रत्वं बोध्यते । तस्मिन्बोधिते पश्चात्तन्न्यायेनेदानीमपि स्वयमेवाऽऽत्ममात्रत्वं ज्ञास्यतीत्यभिप्रायेणाग्र इति विशेषणोपपत्तेः ।यद्वा वाजसनेयके – “तद्धेदं तर्ह्यव्याकृतमासीत्” इति सृष्टेः प्राक्कार्यस्यानभिव्यक्तनामरूपावस्थबीजभूताव्याकृतात्मतोच्यते, इह तु आत्ममात्रता ।तत्र श्रुत्योर्विरोधपरिहारायोपसंहारे कर्तव्य इहाव्याकृतपदमुपसम्ह्रियते । तत्र चाऽऽत्मपदमितीदमग्रेऽव्याकृतमासीत्तच्च सदाऽऽत्मैवाऽऽसीदिति वाक्यं सिध्यति । तत्राव्याकृतशब्देन “तमआसीत्तमसा गूढमग्रे” “मायां तु प्रकृतिं विद्यात्” इत्यादिषु जगद्बीजावस्थायां तम आदिशब्दप्रयोगात्तमोरूपा मायोच्यते, तेन कार्यस्याग्रेऽनभिव्यक्तनामरूपात्मकमायात्मकत्वं सिध्यति । तस्याश्चाऽऽत्मतादात्म्योक्त्या साङ्ख्यमतवत्स्वतन्त्रत्वनिरासेन तत्र कल्पितत्वं सिध्यति । तयोः कार्यकारणभवाद्यभावेन प्रकारान्तरेण तादात्म्यानिर्वाहात्ततश्चाऽत्मनोऽखडत्वं तद्भिन्नस्य मृषात्वं चाऽऽत्मनः परिणममानाविद्याधिष्ठानत्वेन विवर्तोपादानत्वं तस्याश्च परिणामित्वं च सूचितं भविष्यति । कार्यस्य च मृषात्वार्थमेवाव्याकृतात्मत्वमुच्यते । तस्याव्याकृतस्याऽऽत्मतादात्म्येन मायात्वेन च मृषात्वादिदानीं तु नानभिव्यक्तनामरूपबीजात्मत्वमित्यग्र इति विशेषणमप्यर्थवत् । तदभिप्रेत्यैव भाष्ये प्रागुत्पत्तेरनभिव्यक्तनामरूपभेदात्मभूतमात्मैकशब्दप्रत्ययगोचरं जगदिदानीं तु व्याकृतनामरूपभेदवत्त्वादनेकशब्दप्रत्ययगोचरमात्मैकशब्दप्रत्ययगोचरं चेति विशेष इतीदानीन्तनाभिव्यक्तनामरूपबीजात्मत्वमेवाग्रशब्दस्य व्यावर्त्यमुक्तम् । न च साक्षादिदानीमेव मायात्मत्वेन मृषात्वमुच्यतामिति वाच्यम् । इदानीं प्रत्यक्षादिविरोधेन तथा बोधयितुमशक्यत्वादित्युक्तत्वान्नामरूपाभिव्यक्तेः सृष्टेः पूर्वमभावेनेदानीमेव विद्यमानत्वेन कादाचित्कत्वादपि रज्जुसर्पादिवन्मृषात्वमिति वक्तुमपि प्रागव्याकृतत्वोक्तिरर्थवतीति न किञ्चिदवद्यम् । अथवा जगदधिष्ठानं किञ्चित्सद्रूपं सम्भावयितुमिदमग्र आसीदित्युच्यते । असम्भाविते तस्मिन्नखण्डात्वोक्तेर्निर्विषयत्वप्रसङ्गात् । अनेनासतः शशविषाणादेरिव सद्रूपेणोत्पत्त्यसम्भावात्कार्यस्य प्रागवस्थासदात्मिका काचित्सम्भाविता । तस्याश्चाचेतनत्वे कार्याकारेण स्वतोऽप्रवृत्तेरतिरिक्तचेतनाधिष्ठानाङ्गीकारे च