अशनायापिपासयोरपि व्यष्टिदेहेऽपि करणाधिष्ठातृदेवतासम्बन्धं वक्तुं तयोः प्रश्नमवतारयति –
एवमिति ।
निरधिष्ठाने सत्याविति कारणीभूते विराड्देहेऽधिष्ठानविशेषो यदि स्यादशनायापिपासयोरग्न्यादीनां मुखादय इव तदा व्यष्टिदेहेऽपि तदेव स्यात्तयोरधिष्ठानं तेषामिव न त्वेतदस्ति । अतो निरधिष्ठाने ते इत्यर्थः । विधत्स्वेत्यनन्तरं यस्मिन्प्रतिष्ठिते अन्नमदावेति शेषः ।
तत्राधिष्ठानविशेषस्तावद्युवयोः कारणे समष्टिदेहेऽभावादिहापि नास्त्येव कारणपूर्वकत्वात्कार्येऽप्यधिष्ठानस्यादनं तु युवयोर्धर्मरूपत्वाद्धर्मिणमनाश्रित्य धर्मस्य स्वातन्त्र्यायोगाच्चेतनावद्धर्मीभूतदेवतागतमेवान्नादनं युवयोरित्याह –
स ईश्वर इति ।
भावरूपत्वादिति ।
धर्मरूपत्वादित्यर्थः । धर्मिणोऽप्यचेतनस्य भोक्तृत्वादर्शनाच्चेतनावद्वस्त्वित्युक्तम् ।
अध्यात्मेति ।
अध्यात्मदेवता व्यष्टिदेहगतदेवता अधिदेवताः समष्टिविराड्देहगता हविर्भुजोऽग्न्यादयः प्रसिद्धास्तास्वित्यर्थः ।
वृत्तीति ।
भोगैकदेशदानेनेत्यर्थः । एतदेव स्पष्टीकरोति ।
एतासु भागिन्याविति ।
साक्षाद्देवतासु भागवत्वायोगाद्देवताभागेन भागवत्वमंशवत्वमुक्तमिति व्याचष्टे –
यद्देवत्य इति ।
यद्देवत्यो यद्देवतासम्बन्धी यो भागः स्यात्तस्या देवतायाः सम्बन्धिना तेनैव भागेनेत्यर्थः । हविरादीत्यादिशब्देन तत्तदिन्द्रियविषयोऽपि गृह्यते । करोमीत्यनन्तरमुक्त्वेति शेषः ।
उक्तमर्थमिदानीन्तनव्यवहारेण दृढीकर्तुं तस्मादित्यादिवाक्यं तद्व्याचष्टे –
यस्मादिति ।
यस्मात्सृष्ट्यादावेवं व्यदधात्तस्मादित्यर्थः । हविर्ग्रहणमुपलक्षणमधिदैवतं हविर्गृह्यतेऽध्यात्मदेवतायै शब्दादिविषयो गृह्यत इति योज्यम् । भागिन्यावेवेति । यद्यपि शब्दादिविषयेण हविषा चाग्न्यादिदेवतातृप्तौ तयोर्नाश एव दृश्यते न तु तद्भागेन भागित्वं तथाऽपि तयोः सर्वात्मना नाशे पुनः कालान्तरे ते न स्याताम् । अतः स्वरूपेण स्थितयोरेव तयोः कदाचिदिन्द्रियदेवतानां विषयोन्मुखतया प्रेरकत्वरूपं कार्यौन्मुख्यं कदाचित्तदभावरूपोपशान्तिरित्यभ्युपगन्तव्यम् । तथा च हविषा देवतातृप्तावशनायापिपासयोरपि तृप्तिरुपशान्तिर्दृश्यत इति तद्भागेन भागवत्त्वमुक्तमित्यर्थः । न च चक्षुरादिना रूपादिग्रहणदशायामशनायापिपासायोर्नशान्तिर्दृश्यत इति न सर्वत्र भागवत्त्वं तयोरिति शङ्क्यम् । क्षुत्पिपासार्तस्यान्नपानदर्शनश्रवणादिनाऽन्नपानप्रत्यासत्तिपरितोषेण मनसि तृष्णा शान्तेव भाति । न तु यथापूर्वं बाधत इति चक्षुरादिष्वपि तयोर्भागवत्वमित्युक्तं सायणीयदीपिकायाम् । वस्तुतस्त्वशनायापिपासाशब्देनेन्द्रियाणां स्वस्वविषयगोचरौ तृष्णाकामावुच्येते । अन्नमदामेत्यत्राप्यन्नादनं स्वस्वविषयग्रहणमेव चक्षुरादीन्द्रियदेवतानां मुख्यादनासम्भवात् । तथा च रूपादिविषयग्रहणेन तत्तद्विषयगोचरयोस्तयोः शान्तिरस्तीति सर्वेन्द्रियेष्वपि तयोर्भागवत्त्वं युक्तमिति । न चेन्द्रियदेवतातृप्तिव्यतिरेकेण न तयोः पृथक्तृप्तिर्दृश्यत इति वाच्यम् । इन्द्रियदेवतानां स्वस्वविषयोन्मुखतया प्रेरकत्वरूपकार्यौन्मुख्यनिवृत्तिरूपोपशान्तिरेव पृथक्तयोस्तृप्तिरस्तीत्युक्तत्वात् । यद्यप्यर्णवप्रवेशनमशनायादिमत्त्वं तन्निमित्तमन्नादनमित्यादि सर्वं कार्यकरणसङ्घातपञ्जराध्यक्षस्य जीवस्य भोक्तुरेव नेन्द्रियदेवतानामशनायापिपासादि तथाऽपि तस्य वस्तुतोऽभोक्तृब्रह्मभूतस्य स्वतो भोक्तृत्वायोगादिन्द्रियदेवताद्युपाधिकृतमेव तस्य भोक्तृत्वादिसर्वसंसार इति वक्तुं तेष्वेव तमारोप्य श्रुत्योच्यत इति न दोषः ॥५॥