गवाश्वग्रहणस्य सर्वतिर्यग्देहोपलक्षकत्वमभिप्रेत्योक्तम् –
सर्वेति ।
स्वयोनिभूतमिति ।
स्वयोनिभूतविराट्पुरुषदेहसजातीयमित्यर्थः ।
यस्मात्स्वकीयपरितोषद्योतकेन सुकृतं बतेत्यनेन शब्देन पुरुषदेहमुक्तवत्यस्तस्मात्तस्येदानीमपि सुकृतत्वमित्याह –
तस्मादिति ।
स्वयं वेति ।
ईश्वरेण स्वेनैव कृतं भृत्यादिकृतापेक्षया सुकृतं सुष्ठु कृतमित्यर्थः । पृषोदरादित्वात्स्वयमितिस्थाने सुशब्द इत्यर्थः ।
एवं व्यष्टिदेहसृष्टिमुक्त्वा तत्र करणानां देवतानां च व्यष्टिरूपेण प्रवेशमाह –
ता देवता इति ।
इष्टत्वे हेतुमाह –
सर्वे हीति ।
आयतनमिति ।
गोलकरूपं स्थानमित्यर्थः । राज्ञोऽनुज्ञां प्रतिलभ्य बलाधिकृतादयः सेनापत्यादयो नगर्यां यथा प्रविशन्ति तद्वदीश्वरस्यानुज्ञां प्रतिलभ्याग्निः प्राविशदित्यन्वयः ॥३॥