ऐतरेयोपनिषद्भाष्यम्
द्वितीयः अध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
अस्तु तर्हि सर्वमेवेदमनुपपन्नम् । न, अत्रात्माववोधमात्रस्य विवक्षितत्वात्सर्वोऽयमर्थवाद इत्यदोषः । मायाविवद्वा ; महामायावी देवः सर्वज्ञः सर्वशक्तिः सर्वमेतच्चकार सुखावबोधप्रतिपत्त्यर्थं लोकवदाख्यायिकादिप्रपञ्च इति युक्ततरः पक्षः । न हि सृष्ट्याख्यायिकादिपरिज्ञानात्किञ्चित्फलमिष्यते । ऐकात्म्यस्वरूपपरिज्ञानात्तु अमृतत्वं फलं सर्वोपनिषत्प्रसिद्धम् । स्मृतिषु च गीताद्यासु ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ (भ. गी. १३ । २७) इत्यादिना । ननु त्रय आत्मानो भोक्ता कर्ता संसारी जीव एकः सर्वलोकशास्त्रप्रसिद्धः । अनेकप्राणिकर्मफलोपभोगयोग्यानेकाधिष्ठानवल्लोकदेहनिर्माणेन लिङ्गेन यथाशास्त्रप्रदर्शितेन पुरप्रासादादिनिर्माणलिङ्गेन तद्विषयकौशलज्ञानवांस्तत्कर्ता तक्षादिरिव ईश्वरः सर्वज्ञो जगतः कर्ता द्वितीयश्चेतन आत्मा अवगम्यते । ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ४ । १) ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) इत्यादिशास्त्रप्रसिद्ध औपनिषदः पुरुषस्तृतीयः । एवमेते त्रय आत्मानोऽन्योन्यविलक्षणाः । तत्र कथमेक एवात्मा अद्वितीयः असंसारीति ज्ञातुं शक्यते ? तत्र जीव एव तावत्कथं ज्ञायते ? नन्वेवं ज्ञायते श्रोता मन्ता द्रष्टा आदेष्टाघोष्टा विज्ञाता प्रज्ञातेति । ननु विप्रतिषिद्धं ज्ञायते यः श्रवणादिकर्तृत्वेन अमतो मन्ता अविज्ञातो विज्ञाता इति च । तथा ‘न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इत्यादि च । सत्यं विप्रतिषिद्धम् , यदि प्रत्यक्षेण ज्ञायेत सुखादिवत् । प्रत्यक्षज्ञानं च निवार्यते ‘न मतेर्मन्तारम्’ (बृ. उ. ३ । ४ । २) इत्यादिना । ज्ञायते तु श्रवणादिलिङ्गेन ; तत्र कुतो विप्रतिषेधः ? ननु श्रवणादिलिङ्गेनापि कथं ज्ञायते, यावता यदा शृणोत्यात्मा श्रोतव्यं शब्दम् , तदा तस्य श्रवणक्रिययैव वर्तमानत्वान्मननविज्ञानक्रिये न सम्भवत आत्मनि परत्र वा । तथा अन्यत्रापि मननादिक्रियासु । श्रवणादिक्रियाश्च स्वविषयेष्वेव । न हि मन्तव्यादन्यत्र मन्तुः मननक्रिया सम्भवति । ननु मनसः सर्वमेव मन्तव्यम् । सत्यमेवम् ; तथापि सर्वमपि मन्तव्यं मन्तारमन्तरेण न मन्तुं शक्यम् । यद्येवं किं स्यात् ? इदमत्र स्यात् — सर्वस्य योऽयं मन्ता, स मन्तैवेति न स मन्तव्यः स्यात् । न च द्वितीयो मन्तुर्मन्तास्ति । यदा स आत्मनैव मन्तव्यः, तदा येन च मन्तव्य आत्मा आत्मना, यश्च मन्तव्य आत्मा, तौ द्वौ प्रसज्येयाताम् । एक एव आत्मा द्विधा मन्तृमन्तव्यत्वेन द्विशकलीभवेद्वंशादिवत् , उभयथाप्यनुपपत्तिरेव । यथा प्रदीपयोः प्रकाश्यप्रकाशकत्वानुपपत्तिः, समत्वात् , तद्वत् । न च मन्तुर्मन्तव्ये मननव्यापारशून्यः कालेऽस्त्यात्ममननाय । यदापि लिङ्गेनात्मानं मनुते मन्ता, तदापि पूर्ववदेव लिङ्गेन मन्तव्य आत्मा, यश्च तस्य मन्ता, तौ द्वौ प्रसज्येयाताम् ; एक एव वा द्विधेति पूर्वोक्तो दोषः । न प्रत्यक्षेण, नाप्यनुमानेन ज्ञायते चेत् , कथमुच्यते ‘स म आत्मेति विद्यात्’ (कौ. उ. ३ । ९) इति, कथं वा श्रोता मन्तेत्यादि ? ननु श्रोतृत्वादिधर्मवानात्मा, अश्रोतृत्वादि च प्रसिद्धमात्मनः ; किमत्र विषमं पश्यसि ? यद्यपि तव न विषमम् ; तथापि मम तु विषमं प्रतिभाति । कथम् ? यदासौ श्रोता, तदा न मन्ता ; यदा मन्ता, तदा न श्रोता । तत्रैवं सति, पक्षे श्रोता मन्ता, पक्षे न श्रोता नापि मन्ता । तथा अन्यत्रापि च । यदैवम् , तदा श्रोतृत्वादिधर्मवानात्मा अश्रोतृत्वादिधर्मवान्वेति संशयस्थाने कथं तव न वैषम्यम् ? यदा देवदत्तो गच्छति, तदा न स्थाता, गन्तैव । यदा तिष्ठति, न गन्ता, स्थातैव ; तदास्य पक्ष एव गन्तृत्वं स्थातृत्वं च, न नित्यं गन्तृत्वं स्थातृत्वं वा, तद्वत् । तथैवात्र काणादादयः पश्यन्ति । पक्षप्राप्तेनैव श्रोतृत्वादिना आत्मोच्यते श्रोता मन्तेत्यादिवचनात् । संयोगजत्वमयौगपद्यं च ज्ञानस्य ह्याचक्षते । दर्शयन्ति च अन्यत्रमना अभूवं नादर्शम् इत्यादि युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति च न्याय्यम् । भवत्वेवं किं तव नष्टं यद्येवं स्यात् ? अस्त्वेवं तवेष्टं चेत् ; श्रुत्यर्थस्तु न सम्भवति । किं न श्रोता मन्तेत्यादिश्रुत्यर्थः ? न, न श्रोता न मन्तेत्यादिवचनात् । ननु पाक्षिकत्वेन प्रत्युक्तं त्वया ; न, नित्यमेव श्रोतृत्वाद्यभ्युपगमात् , ‘न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २७) इत्यादिश्रुतेः । एवं तर्हि नित्यमेव श्रोतृत्वाद्यभ्युपगमे, प्रत्यक्षविरुद्धा युगपज्ज्ञानोत्पत्तिः अज्ञानाभावश्चात्मनः कल्पितः स्यात् । तच्चानिष्टमिति । नोभयदोषोपपत्तिः, आत्मनः श्रुत्यादिश्रोतृत्वादिधर्मवत्त्वश्रुतेः । अनित्यानां मूर्तानां च चक्षुरादीनां दृष्ट्याद्यनित्यमेव संयोगवियोगधर्मिणाम् । यथा अग्नेर्ज्वलनं तृणादिसंयोगजत्वात् , तद्वत् । न तु नित्यस्यामूर्तस्यासंयोगविभागधर्मिणः संयोगजदृष्ट्याद्यनित्यधर्मवत्त्वं सम्भवति । तथा च श्रुतिः ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इत्याद्या । एवं तर्हि द्वे दृष्टी चक्षुषोऽनित्या दृष्टिः, नित्या चात्मनः । तथा च द्वे श्रुती श्रोत्रस्यानित्या, नित्या चात्मस्वरूपस्य । तथा द्वे मती विज्ञाती बाह्याबाह्ये । एवं ह्येव चेयं श्रुतिरुपपन्ना भवति — ‘दृष्टेर्द्रष्टा श्रुतेः श्रोता’ इत्याद्या । लोकेऽपि प्रसिद्धं चक्षुषस्तिमिरागमापाययोः नष्टा दृष्टिः जाता दृष्टिः इति चक्षुर्दृष्टेरनित्यत्वम् । तथा च श्रुतिमत्यादीनामात्मदृष्ट्यादीनां च नित्यत्वं प्रसिद्धमेव लोके । वदति ह्युद्धृतचक्षुः स्वप्नेऽद्य मया भ्राता दृष्ट इति । तथा अवगतबाधिर्यः स्वप्ने श्रुतो मन्त्रोऽद्येत्यादि । यदि चक्षुःसंयोगजैवात्मनो नित्या दृष्टिस्तन्नाशे नश्येत् , तदा उद्धृतचक्षुः स्वप्ने नीलपीतादि न पश्येत् । ‘न हि द्रष्टुर्दृष्टेः’ (बृ. उ. ४ । ३ । २३) इत्याद्या च श्रुतिः अनुपपन्ना स्यात् । ‘तच्चक्षुः पुरुषे येन स्वप्नं पश्यति’ इत्याद्या च श्रुतिः । नित्या आत्मनो दृष्टिर्बाह्यानित्यदृष्टेर्ग्राहिका । बाह्यदृष्टेश्च उपजनापायाद्यनित्यधर्मवत्त्वात् ग्राहिकाया आत्मदृष्टेस्तद्वदवभासत्वमनित्यत्वादि भ्रान्तिनिमित्तं लोकस्येति युक्तम् । यथा भ्रमणादिधर्मवदलातादिवस्तुविषयदृष्टिरपि भ्रमतीव, तद्वत् । तथा च श्रुतिः ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति । तस्मादात्मदृष्टेर्नित्यत्वान्न यौगपद्यमयौगपद्यं वा अस्ति । बाह्यानित्यदृष्ट्युपाधिवशात्तु लोकस्य तार्किकाणां च आगमसम्प्रदायवर्जितत्वात् अनित्या आत्मनो दृष्टिरिति भ्रान्तिरुपपन्नैव । जीवेश्वरपरमात्मभेदकल्पना च एतन्निमित्तैव । तथा अस्ति, नास्ति, इत्याद्याश्च यावन्तो वाङ्मनसयोर्भेदा यत्रैकं भवन्ति, तद्विषयाया नित्याया दृष्टेर्निर्विशेषायाः । अस्ति नास्ति, एकं नाना, गुणवदगुणम् , जानाति न जानाति, क्रियावदक्रियम् , फलवदफलम् , सबीजं निर्बीजम् , सुखं दुःखम् , मध्यममध्यम् , शून्यमशून्यम् , परोऽहमन्यः, इति वा सर्ववाक्प्रत्ययागोचरे स्वरूपे यो विकल्पयितुमिच्छति, स नूनं खमपि चर्मवद्वेष्टयितुमिच्छति, सोपानमिव च पद्भ्यामारोढुम् ; जले खे च मीनानां वयसां च पदं दिदृक्षते ; ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ४ । १) इत्यादिश्रुतिभ्यः, ‘को अद्धा वेद’ (ऋ. सं. १ । ३० । ६) इत्यादिमन्त्रवर्णात् ॥
अस्त्विति ; नेति ; मायावीति ; सुखेति ; न हीति ; ऐकात्म्येति ; सर्वेति ; स्मृतिषु चेति ; नन्विति ; भोक्तेति ; एक इति ; अनेकेति ; पुरेति ; चेतन इति ; यत इति ; एवमिति ; अन्योन्येति ; तत्र जीव एवेति ; कथमिति ; नन्विति ; ननु विप्रतिषिद्धमिति ; तथा न मतेरिति ; सत्यमिति ; ननु श्रवणादीति ; तथेति ; मननादिक्रियास्विति ; श्रवणादिक्रियाश्चेति ; न हीति ; अन्यत्रेति ; ननु मनसेति ; सत्यमेवमिति ; तथाऽपीति ; यद्येवमिति ; इदमिति ; सर्वस्येति ; न चेति ; यदेति ; तदेति ; एक एवेति ; उभयथेति ; यथेति ; न च मन्तुरिति ; यदापीति ; न प्रत्यक्षेणेति ; कथमिति ; नन्विति ; श्रोतृत्वादीति ; अश्रोतृत्वादीति ; किमत्रेति ; यद्यपीति ; अश्रोतृत्वादीति ; किमत्रेति ; यद्यपीति ; कथमिति ; यदाऽसाविति ; यदेति ; अत्रेति ; संयोगजत्वमिति ; दर्शयन्ति चेति ; युगपदिति ; अस्त्वेवमिति ; किं नेति ; न, न श्रोतेति ; नन्विति ; न नित्यमेवेति ; न हीति ; एवं तर्हीति ; नोभयेति ; आत्मन इति ; अनित्यानामिति ; मूर्तानामिति ; संयोगेति ; न त्विति ; तथा चेति ; एवं तर्हीति ; एवं ह्येवेति ; तथा चेति ; लोकेऽपीति ; आत्मदृष्ट्यादीनां चेति ; उद्धृतचक्षुरिति ; यदीति ; न पश्येदिति ; न हि द्रष्टुरिति ; नित्येत्यादिना ; तद्वदवभासत्वमिति ; यथा भ्रमणादीति ; तस्मादिति ; आत्मदृष्टेरिति ; बाह्यानित्येति ; जीवेश्वरेति ; एतन्निमित्तेति ; तथाऽस्तीति ; अस्ति नास्तीति ; नेति नेतीति ; को अद्धेति ;

