एवं भोगादिकरणभूतानां लोकानां भोगायतनस्य समष्टिव्यष्टिशरीरस्य भोगोपकरणानां वागादीनां समष्टिशरीरे लोकपालत्वेन व्यष्टिशरीरे करणाधिष्ठातृत्वेन च स्थितानां देवतानां भोगे प्रेरकयोरशनायापिपासयोस्तत्प्रयुक्तस्य करणनिष्ठस्य शब्दादिविषयग्रहणलक्षणस्य भोगस्यापानवृत्तिमत्प्राणनिष्ठस्यान्नपानग्रहणलक्षणस्य च भोगस्याऽऽत्मनः संसारित्वसिद्ध्यर्थं सृष्टिमभिधायेदानीं संसारिणं भोक्तारं दर्शयितुं स्रष्टुरीश्वरस्य विचारं दर्शयितुं स ईक्षतेति वाक्यं तद्व्याचष्टे –
स एवमिति ।
पुरस्य पौराणां पुरवासिनां तत्पालयितॄणां राजनियुक्ताधिकारिणां स्थितिसमां तत्तुल्यामन्ननिमित्तामन्नाधीनां सङ्घातस्थितिं कृत्वेत्यन्वयः ।
पदार्थानुक्त्वा वाक्यार्थमाह –
यदिदमिति ।
वक्ष्यमाणमिति ।
वाचाऽभिव्याहृतमित्यादिना वक्ष्यमाणमभिव्याहरणादिकमित्यर्थः । हेतुर्गर्भितमिदं शब्दार्थस्य विशेषणम् ।
परार्थं सदिति ।
परार्थत्वात्परमर्थिनं मामृते कथं स्यादित्यस्यैवार्थस्य कथंशब्दसूचितं व्यतिरेकमाह –
यदीति ।
केवलं भोक्तृरहितव्यवहरणादि तयत्तन्न कथञ्चन भवेत्कथञ्चिदपि न भवेदित्यन्वयः ।
तत्र हेतुः –
निरर्थकमिति ।
अर्थयत इत्यर्थः । पचाद्यजर्थयिता पुरुषस्तद्रहितमित्यर्थः । अर्थयिता हि पुरुषः स्वस्य प्रयोजनसिद्ध्यर्थं वागादिकं प्रेरयति । तदभावे प्रेरकाभावाद्वाग्व्यवहारादिकं न भवेदित्यर्थः । यद्वाऽर्थः प्रयोजनमर्थिनोऽभावे तस्यार्थत्वाभावान्निष्प्रयोजनं सत्तन्न भवेत्प्रयोजनप्रयुक्तत्वात्सर्वप्रवृत्तेरिति ।
तत्र दृष्टान्तः –
बलिस्तुत्यादिवदिति ।
एतदेव विवृणोति –
पौरेति ।
अत्र यथाशब्दो द्रष्टव्यः । यथा पौरादिभिः प्रयुज्यमानं बलिस्तुत्यादिकं स्वामिनमन्तरेण न भवेत्तद्वदित्यन्वयः ।
स्वामिनमन्तरेणेति ।
अस्य व्याख्यानमसत्येवेति ।
विचारस्य फलमाह –
तस्मादिति ।
परेणार्थादन्येन स्वामिनाऽर्थिना वागादिव्यवहारकृतोपकारभाजाऽधिष्ठात्रा वागादिप्रेरकेण अधिष्ठातृत्वं चायस्कान्तवच्चेतनस्य सन्निधानमात्रमेव साक्षितया न व्यापार इत्याह –
कृतेति ।
कृताकृततोस्तत्फलस्य चेत्यर्थः ।
फलसाक्षित्वमेव भोक्तृत्वमपीत्याह –
भोक्त्रेति ।
राज्ञेत्यस्येतिपदाध्याहारेणेक्षतेति पूर्वेणान्वयः ।
एवं वाग्व्यवहरणादकार्यसिद्ध्यर्थं मया प्रवेष्टव्यमित्युक्त्वाऽऽत्मस्वरूपबोधार्थं च मया प्रवेष्टव्यमिति वक्तुं स ईक्षत यदि वाचाऽभिव्याहृतमित्याद्यथ कोऽहमित्यन्तं वाक्यं तत्प्रवेशप्रयोजनकथनार्थत्वेन कथम् न्विदमितिवाक्यतुल्यत्वात्स ईक्षत कतरेणेति वाक्येन व्यवहितमपीहैवाऽऽकृष्य व्याचष्टे –
