ननु चक्षुरादीनां करणत्वेऽपि प्रपदाभ्यां प्रविष्टस्य प्राणस्य करणत्वे किमायातमित्याशङ्कते –
किं पुनस्तदिति ।
तत्र प्राणस्यैव करणत्वं वक्तुं तावद्धृदयमनःशब्दवाच्यस्य चक्षुरादिभेदभिन्नत्वमाह –
उच्यत इति ।
यदेतद्धृदयमित्यत्र यच्छाब्दार्थमाह –
यदुक्तमिति ।
रेत इति ।
सारभूतं वीर्यमित्यर्थः । प्रजानां रेतो हृदयमित्यादिषु मनसश्चन्द्रमा इत्यन्तासु श्रुतिषु यदुक्तं हृदयं मनश्चेति तदेवैतत्त्वया पृष्टं करणमित्यर्थः ।
तदेवैकमेव सच्चक्षुरादिभेदेनानेकधाभूतमिति श्रुतिगतद्वितीयैतच्छब्दार्थमाह –
एकमेतदनेकधेति ।
अत्र येन चक्षुरादिना दर्शनादिक्रियां करोति सङ्घातात्मकः पुरुषः, तच्चक्षुरादिकं प्रजानां रेतो हृदयमित्यादिषु मनसश्चन्द्रमा इत्यन्तासु श्रुतिषु यदुक्तं हृदयं मनश्चेति करणं तदेतत्त्वया पृष्टमेतदेवैकं सदनेकधा भिन्नं चेति श्रुतिगतयेनेतितृतीयान्तयदितिप्रथमान्तयच्छब्दद्वयस्यैतदितिप्रथमान्तैतच्छब्दद्वयस्य चान्वयो दर्शितः ।
एकस्यैवानेकात्मकत्वं विशदयति –
एतेनेत्यादिना ।
सर्वकरणेति ।
सर्वाणि करणानि विषयाश्च व्यापारो स्येतिविग्रहः ।
करणानां विषयाणां च हृदयशब्दवाच्यबुद्धिव्यापारकत्वे श्रुतिमाह –
तथा चेति ।
प्रज्ञया चिदाभासयुक्तया बुद्ध्या वाचं करणं समारुह्य बुद्धेर्वागात्मना परिणामे सति तद्बुद्धिद्वारा स्वयमप्यात्मा वागभिमानी भूत्वाऽनन्तरं वाचोऽपि बुद्धिव्यापाररूपाया नामात्मना वक्तव्यशब्दरूपेण परिणामे सति वाचा वाग्द्वारे सर्वाणि नामान्याप्नोति तत्स्फुरणात्मना स्वयमपिवर्तत इति श्रुत्यर्थः । एवं प्रज्ञया चक्षुरित्यादिष्वप्यर्थो द्रष्टव्यः । अत्र बुद्धेर्वागाद्यात्मना परिणामो वागादेश्च नामात्मना परिणाम उक्त इत्यर्थः । “मनसा ह्येव पश्यती”त्यत्र मनसः साक्षाद्दर्शनादिकरणत्वायोगाच्चक्षुरादिभावमापन्नस्य दर्शनादिकरणत्वमुक्तमिति भावः । एवं हृदयेन हीत्यत्रापि द्रष्टव्यम् । आदिशब्देन हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति रूपाणां हृदयशब्दितबुद्ध्यात्मकत्वमुक्तं सङ्ग्राह्यम् ।
एवं हृदयस्य सर्वकरणात्मत्वमुक्त्वेदानीं तस्य प्राणात्मत्वमाह –
तदात्मकश्चेति ।
एवं हृदयमतोद्वारा प्राणस्य सर्वकरणात्मकत्वमुक्त्वा साक्षादेव प्राणस्य तदाह –
करणसंहतीति ।
तव वयं स्मो न शक्ष्यामस्त्वदृते जीवितुम् । इतरे चक्षुरादयः प्राणा इत्येवाऽख्यायन्त इत्यादिप्राणसंवादस्थवचनबलात्करणसम्हतिरूपत्वं करणसमूहरूपत्वं प्राणस्यावगतमित्यर्थः । आदिशब्देन संवर्गविद्यादिगतं “प्राणमेव वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः स यदा प्रतिबुध्यते प्राणादधि पुनर्जायन्ते”इत्यादिवाक्यं ग्राह्यम् ।
