ईक्षणस्य पूर्वकालीनत्वं वदन्सृष्टिहेतुत्वमाह –
एवमिति ।
अत्रेक्षणपूर्वकसृष्ट्युक्तेः प्रयोजनं स्रष्टुश्चेतनत्वसिद्धिरेवेत्यभिप्रेत्य तथाविधस्य तक्ष्णश्चेतनत्वमुदाहरति –
यथेति ।
नन्वीक्षितुस्तक्षादेर्दार्वाद्युपादानकारणसहितत्वात्प्रासादादिस्रष्टृत्वं युक्तम् ।
इह त्वात्मा वा इदमेक एवेत्युक्तस्याद्वितीयत्वेनोपादानकारणान्तराभावात्स्रष्टृत्वं न युक्तमिति शङ्कते –
नन्विति ।
न च बहु स्यां प्रजायेय तदाऽऽत्मानं स्वयमकुरुतेति श्रुत्याऽऽत्मन एवोपादानत्वान्नोपादानान्तरापेक्षेति वाच्यम् । वियदादेर्व्यावहारिकत्वेन घटादिवत्परिणामित्वात्तस्य परिणाम्युपादानं वक्तव्यम् । न चाऽऽत्मा तथा भवितुमर्हति । तस्य निरवयवत्वेनापरिणामित्वादिति भावः ।
तत्र वियदादेः परिणामित्वमङ्गीकृत्य तत्रानाभिव्यक्तनामरूपावस्थं बीजभूतमव्याकृतं तद्धेदं तर्ह्यव्याकृतमासीत्तम आसीत्, मायां तु प्रकृतिं विद्यादित्यादिश्रुतिसिद्धं परिणाम्युपादानमस्तीत्याह –
नैष इति ।
आत्मभूत इत्यनेनानभिव्यक्तनामरूपशब्दिताव्याकृतस्याऽऽत्मन्यध्यस्तत्वेन परिणममानविद्याधिष्ठानत्वेनाऽऽत्मनो विवर्तोपादानत्वंतयोरात्ममात्रत्वेन मृषात्वादात्मनोऽद्वितीयत्वं च न विरुध्यत इति दर्शयति । नामरूपे इति तदाश्रयमव्याकृतमित्यर्थः । इदानीं घटादिष्वपि विवर्ततैव परिणामो नाम विवर्तादन्यो नास्त्येव विवर्त इति परिणाम इति च पर्याय इत्यारम्भणाधिकरणन्यायेन विवर्ततया सिद्धे विकारेऽप्यात्मकृतेः परिणामादिति सूत्रकारेण परिणामशब्दप्रयोगाच्च सिद्धं तत्र च सत एवोपादानत्वम् ।
माया तु सहायमात्रमित्यभिप्रेत्याऽऽत्मनि चैवं विचित्राश्च हीति सूत्रावष्टम्भेन परिहारान्तरमाह –
अथवेति ।
विज्ञानवानिति ।
आकाशेन गच्छन्तमिव स्थितमात्मान्तरं स्रक्ष्यामीति ज्ञानवानित्यर्थः । इदं च विशेषणमीक्षणस्य स्रष्टृत्वस्य च शुक्तिरजतादौ विवर्तेऽदर्शानात्कार्यस्य तत्तुल्यत्वेन तदुभयम् न स्यादिति शङ्कानिरासार्थं तन्निरासश्च मायाविनिर्मिते विवर्ते तदुभयदर्शनादिति ।
निरुपादान इति ।
स्वव्यतिरिक्तोपादानरहित इत्यर्थः ।
सर्वशक्तित्वे हेतुमाह –
महामाय इति ।
आत्मान्तरत्वेनेति ।
आत्मभिन्नत्वेनेत्यर्थः ।
युक्ततरमिति ।
इन्द्रो मायाभिः पुरुरुप ईयते मायया ह्यन्यदिव भवति बहु स्यां प्रजायेय वाचाऽऽरम्भणं विकारोऽपागादग्नेरग्नित्वमित्यादिबहुश्रुतिसम्मतत्वादित्यर्थः ।
एवं च सतीति ।
सत एवाऽऽत्मनः कार्यकारणरूपेणावस्थानाङ्गीकारान्निर्हेतुकमेव कार्यमुत्पद्यत इति यदृच्छावादिनाम्, असदेव कार्यमुत्पद्यत इति नैयायिकानाम् । उभयमप्यसदिति शून्यवादिनां पक्षः । आदिशब्देन सदेव कार्यमुत्पद्यत इति साङ्ख्यादीनां परिणामपक्ष उक्तः । अत्र पक्षशब्देन तत्तत्पक्षोक्तदोषा लक्ष्यन्ते । तत्रासत्कारणपक्षे दध्याद्यर्थिनां दुग्धाद्यन्वेषणं न स्यादिति दोषः । असत्कार्यपक्षे त्वसतः सत्त्वापत्तिः शशविषाणादेरप्युत्पत्तिप्रसङ्गश्च दोषः । परिणामवादे च तस्य पुर्वमेव कारणे सत्त्वात्कुलालादिकारकव्यापारादिवैयर्थ्यं पूर्वमसत्त्वे कारणस्यैवावस्थान्तरापत्तिलक्षणपरिणामत्वानुपपत्तिः । उत्पत्त्यनन्तरमसत्त्वे ततो व्यवहारसिद्धिरपरोक्षत्वानुपपत्तिश्चेति दोषः । उभयासत्त्वे चोभयपक्षोक्तदोषास्ते विवर्तवादे न प्रसज्जन्त इत्यर्थः ।
