ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति । ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयमलमिति ॥ २ ॥
एवमुक्त ईश्वरः ताभ्यः देवताभ्यः गां गवाकृतिविशिष्टं पिण्डं ताभ्य एवाद्भ्यः पूर्ववत्पिण्डं समुद्धृत्य मूर्छयित्वा आनयत् दर्शितवान् । ताः पुनः गवाकृतिं दृष्ट्वा अब्रुवन् । न वै नः अस्मदर्थम् अधिष्ठाय अन्नमत्तुम् अयं पिण्डः अलं न वै । अलं पर्याप्तः । अत्तुं न योग्य इत्यर्थः । गवि प्रत्याख्याते तथैव ताभ्यः अश्वम् आनयत् । ता अब्रुवन् — न वै नोऽयमलमिति, पूर्ववत् ॥