करणस्यानात्मत्वमुक्तमुपसंहरति –
तस्मादिति ।
ब्रह्मेति ।
ब्रह्मत्वेनोपास्यो ज्ञातव्य आत्मेत्यर्थः ।
तर्हि कस्तथा ज्ञातव्य इत्यत आह –
पारिशेष्यादिति ।
वक्ष्यमाणा इति ।
संज्ञानमित्यादिना वक्ष्यमाणा इत्यर्थः ।
येन वा पश्यतीत्यादि मनश्चैतदित्यन्तं प्राणस्य करणत्वेनानात्मत्वार्थमित्युक्त्वा संज्ञानमित्यादि वश इत्यन्तमन्तःकरणवृत्तिद्वारा तद्व्यतिरिक्तमुपलब्धारं दर्शयितुमाह –
तदन्तःकरणेति ।
निर्विशेषस्य कथं वृत्तिविषयत्वमन्यथा कथं तदुपलब्ध्यर्थता तासां स्यादत आह –
बाह्यान्तर्वर्तिविषयेति ।
तर्हि तासामन्यविषयत्वे ततो बाह्यान्तविषयप्रतीतिरेव स्यान्नाऽऽत्मन इत्यत आह –
उपलब्ध्यर्था इति ।
निर्विशेषत्वेनाविषयत्वेन चैतस्य साक्षादिन्तया ज्ञानासम्भवेऽपि संज्ञानाद्यन्तःकरणवृत्तिसाक्षितयाऽविषयत्वेनैव तस्योपलब्धिः सम्भवतीत्यर्थः । अविषयत्वार्थं प्रज्ञानरूपस्येति विशेषणम् । प्रकृष्टा ज्ञप्तिः स्वप्रकाशचैतन्यं तस्य विषयत्वे स्वप्रकाशत्वव्याहतिरत्यर्थः । ब्रह्मण इति विशेषणं निर्विशेषत्वार्थम् । सविशेषत्वे हि तस्य परिच्छेदेन ब्रह्मत्वं न स्यादित्यर्थः ।
नन्वसङ्गस्य कथमन्तःकरणवृत्तिसम्बन्धः स्यादत आह –
अन्तःकरणोपाधिस्थस्येति ।
असङ्गस्याप्यन्तःकरणप्रतिबिम्बद्वारा तद्वृत्तिसम्बन्ध इत्यर्थः ।
चेतनभाव इति ।
यया वृत्त्या चेतन इत्युच्यते जन्तुः सा वृत्तिः सर्वदा सर्वशरीरव्यापिनी संज्ञानमित्यर्थः । कलादिपरिज्ञानं चतुःषष्ठिकलादिजन्यं लौकिकं ज्ञानमित्यर्थः ।
प्रज्ञतेति ।
तात्कालिकप्रतिभेत्यर्थः । ययोत्तम्भनं भवति सा वृत्तिर्धृतिरित्यन्वयः ।
शरीराद्युत्तम्भकस्य वृत्तिविशेषस्य धृतित्वे लौकिकं व्यवहारं मानमाह –
धृत्येति ।
तत्र स्वातन्त्र्यमिति ।
मनस ईषा मनीषेति व्युत्पत्तेरित्यर्थः ।
रुजादिदुःखित्वभाव इति ।
रोगादिजन्यदुःखित्वप्राप्तिरित्यर्थः ।
सङ्कल्पनमिति ।
सामान्येन प्रतिपन्नानां रूपादीनां शुक्लादिरूपेण सम्यक्कल्पनमित्यर्थः ।
जीवनक्रियेति ।
जीवनप्रयत्न इत्यर्थः ।
स्त्रीव्यतिकरेति ।
स्त्रीसम्पर्क इत्यर्थः ।
इतिशब्दस्य प्रदर्शनार्थत्वमाह –
इत्येवमाद्या इति ।
एवमाद्या वृत्तयः प्रज्ञानस्य नामधेयानि भवन्तीत्युत्तरेणान्वयः । अत्र प्रज्ञानशब्देन पूर्ववत्प्रज्ञता वृत्तिरूपा नोच्यते । तस्याः संज्ञानादिनामवत्त्वानुपपत्तेः ।
