एवं समष्टीनामिन्द्रियाणां तदभिमानिदेवतानां चोत्पत्तिमुक्त्वाऽथ तासां देवतानां भोगयोग्याल्पव्यष्टिदेहसृष्टिं तेषु देवतानां भोगार्थं व्यष्टिरूपेण प्रवेशं च विवक्षुस्तदुपोद्घातत्वेन क्षुत्पिपासयोः सृष्टिं दर्शयति –
ता एता इति ।
तच्छब्दार्थमाह –
अग्न्यादय इति ।
एतच्छब्दार्थमाह –
लोकपालत्वेनेति ।
अशनायादिसृष्ट्युपयोगित्वेनैतासां स्वरूपाज्ञानपूर्वकं संसारे ब्रह्माण्डरूपे पतितत्वमासक्तत्वं तन्मात्रत्वाभिमानेन यद्बद्धत्वं तदाह –
अस्मिन्निति ।
अर्णवसादृश्यमाह –
अविद्येत्यादिना ।
अविद्यादिप्रभवं दुःखमेव दुष्प्रवेशनगुणेनोदकमिवोदकं यस्मिंस्तीव्ररोगादय एव भयङ्करत्वेन ग्राहा नक्रादयो यस्मिन्स्तत्त्वज्ञानमन्तरेण विनाशाभावादनन्तेऽज्ञानामुत्तरावध्यभावेनापारे विश्रामस्थानाभावेन निरालम्बे ।
समीचीनविश्रमस्थानाभावेऽपि तदाभासोऽस्तीत्याह –
विषयेन्द्रियेति ।
विषयेन्द्रियसम्बन्धजनितसुखलेशरूपे विश्रामो यस्मिन्पञ्चेन्द्रियाणामर्थेषु विषयेषु शब्दादिषु या तृट् तृष्णा सैव मारुतस्तत्कृतो यो विक्षोभस्तनोत्थितान्यनर्थशतानि विषयसम्पादनादिना क्लेशास्त एवोर्मयो यस्मिन्महारौरवादय एवानेके निरया नरकविशेषास्तद्गतानां गर्भवासतन्निष्क्रमणबाल्यादयो मरणान्ता येऽनेके निरया दुःखजनकत्वात्तद्गतानां च यानि हा हेत्यादीनि कूजितानि स्वल्पध्वनय आक्रोशनानि महाध्वनयस्तदुद्भूतो महारवो यस्मिन् । महापातकाद्यनेकनिरयेति पाठे महापातकजन्या निरया इति द्रष्टव्यम् ।
संसारार्णवस्यैवम्भूतत्वे तस्य तरणासम्भावान्मोक्षशास्त्रानर्थक्यमित्याशङ्क्याविवेकिनां तथात्वेऽपि विवेकिनां तत्तरणोपायोऽस्तीत्याह –
सत्येति ।
सत्यादयो य आत्मगुणास्त एव पाथेयं पथ्यशनं तेन पूर्णज्ञानमेवोडुपं प्लवो यस्मिन् । सत्सङ्गो गुरुसम्पत्तिः सर्वत्यागः संन्यासस्तावेव मार्गो ज्ञानोडुपप्रवृत्तिहेतुर्यस्मिन्मोक्षे सति पुनः संसारार्णवस्पर्शाभावात्स एव तीरवत्तीरं यस्मिन्नेतस्मिन्प्रत्यक्षसिद्धेऽर्णव इत्यर्थः । अत्र पतनं नामाऽऽत्मस्वरूपाज्ञानेन संसारेऽहमभिमानेन सक्तत्वम् । ननु संसारार्णवपतितत्वं वक्ष्यमाणाशनायादियोग इत्यादिसर्वोऽपि बन्धस्तदभिमानिनो जीवस्य वक्तव्यो न देवतानाम् । न च तासामपि तत्राभिमानोऽस्तीति तदुक्तमिति शङ्कनीयम् ।