तर्हि सर्वमप्रमाणमस्त्विति कश्चिच्छङ्कते –

अस्त्विति ।

विवक्षितार्थेऽपि विषं भुङ्क्ष्व स प्रजापतिरात्मनो वपामुदखिददित्यादीनामिव प्रामाण्यसम्भवेनाप्रामाण्यं न कस्यचिदपि युक्तम् ।

विवक्षितार्थे च नासङ्गतिरिति द्वितीयं दूषयति –

नेति ।

लोके स्वयमेव द्वारंकृत्वाऽनेकेषु गृहेषु प्रविष्टस्य देवदत्तस्यैकत्वदर्शनात्तद्वदात्मन एकत्वमिति बोधयितुं विदारणप्रवेशने उच्येते । न तु सोऽर्थो विवक्षितः । विवक्षितात्मैकत्वबोधद्वारतयोक्तत्वात्प्राशस्त्यार्थद्वारतयोक्तवपोत्खननादिवदर्थवाद इत्यर्थः ।

असत एव प्रवेशादेरिहोक्तिरित्यङ्गीकृत्य तस्य गुणार्थवादत्वंवपोत्खननादिवाक्यवदित्युक्त्वाऽग्निर्हिमस्य भेषजमित्यादिवद्भूतार्थवादत्वमङ्गीकृत्याऽह –

मायावीति ।

माययाऽघटितमपि सर्वमुपपद्यतेऽघटितघटकत्वात्तस्या इत्यर्थः । अनेन सृष्ट्यादेरघटितार्थत्वाद्गन्धर्वनगरादिवन्मृषात्वमेवेति स्पष्टीकर्तुमघटितमपो सृष्ट्यादिकं श्रुत्या दर्शितमित्युक्तम् ।

नन्वात्मावबोधश्चेद्विवक्षितस्तर्हि साक्षादेव स उच्यतां किमनेन वृथा प्रपञ्चनेनेत्यत आह –

सुखेति ।

अवबोधनं प्रतिपादनम् । सुखेन वक्तुः प्रतिपादनार्थं सुखेन श्रोतुः प्रतिपत्त्यर्थं चेत्यर्थः । ननु लोकसृष्ट्यादेर्मानान्तरागोचरत्वेनापूर्वत्वात्तत्परत्वमेवाऽऽख्यायिकाया अस्त्वित्याशङ्क्याऽपूर्वत्वेऽपि तत्प्रतिपत्त्या फलालाभात्फलवत्यज्ञाते श्रुतेस्तात्पर्यनियमात् ।

अन्यथा रुद्ररोदनादेरप्यपूर्वत्वेन तत्रापि तात्पर्यापत्तेर्न सृष्ट्यादौ तात्पर्यमित्याह –

न हीति ।

आत्मप्रतिपत्तौ तु फलदर्शनात्तत्परत्वमेव युक्तमित्याह –

ऐकात्म्येति ।

सर्वेति ।

एतावदरे खल्वमृतत्वं तमेवं विद्वानमृत इह भवति विद्वानमृतः समभवदित्यादिषु ज्ञानादमृतत्त्वं प्रसिद्धमित्यर्थः ।

समं सर्वेषु भूतेष्वित्यनेनैकात्म्यमुक्त्वा समं पश्यन्हि सर्वत्र न हिनस्त्यात्मनाऽऽत्मानमिति ज्ञानादमृतत्वमुक्तमित्याह –

स्मृतिषु चेति ।

यज्ज्ञात्वाऽमृतमश्नुत इत्यादिरादिशब्दार्थः । “सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् । इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः” ॥ इत्यैकात्म्यमुक्त्वा “स चापि जातिस्मरणाप्तबोधस्तत्रैव जन्मन्यपवर्गमाप” इत्यादिविष्णुपुराणमाद्यशब्दार्थः ।

आत्मैक्यमेवास्त्याध्यायस्यार्थ इत्युक्त्वैतदेव स्थिरीकर्तुमाशङ्कते –

नन्विति ।

जीव ईश्वरो निर्विशेषब्रह्म चेति त्रय आत्मान इत्यर्थः ।

तत्र जीवोऽहं कर्तेति लोक एष हि द्रष्टा स्प्रष्टा यजेत स्वर्गकाम इत्यादिशास्त्रे च प्रसिद्ध इत्याह –

भोक्तेति ।

एक इति ।

त्रयाणां मध्य एक इत्यर्थः ।

यो लोकदेहनिर्माणेन लिङ्गेनावगम्यते सर्वज्ञ ईश्वरः स द्वितीय इत्याह –

अनेकेति ।

अनेकेषां विचित्राणां च प्राणिनां यान्यनेकानि विचित्राणि कर्मफलानि तदुपभोगयोग्यानि यान्यनेकानि विचित्राण्यधिष्ठानानि स्थानविशेषास्तद्वन्तो लोका देहाश्च तेषां निर्माणेन लिङ्गेनेत्यर्थः । इदं विशेषणं कर्तुः सर्वज्ञतार्थम् । यथाशास्त्रप्रदर्शितेनेति । स इमांल्लोकानसृजतेत्यादिशास्त्रप्रदर्शितलिङ्गेनेत्यर्थः।

अनुमाने दृष्टान्तमाह –

पुरेति ।

अचेतनं प्रधानं स्वयमेव विचित्रजगदाकारेण परिणमते न तु सर्वज्ञोऽधिष्ठाता कश्चिदिति साङ्ख्याः, तन्निरासायाऽऽह –

