तद्विचारेण वा न किञ्चित्प्रयोजनमित्याशङ्क्याऽऽत्मानं विशिनष्टि –
यं चेति ।
उपास्मह उपासितुं प्रवृत्ता इत्यर्थः । वामदेवो यमात्मानमुपास्यामृतोऽभवद्वयमपि तमात्मानमुपासितुं प्रवृत्ताः स क इति प्रश्नार्थ इत्यर्थः । उपासनं नामोप सामीप्येनैक्येन तस्यैव निरुपचरितसामीप्यत्वादैक्येनापरोक्षीकृत्याऽऽसनं तद्रूपेणावस्थानं यत्तदुच्यते । यद्वाऽहं सुखीत्यादिव्यवहारेषु तमेव वयमप्युपास्महे तमेवाऽऽत्मत्वेन स्वीकृत्य स्थिताः । अनात्मनोऽहमिति प्रतीत्यनुपपत्तेः स आत्मा क इति विचारार्थः । न चायमात्मेति निश्चये विचारायोगः । तस्यैव कार्यकरणसङ्कीर्णत्वेन विचारोपपत्तेरिति ।
ननु भूतानां व्याकरणार्थं यः प्रविष्टः स एवाऽऽत्मेति निर्धारणसम्भवाद्विचारानुपपत्तिरित्याशङ्क्यैवमपि द्वयोः प्रविष्टत्वेन स्मर्यमाणत्वान्न निर्धारणमिति वक्तुं द्वयोः प्रविष्टत्वं स्मृतमित्याह –
एवं जिज्ञासेति ।
अतिक्रान्तेति ।
अतिक्रान्तौ पूर्वमुक्तौ यौ विशेषौ देहे प्रविष्टौ प्राणात्मानौ तद्विषया श्रुतिजन्यानुभवजन्यसंस्कारजनिता स्मृतिरित्यर्थः ।
तामेव स्मृतिं स्वरूपतो दर्शयति –
तं प्रपदाभ्यामिति ।
तमिमं पुरुषं शरीरं प्रपदाभ्यां पादाग्राभ्यां ब्रह्मापरब्रह्मरूपः प्राणः प्रविष्ट इत्यर्थः ।
अन्यस्य प्रवेशे श्रुतिमाह –
स एतमिति ।
श्रुतिभ्यां लब्धमर्थमाह –
एतमेवेति ।
अत्रेति श्रुतिभ्यामित्यध्याहृत्येति श्रुतिभ्यामितरेतरप्रातिकूल्येनेतरेतराभिमुखतयैतमेव पुरुषशरीरं प्रतिपन्ने प्रविष्टे द्वे ब्रह्मणी इति स्मृतिरजायतेत्यन्वयः । न त्वेतमेवेत्यनेनैतमेव पुरुषं ब्रह्म ततममपश्यदिति वाक्यं द्वे ब्रह्मणी इत्यनेन द्वे ब्रह्मणी वेदितव्ये इति वाक्यं च द्वयोः प्रवेशे मानतयोपन्यस्तमिति भ्रमितव्यम् । आद्यवाक्ये द्वयोः प्रवेशाप्रतीतेः । द्वितीये च शब्दब्रह्मपरब्रह्मणोरभिधानेन तयोर्द्वयोः प्रवेशे मानत्वायोगादिति ।
तथाऽपि तयोर्द्वयोः कथमात्मत्वशङ्केत्यत आह –
ते चेति ।
तयोरन्यतरेण विना शरीरस्थित्यभावात्तयोरात्मत्वशङ्केत्यर्थः ।
एवं विचारापेक्षितमात्मद्वयस्मृतिमुक्त्वा विचारमाह –
तयोरन्यतर इति ।
आत्मा वा इदमेक एवेत्येकस्यैव ज्ञेयत्वोपक्रमान्न द्वयोरुपास्यत्वमित्यर्थः ।
कः स आत्मेति ।
य उपास्य आत्मा स क इत्यन्वयः ।