यदि नामेति ।
संहतस्य वागादिलक्षणस्य कार्यस्य परार्थत्वं परोपकाररूपाभिव्याहरणादिकारित्वं परार्थिनमुपकारभाजमन्तरेण भवेदित्यर्थः । अनेन यदि वाचैव केवलयाऽभिव्याहृतं भवेदित्येवकाराध्याहारेण वाक्यं योजितम् । एवमुत्तरत्रापि यदि प्राणेनैवाभिप्राणितं भवेदित्यादि द्रष्टव्यम् । अभिप्राणितमाघ्रातमभ्यपानितमन्तर्गतं भक्षितमित्यर्थः । उक्तमेव वाक्यार्थं स्पष्टीकरोति यद्यहमित्यादिना । अयं सन्निति । अयमात्माऽस्ति स चैवंरूपश्चेति नाधिगच्छेदित्यर्थः ।
अप्रवेशे स्वस्याधिगमो न स्यादित्युक्त्वा प्रवेशे तु सोऽस्तीति प्रवेशफलमाह –
विपर्यये त्विति ।
प्रविश्याभिव्याहृताद्युपलम्भे त्वित्यर्थः । वेदनरूपः सञ्चेत्यधिगन्तव्योऽहं स्यामित्यन्वयः ।
वेदनरूपत्वमुपपादयति –
योऽयमिति ।
योऽयं वागाद्यभिव्याहृतादि वेद स वेदनरूप इत्यधिगन्तव्यः स्यामित्यन्वयः । न च वेदितुः कथं वेदनरूपत्वमिति वाच्यम् । वेदितुरवेदनरूपत्वे तस्य वेदनान्तरकर्मत्वं वाच्यम् । तस्मिन्वेदने वेदितैव कर्ता चैदेकस्मिन्वेदितरि कर्तृत्वं कर्मत्वं च विरुद्धं प्रसज्येत । अन्यो वेदिता कर्ता चेत्तस्याप्यन्यो वेदितेत्यनवस्था स्यादिति वेदितुर्वेदनरूपत्वं सिद्ध्यति । अत एव श्रुत्यन्तरे यो वेदेदं जिघ्राणीति स आत्मेति घ्रातृघ्रेयघ्राणवेदनस्याऽऽत्मत्वमुक्तमिति भावः ।
तस्य वेदनरूपत्वे प्राणमुक्त्वाऽस्तित्वे प्रमाणमाह –
यदर्थमिति ।
संहतानां वागादीनामभिव्याहृतादि यदर्थं सोऽन्यो वागादिभिरसंहतः संश्चेत्यधिगन्तव्य इति पूर्वेणान्वयः । संहतानामसंहतपरार्थत्वे दृष्टान्तमाह यथेति । एतदुक्तं भवति । वागाद्यभिव्याहृतादि स्वासंहतपरार्थं भवितुमर्हति । संहतत्वात्कुड्यादिवत्प्रासादादिवच्चेति । तद्वदित्यनन्तरं श्रुतिगतं स ईक्षतेति पदं द्रष्टव्यम् । भाष्ये तु स्पष्टतया त्यक्तम् ।
प्रयोजनद्वयवशात्प्रवेशस्य कर्तव्यत्वे सिद्धे प्रवेशद्वारस्य विचारस्यावसर इतीदानीं स ईक्षत कतरेणेति वाक्यं व्याचष्टे –
एवमीक्षित्वेति ।
अत इति ।
यतः प्रवेशस्य वागादिव्यवहारसिद्धिर्मत्स्वरूपबोधश्चेति प्रयोजनद्वयसिद्ध्यर्थं कर्तव्यत्वमत इत्यर्थः । अन्तरिति पाठे शरीरस्यान्तः प्रपद्या इत्यन्वयः ।
कतरेणेति पदं गृहीत्वा तद्व्याख्यातुं मार्गद्वयं दर्शयति –
प्रपदं चेति ।
इदानीं गृहीतं पदं व्याख्याति –
अनयोः कतरेणेति ।
प्रपद्या इत्यनन्तरं श्रौतं स ईक्षतेति पदं द्रष्टव्यम् ॥११॥