तस्याप्यन्तर्वर्तिरक्षणं विधत्ते –
सा भावयित्रीति ।
च शब्दस्य सेत्यत्र सम्बन्धः । साऽपीत्यर्थः ।
तस्या भावयितव्यत्वे हेतुत्वमाह –
न हीति ।
स्त्रीपुरुषयोः परस्परोपकारकत्वमुक्त्वा तयोः पुत्रसाध्यवक्ष्यमाणपुण्यकर्मप्रतिनिधिरूपप्रत्युपकारसिद्ध्यर्थं पुत्रं प्रत्युपकारकत्वमाह –
तमिति ।
अग्र इत्यत्रैकोऽग्रशब्दो जन्मनः पूर्वकालं वदति । द्वितीयो जननकालम् ।
अधिशब्दोऽनन्तरकालं वदतीति व्याचष्टे–
अग्रे प्राग्जन्मन इत्यादिना ।
पूर्वमेवेत्यस्य विवरणं जातमात्रमिति । जायमानमित्यर्थः ।
जातकर्मादिनेति ।
जन्मनः प्राक्सीमन्तादिना जननकाले सुखनिष्क्रमणार्थमन्त्रजलप्रोक्षणादिनाऽनन्तरं जातकर्मादिनेत्यर्थः ।
पित्रा जातकर्मादिकं कर्तव्यमित्यभिधाय तत्स्तौति –
स पितेति ।
प्रविशतीत्यादीति ।
गर्भो भूत्वा स मातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायत इति मन्त्रशेषः ।
मोक्षप्रकरणे पुत्रोत्पादनस्य विधानात्पुत्रोत्पादनं मोक्षसाधनमित्यभिप्रायेण पृच्छति –
तत्किमर्थमिति ।
न कर्मणा न प्रजया धनेनेत्यादिश्रुतेर्मोक्षप्रकरणे पुत्रोत्पादनोक्तिर्वैराग्यार्थेत्यभिप्रेत्य प्रकृतश्रुत्योत्तरमाह –
उच्यत इति ।
अत्र लोकशब्देन लोकसाधनीभूताः पुत्रपौत्रादयो गृह्यन्ते । तेषां सन्तत्या इत्यर्थः ।
पुत्रोत्पादनेनैवोक्तानां लोकानं सन्ततत्वं प्रसिद्धमिति वक्तुमेवं सन्तता हीति वाक्यं तद्व्याचष्टे –
एवमिति ।
स्वेन पुत्रोत्पादने विधितः कृते सति स्वपुत्रोऽपि तथा तत्पुत्रोऽपि तथेत्येवं लोकसन्ततिर्भवतीत्यर्थः ।
पुत्रोत्पादनस्य लोकसन्ततिरेव प्रयोजनमिति वदन्त्या श्रुत्या तस्य मोक्षसाधनत्वं निरस्तमित्याह –
न मोक्षायेत्यर्थ इति ।
एवं प्रसङ्गाद्गर्भधारणादिविधिमुक्त्वा प्रकृतं वैराग्यार्थं द्वितीयं जन्म दर्शयति –
तदस्येति ॥३॥