पप्रच्छुरिति ।
कतरः स आत्मेति वाक्येनेति शेषः ।
एवं विचारे क्रियमाणेऽतिपरिशुद्धान्तःकरणत्वात्तेषां प्रपदाभ्यां प्रपन्ने करणत्वेनानात्मत्वनिश्चयो मूर्ध्ना प्रविष्ट उपलब्धृत्वेनाऽऽत्मत्वनिश्चयश्चाभूदित्याह –
पुनरित्यादिना ।
विशेषेति ।
विचारणास्पदप्राणात्मद्वयविषयैकस्मिन्करणत्वेनापरस्मिन्नुपलब्धृत्वेन प्रकारेण विशेषरूपा मतिरजायतेत्यर्थः ।
ननु द्वयोः सत्त्व इयं विशेषमतिः स्यात्तदेव नास्तीति शङ्कते –
कथमिति ।
चक्षुषा पश्यामीत्यादिप्रकारेण द्वयोः प्रतीतेर्नैवमित्याह –
द्वे इति ।
येनोपलभते यश्चोपलभते ते द्वे उपलब्धिकर्तृकरणे वस्तुनी उपलभ्येते इत्यन्वयः ।
तत्र किं करणमित्यत आह –
अनेकेति ।
चक्षुःश्रोत्राद्यनेकभेदभिन्नेनेत्यर्थः । अनेन यदनेकात्मकचक्षुरादिकरणसंघातात्मकं प्राणस्वरूपं तत्संहतत्वात्परार्थमिति परशेषत्वेन करणमित्युक्तम् । उपलब्धरि त्वनेकात्मकत्वाभावान्न परार्थत्वेन शेषत्वम् । किन्तु शेषित्वमेवेति वक्तुमेक एवेत्युक्तम् । अनेन करणस्य परार्थत्वं परं शेषिणमन्तराऽनुपपन्नं सत्परं व्यतिरिक्तमुपलब्धारं गमयतीति तस्मिन्नपि तत्प्रमाणमित्युक्तम् ।
इदानीं करणानामेवोपलब्धृत्वं तद्व्यतिरिक्तोपलब्धा नास्तीति वदन्तं नास्तिकं प्रति प्रमाणान्तरमाह –
करणान्तरेति ।
पूर्वं चक्षुषा रूपं दृष्ट्वा पश्चादुद्धृतचक्षुः स्मरति रूपमद्राक्षमिति । तथा योऽहमद्राक्षं स एवेदानीं स्पृशामीति प्रतिसन्दधाति । तदुभयं व्यतिरिक्तोपलब्धुरभावे न स्यात् । अन्यानुभूतेऽन्यस्य स्मृतिसन्धानयोरदर्शनादित्यर्थः ।
एवमनेकात्मकस्य करणत्वमुक्त्वा तत एव तस्याऽऽत्मत्वं नास्तीत्याह –
तत्र न तावदिति ।
तयोर्मध्य इत्यर्थः । अर्हतीत्यनन्तरं किन्तु परिशेषादुपलब्धाऽऽत्मा भवितुमर्हतीति वक्ष्यमाणान्वयेन वाक्यं पूरणीयम् ।
एवमर्थमुपवर्ण्य तमर्थं श्रुत्यक्षरारूढं कर्तुं पृच्छति –
केन पुनरिति ।
श्रुत्यारूढं करोति ।
उच्यत इति ।
येनेति ।
तृतीयया करणत्वं चक्षुरादेरुक्तमित्यर्थः ।
वाक्करणेति ।
वाग्रूपकरणेनेत्यर्थः ।
वाचमिति करणं नोच्यते तस्य येनेत्यनेनोक्तत्वात्किन्तु वक्तव्यमुच्यत इत्याह –
नामात्मिकामिति ।
साध्विति ।
गौरितीदं नाम साधुगावीति नामासाध्विति व्याकरोति व्याकरणेन व्यक्तीकरोतीति चार्थः ॥१॥