ऐतरेयोपनिषद्भाष्यम्
प्रथमः अध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
तदपानेनाजिघृक्षत्तदावयत् । सैषोऽन्नस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः ॥ १० ॥
तदेनत् अन्नं लोकलोकपालान्नार्थ्यभिमुखे सृष्टं सत् , यथा मूषकादिर्मार्जारादिगोचरे सन् , मम मृत्युरन्नाद इति मत्वा परागञ्चतीति पराङ् पराक्सत् अत्तॄन् अतीत्य अजिघांसत् अतिगन्तुमैच्छत् , पलायितुं प्रारभतेत्यर्थः । तमन्नाभिप्रायं मत्वा स लोकलोकपालसङ्घातकार्यकरणलक्षणः पिण्डः प्रथमजत्वादन्यांश्चान्नादानपश्यन् , तत् अन्नं वाचा वदनव्यापारेण अजिघृक्षत् ग्रहीतुमैच्छत् । तत् अन्नं नाशक्नोत् न समर्थोऽभवत् वाचा वदनक्रियया ग्रहीतुम् उपादातुम् । सः प्रथमजः शरीरी यत् यदि ह एनत् वाचा अग्रहैष्यत् गृहीतवान्स्यात् अन्नम् , सर्वोऽपि लोकः तत्कार्यभूतत्वात् अभिव्याहृत्य हैव अन्नम् अत्रप्स्यत् तृप्तोऽभविष्यत् । न चैतदस्ति । अतो नाशक्नोद्वाचा ग्रहीतुमित्यवगच्छामः पूर्वजोऽपि । समानमुत्तरम् । तत्प्राणेन तच्चक्षुषा तच्छ्रोत्रेण तत्त्वचा तन्मनसा तच्छिश्नेन तेन तेन करणव्यापारेण अन्नं ग्रहीतुमशक्नुवन्पश्चात् अपानेन वायुना मुखच्छिद्रेण तत् अन्नम् अजिघृक्षत् , तदावयत् तदन्नमेवं जग्राह अशितवान् । तेन स एषः अपानवायुः अन्नस्य ग्रहः अन्नग्राहक इत्येतत् । यद्वायुः यो वायुरन्नायुः अन्नबन्धनोऽन्नजीवनो वै प्रसिद्धः, स एष यो वायुः ॥

शब्दादिभोक्तृत्वमिन्द्रियदेवतोपाधिकं न स्वत आत्मन इत्यभिप्रायेण तेषां शब्दादिभोगमुक्त्वेदानीमन्नपानभोक्तृत्वमप्यपानवृत्तिमत्प्राणोपाधिकं न स्वत आत्मन इत्यभिप्रायेण तस्या भोक्तृत्वं परिशेषान्निर्धारयितुमाह –

तदेनदिति ।

सृष्टं तत्पराङ्सदत्यजिघांसदित्यन्वयः ।

उक्तार्थे दृष्टान्तमाह –

यथेति ।

पराङ्पदं व्युत्पादयति –

परागञ्चतीति ।

मत्वेत्यनन्तरं परागञ्चति तद्वदिति शेषः ।

अतिगन्तुमैच्छदिति ।

यद्यपि व्रीह्याद्यचेतनान्नस्य नैवमिच्छा सम्भवति तथाऽपि भोक्तृशरीरान्तर्न प्रविष्टं किन्तु बहिरेव स्थितमित्यत्र तात्पर्यम् । कार्यकारणलक्षणः पिण्डस्तदन्नं वाचाऽजिघृक्षदित्यन्वयः ।

नन्विदानीमिव प्रथममेवापानेनैवान्नजिघृक्षा तस्य किमिति नाऽऽसीदित्याशङ्क्य तस्येदानीन्तनशरीरापेक्षया प्रथमजत्वात्तदानीं चापानेनान्नादत्वस्यानिश्चयात्तस्य वागादिनाऽन्नजिघृक्षा युक्तेत्याह –

प्रथमजत्वादिति ।

अस्मदाद्यपेक्षयेत्यर्थः । यस्मिन्प्रतिष्ठिता अन्नमदामेत्युपक्रान्तस्य व्यष्टिशरीरस्य समष्टिपिण्डापेक्षया प्रथमजत्वाभावादपश्यन्नजानन्नित्यर्थः ।

वदनक्रियया प्रथमजस्य पिण्डस्य कारणस्यान्नग्रहणासामर्थ्यं कार्यगतासामर्थ्येन द्रढयति –

स प्रथमज इति ।

अत्र प्रथममन्नपदं गृहीतवान्स्यादित्यत्र कर्मत्वेन सम्बध्यते ।

तत्कार्यभूतत्वादिति ।

तदनन्तरभूतत्वादित्यर्थः । इदानीन्तनशरीरस्य पूर्वकालीनव्यष्टिशरीरकार्यत्वाभावादिति ।

अभिव्याहृत्येति ।

वाचकशब्देनाभिधायेत्यर्थः । पूर्वजोऽपीत्यस्यनाशक्नोदिति पूर्वेणान्वयः । प्राणेन घ्राणेनाभिप्राण्याऽऽघ्रायेत्यर्थः ।

अपानेनेति ।

मुखच्छिद्रेणान्तर्गच्छता वायुनेत्यर्थः ।

अन्नात्तृत्वमपि श्वसनवृत्तिमतः प्राणस्य धर्मो नाऽऽत्मनः स्वत इत्येतत्तदेनत्सृष्टं पराङित्यादिनोक्तं सन्दर्भस्य प्रयोजनमुपसंहरति –

तेन स एष इति ।

येन कारणेनापानेनान्नमशितवांस्तेनेत्यर्थः ।

अपानवृत्तिमतः प्राणस्यान्नग्राहकत्वं प्रसिद्ध्या दृढीकर्तुमन्नायुरिति वाक्यं व्याचष्टे –

अन्नायुरिति ।

अन्नमदामेत्यादिश्रुत्यन्तरे प्राणस्यान्नायुष्ट्वं प्रसिद्धमित्यर्थः ॥३॥४॥५॥६॥७॥८॥९॥१०॥