एवं पितृशरीरेऽत्यन्ताशुचावत्यन्ताशुचिरेतोरूपेणावस्थानं ततोऽपि निर्गमनं ततो मातुरुदरे मलमूत्राक्रान्ते विष्ठाकृमिवदवस्थानं ततो योनिद्वारं निर्गमनं चेत्याद्यत्यन्तकष्टमित्युक्त्वा जन्मानन्तरमपि न स्वातन्त्र्यं किन्तु पितृनियोगात्तत्पारतन्त्र्येण सर्वदा कर्मानुष्ठातव्यमिति वदन्पुत्रेण कर्तव्यं पितुरुपकारं दर्शयति सोऽस्येति वाक्यं तद्व्याचष्टे –
अस्येति ।
पितुर्द्वावात्मानौ देहौ स्वदेहः पुत्रदेहश्चेति ।
तत्र पुत्रस्योपयोगमाह –
सोऽयमिति ।
पुत्रस्य प्रतिनिधित्वमन्यत्राप्युक्तमित्याह –
तथा चेति ।
सम्प्रत्तिः सम्प्रदानं स्वकर्तव्यस्य पुत्रे स्थापनं यत्रोच्यते सा सम्प्रत्तिविद्येत्यर्थः ।
यदा तु प्रैष्यन्मन्यते स्वस्य परलोकगमनं निश्चिनोति, अथ पुत्रमाह –
त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति ।
मयाऽध्येतव्यं ब्रह्म वेदस्त्वं त्वयाऽध्येतव्यम्, मया कर्तव्योऽयं यज्ञस्त्वं त्वया कर्तव्यः, मया सम्पाद्यो लोकस्त्वं त्वया सम्पाद्यः, इत्येवं पित्राऽनुशिष्टः सन्पुत्रोऽहं ब्रह्माऽहं यज्ञोऽहं लोक इति प्रतिपद्यते । अहं ब्रह्माध्येष्ये यज्ञान्करिष्ये लोकं सम्पादयिष्यामीति स्वीकरोतीत्युक्तमित्यर्थः । अनेन स्वशरीरतृतीयावस्थोक्ता ।
किमर्थं पुत्रं प्रतिनिदधाति स्वयमेव करोत्वित्याशङ्क्य स्वस्य मरणात्कर्तुमशक्तेरित्यभिप्रायेणोक्तमथास्यायमिति तद्व्याचष्टे –
अथेति ।
एवकारार्थे मध्ये विलम्बाभावं दर्शयति –
तृणजलूकेति ।
तृणजलूका तृणस्यान्तं गत्वा तृणान्तरमाक्रम्याऽऽत्मानं देहं पूर्वस्मात्तृणादुपसंहरति पूर्वतृणं मुञ्चति । एवमेवायमात्मा देहान्तरं परिगृह्य पूर्वदेहं मुञ्चतीति मध्ये विलम्बभावः श्रुत्यन्तर उक्त इत्यर्थः । कर्मचितं देहान्तरमुपाददानः पुनर्जायत इत्यन्वयः । यद्यपि देवयानपितृयाणमार्गाभ्यां गच्छतां लोकान्तर एव शरीरग्रहणमुक्तमुभयव्यामोहात्तत्सिद्धेरिति सूत्रे । आकाशाच्चन्द्रमसमेष सोमो राजेति श्रुतेः । न तु पूर्वदेहत्यागकाल एव । तथाऽपि सविज्ञानो भवति सविज्ञानमेवान्ववक्रामतीति श्रुतौ वासनामयं भाविशरीरमुत्क्रान्तिकाल एव गृह्णातीत्युक्तत्वात्तदभिप्रायं तृणजलूकानिदर्शनमिति द्रष्टव्यम् ।
तदस्येति ।
यन्मृत्वा प्रतिपत्तव्यं तदस्य तृतीयं जन्मेत्यन्वयः । यस्य जन्मद्वयमुक्तं तस्यैव तृतीयं जन्म वक्तव्यम् । औचित्यात् ।
अन्यथाऽस्य पितुः पूर्वजन्मद्वयस्यानुक्तत्वेनेदमस्य पितुस्तृतीयं जन्मेत्यनन्वयापत्तेरिति शङ्कते –
नन्विति ।
प्रेतस्येति ।
म्रियमाणस्येत्यर्थः ।
यत्कुमारं भावयत्यात्मानमेव तद्भावयति सोऽस्यायमात्मेति च पितापुत्रयोरभेदस्योक्तत्वात्पुत्रस्योक्तं जन्मद्वयं पितुरेव तस्यैव च तृतीयं जन्मोच्यते नान्यस्येति न तृतीयत्वविरोध इत्याह –
नैष दोष इति ।
यद्वा पितुर्मरणानन्तरं पुनर्जन्मेत्युक्तेः पुत्रस्याप्येवमेव ज्ञातुं शक्यत इत्यभिप्रायेण पितुरित्युक्तमित्याह –
सोऽपि पुत्र इति ।
यथा पितेत्यनन्तरं ततश्च पुत्रस्यैव तृतीयं जन्मोक्तमिति शेषः । एवं च तदस्य तृतीयं जन्मेति वाक्ये तच्छब्देन तत्प्रकारकत्वमुच्यते । अस्येति पुत्र उच्यते । अस्य पुत्रस्य तत्प्रकारकं तृतीयं जन्मेति वाक्यार्थ इति भावः ।
ननु पर्यायद्वयोक्तं जन्म यथापुत्रगतमेवैवं तृतीयपर्यायोक्तमपि साक्षात्पुत्रगतमेवोच्यतां किं तयोरेकात्मत्वविवक्षयेत्याद्यपरिहारे दोषमाशङ्क्याह –
तदन्यत्रोक्तमिति ।
अयं भावः – पुत्रस्य पितरं प्रत्युपकारप्रदर्शनार्थं तत्प्रतिनिधित्व उक्ते पिता स्वयमेव कर्म करोतु किं प्रतिनिधिनेत्याशङ्कते तत्परिहारार्थं पितुर्मरणाभिघानं प्रसक्तमिति मरणानन्तरं वक्तव्यं तृतीयं जन्म लाघवार्थं तस्मिन्नेवोक्तमिदं जन्मत्रयं सर्वेषां पूर्वेषामप्यस्तीति प्रदर्शयितुं च पुत्रे वक्तव्यमपि तृतीयं जन्म पितुर्युक्तमिति । पूर्वाध्यायेऽध्यारोपप्रकरणोक्तमावसथत्रयं वैराग्यार्थमिह प्रपञ्च्य तस्मिन्नेवाध्याये तस्य संसारस्य निवर्त्यत्वेन तदपवादार्थं यत्तत्त्वज्ञानमुक्तं स एतमेवेत्यादिना तत्सफलं प्रपञ्चयितुं तदुक्तमृषिणेयादिग्रन्थः ॥४॥