ऐतरेयोपनिषद्भाष्यम्
प्रथमः अध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति ॥ १ ॥
सः एवमीश्वरः ईक्षत । कथम् ? इमे नु लोकाश्च लोकपालाश्च मया सृष्टाः, अशनायापिपासाभ्यां च संयोजिताः । अतो नैषां स्थितिरन्नमन्तरेण । तस्मात् अन्नम् एभ्यः लोकपालेभ्यः सृजै सृजे इति । एवं हि लोके ईश्वराणामनुग्रहे निग्रहे च स्वातन्त्र्यं दृष्टं स्वेषु । तद्वन्महेश्वरस्यापि सर्वेश्वरत्वात्सर्वान्प्रति निग्रहे अनुग्रहे च स्वातन्त्र्यमेव ॥

एवं भोगसाधनसृष्टिमुक्त्वा भोग्यसृष्टिं वक्तुमारभते –

स एवमिति ।

नुशब्दोक्तं वितर्कं स्पष्टीकरोति –

लोका इत्यादिना ।

पूर्ववल्लोकपालप्रार्थनां विना स्वयमेवान्नं स्रष्टुं वितर्कितवानित्युक्तेः प्रयोजनमीश्वरत्वज्ञापनमित्याह –

एवं हीति ।

अप इति । पञ्च भूतानीत्यर्थः ॥१॥