तत्र तच्छाब्दार्थमाह –
एवमित्यादिना ।
एतद्वस्त्विति ।
संसारसमुद्रे पतनं ततस्तत्त्वज्ञानाच्च तन्निवृत्तिरित्येतद्वस्त्वित्यर्थः ।
आहेति ।
ब्राह्मणमिति शेषः ।
भावनेति ।
आत्मानात्मविवेकभावनेत्यर्थः ।
वाग्गन्यादीनामिति ।
उक्तानि जन्मानि शरीरग्रहणरूपाणि तदुपलक्षतः सर्वेऽपि संसारो वागादिकरणतदधिष्ठातृदेवतादिसङ्घातस्य लिङ्गशरीरस्यैव न त्वसङ्गस्य व्यापिनो ममेत्यर्थः । अनेन पदार्थविवेकपूर्वकमात्मज्ञानमुक्तम् । यद्वा सर्वज्ञादात्मनः सकाशादेवैषां जन्मानीत्यन्ववेदम् । एतज्जन्महेतुभूतं मूलकारणमात्मानं ज्ञातवानस्मीत्यर्थः । यद्यपि गर्भे श्रवणादिज्ञानसामग्री नास्ति तथाऽपि पूर्वजन्मकृतश्रवणादिसामग्रीवशादेव प्रतिबन्धनिवृत्तौ सत्यां गर्भेपि ज्ञानोत्पत्तिः सम्भवतीति भावः ।
इतः पूर्वकालीनं बन्धं दर्शयति –
शतमिति ।
अभेद्यानीति ।
तत्त्वज्ञानमन्तरा तत्प्रवाहाविच्छेदादित्यर्थः । अधोऽध इति । अधो लोकेष्वेव निकृष्टलोकेष्वेवारक्षन्नित्यर्थः ।
यद्वाऽध इति श्रौतं पदमथेत्यर्थे व्याचष्टे –
अधोऽथेति ।
अथानन्तरमिदानीमित्यर्थः ।
मन्त्रद्रष्टुरभिप्रायमाह –
अहो इति ।
इदमाश्चर्यं मम संवृत्तमित्यभिप्रायेण मन्त्रमुक्तवानित्यर्थः । मन्त्रद्रष्टुर्नामनिर्देशपूर्वकं तस्य तात्पर्यं वक्तुं गर्भ एवैतदित्यादि ब्राह्मणम् ।
तद्व्याचष्टे –
गर्भ इत्यादिना ।
एतत्पूर्वब्राह्मणोक्तमर्थजातमेवं मन्त्रोक्तप्रकारेणोवाचेत्यन्वयः ॥५॥