ऐतरेयोपनिषद्भाष्यम्
द्वितीयः अध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वामृतः समभवत्समभवत् ॥ ६ ॥ इति चतुर्थः खण्डः ॥
सः वामदेव ऋषिः यथोक्तमात्मानम् एवं विद्वान् अस्मात् शरीरभेदात् शरीरस्य अविद्यापरिकल्पितस्य आयसवदनिर्भेद्यस्य जननमरणाद्यनेकानर्थशताविष्टशरीरप्रबन्धस्य परमात्मज्ञानामृतोपयोगजनितवीर्यकृतभेदात् शरीरोत्पत्तिबीजाविद्यादिनिमित्तोपमर्दहेतोः शरीरविनाशादित्यर्थः । ऊर्ध्वः परमात्मभूतः सन् अधोभवात्संसारात् उत्क्रम्य ज्ञानावद्योतितामलसर्वात्मभावमापन्नः सन् अमुष्मिन् यथोक्ते अजरेऽमरेऽमृतेऽभये सर्वज्ञेऽपूर्वेऽनपरेऽनन्तरेऽबाह्ये प्रज्ञानामृतैकरसे स्वर्गे लोके स्वस्मिन्नात्मनि स्वे स्वरूपे अमृतः समभवत् आत्मज्ञानेन पूर्वमाप्तकामतया जीवन्नेव सर्वान्कामानाप्त्वा इत्यर्थः । द्विर्वचनं सफलस्य सोदाहरणस्य आत्मज्ञानस्य परिसमाप्तिप्रदर्शनार्थम् ॥

ज्ञानस्याव्यभिचरितफलत्वज्ञापनाय वामदेवेन ज्ञानफलं प्राप्तमिति वक्तुं स एवं विद्वानिति वाक्यं तद्व्याचष्टे –

स वामदेव इति ।

शरीरस्य पुनरुत्पत्तिशङ्कां वारयति –

शरीरोत्पत्तीति ।

तत्त्वज्ञानेनाविद्यादिनाशादित्यर्थः ।

परमात्मभूतः सन्निति ।

ऊर्ध्वशब्दस्योपरितनवाचित्वात्परमात्मवस्तुन एव कदाचिदप्यधोभावरूपनिकर्षाभावेन निरङ्कुशोपरितनभावादूर्ध्वशब्दार्थत्वमित्यर्थः ।

प्रसिद्धं स्वर्गलोकं वारयति –

अमुष्मिन्यथोक्त इति ।

इन्द्रियागोचरत्वेनामुष्मिन्निति निर्देशः । स्वर्गशब्दस्य निरतिशयसुखसामान्यवाचित्वाद्ब्रह्मानन्दस्यैव तथाविधत्वात्तस्यैव मुख्यं स्वर्गत्वम् । वैषयिकस्य तु स्वर्गत्वमापोक्षिकमित्यर्थः ।

उक्तस्य स्वर्गस्य ब्रह्मरूपस्य स्वस्माद्भेदमाशङ्क्याऽऽह –

स्वस्मिन्निति ।

आत्मशब्दस्यान्तःकरणाद्यर्थत्वं वारयति –

स्वे स्वरूप इति ।

अमुष्मिन्स्वर्गे मर्त्यदेहादिभावं विहाय स्वात्मभावेनैव स्थित इत्याह –

अमृत इति ।

उक्तस्वर्गलोके सर्वकामावाप्तिरिति भ्रमं वारयति –

पूर्वमिति ।

जीवन्मुक्तिदशायामाप्तकामतया सर्वात्मत्वेनेत्यर्थः ।

सोदाहरणस्येति ।

उदाहरणं वामदेव इत्यर्थः ॥६॥