अनन्तरं स ईक्षत यदि वाचेत्यादिवाक्यं पूर्वमेव व्याख्यातमिति तदुत्तरं स एतमेव सीमानमिति वाक्यं व्याख्यातुं तदपेक्षितमाह –
एवमीक्षित्वेति ।
पर्यालोच्येत्यर्थः ।
भृत्यस्य प्रवेशमार्गेण स्वामिनः प्रवेशोऽनुचित इत्यनेनैव मार्गेण प्रवेशं निश्चितवानित्याह –
न तावदिति ।
अस्येति ।
पिण्डस्येत्यर्थः । प्रपद्येयमित्यनन्तरं निश्चित्येति शेषः ।
एवमपेक्षितमुक्त्वा सा एतमिति वाक्यं व्याचष्टे –
इति लोक इवेति ।
एवमीक्षित्वा मूर्धानं विदार्य प्रपद्येयमिति निश्चित्येमं सङ्घातं प्रापद्यतेत्यन्वयः । ननु नव वै पुरुषे प्राणाः सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ ।
नवद्वारे पुरे देहीत्यादिषु द्वारनवकं प्रसिद्धं न तु मूर्धनि द्वारान्तरमित्याशङ्क्य प्रत्यक्षतस्तयोर्ध्वमायन्नमृतत्वमेतीति श्रुतितश्च तस्य द्वारस्य प्रसिद्धेर्नैवमिति वक्तुं सैषेति वाक्यं तद्व्याचष्टे –
सेयमिति ।
प्रत्यक्षतः प्रसिद्धिं सैषेति पदाभ्यां दर्शयति –
मूर्ध्नीति ।
मूर्धनि चिरं विषवृक्षतैलादिवारणकाले तिक्तादितद्रससंवेदनं दृश्यत इति सा द्वाः प्रत्यक्षतः प्रसिद्धेत्यर्थः ।
न केवलं द्वारः प्रत्यक्षत एव प्रसिद्धिः किन्तु तस्या विदृतिरिति नाम्नाऽपि प्रसिद्धिरित्याह –
विदृतिरिति ।
अनेनेश्वरेण स्वप्रवेशार्थमसाधारणतया विदारितत्वान्न भृत्यस्थानीयचक्षुरादिप्रवेशद्वारैः सह नव वै पुरुष प्राणा इत्यादिपूर्वोक्तश्रुतिषु परिगणितमित्युक्तम् ।
श्रौतप्रसिद्धिं वक्तुं तदेतन्नान्दनमिति वाक्यं तत्रैतदेव नान्दनं नान्यानीत्युक्तमिति कृत्वा व्याचष्टे –
इतराणि त्विति ।
समृद्धीनीति ।
सम्यगृद्धिरानन्दो येषु तानीति विग्रहः । हेतुशब्दं भावप्रधानं स्वीकृत्याऽऽनन्दं प्रति हेतुत्वं येषामिति बहुव्रीहिणा हेतूनीति नपुंसकत्वं द्रष्टव्यम् । नन्दत्यनेन द्वारेण गत्वेति अनेन तयोर्ध्वमायन्नमृतत्वमेतीति श्रुतौ पसिद्धिर्दर्शिता । ईश्वरस्यैवं प्रवेशमुक्त्वा तस्य पूर्वोक्तकार्यकारणसङ्घातोपाधिकं संसारमाह तस्येति । एवं पुरं सृष्ट्वा जीवेनाऽऽत्मना प्रविष्टस्य तस्य राज्ञ इव त्रय आवसथाः क्रीडास्थानानीत्यन्वयः ।
तान्येवाऽऽह –
जागरितेति ।
चक्षुरिति ।
चक्षुर्गोलकमित्यर्थः । मन इति । मनसोऽधिकरणं कण्ठस्थानमित्यर्थः । कण्ठे स्वप्नं समादिशेदिति श्रुतेः । हृदयाकाश इति । हृदयावच्छिन्नभूताकाश इत्यर्थः ।
यद्यपि ब्रह्मण्येव सुषुप्तौ जीवो वर्तते सता सोम्य तदा सम्पन्न इति श्रुतेस्तथाऽपि ब्रह्मणोऽपि हृदयावकाशेऽवस्थानात्तत्सम्पन्नोऽपि तत्रैव वर्तत इति तथोक्तम् । अन्यथा हृदयाकाशशब्देनैव दहराधिकरणन्यायेन ब्रह्माभिधाने तस्य त्रयः स्वप्ना इति वक्ष्यमाणस्वप्नतुल्यत्वानुपपत्तिरित्यत एव पक्षान्तरमाह –
वक्ष्यमाणा वेति ।
तानेवाऽऽह –
पितृशरीरमिति ।
नन्वात्मा वा इदमेक एवेत्यद्वितीयत्वेनोक्तस्य कथमावसथयोग इत्याशङ्क्याऽऽवस्थानं मृषात्वान्न पारमार्थिकाद्वितीयत्वायोग इति वक्तुं त्रयः स्वप्ना इत्युक्तं तद्व्याचष्टे –
त्रयः स्वप्ना इति ।
स्वप्नतुल्या इत्यर्थः । जाग्रदित्युपलक्षणं पित्रादिशरीरत्रयं चेत्यपि द्रष्टव्यम् ।
तेषां स्वप्नतुल्यत्वं नास्तीति शङ्कते –
नन्विति ।
अत्रापि शरिरत्रयमित्युपलक्षितं तत्प्रबोधस्य स्वप्नप्रबोधतुल्यत्वात्स्वप्नत्वमेवेत्याह –
नैवमिति ।
तथा प्रसिद्धिर्नास्तीति शङ्कते –
कथमिति ।
अविवेकिनां तथा प्रसिद्ध्यभावेऽपि विवेकिनां तल्लक्षणज्ञत्वात्तथा प्रसिद्धिरस्तीत्याह –
परमार्थेति ।
वस्तुतत्त्वतिरोधानेनासद्वस्तुप्रतिभासः स्वप्न इति तल्लक्षणम् । जागरितमपि तथाभूतमेव ब्रह्मस्वरूपतिरोधानादविद्यमानजगत्प्रतीतेश्चेत्यर्थः । अन्तरं यन्मनस्तद्द्वितीय आवसथ इत्यन्वयः । अयमावसथ इत्यादिनाऽर्थान्तरं नोच्यते ।
प्रासादभूमिकावदुपर्यधोभावेन स्थिता एव चक्षुरादयोऽङ्गुल्या निर्दिश्य प्रदर्श्यन्ते बाह्यावसथभ्रान्तिवारणायेत्याह –
अयमावसथ इत्युक्तानुकीर्तनमेवेति ।
नन्वावसथशब्दस्य गृहविशेषवाचिनः कथमक्ष्यादिषु प्रयोग इत्याशङ्क्याऽऽवसथस्थस्येवैषु स्थितस्य दीर्घनिद्रादर्शनात्तेषु सुखं सुप्तस्येव शीघ्रप्रबोधादर्शनाद्गौण्या वृत्त्याऽऽवसथत्वमाह –
तेषु ह्ययमिति ।
स्वाभाविक्याऽविद्ययेत्यन्वयः । अनुभवैरित्यनन्तरमित्येत आवसथा उच्यन्त इति शेषः । ननु जागरितादिकं भूतकार्यस्य कार्यकारणसङ्घातस्य धर्मो न त्वात्मनः ॥१२॥