किन्तु शुद्धचैतन्यमुच्यत इत्याह –
प्रज्ञप्तिमात्रस्येति ।
नन्वन्तःकरणवृत्तीनां शब्दरूपत्वाभावात्कथं प्रज्ञाननामधेयत्वमित्याशङ्क्य नामधेयस्य नामार्थोपलब्धिहेतुत्वात्संज्ञानादिवृत्तीनामपि प्रज्ञानोपलब्धिहेतुत्वात्तेन गुणेन तन्नामधेयत्वमुपचारादुच्यते न मुख्यया वृत्येत्याह –
उपलब्धुरुपलब्ध्यर्थत्वादिति ।
उपलब्धुरुपलब्ध्यर्थत्वं वा कथमित्याशङ्क्य तदुपाधित्वादित्याह –
शुद्धेति ।
यत उपाधिभूता उपलब्ध्यर्था अतो गौण्या वृत्त्या नामधेयानि भवन्तीत्यर्थः । यद्वा श्रुतौ संज्ञानादिशब्दैर्न वृत्तय उच्यन्ते किन्तु संज्ञानादिशब्दा एव लक्षणयाऽभिधीयन्ते गामुच्चारयतीत्यत्रेव ।
तथा च संज्ञानादिशब्दाः संज्ञानादिवृत्तिविशिष्टप्रज्ञानस्य नामधेयानि सन्ति, तद्द्वारा शुद्धस्यैव प्रज्ञानस्य लक्षणया नामधेयानीत्याह –
तदुपाधिजनितेति ।
वृत्त्युपाधिजनितो गुणो वृत्त्युपहितरूपं तन्नामधेयानि सन्ति सर्वाण्येवैतानि संज्ञानादीनि संज्ञानादिशब्दाः प्रज्ञानस्यैव नामधेयानि भवन्तीत्यन्वयः ।
प्राणन्नेवेति ।
प्राणनक्रियां कुर्वन्प्राणो नाम भवतीत्यनेन प्राणवृत्त्युपाधिकमात्मनः प्राणनामवत्त्वमुक्तम् । यद्यपि संज्ञानादिनाम्नां तत्र नोपाधिकत्वमुक्तं तथाऽपि तुल्यन्यायतयैतेषामप्यौपाधिकत्वमुक्तप्रायमिति भावः । एतदुक्तं भवति । संज्ञानादिशब्दाः प्रकाशात्मकवस्तुवाचिनः । न च साक्षादन्तःकरणवृत्तीनां जडानां प्रकाशात्मकत्वं सम्भवतीति प्रकाशात्मकवस्तुन्यध्यासादेव तासां प्रकाशात्मकत्वमिति कल्पयन्तोऽधिष्ठानभूतमतिरिक्तं प्रकाशं गमयन्तः पर्यवसानगत्या प्रकाशात्मनः प्रज्ञानस्यैव नामधेयानीति । अत्र संज्ञानादीनामनित्यत्वेन जडानां वृत्तीनां प्रकाशात्मकवस्तुवाचकसंज्ञानादिनामत्वानुपपत्तेस्तद्व्यतिरिक्तः कश्चित्प्रकाशारूपोऽस्तीत्युक्तम् । तथा संज्ञानादिशब्दवाच्यत्वोक्त्या तत्प्रज्ञानं विज्ञानं प्रज्ञानमित्यत्रेव प्रज्ञतारूपा वृत्तिर्न भवतीत्युक्तम् । तस्याः संज्ञादिवाच्यत्वानुपपत्तेः । तथा संज्ञानादीनि सर्वाण्येकस्य प्रज्ञानस्य नामानीत्युक्त्या च तत्प्रज्ञानमेकं सर्ववृत्त्यनुगतमित्युक्तं तदनेकत्वे तद्वृत्तिगतानां प्रज्ञानानां तत्तन्नामकत्वेन सर्वनामकत्वानुपपत्तेः । प्रज्ञानस्येत्येकवचनानुपपत्तेश्च । अतो येन वा पश्यतीत्यादिना नामधेयानि भवन्तीत्यन्तेन सर्वकरणतद्वृत्तिव्यतिरिक्तः स्वप्रकाशात्मकः सर्वसाक्षी सर्ववृत्त्यनुगत एक आत्मा शोधितः ॥२॥