ज्ञानस्याव्यभिचरितफलत्वज्ञापनाय वामदेवेन ज्ञानफलं प्राप्तमिति वक्तुं स एवं विद्वानिति वाक्यं तद्व्याचष्टे –
स वामदेव इति ।
शरीरस्य पुनरुत्पत्तिशङ्कां वारयति –
शरीरोत्पत्तीति ।
तत्त्वज्ञानेनाविद्यादिनाशादित्यर्थः ।
परमात्मभूतः सन्निति ।
ऊर्ध्वशब्दस्योपरितनवाचित्वात्परमात्मवस्तुन एव कदाचिदप्यधोभावरूपनिकर्षाभावेन निरङ्कुशोपरितनभावादूर्ध्वशब्दार्थत्वमित्यर्थः ।
प्रसिद्धं स्वर्गलोकं वारयति –
अमुष्मिन्यथोक्त इति ।
इन्द्रियागोचरत्वेनामुष्मिन्निति निर्देशः । स्वर्गशब्दस्य निरतिशयसुखसामान्यवाचित्वाद्ब्रह्मानन्दस्यैव तथाविधत्वात्तस्यैव मुख्यं स्वर्गत्वम् । वैषयिकस्य तु स्वर्गत्वमापोक्षिकमित्यर्थः ।
उक्तस्य स्वर्गस्य ब्रह्मरूपस्य स्वस्माद्भेदमाशङ्क्याऽऽह –
स्वस्मिन्निति ।
आत्मशब्दस्यान्तःकरणाद्यर्थत्वं वारयति –
स्वे स्वरूप इति ।
अमुष्मिन्स्वर्गे मर्त्यदेहादिभावं विहाय स्वात्मभावेनैव स्थित इत्याह –
अमृत इति ।
उक्तस्वर्गलोके सर्वकामावाप्तिरिति भ्रमं वारयति –
पूर्वमिति ।
जीवन्मुक्तिदशायामाप्तकामतया सर्वात्मत्वेनेत्यर्थः ।
सोदाहरणस्येति ।
उदाहरणं वामदेव इत्यर्थः ॥६॥