ऐतरेयोपनिषद्भाष्यम्
द्वितीयः अध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
पुरुषे ह वा अयमादितो गर्भो भवति । यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतमात्मन्येवात्मानं बिभर्ति तद्यथा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म ॥ १ ॥
अयमेवाविद्याकामकर्माभिमानवान् यज्ञादिकर्म कृत्वा अस्माल्लोकाद्धूमादिक्रमेण चन्द्रमसं प्राप्य क्षीणकर्मा वृष्ट्यादिक्रमेण इमं लोकं प्राप्य अन्नभूतः पुरुषाग्नौ हुतः । तस्मिन्पुरुषे ह वै अयं संसारी रसादिक्रमेण आदितः प्रथमतः रेतोरूपेण गर्भो भवतीति एतदाह — यदेतत्पुरुषे रेतः, तेन रूपेणेति । तच्च एतत् रेतः अन्नमयस्य पिण्डस्य सर्वेभ्यः अङ्गेभ्यः अवयवेभ्यो रसादिलक्षणेभ्यः तेजः साररूपं शरीरस्य सम्भूतं परिनिष्पन्नं तत् पुरुषस्य आत्मभूतत्वादात्मा, तमात्मानं रेतोरूपेण गर्भीभूतम् आत्मन्येव स्वशरीर एव आत्मानं बिभर्ति धारयति । तत् रेतः स्त्रियां सिञ्चति यदा, यदा यस्मिन्काले भार्या ऋतुमती तस्यां योषाग्नौ स्त्रियां सिञ्चति उपगच्छन् , अथ तदा एनत् एतद्रेतः आत्मनो गर्भरूपं जनयति पिता । तत् अस्य पुरुषस्य स्थानान्निर्गमनं रेतःसेककाले रेतोरूपेण अस्य संसारिणः प्रथमं जन्म प्रथमावस्थाभिव्यक्तिः । तदेतदुक्तं पुरस्तात् ‘असावात्मा अमुमात्मानम्’ इत्यादिना ॥

पुरुषे ह वा अयमित्यत्रेदंशब्दार्थमाह –

अयमित्यादिना ।

यो मूर्धानं विदार्य प्रविश्य स्थितः सोऽयमित्युच्यत इत्यर्थः ।

यज्ञादीति ।

अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्तीत्यादिना पञ्चाग्निविद्यायामयमर्थः प्रसिद्धः ।

अन्नभूत इति ।

व्रीह्याद्यन्नसंश्लिष्टः पुरुषाग्नौ हुतः पुरुषेण भक्षित इत्यर्थः ।

तस्मिन्निति ।

येन पुरुषेण भक्षितस्तस्मिन्नित्यर्थः ।

पुरुषे ह वा अयं संसार्यादितः प्रथमतः स्त्रीगर्भप्रवेशात्पूर्वं गर्भो भवतीति प्रथमममन्वयः । पुरुषे स्त्रियामिव गर्भो न दृश्यत इत्याशङ्क्य भक्षितस्यान्नस्य रसादिक्रमेण रेतोरूपेण परिणामे सति तत्संश्लिष्टस्यापि तथैव रेतःसंश्लेषेण रेतोभावे सति तेन रूपेण पुरुषस्य शरीरे विद्यमानस्तस्य स गर्भ इत्याह –

रसादीति ।

रसादीत्यादिशब्देन शोणितमांसा गृह्यते । रसादिक्रमेण यदेतत्पुरुषे रेतस्तेनरूपेण गर्भो भवतीत्येतदाहेति पश्चादन्वयः कार्यः । ‘ननु तस्य गर्भत्वमप्रसिद्धमित्याशङ्क्य स्त्रियेव तस्य पुरुषेण भृतत्वाद्गौण्या वृत्या गर्भत्वमिति वक्तुं तदेतदित्यादि बिभर्तीत्यन्तं वाक्यम् ।

तद्व्याचष्टे –

तच्चैतदिति ।

रसादिलक्षणेभ्य इति ।

रसादिधातुसमुदायरूपत्वाच्छरीरस्य तेषां तदवयवत्वं चरमधातुत्वाच्छरीरस्य साररूपत्वं चेत्यर्थः ।

आत्मभूतत्वादिति ।

आत्माभिमानविषयशरीरभूतत्वादात्मानं गर्भीभूतं बिभर्तीति वक्ष्यमाणानुषङ्गेण वाक्यं पूरणीयम् ।

उक्तमर्थं श्रुत्यक्षरारूढं करोति –

आत्मनीति ।

अत आत्मानमित्यस्य न पुनरुक्तिदोषः ।

एवं पितृशरीररूपमावसथं तत्र रेतोरूपेणावस्थां चोक्त्वा मातृदेहरूपावसथं तत्र गर्भरूपेणावस्थां च दर्शयितुं पितृशरीरान्निर्गमनरूपं जन्म दर्शयति –

तद्रेत इति ।

यदेत्युक्तं कालं विशदयति –

भार्येति ।

पञ्चाग्निविद्यायां योषा वाव गौतमाग्निरित्यादिनाऽयमर्थो दर्शित इति वक्तुं योषाग्नावित्युक्तम् । –

उपगच्छन्निति ।

भार्यां सङ्गच्छन्नित्यर्थः । अस्य रेतोरूपेण स्थानान्निर्गमनमित्यन्वयः ।

रेतो भार्यायां सिञ्चतीत्यत्र वाक्यान्तरं संवादयति –

तदेतदिति ।

असावात्मा पुरुषोऽमुमात्मानं स्वीयं रेतोरूपमात्मानमस्मा आत्मने भार्यारूपाय प्रयच्छतीति श्रुत्यर्थः ॥१॥