गौरवात् । उपादानाधिष्ठानत्वयोरेकस्मिन्नेवाऽऽत्मनि घटसंयोगादाविव सम्भवाच्च चेतनत्वमात्मैवेत्यनेन सम्भाव्यते । एवं सम्भाविते ह्यधिष्ठानाभिन्नौपादानकारण आत्मन्यखण्डैकरसत्वं तस्य वक्तुमेक एव नान्यत्किञ्चनेति पदानि । अस्मिन्पक्षे चेदमग्र आत्मैवाऽऽसीदित्यंशेन सम्भावितं कार्यस्य प्राग्रूपमनूद्य यदात्मकमिदमासीत्स एक एव नान्यत्किञ्चनेत्यखण्डैकरसत्वं विधीयत ति न कस्यचिदप्यानर्थक्यम् । अत एव छान्दोग्ये “सदेव सोम्येदमग्र आसीत्” इत्यस्य सद्रूपकारणसम्भावनार्थत्वादेव तत्सिद्ध्यर्थं तद्धैक आहुरित्यादिनाऽसत्कारणवादो निरस्तः । अन्यथाऽसिद्धस्य सतोऽद्वितीयत्वमात्रविवक्षायां तस्याप्रस्तुतत्वप्रसङ्गात् । अस्मिन्नपि व्याख्याने कारणस्याद्वितीयत्वादेव च तदन्यस्य मृषात्वमपि सिध्यति । कार्यस्य मृषात्वे तन्निरूपितं कारणत्वमपि तथेति तथाविधात्मज्ञानान्मुक्तिरपि वक्ष्यमाणा सिध्यतीति न किञ्चिदवद्यम् । दीपिकायां त्विदमात्मैवाऽसीदिति सामानाधिकरण्यं बाधायां यश्चोरः स स्थाणुरितिवदिदानीं जगद्विशिष्टात्मप्रतिभासेन तत्र बाधानुपपत्त्या स्थितिकालं परित्यज्याग्रशब्देन सृष्टेः प्राचीन काल उपादीयते । सृष्टप्रपञ्चबाधया सिद्धस्याखण्डैकरसत्वस्य स्पष्टीकरणार्थमेकादिशब्दा इति न कस्याप्यानर्थक्यमित्युक्तम् । तत्राग्रशब्दस्य न प्रयोजनमारोप्य प्रतीतिदशायामेव यश्चोरः स स्थाणुरित्यादौ बाधदर्शनेनेहापि जगत्प्रतीतिदशायामेव तद्बाधनस्य न्याय्यत्वात्सृष्टेः प्रागप्रतीतस्य बाधानुपपत्तेश्च । किञ्च कालत्रयनिषेधो हि बाधः प्राक्काल एव निषेधे बाध एव न स्यात् । न हि पाकरक्ते घटे पूर्वं न रक्तो घट इति प्रत्ययं बाधं मन्यन्ते । अत एव भाष्ये प्रागुत्पत्तेरव्याकृतनामरूपभेदात्मभूतं जगदासीदिति जगतः कारणात्मना सत्तैवोक्ता न तु बाध इति । न च सृष्टेः प्राक्कालाभावेनाग्र इति कथं कालसम्बन्धयोग इति वाच्यम् । प्राक्काले घटशरावादिकं मृदेवाऽऽसीदित्यादिवाक्येषु कालसम्बन्धेनैव बोधनस्य व्युत्पन्नत्वेनेहापि तथैव बोधयितुं कालसम्बन्धारोपोपपत्तेः । यथा देवदत्तस्य शिर इत्यादाववयवावयविभेदेन बोधनस्य दृष्टत्वेन राहोः शिर इत्यादावपि तत्कल्पनम् । यथा वा पूर्वकालेऽपि काल आसीदित्यादौ कालान्तरसम्बन्धारोपणं तद्वत् । दीपिकायां तु पररीत्या परो बोधनीय इति न्यायेन परमते कालस्य