यद्वाऽस्माभिर्विवर्तवादस्याङ्गीकारात्परिणामादिपक्षाङ्गीकारे परपक्षाङ्गीकारलक्षणो दोषो भवेदिति यच्छङ्क्यते तन्न सम्भवतीत्याह –
एवं च सतीति ।
सुनिराकृतश्चेति ।
विवर्तवादस्यैव परिग्रहेण पक्षान्तरेषु दोषसूचनादद्वितीयात्मनस्तद्विपरीतप्रपञ्चाकारताभिधायिन्या बहु स्यामिति श्रुत्या विवर्तवादस्यैव परिगृहीतत्वेन पक्षान्तराणां श्रुतिबाह्यत्वाच्च ते निराकृता भवन्तीत्यर्थः ।
लोकानां भौतिकत्वादण्डान्तर्वर्तित्वाच्च भूतसृष्टितत्पञ्चीकरणाण्डासृष्ट्यनन्तरं तत्सृष्टिरिति गुणोपसंहारन्यायमाश्रित्याऽऽह –
आकाशादिति ।
स्वयमेव व्याचष्ट इति ।
तेषां लोकेष्वप्रसिद्धत्वादित्यर्थः । द्युलोकात्परस्ताद्ये महरादयो लोका यश्च तस्याम्भसो लोकस्याऽऽश्रुयो द्युलोकस्ते सर्वेऽम्भःशब्देनोच्यन्ते ।
वृष्ट्यम्भसस्तत्र विद्यमानत्वादित्याह –
अद इत्यादिना ।
अन्तरिक्षं मरीचय इत्यस्यार्थमाह –
द्युलोकादिति ।
मरीचिशब्देन सूर्यकिरणसम्बन्धादन्तरिक्षलोकं लक्षयित्वा तस्यैकत्वेऽपि प्रदेशभेदाद्बहुवचनमित्युक्तम् ।
इदानीं बहूनां मरीचीनां लक्षकत्वात्तत्कृतं बाहुल्यम् गङ्गायां घोष इत्यत्र लक्षकगतस्त्रीत्वमिवेत्याह –
मरीचिभिर्वेति ।
न तु मरीचिशब्देनान्तरिक्षलोकस्वीकारे मरीचिसम्बन्धो निमित्तान्तरमुच्यत इति भ्रमितव्यम् । एतद्भिन्नस्य निमित्तान्तरस्य पूर्वमनुक्तत्वेन विकल्पार्थकवाशब्दायोगात् ।
आप उच्यन्त इति ।
अधोलोकवासिभिर्जीवैराप्यमानत्वादाप्नोतेर्धातोरर्थयोगात्ते लोका आप इत्युच्यन्त इत्यन्वयः ।
ननूक्तानां लोकानां पञ्चभूतसम्बन्धाविशेषाद्भूतान्तरेण पृथिव्यादिनोपरितनलोका लक्ष्यन्तामन्तरिक्षस्य मरीचिव्यतिरिक्तपदार्थान्तरेण मेघादिनाऽपि सम्बन्धात्तेन स लोकः पृथव्यास्ततोऽधोलोकानां च मरणाप्तिव्यतिरिक्तगमनादिक्रियान्तरेणापि योगात्क्रियान्तरेण ते लक्ष्यन्तामिति शङ्कते –
यद्यपीति ।
भूतात्मकत्वमिति ।
भूतसम्बन्धित्वमित्यर्थः । इदमुपलक्षणं मेघादिपदार्थान्तरसम्बन्धोऽपि वर्तत इत्यपि द्रष्टव्यम् ।
अम्भआदीनामेव तेषु लोकेषु प्राचुर्यात्तैरेव ते लोका लक्षणीयाः प्राचुर्येण व्यपदेशा भवन्तीति न्यायादिति परिहरति –
तथापीति ।
अब्बाहुल्यादित्युपलक्षणं मरीच्यादीनामपि बाहुल्यादित्यपि द्रष्टव्यम् । अब्नामभिरित्यत्रापि मरीच्यादिनामभिरित्यपि द्रष्टव्यम् । यथाश्रुतेऽबात्मकत्वेनाम्भआदिशब्दलक्षकत्वानुक्तेर्लोकानां शङ्कानुपपत्तेर्मरीच्यादीनामब्नामत्वाभावादप्शब्दस्याप्याप्तिक्रियार्थत्वोक्तेऽब्नामत्वाभावेनाब्नामभिरिति परिहारानुपपत्तेश्चेति । उपरितनलोकाद्वृष्टिद्वारेणाऽऽगतमम्भ एवास्माभिः साक्षादुपलभ्यते न तु भूतान्तरमित्यस्मद्दृष्ट्याऽब्बाहुल्यमुपरितनलोकानामूर्ध्वलोकगामिप्राण्यपेक्षयाऽधोलोकगामिनां प्राणिनां पुराणेषु बाहुल्योक्तेर्बहुभिराप्यन्तेऽधोलोका इत्यधोलोकेषु तत्कर्तृकाप्तेरपि बाहुल्यं पृथिव्यामतिशीघ्रं प्राणिनां मरणात्तस्यापि तत्र बाहुल्यमन्तरिक्षस्य तु मरीचिबाहुल्यं प्रसिद्धमेवेति ज्ञेयम् ।
अम्भो मरीचीर्मरमाप इत्युच्यन्त इति ।
एतैर्नामभिरुच्यन्त इत्यन्वयः । अत्रात्मा वा इत्युक्तात्मज्ञानेन संसारी मोचयितव्यत्वेन विवक्षितः । असंसारिणो मोक्षानुपपत्तेः ॥२॥