ऐतरेयोपनिषद्भाष्यम्
प्रथमः अध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ १४ ॥ इति तृतीयः खण्डः ॥
यस्मादिदमित्येव यत्साक्षादपरोक्षाद्ब्रह्म सर्वान्तरमपश्यत् न परोक्षेण, तस्मात् इदं पश्यतीति इदन्द्रो नाम परमात्मा । इदन्द्रो ह वै नाम प्रसिद्धो लोके ईश्वरः । तम् एवम् इदन्द्रं सन्तम् इन्द्र इति परोक्षेण परोक्षाभिधानेन आचक्षते ब्रह्मविदः संव्यवहारार्थं पूज्यतमत्वात्प्रत्यक्षनामग्रहणभयात् । तथा हि परोक्षप्रियाः परोक्षनामग्रहणप्रिया इव एव हि यस्मात् देवाः । किमुत सर्वदेवानामपि देवो महेश्वरः । द्विर्वचनं प्रकृताध्यायपरिसमाप्त्यर्थम् ॥

तस्येदन्द्रनामप्रसिद्ध्याऽपि तस्य ज्ञानस्यापरोक्षत्वमिति वक्तुं तस्मादिदन्द्र इति वाक्यं तद्व्याचष्टे –

तस्मादिति ।

तस्मात्सर्वान्तरं ब्रह्मेदं नित्यमेवापरोक्षेण प्रत्यगात्मेत्येवमपश्यदित्यन्वयः ।

कथमिदन्द्रनामत्वमत आह –

इदन्द्रो ह वा इति ।

नन्विन्द्रो मायाभिरित्यादाविन्द्र इति प्रसिद्धो नत्विदन्द्र इत्यत आह –

तमेवमिति ।

इदन्द्रस्यैव सतः परोक्षत्वार्थमक्षरलोपेनेन्द्र इत्याहुरित्यर्थः ।

परोक्षोक्तेः प्रयोजनमाह –

पूज्येति ।

पूज्यानां परोक्षतयैव नाम वक्तव्यमित्यत्र प्रमाणमाह –

तथा हीति ।

देवा इति ।

पूज्या इत्यर्थः । अत एवाऽऽचार्या उपाध्याया इत्युक्तामेव प्रीतिं कुर्वन्ति लोके न तु विष्णुमित्रादिनामग्रहण इति भावः । नाम्नः परोक्षत्वं नाम यथार्थनाम्नो रूपान्तरकरणेन स्वरूपाच्छादनमिति ज्ञेयम् ॥१४॥