ऐतरेयोपनिषद्भाष्यम्
तृतीयः अध्यायःपञ्चमः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
ब्रह्मविद्यासाधनकृतसर्वात्मभावफलावाप्तिं वामदेवाद्याचार्यपरम्परया पारम्पर्यश्रुत्यावद्योत्यमानां ब्रह्मवित्परिषद्यत्यन्तप्रसिद्धाम् उपलभमाना मुमुक्षवो ब्राह्मणा अधुनातनाः ब्रह्म जिज्ञासवः अनित्यात्साध्यसाधनलक्षणात्संसारात् आ जीवभावाद्व्याविवृत्सवो विचारयन्तः अन्योन्यं पृच्छन्ति । कथम् ? —

पूर्वस्मिन्नध्याये जन्मत्रयनिरूपणेन वैराग्यं निरूपितं ज्ञानोत्पत्त्यर्थम् । न च पदार्थशोधनं विना वैराग्यमात्रेण ज्ञानोत्पत्तिरिति पदार्थशोधनपूर्वकं वाक्यार्थं कथयितुं षष्ठोऽध्याय इत्यभिप्रेत्य पदार्थशोधनेऽधिकारिणं दर्शयन्वाक्यमवतारयति –

ब्रह्मविद्येति ।

वामदेवाद्याचार्येति ।

आदिशब्देन तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवदित्यादिनोक्ता देवादयो गृह्यन्ते ।

अधुनेति ।

पूर्वोक्तरीत्या वैराग्योत्पत्त्यनन्तरमित्यर्थः ।

आजीवभावादिति ।

संसारस्य हेतुभूताविद्यातत्कार्येष्वात्मभावसहिताद्व्यावर्तितुं संसारं परित्यक्तुमिच्छन्त इत्यर्थः ।

विचारप्रकारमेव वाक्यान्वयेन स्पष्टीकर्तुं पृच्छति –

कथमिति ।

नन्वयमात्मेति विशेषतो निश्चये स क इति प्रश्नानुपपत्तिः ।