तद्भिन्नस्यापि तस्मिंस्तादात्म्याभिनात्तद्धर्मवत्त्वमिति वक्तुं स जात इति वाक्यं तद्व्याचष्टे –
स जात इति ।
भूतान्येवाऽऽभिमुख्येन तादात्म्येन व्याकरोद्व्यक्तं ज्ञातवानुक्तवांश्च मनुष्योऽहं काणोऽहं सुख्यहमित्यादिप्रकारेणेत्यर्थः ।तथा च श्रुत्यन्तरम् – “अन्न जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति ।
ननु व्यतिरिक्तात्मज्ञाने सति कथमुक्ततादात्म्यभ्रम इत्याशङ्क्याऽऽह श्रुतिः –
किमिहान्यमिति ।
इहास्मिञ्शरीरेऽन्यं व्यतिरिक्तमात्मानं वावदिषत्किमिति काक्वा नोक्तवानित्यर्थः । न ज्ञातवानित्यपि द्रष्टव्यम् । इति शब्दो यस्मादित्यर्थे यस्मादेवं तस्मादभिव्यैख्यदित्यध्यारोपप्रकरणसमाप्त्यर्थो वा । इदं वाक्यं भाष्यकारैः स्पष्टत्वादुपेक्षितं लेखकदोषात्पतितं वा ।
एवमध्यारोपं प्रदर्श्य तस्यापवादार्थं स एतमित्यादिवाक्यं तद्व्याचष्टे –
स कदाचिदित्यादिना ।
यद्वा स जात इत्यादिरपवादस्तस्मिन्पक्ष एवं योजना । भूतानि व्याकरोद्विविच्याकरोत् । किमेषां स्वतः सत्ताऽस्ति नेति विचारितवानित्यर्थः । विचार्य च किमन्यमात्मव्यतिरिक्तं स्वतःसत्ताकं वावदिषद्वदिष्यामि न किञ्चिदप्यात्मव्यतिरिक्तं वक्तुं शक्नोमीति निश्चितवानित्यर्थः ।
एवं पदार्थशोधनवतो वाक्यार्थज्ञानमाह –
स इति ।
आचार्यवान् पुरुषो वेदेति श्रुतेस्तेन विना स्वतो वाक्यार्थज्ञानं न सम्भवतीत्यभिप्रेत्याऽऽह –
परमेति ।
वेदान्तेति ।
उपनिषत्काण्डस्य भेरीस्थानत्वं तत्त्वमसीत्यादिवाक्यानां प्रबोधजनकशब्दत्वमिति ज्ञेयम् ।
पुरि शयानमिति ।
मूर्धन्यया द्वारा प्रविश्येति शेषः ।
लुप्तेनेति ।
तेन सहेत्यर्थः ।
किं परोक्षतया ज्ञातमिति पृच्छति –
कथमिति ।
तस्य कृतार्थताप्रख्यापकेन वाक्येन तस्यापरोक्षत्वमाह –
इदमिति ।
इती३ इति प्लुतेरर्थमाह –
अहो इति ।
विचारणार्था प्लुतिः । पूर्वमिति विचारणार्थे प्लुतेर्विहितत्वात् । प्लुत्या सम्यग्ब्रह्म ज्ञानं न वेति विचार्य सम्यग्ज्ञातमिति निश्चित्याहो इति स्वस्य कृतार्थत्वं प्रख्यापितवानित्यर्थः ॥१३॥