चेतन इति ।

चेतनानधिष्ठितस्याचेतनस्य स्वतः प्रवृत्त्यदर्शनादवश्यं सर्वज्ञश्चेतनोऽधिष्ठाताऽङ्गीकार्य इत्यर्थः ।

तृतीयमाह –

यत इति ।

एकस्यैव रूपभेदेन भेद इत्याशङ्क्याह –

एवमिति ।

अन्योन्येति ।

अन्योन्यविरुद्धधर्मवत्त्वाद्दहनतुहिनवद्भिन्ना इत्यर्थः । तत्र जीवस्य यत्कर्तृत्वभोक्तृत्वादिना वैलक्षण्यमुक्तं तदसिद्धम् । तस्य मानान्तराविषयत्वेन तद्धर्मवत्तया प्रमातुमशक्यत्वात् ।

अतो न भेद इत्यभिप्रायेण परिहरति सिद्धान्ती –

तत्र जीव एवेति ।

कथमिति ।

तस्य ज्ञेयत्वाभावे कर्तृत्वादिधर्मविशिष्टतयाऽपि स ज्ञातुमशक्य इत्यर्थः ।

अविज्ञाताभिप्रायः प्रश्नप्रकारं मत्वा शङ्कते –

नन्विति ।

आदेष्टा वर्णात्मकशब्दवक्ता । आघोष्टा ध्वन्यात्मकशब्दवक्तेत्यर्थः ।

पूर्ववाक्ये स एषोऽश्रुतोमतोऽविज्ञात इति विज्ञेयत्वस्य प्रतिषेधात्तस्मिंस्तद्विरुद्धं ज्ञेयत्वमित्याह –

ननु विप्रतिषिद्धमिति ।

यः श्रवणादिकर्तृत्वेन ज्ञायते स एवामतोऽविज्ञातश्चेत्येतद्विप्रतिषिद्धमित्यन्वयः ।

श्रुत्यन्तरविप्रतिषिद्धं चेत्याह –

तथा न मतेरिति ।

मतेर्मनोवृत्तेर्मन्तारं साक्षिणमित्यर्थः । आदिपदेनामतो मन्ताऽविज्ञातो विज्ञातेत्यादिसङ्ग्रहः । श्रुत्यो प्रामाण्याविशेषाद्विप्रतिषेधानुपपत्तेः प्रत्यक्षेणाविज्ञेयत्वं लिङ्गेन विज्ञेयत्वं चोच्यते ।

ताभ्यामिति शङ्कते पूर्ववादी –

सत्यमिति ।

आत्मनि युगपज्ज्ञानद्वयायोगाच्छ्रवणादिकाले मननविज्ञानयोरसम्भवाच्छ्रवणादिना मननविज्ञानरूपात्मविषयकमन्यविषयकं वाऽनुमितिज्ञानं न सम्भवतीत्याह सिद्धान्ती –

ननु श्रवणादीति ।

श्रवणक्रिययैव सह वर्तमानत्वाच्छ्रवणक्रियाधारत्वादात्मनि विषये परविषये वा तस्य मननविज्ञानक्रिये न सम्भवत इत्यर्थः ।

अत्र प्रकरणे मननविज्ञानशब्दाभ्यामनुमितिरुच्यत आत्मनस्तद्विषयत्वस्यैवेह शङ्कावादिनोक्तत्वादिति तर्हि श्रवणमननयोर्युगपदसम्भवेऽन्यविषयमननक्रिययाऽऽत्मा मन्तव्य इत्याशङ्क्य विजातीयक्रियाद्वयवत्सजातीयक्रियाद्वयमपि युगपन्न सम्भवतीत्याह –

तथेति ।

मननादिक्रियास्विति ।

मननादिक्रियान्तरमपि न सम्भवतीति शेषः। ननु मननादिक्रिया हि लिङ्गम् । न च लिङ्गं करणमतीतलिङ्गेनाप्यनुमितिदर्शनात् । किन्तु लिङ्गज्ञानं करणम् । न च तस्याप्यनुमितिकाले सत्त्वनियमः । पूर्वक्षणसत्त्वमात्रेण करणत्वोपपत्तेरिति तयोर्यौगपद्याभावेऽपि न दोष इति चेत् । न । श्रवणमननादिलिङ्गविज्ञानस्य साक्षिरूपस्य स्वतो विशेषाभावेन श्रवणादिरूपितत्ववशेनैव तस्यानुमापकत्वस्य वक्तव्यत्वेन तत्सत्ताया अपि तत्काले वक्तव्यत्वादिति भावः । ननु तर्हि बाह्यगोचरश्रवणादिक्रियया मन्तुरनुमानं मा भूत् ।

किन्तु बाह्यगोचरश्रवणादिक्रियैवाऽऽत्मानमपि विषयीकरिष्यतीत्यत आह –

श्रवणादिक्रियाश्चेति ।

स्वविषयगोचरा एव न तु स्वाश्रयगोचरा इत्यर्थः ।

किञ्च न मतेर्मन्तारं मन्वीथा इत्यात्मनो मन्तव्यत्वनिषेधान्मन्तर्यात्मनि न मननक्रिया सम्भवतीत्याह –

न हीति ।

अन्यत्रेति ।

आत्मनीत्यर्थः । कुठारादिक्रियाया दारुणोऽन्यत्र व्यापारादर्शनादित्यर्थः ।

ननु मनसो वशे सर्वमिदं बभूवेति श्रुतेः सर्वस्य मनोविषयत्वादात्मनोऽपि मन्तव्यत्वमेवेति शङ्कते –

ननु मनसेति ।

एवमपि मनसः करणत्वात्क्रियायाश्च कर्तारमन्तराऽनुपपत्तेर्मन्ताऽवश्यमङ्गीकर्तव्य इति वदन्नाह सिद्धान्ती –

सत्यमेवमिति ।

तथाऽपीति ।

न मन्वीथा इति विशेषश्रुत्या मन्तव्यत्वनिषेधादभ्युपगम्योच्यत इति सूचयत्यपिशब्दः ।

अस्तु मन्तुरावश्यकत्वं तावता तव किं स्यादिति शङ्कते –

यद्येवमिति ।

एवं सत्यात्मनो मन्तव्यत्वाभावः सिध्यतीत्याह –

इदमिति ।

कुत एतदिति चेत्तत्र वक्तव्यं किमात्मनो मनने स्वयमेव मन्तोतान्यो वेति विकल्पाऽऽद्यं दूषयति –