तथाऽपि प्राधान्यतोऽभिमानिनं जीवं विहायाप्राधान्यतोऽभिमानिनीषु तदुक्तेरभिप्रायो वक्तव्य इत्यत आह –
तस्मादिति ।
यस्मात्संसारार्णवपतितत्वं तासां तस्मादित्यर्थः । महारौरवाद्यनेकनिरयगतिरिवेति पाठ उक्तनिरयगतिर्यथा दुःखोपशमाय नालं तथा साऽपि नालमिति पूर्णेणान्वयः ।
तद्विवक्षाया अपि प्रयोजनमाह –
यत एवमिति ।
एवं विदित्वेति ।
नालमिति विदित्वेत्यर्थः । आत्मनः सर्वभूतानां चाऽऽत्मा य आत्मा वा इदमित्यादिना जगदुत्पत्त्यादिहेतुत्वेन यः प्रकृतः स परं ब्रह्म वेदितव्यं इत्यन्वयः ।
नन्वेष पन्था एतत्कर्मैतद्ब्रह्मैतत्सत्यमित्युपक्रम्योक्थमुक्थमिति वा इत्यादिना कर्मसम्बन्धिसगुणब्रह्मात्मज्ञानस्यैवोक्तत्वात्तस्यैव मोक्षसाधनत्वं नोक्तकेवलात्मज्ञानमात्रस्येत्याशङ्क्यैष पन्था इत्यादिना ब्रह्मात्मविज्ञानमेवोक्तं न कर्मसमुच्चितं ज्ञानं तस्योक्तवाक्येन संसारहेतुत्वावगमेन सत्यत्वायोगादित्याह –
तस्मादेष पन्था इति ।
यस्मात्कर्मसहितस्य प्राणविज्ञानस्य संसारफलत्वं तस्मादेष पन्था इत्यनेन यदेतद्ब्रह्मात्मविज्ञानं तदेवोक्तमित्यन्वयः ।
“तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इत्यनेनापि केवलात्मविज्ञानव्यतिरिक्तपथनिषेधादप्युक्तमेव ज्ञानं पन्था इत्याह –
नान्य इति ।
एष पन्था ब्रह्मात्मज्ञानमुपक्रम्य मध्ये प्राणविज्ञानोक्तिस्तु प्राणोपासनया चित्तैकाग्र्ये सति तत्फलाच्च वैराग्ये सत्येष पन्था इत्युपक्रान्तं मुख्यं ज्ञानं वक्तुं शक्यमित्यभिप्रायेणेति भावः । यद्यप्येतद्वाक्यव्याख्यानावसरे कर्ममार्गेऽपि पथिशब्दार्थत्वेनोक्तस्तथाऽपि ज्ञानमार्गोपायत्वेन स उक्तो न प्राधान्येनेति भावः ।
ननु पिण्डस्याशनायादियोगे देवतानां कथं तद्वत्त्वं येन तासामन्नादनार्थमायतनप्रश्नः स्याद्यस्मिन्प्रतिष्ठिता इत्यनेनेत्यत आह –
तस्येति ।
पितामहमिति ।
स्वजनकपिण्डजनकमित्यर्थः ।
अधिष्ठानमिति ।
शरीरमित्यर्थः ।
ननु विराड्देह एवाऽऽयतनं वर्तत इत्याशङ्क्य तस्यातिप्रौढत्वात्तमापूर्यं तत्र स्थातुं वयमसमर्था अन्नञ्च तद्देहपर्याप्तं सम्पादयितुमसमर्था अतोऽस्मद्योग्यं व्यष्टिदेहं सृजस्वेत्युक्तवत्य इत्याह –
यस्मिन्निति ।
यद्यप्यस्मदादिव्यष्टिदेहं विनाऽपि चरुपुरोडाशादिहविरदनमस्ति तथाऽपि तदपि हविरदनं व्यष्टिदेवतादेहमन्तरा नास्तीति भावः ॥१॥