विराडुत्पत्तिमुक्त्वा तदवयवेभ्यो लोकपालोत्पत्तिमाह –
तं पिण्डमित्यादिना ।
तपःशब्देनाभिध्यानशब्दितं ज्ञानमुच्यते न कृच्छ्रादीत्यत्र श्रुतिमाह –
यस्येति ।
यस्य तपो ज्ञानमेव न कृच्छ्रादीत्यर्थः । ततो वाचो लोकपालोऽग्निर्वागधिष्ठाता निरवर्ततेत्यन्वयः । यद्यपि वागादिकरणजातमपञ्चीकृतभूतकार्यं न मुखादिगोलककार्यं तथाऽपि मुखाद्याश्रये तदभिव्यक्तेर्मुखाद्वागित्युक्तम् । नासिकाभ्यां प्राण इत्यत्र प्राणशब्देन प्राणवृत्तिसहितं घ्राणेन्द्रियमुच्यते ।
अधिष्ठानमिति ।
गोलकमित्यर्थः । त्वग्गोलकम् । लोमेति लोमसहचरितं स्पर्शनेन्द्रियमुच्यते । ओषधिवनस्पतय इत्योषध्याद्यधिदेवता वायुरुच्यते ।
चित्तं तु चेतो हृदयं हृदयज्ञं चाहृदयज्ञं चेत्यादौ हृदयशब्दस्यान्तःकरणार्थत्वदर्शनान्मनःशब्देनापि तस्यैवाभिधाने पौनरुक्त्यमित्यत आह –
हृदयमिति ।
अन्तःकरणाधिष्ठानं हृदयकमलमुच्यत इत्यर्थः ।
सर्वप्राणबन्धनस्थानमिति ।
गुदमूलमित्यर्थः ।
अपानशव्देन पाय्विन्द्रियलक्षणायां सम्बन्धमाह –
अपानेति ।
ननु शिश्नं निरभिद्यतेति पर्याये शिश्नरेतसोरुत्पत्त्यभिधाने स्त्रीयोन्यादेरुत्पत्तिरनुक्ता स्यादित्याशङ्क्य शिश्नशब्देनोपस्थेन्द्रियस्थानं लक्ष्यते रेत इति तद्विसर्गार्थत्वेन तत्सहितमुपस्थेन्द्रियमप्यशव्देन तल्लक्षितपञ्चभूतोपाधिकः प्रजापतिश्चोच्यत इत्याह –
यथेति ।
यथाऽन्यत्र पर्यायान्तरे स्थानं करणं देवता चेति त्रयमुक्तमेवमिहापि शिश्नादिशब्दैस्त्रयमप्युच्यत इत्यर्थः ।
रेत इति ।
इन्द्रियमुच्यत इत्यन्वयः ।
तल्लक्षणायां सम्बन्धमाह –
सह रेतसेति ।
रेतसा सहितं तत्सम्बद्धमित्यर्थः ।
सम्बन्धमुपपादयति –
रेतोविसर्गार्थत्वादिति ॥४॥