सर्वस्येति ।

एकत्र कर्तृकर्मभावस्य विरोधान्मन्तुर्मन्तव्यत्वं न सम्भवतीत्यर्थः ।

द्वितीये स मन्ताऽऽनात्माऽऽत्मा वेति विकल्प्याऽऽद्य आह –

न चेति ।

द्वितीय इत्यनन्तरमनात्मेति शेषः । अनात्मनोऽचेतनस्य मन्तृत्वानुपपत्तेरित्यर्थः ।

द्वितीयमनुवदति –

यदेति ।

अस्मिन्पक्ष एकस्मिञ्शरीर आत्मद्वयं स्यादित्याह –

तदेति ।

चशब्दौ परस्परसमुच्चयार्थौ । येन चाऽऽत्मनाऽऽत्मा मन्तव्यो यश्चाऽऽत्मा मन्तव्य इत्यन्वयः । तृतीयान्तप्रथमान्तयच्छाब्दाभ्यामुक्तौ द्वावात्मानौ स्यातामित्यर्थः ।

एतद्दोषपरिहारायैकस्यैवाऽऽत्मन एकांशेन मन्तृत्वमंशान्तरेण मन्तव्यत्वमित्युक्तौ सावयवत्वं स्यादित्याह –

एक एवेति ।

अस्तु को दोष इयाशङ्क्याऽऽत्मभेदे तयोरैकमत्यायोगाद्विरुद्धदिक्क्रियतया शरीरमुन्मथ्येत ।

सावयवत्वेऽनित्यत्वेन कृतहानादिकं स्यादिति दोषमाह –

उभयथेति ।

भिन्नयोरपि समानस्वभावयोर्दीपयोः कर्तृकर्मभावादर्शनादात्मभेदपक्ष आत्मशकलभेदपक्षे वा तयोः समानस्वभावत्वादभिन्नपक्ष इव कर्तृकर्मभावो न सम्भवतीत्यनुपपत्त्यन्तरमाह –

यथेति ।

किञ्च “पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन् “ इति श्रुत्या करणानां बहिर्विषयत्वनियमस्याऽऽत्मविषयत्वाभावस्य चोक्तत्वात् । यन्मनसा न मनुत इति श्रुतेश्च ।

मनसो बहिर्विषये मन्तव्य एव व्यापारो नाऽऽत्मनीत्याह –

न च मन्तुरिति ।

न चैवं सति कश्चिद्धीरः प्रत्यगात्मानमैक्षन्मनसैवानुद्रष्टव्यमित्यादीनां का गतिरिति वाच्यम् । मनसो बहिर्विक्षेपाभावेनैकाग्र्ये सत्यात्मा स्वयमेव प्रकाशत इति तदर्थत्वात् । अन्यथा पूर्वोक्तन्यायोपबृंहितामतोऽविज्ञातत इत्यादिबहुश्रुतिव्याकोपः स्यादिति भावः ।

एवमात्मनः साक्षान्मनसा मन्तव्यत्वपक्ष एकस्मिञ्शरीर आत्मभेदस्तस्य शकलीभावो वा स्यादित्युक्तदोषमनुमितिविषयत्वपक्षेऽप्याह –

यदापीति ।

एवममतोऽविज्ञात इति श्रुत्या न्यायोपबृंहितया सर्वात्मना ज्ञेयत्वाभाव इति स्थितम् ।

तत्र पूर्ववादी शङ्कते –

न प्रत्यक्षेणेति ।

कथमिति ।

ज्ञेयत्वप्रतिपादकश्रुतेः श्रोतृत्वादिधर्मवत्त्वप्रतिपादकश्रुतेश्चानुपपत्तिरित्यर्थः ।

तत्र विद्यादिति श्रुतावितरनिषेधे सति स्वप्रकाशत्वेन स्वतः स्फुरणमेवोच्यते न तु कर्मतया वेद्यत्वमिति परिहारं वक्ष्याम इत्यभिप्रेत्य श्रोतृत्वादिश्रुतौ परिहारमाह –

नन्विति ।

तत्र किं धर्मवत्त्वप्रतिपादनस्य का गतिरिति पृच्छ्यते किं वा श्रोतृत्वादिप्रतिपादनेनाश्रोतृत्वादिकमसिद्धमित्युच्यते वा ? इति विकल्प्य, नाऽऽद्यः । नित्यमेवधर्माङ्गीकारादित्याह –

श्रोतृत्वादीति ।

न श्रोता न मन्तेत्यादिश्रुतेर्नित्यमेवाश्रोतृत्वादेरपि प्रामाणिकत्वान्न द्वितीयोऽपीत्याह –

अश्रोतृत्वादीति ।

उभयोरविरोधं चोत्तरत्र वक्ष्याम इति भावः ।

एवं च श्रोता मन्ता न श्रोता न मन्तेति चोभयश्रवणे सति श्रोतृत्वादिधर्मवानेवेत्यन्यतरपरिग्रहवैषम्यं तव न युक्तमित्याह –

किमत्रेति ।

नन्वश्रोतृत्वश्रुतेरन्यपरत्वोपपत्तेर्न वैषम्यमित्याशङ्क्य कालभेदेनोभयोरपि दर्शनादन्यतस्यान्यपरत्वे हेत्वभावाच्छ्रोतैवैत्यङ्गीकारे वैषम्यं स्यादेवेत्याह –

यद्यपीति ।

अश्रोतृत्वादिप्रसिद्धमनात्मन इति पाठे नन्विति वाक्यमपि शङ्कान्तर्गतमेव । श्रोतेत्यादिश्रुत्या श्रोतृत्वादिधर्मवानात्मा ननु तत्कथं स्यादित्यन्वयः ।

ननु न श्रोतेत्यादिश्रुतेरश्रोतृत्वादिधर्मवत्त्वमात्मन इत्याशङ्क्य लोकेऽप्रसिद्धेर्नैवमिति स एवाऽऽह –

अश्रोतृत्वादीति ।

उभयोरप्यात्मधर्मत्वश्रवणे समानेऽन्यतरस्यानात्मधर्मत्वाभिधानमयुक्तमिति सिद्धान्ती दूषयति –