नित्यत्वेन प्रागपि सत्त्वात्तद्रीत्या कालसम्बन्ध उक्त इत्युक्तम् । न चाऽऽत्मा वा आसीदिति सत्तावैशिष्ट्यमेव प्रतीयत कर्तुः क्रियाश्रयत्वादिति वाच्यम् । सविता प्रकाशत इत्यादौ कर्तृवाचिप्रत्ययस्य साधुत्वमात्रार्थत्वेन सवितुः प्रकाशरूपत्वप्रत्ययवदात्मन एव सद्रूपत्वप्रतीतेः । अतिरिक्तसत्ताजात्यभावाच्च । अन्यथा सत्ताऽऽसीदित्यादावगतेरिति सर्वं सुस्थम् । एवं सूत्रितमात्मनोऽखण्डैकरसत्वं साधयितुमुपक्षिप्तं प्रपञ्चस्य मृषात्वं तदध्यारोपापवादाभ्यां दृढीकर्तुमध्यायशेषः । तत्राप्यध्यारोपार्थं स जातो भूतानीत्यतः प्राक्तनस्तदादिरपवादार्थः । तत्रापि वाचाऽऽरम्भणन्यायेनाऽऽत्मातिरिक्तस्य विकारत्वेन मृषात्वं वक्तुं सृष्टिवाक्यम् ।
तत्र स्त्रष्टुरात्मनः सम्भावितं चेतनत्वं दृढीकर्तुमीक्षणमाह –
स सर्वज्ञेति ।
नन्वेकस्याखण्डस्य कथमीक्षणं साधनाभावादित्याशङ्क्य न तस्य साधनापेक्षेत्यभिप्रेत्यैकः सन्नपि सर्वज्ञस्वाभाव्यादीक्षतेत्युक्तम् । अत्राऽऽडागमाभावश्छान्दसः ।
इममेवाभिप्रायं शङ्कापरिहाराभ्यां स्पष्टीकरोति –
नन्विति ।
तत्र करणानीन्द्रियाणि कार्यं शरीरमिति विवेकः ।
तद्रहितस्यापि सार्वज्ञ्ये श्रुतिमाह –
तथा चेति ।
अपादो जवनोऽपाणिर्ग्रहीतेत्यन्वयः । पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तमिति मन्त्रशेषः । न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चेत्यादिरादिशब्दार्थः । ननु स्वाभाविकनित्यचैतन्येन कथं कादाचित्केक्षणमिति । अत्र केचित्सर्गादौ प्राणिकर्मभिरेका सृज्याकाराऽविद्यावृत्तिरुत्पद्यते । तस्यामात्मचैतन्यं प्रतिबिम्बते तदेवेक्षणं तच्चाऽऽदिकार्यत्वात्स्वपरनिर्वाहकमिति न तत्रापीक्षणान्तरापेक्षा सर्वैरपि प्रथमकार्येऽनवस्थापरिहारायैवमेव वक्तव्यमित्याहुः । अपरे तु प्राणिकर्मवशात्सृष्टिकालेऽभिव्यक्त्युन्मुखीभूतानभिव्यक्तनामरूपावच्छिन्नं सत्स्वरूपचैतन्यमेवौन्मुख्यस्य कादाचित्कत्वात्कादाचित्कमीक्षणमित्याहुः । अन्ये त्वीक्षणवाक्यस्य कारणस्याचैतन्यव्यावृत्तिपरत्वादीक्षणे तात्पर्याभावाच्च न तत्र भूयानाग्रहः कर्तव्यः इत्याहुः ।
नु शब्दो वितर्कार्थ इति मनसि निधायाऽऽह –
न्विति ।
लोडर्थस्य विध्यादेःस्वात्मन्यसम्भवाल्लोटो लडर्थत्वमाह –
सृज इति ।
अहमितीत्यस्येक्षतेति पूर्वेणान्वयः ॥१॥