ऐतरेयोपनिषद्भाष्यम्
प्रथमः अध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति । सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्छयत् ॥ ३ ॥
सर्वप्राणिकर्मफलोपादानाधिष्ठानभूतांश्चतुरो लोकान्सृष्ट्वा सः ईश्वरः पुनरेव ईक्षत — इमे नु तु अम्भःप्रभृतयः मया सृष्टा लोकाः परिपालयितृवर्जिता विनश्येयुः ; तस्मादेषां रक्षणार्थं लोकपालान् लोकानां पालयितॄन् नु सृजै सृजेऽहम् इति । एवमीक्षित्वा सः अद्भ्य एव अप्प्रधानेभ्य एव पञ्चभूतेभ्यः, येभ्योऽम्भःप्रभृतीन्सृष्टवान् , तेभ्य एवेत्यर्थः, पुरुषं पुरुषाकारं शिरःपाण्यादिमन्तं समुद्धृत्य अद्भ्यः समुपादाय, मृत्पिण्डमिव कुलालः पृथिव्याः, अमूर्छयत् मूर्छितवान् , सम्पिण्डितवान्स्वावयवसंयोजनेनेत्यर्थः ॥

संसारश्च संसरणाधिकरणलोकांस्तदुपाधिभूतं लिङ्गशरीरं तदभिमानिनो देवांस्तदधिष्ठानं स्थूलशरीरं संसाररूपाशनायादीस्तदभिमानिनं तद्भोक्तारमन्तरेण नोपपद्यत इति तस्य सर्वस्य सृष्टिमयमावसथ इत्यन्तेन ग्रन्थेन क्रमेण वक्ष्यन्संसरणाधिष्ठानलोकसृष्टिमुक्त्वा तत्पालयितृदेवतासृष्ट्युक्तिव्याजेन समष्टिस्थूलशरीरस्य समष्टिलिङ्गशरीरस्य तदभिमानिनां देवानां च सृष्टिं वक्तुमारभते –

स ईक्षतेति ।