किमत्रेति ।

ननु लोकप्रसिद्धिबलादनात्मधर्मत्वानिश्चयान्न वैषम्यमित्याशङ्क्य निराकरोति –

यद्यपीति ।

अश्रोतृत्वादेरात्मधर्मत्वेऽपि प्रसिद्धेरविशेषाच्छ्रुत्यनुरोधेनोभयोरप्यात्मधर्मत्वमिति प्रश्नपूर्वकमाह –

कथमिति ।

इतरत्सर्वं समानम् ।

त्वया हि कादाचित्कज्ञानेन नित्यमेव श्रोतृत्वादिकमङ्गीक्रियते तदयुक्तमित्याह –

यदाऽसाविति ।

न मन्तेत्यनन्तरं न तु नित्यमेव श्रोता मन्ता वेति शेषः । तथाऽन्यत्रापि । द्रष्टृत्वविज्ञातृत्वादावप्येवमेव कादाचित्कत्वमित्यर्थः ।

श्रोतृत्वादेः पाक्षिकत्वं दृष्टान्तेन स्पष्टीकरोति –

यदेति ।

तदाऽस्येत्यत्र यदैवमिति पदमध्याहृत्य यदैवं व्यवस्था तदाऽस्य पक्ष एव गन्तृत्वमिति वाक्यं योज्यम् । तद्वदिति । तथैव श्रोतृत्वादिकमपि न नित्यमित्यर्थः ।

अत्रान्तरेऽविदिताभिप्रायः काणादादय उभयमपि कादाचित्कमेवास्त्विति चोदयन्तीत्याह –

अत्रेति ।

ननु सिद्धान्तिनाऽपि श्रोतृत्वाश्रोतृत्वयोरङ्गीकारादस्य सिद्धान्तात्कथं भेद इत्याशङ्क्य तन्मते नित्यसाक्षिणो नित्यमेव श्रोतृत्वं कादाचित्कज्ञानस्य मृषात्वेन तदभावेन च नित्यमेवाश्रोतृत्वम् ।

अस्मन्मते तु कादाचित्कज्ञानेनैव श्रोतृत्वादिकमिति विशेषमाह –

संयोगजत्वमिति ।

ज्ञानस्य कादाचित्कत्वेऽयौगपद्ये च यथाक्रमं प्रमाणमाह –

दर्शयन्ति चेति ।

युगपदिति ।

यदि मनो न स्यात्तर्हि चक्षुरादीन्द्रियाणां युगपदेव रूपादिभिः सम्बन्धे युगपदेव सर्वेन्द्रियैः सर्वविषयकज्ञानानि स्युः । सामग्र्याः सत्त्वात् । न च तथाऽस्ति । अतः क्रमेण तत्तदिन्द्रियसंयोग्यणुपरिमाणं मनोऽङ्गीकर्तव्यम् । तथा च युगपत्सर्वेन्द्रियैर्मनःसंयोगाभावात्सामग्र्यभावान्न युगपत्सर्वविषयकं ज्ञानम् । अतो युगपद्रूपादिसर्वविषयकज्ञानानुत्पत्तिलिङ्गेन मनोऽस्तीति वदन्तो युगपत्सर्वज्ञानानुत्पत्तिरित्युक्तवन्त इत्यर्थः । इममर्थं न्याय्यं पश्यन्तीति पूर्वेणान्वयः । काणादादिमते सिद्धान्तिना प्रदर्शिते सति तर्हि काणादादिरीत्या श्रुतिद्वयोपपत्तेरात्मनि श्रोतृत्वादिधर्मवत्त्वसिद्धेश्च तथैवास्त्विति पूर्वपक्षी तटस्थो वा सिद्धान्तिनं प्रति शङ्कते भवत्विति । यद्येवं न्याय्यं स्यादेवमेव भवतु किं तव नष्टमित्यर्थः ।

आत्मनः कादाचित्कज्ञानेन श्रोतृत्वादिधर्मवत्तस्य श्रुत्यनभिमतत्वान्न तन्न्याय्यमिति सिद्धान्ती तं पक्षं दूषयति –

अस्त्वेवमिति ।

ननु श्रोता मन्तेन्ति श्रुत्या तद्धर्मवत्त्वप्रतिपादनादनभिमतत्वमसिद्धमिति शङ्कते –

किं नेति ।

न श्रोतेत्यादिश्रुत्याऽविशेषतः कालत्रयेऽपि श्रोतृत्वादिधर्मराहित्यप्रतिपादनात्तद्धर्मवत्त्वमनभिमतमेवेत्युत्तरमाह –

न, न श्रोतेति ।

यदासौ श्रोतेत्यादिना श्रोतृत्वादेः पाक्षित्वकस्य त्वयैवोक्तत्वात्काणादपक्षप्रदर्शनवेलायां च कादाचित्वज्ञानेन तदुपपादनात्पाक्षिकश्रोतृत्वादि तदभावविषयतया श्रुतिद्वयस्योपपत्तिं शङ्कते –

नन्विति ।

अपाक्षिकत्वेन श्रोतृत्वतदभावयोः श्रुतिभ्यां स्वरसतः प्रतीतेः पाक्षिकत्वेन तत्सङ्कोचो न युक्त इति स्वाभिप्रायं विवृण्वन्नाह सिद्धान्ती –

न नित्यमेवेति ।

ननु श्रुतेरनित्यत्वे सति तद्घटितं श्रोतृत्वमप्यनित्यमिति सङ्कोच आवश्यकोऽत आह –

न हीति ।

श्रुतेः श्रोतृत्वस्य चानित्यत्ववचनं श्रुतिविरुद्धमित्यर्थः । श्रुतिमत्यादीनां नित्यत्वे युगपत्सर्वं ज्ञानं स्यात्कदाचिदपि कस्यचिदपि ज्ञानस्याभावो न स्यात् । श्रुत्यादिशब्दितानां सर्वेषां ज्ञानानां नित्यत्वात् । न चेष्टापत्तिः । प्रत्यक्षविरोधात् ।

अतो न हि श्रोतुः श्रुतेरित्यादिश्रुतेरन्यपरत्वं वक्तव्यमिति शङ्कते –

एवं तर्हीति ।

इतिशब्दः शङ्कासमाप्त्यर्थः ।

परिहरति –

नोभयेति ।

युगपज्ज्ञानोत्पत्तिरज्ञानाभावश्चेत्युभयदोषस्योपपत्तिः सम्भवो नास्तीत्यर्थः ।

श्रोतृत्वादेर्नित्यत्वे कथमुभयदोषाभाव इत्याशङ्क्याऽऽत्मस्वरूपभूतसाक्षिरूपश्रुत्यादेर्नित्यत्वेऽपि वृत्तिरूपकादाचित्कश्रुत्यादेरप्यभ्युपगमादुक्तदोषाभाव इति परिहरन्नित्यश्रोतृत्वादिकं दर्शयति –

