अभ्यतपदिति ।
एतेभ्यो भूतेभ्यो मनुष्यादीनामन्नभूता व्रीह्यादयो जायन्तां मार्जारादीनामन्नभूतानि मूषकादीनि जायन्तामिति पर्यालोचनं सङ्कल्पं कृतवानित्यर्थः ।
मूर्तिशब्देन करचरणादिमतोऽभिधाने व्रीह्यादेरग्रहणं स्यादत आह –
घनरूपमिति ।
कठिनमित्यर्थः ।
नन्वमूर्तानामपि वायुचन्द्रकिरणादीनां सर्पादीन्प्रत्यन्नत्वमस्तीति तत्सङ्ग्रहार्थमाह –
धारणसमर्थं चेति ।
शरीरधारणसमर्थमित्यर्थः ।
चरेति ।
चरं मूषकाद्यचरं व्रीह्यादीत्यर्थः । या वै सा मूर्तिरजायतान्नं वै तदिति पूर्वेणान्वयः ।
तच्छब्दार्थमाह –
मूर्तिरूपमिति ॥२॥