आत्मन इति ।

आत्मनः स्वरूपभूतं यच्छ्रुत्यादि श्रोतृजन्यवृत्तिसाक्षिरूपं तद्वशाद्यच्छ्रोतृत्वादितद्धर्मवत्त्वस्य श्रोता मन्तेत्यादिना श्रुतेरित्यर्थः ।

अनित्यश्रुत्यादिकं तर्हि कथमित्याशङ्क्य तद्दर्शयति –

अनित्यानामिति ।

तेषामनित्यत्वमाह –

मूर्तानामिति ।

दृष्ट्यादेरनित्यत्वे हेतुमाह –

संयोगेति ।

संयोगजन्यत्वाद्दृष्ट्यादेरनित्यत्वमित्यर्थः । ज्वलनमित्यनन्तरमनित्यमित्यनुषङ्गः ।

ननु यद्यनित्यं दृष्ट्याद्यभ्युपगम्येत तर्हि तदेवाऽऽत्मनोऽपि धर्मोऽस्तु किं नित्यदृष्ट्यादिनेत्यत आह –

न त्विति

नित्यत्वादमूर्तत्वममूर्तत्वात्संयोगादिधर्मरहितत्त्वं ततः संयोगजदृष्ट्याद्यसम्भव इत्यत आत्मनो नित्यदृष्ट्याद्यभ्युपगन्तव्यमित्यर्थः ।

श्रुतितोऽपि नित्यदृष्ट्यादिसिद्धिरित्याह –

तथा चेति ।

नित्यानित्यदृष्टिद्वयाङ्गीकारे गौरवमिति शङ्कते –

एवं तर्हीति ।

श्रुतिप्रामाण्याद्द्वैविध्याङ्गीकारे गौरवं प्रामाणिकमित्याह –

एवं ह्येवेति ।

तथा चेति ।

चोऽवधारणे । तथैवेत्यर्थः । दृष्टेर्द्रष्टेति । दृष्टिविषयकदृष्टिमानिति तदर्थः । तत्र विषयविषयिभावस्यैकभिन्नसम्भवाद्दृष्टिद्वयं प्रतीयत इति दृष्टिद्वैविध्ये सत्येवेयं श्रुतिरुपपद्यते नान्यथेत्यर्थः ।

तिमिररोगस्याऽऽगमे नष्टा दृष्टिरपाये च जाता दृष्टिरिति प्रतीतेर्जन्मनाशयोगिन्यनित्या दृष्टिरेका तदीयजन्मनाशसाक्षिभूता द्वितीया दृष्टिरस्तीति लोकेऽपि प्रतीयत इत्याह –

लोकेऽपीति ।

चक्षुर्दृष्टेरित्युपलक्षणमात्मदृष्टेर्नित्यत्वं च प्रसिद्धमित्यपि द्रष्टव्यम् । श्रुतिमत्यादीनामिति । अनित्यत्वं नित्यत्वं च प्रसिद्धमित्यनुषङ्गः ।

आत्मदृष्ट्यादीनां नित्यत्वे हेत्वन्तरमाह –

आत्मदृष्ट्यादीनां चेति ।

स्वप्ने चक्षुषोऽभावेऽपि सत्त्वान्न सा चक्षुर्जन्येति नित्यैवेत्यर्थः ।

चक्षुः स्वप्नेऽप्यनुपरतमिति यदि कश्चिद्ब्रूयात्तं प्रत्युक्तम् –

उद्धृतचक्षुरिति ।

तस्य चक्षुःसत्त्वशङ्कैव नास्तीत्यर्थः । अवगतेति । अवगतं निश्चितं बाधिर्यं यस्येत्यर्थः । न च स्वप्नदृष्ट्यादेश्चक्षुराद्यजन्यत्वात्कथं दृष्टिश्रुत्यादिशब्दवाच्यत्वमिति वाच्यम् । रूपादिविषयकापरोक्षज्ञानस्येव दृष्ट्यादिशब्दवाच्यत्वादिति भावः ।

उक्तमर्थं विपर्यये बाधकोक्त्या द्रढयति –

यदीति ।

न पश्येदिति ।

दर्शनहेतोश्चक्षुषोऽभावादित्यर्थः । न चेदं दर्शनं स्मृतिरिति वाच्यम् । तथा सति सन्निहितत्त्वेनापरोक्षावभासो न स्यात् । न च तदंशे भ्रम इति वाच्यम् । बाधकाभावात्पूर्वमननुभूतभ्रात्रादिदर्शनं न च स्यादिति भावः । इदमुपलक्षणं सुप्तोत्थितस्य सुखमहमस्वाप्समिति परामर्शहेतुभूतः सुषुप्तिकालीनानुभवोऽपि नित्योऽभ्युपगन्तव्यः ।

तदानीं सर्वकरणानामभावेनानित्यानुभवाभावादित्यपि द्रष्टव्यम् । न केवलं प्रत्यक्षस्यानुपपत्तिः श्रुतिरप्यनुपपन्ना स्यादित्याह –

न हि द्रष्टुरिति ।

न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यत इत्यादिराद्या चेत्यनेन गृह्यते । तच्चक्षुरिति । चष्ट इति चक्षुर्द्रष्टा साक्षी पुरुष आत्मनि शरीरे वा येन स्वप्ने पश्यति तच्चक्षुः साक्षीत्याद्या चानुपपन्ना स्यादित्यनुषङ्गः । स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यतीत्यादिरादिशब्दार्थः । नन्वात्मदृष्टेर्नित्यत्वे कथं तत्रानित्यत्वप्रतीतिः कथं वाऽस्य लोकस्यानित्यैव सर्वाऽपि दृष्टिरिति निश्चयश्चेत्याशङ्क्य ग्राह्यानित्यदृष्टिगतमनित्यत्वादि सर्वं ग्राहिकायां नित्यदृष्टौ भासते ।

ग्राह्या यः पिण्डगतवर्तुलत्वादिधर्माणां ग्राहकाग्न्यादौ भानदर्शानादतो लोकस्य तथा प्रतीतिरुपपद्यत इत्याह –

नित्येत्यादिना ।

तद्वदवभासत्वमिति ।

ग्राह्यवदवभासमानत्वमित्यर्थः ।

ग्राह्यधर्मस्य ग्राहके भानं दृष्टान्तेन स्पष्टयति –

यथा भ्रमणादीति ।

आदिशब्देन गमनादि गृह्यते । द्वितीयेन धावत्पक्ष्यादि । ध्यायतीवेति । ग्राह्यबुद्धिगतं ध्यानादिकं ग्राहके साक्षिणि भासत इति श्रुत्यर्थः ।

एवं च यत्पूर्ववादिना युगपदेकज्ञानोत्पत्तिः प्रत्यक्षविरुद्धा स्यादित्युक्तं तत्परिहृतमित्याह –

तस्मादिति ।

तस्मादित्यस्यार्थमाह –

आत्मदृष्टेरिति ।

अनेकनिरूप्यत्वाद्यौगपद्यस्य तदभावरूपत्वादयौगपद्यस्यैकस्यां दृष्टौ तदुभयमपि नास्तीत्यर्थः । नन्वात्मदृष्टेर्नित्यत्वे कथं परीक्षाकुशलानां नैयायिकानां सर्वस्य लोकस्य च भ्रमः स्यादित्याशङ्क्य “न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ।

नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ” इत्यादिश्रुतेः स्वबुद्ध्या ज्ञातुमशक्यत्वावगमात्सम्प्रदायपरम्परयैव ज्ञातव्यत्वावगमाच्च तेषां तद्रहितत्वाद्भ्रमो युक्त इत्याह –

बाह्यानित्येति ।

न केवलं ज्ञानभेदकल्पनैव तेषां भ्रमः किन्त्वात्मभेदकल्पनाऽप्येतन्मूलो भ्रम एवेत्याह –

जीवेश्वरेति ।

एतन्निमित्तेति ।

ज्ञानानित्यत्वतद्भेदकल्पनानिमित्तैव, नित्यानित्यज्ञानवतोर्जीवेश्वरयोर्विचित्रज्ञानवतां च जीवानां परमात्मनश्चैकत्वं न सम्भवतीति युक्त्याभासेन तैर्भेदकल्पनादित्यर्थः । किञ्चाऽत्मनैवायं ज्योतिषाऽऽस्ते ।

अयमात्मा ब्रह्म सर्वानुभूः प्रज्ञानधन एवेत्यादिश्रुतिभ्य आत्मन एव नित्यदृष्टिरूपत्वादात्मनश्च सर्वाः प्रजा यत्रैकं भवन्तीत्यादिना सर्वकल्पनानां तन्मात्रत्वेन तद्व्यतिरेकेणाभावोक्तेर्निर्विशेषत्वात्तद्रूपाया अपि दृष्टेर्निर्विशेषात्वात्तस्यामस्तीत्याद्याः सर्वाः कल्पना भ्रान्तिनिमित्ता एवेत्याह –

तथाऽस्तीति ।

यावन्तो वाग्भेदा नामविशेषा मनसो भेदा रूपविशेषा यत्राऽऽत्मन्येकं भवन्ति सर्वे वेदा यत्रैकं भवन्ति सर्वाः प्रजा यत्रैकं भवन्तीत्यादिश्रुतेस्तद्विषयायास्तत्स्वरूपाया अत एव नित्याया निर्विशेषाया दृष्टेरस्तीत्यादिकल्पनाऽऽस्तिकानाम् । नास्तीति कल्पना शून्यवादिनाम् । अस्ति नास्तीति कल्पना दिगम्बराणाम् । अन्येषां च यथायथं सावयवत्वादिकल्पना । सा सर्वाऽपि तथा भ्रान्तिनिमित्तैवेति पूर्वेणान्वयः । ननु ते ते तार्किका आत्मनोऽस्तित्वादींस्तर्केण साधयन्ति ।

अतो न तेषां भ्रान्तिनिमित्तत्वमित्याशङ्क्य श्रुतिविरुद्धत्वादसङ्ग आत्मन्यनुपपत्तेस्तेषां कल्पनानां सत्त्वे मोक्षानुपपत्तेश्च तेषां तार्किकाणां कल्पना न प्रमाणपथमारोहतीत्याह –

अस्ति नास्तीति ।

सुषुप्तौ न जानात्यन्यत्र जानातीति कादाचित्कज्ञानवत्त्वकल्पना वैशेषिकादीनाम् । आत्मा परलोकं प्रति गच्छतीति केषाञ्चित्क्रियावत्त्वकल्पना । इहैव स्थित्वा शरीरान्तरं गृह्णातीत्यन्येषाम् । देहात्मवादे क्षणिकविज्ञानवादे वाऽफलं परलोकस्थायिनोऽभावात् । अन्येषां फलवत् । देहात्मक्षणिकवादिपक्ष एव कर्मतद्वासनानामाश्रयाभावात्परलोके निर्बीजं नित्यात्मवादिनां सबीजं, दुःखमसुखरूपं वैशेषिकादिवादे । यद्वा विज्ञानवादे सोपप्लवचित्तसन्ततिरूपस्य संसारिणो हेयत्वाङ्गीकाराद्दुःखरूपत्वमात्मनः । शरीरमध्य एव वर्तत इति दिगम्बराणां मते मध्यम् । अन्येषाम् तु तद्बहिरप्यस्तीत्यमध्यम् । परोऽहमिति मत्तः परोऽयमहं ततोऽन्य इति प्रत्यक्पराग्भेदादिकल्पना अस्तीत्याद्याः परोऽयमहमन्य इत्यन्ताः कल्पना वाक्प्रत्ययागोचरे वाङ्मनसागोचरे यो विकल्पयितुमिच्छतीत्यन्वयः । आरोढुमित्यत्र खमित्यनुषङ्गः । जले मीनानां खे वयसामित्यन्वयः ।

वाङ्मनसभेदा आत्मनि न सन्ति तदगोचरश्चाऽऽत्मेत्यत्र क्रमेण श्रुतिद्वयमाह –

नेति नेतीति ।

वाङ्मनसागोचरत्वे श्रुत्यन्तरमाह –

को अद्धेति ।

अद्धा साक्षात्को वेदेति मनोगोचरत्वं क इह प्रावोचदिति वाग्गोचरत्वं च निषेधतीत्यर्थः ।